लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५६४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६५
[[लेखकः :|]]
अध्यायः ५६६ →

श्रीलक्ष्मीरुवाच-
केन केन विधानेन जनः कर्माणि कारयेत् ।
भुक्तिं मुक्तिं गृहस्थोऽपि येन साफल्यमाप्नुयात् ।। १ ।।
श्रीनारायण उवाच-
शृणु सर्वं कथयामि गृहस्थोऽपि क्रियापरः ।
कामलोभादियुक्तोऽपि जन्मसार्थक्यमाप्नुयात् ।। २ ।।
मयि चित्तं समास्थाय ममताऽहंविवर्जितः ।
मां प्रधार्य सदा भोग्ये भोक्तर्यपि क्षमापरः ।। ३ ।।
फलमूलानि शाकानि पयोव्रतादि सञ्चरन् ।
षष्ठ्यष्टमी ह्यमावास्या तूभयत्र चतुर्दशी ।। ४ ।।
व्रताहानि पर्वकालो द्वादशी श्राद्धपूजनम् ।
मैथुनं नाभिसेवेत तेषु निमित्तकेष्वपि ।। ५ ।।
सर्वं कुर्याच्च मां स्मृत्वा मदर्थं चेत्करोति वै ।
मयि योगविधानेन कर्म कुर्याद् दृढव्रतः ।। ६ ।।
पूतात्मा धर्मसंयुक्तो मयि स्नेहपरायणः ।
न म्लानिर्न जरा तस्य न मोहो रागमत्सरौ ।। ७ ।।
व्यवधानकरा यस्य ममलोकं स गच्छति ।
आजीवनं मम पूजां कृत्वा धाम्नि महीयते ।। ८ ।।
एतच्छ्रुत्वा पुनर्लक्ष्मीः पप्रच्छ पुरुषोत्तमम् ।
कस्मिन् काले तव पूजा कथं कार्या वदाऽत्र मे ।। ९ ।।
काले काले च देवेश कीदृशं कर्म ते कृते ।
कथं संस्थापनं तेऽत्रावाहनं च विसर्जनम् ।। 1.565.१ ०।।
धूपं दीपं कीदृशं च गृह्णासि वद मे हरे! ।
कथं पाद्यं स्थापनं च गृह्णास्यपि विलेपनम् ।। ११ ।।
आसनं शयनं यानं कन्दमूलफलानि च ।
कथं गृह्णासि भगवन् कीदृशं चार्पितं शुभम् ।। १२।।
शरदि कीदृशं कर्म शिशिरे कर्म कीदृशम् ।
वसन्ते कीदृशं कर्म ग्रीष्मे किं कर्म ते मतम् ।। १ ३।।
प्रावृट्काले च किं कर्म वर्षान्ते कीदृशं चरेत् ।
यानि तत्रोपभोग्यानि पुष्पाणि च फलानि च ।। १४।।
अर्चायाः किं प्रमाणं ते स्थापनं कीदृशं मतम् ।
परिमाणं कियत् तस्या उपवासश्च कीदृशः ।। १५।।
पीतं रक्तं पाटलं वाऽम्बरं गृह्णासि कीदृशम् ।
तेषां हितकरं वस्त्रं किंरूपं तव सम्मतम् ।। १६।।
केषु द्रव्येषु सम्मिश्रं मधुपर्कं च ते मतम् ।
मधुपर्कस्य दानस्य पुण्यं गुणाश्च कीदृशाः ।। १७।।
केषु लोकेषु गच्छन्ति मधुपर्कस्य भक्षकाः ।
किम्प्रमाणं प्रदातव्यं मधुपर्कादिकं पुरा ।। १८।।
कानि शाकानि चान्नानि पेयान्यपि प्रियाणि ते ।
केन मन्त्रविधानेन प्राशनं ते प्रदीयते ।। १९।।
व्रते त्वां पूजयित्वा च यथा स्यान्नापराधकः ।
कथं तथा वर्तितव्यं पूजायां स्पर्शने तथा ।।1.565.२०।।
कानि कर्माणि कुर्वीत तव भक्तस्य भोजने ।
प्रापणं ते कथं कार्यं पात्रं कीदृशमुच्यते ।।२१ ।।
प्रसादं ते च के लोके भुञ्जन्ति पावनं परम् ।
ये च एकाशिनो भक्ता अर्चयन्ति च केशवम् ।।२२।।
स्मरन्ति सततं त्वां च तव भक्तेषु वासिनः ।
तेषां तु का गतिर्देव तव भक्तिं प्रकुर्वताम् ।।२३।।
कृच्छ्रसान्तपने रक्ता वाय्वाहाराश्च वा व्रते ।
कृष्णस्पर्शं प्रकुर्वन्ति प्रपद्यन्ते च कां गतिम् ।।२४।।
अक्षारलवणा ये च तव कार्यपरायणाः ।
पयोव्रताश्च ये भक्तास्ते प्रयान्ति च कां गतिम् ।।२५।।
गोदुग्धादिसमाहारा गवां सेवापरायणाः ।
उञ्च्छवृत्तिपरा भक्ताः प्रयान्ति कीदृशीं गतिम् ।।२६।।
भिक्षोपजीविनो ये च गृहस्थधर्ममाश्रिताः ।
माधवे सर्वदा सक्ताः कां प्रयान्ति गतिं तु ते ।।२७।।
तव क्षेत्रेषु तीर्थेषु प्राणान् मुञ्चन्ति ये जनाः ।
पञ्चाग्नीनां प्रतप्तारः कां गतिं नाथ यान्ति ते ।।२८।।
पञ्चातपे मृता ये च भृगुपाते मृतास्तथा ।
कटशय्याप्रसुप्तारो व्योमशयनमास्थिताः ।।२९।।
गोव्रजे शायिनश्चापि तव भक्तिपथे स्थिताः ।
तव दर्शनकर्तारः कां गतिं यान्ति केशव ।।1.565.३ ० ।।
शाकाहारं कणाहारं गव्याहारं यवादनम् ।
सक्त्वाहारं च कुर्वन्ति भजन्ते त्वां निरन्तरम् ।।३ १।।
पयःपानपरा वापि कां गतिं यान्ति तेऽनुगाः ।
शिरसा दीपकं धृत्वा येऽभियन्ति तवाऽऽलयम् ।।३२।।
पत्रं पुष्पं फलं तोयं काष्ठं धृत्वा च मस्तके ।
तव सेवां प्रकुर्वन्ति कां गतिं यान्ति तेऽनुगाः ।। ३३।।
अश्माशनं व्रतं कृत्वा प्रपद्यन्ते तु नित्यशः ।
पत्राहाराः प्रदक्षिणपरायणाश्च ते जनाः ।।३४।।
स्वधर्मचारिणः साध्वीसाधुसेवापरायणाः ।
जानुभ्यां च प्रसर्पन्तस्तव क्षेत्रं प्रयान्ति ये ।।३५।।
दण्डवन्नमनैश्चापि ये प्रयान्ति तवाऽऽलयम् ।
तेषां तु का गतिर्देव! तव लोके भविष्यति ।।३६।।
उत्तानशयनं कृत्वा दीपं ते धारयन्ति ये ।
अवाङ्मुखास्तु भूत्वा वा प्रयान्ति तव मन्दिरम् ।।३७।।
पुत्रदारगृहान् मुक्त्वा ये त्वां शरणमागताः ।
तेषां तु का गतिः सिद्धा कथयस्व नरायण ।।३८।।
त्वां भजँश्च गते जीवे मधुपर्कसमन्विते ।
वह्निदाहे जलवाहे क्षित्याश्रये च वर्ष्मणि ।।३९।।
सांख्ययोगसुविज्ञानः प्रपद्यते च कां गतिम् ।
त्वत्क्षेत्राऽर्पितदेहाश्च त्यागमार्गमुपाश्रिताः ।।1.565.४० ।।
तव नामपरा नित्यं नमो नारायणाय च ।
ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा ।।४१ ।।
इति जापपरा ये च नरा नार्योऽपि सर्वथा ।
तव धर्मपरास्तेषां कीदृशी तु गतिर्मता ।।४२।।
रणे शस्त्रहता कृष्णनारायण गृणन्ति च ।
नामप्रकीर्तनात्तेषां कीदृशी तु गतिर्भवेत् ।।४३।।
अकस्मान्मरणं प्राप्ता आवेशेन मृता अपि ।
तव स्मृतिपरा ये च कां गतिं यान्ति माधव! ।। ४४।।
अहं शिष्या च दासी च तव भक्त्या व्यवस्थिता ।
भाषितोऽसि मया ह्येवं सर्वलोकसुखावहम् ।।।४५।।।
रहस्यं धर्मसंयुक्तं तव भक्तिसमन्वितम् ।
सञ्चिन्त्य लोकलाभार्थं तद्भवान् वक्तुमर्हति ।।४३ ।।
नारीं विना नरा ये च याश्च नार्यो नरान् विना ।
कामतृप्तिं गता नैव तव भक्तिपरायणाः ।।४७।।
अतृप्ताश्च मृता लोके भोग्येच्छासहिता जनाः ।
कां गतिं ते प्रपद्यन्ते त्यागिनो विधवादिकाः ।।४८।।
अप्राप्तकामभोगाश्च कुमारमरणान्विताः ।
तव दास्यपरा नार्यो नरा यान्ति च कां गतिम् ।।४९।।
तव दीक्षापराश्चापि तव भिक्षादनाः सदा ।
तव भक्तेषु भक्तासु रताः कामावसायिनः ।।1.565.५०।।
तवैव प्रेमपात्रेषु प्रेममात्रपरायणाः ।
नान्यत्र गमना ये च नरा नार्यश्च वैष्णवाः ।।।५१ ।।
तव प्राप्तीच्छया नान्यं वाञ्च्छन्ति हृद्ये क्वचित् ।
एवंविधा महाभक्ताः सर्वस्वार्पणकारकाः ।।५२।।
गतिं कां ते प्रपद्यन्ते तन्ममाचक्ष्व माधव ।
गुरवो लोकराजानो गृहस्था भोगसंवृताः ।।५३।।
विषयेषु निमग्नाश्च कां गतिं यान्ति तेऽनुगाः ।
यद्यपि परमं गुह्यं मम प्रीत्या वदस्व तत् ।।५४।।
इत्युक्तो भगवान् विष्णुः कृष्णनारायणः पतिः ।
लक्ष्मीमुवाच तान् धर्मान् निजधर्मपरायणः ।।५५।।
यत् त्वया पृच्छ्यते लक्ष्मि! तच्छृणुष्व सुखावहम् ।
यथाकथंचिद् वृत्तिर्मे भक्तो दुःखं न यान्ति वै ।।५६।।
नाहं दानसहस्रेण नाऽहं यज्ञशतैरपि ।
नापि वित्तेन तुष्यामि तुष्यामि प्रेममात्रतः ।।५७।।
मयि चित्तं समाधाय यो मां भजति माधवि! ।
नित्यं तुष्यामि तस्याऽहं भक्तं मे बहुदोषकम् ।।५८।।
ये नमस्यन्ति मां भक्त्या नार्यो नराश्च मद्रताः ।
अर्धरात्रेऽन्धकारे वा मध्याह्ने वाऽपराह्णके ।।५९।।
यच्चित्तं नान्यमाधत्ते मम मूर्तौ व्यवस्थितम् ।
मत्प्राणा मद्रतौ सक्ता मल्लोमामत्क्षुधापराः ।।1.565.६ ०।।
मत्तृषा मत्सहवासा मदनंगपरायणाः ।
मम ताम्बूलभोगाश्च मम चूम्बनकारिणः ।।६ १ ।।
मम पार्श्वे प्रसूप्ताश्च ममारोहणतत्पराः ।
मदंगसंगकृद्ध्याना मम निर्वृत्तिधारणाः।।६२।।
ते मामेव प्रपश्यन्ति मयि कर्मपरायणाः ।
लब्धलाभा गुणज्ञाश्च मम भक्तौ व्यवस्थिताः ।।६३ ।।
मम लोके वसन्त्येते मम पार्श्वे ममाश्रिताः ।
मच्छय्यायां रमन्ते ते नरा नार्यो ममानुगाः ।।६४।।
स्वल्पकेन न गम्यन्ते ममाऽऽनन्दा मम प्रिये! ।
क्षणभक्तकृते लक्ष्मि! दुष्प्राप्योऽहं नरायणः ।।६५।।
मम कर्माणि कुर्वन्ति मां प्रपश्यन्ति माधवि! ।
व्यवस्थिताश्च मे भक्तौ स्वार्थेऽपि तादृशाश्च ये ।।६६ ।।
तेभ्यो ददामि भोगार्थं लोकान् स्वर्गादिकान् प्रिये ।
द्वादश्यामुपवासं च कृत्वा भक्तिपरायणः ।।६७।।
तीर्थजलाञ्जलिं प्रातश्चादित्याय समर्पयेत् ।
नमो नारायणायेति सूर्यं व्योम्नि विलोकयेत् ।।६८।।
यावन्तो बिन्दवः सूक्ष्माः पतन्त्येवाञ्जलेर्जलात् ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।६ ९।।
श्वेतपुष्पैः पूजयन्ति द्वादश्यां मां तु ये जनाः ।
मृष्टैर्धूपैर्धूपयन्ति हृदि कृत्वा स्मरन्ति माम् ।।1.565.७०।।
नमोऽस्तु विष्णवे गृह्ण प्रीयतां भगवन्मम ।
नमोऽस्तु भोजनं गृह्ण प्रीयतां च जलं पिब ।।७१ ।।
एवं मां पूजयेत्प्रेम्णा शास्त्राणि शृणुयान्मम ।
मम लोकं स गच्छेद्वै जायेतापि चतुर्भुजः ।।७२।।
श्यामाकं गोधूमकं च मुद्गं शालिं यवं तथा ।
नीवारं कङ्गुकं चैतन्मुन्न्यन्नं सात्त्विकं सदा ।।७३ ।।
मम नैवेद्यकं कृत्वा भुञ्जीत मत्परायणः ।
यानि कर्माणि कुर्वीत मम भक्तिपरायणः ।।७४।।
षट्कुर्मनिरतश्चापि ममाऽहंकारवर्जितः ।
लाभाऽलाभौ परित्यज्य भिक्षाहारो जितेन्द्रियः ।।७५।।
मम कर्मसमायुक्तः पैशुन्येन विवर्जितः ।
शास्त्रानुसारिमध्यस्थो न वृद्धशिशुचेतनः ।।७६ ।।
ब्राह्मणोऽपि तथाभूतो याति मां परमेऽक्षरे ।
मम सारूप्यमाप्यैव भोगान् भुंक्ते मया सह ।।७७।।
क्षत्रियो दानशूरश्च यथाधर्मे व्यवस्थितः ।
यज्ञेषु कुशलः शुद्धो मम कर्मसु योगवान् ।।७८।।
ममाऽहंकारशून्यश्च गुणज्ञौ मध्यसंस्थितः ।
अल्पभाषी गुरुविद्योऽनसूयो निन्द्यवर्जितः ७९।।
अभ्युत्थानादिकुशलो नित्यं भागवतप्रियः ।.
पैशुन्यशाठ्यरहितो यो मां स्मरति नित्यशः ।।1.565.८०।।
भजते मां च यो नित्यं मम धाम प्रगच्छति ।
वैश्योऽपि मम भक्तिस्थो नित्यकर्मपरायणः ।।८१ ।।
लाभालाभसमः शान्तो ममाऽहंमोहवर्जितः ।
ऋतुकालाभिगामी च सदा भक्तेषु वत्सलः ।।८२।।
गुरुसम्पूजको नित्यं मम पूजापरायणः ।
तस्याऽहं न प्रणश्यामि स च मे न प्रणश्यति ।।८३ ।।
शूद्रो दासो मम भूत्वा करोति कर्म किंकरः ।
दम्पती मम भक्तौ स्तो मम कर्मपरायणौ ।।८४।।
उभौ भागवतौ भक्तौ मद्भक्तौ कर्मनिष्ठितौ ।
देशकालौ च जानीतो रजसा तमसोज्झितौ ।। ८५।।
अहंममताशून्यौ च श्रद्धाविनयशोभितौ ।
पूतात्मानौ लोभमोहहीनावतिथिपूजकौ ।।८६।।
नमस्कारपरौ नित्यं मम सेवापरायणौ।
भजमानौ च मामेव देवदर्शनकारिणौ ।।८७।।
मम ध्यानपरौ नित्यं दास्यभावाऽन्वितौ मयि ।
एवं शूद्रश्च वा शूद्री मम कर्म समाचरेत्। ।।८८।।
त्यक्त्वा ऋषिसहस्राणि शूद्रं भक्तं भजाम्यहम् ।
त्यक्त्वा लाभमलाभं च मोहं कामं विसृज्य च ।।८९।।
शीतोष्णाभ्यां विप्रयुक्तो नित्यं मां यो विचिन्तयेत् ।
न तिक्ते च कटौ मिष्टे चाम्ब्ले क्षारे कषायके ।।1.565.९०।।
स्पृहा रस्ये लेह्यचोष्यभक्ष्यपेयादिषु क्वचित् ।
भार्यां पुत्रं कुटुम्बं च पोषयन् मत्परायणः ।।९१ ।।
धृतिश्रद्धापरो नित्यमन्यकार्यजुगुप्सकः ।
बाल्ययौवनवार्धक्यवासनावर्जितः सदा ।। ९२।।
स्वल्पभोगी देहयात्रानिर्वाहमात्रसद्ग्रहः ।
कारुण्यः सर्वसत्त्वानां प्रत्युत्थानपरस्तथा ।।९३।।
मौनं विशेषतो धृत्वाऽर्चयत्येव च मां सदा ।
अन्यभोजनदानाद्युत्तरं भोजनवान् व्रती ।।९४।।
अनुष्ठानपरश्चापि मम पार्श्वे मनश्चरः ।
काले मूत्रपुरीषाणि विसृज्य स्नानतत्परः ।।९५।।
पुष्पे धूपे च गन्धे च मम कार्ये सदा रतः ।
कन्दमूलफलाहारो यवसक्तुपराशनः ।।९६।।
षष्ठकाले नवकाले दशमे पक्षकेऽदनी ।
एवं मदर्थं कर्माणि सप्तजन्मानि विन्दति ।।९७।।
मदर्थं त्यक्तसम्बन्धास्त्यागमात्रपरायणाः ।
सन्तः साध्व्यस्त्यागरक्ता मम सेवार्थजीवनाः ।।९८।।
ये भवन्ति महादीक्षावन्तो नराश्च योषितः ।
तान्प्रपश्यंति प्रातश्च नित्यं योगिजना अपि ।।९९।।
एवमुक्तविधानेन यस्तु कर्माणि वर्तयेत् ।
तमहं मम पार्श्वे वै रक्षामि त्वां यथा प्रियाम् ।। 1.565.१ ००।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सर्वेषां महाभागवतीक्रियाभिः लक्ष्मीकृतप्रश्नानुसारेण तदुत्तरकर्मनैष्कर्म्यात्मिकाभिः श्रीहरिधामवासादिकथननामा पञ्चषष्ट्यधिकपञ्चशततमोऽध्यायः ।। ५६५ ।।