लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४९६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४९६
[[लेखकः :|]]
अध्यायः ४९७ →

श्रीनारायण उवाच-.
शृणु लक्ष्म्यभवद् राजा ह्यजापालाभिधो महान् ।
साकेतविषये श्रीमानचिन्तत् स पुनः पुनः ।। १ ।।
मया तत्कर्म कर्तव्यं यदन्यैरिह भूमिपैः ।
न कृतं न करिष्यन्ति ये भविष्यन्त्यतः परम् ।। २ ।।
प्रजानां पालनं शश्वत् करादानं विना न वै ।
करादानेन सैन्यादिपोषणं भवति ध्रुवम् ।। ३ ।।
करादानेन राष्ट्रस्य मनःक्षोभः प्रजायते ।
तस्मान्मया विना सैन्यं तपःशक्त्या स्वराष्ट्रकम् ।। ४ ।।
रक्षणीयं विचिन्त्यैवं वशिष्ठं समुवाच सः ।
मया तपः प्रकर्तव्यं प्रजानां हितकाम्यया ।। ५ ।।
तादृशं परमं क्षेत्रं प्रदर्शय कृपानिधे ।
वशिष्ठः प्राह सौराष्ट्रे क्षेत्रं श्रीहाटकेश्वरम् ।। ६ ।।
शीघ्रं तपःफलसिद्धिप्रदं तद्वर्तते नृप ।
ब्रह्मचर्यपरो भूत्वा शुचिर्व्रतपरायणः ।। ७ ।।
पार्वती त्वं पूजयस्व तुष्टा शीघ्रं भविष्यति ।
ऩत्युक्तः प्रययौ तत्र पार्वतीं समपूजयत्। ।। ८ ।।
तदाराधनया माता तुष्टा प्राह नृपोत्तमम् ।
ब्रूहि तद् येन ते सर्वं प्रकरोमि हृदि स्थितम् ।। ९ ।।
राजा प्राह प्रजारक्षाकृतेऽस्त्राणि तदर्थकान् ।
मन्त्रान् शस्त्राणि दिव्यानि देहि मे खेचराणि वै ।। 1.496.१ ०।।
यानि जानन्ति सर्वासां प्रजानामपराधकम् ।
न्यायं पारदार्यादि चौर्यादि मानवा इव ।। ११ ।।
मत्पार्श्वस्थानि तान्येव तत्र गत्वाऽपराधिनम् ।
दण्डयेयुः पुनः पार्श्वमागच्छेयुर्यथास्थलम् ।। १२।।
मन्त्रग्रामं तथा देहि व्याधीनां निग्रहाय च ।
येन प्रजाः स्युर्नीरोगाः पुष्टाः सुखाश्च निर्भयाः ।। १३।।
करजीव्यं गजवाजिसैन्यं मे नास्त्यभीप्सितम् ।
पार्वती प्राह राजेन्द्र दुष्करं तव कर्म वै ।। १४।।
तथाप्येवं प्रदास्यामि तपसस्ते फलानुगम् ।
ज्ञानयुक्तानि शस्त्राणि मन्त्रग्रामं च तादृशम् ।।१५।।
सर्वे रोगा स्तवाऽधीना भविष्यन्ति महीतले ।
यदा त्वं यास्यसि स्वर्गं जले स्थापय तानि वै ।। १६।।
नान्यस्मै तानि कस्मैचिद् दातव्यानि कदाचन ।
इत्युक्त्वा प्रददौ देवी दिव्यास्त्रशस्त्रमन्त्रकान् ।।१७।।
राज्ञा यथा प्रार्थिताँश्च व्याधिमन्त्राँश्च सर्वशः ।
व्याधयो येन गृह्यन्ते मुच्यन्ते स्वेच्छया तथा ।। १८।।
सुखेन परिपाल्यन्ते व्याधयो दृष्टिगोचराः ।
एवं देवीप्रसादेन प्राप्य वै सकलं नृपः ।। १ ९।।
ययौ साकेतनगरीं गजदानादिकं ददौ ।
सैन्यं व्यस्तं चकारापि कराँश्चाऽमोचयत्तथा ।। 1.496.२०।।।
प्रजानां रक्षणं तानि शस्त्राण्येव दधत्यपि ।
दण्डं यथापराधं च प्रकाशं गुप्तमेव वा ।। २१ ।।
अदृष्टान्यपि शस्त्राणि तानि कुर्वन्ति तत्क्षणात्। ।
गुप्तोऽपि नाऽपराधोऽस्ति कस्यचित् प्रकटः कुतः ।।।२२।।
एवं नियमितं सर्वं राज्ये च परराष्ट्रकं ।
अन्येषां च महीपानां राज्ये गुप्त्यान्यनेकशः ।।।२३।।।
कुर्वन्ति चापराधानि तेषां चक्रे यमग्रहम् ।
स च वै सकलान् व्याधीन् मन्त्रैः संयम्य यत्नतः ।।२४।।
अजारूपान् स्वयं पश्चाद् यष्टिमादाय रक्षति ।
रोगेषु निगृहीतेषु सुखं श्रेष्ठं गताः प्रजाः ।।२५।।
प्रयाताः शून्यतां सर्वे नरकाश्च शनैः शनैः ।
न कश्चिन्नरकं याति न च मृत्युपथं नरः ।।२६।।
स्वर्गतुल्याः सत्यतुल्याः पृथ्व्यां प्रजास्तदाऽभवन् ।
ततो वैवस्वतो गत्वा ब्रह्माणं प्रार्थयत् सति ।।२७।।
अहं पुरा त्वया ब्रह्मन् धर्माधर्मदिदृक्षया ।
समादिष्टाऽस्मि लोकानां निग्रहानुग्रहौ प्रति ।।२८।।
अजापालेन भूपेन तत्सर्वं निष्फलीकृतम् ।
तपःशक्त्या प्रजानाथ देवीमाराध्य पार्वतीम् ।।२९।।
नाधयो व्याधयस्तेन प्रवर्तन्ते महीतले ।
न पापानि चापराधान् कुर्वन्त्यपि भयात् प्रजाः ।।1.496.३ ० ।।
एवं धर्मस्य सन्पन्थाः तेन कृतो हि भूभृता ।
तस्य रोधं प्रकुर्वन्तु ब्रह्मविष्णुमहेश्वराः ।।३ १ ।।
श्रुत्वैवं यमराजस्य ब्रह्मा सस्मार शंकरम् ।
विष्णुं च तौ समायातौ शंभुं प्राह च विश्वसृट् ।। ३२।।
किं कर्तव्यं चात्र कार्ये वद शंभो वद प्रभो ।
शंभुराह सुधर्मे वै प्रवृत्तस्य शुभार्थिनः ।। ३३ ।।
कथं निवारणं तत्र क्रियते कश्च निग्रहः ।
आयुस्तस्य कियद्दीर्घं वर्तते वद मे यम! ।। ३४।।
येन तत्समये प्राप्ते तन्नयामि निजं क्षयम् ।
यमः प्राह तदायुश्च षष्टिवर्षसहस्रकम् ।। ३५।।
पञ्चवर्षसहस्राणि गतानि तस्य साम्प्रतम् ।
तिष्ठन्ति पञ्चपञ्चाशत्सहस्राणि भविष्यकम् ।।३६।।
अहो दीर्घं तदायुश्च विलोक्य शंकरो ययौ ।
व्याघ्ररूपं समास्थाय तस्य राज्ञः समीपतः ।। ३७।।।
मेघगर्जननिर्घोषं गर्जमानो मुहुर्मुहुः ।
अजाश्चाथ तं संवीक्ष्य दुद्रुवुः सर्वतो दिशः ।। ३८ ।।
व्याघ्रेण भक्षिताः सर्वे तदा स पृथिवीपतिः ।
व्याघ्रं हन्तुं मन्त्रयुक्तान्यस्त्राणि प्रैरयत्त तः ।। ३ ९।।
तानि शस्त्राणि मन्त्राँश्चाऽस्त्राणि जग्राह शंक रः ।
स्ववक्त्रेण समस्तानि न चाऽऽयान्ति नृपं प्रति ।।1.496.४ ० ।।
अस्त्राभावात् ततस्तूर्णं द्वन्द्वयुद्धं चकार सः ।
तावद्व्याघ्रोऽभवच्छंभुस्त्रिलोचनस्त्रिशूलवान् ।।४१ ।।
राजा त्वानन्दमग्नोऽभूत् मुदा तुष्टाव शंकरम् ।
अज्ञानादवमानं ते कृतं शंभो क्षमां कुरु ।।४२।।।
शंभुः प्राह मया क्षान्तं परितुष्टेन सर्वशः- ।
त्वया कृतं महत् कर्म नान्यैः पूर्व कृतं तथा ।।४३ ।।
प्रजानां रक्षणं चातिमानुषं वै कृतं त्वया ।
तस्माद् गच्छ मया सार्धं कैलासं पार्थिवोत्तम ।।४४।।
अनया धर्मपत्न्या ते सहितश्च सुखी भव ।
नात्र लोके त्वया स्थेयं विरोधेन यमस्य वै ।।४५।।
देवानां च विरोधेन त्वया स्थेयं न भूतले ।
इत्युक्तः स नृपः प्राह करिष्यामि यथाऽऽत्थ मे ।।४६ ।।
देव्या पूर्वं तु मे प्रोक्तं यदा त्वं पृथिवीतलात् ।
प्रयास्यसि तदाऽस्त्राणि शस्त्राणि सर्वमन्त्रकान् ।।४७ ।।
मह्यं दत्वा प्रयातव्यं तत् कृत्वा यामि शंकर ।
शंभुस्तस्मै ददौ तांश्च शस्त्रास्त्रमन्त्रकाँस्ततः ।।४८ ।।
राजा ययौ चमत्कारक्षेत्रं श्रीपार्वतीं प्रति ।
ददौ सर्वाणि पार्वत्यै जले न्यस्य प्रपूज्य च ।।४९।।
माघशुक्लचतुर्दश्यां स्नात्वा पार्वतीकुण्डके ।
ययौ राजा तु साकेतं शंभुर्यत्र प्रतीक्षते ।।1.496.५०।।
राज्यं पुत्रेऽर्पयित्वैव सभार्यो नृपतिर्ययौ ।
कैलासं शंभुना सार्धं शंभुना भूभृते ततः ।।५१ ।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ।
इतिमन्त्रः प्रदत्तश्च तुलसीमालिकाऽर्पिता ।।।२।।
परमो वैष्णवो भूत्वा सभार्यः श्रीहरिं भजन् ।
गोलोकं प्रययौ लक्ष्मि! मुक्तो बभूव शाश्वतः ।।५३।।
तस्य पुत्रोऽभवद् राजा दशरथः सुधार्मिकः ।
विमानेन दिवं याति पातालादौ प्रयाति च ।।५४।।
यस्य पुत्रः स्वयं विष्णू रामचन्द्रो बभूव ह ।
कस्यचित्त्वथ कालस्य दैवज्ञैस्तस्य भूपतेः ।।५५।।
कथितं रोहिणी भेदं शनिर्ग्रहः करिष्यति ।
तेन द्वादशवर्षाणि दुर्भिक्षं संभविष्यति ।।५६ ।।
तथा सम्पत्स्यते सर्वं भूतलं नष्टमानवम् ।
इति श्रुत्वा ययौ राजा तन्मार्गं यत्र वै शनिः ।।५७।।
शक्रदत्तविमानेन शनैश्चरमुपाद्रवत् ।
सज्जं कृत्वा धनुस्तत्र शनैश्चरमुवाच ह ।।५८।।
त्यजैनं रोहिणीमार्गं त्वां हनिष्यामि चान्यथा ।
दिव्यास्त्रमन्त्रयुक्तेन शरेणाऽऽनतपर्वणा ।।५९।।
इति श्रुत्वा शनिः प्राह कस्त्वं रुणत्सि मां दिवि ।
राजा प्राह नृपश्चास्मि अजपुत्रो भुवः पतिः ।।1.496.६०।।
नाम्ना दशरथः प्रजारक्षार्थमत्र चागतः ।
शनिः प्राह त्वया साकं विरोधो नास्ति मे क्वचित् ।।६१ ।।
कथं चापेन वै राजन् मन्मार्गं हन्तुमिच्छसि ।
राजा प्राह शने त्वं रोहिणीमार्गेण गच्छसि ।।६२।।
रोहिणीसंभवं त्वं हि शकटं भेदयिष्यसि ।
तथा जाते नवै वृष्टिरन्नानां संभवो न च ।।६३।।
तेन प्रजाविनाशश्च यज्ञनाशः सुराऽर्दनम् ।
तस्माद् रुद्धस्तवः मार्गः श्रुत्वा शनिरुवाच तम् ।।६४।।
तुष्टोऽहं तव वीर्येण न कृतं केनचित्तु यत् ।
तत् कृतं वै त्वया राजन् वरं वृणु ददामि ते ।।६५।।
तस्मात्प्रजासुखार्थं न भेदयिष्यामि रोहिणीम् ।
राजा प्राह तव वारे तैलाभ्यंगं करोति यः ।।६६।।
तस्य पीडा चाऽऽसप्ताह त्वया कार्या न वै क्वचित् ।
तिलदानं लोहदानं यः करोति दिने तु ते ।।६७।।
वर्षमात्रं त्वया तस्य पीडा कार्या न वै क्वचित् ।
तव गोचरपीडायां शान्तिकर्तुर्जनस्य वै ।।६८।।
सप्त सार्धानि वर्षाणि पीडा कार्या न वै त्वया ।
तथाऽस्त्विति शनिः प्राह विरराम भुवः पतिः ।।६९।।
इदं श्रुत्वा महेन्द्रश्च शीघ्रं ययौ च तत्स्थलम् ।
भूपालं प्राह तुष्टोऽस्मि तव चाऽद्भुतकर्मणा ।।1.496.७०।।
वरं मत्तो गृहाणाऽद्य श्रुत्वा राजा ह्युवाच तम् ।
त्वया सह सदा मैत्री महेन्द्र चास्तु मे शुभा ।।७१ ।।
इन्द्रस्तथाऽस्त्विति प्राह मैत्री मय्यस्तु ते सदा ।
नित्यं सायं प्रगन्तव्यं ममाऽऽलयं त्वया नृप ।।७२।।
इत्युक्त्वा प्रययाविन्द्रो नृपो याति दिवं सदा ।
इन्द्रसदसि संश्रुत्वा गान्धर्वीणां सुगीतिकाः ।।७३।।
नृत्यं तालान्वितं चापि कथा देवर्षिवक्त्रतः ।
दृष्ट्वा श्रुत्वा समायाति चायोध्यां प्रति प्रत्यहम् ।।७४।।
यदा निर्याति शक्रस्य सभातस्तदनन्तरम् ।
दशरथाऽऽनस्याऽभ्युक्षणं कारयति सदा ।।७५।।
अथैकदा नारदस्तं समुवाच नृपं मुदा ।
राजँस्त्वदासंनस्शऽभ्युक्षणं चेन्द्रः करोति हि ।।७६।।
दशरथस्ततो यातः स्वासने संस्थितस्ततः ।
उत्थाय वीक्षयामास स्वासनं दूरमास्थितः ।।७७।।
इन्द्राज्ञया तदा भृत्यः प्रोक्षयामास चासनम् ।
दृष्ट्वा राजा महेन्द्रं च पप्रच्छ तस्य कारणम् ।।७८।।
इन्द्रः प्राह भवानद्यावधिं पितृऋणान्वितः ।
अपुत्रस्य गतिर्नास्ति न च स्वर्गं ततः परम् ।।७९।।
यदा पश्यति पुत्रस्य वदनं पुरुषो नृप ।
सोऽनृण्यं समवाप्नोति पितॄणां च ततः परम् ।।1.496.८०।।
इत्युक्तः स नृपस्तर्हि तनयार्थं सुदुःखवान् ।
वशिष्ठेन ततश्चक्रे पुत्रेष्टिं गृहमागतः ।।८ १ ।।
ज्येष्ठा प्रासूत कौशल्या रामं पुत्रं नरायणम् ।
कलहा केकयी पुत्रं प्रासूत भरतं सुतम् ।।८२।।
शत्रुघ्नलक्ष्मणौ मध्या सुमित्रा सुषुवे सुतौ ।
कन्यां चैकां सुषुवे सा लोमपादा- पुत्रिका ।।८३।।
पुत्रीरूपा प्रदत्ता वै पुत्रहीनाय तारिणी ।
आनृण्यं त्वभवत्तस्य ययौ वैकुण्ठमेव सः ।।८४।।
अथ रामोऽभवद् राजा वनवासोत्तरं ततः ।
दशवर्षसहस्राणि दशवर्षशतानि च ।।८५।।
सीतादेहान्तकालोत्तरकाले राज्यमाकरोत् ।
एकादशसहस्रान्ते देवदूतः समाययौ ।।८६।।
तेनोक्तं देवराजेन प्रेषितोऽहं समागतः ।
तस्माच्छृणु प्रसन्देशं कुरु गृहं च निर्जनम् ।।८७।।
पश्चात्ते कथयिष्येऽहं श्रुत्वा रामो जगाद ह ।
लक्ष्मण निर्जनं कुर्याः देवदूतं शृणोम्यहम् ।।८८।।
यावद्वार्ता क्रियते च तावदन्ये समागताः ।
कृत्वाऽतो वार्तिकामौनं देवदूत उवाच ह ।।८९।।
यथा दंष्ट्राच्युतः सर्पो नागो वा मदवर्जितः ।
आज्ञाहीनस्तथा राजा मानवैः परिभूयते ।।1.496.९०।।
के इमेऽत्र समायाता रहस्यवचनेऽपि ते ।
शंकालापमपि त्वं यन्नैकान्ते श्रोतुमिच्छसि ।।९१ ।।
श्रुत्वा कोपं ततः कृत्वा दृढं स प्राह लक्ष्मणम् ।
निष्कासय बहिस्त्वन्यान् मा प्रवेशय काँश्चन ।।९२।।
यदि कश्चिन्नरो मोहादागमिष्यति चान्तरम् ।
स्वहस्तेन न सन्देहः सूदयिष्यामि तं द्रुतम् ।।९३।।
न हन्मि तं दृष्टिचरं तदा धर्मगतिर्न मे ।
भवेदिति प्रतिजाने भव स्वस्थोऽत्र वर्तने ।।९४।।
ओमित्युक्त्वा लक्ष्मणश्च सौधद्वारि दृढः स्थितः ।
देवदूतोऽपि रामेण समं चक्रे सुमन्त्रणाम् ।।९५।।
रावणस्य कृतो नाशो धर्मः संस्थापितो भुवि ।
आयुः पूर्णं कृतं चात्र वैकुण्ठं याहि रोचते ।।९६।।
एतस्मिन्नन्तरे प्राप्तो दुर्वासाः क्षुधयाऽन्वितः ।
व्यग्रश्चोवाच कुत्राऽऽस्ते रामः शीघ्रं निवेदय ।।९७।।
गच्छ लक्ष्मण शीघ्रं चान्यथा शापं ददाम्यहम् ।
शापेन वै कुलं सर्वं धक्ष्यामि नात्र संशयः ।।९८।।
लक्ष्मणो विनयं कृत्वा ददौ शान्तिं महर्षये ।
स न शान्तः प्रदातुं च शापमूर्ध्वं करं दधे ।।९९।।
तच्छ्रुत्वा लक्ष्मणः शीघ्रं रामं प्राहाऽऽगममृषेः ।
रामः प्राह द्रुतं प्रवेशय दुर्वाससं मुनिम् ।। 1.496.१ ००।।
लक्ष्मणस्तु मुनिं प्रवेशयामास द्रुतं तदा ।
गृहीत्वा च मधुपर्कं रामो ययौ समीपगः ।। १०१ ।।
ननामाऽर्घ्यं प्रदत्वा च स्वागतं प्रचकार ह ।
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं मे गृहमागतः ।। १ ०२।।
एतद्राज्यं प्रजाश्चेमा विभवोऽनुग्रहात्तव ।
इत्युक्तो मुनिराट् प्राह निराहारोऽस्मि वै व्रते ।। १ ०३।।
चातुर्मास्ये तदन्ते च समिच्छामीह पारणाम् ।
यच्छ मे भोजनं शीघ्रं रघूत्तमस्ततः ऋषिम् ।। १ ०४।।
भोजयामास मिष्टान्नैः स्थित्वाऽग्रतः स्वयं प्रभुः ।
मुनिर्भुक्त्वा प्रदत्वाऽऽशीर्वादान् ययौ यथागतः ।। १ ०५।।
अथ रामं प्राह खड्गं गृहीत्वा लक्ष्मणः स्वयम् ।
विनिपातय खड्गेन मां प्रतिज्ञां च पालय ।। १ ०६।।
रामः सञ्चिन्त्य तं प्राह विवासो मरणाऽधिकः ।
व्रज लक्ष्मण मुक्तत्वं मया देशान्तरं द्रुतम् ।। १ ०७।।
त्यागो वाऽथ वधो वाऽथ साधूनामुभयं समम् ।
न मया दर्शनं भूयस्त्वया कार्यं च लक्ष्मण ।। १ ०८।।
इत्युक्तः स ययौ तूर्णं सरयूतीरमेव हि ।
स्नात्वा पद्मासनं कृत्वा ब्रह्मरन्ध्रेण निर्गतः ।। १ ०९।।
तेजोमयोऽम्बरे यातो दृष्टो रामेण देहिभिः ।
ययुः सर्वे ददृशुश्च पतितं लक्ष्मणं शवम् ।। 1.496.११ ०।।
विलेपुर्बान्धवाद्याश्च करुणं पर्यवेदयन् ।
चन्दनादिचितां कृत्वा देहं निदधुस्ते तदा ।। ११ १।।
आकाशवागभवच्च माऽग्निं देहि रघूत्तम ।
तवाऽयं बान्धवो राम ब्रह्मणः सदनं गतः ।। १ १२।।
त्वया सुग्रीवभक्तं च विभीषणं प्रभक्तकम् ।
लक्ष्मणं सहनीत्वैव गन्तव्यं धाम चैव ह ।। ११ ३।।
ततो रामो विमानेन पुष्पकेण तु दक्षिणाम् ।
दिशं ययौ सह नीत्वा सुग्रीवं च विभीषणम् ।। १ १४।।
समागतः स्वनगरीं लक्ष्मणं तद्विमानके ।
कृत्वा कुशं लवं राज्येऽभिषिच्य धाम संययौ ।। १ १५।।
विभिषणं द्वितीयेन रूपेण च रघूत्तमः ।
ररक्ष राज्यकार्यार्थं लंकायां चिरजीविनम् ।। १ १६।।
सेतुर्विनाशितो यस्माद् राक्षसा नेयुरित्यतः ।
एतच्छ्रवणपाठाभ्यां भुक्तिर्मुक्तिर्भवेत् प्रिये ।। १ १७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अजापालमहाराजस्य रोगाणामजामण्डलरूपेण निग्रहो दशरथस्य शनिकृतरोहिणीशकटवेधनिरोधो रामकृतप्रतिज्ञयावैकुण्ठगमनं चेत्यादिनिरूपणनामा षण्णवत्यधिकचतुश्शततमोऽध्यायः ।। ४९६ ।।