लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४७४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४७३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७४
[[लेखकः :|]]
अध्यायः ४७५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां रम्याममित्रजिन्नृपस्य वै ।
मयि नारायणे पातिव्रत्ययुक्तां कुटुम्बिनः ।। १ ।।
अमित्रजिन्महाराजः परमो वैष्णवोऽभवत् ।
सर्वराजन्यगुणधीः सर्वदूषणवर्जितः ।। २ ।।
कृष्णनारायणे देवे चेतोवृत्तिं निधाय सः ।
चकार राज्यं निर्द्वन्द्वं विष्णुभक्तिपरायणः ।। ३ ।।
अभुनक् प्रचुरान् भोगान् समस्तान् विष्णुसात्कृतान् ।
हरेरायतनान्युच्चैः प्रतिसौधं पदे पदे ।। ४ ।।
तस्य राज्ये समभवन् गृहाणि मन्दिराणि च ।
'गोविन्द गोप गोपाल गोपगोपीश्वरेश्वर ।। ५ ।।
गुणातीत गरुडस्थ कृपालो कमलापते ।
कृष्ण केशव कंजाक्ष कीनाशभयनाशक ।। ६ ।।
पुरुषोत्तम पद्मेश पुण्डरीकविलोचन ।
पीताम्बर प्रभानाथ पार्वतीश परेश्वर ।। ७ ।।
जनार्दन जयास्वामिन् जन्ममृत्युजराहर ।
श्रीवत्सवक्षः श्रीकान्त श्रीप्रद श्रेयसांप्रद ।। ८ ।।
दामोदर दयासिन्धो माणिकीश्वर चक्रधृक् ।
विष्णो नारायण कृष्णनारायण नरोत्तम ।। ९ ।।
अक्षरेश च राधेश कम्भरेश हृदिस्थित ।
इत्यादीनि पवित्राणि नामानि प्रतिमन्दिरम् ।। 1.474.१०।।
स्त्रीबालवृद्धगोपालवदनोदीरितानि तु ।
श्रूयन्ते चापि दृश्यन्ते रम्याणि मोक्षदानि वै ।। ११ ।।
तुलसीकाननान्येव विलोक्यन्ते गृहे गृहे ।
चरित्राणि सुगीयन्ते पवित्राणि हरेर्जनैः ।। १२।।
सौधभित्तिषु दृश्यन्ते प्रतिमा लीलयाऽन्विता ।
ऋते हरेः कथायाश्च नान्या वार्ता निशम्यते ।। १ ३।।।
यद्राज्ये नैव हिंसाऽस्ति द्वेषो नास्ति परस्परम् ।
हन्यन्ते नैव चाऽहिताः कृष्णभक्तिपरायणाः ।। १४।।
अपि बालास्तथा वृद्धास्तस्य राष्ट्रे स्त्रियोऽपि च ।
पयःपानं न कुर्वन्ति सम्प्राप्य हरिवासरम् ।। १६।।
पशवोऽपि तृणाहारं त्यजन्ति हरिवासरे ।
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ।। १६।।
स एव दण्ड्यो यो भुंक्ते सम्प्राप्ते हरिवासरे ।
अन्त्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ।। १७।।
कृष्ण एव परो देवः कृष्ण एव परा गतिः ।
कृष्ण एव परो बन्धुस्तस्याऽऽसीदवनीशितुः ।। १८।।
एतद् द्रष्टुं नारदर्षिः समाययौ तदा क्वचित् ।
राज्ञा समर्चितः प्राह राजानं नारदो मुनिः ।। १ ९।।
धन्योऽसि कृतकृत्योऽसि मान्योऽप्यसि दिवौकसाम् ।
सर्वभूतेषु गोविन्दं यस्त्वं पश्यसि भक्तराट् ।।1.474.२ ० ।।
एतादृशं विलोक्य त्वां शुचित्वमगमं त्वहम् ।
एक एव हि सारोऽत्र भक्तिभावः परेश्वरे ।।२१ ।।
कृष्णं भजन्तं भजन्ते पदार्थाः सर्व एव तु ।
कृष्णे स्थिरत्वमाप्तस्य योगः सिद्धो विमुक्तिदः ।।२२।।
यौवनं धनमायुष्यं ज्ञात्वा पद्मे तु वारिवत् ।
शाश्वतं कृष्णचरणं मोक्षदं प्रसमाश्रयेत् ।।२३ ।।
हृदि नेत्रे च जिह्वायां रक्षणीयो जनार्दनः ।
सोऽपि जनार्दनो बोध्यो जनार्दनसमाश्रयात् ।।२४।।
निष्कामसेवया श्रीशं पूजयित्वा रमापतिम् ।
पुरुषोत्तमतां श्रेष्ठां प्राप्नुयान्मानवे भवे ।।२५।।।
राजंस्ते श्रीकृष्णभक्त्या प्रसन्नो भगवान् हरिः ।
प्रेषयामास मामत्र भक्तकार्यकरः स्वयम् ।। २६।।
शृणु विद्याधरपुत्री कृष्णभक्ताऽतिसुन्दरी ।
कृष्णपातिव्रत्यपरा नाम्ना मलयगन्धिनी ।। २७।।
क्रीडन्ती पितुराक्रोडे हृता कंकालकेतुना ।
दानवश्चम्पकावत्यां नगर्यामद्य वर्तते ।।२८।।
स स्वत्रिशूलघातेन मरिष्यन्ति त्वया नृप ।
अद्य निद्राति पर्यंके पार्श्वे कृत्वा त्रिशूलकम् ।।।२९।।
कन्या सा दास्यति तुभ्यं वञ्चयित्वा त्रिशूलकम् ।
गच्छ शीघ्रं कृष्णभक्तां रक्ष हस्तं गृहाण च ।।1.474.३ ० ।।
इत्युक्तः स ययौ दिष्टमार्गेण नृपतिर्गृणन् ।
कृष्ण कृष्णेति कृष्णेति कृष्णनारायणेति च ।।३ १ ।।
नगर्यां स प्रविष्टश्च यत्र सौधेऽस्ति कन्यका ।
प्रविवेश तु तं सौधं कन्यां जगाद चैकलाम् ।।३२।।
नारदस्योपदेशेन तव रक्षार्थमत्र वै ।
समागतोऽस्मि दैत्यं च हन्तुं त्रिशूलकेन वै ।। ३ ३।।
सा विलोक्य समाकर्ण्य विश्वस्ताऽभूत् सुकन्यका ।
दर्शयामास तं शूलं राजा शूलेन दानवम् ।।३४।।
जघान श्रीहरिं गृणन् मृतोऽसौ दानवो बली ।
सुरूपं रक्षकं भूपं प्रोवाच मधुरं सती ।।२५।।
अथोदारमते वीर निजप्राणैः पणीकृताम् ।
गृहाण मां वरारोहां कुलकन्यामदूषिताम् ।।३६।।
इति ब्रुवत्यां कन्यायां नारदोऽतर्कितो मुनिः ।
आययौ तौ तुतुषतुर्दृष्ट्वा तं मुनिसत्तमम् ।।३७।।
पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तौ ।
जग्मतुर्नारदाऽऽदिष्टवर्त्मना कृतमंगलौ ।।३८।।
काशीं त्वाययतुस्तौ च मन्यमानौ कृतार्थताम् ।
सैकदा तं पतिं राज्ञी पतिभक्ता सुतार्थिनी ।।३९।।
रहो विज्ञापयाञ्चक्रे कर्तुं पुत्रप्रदं व्रतम् ।
मार्गशुक्लतृतीयायामभीष्टतृतीयाव्रतम् ।।1.474.४० ।।
राज्ञाऽऽदिष्टा भक्तनारी चचार तद्व्रतं शुभम् ।
पतिव्रता भागवती कृष्णनारायणे रता ।।४१ ।।
कृष्णपतिव्रता साध्वी त्वाबाल्याद् वैष्णवी सती ।
पुरा कुबेरपत्न्या वै ऋद्ध्याख्यया कृतं व्रतम् ।।।४२।।।
सापि प्राप्तवती पुत्रं समर्थं नलकूबरम् ।
पूज्याऽत्र पार्वती देवी स्तनन्धययुतासती ।।४३ ।।
मार्गे शुक्ले तृतीयायां सुवर्णकलशोपरि ।
ताम्रपात्रं निधायैकं तण्डुलैः परिपूरितम् ।।४४।।
नूत्नं सरंगं वस्त्रं च निधाय तत्र सूक्ष्मकम् ।
तत्र सत्कमलं न्यस्य यद्वा स्वर्णविनिर्मितम् ।।४५।।
ब्रह्माणीं पूजयेत् तत्र रत्नपट्टाम्बरादिभिः ।
पुष्पैः फलैश्च नारंगैः सुगन्धैश्चन्दनादिभिः ।।४६ ।।
परमान्नादिनैवेद्यैः पक्वान्नैश्च जलादिभिः ।
धूपैर्दीपैः स्तवनैश्च नीराजनादिभिस्तथा ।।४७।।
रात्रौ जागरणं कुर्यात् सोत्सवं हरिकीर्तनैः ।
हस्तमात्रमिते कुण्डे जातवेदस-इत्यृचा ।।४८।।
घृतेन मधुनाऽऽप्लाव्य जुहुयान् मन्त्रविद्द्विजः ।
सहस्रकमलानां तु होमं कुर्याद् व्रती मुदा ।।४९।।
नवप्रसूतां कपिलां धेनुं दद्याद् द्विजातये ।
उपोष्य दम्पती भक्त्या चतुर्थ्यां तु द्विजातये ।।1.474.५०।।
दत्वा सद्भोजनं दानं वस्त्राणि भूषणानि च ।
आचार्याय धनं मूर्तिं दद्यातां गां च दक्षिणाम् ।।।५१ ।।
भोजयित्वाऽथ तं पश्चात् स्तुवीयातां पुटाञ्जली ।
सुतं वंशकरं देहि तुष्टा शिवा रमा ह्यजा ।।५२।।।
भुक्तशेषेण चान्नेन कुर्यातां पारणं ततः ।
एवं कृतं व्रतं ताभ्यां दम्पतीभ्यां सुतप्रदम् ।।५३।।
पूजनान्ते शिवा लक्ष्मीः सावित्री त्वागताः पुरः ।
स्मेराननाः शुभाशिषो दत्वाऽन्तर्धानमागताः ।।५४।।
ततः सा कान्तसेवाभिरन्तर्वत्नी बभूव ह ।
तया तु प्रार्थितो दिव्यः पुत्रो विष्ण्वंशसंभवः ।।९५।।
जातमात्रो व्रजेत् स्वर्गं पुनरायाद् गृहं प्रति ।
भक्तः सदा त्रिदेवेषु प्रसिद्धो भुवनत्रये ।।५६।।
विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात् ।
सर्वसामर्थ्यसम्पन्नो वैष्णवानां सदाग्रणीः ।।५७।।
अथ कालेन तनयं मूलर्क्षे साऽप्यजीजनत् ।
अथ ऋक्षाभिविद्भिः सा विज्ञप्ताऽरिष्टसंस्थिता ।।५८।।
देवी राजार्थिनी चेत् त्वं त्यज दुष्टर्क्षजं सुतम् ।
सा तु श्रुत्वा महाभक्ता सर्वथा पतिदेवता ।।५९।।
अत्याक्षीत् तं तथा प्राप्तं तनयं नयकोविदा ।
विकटाया महागौर्याः पुरो न्यस्य गृहं गता ।।1.474.६०।।
गौर्याऽर्पितः स योगिन्यै योगिनी व्योममार्गतः ।
ययौ यत्र वसन्त्येव रक्षिका नवमातरः ।।६१ ।।
ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ।
कौमारी चापि माहेन्द्री चामुण्डा चापि चण्डिका ।।६२।।
दृष्ट्वा तं वालकं प्राप्तं ता ऊचुः सुन्दरं सुतम् ।
राज्ययोग्यो भवत्वेष महालक्षणलक्षितः ।।६३ ।।
पुनस्तत्रैव नेतव्यो यत्राऽस्य जन्म विद्यते ।
षोडशाब्दो जातमात्रो भविष्यति महाबलः ।।६४।।
एवं मातृगणाशीर्भिः प्रापितो जन्मनः स्थले ।
आनन्दकानने दिव्यं तताप स परं तपः ।।६५।।
तपसा तु प्रसन्नोऽभूच्छिवस्त्वाविर्बभूव ह ।
प्रोवाच तं वरं ब्रूहि ददाम्यत्र तवेप्सितम् ।।६६।।
स तु प्रणम्य शंभुं वै परितुष्टाव भावतः ।
वरं च प्रार्थयाञ्चक्रे यदि देयो वरो मम ।।६७।।
मम नाम्ना भवेत् तीर्थं वीरवीरेश्वराह्वयम् ।
तथास्त्विति हरः प्राह ततोऽयं बालकः पुनः ।।६८।।
वरं वव्रे मम मुक्तिर्भवेद् गोलोकधामनि ।
हरः प्राह विना कृष्णं सा मुक्तिर्नहि लभ्यते ।।६९।।
गृहाण कृष्णमन्त्रं त्वं भव भक्तो विशेषतः ।
'ओं नमः श्रीकृष्णनारायणायेति मुहुर्जप ।।1.474.७०।।।
तुलसीमालिकां कण्ठे करे चापि गृहाण वै ।
इत्युक्त्वा प्रददौ मन्त्रं कृतः स वैष्णवो महान् ।।७१ ।।
आह तं शंकरः पश्चाज्जनेतुर्वैष्णवोत्तमात् ।
विष्णोरंशः समुत्पन्नो भवान् भक्तो ममापि च ।।७२।।
त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम् ।
भुक्त्वा भोगांश्च विपुलानन्ते मुक्तिमवाप्स्यसि ।।७३।।
पत्नीं पतिव्रतां प्राप्य लब्ध्वा पुत्रांश्च तत्सुतान् ।
श्रीविष्णोर्दिव्ययानेन गोलोकं यास्यसि ध्रुवम् ।।७४।।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ।।७५।।
कुरुतं संजपं नित्यं त्वं तथा भाविनी सती ।
पतिव्रताऽपि ते कान्ता मोक्षमाप्स्यथ तं परम् ।।७६।।
इत्युक्त्वा शंकरस्त्वन्तर्धानं जगाम तत्परम् ।
वीरवीरो महाबाहुर्जजाप तं मनुं मुहुः ।।७७।।
भार्या कैलासराजस्य नृपतेः पुत्रिकां सतीम् ।
नाम्ना वसुमतीं प्राप्य समुत्पाद्य शतं सुतान् ।।७८।।
ययौ गोलोकमोक्षं स भार्यया सह भक्तराट् ।
दिव्ययानेन वै भक्तप्रजाभिः सह पार्थिवः ।।७९।।
इति ते कथितं लक्ष्मि! कृष्णभक्तिपरायणम् ।
दम्पत्योः पावनं वृत्तं श्रोतॄन् वक्तॄँश्च पावयेत् ।।1.474.८०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने अमित्रजिन्नृपतेर्नारदस्य कृपया पतिव्रतास्त्रीप्राप्तिः तथा मलयगन्धिन्या भार्यया काश्यामभीष्टतृतीयाव्रतेन वीरवीरो महावैष्णवः सुतः प्राप्तः, पतिव्रतया सहितस्य राज्ञो गोलोके मुक्तिरित्यादिनिरूपणनामा चतुःसप्तत्यधिक-
चतुश्शततमोऽध्यायः ।। ४७४ ।।