लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ००५

विकिस्रोतः तः
← अध्यायः ००४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ५
[[लेखकः :|]]
अध्यायः ००६ →

श्रीकृष्ण उवाच-
शृणु राधे परेशस्य सेवां देवी तु मानसा ।
षष्ठीनाम्ना प्रसिद्धा या बालरक्षाकरी मता ।। १ ।।
सा तु सन्निहिता नित्यं करोति दिव्यरूपिणी ।
राधिकासदृशी रूपे लक्ष्मीसदृशी पोषणे ।। २ ।।
पार्वतीसदृशी प्रेम्णि रमासदृशी रामणे ।
कमलासदृशी स्पर्शे स्नेहे वै मातृसदृशी ।। ३ ।।
चिकित्सायां धन्वन्तरिसमा सा सेवते हरिम् ।
बालभावेन च वर्तमानस्याऽशक्तकस्य च ।। ४ ।।
असमर्थस्येव तस्याऽवनं भूतादितत्त्वतः ।
मूर्ताऽमूर्तात्मकाद् विघ्नाद् रक्षां करोति षष्ठिका ।। ५ ।।
अविघ्नस्य कुतो विघ्नं तथाऽप्यनुकरोति सा ।
लोकरीतिं भगवत इच्छया मानसा सती ।। ६ ।।
षष्ठ्यां षष्ठीपूजनं च कारयामास वाडवैः ।
रक्षां च कारयामास पिता वै लोमशर्षिणा ।। ७ ।।
दानानि भोजनानां च स्वर्णानामपि दक्षिणाः ।
ददौ गोपालकृष्णश्च परकृष्णनिमित्तजाः ।। ८ ।।
ग्रहाणां पूजनं देवपूजनं विप्रपूजनम् ।
मातृकापूजनं चापि कारयामास वाडवः ।। ९ ।।
सौराष्ट्रीया वाडवाश्च भुक्त्वा चानन्ततृप्तिदम् ।
आशीर्भिर्याजयामासुर्बालं प्राप्य धनानि च ।। 2.5.१ ०।।
उत्सवं चक्रिरे षठ्यास्त्रयोदश्या दिने शुभे ।
रात्रौ देव्यो नर्तनं च चक्रुः श्रीकृष्णसन्निधौ ।। १ १।।
भगवान् दिव्यरूपश्च कैशोरं भावमास्थितः ।
नृत्यं सेवां गीतिकाद्या लोकयामास वै हसन् ।। १२।।
अथ रात्र्यां व्यतीतायां प्रातर्बालो बभूव सः ।
शयने मातुरेवाऽयं स्वपिति नित्यजागरः ।। १३ ।।
षष्ठी रक्षति कान्तं श्रीकृष्णनारायणं प्रभुम् ।
दिवसे दुग्धपानेनाऽतर्पयज्जननी सुतम् ।। १४।।
कृष्णचतुर्दशीरात्रौ स्वापयामास पार्श्वके ।
स्वर्णपर्यंकके चन्द्रोज्ज्वले दिव्यमनोहरे ।। १५।।
षष्ठी जागर्ति रक्षार्थं माता स्वपिति निद्रया ।
अथ रात्रौ समायाता दैत्याः पातालवासिनः ।। १६।।
कामरूपधरा नारीस्वरूपैः कन्यका यथा ।
देव्यो दिव्याश्च ता भूत्वा बालं रमयितुं ययुः ।। १७।।
जन्मोत्सवे समायातैः प्रतिगतैश्च दैत्यकैः ।
बोधिता भगवद्रूपं प्रति पातालगाश्च ये ।। १८।।
मन्त्रिता भययुक्तैस्ते निवेदिताश्च वै तदा ।
भो भो दैत्येश्वराः सर्वे वित्त पृथ्व्यां महाप्रभुः ।। १ ९।।
सर्वावतारहेतुश्च धाम्नां परे स्थितस्तु यः ।
जग्राह स च जन्मैव निवासार्थं सदा भुवि ।।2.5.२०।।
अस्मद्बलविनाशार्थं काले काले स वै हरिः ।
यतिष्यते धरिष्यति चावतारान् पुनः पुनः ।। २१ ।।
अस्मत्कुटुम्बनाशश्च तद्वेशेन भविष्यति ।
देवरक्षां दैत्यनाशं भूतलादौ करिष्यति ।।२२।।
स एव मूलहेतुश्च सर्वाऽऽविर्भावकारणम् ।
तद्विनाशे भवेन्नाशः सदा दैत्यविरोधिनाम् ।।२३।।
मूलनाशे कुतः शाखास्तस्मान्मूलं निकर्तयेत् ।
विद्यते बाल एवाऽयं तावन्निकृन्तनं भवेत्। ।।२४।।
रोगः शत्रुरनलश्च हन्तव्या बालतः खलु ।
कृतमूला दुराधर्षास्त्रयो विनाशकारकाः ।।२५।।
अनादिश्रीकृष्णनारायणोऽस्मच्छत्रुकारणम् ।
शत्रवो नस्त्ववतारास्तस्य पुंसः परात्मनः ।।२६।।
सर्वेषामवताराणां मूलं चायं परेश्वरः ।
प्रतिकल्पं भवत्येव रामकृष्णादिकारणम् ।।२७।।
अस्य नाशे रामकृष्णनृसिंहपर्शुरामकाः ।
हयग्रीवो वामनश्च वासुदेवादयस्तथा ।।२८।।
कदापि न भविष्यन्ति तस्माद्धन्तव्य एव सः ।
यद्यप्यमोघसामर्थ्यो हन्तव्योऽपि न हन्यते ।।२९।।
तथापि कृतयत्नानां फलं किञ्चिद् भवेच्छुभम् ।
मत्वैवं तं मारयितुं कर्तव्यो यत्नकस्तथा ।।2.5.३ ०।।
यथा शाखा न जायेत न नश्येद् दैत्यमण्डलम् ।
इत्येवं कृतसंकल्पाः कल्मषः कज्जलस्तथा ।।३ १ ।।
कच्चरश्च मलश्चापि कर्दमः क्लेदनस्तथा ।
मेहनश्छिक्कनश्चापि क्षुवनः पर्दनस्तथा ।।३२।।
लालनो हंगनश्चापि ष्ठीवनो मेषनस्तथा ।
मर्दनो नोदनश्चैव कम्पनः स्फुर्जथुस्तथा ।।३३।।
खञ्जनः शोणघोणश्च कुदर्शश्च कुचेलकः ।
खातनासो दुर्गजंघोऽरण्यरोमा दरीश्रवाः ।।३४।।
गिर्यङ्गुष्ठौऽयुतहस्तो रसातलोदरस्तथा ।
एते चान्ये महादैत्या मन्त्रयित्वा परस्परम् ।।३५।।
यत्र पश्चात् स्थितोऽद्रिः रैवतस्तद्विवरेण ते ।
आययुः करशस्त्राश्च सोत्साहा युद्धदुर्मदाः ।।३६।।
कुंकुमवापिकाक्षेत्रे सभया निर्भया इव ।
पातालयानयुक्ताश्च शस्त्रशरेन्द्रजालिनः ।।३७।।
मायामन्त्रदैत्यविद्याकृतसैन्यातिसंकुलाः ।
अश्वपट्टसरसस्ते पश्चिमेऽरण्यकेऽवसन् ।।३८।।
प्रच्छन्नाश्च समागत्य बालं घातयितुं मुहुः ।
पश्यन्ति स्म च छिद्राणि चतुर्दश्या निशाऽऽन्तरे ।।३९।।
कोकिलारूपमागृह्य केचिद् घूकस्वरूपिणः ।
गोमायूरूपमापन्नाश्चान्ये सारसरूपिणः ।।2.5.४० ।।
कुररीरूपकाश्चान्ये परे मार्जाररूपिणः ।
सर्परूपास्तथाऽन्ये च घोरखननरूपिणः ।।४१ ।।
चित्रपर्णस्वरूपाश्च चिबरीरूपधारिणः ।
नकुलादिस्वरूपाश्च सरमारूपिणस्तथा ।।।४२।।
कंसारिकागृहगोधादंशमशकरूपिणः ।
आययुस्तत्र भगवाननादिश्रीपुमुत्तमः ।।।४३।।।
सूतिकाया भवनाभ्यन्तरे प्रच्छन्नवर्तनाः ।
अनादिश्रीकृष्णनारायणो जानाति तानपि ।।४४।।
करोति बालवन्निद्रां षष्ठी जानाति तानपि ।
दंशमशकगोधाद्या मार्जारनागकुक्कुराः ।।४५।।
षठ्या तत्रैव च हता रात्रौ नारायणेच्छया ।
मृतास्ते तु मृता एव मनसायाः पराक्रमात् ।।४६।।
घूककोकिलगोमायूसारसाद्यास्तु चाम्बरे ।
आगता ये हरिं हन्तुं तेऽपि षष्ठ्या प्रभारिताः ।।४७।।
अन्ये विलोक्य तान्नष्टान् रात्रावेव तु तच्छवान् ।
नीत्वा ययुस्तदारण्यं यत्र तेषां निवासनम् ।।४८।।
प्रातर्वै सूतिकागारे चिह्नानि रक्तजानि च ।
दृष्टानि तानि संशुद्ध्य दिने दीपोत्सवे प्रगे ।।४९।।
गोपालकृष्णकाद्याश्च शान्तिपाठानकारयत् ।
अथ ते दुःखमापन्ना मृतमित्रकुटुम्बिनः ।।2.5.५० ।।
दीपोत्सवतिथेः रात्रौ समाजग्मुश्च शस्त्रिणः ।
प्रच्छन्नाः श्रीप्रभुं हन्तुमसमर्थास्तु वै रुषा ।।।५१।।
निन्युर्देवीं मनसां तां षष्ठिकां निजघातिनीम् ।
सापि कान्तं महाकान्तं स्वामिनं श्रीपुमुत्तमम् ।।५२।।
जजाप हृदये तत्र नीयमाना महासुरैः ।
अथाऽस्या विदधे रक्षां तदात्मनि स्थितः प्रभुः ।।५३ ।।
महाकालाऽनलैश्वर्यं दाहकं भस्मकारकम् ।
षष्ठ्यां मुमोच भगवान् तेन दग्धाश्च तेऽभवन् ।।५४।।
तां देवीं ते समुत्सृज्य दूरं सर्वे पलायिताः ।
तदा देव्या स्वदेहाद्वै देवीसैन्यं प्रकाशितम् ।।।५५।।
कन्यकानां तु लक्षाणां सैन्यं विमानगं तथा ।
हंसस्थानां लक्षसैन्यं व्याघ्रस्थानां तु कोटिकम् ।।५६।।
सिंहस्थानां चार्बुदं च शरभस्थं दशाऽयुतम् ।
शक्तितोमरपाशादिशस्त्रयन्त्रादिशोभितम् ।।५७।।
असुरान् हन्तुमेवैताः कुमार्यश्चण्डविक्रमाः ।
अक्षताऽङ्गास्तदा शस्त्रैर्दिव्याश्चक्रुः प्रयोधनम् ।।५८।।
ताभिस्तत्र महारण्ये दैत्येशा बहवो हताः ।
विवरे ते मृताः क्षिप्ता अथाऽन्ये दैत्यपुंगवाः ।।५९।।
मुखे तृणानि संगृह्य नेमुः षष्ठीं महासतीम् ।
शरणं ते प्रपन्ना वै ते तदा नैव घातिताः ।।2.5.६ ०।।
ते तु तत्र वने जग्मुर्नतकन्धरमानसाः ।
अथ देव्यः कोटिशस्ता मुहुस्तत्र प्रशंसिताः ।।६१ ।।
षष्ठ्या विजयकारिण्यो वरयोग्या हरिं प्रति ।
आनीता दर्शिताः सर्वा बालकृष्णाय वै तया ।।६२।।
स्वामिना श्रीकृष्णनारायणेन वरदानकम् ।
वृणुतेत्यभिसंप्रोक्ता वक्रस्ताः सरसस्तटे ।।६३।।
वासं सेवां तथा मुक्तिं नाम तीर्थं तथा पतिम् ।
तथाऽस्त्विति हरिः प्राह ततस्ताश्च कुमारिकाः ।।६४।।
कुंकुमवापिकाक्षेत्रे चक्रुर्निवासमन्वहम् ।
तासां श्रीभगवान्नाम दीपावलीतिशोभनम् ।।६५।।
दिव्यतेजोमयरूपं चकार निजयोग्यकम् ।
कृत्वा तासां च रूपाणि द्वेधा दिव्यानि धामनि ।।६६।।
प्रेषयामास चान्यानि ररक्ष लोमशाऽऽश्रमे ।
लोमशर्षिर्हरिं प्राह नत्वाऽतिदयया मुनिः ।।६७।।
एता देव्यस्तव पत्न्यो भविष्यन्ति तवेच्छया ।
कुंकुमवापिकाक्षेत्रे तिष्ठन्तु ता मदाश्रमे ।।६८।।
लोमशस्याऽऽश्रमे तास्तु चक्रुर्वासं प्रहर्षिताः ।
दीपोत्सवं स्वर्गतुल्यं चक्रुस्तास्तत्र चाश्रमे ।।६९।।
अथोर्जशुक्लप्रथमे दिवसे प्रातरेव ह ।
चक्रुर्महोत्सवं तत्र नवान्नानां गृहे गृहे ।।2.5.७०।।
पक्वान्नानि विचित्राणि कृत्वा दिव्यस्वरूपिणे ।
अर्पयामासुरीशान्यो वाद्यं चक्रुश्च नर्तनम् ।।७१ ।।
प्रसादं भक्षयामासुश्चक्रुः रात्रौ महोत्सवम् ।
अनादिश्रीकृष्णनारायणमानर्चुरेव ताः ।।७२।।
रात्रौ सुप्तास्तदा सर्वे षष्ठी रक्षति बालकम् ।
अथ दैत्याः समायाताः पुनर्हन्तुं हरिं तदा ।।७३।।
षष्ठ्या विद्राविताः सर्वे पुनस्तत्र हरेर्बलात् ।
अथ ते सूतकं दैत्यं ययुर्नीत्वा निजाश्रयम् ।।७४।।
श्रीराधिकोवाच-
कोऽयं वै सूतको दैत्यो यश्चाऽवर्तत कुत्र च ।
किं जातं च ततः कृष्ण! वद कौतुहलं हि मे ।।७५।।
श्रीकृष्ण उवाच-
सूतकोऽयं महादैत्यो राधिकेऽसुरवंशभूः ।
यथोत्पन्नः शृणु यत्र वसत्येषो वरात्तथा ।।७६।।
पुरा हिरण्यकूर्चस्य युद्धं संकर्षणेन तु ।
समं ह्यभूत् यदा तत्र कमलं ब्रह्मणो मुहुः ।।७७।।
अकम्पत धृतं तेनाऽसुरेण च तदा ह्यजः ।
कम्पमानोऽभवद् भीतो ब्रह्मणो हृदयात्तदा ।।७८।।
कम्पाख्यश्चाऽभवत् पुत्रो भयनामा द्वितीयकः ।
स्वेदनाम तृतीयश्च शोकनामा चतुर्थकः ।।७९।।
विह्वलाख्यः पञ्चमश्च हाहाकारस्तु षष्ठकः ।
निराश्रयः सप्तमश्च परायत्तस्तथाऽष्टमः ।।2.5.८०।।
त एते संपरिवृत्य ब्रह्माणं प्राहुरीश्वराः ।
कथं वयं समुत्पन्नाः पितस्त्वत्तोऽत्र वारिधौ ।।८१ ।।
वद नोऽत्र तु कर्तव्यं शीघ्रं कुर्मोऽत्र तत्तथा ।
ब्रह्मा प्राह तदा पुत्रान् ब्रह्मकूर्चं महासुरम् ।।८२।।
वल्गतैतद्विनाशार्थं धैर्यहीनो यतो भवेत् ।
इत्याज्ञप्तास्तदा पुत्रा द्रुतं गत्वा महासुरम् ।।८३।।
ववल्गुर्ब्रह्मकूर्चं तं तदा संकर्षणाद्धि सः ।
गदया मृत्युमापन्नस्तस्य देहमलानि तु ।।८४।।
निःसृतानीन्द्रियेभ्यश्च मारविह्वलतावशात् ।
वीर्यमेहनजस्तस्य जन्माख्यः समभून्नरः ।।८५।।
मूत्रमेहनजस्तस्य सूतकाख्योऽभवन्नरः ।
मलापसरणात्तस्य निधनाख्योऽभवन्नरः ।।८६।।
करुणाऽऽक्रन्दनात्तस्य गर्जनाख्यो जलेऽभवत् ।
पर्दनाच्च तदा तस्य दुर्गन्धाख्योऽभवन्नरः ।।८७।।
कुक्षेस्तस्याऽभवद्रक्तनामा पुत्रस्तदाऽशुभः ।
शवाख्यस्तु च मलिनः पूयाख्यश्च ततोऽभवत् ।।८८।।
अनिष्टा धातवश्चैतेऽसुरा बभूवुरुद्धताः ।
शुभास्तु धातवस्तस्य कनकान्यभवंस्तदा ।।८९।।
त एतेऽसुरतो जाताः कुमारा वै भयान्विताः ।
शरण्यं श्रीमहासंकर्षणं नेमुश्च तुष्टुवुः ।। 2.5.९०।।
रक्ष रक्ष महावीर सर्वसंहारकृद्बलिन् ।
वयं स्मस्ते गदापुत्रा जीवदानं प्रदेहि नः ।।९१।।
तदा संकर्षणस्ताँश्चाऽभयदानं समाददात् ।
वासस्थानं भोजनं चाऽर्थयद्भ्यस्तेभ्य उत्तमम् ।।९२।।
संकर्षणो ददौ जन्मनराय दिवसान् दश ।
या नारी सूयते तस्या गृहे तिष्ठतु सूतकः ।।९३।।
रक्तदुर्गन्धपूयेभ्यो ददौ वासाय सूतिकाम् ।
जन्मा च सूतको रक्तो दुर्गन्धो पूय एव ते ।।९४।।
सहवासा निवसन्ति सूतिकायां ततः सदा ।
दशाहोत्तरमेवैते यान्ति जालेन सागरम् ।।९५।।
एवं जन्मसूतकाद्या आसुराः सन्ति दुःखदाः ।
अयं सूतकनामाऽसौ कम्भराया गृहे तदा ।।९६।।
लोकरीत्या निवासं चाकरोद् दशदिनानि वै ।
अथाऽन्ये निधनाख्यश्च शवो मलिनकस्तथा ।।९७।।
आसैंस्तदाऽर्थयामासुर्निवासं भोजनादिकम् ।
संकर्षणश्च तान् सर्वान् ददौ वै मृत्यवे तदा ।।९८।।
तदा च कालपुत्राय मृत्युर्यत्र च तत्र ते ।
निधनश्च शवो मृत्युर्मलिनः सूतकस्तथा ।।९९।।
एते तिष्ठन्ति तत्रैव यत्र कालनिदेशनम् ।
तदेते त्वासुराः सर्वे भयदा दुःखदास्तथा ।। 2.5.१० ०।।
अथाऽन्ये ब्रह्मणः पुत्राः कम्पाद्यास्तेऽपि वै तदा ।
यत्र मृत्युः समायाति तत्र गत्वा पुरा हि ते ।। १०१ ।।
निवसन्ति शवे जाते निःसरन्ति ततः स्थलात् ।
एवमेते कथितास्ते सुता पञ्चत्वदायिनः ।। १ ०२।।
अथ श्राद्धाख्यपुरुषस्तत्राऽपि ब्रह्मणा कृतः ।
यत्र वै निधनं तस्य कुटुम्बे वासमाचरत् ।। १ ०३।।
निमिना स्वस्य पुत्रस्य आत्रेयस्य विनाशने ।
श्राद्धं पूर्वं कृतं श्राद्धस्ततो लोके स्थिरोऽभवत् ।। १ ०४।।
एवं राधे कथितस्ते सूतकाख्योऽसुरो ह्ययम् ।
वर्तते सूतिकासौधे भ्रातृभिश्च समन्वितः ।। १ ०५।।
तमेनं सूतकं कृष्णगृहे स्थितं तु दैत्यकाः ।
निन्युः शिबिरं नैजं च दशमे दिवसे बलात् ।। १ ०६।।
श्रीहरेस्ते विनाशार्थं मन्त्रयामासुरुग्रजाः ।
आज्ञां चक्रुः सूतके ते शीघ्रमानय बालकम् ।। १ ०७।।
पातालं संप्रवेक्ष्यामो नीत्वा तं श्रीहरिं प्रभुम् ।
तत्रैव मारयिष्यामो घातयिष्याम आत्मतः ।। १ ०८।।
अन्यथा घातयिष्यामस्त्वामेव सूतकोत्तम ।
याहि शीघ्रं कुरु कार्यं रात्रौ बालं समानय ।। १ ०९।।
दैत्यानां तु च साहाय्यं त्वया कार्यं वृषस्तव ।
इत्युक्तः स सूतकश्च सूतिकागृहमागतः ।। 2.5.११ ०।।
अर्धरात्रे व्यतीते च निद्रां यातः सखीजनः ।
षष्ठी चापि क्षणं तत्र योगनिद्रामवाप ह ।। १११ ।।
अनादिश्रीकृष्णनारायणस्वामीच्छया तु सः ।
सूतकः श्रीहरिं शय्यास्थानाज्जहार तामसे ।। ११२।।
अन्धकारे निनायैनं शिविरं दैत्यवासितम् ।
दैत्या जहृषुर्बहुधा चक्रुः किलकिलायितम् ।। १ १३।।
उत्थाप्य शिबिरं सर्वं ययुः पातालमाक्षणात् ।
मारयितुं च ते कृष्णनारायणं परेश्वरम् ।। १ १४।।
निन्युर्घातकशालां च तावद् यमाधिपस्य यः ।
श्रावणाख्यो महादूतः सर्वज्ञः सर्वगोऽतिदृक् ।। १ १५।।
शेषनारायणायैतद् विज्ञापयितुमागतः ।
नाथनाथ जगन्नाथ जगदाधार केशव ।। १ १६।।
अनादिश्रीकृष्णनारायणो दैत्यैर्विहन्यते ।
पाताले बालको नीतो घातकीकुटिकां प्रतिं ।। १ १७।।
रक्ष रक्ष महाराज सर्वकारणकारणम् ।
एवं विज्ञापितो देवो क्षीरोदे शेषशायनः ।। १ १८।।
तूर्णं क्षणाच्च पाताले स चक्रबलवाहनः ।
समायातस्तदा दध्मौ शंखं तीव्रं प्रतापवान् ।। १ १९।।
ध्मायमानेन शंखेन कृतशब्दैस्तदा स्त्रियः ।
गर्भानमुञ्चन् दैत्यानां कर्णस्फोटास्तथाऽभवन् ।। 2.5.१२०।।
नागाः सर्वे च शेषेण मिलिता रणगामिनः ।
दैत्यैर्युद्धं तदा कर्तुं निर्ययुर्धृतसाधनाः ।। १२१ ।।
दैत्या अपि तदा बालं त्यक्त्वा योद्धंु समागताः ।
सूतको रक्षति बालं बालभक्तो दयावशः ।। १ २२।।
कृष्णनारायणस्याऽग्रे लक्ष्मीः सुदर्शनं तथा ।
गरुडो नन्दसुनन्दौ पार्षदा पार्वती प्रभा ।। १२३ ।।
राधा रमा च माणिक्या मञ्जू हंसा तथाऽपराः ।
सगुणा ललिता मुक्ता जया हैमी च देविका ।। १२४।।
दया चम्पा मौक्तिका च शान्तिः शान्ता मनुस्तथा ।
अन्याः सख्यस्तथा मुक्ताः श्रुत्वा शंखनिनादनम् ।। १२५।।
आययुस्तत्र पाताले यत्र कृष्णनरायणः ।
सूतको दीनवज्जातस्त्वपराधकरो यतः ।। १ २६।।
किन्तु रक्षति संछन्नो यतो भक्तो हरेर्हि सः ।
प्रसह्य दैत्यभीतेस्तु नीतवान्न निजेच्छया ।। १ २७।।
तेनाऽयं रक्षितस्तत्र पुमुत्तमेन लीलया ।
इच्छाऽप्येवं हरेरासीत् कस्तां वारयितुं क्षमाः ।। १ २८।।
सूतकेन च पृष्ठेन कथितं हरणं यथा ।
कृतं सुरक्षणं सर्वं लक्ष्म्याद्यास्तेन तोषिताः ।। १२९।।
धन्यवाद्ं ददुस्तस्य कान्तं चांऽके दधुस्तदा ।
सेवयामासुरेवैनं रात्रौ क्षणान्तरे तदा ।। 2.5.१३ ०।।
दैत्यानां शेषनाथेन युद्धं चाऽभूद्भयानकम् ।
चक्रेण भेदिता दैत्या अनुत्थानपुनर्भवाः ।। १३१ ।।
मृता ये ते गताः सर्वे त्वैन्द्रजालिकया सह ।
यमराजपुरं प्राप्ताः शेषाः सर्वे पलायिताः ।। १३२।।
सूतकश्च हरिं नीत्वा सहलक्ष्म्यादिभिर्ययौ ।
यत्र शेषप्रियो नाथो विष्णुर्नारायणः प्रभुः ।। १३ २।।।
ददौ नारायणाय श्रीविष्णवे बालकं प्रभुम् ।
शेषनाथो ययौ नत्वा क्षीरोदं च रमादिकाः ।। १ ३४।।
सूतकेन सह जग्मुः सूतिकाभूतलगृहम् ।
तावत्प्रातः प्रसञ्जातं जगुश्च कृकवाकवः ।। १ ३५।।
निद्रां त्यक्त्वा च बुबुधुर्बालं हरिं तु निद्रितम् ।
बोधयामासुरेवैते मात्राद्याः परमेश्वरम् ।। १ ३६।।
नैव जानन्ति ते कृष्णचरित्रं रात्रिजं यतः ।
लक्ष्म्या निवेदितं सर्वं सूतकस्य च वर्तनम् ।। १३७।।
तदा शान्तिप्रपाठाँश्च कारयामास वै पिता ।
पुत्रं पुनर्नवं जातममन्यन्त कुटुम्बिनः ।। १ ३८।।
सूतकाय च भक्ताय दिने त्वेकादशे प्रगे ।
वरं ददौ हि भगवान् दिव्यां पूजां सुलप्स्यसे ।। १३९।।
एकादशे दिने त्वां वै लोका दिव्यविशेषकैः ।
स्नानपानसुभोज्याद्यैस्तोषयिष्यन्ति भावतः ।। 2.5.१४०।।
दिव्यो मम कथाकारः सूतरूपो भविष्यसि ।
यत्राऽहं तत्र ते वासोऽन्यरूपेण भविष्यति ।। १४१।।
सर्वप्रजासु ते वासो भविष्यति न संशयः ।
विलयं यास्यति तेऽद्यदिनादासुरभावनम् ।। १४२।।
इत्युक्तः सोऽभवद् भक्तः सूतकोऽपि हरेर्वशः ।
सूततां च गतो गाथाः श्रावयन् मोक्षदोऽपि च ।। १४३।।
इत्येवं कथितो राधे चमत्कारो हरेर्यथा ।
दशमे दिवसे जातो नामकर्म वदामि ते ।। १४४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालरूपप्रभोः षष्ठीकृतरक्षणं, दैत्यैः कृतं पाताले सूतकपूरुषद्वाराऽपहरणं, सूतकाद्युत्पत्तिः, शेषनारायणकृतरक्षणं, सूतकस्य भक्तत्वं, सूतत्वं चेति निरूपणनामा पञ्चमोऽध्यायः ।। ५ ।।