लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५२३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५२२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५२३
[[लेखकः :|]]
अध्यायः ५२४ →

श्रीनारायण उवाच-
एकाग्रमानसी भूत्वा कृत्वाऽऽत्मनि परेश्वरम् ।
कथ्यमानां परां विद्यां लोमशोक्तां तु भूभृते ।। १ ।।
आकर्णय बहिर्वृत्तिं त्यक्त्वाऽन्या मोक्षकारिणीम् ।
यामाश्रित्यर्षयः सर्वे निषेदुर्ब्रह्मणोऽन्तिके ।। २ ।।
लोमशः प्राह राजानम् ओमित्यात्मानमान्तरम् ।
स्मृत्वा ध्यात्वा यथोक्तं च कथयामि निबोध मे ।। ३ ।।
 'ओं नमः परब्रह्मणे भ्राजदभ्राजद्वर्ष्मणे ।
ब्रह्मसवित्रेऽक्षरब्रह्मादिवास्याय त्रिक्रणे ।। ४ ।।
दिव्ये ब्रह्मपुरे यो ह दिव्यमूर्तिः प्रतिष्ठितः ।
अमूर्तमूर्तेष्वन्तर्यामी मूर्तश्च परं हि तत् ।। ५ ।।
विप्रासो विद्युरत्रपुरुषमद्वरूपमतिज्ञम् ।
कमनास्यं कप्याक्षं युगग्रहगं पुरुषोत्तमम् ।। ६ ।।
पराणखस्वरुणि्म्नीभिर्भ्राजते परि य उत् यः ।
हृद्रुहदक्षभ्रांकनं यमेतेऽत्र सन्तो बिदुः ।। ७ ।।
ब्रह्मगवा विविदुरेतमीश्वरीन्दुभप्रभालम् ।
तिलसुमनोनासं नृरूपं विभान्तमापूर्णम् ।। ८ ।।
हिरण्यकेशमकुण्ठदृश्यं यत्तेऽन्तराऽभितः ।
किशोरप्रतिमं सच्चिदानन्दमयोगं प्रेयुः ।। ९ ।।
ब्रह्मपात्राणि ह वै समुपासत श्रेयःखणेयम् ।
षोडशकलं पत्कजाऽऽन्तराभं परस्य पूष्णः ।। 1.523.१ ०।।
कला भवन्तेऽष्टास्त्र्यूल्लेखास्वस्तिकादिका दक्षे ।
व्योमार्धेन्दुशफराद्या दक्षेतरेऽस्य चरणे ।। ११ ।।
एको ह्येषः सर्वयन्ता सुरूपो
रूपं रूपं रूप्यमाणोऽधिशेते ।
सहस्रधा चाप्यथ नान्तधा सन्
समानरूपो रूप्यतेऽक्षय्यलोके ।। १२।।
सर्वे जीवा ईश्वराश्चाथ मुक्ता
गुणातीतं चाऽक्षरं ब्रह्ममूलम् ।
यस्याऽऽनन्दं लब्ध्वाऽऽनन्दीभवन्ति
ह्येषः सहजाऽऽनन्दभूमिः परात्मा ।। १३ ।।
सर्वे जीवा ईश्वराश्चाथ मुक्ता
गुणातीतं चाक्षरं ब्रह्ममूलम् ।
यस्यैश्वर्यं लब्ध्वा ईशा भवन्ति
ह्येषः सहजैश्वर्यभूमिः परात्मा ।। १४।।
सर्वे जीवा ईश्वराश्चाथ मुक्ता
गुणातीतं चाक्षरं ब्रह्ममूलम् ।
यस्य वित्तिं लब्ध्वा विदो भवन्ति
ह्येषः सहजवित्तिभूमिः परात्मा ।। १५।।
सर्वे जीवा ईश्वराश्चाथ मुक्ता
गुणातीतं चाक्षरं ब्रह्ममूलम् ।
यस्या सत्तां लब्ध्वा सन्तो भवन्ति
ह्येषः सहजसत्यभूमिः परात्मा ।। १६ ।।
सर्वे जीवा ईश्वराश्चाथ मुक्ता
गुणातीतं चाक्षरं ब्रह्ममूलम् ।
यस्य तृप्तिं लब्ध्वा तृप्ता भवन्ति
ह्येषः सहजतृप्तिभूमिः परात्मा ।। १७।।
अरं दासो न मीह्ळुषे कराण्यहं देवाय भूर्णयेऽनागाः ।
अचेतयदचित्तो देवो अर्यो गृत्सं राये कवितरो जुनाति ।। १८।।
वेशोभग्यस्य शान्तातेः कणे धूमा
रमन्ना ईशनानि कत् तम् ।
स्तवामनेनसं गृभं तरुषेम
एनः प्रयुञ्ज्य त्सरूपणीशनीभिः ।। १९।।
पराञ्चि तत् खानि परात्मरूपाण्य-
भिन्नतत्त्वान्यपि भक्तिचारात् ।
पृथग्भिधेयानि हरन्ति तज्ज्ञा
रसैकशक्तीन्यपृथग्भूतं हि तत् ।। 1.523.२० ।।
श्रोत्रस्य श्रोत्रं मनसो मनस्तत्
वाचो ह वाक् चक्षुषस्तद्धि चक्षुः ।
त्वचस्त्वमित्येव तदीयशक्तयो
मुक्तस्य खानामुत ब्रह्मणस्तत् ।।२१ ।।
ज्ञानस्वरूपोऽथ मनःस्वरूपो
ज्ञानस्य वित्तिर्मन एव तस्य ।
तदेव धीर्ह्रीश्च तदेव कामो
मेधा तथेच्छा धिषणा कृतश्च ।। २२।।
पुमंकपूर्णेऽपि रतिर्न गुप्ता
प्राकाम्यसेव्येऽपि न रूपतः स्त्रीः ।
ग्राह्येऽपि तस्मिन्न हतिः खवित्ते-
र्वियोगयोगेऽपि न तत्त्वव्याहतिः ।।२३।।
अमातृजत्वान्नहि कोषषट्कम्
अनन्नकोषान्नहि चित्यचित्यतिः ।
प्राणः स्वशक्तिस्तदप्राणकस्य
काशोऽपि निरावरणात्मभावः ।। २४।।
अनन्नग्रासान्नहि मेहनादिकं
ततो न गुर्वादि कुतो हि निद्रा ।
नित्यप्रसन्नस्य कुतोऽप्रसन्नता
प्रेष्ट्यैकभावान्न परेष्टधीनता ।।२५।।
हिरण्यकेशाश्च हिरण्यवन्नखाः
सुकुन्ददन्ता नहि योगभागिनः ।
चिदैकरूपा रमणीयस्यात्मकाः
सदैकमानाः प्रविभान्ति तस्य ।।२६।।
अगोऽपि गन्ता मनसो जवीयोऽ-
विप्रांस एनं नाप्नुवन् प्रागुपास्तेः ।
विप्रेष्टकोऽन्यानत्येति जवीयः
तिष्ठन्नचिति चिति चापि ईशः ।।२७।।
तदभ्याशे न भयं किंचनाऽस्ति
न तत्राऽन्यत् किंचनाऽपूर्वमस्ति ।
उभौ तीर्त्वा जीवमायेशभावौ
धूम्रातिगो मोदते तत्सयुजः ।।२८।।
श्रवणायाऽपि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः ।
नियाम्यज्ञं तमीड्यं विदित्वा
निचाय्य तां शान्तिमत्यन्तमेति ।।२९।।
तं दुर्दर्शं गूढमनुप्रविष्टं
गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं
मत्वा धीरः पुण्यपापे जहाति ।।1.523.३०।।
अणोरणीयान्महतो महीयान्
लघोर्लघीयाँश्च गुरोर्गरीयान् ।
तमक्रियः पश्यति धूतपापो
हरेः प्रसादात् प्रपूरितसत्वः ।।३ १ ।।
न सः परात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्य परात्मा विवृणुते तनुं स्वाम् ।।३२।।
अशुक्लमकृष्णमराजसं तत्
नियामकं नित्यमनन्तपारम् ।
अनादिनं ब्रह्मपरं ध्रुवं हरिं
निचाय्य तं मृत्युमुखात्प्रमुच्यते ।। ३३।।
स ब्रह्मसत् मुक्तसदीशसद्वसु-
रव्यक्तसज्जीवसदेव कार्यसत् ।
तथापि न लिप्यते ह्यन्तरात्मा
अलेप्यशक्तिः प्रतिरूपकोऽसौ ।।३४।।
वश्यद्वितीयः सर्वभूतान्तरात्मा
बीजं प्रधानं बहुरूपं व्याकरोति ।
तमान्तरं ये परिपश्यन्तिमुक्ता-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ।।३५।।
नित्यो नित्यानां चेतनश्चेतनाना-
मेको बहूनां यो विदधाति कल्पान् ।
तमान्तरस्थं ये परिपश्यन्ति मुक्ता-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ।।३६।।
न भाति सविता तदग्रे न कौमुदीशो
न सौदामिन्यो भान्ति कुतोऽनलोऽयम् ।
तमेव भान्तमनु भाति सर्वं तदन्त-
स्तस्य भासा सर्वमिदं प्रविभाति तत् सत्। ।।३७।।
अश्वत्थलोके भयादस्य सूर्य-
स्तपत्यग्निर्वहति चाऽप्यनिलः ।
ईशा अप्यण्डं परिकुर्वन्ति यद्भया-
त्तं कृष्णनारायणं यान्ति तद्विदः ।।३८।।
तमच्छायं शुभ्रं स्नेहमूर्तिं
शीलभ्राजत् नित्यविज्ञानधर्मम् ।
स्वेष्टं देवं वेदयते यस्तु विद्वान्
स तत्प्रसादात् तद्वत् सार्वज्ञ्यमेति ।।३९।।
तमद्रेश्यमग्राह्यमगोत्रमवर्ण-
मचक्षुःश्रोत्रं तमपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं
तमव्यथं कार्ययोनिं परिपश्यन्ति मुक्ताः ।।1.523.४०।।
यथोर्णनाभिः सृजते गृह्णते च
यथा क्षितावोषधयो भवन्ति ।
यथा सतो नरात् केशलोमानि संभवन्ति
तथा परेशात् संभवतीह विश्वम् ।।४१ ।।
परं ब्रह्मैवेदममृतं पुरस्तात्।
परंब्रह्म पश्चाद् दक्षिणे चोत्तरे च ।
अधश्चोर्ध्वं व्यापकं ब्रह्मकृत्या
परं ब्रह्मव्याप्तमिदं विश्वं समस्तम् ।।४२।।
न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्व-
स्ततस्तु तं पश्यति ध्यायमानः ।।४३।।
बृहच्च तद्दिव्यमचिन्त्यरूपं
सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।
दूरात् सुदूरे तदिहान्तिके च
पश्यत्स्विहैव निहितं गुहायाम् ।।४४।।
सत्येन लभ्यस्तपसा सः परात्मा
माहात्म्यज्ञानेन ब्रह्मचर्येण नित्यम् ।
स्वस्य स्वरूपे दिव्यरूपो हि शुभ्रो
यं पश्यन्ति यतयः क्षीणदोषाः ।।४५।।
यदा द्रष्टा पश्यति स्वर्णवर्णं
विधातारं पुरुषं ब्रह्मपारम् ।
तदा वेत्ता शुक्लकृष्णे विहाय
निरविद्यः कृष्णसाम्यं प्रयाति ।।४६।।
समापदेहे देही नित्यं निमग्नो
मायाग्राह्यो मुह्यति शोकमेति ।
यदा स्वान्यं पश्यति सर्वव्याप्तं
तदा चात्मा जायते शोकहीनः ।।४७।।
द्वौ तौ सुमित्रे चैकवृक्षं श्रयेते-
ऽन्योन्यं कार्ये प्रोत्साहनप्रदे स्तः ।
अधीरैको ग्रध्नया चात्ति मिष्टं
धीरश्चान्यः तं सुतृप्तो ददाति ।।४८।।
यथाऽऽपगा वार्धिभावं प्रयान्ति
भिन्नख्यातिप्रतिमाने विसृज्य ।
तथा ज्ञाताऽऽख्याप्रतिमाविधुरोऽ-
क्षरात्परं दिव्यपूरुषमेति ।।४९।।
परब्रह्म वेद यो ब्रह्म स स्या-
न्न चाऽऽवर्त्ते भ्रमते कर्मकृष्टः ।
औष्ण्यं त्यक्त्वोद्वेजनं वै जहाति
हृद्ब्ग्रन्थिभिस्त्यज्यते चामृताय ।।1.523.५०।।
यश्चात्र नित्यं प्रतिबोधमाप्त-
श्चाऽस्मिन्देहे हृद्गुहाया विराजन् ।
तदन्तःस्थः सृष्टिकृत् सर्वहर्ता
व्यतिरेकी वर्तते दिव्यलोके ।।५ १ ।।
विदन्ति सन्तोऽथ विद्मो वयं
तमवेदने स्यात्पतनं महत्कृतम् ।
तस्यैव विज्ञा अमृताः सम्बभूवु-
रन्ये तु दुःखं चाविद्यकं ययुर्वै ।।५२।।
एवं विद्यान्महिमानं परात्मनो
नास्यास्ति वृद्धिः कर्मभिर्वा क्षतिश्च ।
तस्यैव भूयाः पदवित् धामगन्ता
तमालम्ब्य लिप्यते नाऽघकर्मभिः ।।५ ३ ।।
सर्वं यस्य चाक्षरे ब्रह्मणि यत्
सर्वं तस्य मुक्तवृन्देऽनुषक्तम् ।
तद्वै सर्वमीश्वरेषु प्रविष्टं तदेवाऽ-
स्मिन् जीवभूते तथाऽन्ये ।।५४।।
यदक्षरे तद् भवत्येव केवले
तथा ह वै शबले वै निरञ्जने ।
हिरण्मये महद्विष्ण्वाख्येऽथ विष्णौ
रुद्रेऽथापि वर्तमाने विराजे ।।५५ ।।
प्रकृत्यादावष्टकावृत्तिकासु
तलेष्वत्र द्विसप्तकेषु विराजते ।
अत्र भूमौ राजते कृष्णनारायणः
स्वामी तं विदित्वाऽमृतं व्रज ।।५६ ।।
तस्माद्धि सूक्ष्मचिदचिद्विशिष्टात्
स्थूलं हि चिदचिद्विशिष्टं प्रजायते ।
उपादानोपादेययोरभेदात्
सर्वं तत्त्वं परब्रह्मैकमेव ।।५७।।
परात्मनस्तस्य पूर्णावतारिणः
काचिच्छक्तिर्व्यूहसंज्ञामुपैति ।
क्रमान्न्यूना सैव विभवावतारा
पूर्णांशमुख्याऽऽवेशगौणादिरूपा ।।५८।।
तत्तद्योगात्तत्स्वरूपस्य लब्धि-
स्तस्मिन् लीनालीनभावं ह्युपैति ।
परात्मनश्चोपासनया परेशं
परां मुक्तिमाप्नुवन्तीति तत् सत् ।।५९।।
मुक्ताधारं परब्रह्मव्याप्यचेतनमक्षरम् ।
सर्वाधारं परब्रह्मशरीरं धाम यत्र सः ।।1.523.६ ० ।।
तदेवाऽस्त्यक्षरं ब्रह्मधाम तेजोमयं हरेः ।
यावद्वेदतपोब्रह्मचर्यचीर्णं हि तत्पदम् ।।६ १ ।।
अशरीरं शरीरं च मूर्तं चाऽमूर्तमित्यपि ।
शुद्धं नित्यं च मायादिप्रकाशकं हरेस्तनु ।।६२।।
सच्चिदानन्दवासात्म जन्ममृत्युजरातिगम् ।
कृष्णनारायणस्वामिश्रितं सद्वर्तते परम् ।।६ ३ ।।
यदर्चिमत्परब्रह्मतेजोऽभिन्नं सनातनम् ।
रजसश्च परे पारे तत्राऽध्यक्षं हरिं भज ।।६४।।
हिरण्मयात्परात्कोशादपि चोर्ध्वं च निष्कलम् ।
शुभ्रं ज्योतिर्ज्योतिषां च तत्राध्यक्षं हरिं भज ।।६५ ।।
यद्गोलोमाकृतिप्रत्यंगान्यभिन्नात्मशक्तयः ।
न वै भागो न वै त्यागो रसैक्यं च परेशवत् ।।६६ ।।
सार्वज्ञ्यं शेषसापेक्षं तत्रस्थं श्रीहरिं भज ।
परब्रह्मगतं तेजोमयं तत्र हरिं भज ।।६७।।
मुक्ता ह्यनादिनो नित्या वसन्ति यत्र शाश्वते ।
तत्रस्थं श्रीहरिं राजन् कृष्णनारायणं भज ।।६ ८।।
एवमक्षरधामस्थं परधामस्थितं परम् ।
भजित्वा साम्यभावाप्ता बहवस्तं सदा भज ।।६ ९ ।।
यः सेतुः सर्वधर्माणामक्षरं ब्रह्म यस्य भूः ।
तत्रस्थं श्रीकृष्णनारायणं ज्ञात्वा सदा भज ।।1.523.७०।।
यः स्यादस्याऽनवज्ञानी भक्तिदास्यविवर्जितः ।
अशुद्धः स न तं यायात् संसारागमवेष्टितः ।।७१ ।।
अपरोक्षानुभववाँस्तस्य नारायणस्य यः ।
स च तद्धाम चाप्नोति ततो भूयो न जायते ।।७२।।
भक्तिर्बलं भवेद् यस्य ज्ञानं पुष्टिप्रदं तथा ।
गुरुसेवारथारूढः प्राप्नोति श्रीहरेः पदम् ।।७३ ।।
जीवेभ्यस्तु परा ईशा ईशेभ्यः परमक्षरम् ।
अक्षरात्परमं कान्तं ज्ञात्वा तद्धाम चाप्नुयात् ।।७४।।
हृदयग्रन्थिभेदान्तं सर्वं स्यादनुशासनम् ।
कृष्णनारायणग्रन्थिं लब्ध्वा गच्छ परं पदम् ।।७५ ।।
परे त्वयि मयि चान्ये योऽस्ति तं भज सादरम् ।
मृत्युपाशान् स चाप्नोति यस्तं भेदेन पश्यति ।।७६ ।।
हृदा चान्तश्चक्षुषा तं ज्ञात्वा नानाविवर्जितम् ।
नानाभावकृतं मृत्युं हत्वा याहि परं पदम् ।।७७।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
जप मन्त्रं सदा राजन् स त्वां पारं करिष्यति ।।७८।।
विस्रंसमानदेहस्य बन्धनं नावशिष्यते ।
अबन्धनस्य मुक्तस्य ते किमत्राऽवशिष्यते ।।७९।।
ऊर्ध्वमूलोऽर्वाक्प्रशाख एषोऽश्वत्थो महान् तरुः ।
तं विहायाऽक्षरं ब्रह्म पश्यामृतं हरिं व्रज ।।1.523.८०।।
यद्भयात् सर्वतेजांसि प्रकाशन्ते विधानवत् ।
ईशा ईशत्वमापन्ना यस्मात्तं श्रीहरिं भज ।।८१ ।।
हृत्स्थान् कामान् परिहाय कृष्णं चात्र समश्नुहि ।
अमृतं परमानन्दं भुंक्ष्व कृष्णनरायणात् ।।८२।।
सत्यं तपो ब्रह्मचर्यं दास्यं येषु प्रतिष्ठितम् ।
तेषां चास्ति ब्रह्मलोको येषु जैह्म्यं न नाऽनृतम् ।।८३।।
द्वे विद्ये सर्वथा राजन् परा वेद्या तथाऽपरा ।
परया त्वाप्यते कृष्णनारायणोऽक्षरे पदे ।।८४।।
तदन्याश्चापराः सर्वा याभिर्ब्रह्म न चाप्यते ।
ये वै परात्मनः प्रेष्ठां वाचं सद् व्याहरन्ति ते ।।८५।।
पुण्ये ब्रह्मपदे यान्ति दास्यं श्रीपरमात्मनः ।
परब्रह्म विजानाति सेवते भजते च यः ।।८६।।
जाग्रति चान्तरे स्वप्ने त्र्यवस्थोत्तरवैभवे ।
सोऽश्नुते सर्वकामांश्च ब्रह्मणा सह मिश्रितान् ।।८७।।
अन्नं प्राणं मनो ज्ञानं चानन्दं तमवेहि च ।
आत्मानं चान्तरात्मानं कृष्णनारायणं भज ।।८८।।
कंभरापुत्रसेवाभिः केनानन्देन पूर्यते ।
गोपालबालसेवाभिर्गोभिः संभ्रियते नृप ।।८९।।
वाणी मनश्च विषयं करोत्येव न यं प्रभुम् ।
आनन्दं तं हरेर्याहि कुतश्चन भयं न ते ।।1.523.९० ।।
ज्ञानाद् यज्ञाः प्रजायन्ते कर्माण्यपि भवन्ति च ।
सम्पद्यते सुरतृप्तिः श्रीमत्कृष्णे समर्पिते ।।९ १ ।।
परब्रह्म च यो वेद यस्ततो न प्रमाद्यति ।
मायापाप्मानमुत्सृज्य ब्रह्मभोगान् समश्नुते ।।९२।।
सन्तं कृष्णं प्रवदन्तं सन्तं ध्यायन्तमेव च ।
सेवमानं तथा सन्तं सत्पदं स हि कर्षति ।।९ ३ ।।
स हि सृष्ट्वा तदेवाऽनुप्राविशत्सः परात्परः ।
सत्यं यथानृतं तेन सत्यमित्येव बुद्ध्यते ।।९४।।
असद् व्याकृतभावं च सुकृतं तेन बुद्ध्यते ।
सोऽक्षरात्पुरुषद्वारा नैकाण्डान्युदपादयत् ।।९५ ।।
तस्य परात्मनो योगात् तेषु सत्यं च सुकृतम् ।
अक्षरे च यथा तद्वज्ज्ञात्वा मोक्षमवाप्नुयात् ।।९६।।
सदेव राजन् भगवानभूत्पुरा
ततः समस्तं सत्स्वरूपं विकासितम् ।
रसात्मकोऽयं सर्वरसप्रदाता
लब्ध्वा रसं तस्याऽऽनन्दीभवन्ति ।।९७।।
अस्याऽऽनन्देन वै लोका भवन्ति चाभयं गताः ।
मनो वाचो न वै यान्ति यत्र तं भज केशवम् ।।९८।।
तस्माज्जायन्त इमानि जीवन्त्यपि ततः प्रभोः ।
तत्रैवेमे पलीयन्ते शाश्वतं प्रलयं व्रज ।।९९।।
परमात्मा दिव्यरूपो ध्येयश्चासीत्पुरागृहे ।
रचयित्वा द्वितीयं च तत्रोवास च तं भज ।। 1.523.१० ०।।
स्थावरं जंगमं सर्वं प्रज्ञानेत्रं प्रभासते ।
प्रज्ञाने वर्तते यश्च तं नेत्रं भज माधवम् ।। १०१ ।।
शान्तं सर्वात्मकं ब्रह्मपरं कं खं हरिं भज ।
श्रद्धया तपसा दिव्यं नेतारं त्वर्चिषाऽच्युतम् ।। १ ०२।।
दिव्यान्तःस्थं शुक्लपक्षान्तरात्मानं हरिं भज ।
उत्तरायणमासस्थं सम्वत्सरान्तरस्थितम् ।। १०३ ।।
आदित्यवर्तिनं चन्द्रान्तरात्मानं च तं भज ।
विद्युत्प्रकाशदातारं वरुणस्थं जलान्तरम् ।।१ ०४।।
इन्द्रान्तरं प्रजापतेरान्तरस्थं विराड्गतम् ।
रुद्रहृदयं विष्णुस्थं महाविष्णुप्रतिष्ठितम् ।। १ ०५।।
निरञ्जनस्थं शबलान्वितं केवलगं भज ।
अक्षरब्रह्मगो भूत्वा तत्पुमांसं सदा भज ।। १ ०६।।
दानानां फलदातारं धूम्ररात्रिस्थितं प्रभुम् ।
कृष्णपक्षान्तरस्थं च दक्षिणायनगं हरिम् ।। १ ०७।।
सम्वत्सरान्तरस्थं च पितृस्थं व्योमगं भज ।
चन्द्रस्थं च प्रजापालस्थितं राजन् सदा भज ।। १ ०८।।
वायुस्थं चाभ्रसंवासं मेघस्थं कणवर्तिनम् ।
बीजस्थं कार्यरूपं चाभिव्याप्तं श्रीहरिं भज ।। १ ०९।।
रमणीयखनिजेषु विप्रादिषु हरिं भज ।
दयनीयखनिजेषु गवादिषु हरिं भज ।। 1.523.११ ०।।
एष देवो हतपाप्मा विजरो मृत्युवर्जितः ।
विशोकः क्षुत्तृषाहीनः सत्यकामप्रकल्पनः ।। १११ ।।
त्वत्स्वरूपस्त्वत्समानस्त्वादृशं तं प्रभुं भज ।
तस्य रूपेण ते चाभिनिष्पत्तिस्तं तथा भज ।। १ १२।।
क्रीडन्नृत्यन् कीर्तयँश्चानन्दयन् संस्मरन् सदा ।
स्वेन रूपेण कुर्वन्तं त्वां तं तथाविधं भज ।। ११ ३।।
विना भक्तं न रमते द्वितीयं तं ह्यकल्पयत् ।
तं त्वयि व्याप्तमेवैनं हृदयस्थं सदा भज ।। १ १४।।
सोऽयमात्मा त्वया राजन् द्रष्टव्यो हृत्स्थचक्षुषा ।
श्रोतव्यो हृच्छ्रवसा च मन्तव्यो दिव्यतेजसा ।। १ १५।।
निर्णेतव्यस्तस्य बुद्ध्या न त्याज्यः स कदाचन ।
एवं सर्वात्मभावेन पश्य कृष्णं सनातनम् ।। १ १६।।
तस्मिन् सर्वाणि भूतानि चार्पितानि च तं भज ।
यः पृथिव्यां जले वह्नौ वायौ व्योम्नि च तं भज ।। १ १७।।
यस्येमानि शरीराणि शरीरस्थं च तं भज ।
आत्मा सन्तः प्रतिमा च यस्य तं केशवं भज ।। १ १८।।
यस्मात् सर्वे समानन्दा जीवा चानन्दिता यतः ।
आप्तकामं महानन्दं पूर्णं नारायणं भज ।। १ १९।।
कामान् विहाय हृदये हरिं स्थापय भावतः ।
स्थितं चावेहि वै राजन् याहि तं शरणं भज ।। 1.523.१ २०।।
नाऽनवाप्तं तदा तेऽत्राऽवशिष्टं नहि शिष्यते ।
सैषा ब्राह्मी पराविद्या पाठिता ते प्रमोक्षदा ।। १२१।।
अथायं राजा सन्तृप्तश्चात्मन्येव जनार्दनम् ।
परमं पुरुषं दिव्यं ददर्श पुरुषोत्तमम् ।। १ २२।।
शंखचक्रगदापद्मधनुःशूलादिराजिम् ।
राधालक्ष्मीप्रभापद्मापार्वतीमाणिकीश्वरम् ।। १२३।।
सर्वाभिः सेविकाभिश्च सेवितं पार्षदैस्तथा ।
हृदये तं प्रभुं कृष्णनारायणं विलोक्य च ।। १ २४।।
तदिच्छया बहिश्चापि तं ददर्श श्रियाःपतिम् ।
लोमशस्य च कृपया पराविद्याप्रभावतः ।। १ २५।।
व्योम्नः समागतं दिव्यं विमानं चातिसुन्दरम् ।
ब्रह्मणश्चाज्ञया देवदूतेन त्वधिवासितम् ।। १२६।।
देवदूतः समुवाचाऽऽगच्छाऽऽगच्छ विमानके ।
राजन्नयामि ते सत्यं लोकं श्रीपरमेष्ठिनः ।। १ २७।।
इन्द्रद्युम्नश्च तं प्राह न मे सत्ये प्रयोजनम् ।
यास्यामि श्रीकृष्णनारायणस्य चरणं ध्रुवम् ।। १ २८।।
अक्षरात्परमं धाम लोमशस्य कृपालवात् ।
इत्युक्तो देवदूतः स ययौ लोकं तु वेधसः ।। १ २९।।
इन्द्रद्युम्नो विरराम लोमशस्य तु सन्निधौ ।
लोमशस्तं सरस्तीरे तृणासनं ददौ शुभम् ।। 1.523.१ ३०।।
कदम्बद्रुमनिकटे कृष्णनारायणालये ।
राजा स्नात्वा हरिं ध्यात्वा पूजयित्वा नरायणम् ।। १३१ ।।
लोमशं पूजयित्वा च ऋषीन्नत्वा तदाश्रमे ।
फलादि श्रीकृष्णनारायणाय विनिवेद्य च ।। १ ३२।।
समर्प्य गुरवे तत्र बुभुजे च पपौ जलम्।
योगनिद्रां सुखमयीं लेभे रात्रौ हरिं स्मरन् ।। १ ३३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नाय लोमशर्षिसमुपदिष्टब्राह्मीपराविद्यौपनिषदात्मस्मरणनामा त्रयोविंशत्यधिक-
पञ्चशततमोऽध्यायः ।।५२३।।