लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५६२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५६१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६२
[[लेखकः :|]]
अध्यायः ५६३ →

श्रीनारायण उवाच--
शृणु लक्ष्मि! शंभुना कीर्तितां कथामघापहाम् ।
पार्वत्यै ऋक्षकाद्रौ तां कथयामि प्रपावनीम् ।। १ ।।
वसुदानोऽभवद् राजाऽवध्यायाः सार्वभौमकः ।
ईजे यागसहस्रेण हयमेधेन माधवम् ।। २ ।।
सपादलक्षमधिकं सर्वा जीवन्ति तत्प्रजाः ।
तदा दैत्याश्च रेवायास्तटे वै दक्षिणे शठाः ।। ३ ।।
केतुमाली सुकेतुश्च सुमुखो दुन्दुभिस्तथा ।
धर्मविघ्नप्रकर्तारोऽभवन् यज्ञविभंजकाः ।। ४ ।।
अमरकण्टके यज्ञान् कर्तुं वाञ्च्छति कोऽपि न ।
तदा राजा ययौ रेवां यज्ञं कर्तुं महाबलः ।। ५ ।।
ब्राह्मणैः सहितो विद्वान् ऋत्विग्भिर्वेदपारगैः ।
गवां च पञ्चलक्षाणि सवत्सानां पयोमुचाम् ।। ६ ।।
सपादलक्षमश्वानां दन्तिनामयुतं तथा ।
मणिमाणिक्यरत्नानि हेमरूप्यवसूनि च ।। ७ ।।
विविधं भक्ष्यभोज्यं च आज्यं व्रीहितिलांस्तथा ।
मण्डपान् यज्ञयूपाँश्च समादाय स भूपतिः ।। ८ ।।
गत्वा संशोधयामास भूमिं चकार मण्डपान् ।
वेदिका यज्ञकुण्डाँश्च स्थापयामास चानलम् ।। ९ ।।
जुहावाऽऽज्यानि हव्यानि तोषयामास माधवम् ।
देवान् पितॄनृषीन् विप्राँस्तर्पयामास भोजनैः ।। 1.562.१ ०।।
दक्षिणादिप्रदानैश्च जीवान् कणतृणादिभिः ।
असुराणां समवायो विघ्नार्थं चाययौ तदा ।। ११ ।।
राज्ञा दिव्यास्त्रसन्धानैर्हतो विद्रावितश्च सः ।
एवं प्रवर्तितो यज्ञो निर्विघ्नो वासुदानकः ।। १ २।।
आवभृथ्योदकैः क्लिन्ना वसुधा हेमनिर्मिता ।
बभूवुर्लुलिता ये तु कर्दमे मृगपक्षिणः ।। १३ ।।
ते हेमवर्णकास्तत्र बभूवुः पुण्ययोगतः ।
युगपज्जलधाराभिर्ब्रह्मविष्णुमहेश्वराः ।। १४।।
पूजितास्तज्जलं चैकीभूय प्रस्रवणात्मकम् ।
तथा स्नानोदकं सर्वदेवानामृषिभिः कृतम् ।। १५ ।।
तत्प्रवाहोऽपि मिलितस्तत्र प्रस्रवणे तदा ।
गवां मुत्रप्रवाहाश्च लक्षाणां तत्र संगताः ।। १६ ।।
भक्ष्यभोज्यादिशिष्टानां क्षीराज्यानां च निर्झराः ।
होमप्रसादभूतानां दुग्धानां च प्रवाहकाः ।। १७।।
मिलिता यज्ञनिम्ने ते प्रवाहा आपगात्मकाः ।
कपिला नाम वै चित्रजला सरित्प्रपावनी ।। १८।।
नर्मदां संगता सोऽयं रुद्रावर्तः प्रदेशकः ।
देवर्षिमुनिभिश्चित्रजलान्यालोक्य सा नदी ।। १ ९।।
कपिलेति कृता नाम्ना दक्षिणातोषणोत्तरम् ।
वरं ददुस्ते राज्ञे वै कपिलासंगमे च ये ।।1.562.२० ।।
नर्मदायां प्रस्नास्यन्ति द्रक्ष्यन्ति च महेश्वरम् ।
विष्णुं नारायण तेऽत्र दिव्यानैः परं पदम् ।।२ १ ।।
यास्यन्ति चापि कीटाद्या ये मरिष्यन्ति चात्र वै ।
एवं वरं परं दत्वा सर्वे ययुर्निजालयान् ।। २२।।
वसुदानः क्रतुं कृत्वाऽवध्यायां समुपागतः ।
श्रवणात् कीर्तनादस्य मुच्यते भवबन्धनात् ।।२३ ।।
अथाऽभूद् विश्रवा राजा मथुराया महाबली ।
अरुन्धतीप्रसूताया दाक्षायण्याः सुतो हि सः ।।२४।।
तीर्थयात्राप्रसंगेन ययावमरकण्टकम् ।
स्नात्वा ध्याने स्थितो राजा नर्मदायास्तटे यदा ।।२५।।
तावत् पश्यति मध्याह्ने प्रतीच्यादित्यमण्डलात् ।
द्वौ सूर्यौ पूर्वदिग्भागे गतौ द्वौ दक्षिणां दिशम् ।।२६।।
द्वौ पातालं तथा चोर्ध्वं द्वौ सूर्यौ चण्डरूपिणौ ।
कालः संवर्तको वह्निः प्रजज्वालाऽम्बरे तदा ।।२७।।
रौद्राश्च दारुणा वाता ववुर्विक्षोभकारिणः ।
दिग्दाहो भूमिकम्पश्च उल्कापाताश्च दारुणाः ।। २८।।
समभवन् तदा पृथ्व्यां राजा ध्यानादजागरीत् ।
तृषार्तो दाहसन्तप्तो जलं पातुं तु नर्मदाम् ।। २९।।
ययौ यावत्तु तावद्वै जलं किञ्चिन्न विद्यते ।
प्रवाहो विलयं यातो जलं लेभे न कुत्रचित् ।।1.562.३ ०।।
जलं विनाऽद्य मरणं ध्रुवं मे चेत्यचिन्तयत् ।
अनादिश्रीकृष्णनारायणं सस्मार वै तदा ।। ३१ ।।
ओंकारनाथं सस्मार तावद् ददर्श पुष्पितम् ।
फलितं पत्रशोभाढ्यं कल्पवृक्षं सुशाखिनम् ।।३२।।
तद्दृष्ट्वा शीतलां छायां प्राप्य राजा स्थिरोऽभवत् ।
शरीरममृतं जातं तृषातापो न्यवर्तत ।।३३।।
जीविताशाऽभवत् तस्य ततो राजा ददर्श ह ।
शयानं पुरुषं दिव्यं छायायां दीप्ततेजसम् ।। ३४।।
कुभाः पार्श्वे च चत्वारस्तस्य तिष्ठन्ति सोदकाः ।
तं प्रणम्य स्थितो राजा विष्णुरूपं ददर्श तम् ।।३५।।
सुप्तं ददर्श पुरुषं द्वितीयं त्र्यम्बकं शिवम् ।
तावद् ददर्श राजाऽन्यान् सुरान् देवान् मुनींस्तथा ।।३६ ।।
ततो ददर्श नारीं चोद्विग्नां रुधिरसंप्लुताम् ।
विकीर्णमूर्धजां कट्यां कन्यां बालं निधाय च ।।३७।।
सा चोवाच नृपं राजन् स्तन्यं पिब तृषां त्यज ।
अस्म्यहं पृथिवी देवी बालो मे विश्वसृट् ह्यजः ।।३८।।
कन्येयं नर्मदा चास्ते घटास्ते सन्ति सागराः ।
कल्पवृक्षो वटश्चास्ते वयं सर्वे चिरंस्थिराः ।।३ ९।।
अक्षयाः प्रतिकल्पस्थाः पिब पानीयमादरात् ।
इत्युक्त्वा विलयं याता राजा ददर्श नर्मदाम् ।।1.562.४०।।
सजलां च पपौ वारि विश्रवास्तृप्तिमागतः ।
कृत्वा तीर्थं ययौ नैजां नगरीं मथुरां पुनः ।।४१ ।।
एवंविधं नित्यतीर्थं विद्यते नार्मदं जलम् ।
श्रवणात् कीर्तनाच्चास्य मुच्यते भवबन्धनात् ।।४२।।
नर्मदादक्षिणे तीरे कपिलायाश्च पश्चिमे ।
विष्णोस्तत्र पुरी रम्या तीर्थं मोक्षकरं शुभम् ।।४३।।
दैत्या विनाशिताः पूर्वे विष्णुना च ततः परम् ।
तत्रागत्य पुरी रम्या निर्मिता विष्णुना शुभा ।।४४।।
कपिला पश्चिमायां तु नीलगंगा प्रविद्यते ।
तदन्तरा चक्रतीर्थं वामनं च युगन्धरम् ।।४५।।
सुदर्शनं नाम तीर्थं दैत्यसूदनमित्यपि ।
विष्ण्वावर्तं शिवावर्तं लक्ष्म्यावर्तं तथैव च । ।४६।।
तत्र स्नानेन दानेन ह्यनन्तफलमश्नुते ।
क्रोशमात्रप्रमाणं तद् विष्णुक्षेत्रं प्रकीर्तितम् । ।४७।।
तत्र श्राद्धेन पितरस्तृप्यन्ति यान्ति मोक्षणम् ।
तत्र जप्तं तपस्तप्तं सर्वं भवति चाक्षयम् ।।४८।।
श्रवणे द्वादशी पुण्या रोहिण्यामष्टमी शुभा ।
तत्रोपोष्य जनो भक्तो विष्णुलोके महीयते ।।४९।।
कार्तिके वाऽथ वैशाखे ह्युपवासं करोति यः ।
दशकोट्युपवासानां फलं तत्र लभेज्जनः ।।1.562.५० ।।
पतिव्रता तु या नारी भक्ता नारायणस्य वै ।
अनादिश्रीकृष्णनारायणं तत्र प्रपूजयेत् ।।५ १ ।।
तस्याः श्रीभगवान् कृष्णः सौभाग्यं शाश्वतं दिवि ।
धाम्नि ददाति लक्ष्म्याश्च समं त्वानन्दपूरितम् ।।।५२।।।
अत्र तीर्थे धर्मराजस्तैर्थिकानां समादरे ।
अर्घदानाय चायाति धर्मतेजोवपुर्धरः ।।५३।।
पतिव्रतानां चैवाग्रे स्थित्वा पादौ प्रवन्दते ।
प्रदृश्य वैष्णवं लोकं ततः पश्चान्निवर्तते ।।५४।।
धर्मराजं तदा प्रत्यागतं सत्ये च तापसाः ।
ब्रह्मणो मानसाः पुत्रा अपृच्छन्नृषयः खलु ।।५५।।
कस्माच्च कारणाद्धर्मपादचारी गतः स्वयम् ।
प्रहस्य धर्मराजश्च प्राह तान् परमाद्भुतम् ।।५६।।
पतिव्रतानां दीप्तिं च दीप्तिं मासोपवासिनाम् ।
वर्तते देवताभ्यश्च विशेषा तेन वै स्वयम् ।।५७।।
दर्शनार्थं गतश्चासम् अशक्ताः किंकरा मम ।
स्थातुं च सन्निधौ तेषां ततश्चासं गतोऽप्यहम् ।।५८।।
एवं नारायणस्थलं पावनं मोक्षदं सदा ।
वर्तते तत्र देवेशि! श्रवणादपि मोक्षदम् ।।५९।।
शाकल्यस्याऽऽश्रमं यज्ञपर्वतान्नार्मदं तटम् ।
अभिव्याप्य वर्तते च निःसृता चरुका नदी ।।1.562.६०।।
तत्राख्यातं दारुवनं गीयते सर्वदैवतैः ।
शक्रेणेष्टं पुरा तत्र बृहस्पतिपुरोधसा ।।६ १ ।।
लिंगं व्याघ्रेश्वरं तत्र वर्तते पापनाशनम् ।
बभ्रुर्नाम पुरा चासीद् राजा परमधार्मिकः ।।६२।।
पुण्ड्रवर्धनवासी च चिन्तयामास वैष्णवः ।
पितुः क्षयाहे सम्प्राप्ते श्राद्धकाले तु वैष्णवम् ।।६३।।
श्राद्धान्नभोजिनं विप्रं नाऽवाप स च भूपतिः ।
संचिन्त्य विप्रभोज्यार्थं पाकमप्सु व्यनिक्षिपत् ।।६४।।
ऋग्वेदो मूर्तिमान् वाक्यं तदा प्राह च भूपतिम् ।
गच्छ राजन् भरद्वाजं याचस्व ब्राह्मणं शुभम् ।।६५।।
राजा ययौ च तच्छ्रुत्वा भारद्वाजाश्रमं परम् ।
सोऽभिवाद्य नमस्कृत्य मुनिं प्राह मनोगतम् ।।६६।।
महर्षे श्राद्धकालोऽयं पितॄणां मम वर्तते ।
भोजयेऽहं यथा विप्रं तथा त्वं कर्तुमर्हसि ।।६७।।
तस्य तद्वचनं श्रुत्वा भारद्वाजोऽब्रवीद् वचः ।
महर्षीणां सहस्राणि तुष्टानामूर्ध्वरेतसाम् ।।६८।।
हंसलोमशमुख्यानां यदि भोजयितुं क्षमः ।
कुरु श्राद्धं यथेष्टं वै भोजयिष्याम एव च ।।६९।।
दद्या हेममयं पीठं दद्या धान्यं तथा वसु ।
मधुधेनुं तथा दिव्यां पयोधेनुं तथैव च ।।1.562.७०।।
दधिधेनुं घृतधेनुं शर्कराधेनुमित्यपि ।
गुडधेनुं वस्त्रधेनुं धानधेनुं तथापि वै ।।७१ ।।
जलधेनुं स्वर्णधेनुं द्विदलाधेनुमित्यपि ।
कार्पासधेनुं च कपिलां सवत्सां धेनुमित्यपि ।।७२।।
कौपीनं चाग्निशौचस्य वस्त्रस्यापि प्रदेहि च ।
भारद्वाजवचः श्रुत्वा स्वीचकार च भूपतिः ।।७३।।
पत्न्यै सर्वं गृहे गत्वा न्यवेदयच्च भावतः ।
आमिषं कल्पयित्वा तु पितृकार्यं प्रवर्तये ।।७४।।
शुद्धेन चामिषेणैव तर्पयामास तान् पितॄन् ।
आमिषम् ऋषयो दृष्ट्वा कुपिताश्चाब्रुवंस्तदा ।।७५।।
अभक्ष्यभक्षणं कृत्वा करीषाग्नौ विशेद् द्विजः ।
आमिषस्य प्रसंगेन मूलनाशस्त्वया कृतः ।।७६।।
बभ्रुरुवाच वेदोक्तं मया कृतं न चान्यथा ।
गोमेधो हयमेधश्च नरमेधस्तथाऽपरः ।।७७।।
क्षत्रियाणां भवेद् यज्ञो मया धर्मेण वै कृतम् ।
राज्ञस्तद्वचनं श्रुत्वा भारद्वाजोऽब्रवीदिदम् ।।७८।।
पितॄणां भोजने राजँस्त्वया विप्रा निमन्त्रिताः ।
विप्राश्च वैष्णवाः सन्त्यामिषं द्रष्टुं च नोत्सुकाः ।।।७९।।
तस्मात् त्वयाऽत्र वै श्राद्धे योग्यं नैव कृतं यतः ।
मांसादो भव पापेन व्याघ्रो व्याघ्री च ते प्रिया ।।1.562.८०।।
वने वर्षसहस्रं तु वसुधां विचरिष्यथः ।
एवं श्रुत्वा राजपत्नी सुधर्माख्याऽब्रवीद् वचः ।।८ १ ।।
क्षत्रधर्मानुगन्ता मे यतः शप्तः पतिस्त्वया ।
पतिव्रता च निर्दोषा धर्मिष्ठाऽहं तथैव च ।।।८२।।
ततो मयाऽपि विप्रेभ्यो दीयते शाप उल्बणः ।
भविष्यथ महाघोरा यूयं वै ब्रह्मराक्षसाः ।।८३।।
निर्जले मरुदेशे च तृषाक्षुधातिदुःखिताः ।
भारद्वाजस्तदा शीघ्रं ययौ ब्रह्माणमेव च ।।८४।।
सर्वं न्यवेदयत् तत्र शापकारणमित्यपि ।
ब्रह्मा प्राह च वेदोक्तं जात्युक्तं चापि कर्म यत् ।।८५।।
न स्याच्चेल्लोकसम्मान्यं नैव कुर्यात् कदाचन ।
वेदोक्तं लोकसम्मान्यं हृद्गम्यं चापि यद्भवेत् ।।८६।।
तत्कार्यं सुखदं स्याद्वै न त्वेकानुगतं सुखम् ।
अस्तु जातं तु तज्जातं निस्तारं वच्मि पुत्रक ।।८७।।
व्याघ्ररूपोऽपि राजर्षिः राज्ञी विप्राश्च राक्षसाः ।
प्रयान्तु नर्मदातीरं मार्कण्डेयं मुनिं प्रति ।।८८।।
इत्युक्तो मुनिराड् भारद्वाजो नीत्वा च भूसुरान् ।
व्याघ्रं व्याघ्रीं राक्षसांस्तान् ययौ मार्कण्डकं मुनिम् ।।८९।।
तुष्टुवुः परया प्रीत्या जगदुः शापकारणम् ।
मुक्त्यर्थं प्रार्थयामासुस्तं मुनिं पितरं यथा ।।1.562.९०।।
त्वं पिता नो गुरुश्चापि हरिर्धाता स्वयं शिवः ।
पापादुद्धर घोराच्च जन्मतो घोरयोनितः ।।९ १ ।।
मार्कण्डेयस्तदोवाच शाकल्यस्याऽऽश्रमोऽस्ति वै ।
वैदूर्यात्पश्चिमे भागे यत्र यज्ञास्त्वनेकशः ।।९२।।
जातास्तत्र च पावन्यां भूमौ यान्तु महेश्वरम् ।
कृष्णनारायणं चापि पूजयन्तु व्रतस्थिताः ।।९३।।
जपध्यानपरा नित्यं तपश्चोग्रं तपन्त्वपि ।
कन्दमूलफलाहाराः सन्तिष्ठन्तु तथा सति ।।९४।।
नर्मदास्नाननिरता देवपूजापरायणाः ।
शीघ्रं शापविनिर्मुक्ता भवन्तः संभवन्त्विति ।।९५।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
जपन्तु चाक्षरं मन्त्रं शीघ्रं भवन्त्विति ।।९६।।
इत्युक्तास्ते ययुस्तत्र जापं चक्रुर्मुहुर्मुहुः ।
सस्नुस्ते नर्मदातोये पपुस्तेपुः परं तपः ।।९७।।
मासान्तरे च तत्रैव दिव्ययानस्थितो हरिः ।
आययौ शापनाशार्थं दिव्यलक्ष्मीयुतः प्रभुः ।।९८।।
व्याघ्ररेवासंगमे च विप्रान् विमुच्य शापतः ।
व्याघ्रं व्याघ्रीं तथा शापाद् विमुच्य भगवान् स्वयम् ।।९९।।
ययौ नैजं परं धाम राजा राज्ञी च भूसुराः ।
ययुर्नैजान् गृहान् पश्चात् कालान्तरे च ते ययुः ।। 1.562.१० ०।।
वैष्णवं परमं धाम मुक्ता मन्त्रप्रभावतः ।
श्रवणात्कीर्तनादस्याऽप्यश्वमेधफलं लभेत् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कपिलारेवासंगम-विश्रवातीर्थ-विष्णुपुरीचक्रतीर्थ-दारुवनव्याघ्रेशतीर्थानां सेतिहासंनिरूपणनामा द्वाषष्ट्यधिकपञ्चशततमोऽध्यायः ।। ५.१६२ ।।