लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५३२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५३१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५३२
[[लेखकः :|]]
अध्यायः ५३३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि चमत्कारं मुनेर्गौरमुखस्य वै ।
आसीत् कृतयुगे राजा सुप्रतीको बलाधिकः ।। १ ।।
तस्य भार्याद्वयं विद्युत्प्रभा कान्तिमती तथा ।
अपुत्रस्तोषयामास चित्रकूटे तु सेवया ।। २ ।।
दुर्वाससं वरं तस्माल्लेभे 'सुपुत्रवान् भव' ।
राजा विद्युत्प्रभायां दुर्जयाख्यं प्राप्तवान् सुतम् ।। ३ ।।
कान्तिमत्यां सुद्युम्नाख्यं द्वितीयं प्राप्तवान् सुतम् ।
दुर्जयस्य ददौ वाराणसीराज्यं नृपस्ततः ।। ४ ।।
स्वयं तु चित्रकूटाद्रिं तपोऽर्थं प्रजगाम ह ।
दुर्जयश्चिन्तयामास राज्यवृद्धिं प्रति प्रभुः ।। ।९ ।।
त्रिंशदक्षौहिणीसैन्ययुतः स उत्तरां दिशम् ।
जित्वा किंपुरुषं हरिवर्षं रोमाव्रतं कुरुम् ।। ६ ।।
भद्राश्वं मेरुमध्यं च जित्वा जेतुं दिवं ययौ ।
मेरुपर्वतमारुह्य यावत् प्रयाति तावता ।। ७ ।।
नारदो दुर्जयजयं देवराजाय चोक्तवान् ।
इन्द्रः सैन्यं समादाय प्रति युद्धं चकार ह ।। ८ ।।
शंकरस्य त्रिशूलेन दुर्जयेन पराजितः ।
इन्द्रस्तद्वशतां यातः सुराः सर्वे वशंगताः ।। ९ ।।
दुर्जयो लोकपालाँस्तु विहायैव भुवं ययौ ।
तत्र द्वावसुरौ विद्युत्सुविद्युन्नामकौ ततः ।। 1.532.१ ०।।
आगत्य दुर्जयं चोभौ प्राहतुः शृणु भूपते ।
लोकपालानविजित्य सुखं न स्यात् कदाचन ।। ११ ।।
आवां जेष्याव एवैतान् देहि स्वर्गं च नौ यदि ।
ओमित्युक्त्वा ददौ ताभ्यां द्युराज्यं तत्सुहृद्वरौ ।। १ २।।
हेतुप्रहेतृनामानौ बहुसैन्यपरिच्छदौ ।
मनोः स्वायंभुवः पुत्रौ कन्ये द्वे ददतुर्हिं ते ।। १ ३।।
हेतुकन्या सुकेशी तु मिश्रकेशी प्रहेतृजा ।
दुर्जयस्ते ह्युभे लब्ध्वा निजं राष्ट्रं जगाम च ।। १४।।
सुकेश्याः प्रभवाख्यश्च मिश्रकेश्याः सुदर्शनः ।
पुत्रौ द्वौ दुर्जयस्याऽऽस्ताम् महाबलपराक्रमौ ।। १५।।
एवं राजा वर्धमानस्त्वेकदा स हिमालयम् ।
अरण्येषु जगामाऽसौ मृगयार्थं ससैन्यकः ।। १६।।
ग्रीष्मकालमरण्येषु निनाय बहुसैन्यकः ।
हास्तिने नगरे यस्य राजधानी तदाऽभवत् ।। १७।।
अरण्ये वासिते तेनाऽक्षौहिणीपञ्चकं बलम् ।
पञ्चविंशतिसंख्याकं हास्तिने नगरे धृतम् ।। १८।।
दुर्जयो हिमभूमीनामरण्ये विचरँस्तदा ।
ददर्शारण्यके देशे नाम्ना गौरमुखं मुनिम् ।। १ ९।।
अनेकर्षिसुसञ्जुष्टं महाभागवतोत्तमम् ।
यत्र वेदान् पाठयन्ति कुमारान् वै महर्षयः ।।1.532.२० ।।
कन्यकाभ्यो मुनिभिश्च पाठ्यन्ते वेदकाण्डिकाः ।
दुर्जयो दर्शनार्थं वै गतस्त्वाश्रममण्डलम् ।। २१।।
चकार स्वागतं राज्ञस्तदा गौरमुखो मुनिः ।
जगाद च यथाशक्त्या ते सानुगस्य भोजनम् ।। २२।।
करिष्यामि प्रमुच्यन्तां साधु वाहा वनेऽभितः ।
राजा प्रसन्नस्तद्भक्त्याऽऽश्रमस्यान्तिकमेव सः ।। २३ ।।
पञ्च चाक्षौहिणीसैन्यं वासयामास सत्वरम् ।
ऋषिः संस्मृत्य मनसा कृष्णनारायणं प्रभुम् ।।२४।।
किं मया भोजनं चास्य देयमिति विचार्य च ।
गंगाजले प्रविश्याऽयं तुष्टाव श्रीनरायणम् ।।२५।।
नमस्ते श्रीकृष्णनारायणायाक्षरधामिने ।
नमस्ते चाद्यरूपाय वीणाधृक्द्विभुजाय च ।।२६।।
शंखचक्रान्वितलक्ष्मीपतयेऽर्थधृगे नमः ।
सर्वप्रदाय दिव्याय भक्तगोप्त्रे च ते नमः ।। २७।।
पञ्चभूतस्थितायाऽत्र हृदयस्थाय ते नमः ।
आपूरकाय सर्वेषामक्षयाय च ते नमः ।।२८।।
ब्रह्मव्रतधरायाऽब्धौ शेषस्थाय च ते नमः ।
त्वत्तो भूतमिदं सर्वं सर्वदात्रे च ते नमः ।।२९।।।
त्वत्तो यज्ञस्तथा हव्यं कव्यं भोज्यं च वारि च ।
सर्वं चास्ति शरीरं ते तस्मै भोज्यं प्रदेहि वै ।।1.532.३०।।
ममाऽत्र श्रीकृष्णनारायण राजा हि दुर्जयः ।
आगतोऽभ्यागतस्तस्य चातिथ्यं कुरु माधव ।।३ १ ।।
अहं च तव दासोऽस्मि कुरुष्वन्नादिसञ्चयम् ।
यं यं स्पृश्यामि हस्तेन यं च पश्यामि चक्षुषा ।।३२।।
काष्ठं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ।
तथा पेयं जलं मिष्टं दुग्धं दधि घृतादिकम् ।।३३।।
तत्सर्वं सिद्ध्यतां मह्यं यद्ध्यातं मनसा मया ।
तवैव तु प्रतापेन भवेदातिथ्यमच्युत ।।३४।।
इति स्तुतः प्रसन्नात्मा साक्षाद्बभूव सन्निधौ ।
श्रीयुतः श्रीकृष्णनारायणो गरुडसंस्थितः ।।३५।।
शंखचक्रधनुर्वज्रध्वजशूलकरं हरिम् ।
दृष्ट्वा तं स मुनिर्नत्वा कृताञ्जलिरथाऽब्रवीत् ।।३६।।
इदानीमेष नृपतिर्यथा सबलवाहनः ।
ममाश्रमे कृताहारः श्वः प्रयाता स्वकं गृहम् ।।३७।।
तथा कुरु महाराज! कृष्णनारायण प्रभो ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।।३८।।
इत्युक्तः श्रीहरिस्तस्मै चित्तशुद्धिं ददौ पुरा ।
ततश्चिन्तामणिं दिव्यं ददौ तस्मै महाप्रभम् ।। ३९।।
तं दत्वाऽन्तर्दधे कृष्णः स तु गौरमुखो मुनिः ।
मणिं स्पृष्ट्वा महासौधं चिन्तयामास चोन्नतम् ।।1.532.४०।।
हिमवच्छिखराकारं गृहं वै शतभूमिकम् ।
शशांकरश्मिसंव्याप्तं स्वर्णराजतवस्तुकम् ।।४१ ।।
तादृशानां सहस्राणि लक्षलक्षाणि सर्वशः ।
गृहाणि निर्ममे विप्रो विष्णोर्मणेः प्रभावतः ।।४२।।
प्राकाराणि तथोपान्ते तल्लग्नोद्यानकानि च ।
कोकिलाहंसमेनासारसमयूरवन्ति च ।।४३।।
चम्पकाशोकपुन्नागनागकेसरवन्ति च ।
वृक्षवल्लीस्तम्बपुष्पनानाद्विजयुतानि च ।।४४।।
हस्तिनां हस्तिशालाश्च तुरगाणां च मन्दुराः ।
उष्ट्राणां च गवयानां वृषभाणां च शालिकाः ।।४५।।
रचयामास संकल्पाच्चकार भक्ष्यसञ्चयान् ।
भक्ष्यं भोज्यं तथा लेह्यं चोष्यं पानं सशर्करम् ।।४६।।
चकाराऽन्नाऽद्यविषयं शाकानि व्यञ्जनानि च ।
हैमराजतपात्राणि फलानि विविधानि च ।।४७।।
एवं कृत्वा स विप्रस्तु राजानं भूरितेजसम् ।
उवाच सर्वसैन्यानि स्वस्वनामाऽङ्कितगृहान् ।।४८।।
प्रविशन्तु सुखं तत्र वसन्तु मुदितानि च ।
दशयोजनविस्तारं त्रिंशद्योजनदीर्घकम् ।।४९।।
सैन्यानि विविशुर्दिव्यं नगरं सूर्यसन्निभम् ।
राजा स्वभवनं त्वद्रिप्रोन्नतं प्रविवेशह ।।1.532.५०।।
गौरमुखोऽथ संगृह्य मणिं राजानमाह यत् ।
मज्जनाऽभ्यवहारार्थं दासान् विलासिनीस्तथा ।।५१ ।।
प्रेषयामि च संप्रोच्य मणिं स्पृष्ट्वा जगाद सः ।
दासा दास्यो नवावस्था भवन्त्यस्य प्रभावतः ।।५२।।
निश्चेरुर्योषितस्तावद् राज्ञस्तस्य प्रपश्यतः ।
सुकुमारांगरागाद्या दिव्याश्च नवयौवनाः ।।५३।।
सुकपोलाः सुचार्वंग्यः सुकेशान्ताः सुलोचनाः ।
स्वर्णचम्पकवर्णाभाः कुमारा लक्षशस्तथा ।।५४।।
सुरूपाश्च समारब्धयौवना देवसदृशाः ।
काश्चित् सौवर्णपात्रीश्च गृहीत्वा सम्प्रतस्थिरे ।।५५।।
एवं सर्वाः कुमार्यश्च कुमाराश्च प्रसेवकाः ।
राज्ञः सैन्यस्य च कृते चक्रुः सिद्धं हि भोजनम् ।।५६।।
परिधानं पराश्चक्रुः स्नापयामासुरन्यकाः ।
पादसंवाहनं चक्रुरन्या आस्तरणं व्यधुः ।।५७।।
ताम्बूलानि ददुश्चान्या मिष्टं जलं ददुस्तथा ।
वीजयामासुरपराश्चक्रुः परास्तु गायनम् ।।५८।।
भृत्या यथाऽभ्यपेक्षं च चक्रुः सेवां जनस्य वै ।
नानाविधानि तूर्याणि तत्राऽवाद्यन्त भूरिशः ।।५९।।
मज्जतो नृपतेस्तस्य ननृतुश्चान्ययोषितः ।
एवं दिव्योपचारेण स्नात्वा राजा महाबलः ।।1.532.६०।।
विबिधान्नं तु विधिना बुभुजे सैन्यमित्यपि ।
यथा राज्ञस्तथा भृत्यजनस्यापि प्रपूजनम् ।।६ १।।
गजाश्वादिपशूनां च माननं चोत्तमोत्तमम् ।
चकार मुनिराट् स्वीयदासदासीभिरुत्तमम् ।।६२।।
अथ रात्रिः समायाता चन्द्रकान्तिसमन्विता ।
प्रदर्शनानि रम्याणि मुनिना दर्शितानि च ।।६३।।
नृत्यान्यपि च नारीणां महोत्सवाश्च दर्शिताः ।
मल्लानां चरयुद्धानि दर्शितानि शुभान्यपि ।।६४।।
संगीतानि च दैवानि वाद्यानि चोत्तमानि च ।
गान्धर्वरागरागिण्यो दर्शिता मणिमूलिकाः ।।६५।।
व्याख्यानानि रञ्जनानि हास्यान्यपि कृतानि च ।
द्यूतान्यपीन्द्रजालानि नटनर्तनकानि च ।।६६।।
दृष्टिबन्धानि चान्यानि दर्शितानि निशार्धके ।
अथ तेषां शयनेषु रत्नस्वर्णमयेषु च ।।६७।।
पुष्पान्वितेषु मृदुषु नार्यः सेवां प्रचक्रिरे ।
राजा दिव्यांगनाभिश्च सेव्यते शयनोत्तमे ।।६८।।
एवं सुमनसस्तस्य ऋषेर्मणेः प्रभावतः ।
राजा सैन्यानि च सुखं हृष्टाः प्रसुषुपुस्ततः ।।६ ९।।
प्रातरुत्थानकार्यार्थं वाद्यानि विविधानि च ।
अवाद्यन्त कुमारीणां गायनैः सह सर्वशः ।।1.532.७० ।।
स्नात्वा राजा जलपानं कृत्वा भक्ष्यं विधाय च ।
ससैन्यस्त्वरितो गौरमुखस्य पूजनाय वै ।।७१ ।।
आययौ पर्णशालायां यत्रास्ते तु मणिर्मुनिः ।
ततः कुमार्यो भृत्याश्च सर्वाण्यपि गृहाणि च ।।७२।।
गृहोपस्करणादीनि भोज्यपेयानि सर्वशः ।
अन्तर्धानं गतं सर्वं क्षणाद् वनं बभूव तत् ।। ७३।।
स राजा विस्मयापन्नश्चिन्तयामास वीक्ष्य तत् ।
कथमेवं मणिर्मह्यं भवतीति पुनः पुनः ।।७४।।
चिन्तामणिमिमं त्वस्य हरामीति विचिन्त्य सः ।
नत्वाऽऽश्रमबहिर्भागे गत्वा तूवाच मन्त्रिणम् ।।७५।।
विरोचन! मुनिं याहि याचनां कुरु वै मणेः ।
स तमृषिं समागत्य मणिं याचितुमुद्यतः ।।७६।।
रत्नानां भाजनं राजा मणिं तस्मै प्रदीयताम् ।
अमात्येनैवमुक्तस्तु क्रुद्धो गौरमुखोऽब्रवीत् ।।७७।।
राजा दाता भवेन्नित्यं प्रतिग्राही तु भूसुरः ।
त्वं च राजा स्वयं भूत्वा याचसे दीनवत् कथम् ।।७८।।
अयोग्यस्त्वं मणेः पात्रं नासि मा याचनां कुरु ।
त्रैलोक्यं यस्य वशगं स्वर्गं पातालमित्यपि ।।७९।।
मेरुः रत्नाकराश्चापि तथाप्यहो दरिद्रता ।
ब्राह्मणस्य धने वाञ्छां करोषि न्यायवर्जिताम् ।।1.532.८०।।
अतृप्तस्याऽज्ञानिनस्तु सर्वे स्युर्विषया गृहे ।
तथापि तृष्णया शान्तिं नाधिगच्छति पापवान् ।।८१ ।।
एवं ब्रूहि दुराचारं राजानं दुर्जयं स्वयम् ।
गच्छ द्रुतं च यावत्ते विघ्नः कश्चिन्न जायते ।।८२।।।
दूतो जगाम राजानं प्रोक्तवाँश्च यथोचितम् ।
क्रुधा नीलाख्यसामन्तं राजाऽऽह गच्छ मा चिरम् ।।८३।।
विप्रस्य मणिमाहृत्य तूर्णमेहि ममान्तिकम् ।
नीलो ययौ तथा शीघ्रं मणेः कुट्यां प्रगच्छति ।।८४।।
तावन्मणेस्तु निर्जग्मुः कोटिशः शस्त्रपाणयः ।
योद्धारः सरथाश्चान्ये सध्वजाश्चासिचर्मिणः ।।८५।।
सधनुस्तूणीरबाणाः शक्तिभूशुण्डिकान्विताः ।
पञ्चदशाक्षौहिण्यश्च पञ्चदश च नायकाः ।।८६ ।।
नामभिः सुप्रभो दीप्तितेजाश्च शुभदर्शनः ।
सुकान्तिः सुन्दरः सुन्दः प्रद्युम्नः सुमनाः शुभः ।।८७।।
सुशीलः सुखदः शम्भुः सुदान्तः सोम इत्यपि ।
सुरश्मिश्चेति ते सर्वे योधयामासुरुल्बणाः ।।८८।।
भूशुण्डिकास्तथा शूलाः खड्गानि च धनूंषि च ।
पतन्ति च गदा वज्राः शक्तयश्च सुयोधिनाम् ।।८९।।
रथो रथं परिवार्य तस्थौ गजो गजं तथा ।
हयो हयं पदातिश्च पदातिं प्रससार वै ।।1.532.९०।।
रणे त्वविरते तत्र नदी रक्तसमुत्थिता ।
राज्ञः सचिवो विसंज्ञः ससैन्यश्च हतो रणे ।।९१ ।।
दुर्जयस्तु स्वयं तत्र मणिजैः संयुयोध ह ।
अवशिष्टस्य सैन्यस्य सर्वं कदनमाबभौ ।।९२।।
अथ हेतृप्रहेतृभ्यां श्रुतो जामेः रणो महान् ।
युध्यतस्तौ सहायेऽस्य चम्वः पञ्चदशोल्बणाः ।।९३।।।
नायकाः पञ्च च दश प्रेषिता रणमूर्धनि ।
ये पुनर्नोत्थिता नष्टा नामतस्तान् प्रकर्णय ।।९४।।
प्रघसो विघसश्चापि सघसश्चाशनिप्रभः ।
विद्युत्प्रभः सुघोषश्च प्रोन्मत्ताक्षः प्रतर्दनः ।।९५।।
अग्निदन्तोऽग्नितेजाश्च बाहुः शक्रो विरोधकः ।
भीमकर्मा विप्रचित्तिः, दैतेयाः परमायुधाः ।।९६।।
महामाया युयुधुस्ते मणिजैर्योधृपुंगवैः ।
पञ्चदशाक्षौहिण्यश्च दैतेयानां हतास्तु ताः ।।९७।।
तावत् हेता प्रहेता चाययतुः सैन्यकोटिभिः ।
विद्युत् सुविद्युश्च तावत् स्वर्गेशावसुरावुभौ ।।९८।।
त्रिंशदक्षौहिणीयुक्तौ श्रुत्वा युद्धे सहायदौ ।
आययतुर्हिमदेशे कम्पिताऽभूद्वसुन्धरा ।।९९।।
रक्तवाहा नदी तत्र त्वब्धिं प्राप्तुं द्रुतं गता ।
अथ गौरमुखो दृष्ट्वाऽनन्तं सैन्यं तु रक्षसाम् ।। 1.532.१० ०।।
सस्मार श्रीकृष्णनारायणं मणिपतिं प्रभुम् ।
श्रीहरिः पुरतस्तस्य पीतवासाः खगासनः ।। १०१ ।।
समागत्य समुवाच वद किं कार्यमत्र मे ।
ऋषिः प्रोवाच भगवन् जहीमं दुर्जयं नृपम् ।। १०२।।
दैतेयाँश्चेति वै श्रुत्वा चक्रं मुमोच दैत्यहा ।
कोटिसूर्यसमं चक्रं भस्मीचकार दुर्जयम् ।। १ ०३।।
सैन्यान्यपि च रक्षांसि नैकोऽप्यत्राऽवशिष्यते ।
उवाच निमिषेणेदं निहतं दानवं कुलम् ।। १ ०४।।
अरण्येऽस्मिंस्ततस्वेतन्नमिषारण्यसंज्ञितम् ।
भविष्यति यथार्थं च ऋषीणां सन्निवेशनम् । । १ ०५।।
अहं च यज्ञपुरुष एतस्मिन् वनगोचरे ।
नाम्ना याज्याः सदा चेमे पञ्चदश च नायकाः ।। १०६ ।।
कृते युगे क्रमादेते स्युर्नृपा मणिजा इमे ।
एवमुक्त्वा मणिं नीत्वा देवोऽन्तर्धानमागतः ।। १ ०७।।
द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ।
सैन्यान्यपि च सर्वाणि श्रीविष्णौ लीनतां ययुः ।। १ ०८।।
दुर्जयः श्रीहरौ तत्र लीनो बभूव योगतः ।
चक्रहतानि सैन्यानि स्वर्गं गतानि योगतः ।। १ ०९।।
एवं नारायणस्यांशा उक्ता मण्युद्भवाः प्रिये ।
पठनाछ्रवणाच्चास्य मुक्तिः स्यात् स्वर्गमित्यपि ।। 1.532.११ ०।।
अथ गौरमुखो विप्र आरिराधयिषुर्हरिम् ।
युद्धदुरीतनाशार्थं प्रभासक्षेत्रमाययौ ।। १११ ।।
सौराष्ट्रे रैवती भूमौ स्नात्वा दामोदराह्वये ।
कुण्डे नारायणह्रदे समुद्रे गोमतीयुते ।। १ १२।।
प्राच्यां चापि सरस्वत्यां चाश्वपट्टसरो ययौ ।
कुंकुमवापिकाक्षेत्रे लोमशस्याश्रमे शुभे ।। ११३ ।।
तत्राऽऽजगाम ऋषिराट् मार्कण्डेयो महामुनिः ।
लोमशं प्रथमं नत्वा मार्कण्डेयं ननाम सः ।। १ १४।।
मणेः समर्पयितारं कृष्णनारायणं प्रभुम् ।
प्रत्यक्षं वर्तमानं तं गोपालकृष्णनन्दनम् ।। १ १५।।
आत्मानं च कृतार्थं वै मेने गौरमुखो मुनिः ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।। १ १६।।
इतिमन्त्रं जपन् देवं मार्कण्डेयं पप्रच्छ सः ।
मृतानां मोक्षणार्थं च दुरीतक्षयकारकम् ।। १ १७।।
मयाऽत्र किमनुष्ठेयं शाधि ममात्र तीर्थके ।
मार्कण्डेयश्च तं प्राह कृष्णनारायणो हरिः ।।१ १८।।
सर्वेषामेव देवानामाद्योऽत्र वर्तते प्रभुः।
प्रत्यक्षं तं भज कृष्णनारायणं श्रियः पतिम् ।।१ १९।।
तेन मुक्तिश्च सर्वेषां दुरीतानां च नाशनम् ।
भविष्यत्येव क्षेत्रेऽस्मिन् श्राद्धानि कुरु चात्र वै ।। 1.532.१२०।।
इत्युक्तः स मुनिः श्राद्धानि चक्रे मोक्षकांक्षया ।
युद्धे मृताश्च ये तेषामुद्धारं कृतवान् स्वयम् ।। १२१ ।।
विमानैस्ते गताः सर्वेऽक्षरं धाम परात्मनः ।
अयं गौरमुखः पूर्वे जन्मन्यासीद् भृगुः स्वयम् ।। १ २२।।
तदन्वयात्मजस्त्वेषो मार्कण्डेयो मुनीश्वरः ।
श्राद्धेन बोधयामास पुत्रस्तं पितरं पुनः ।। १२३।।
अथ गौरमुखस्तत्र ज्ञात्वा कृत्वा च तर्पणम् ।
सस्मार सर्वजन्मानि स्मृत्वा कृष्णनरायणे ।। १ २४।।
सर्वात्मनाऽर्पितो भूत्वा ययौ धामाऽक्षराऽभिधम् ।
लयं जगाम सर्वेशे चाऽपुनर्भवसंज्ञिते ।। १२५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्जयस्य त्रिलोकराज्यं, गौरमुखाश्रमे श्रीकृष्णनारायणार्पितमणिना सुस्वागतं, चिन्तामण्यर्थे युद्धं, दुर्जयादिविनाशः, गौरमुखस्य प्रभासाऽऽगमनं, मुक्तिश्चेत्यादिनिरूपणनामा द्वात्रिंशदधिकपञ्चशततमोऽध्यायः ।।५३२।।