लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५१७

विकिस्रोतः तः
← अध्यायः ५१६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५१७
[[लेखकः :|]]
अध्यायः ५१८ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पुरा त्वासीद् हिरण्यकशिपुर्महान् ।
तस्य पुत्रद्वयं जज्ञे प्रह्लादश्चान्धकस्तथा ।। १ ।।
हिरण्यकशिपौ प्राप्ते परलोकं हरेः करात् ।
अमात्यैरभिषेकाय प्रह्रादः सन्नियोजितः ।। २ ।।
किन्तु नैच्छत् स राज्य तद् दानवैर्द्वेषकारणात् ।
ततोऽन्धकोऽभिषिक्तश्च राज्ये दानवपुंगवैः ।। ३ ।।
अन्धकोऽपि समाराध्य ब्रह्माणं त्वमरोऽभवत् ।
यावत्कल्प वरपुष्टस्ततः शक्रं जिगाय सः ।। '४ ।।
अमरावतिकां स्वस्य राजधानीं चकार सः ।
इन्द्रः शंभुं समाराध्य वरं वव्रे सुरार्थकम् ।। ५ ।।
अन्धकेन हृतं सर्वं देवराज्यं मखादिकम् ।
यज्ञभागादिकं सर्वं राज्यं हृतं प्रयच्छ मे ।। ६ ।।
शिवस्तथास्त्विति प्राह प्रेषयामास तं प्रति ।
वीरभद्रं निजदूतं स गत्वोवाच चान्धकम् ।। ७ ।।
हरादेशात्परित्यज्य स्वर्गं गच्छ धरातलम् ।
पितृपैतामहं राज्यं पृथिव्यां त्वं समाचर ।। ८ ।।
नो चेत् तव पदं सर्वं शंकरः संहरिष्यति ।
अन्धकस्तं वीरभद्रं समुवाच हरं वद ।। ९ ।।
कस्त्वं श्मशानवासोऽसि गणनायां ममान्तिके ।
कैलासं मे समर्प्य त्वम काश्यां गच्छ श्मशानके ।। 1.517.१० ।।
नो चेत् प्राणान् हरिष्यामि तव सेन्द्रस्य शंकर ।
श्रुत्वा वीरप्रभद्रस्तं विनिर्भर्त्स्य ययौ हरम् ।। ११ ।।
कथयामास तद्वाक्यं सन्नद्धश्च हरोऽभवत् ।
गणैर्देवैस्तथा चान्यैः सैन्यैर्युक्तोऽमरावतीम् ।। १ २।।
ययौ तां वाहिनीं दृष्ट्वा तत्रसुर्दैत्यपुंगवाः ।
अन्धकेन तु निद्रायां दृष्टं दुःस्वप्नमुल्बणम् ।। १३ ।।
समुद्वेगभयव्याप्तश्चाहारोत्साहवर्जितः ।
अन्धकः पुत्रमित्रादीनाह सर्वमरिष्टकम् ।। १ ४।।
मया दृष्टो निशीथेऽद्य दुःस्वप्नोऽतिभयप्रदः ।
बिभ्रतो रक्तपुष्पाणां माला च रक्तचन्दनम् ।। १५।।
रक्ताम्बरं तीक्ष्णखङ्गं खर्परं च भयानकम् ।
प्रकृत्याऽट्टाट्टहासं च ललज्जिह्वा भयंकरी ।। १ ६।।
अतीव वृद्धा कृष्णांगी नारी पुरेऽत्र नृत्यति ।
मुक्तकेशी छिन्ननासा कृष्णा कृष्णाम्बरान्विता ।। १ ७।।
विधवा सा महाशूद्रा ममालिंगनकामुकी ।
मलिनं चेलखण्डं च बिभ्रती रूक्षमूर्धजान् ।। १८।।
दधती चूर्णतिलकं कपोले मम वक्षसि ।
हसित्वा क्रूरतां दर्शयित्वा चुम्बति मां मुहुः ।। १९ ।।
कृष्णवर्णानि पक्वानि छिन्नभिन्नानि सर्वशः ।
पतन्ति कृत्वा शब्दांश्च शश्वत्तालफलानि हि ।। 1.517.२० ।।
कुचैलो विकृताकारो म्लेच्छो हि रूक्षमूर्धजः ।
ददाति मह्यं भूषायां छिन्नभिन्नकपर्दकान् ।।२ १।।
महारुष्टा च दिव्या स्त्री पतिपुत्रवती सती ।
बभंज पूर्णकुंभं च साऽभिशप्य पुनः पुनः ।।२२।।
अम्लानां मुण्डमालां च रक्तचन्दनचर्चिताम् ।
ददाति मह्यं विप्रश्च महारुष्टोऽतिशप्य वै ।।२३।।
क्षणमंगारवृष्टिश्च भस्मवृष्टिः क्षणं क्षणम् ।
क्षणं क्षणं रक्तवृष्टिर्जायते नगरे मम ।।।२४।।
वानरं वायसं श्वानं भल्लूकं सूकरं खरम् ।
पश्यामि विकटाकारं शब्दं कुर्वन्तमुल्बणम् ।।२५।।
पश्यामि शुष्ककाष्ठानां राशिमम्लानकज्जलम् ।
अरुणोदयवेलायां कपींश्छिन्ननखानि च ।।।२६।।
पीतवस्त्रपरीधाना शुक्लचन्दनचर्चिता ।
बिभ्रती मालतीमालां रत्नभूषणभूषिता ।।।२७।।
क्रीडाकमलहस्ता च सिन्दूरबिन्दुशोभिता ।
कृत्वाऽभिशापं मां रुष्टा याति मन्मन्दिरात् सती ।।२८।।
पाशहस्ताँश्च पुरुषान् मुक्तकेशान् भयंकरान् ।
अतिरूक्षाँश्च पश्यामि विशतो नगरं मम ।।२९।।
नग्ननारीं मुक्तकेशीं नृत्यन्तीं च गृहे गृहे ।
अतीव विकृताकारां पश्यामि सस्मितां सदा ।।1.517.३०।।
छिन्ननासा च विधवा महाशूद्री दिगम्बरा ।
सा तैलाभ्यंगितं मां च करोत्यतिभयंकरी ।। ३१ ।।
निर्वाणांगारयुक्ताश्च भस्मपूर्णा दिगम्बराः ।
अतिप्रभातसमये चित्राः पश्यामि सस्मिताः ।।३ २।।
पश्यामि च विवाहं च नृत्यगीतमनोहरम् ।
रक्तवस्त्रपरीधानान्पुरुषान् रक्तमूर्धजान् ।।३३।।
रक्तं वमन्तं पुरुषं नृत्यन्तं नग्नमुल्बणम् ।
धावन्तं च शयानं च पश्यामि सस्मितं तथा ।।३४।।
राहुग्रस्तं च गगने मण्डलं चन्द्रसूर्ययोः ।
एककाले प्रपश्यामि सर्वग्रासं च तामसम् ।।३५।।
उल्कापातं धूमकेतुं भूकम्पं राष्ट्रविप्लवम् ।
झञ्झावातं महोत्पातं पश्यामि च क्षितिास्थितः ।।३६।।
वायुना घूर्ण्यमानाँश्च छिन्नस्कन्धान्महारुहान् ।
पतितान् पर्वतांश्चैव पश्यामि पृथिवीतले ।।३७।।
पुरुषं छिन्नशिरसं नृत्यन्तं नग्नमुच्छ्रितम् ।
मुण्डमालाकरं घोरं पश्यामि च गृहे गृहे ।।३८।।
दग्धं सर्वाश्रमं भस्मपूर्णमङ्गारसंकुलम् ।
हाहाकारं प्रकुर्वन्तं सर्वं पश्यामि सर्वतः ।।३९।।
स्नातुं गच्छामि च नदीं सा तु शुष्कायते क्षणात् ।
मूर्तयो देवतानां च दृष्टा विलीनतां गताः ।।1.517.४०।।
गर्दभं घोटकं गन्त्रीयुतं यान्तं च दक्षिणाम् ।
गन्त्र्यां स्थितं च मां तत्र प्रपश्यामि चिरं मुहुः ।।४१ ।।
अन्यत्र गमनं मे वै भाति लोकान्तरं प्रति ।
मयैव च विवाहोऽपि मया दृष्टो हि योषिता ।।४२।।
गाग्रेशमस्तकं स्कन्धाद्वियुक्तं दग्धमित्यपि ।
नद्यां मयेति सन्दृष्टं क्षणाज्जागरुकोऽभवम् ।।४३।।
उष्ट्रो भूफलिनीर्भुक्त्वा मां प्रत्येतीति वीक्षितम् ।
सिद्धान्नानि वीक्षितानि न च भुक्तानि वै मया ।।४४।।
स्वप्ने चातीव कलहः परस्परं प्रवीक्षितः ।
स्वस्यैव मुण्डनं स्वप्ने कारितं च मया मुहुः ।। ४५।।
हरितद्रुमशाखानां भंगा विलोकिता मया ।
समुद्रे ब्रूडति कश्चिन्मम बन्धुर्विलोकितः ।।४६।।
कस्यचिल्लिंगतो रक्तं निःसृतं वीक्षितं मया ।
ब्राह्मणस्त्वतिरुष्टश्च शपतीत्यवलोकितम् ।। ४७।।
जीर्णाम्बरं धृतं देहे नष्टं तत्पतितं तथा ।
कुक्कुरा मां विलोक्यैव भषन्तीत्यवलोकितम् ।।४८।।
शुष्ककाष्ठानि च मया द्वेधीकृतानि हस्ततः ।
निकृन्तने यन्त्रेण वेल्लणार्थं विलोकितम् ।।४९।।
फणाफुल्लो महासर्पो दृष्टश्चापि मृतोऽपि सः ।
व्योमसेतोर्बालकश्चाऽकूर्दयत् पतितुं जले ।।1.517.५०।।
जलं विहाय च दूरं पाषाणे पतितो भ्रमात् ।
अन्यस्य भवने दृष्टं गोष्ठं रिक्तं विवर्तितम् ।।५१ ।।
आरण्यकश्च मार्जारो विलोकितो मया वने ।
कृष्णाम्बरो जनो मां धूष्कृतीयन्त्रेण वै सुकृत् ।।५२।।
अलक्षयद् यथा हन्तुं कृत्वा मां वै प्रदक्षिणम् ।
मया रिक्ता धूष्कृती सा स्फोटिता तं जनं प्रति ।।५३ ।।
गौः सवत्सा बहिर्याति रात्रौ ममाऽऽश्रमात् तथा ।
भवनस्य ध्वजश्चापि पतितश्चावलोकितः ।।।५४।।
सत्कार्यार्थं च कोशस्य कुञ्चिका नैव वीक्षिता ।
आशीर्वादपरा विप्रा मां विहायाऽन्यतो गताः ।।५५।।
एवं दृष्टं मया स्वप्ने सर्वमद्य निशात्यये ।
न जाने किं दैवयोगाद् विपरीतं भवेदिति ।।५६।।
शुशोचेति वर्णयित्वाऽन्धकस्तावच्च तत्प्रिया ।
पत्नी रात्रौ च दुःस्वप्नं यद् ददर्श जगाद तत् ।।५७।।
शृणु राजन् ममाऽप्यद्याऽरीष्टानि हि निशात्यये ।
उपस्थितानि निद्रायां तैश्च भयं व्रजामि वै ।।५८।।
अहो स्वामिन्निहाऽऽगच्छ त्वां करोमि स्ववक्षसि ।
परिणामे विधाता मे न जाने किं करिष्यति ।।।५९।।
रत्नसिंहासनेऽहं च रत्नच्छत्रं च बिभ्रती ।
तदाऽऽतपत्रं जग्राह रुष्टो विप्रस्तु मे प्रभो ।।1.517.६०।।
सागरे कज्जलाकारे महाघोरे च दुस्तरे ।
गभीरे प्रेरयामास मामेव दुर्बलां स च ।।।६१ ।।
तत्र स्रोतसि शोकार्ता भ्रमामि च मुहुर्मुहुः ।
महौर्मीणां च वेगेन व्याकुला नक्रसंकुलैः ।।६२।।
त्राहि त्राहीति हे नाथ त्वां वदामि मृतं पतिम् ।
त्वां न दृष्ट्वा महाभीता करोमि बहुरोदनम् ।।६३।।
नाथ तत्र निमजन्ती पश्यामि चन्द्रमण्डलम् ।
निपतन्तं च गगनाच्छतखण्डं च भूतले ।।६४।।
क्षणान्तरे शतखण्डं सूर्यं पश्यामि भूतले ।
एककाले द्वयोर्ग्राहः कृष्णं चाकाशमण्डलम् ।।६५।।
क्षणान्तरे प्रपश्यामि ब्राह्मणो दीप्तिमानिति ।
मत्क्रोडस्थसुधाकुंभं बभञ्ज प्ररुषेति च ।।६६।।
क्षणान्तरे प्रपश्यामि महारुषं च भूसुरम् ।
गृहीत्वा संव्रजन्तं च सन्निधौ वै पतिं मम ।।६७।।
क्रीडाकपालदण्डं च हस्ताद्धस्तं मम प्रभो ।
सहसा खण्डखण्डं च बभूव सह हेतुना ।।६८।।
हस्ताद्धस्तं च सहसा दर्पणो वलयस्तथा ।
निर्मलः कज्जलाकारः खण्डखण्डो बभूव ह ।।६९।।
हारो मे रत्नसाराणां छिन्नो भूत्वा च वक्षसः ।
अतीव मलिनं पद्मं पपात धरणिस्थले ।।1.517.७०।।
सौधपुत्तलिकाः सर्वा नृत्यन्ति च हसन्ति च ।
आस्फोटयन्ति गायन्ति रुदन्ति च क्षणे क्षणे ।।७१।।
कृष्णवर्णं बृहच्छस्त्रं त्रिशूलं खे समागतम् ।
निपतन्तं भ्रमन्तं चोत्पतन्तं त्ववलोकये ।।७२।।
प्राणाधिदेवः पुरुषो निःसृत्याऽऽभ्यन्तरान्मम ।
प्रिये विदायं देहीति ततो यामीत्युवाच माम् ।।७३।।
कृष्णवर्णा च प्रतिमा मामाश्लिष्यति चुम्बति ।
कृष्णवस्त्रपरीधाना स्वप्ने पश्यामि साम्प्रतम् ।।७४।।
इतीदं विपरीतं च दृष्ट्वा वै प्राणवल्लभ ।
नृत्यन्ति दक्षिणांगानि प्राणा आन्दोलयन्ति मे ।।७५।।
रुदन्ति शोकात् कर्षन्ति समुद्विग्नं च मानसम् ।
तव वामांगकम्पं च लोकयामि पुनः पुनः ।।७६।।
किमिदं किमिदं नाथ विपरीतं भविष्यति ।
इत्युक्त्वा तं समाश्लिष्य क्षणं सुखं ललाभ ह ।।७७।।
अन्धकस्तां समाश्लिष्य ददौ धैर्यं पुनः पुनः ।
प्रेम्णा त्वाकृष्य तन्वंगीं परिरेभे चुचुम्ब च ।।७८।।
एतस्मिन्नेव समये महेन्द्रस्य शुभानि वै ।
सुस्वप्नान्यभवँस्तेन तुतोष हृष्टमानसः ।।७९।।
ददर्श प्रथमं विप्रबालकं पद्मलोचनम् ।
भूषितं सस्मितं पुष्पमालाचन्दनराजितम् ।।1.517.८०।।
बद्धशिखं सतिलकं जपन्तं वेदमातरम् ।
ततो ददर्श रुचिरां पतिपुत्रवतीं सतीम् ।।८ १।।
स्वर्णवस्त्रपरीधानां रत्नभूषणभूषिताम् ।
ज्वलत्प्रदीपहस्तां च शुक्लधान्यकरां वराम् ।।८२।।
शरच्चन्द्रनिभास्यां च सस्मितां वरदां शुभाम् ।
ततो ददर्श विप्रं च प्रकुर्वन्तं शुभाशिषम् ।।८३ ।।
श्वेतपद्मं राजहंसं तुरगं च सरोवरम् ।
ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् ।।८४।।
आम्रनिम्बनारिकेलागुर्वर्ककदलीतरुम् ।
दशन्तं श्वेतसर्प च स्वात्मानं पर्वतस्थितम् ।।८५।।
वृक्षस्थं च गजस्थं च तरीस्थं तुरगस्थितम् ।
वीणां प्रवादयन्तं च भुञ्जानं मिष्टपायसम् ।।८६।।
दधिक्षीरयुतान्नं च पद्मपत्रस्थमीप्सितम् ।
कृमिविट्सहितांगं च शुक्लचन्दनचर्चितम् ।।८७।।
शुक्लधान्यपुष्पहस्तं प्रासादस्थं समुद्रगम् ।
ततो ददर्श रजतं मणिं शुभ्रं च काञ्चनम् ।।८८।।
मुक्तामाणिक्यरत्नं च पूर्णकुंभजलं शुभम् ।
सुरभिं सहवत्सां च वृषभेन्द्रं मयूरकम् ।।८९।।
शुकं च सारसं हंसं चिल्लं खञ्जनमित्यपि ।
ताम्बूलं पुष्पमाल्यं च ज्वलदग्निं सुरार्चनम् ।।1.517.९० ।।
पार्वतीप्रतिमां कृष्णनारायणस्य सन्निधौ ।
शांकरं चोज्ज्वलं लिंगं गुरुं देवं बृहस्पतिम् ।।९१ ।।
विप्रबालां सुफलितां कृषिं पक्वफलान्विताम् ।
देवस्थलीं च राजेन्द्रं सिंहं व्याघ्रं गजं मुनिम् ।।९२।।
दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराऽऽह्निकमीप्सितम् ।
शंकरं कथयामास सर्वं वृत्तान्तमेव तम् ।।९३।।
शंकरोऽपि तदा प्राह महेन्द्रं शकुनानि वै ।
यानि ददर्श मार्गे स मंगलार्हाणि सर्वथा ।।९४।।
जयप्रदानि सर्वाणि मंगलाऽऽसूचकानि वै ।
वामे विप्रं शिवां पूर्णकुंभं नकुलचाषकम् ।।९५।।
पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम् ।
शुक्लपुष्पं च माल्यं च धान्यं च खञ्जनं शुभम् ।।९६।।
दक्षिणे ज्वलदग्निं च विप्रं च वृषभं गजम् ।
वत्सप्रयुक्तां धेनुं च श्वेताश्वं राजहंसकम् ।।९७।।
वेश्यां च पुष्पमालां च पताकां दधि पायसम् ।
मणिं सुवर्णं रजतं मुक्तामाणिक्यमीप्सितम् ।।९८।।
मद्यं मांसं चन्दनं च माध्वीकं घृतमुत्तमम् ।
कृष्णसारं फलं लाजां सिद्धान्नं दर्पणं तथा ।।९९।।
विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा ।
शुक्लोत्पलं पद्मवनं शंखचिल्लं च कोरकम् ।। 1.517.१० ०।।
मार्जारं पर्वतं मेघं मयूरं शुकसारसम् ।
शंखकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् ।। १०१ ।।
विचित्रकृष्णसंगीतं हरिशब्दं जयध्वनिम् ।
एवंभूतं शुभं दृष्टं कथयामास सर्वथा ।। १ ०२।।
तावद् भेर्यो ह्यवाद्यन्त शंखाः शंकरसैन्यके ।
अन्धकश्चापि विज्ञाय ससैन्यः समरं ययौ ।। १ ०३।।
प्रथमं मिलिता नग्ना विधवा खण्डवस्त्रिका ।
मलिना विकृताऽऽकारा छिन्ननासोर्ध्वमूर्धजा ।। १ ०४।।
गर्दभो महिषश्चोष्ट्रः सूकरः श्वा च भल्लुकः ।
काको गृध्रो वानरश्च कंकः शुष्कतृणानि च ।। १ ०५।।
कुलालस्तैलकारश्च नापितो रजकस्तथा ।
दग्धकाष्ठं गलत्कुष्ठो वृषलो कलहद्विजः ।। १ ०६।।
रुष्टभिक्षुः प्रमुण्डा च प्रमुण्डी कृपणस्तथा ।
क्षुत्कारः शस्त्रपतनं रथात्मुकुटपातनम् ।। १ ०७।।
ध्वजदर्पणपतनं त्वश्वानां जानुभुग्नता ।
रिक्तं कलशयुगलं कृष्णसर्पो भयंकरः ।। १ ०८।।
घूकस्य दर्शनं चेति समीपे मीलितानि वै ।
मृत्युसूचकवस्तूनि वीक्षितान्यन्धकेन वै ।। १० ९।।
पवनश्चातिवेगेन सम्मुखं वाति दुःखकृत् ।
यन्त्रीचक्रं प्रभग्नं च हस्तिः प्रमत्ततां गतः ।। 1.517.११ ०।।
विदित्वैवं रणे त्रस्तो बहिर्धैर्याऽवलम्बनः ।
उपर्याडम्बरयुक्तो मृत्युनिश्चितमानसः ।। १११ ।।
अन्धकः कोटिसैन्येन हरान्तिकमुपाययौ ।
ददर्श देवसैन्यानि भुवि व्योम्नि जलेऽपि च ।। १ १२।।
दानवानां च सैन्यानि सन्नद्धानि प्रतिक्रमात् ।
युद्धारंभस्य वाद्यानि त्ववाद्यन्ताऽसुरादिषु ।। ११३ ।।
युद्धबोधकचिह्नात्मध्वजा व्योम्नि चकाशिरे
दैत्यः सशंकरं नत्वा मुमोच शतसायकान् ।। १ १४।।
शंकरस्तानर्धचन्द्रैश्छित्वा मुमोच मार्गणान् ।
शिलीमुखान् शतसंख्यान् दैत्यस्तान् प्रचकर्त ह ।। १ १५।।
एवं समभवद् युद्धं देवानां दानवैः सह ।
गणैश्च विकृताकारैर्दानवानां भयंकरम् ।। १ १६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽन्धकासुरस्य तत्पत्न्याश्च दुष्टस्वप्नाद्यपशकुनानि, इन्द्रस्य सुशकुनानि, शंकरेण सहाऽन्धकस्य युद्धं चेतिनिरूपणनामा सप्तदशाधिकपञ्चशततमोऽध्यायः ।।५१७।।