लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४४०
[[लेखकः :|]]
अध्यायः ४४१ →

श्रीनारायण उवाच-
अथ लक्ष्मि! वृषारण्ये ब्राह्मणादिप्ररक्षिकाः ।
पतिव्रतामहासत्यो विष्णुस्थापितमातरः ।। १ ।।
तास्तु नारायणभक्ताः सदा लोकस्य रक्षिकाः ।
पातिव्रत्यपरा देवीर्वक्ष्यामि शृणु सादरम् ।। २ ।।
सोपाख्यानां कथां तत्र विप्राणां या पुराऽभवत् ।
तामपि संप्रवक्ष्यामि शृणु धर्मोद्भवां शुभाम् ।। ३ ।।
पुरा गोलोकधाम्नि श्रीकृष्णनारायणः प्रभुः ।
पत्नीव्रतं सुतं विप्रं स्वस्मात् प्राविश्चकार ह ।। ४ ।।
स तु विप्रः कृष्णनारायणाज्ञयाऽत्र गोलके ।
आजगाम निजपत्न्या पतिव्रतया संयुतः ।। ५ ।।
धर्मारण्ये सहस्राक्षः सहस्रास्यः सहस्रपात् ।
पत्नीव्रतः कृतवान् स्वस्वरूपाणि सहस्रशः ।। ६ ।।
त एते ब्राह्मणाः सर्वे सदाचाराः शुभव्रताः ।
अशेषधर्मकुशलाः सर्वशास्त्रविशारदाः ।। ७ ।।
तपोज्ञाने महाख्याता ब्रह्मयज्ञपरायणाः ।
उषिताः ऋषयः सर्वे त्रिकालज्ञाः प्रतापिनः ।। ८ ।।
अष्टादशसहस्राणि कृष्णनारायणात्मजाः ।
चतुर्विंशतिगोत्राणि प्रावर्तन्ताऽत्र वै पुरा ।। ९ ।।
भारद्वाजस्तथा वत्सः कौशिकः कुश इत्यपि ।
शाण्डिल्यः कश्यपश्चापि गौतमः शान्धनस्तथा ।। 1.440.१ ०।।
जातूकर्ण्यस्तथा वात्स्यो वसिष्ठो धारणस्तथा ।
आत्रेयो भाण्डिलश्चापि कृष्णायनश्च लौकिकः ।। ११ ।।
उपमन्युश्च गार्ग्यश्च मौषको मुद्गलस्तथा ।
गांगासनश्च कौण्डिन्यः पुण्यासनः पराशरः ।। १ २।।
चतुर्विंशतिश्चैतानि प्रावर्तन्त पुरा युगे ।
आंगीरसः शौनकश्च काश्यपः जामदग्न्यकः ।। १३।
लौगाक्षसश्च माण्डव्यो बभूवुर्गोत्रिणस्ततः ।
प्रवराणि तु जातानि तान्यपि मे निशामय ।। १४।।
भारद्वाजसगोत्रेयाः प्रवरैः पञ्चभिर्युताः ।
आङ्गीरसो बार्हस्पत्यो भारद्वाजश्च सैन्यसः ।। १५।।
गार्ग्यश्चैवेति प्रवराः पञ्च ते वैष्णवा द्विजाः ।
वत्सगोत्रे द्विजा लक्ष्मि! प्रवराः पञ्च ते यथा ।। १६।।
भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ।
कौशिकवंशे ये जाताः प्रवरत्रयसंयुताः ।। १७।।
विश्वामित्रोऽघमर्षी च कौशिकश्चेति ते त्रयः ।
कुशिकगोत्रे ये जाताः प्रवरैस्त्रिभिरन्विताः ।। १८।।
विश्वामित्रो देवरात औदलश्चेति ते त्रयः ।
शाण्डिल्यगोत्रे ये जाताः प्रवरत्रयसंयुताः ।। १ ९।।
असितो देवलश्चापि शाण्डिल्यश्चेति ते त्रयः ।
कश्यपा ब्राह्मणा लक्ष्मि! प्रवरत्रयसंयुताः ।।1.440.२०।।
काश्यपश्चापवत्सारो नैध्रुवश्चेति ते त्रयः ।
गौतमगोत्रजा ये तु प्रवराः पञ्च एव ते ।।२१ ।।
कौत्सो गार्ग्यो प्रवहश्चाऽसितो देवल इत्यमी ।
शान्धनस्य तु नैवासीत् स्वतन्त्रः प्रवरः सति! ।।२२।।
जातूकर्ण्यस्यापि तथा स्वतन्त्रः प्रवरो न वै ।
वात्स्यगोत्रे भवा विप्राः प्रवरैः पञ्चभिर्युताः ।।२३।।
भार्गवच्यवनाप्नुवानौर्वश्च जमदग्निकः ।
अथ वशिष्ठगोत्रोत्थाः प्रवरत्रयसंयुताः ।।२४।।
वसिष्ठो भारद्वाजश्च इन्द्रप्रमद इत्यमी ।
अथ धारीणसगोत्रे प्रवरास्त्रय एव ते ।।२५।।
अगस्तिर्दर्विश्वेता च दध्यवाहन इत्यमी ।
आत्रेयगोत्रे ये जाताः पञ्चप्रवरसंयुता ।। २६।।
आत्रेयोऽर्चनानसः श्यावाश्व आंगीरसोऽत्रिकः ।
भाण्डीलस्य तु नैवासीत् स्वतन्त्रः प्रवरस्तदा ।।२७।।
तथा कृष्णायनस्यापि स्वतन्त्रः प्रवरो न वै ।
लौकिकस्यापि च तथा स्वतन्त्रः प्रवरो न वै ।। २८।।
उपमन्युसगोत्रेयाः प्रवरत्रयसंयुताः ।
वसिष्ठश्च भरद्वाजस्त्विन्द्रप्रमद इत्यमी ।।२९।।
गार्ग्यस्य गोत्रजानां तु प्रवरास्त्रय एव तु ।
अङ्गिराश्चाम्बरीषश्च यौवनाश्वस्तृतीयकः ।।1.440.३ ०।।
मौषकस्य तु नैवासीत् स्वतन्त्रः प्रवरस्तदा ।
मुद्गलस्यापि च तथा स्वतन्त्रः प्रवरो न वै ।। ३१ ।।
गांगासनस्य तु गोत्रे प्रवराः पञ्च एव तु ।
भार्गवश्चावनाप्नुवानौर्वाश्च जामदग्न्यकः ।। ३२।।
आत्रेयोऽर्चनानसश्च श्यावास्यश्च त्रयोऽपि ते ।
गांगासने भवन्त्येते त्रयोऽपि प्रवराः क्वचित् ।। ३३ ।।
कौण्डिन्यस्य च पुण्यासनस्य पराशरस्य च ।
गोत्रे स्वतन्त्राः प्रवरा नासन् लक्ष्मि! तदा पुरा ।।३४।।
अथाऽन्याँस्ते कथयामि जामदग्न्यस्य पञ्च तु ।
भार्गव्यश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ।।३५।।
माण्डव्यस्य सगोत्रे तु प्रवराः पञ्च ते यथा ।
भार्गवश्च्यावनोऽत्रिश्चाप्नुवानौर्वस्त एव हि ।।३६।।
वात्स्यायनसगोत्रेयाः प्रवरैः पञ्चभिर्युताः ।
भार्गवश्च्यावनाप्नुवानौर्वश्च जमदग्निकः ।।३७।।
कश्यपे गोत्रके चान्ये प्रवरत्रयसंयुताः ।
काश्यपश्चापवत्सारो रैभ्यश्च विश्रुतास्त्रयः ।। ३८।।
शोनकसेषु ये जाताः प्रवरत्रयसंयुताः ।
भार्गवः शौनहोत्रश्च गार्त्स्यमद इतित्रयः ।। ३९।।
जाता आंगीरसगोत्रे प्रवरत्रयसंयुताः ।
आङ्गिरसोऽम्बरीषश्च यौवनाश्च इति त्रयः ।।1.440.४०।।
अथ पत्नीव्रतगोत्रे देवानीको दसायकः ।
सन्तकश्चेति प्रवरा महादानपरायणाः ।।४१ ।।
तेषां शाखाः प्रशाखाश्च पुत्रपौत्रादयो द्विजाः ।
जज्ञिरे बहवो लोके नूत्नशाखावलम्बिनः ।।४२।।
धर्मसावर्णिगोत्रीयाः प्रवरा ह्यभवँस्त्रयः ।
वैतहव्यः सावेतसो भारद्वाजश्च ते ह्यमी ।।४३।।
एतान् विसृज्य च विप्रा नूत्नप्रवरमार्गगाः ।
भविष्यन्ति गते काले सर्वं कालविडम्बनम् ।।४४।।
शृणु लक्ष्मि! द्विजानेतान् धर्मारण्येऽन्यभूतले ।
यक्षरक्षःपिशाचाद्या उद्वेजयन्ति वै तदा ।।४५।।
जृम्भको नाम यक्षोऽभूद् धर्मारण्यसमीपतः ।
उद्वेजयति नित्यं स धर्मारण्यनिवासिनः ।।४६ ।।
तद्दुःखं तैर्द्विजाग्र्यैश्च देवेभ्यो विनिवेदितम् ।
पत्नीव्रतं पुरः कृत्वा सुरा वेधःसभां ययुः ।।४७।।
ब्रह्मा ययौ तु गोलोकं श्रीकृष्णं तज्जगाद ह ।
श्रीकृष्णेन तदा गोप्यो लक्षशस्तत्र प्रेषिताः ।।४८।।
तास्तु दिव्याः कृष्णपत्न्यः कृष्णाज्ञावर्तनाः प्रियाः ।
कृष्णनारायणपातिव्रत्यधर्मावगाहिताः ।।४९।।
सत्यः प्रसन्ना दिव्याङ्ग्यश्चाययुर्वेधसो गृहम् ।
ब्रह्माज्ञया च ताः सर्वा आययुः कन्यका दिवम् ।।1.440.५०।।
तत्र विश्वावसुकन्याः मानस्यश्चाऽभवन् क्षणात् ।
जातिस्मरा युवत्यश्च सुताः सर्वांगसुन्दराः ।।५१ ।।
ब्रह्मचर्यधर्मपराः कृष्णपत्न्यः कुमारिकाः ।
रक्षणार्थं हि विप्राणां लोकानां हितकाम्यया ।।५२।।
योगिन्यो देवगन्धर्वैः स्थापिता धर्मभूमिषु ।
गोत्रान् प्रतितथैकैका स्थापिता योगिनी सती ।।५३।।
यस्य गोत्रस्य या शक्तिः पालने रक्षणे क्षमा ।
सा तस्य कुलदेवीति साक्षात्तत्र बभूव ह ।।५४।।
श्रीमात्राद्याः शृणु लक्ष्मि! ताः सर्वा द्वादशाऽब्दिकाः ।
श्रीमाता, तारणी, आशापुरी, चेच्छाऽऽर्तिनाशिनी ।।।५५।।
पिप्पली, विकरावशा, जगन्माता, तु सप्तमी ।
महामाता, तथा सिद्धा, भट्टारिका, कदम्बिकाः ।।५६।।
विकरा, मिष्टा, सुपर्णा, मातंगी, वसुजा, तथा ।
महादेवी, तथा वाणी, भद्री, च मुकुरेश्वरी, ।।५७।।
संहारी, च महाशक्ति,र्महाबला, तथा पुनः ।
चामुण्डा तु महादेवी, इत्येता गोत्रमातरः ।।५८।।
ब्रह्मविष्णुमहेशाद्यैः स्थापिता विप्ररक्षणे ।
ताः पूजयन्ति विप्रेन्द्रा वैष्णवीर्भगवत्सतीः ।।५९।।
अथ यज्ञेषु गव्यार्थं ब्रह्मा लोकपितामहः ।
सस्मार कामधेनुं तु कामधेनुः समाययौ ।।1.440.६०।।
ब्रह्मा तां कथयामास गव्यार्थं तु प्रतिद्विजम् ।
एकैकां कामधेनुं च देहि मातः प्रसीद मे ।।६ १ ।।
तथेत्युक्त्वा कामधेनुः प्राविश्चकार पुत्रिकाः ।
नन्दिन्यो लक्षशः श्वेताः प्राविर्भूताः सुयौवनाः ।।६२।।
संकल्पमात्रात् सवत्सा दोग्ध्र्यो गव्यप्रदाः शुभाः ।
प्रावर्तन्त शुभा यज्ञा देवास्तृप्ताः सुपायसैः ।।६३।।
अथ ब्राह्मणवर्णानां सेवकाश्च द्विजातयः ।
ब्राह्मणैर्मानसास्तत्रोत्पादिता वणिजोऽयुताः ।।६४।।
सोपवीताः सशिखाश्च सर्वतत्त्वविशारदाः ।
द्विजभक्ताः सदाचारा युवानश्च तपोन्विताः ।।६५।।।
एकैकस्मै द्विजायैवाऽर्पितं ह्यनुचरद्वयम् ।
वाडवस्य तु यद्गोत्रं गोत्रं चानुचरस्य तत् ।।६६।।
ब्रह्मणा शिष्यता तेभ्यश्चोपदिष्टा हिताय हि ।
कुरुध्वं वचनं त्वेषां ददध्वं च यदिच्छितम् ।।६७।।
समित्पुष्पकुशादीनि ह्यानयध्वं दिने दिने ।
अनुज्ञयैषां वर्तध्वं माऽवज्ञां कुरुत क्वचित् ।।६८।।
इत्येवं ते वर्तमाना ब्रह्मचर्यपरायणाः ।
सेवन्ते ब्राह्मणान् सर्वे वैष्णवा व्रतशालिनः ।।६९।।
परिग्रहार्थं तेषां वै वेधसा च वृषेण च ।
गन्धर्वकन्यका रम्या दारास्तत्रोपकल्पिताः ।।1.440.७० ।।
विश्वावसोः कन्यकास्ता विप्रवध्वः पतिव्रताः ।
षष्टिकन्यासहस्राणि स्नुषारूपास्तदाऽभवन् ।।७१ ।।
श्वश्रूरूपास्तथा चान्या मातरो विप्रयोषितः ।
चत्वारिंशत्सहस्राणि कन्यानामभवन् प्रिये ।।७२।।
श्रेष्ठादेव्योऽथ योगिन्यो मातृरूपाश्च रक्षिकाः ।
धर्मारण्ये लक्षशस्ताः स्त्रियः कृष्णपतिव्रताः ।।७३ ।।
एवं गृहस्था अभवन् पुत्रपौत्रादिविस्तराः ।
सर्वाः पतिव्रता नार्यः पत्नीव्रताश्च पूरुषाः ।।७४।।
एवं गृहस्थविप्रेषु वसमानेष्वरण्यके ।
उपद्रवं परं चक्रे राक्षसो लोलजिह्वकः ।।७५।।
महादंष्ट्रो महाकायो विद्युज्जिह्वो भयंकरः ।
तं तु नाशयितुं देव्यो विप्ररक्षणतत्पराः ।।७६ ।।
त्रिशूलवरधारिण्यः शंखचक्रगदायुताः ।
कशाखङ्गयुताश्चान्याः पाशांकुशयुतास्तथा ।।७७।।
काश्चित् परशुहस्ताश्च दिव्यायुधधराश्च ताः ।
युयुधुः राक्षसेनात्र सस्मरुश्च नरायणम् ।।७८।।
विष्णुरागत्य चक्रेण मारयामास राक्षसम् ।
विप्रास्तु संहताश्चैकनगरे वासमाचरन् ।।७९।।
धर्मारण्यं पुरा यत्तु सत्यमन्दिरपत्तनम् ।
नगरं विप्रवासं सुदिव्यं स्वर्गसमं ह्यभूत् ।।1.440.८० ।।
अन्या नगररक्षार्थं योगिन्यः स्थापिता यथा ।
मदारिकायां श्रीमाता, शान्ता नन्दापुरे तथा ।।८१ ।।
सावित्री, ज्ञानजा चापि, गात्रायी, पक्षिणी तथा, ।
छत्रजा, चूटिका, द्वारवासिनी, पिप्पला तथा ।।८२ ।।
शीहोरी, शापुरी, चेता, रक्तवस्त्रा, भयंकराः ।
आनन्दा च, तथौंकारा, तथा च धर्मपुत्रिका, ।।८३।।
श्यामला, चेति ता रक्षां कुर्वन्ति धर्मदेशिताः ।
अथ कर्णाटनामाऽभूद् राक्षसो विप्रपीडकः ।।८४।।
योगमालिनी तं विद्रावयामास च दक्षिणाम् ।
तन्नाम्ना सोऽभवद् देशः कर्णाटक इतिप्रथः ।।८५।।
तया तूत्पादिताः क्रूरा ब्रह्मचारिण्य एव ताः ।
शाकिनी डाकिनी चापि काकिनी हाकिनी तथा ।।८६।।
एकिनी लाकिनी चैताः शक्तयो दैत्यनाशिकाः ।
धर्मारण्ये प्ररक्षार्थं धर्मदेवेन वासिताः ।।८७।।
एताः पतिव्रताः सर्वा रुद्रकान्तस्य सेविकाः ।
विप्राणां रक्षिका नित्यं सतीवंशस्य रक्षिकाः ।।८८।।
तया चोत्पादिता लक्ष्मि! तदन्याश्च पतिव्रताः ।
रुद्रव्रता महादेव्यो धर्मारण्यकृताश्रयाः ।।८९।।
ता एता ब्रह्मचारिण्यः कन्यकाः कुलदेवताः ।
रक्ष्यन्ते सर्वदा याभिर्विप्रकुलानि भूतले ।। 1.440.९०।।
भट्टारिकी तथा छत्रा औविका ज्ञानजा तथा ।
भद्रकाली च माहेशी सिंहोरी धनमर्दिनी ।।९१।।
गात्रा शान्ता शेषदेवी वाराही भद्रयोगिनी ।
योगेश्वरी मोहलज्जा कुलेशी शकुलाचिता ।।९२।।
तारणी कनकानन्दा चामुण्डा च सुरेश्वरी ।
दारभट्टारिकेत्याद्याः प्रत्येकाः शतधा पुनः ।।९३।।
उत्पन्नाः शक्तयः सर्वा धर्मारण्यादिकाश्रयाः ।
अथ धर्मपिता चक्रे धर्मारण्ये महाक्रतुम् ।।९४।।
तत्र देवाश्च पितरः ऋषयो मुनयो नराः ।
मनवाद्याश्चतुर्दशभुवनेशाः समाययुः ।।९५।।
तत्राचार्यं त्वांगिरसं मार्कण्डेयं चकार सः ।
अत्रिं च कश्यपं चापि होतारं समकल्पयत् ।।९६।।
जमदग्निं गौतमं च अध्वर्युं समकल्पयत् ।
भरद्वाजं वशिष्ठं च प्रत्यध्वर्युं प्रकल्पयत् ।।९७।।
नारदं चापि वाल्मीकिं प्रेरितारमकल्पयत् ।
ब्रह्मासने तु ब्रह्माणं स्थापयामास धर्मराट् ।।९८।।
क्रोशचतुष्कमात्रां सुवेदीं कृत्वा सुरैस्ततः ।
द्विजाः सर्वे समाहूता जापकाः पाठकास्तथा ।।९९।।
द्वारपाला गणेशस्कन्देन्द्रजयन्तकाः कृताः ।
ततो रक्षोघ्नमन्त्रेण हूयते हव्यवाहने ।। 1.440.१० ०।।
जुहुवुस्ते तदा देवा वेदमन्त्रैर्हि पद्मजे ।
तिलांश्च यवमिश्रांश्च मध्वाज्येन सुमिश्रितान् ।। १०१ ।।
आघारावाज्यभागौ च हुत्वा चापि ततः परम् ।
द्राक्षेक्षुपूगनारिङ्गजम्बीरं बीजपूरकम् ।। १० २।।
उत्तरतो नारिकेलं दाडिमं च यथाक्रमम् ।
मध्वाज्यं पयसा युक्तं कृशरं शर्करायुतम् ।। १०३ ।।
तण्डुलैः शतपत्रैश्च कृत्वा यज्ञं सदक्षिणम् ।
उत्तमं च शुभं स्तोमं वैष्णवं च जगुस्तदा ।। १ ०४।।
अवारिताऽन्नमददद्दीनान्धकृपणेष्वपि ।
पायसं शर्करायुक्तं साज्यशाकसमन्वितम् ।। १ ०५।।
मण्डका वटकाः पूपास्तथा वै वेष्टिकाः शुभाः ।
सहस्रमोदकाश्चापि फेणिका घुर्घुरादयः ।। १०६ ।।
ओदनश्च तथा दाली आढक्यादिकृतद्रवा ।
तथैव मुद्गदालीं च पर्पटा वटिका तथा ।। १ ०७।।
सपिप्पलीलवंगमरीचानि लोह्यकानि च ।
कुल्माषा वेल्लकाश्चापि कोमला वालकाः शुभाः ।। १ ०८।।
कर्करिटाश्चार्द्रकाश्च मरिचेन समन्विताः ।
विविधानि सुशाकानि भाजाश्च विधिधास्तथा ।। १ ०९।।
पायसानि चैक्षवानि गोधूमानि सहस्रशः ।
मिष्टान्नानि चणकानां भोजयित्वा द्विजान् वृषः ।। 1.440.११० ।।
अष्टादशप्रलक्षाँश्च तथाऽन्यान् कोटिशो जनान् ।
कृत्वाऽवभृथकं स्नानं यज्ञफलमवाप सः ।। १११ ।।
यज्ञं कृत्वा ययुः सर्वे स्वस्वस्थानानि देहिनः ।
श्रवणात्पठनाच्चास्य विष्णुयागफलं भवेत् ।। ११ २।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने धर्मारण्ये श्रीकृष्णदासीनां पतिव्रतानां गान्धर्वीभूतानां कुलदेवीमण्डलत्वं, तथा विप्रादीनां गोत्रप्रवरादिः, देवीकृतो लोलजिह्वराक्षसनाशः, योगिनीनां स्थापना, धर्मदेवकृतयज्ञश्चेत्यादिनिरूपणनामा चत्वारिंशदधिकचतुश्शततमोऽध्यायः ।। ४४० ।।