लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४३७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४३८
[[लेखकः :|]]
अध्यायः ४३९ →

श्रीनारायण उवाच-
श्रुणु लक्ष्मि! चमत्कारं तव जातं पुराभवम् ।
मया भक्तपरीक्षार्थं त्वया प्रेषितया कृतम् ।। १ ।।
पुरा पुण्यनिधिर्नाम सोमवंशोद्भवो नृपः ।
माथुरमण्डलराज्यं शशास भक्तिमान् हरौ ।। २ ।।
स त्वेकदा सेतुबन्धं तीर्थार्थं प्रययौ नृपः ।
सर्वाधिकं सेतुतीर्थं गन्धमादनगर्भितम् ।। ३ ।।
श्रुत्वा शास्त्रेभ्य आदाय परिवारं हरिश्रितम् ।
धनुष्कोट्यादितीर्थेषु सस्नौ रामेश्वरं सदा ।। ४ ।।
सिषेवे सकुटुम्बः स यज्ञं तत्राऽकरोन्मुदा ।
विष्णुयागाऽवसाने स मुदाऽवभृथकौतुकी ।। ५ ।।
सस्नौ तीर्थे धनुष्कोटौ सदारः सपरिच्छदः ।
तत्र श्रीहरिणा लक्ष्मीर्नृपभक्तिं परीक्षितुम् ।। ६ ।।
वैकुण्ठात्प्रेषिता चाष्टवर्षवयःस्वरूपिणी ।
धनुष्कोटौ समागत्य तस्थौ सा कमलालया ।। ७ ।।
राजा स्नात्वा च दानानि कृत्वा ददर्श तां सतीम् ।
अतीव रूपसम्पन्नां कन्यां चारुविलोचनाम् ।। ८ ।।
सरवशोभामयी चन्द्रकान्तपरिधिराजिताम् ।
पुण्यनिधिस्तां पप्रच्छ का त्वं कस्याऽसि कन्यका ।। ९ ।।
अत्राऽऽगमः कथं कन्ये! वद सर्वं यथातथम् ।
कन्या श्रुत्वाऽभवद् दीना प्राह तं नृपसत्तमम् ।। 1.438.१० ।।
न मे माता पिता राजन् विद्येते तीर्थवाञ्च्छया ।
भ्रमाम्यनाथा नृपते! ह्युपार्जयामि भोजनम् ।। ११ ।।
राजा प्राह तदा कन्ये! समागच्छ मया सह ।
कन्या प्राह पिता भूत्वा यदि रक्षसि चेन्नृप! ।।१ २।।
तदा त्वया समं राजन् सुता भूत्वा निरन्तरम् ।
त्वद्गृहेऽहं निवत्स्यामि तातं त्वां पश्यती सदा ।।१ ३।।
विना मदिच्छां कश्चिन्मे मा गृह्णातु करं नृप ।
तदा ते मन्दिरे राजन् वत्स्यामि पितृसेविका ।। १४।।
राजा प्राह सुते! मे वै नास्ति पुत्री यतो मम ।
भव पुत्री सदा कन्ये मेऽस्त्येक एव पुत्रकः ।। १५।।
तव यस्मिन् रुचिर्भद्रे त्वां तस्मै प्रददाम्यहम् ।
मद्भार्यायाः सुता भूत्वा मम चान्तःपुरे वस ।। १६।।
कन्या प्राह यदि राजन् हठात् कश्चित् करेण माम् ।
ग्रहीष्यति ह्यनाथां च ज्ञात्वा तदा त्वया नृप ।। १७।।
शासनीयः स एव स्यात्पुत्रो मित्रं च बान्धवाः ।
यतो हि राजगर्वेण कुमारा उद्विवर्तनाः ।। १८।।
धर्षयन्ति देशकालवैषम्ये तद्बिभेम्यहम् ।
तद्भयं मे तव पार्श्वे कदाचित्त्वपि मा भवेत् ।। १ ९।।
इत्युक्तः स नृपः प्राह तथाऽस्त्विति ततः सुताम् ।
राजा स्वभार्याहस्ते तां प्रददौ चाऽब्रवीच्च ताम् ।। 1.438.२० ।।
रक्षेमां सर्वथा साध्वीं पुरुषान्तरतः प्रिये ।
इत्यादिश्य सह नीत्वा राजा स्वगृहमागतः ।।२ १ ।।
पालितां पोषितां कन्यां न्यवात्सीत् सुखपूर्वकम् ।
अथ विष्णुः परीक्षार्थं नरो भूत्वा समाययौ ।।।२२।।
सखीभिः कन्यका यत्र पुष्पाण्यवचिनोति हि ।
पुष्पोद्याने तीर्थवासी विप्रो भूत्वा समाययौ ।।२३ ।।
तीर्थजलं कन्यकाभ्यः प्रददौ तुलसीदलम् ।
शनैः पश्चात्करं तस्या हठाज्जग्राह भूसुरः ।।२४।।
तदा चुक्रोश सा कन्या चुक्रुशुश्चान्यकन्यकाः ।
मालाकारस्तु तद्वृत्तं कथयामास भूभृते ।। २५।।
राजा समाययौ यत्र तूर्णं सभटवाहनः ।
कन्याभिर्दर्शितो विप्रो हठात्करप्रधर्षकः ।।२६।।
राज्ञा तु निगृहीतः स बध्वा निगडपाशितः ।
कारागारे प्रेषितश्च कन्यास्ता भवनं ययुः ।।२७।।
राजा रात्रौ तु निद्रायां स्वप्ने विप्रं ददर्श तम् ।
शंखचक्रगदापद्मवनमालाविभूषितम् ।।२८।।
सकौस्तुभश्रीवत्सांकोरस्कं पीताम्बरं हरिम् ।
नवीनजलदश्यामं गरुडादिप्रवन्दितम् ।।२९ ।।
सुस्मितं कुन्दकलिकादन्तं सुवर्णकुण्डलम् ।
पार्षदैर्मुनिभिर्लक्ष्मीरमाप्रभादिपूजितम् ।।1.438.३ ०।।
तस्य पार्श्वे कमले श्रीकृष्णनारायणप्रियाम् ।
स्वपुत्रीं कमलारूपां ददर्श दिव्यरूपिणीम् ।।३ १ ।।
धृतपंकजहस्तां च नीलकुञ्चितमूर्धजाम् ।
दिग्गजैरभिषिक्तांगीं दिव्याभरणभूषिताम् ।।३२।।
महालक्ष्मीं ददर्शाऽसौ विष्णुपत्नीं स्वकां सुताम् ।
एवं दृष्ट्वा सहसा चोत्थितो राजा विचार्य च ।।३३।।
कन्यागृहे जगामाऽसौ निःशब्दे मौनमाश्रितः ।
कन्या कन्यागृहे चास्ते न वा चेति परीक्षितुम् ।।३४।।
यद्वा दृष्टं मया स्वप्नं सत्यं वाऽनृतमेव वा ।
सत्यं सा कमला विष्णोः शयने वर्तते नवा ।।३५।।
यद्वा विष्णुर्निशामध्ये राजते किं तया सह ।
यद्वा विप्रः स्वयं विष्णुर्निगडे वर्तते नवा ।।३६।।
यद्वा विष्णुस्वरूपोऽयं शेते किं कन्यया सह ।
इति सर्वं विनिश्चेतुं राजा चाऽविदितो जनैः ।।३७।।
शनैः शनैर्मध्यरात्रौ कन्यागृहमवाप च ।
तथैव दृष्टवान् कन्यां यथा स्वप्ने ददर्श ताम् ।।३८।।
अथ राजा मौनमेव दूराद् दृष्ट्वा हरिं श्रियम् ।
ययौ शीघ्रं निजपत्नीं जगाद दिव्यदर्शनम् ।।३९।।
तदैव निगडस्थानं समारुह्य तु वाजिनम् ।
ययौ द्रष्टुं तदा तत्र ब्राह्मणो न विलोकितः ।।1.438.४०।।
अवापाऽऽश्चर्यमधिकं पुनः राज्ञीगृहं ययौ ।
पत्नीयुक्तो महाश्चर्यमवाप मुमुदे ह्यति ।।४१ ।।
श्रिया साकं हरेः रात्रौ विध्नं मा शयने भवेत् ।
इति विचार्य वै राजा पुत्रीगृहं ययौ न वै ।।४२।।
अथोदिते भास्करे स ययौ कन्यागृहं शुचिः ।
ददर्श विष्णुसेवायां पूजायां स्वसुतां तदा ।।४३ ।।
राजा समागतश्चेति विज्ञाय तु सुता हरेः ।
आज्ञां गृहीत्वा द्रागेव रुमाबहिः समाययौ ।।४४।।
प्रणम्य पितरं लक्ष्मीर्निनाय स्वगृहान्तरे ।
तावद्विष्णुरभूद् विप्ररूपधृग् भिक्षुको यथा ।।४५।।।
राजा विष्णुस्तु विप्ररूपं तुष्टाव प्रेमविह्वलः ।
नमस्ते मे सुतानाथ! प्रसीद कमलापते ।।४६।।
विप्ररूप नमस्तुभ्यमपराधं क्षमस्व मे ।
नमस्ते पुण्डरीकाक्ष चक्रपाणे श्रियःपते ।।४७।।
नमः श्रीवत्सचिह्नाय नमः कौस्तुभधारिणे ।
पार्वतीपतये तुभ्यं लक्ष्मीशाय नमोनमः ।।४८।।
माणिकीपतये प्रभानाथाय विष्णवे नमः ।
श्रीनिवासाय श्रीकृष्णनारायणाय ते नमः ।।४९।।
पद्मेशाय पद्मावतीस्वामिने हरये नमः ।
पद्मिनीशाय कृष्णाय भार्गवीशाय ते नमः ।।1.438.५० ।।
नारायणाय रामाय सीतायाः पतये नमः ।
सरस्वतीपतये ते गंगायाः स्वामिने नमः ।।५१ ।।
विरजायाः पतये ते श्रीदुर्गापतये नमः ।
मत्सुतापतये हंसामञ्जुलापतये नमः ।।।।५२।।।
कृष्णविप्रात्मने तुभ्यं हृदन्तरात्मने नमः ।
दयामूर्ते नमस्तुभ्यं कम्भरापतये नमः ।।५३।।
नमोध्वजधनुर्मत्स्यशूलहस्ताय ते नमः ।
स्वस्तिवरदहस्ताय कान्तरूपाय ते नमः ।।५४।।
मया निगडपाशाभ्यां बद्धस्त्वं परमेश्वर ।
अजानतस्ते भक्तस्य त्वपराधान् क्षमस्व मे ।।५५।।
एवं स्तुत्वा कृष्णनारायणं श्रीपुरुषोत्तमम् ।
पादयोः पतितः पश्चाल्लक्ष्मीं तुष्टाव वैष्णवीम् ।।।५६।।
नमः कृपास्वरूपायै स्वलब्धायै नमोनमः ।
नमः सुतास्वरूपायै दिव्यदेव्यै नमोनमः ।।५७।।
गूढतन्व्यै कृष्णनारायणपत्न्यै च ते नमः ।
विष्णुवक्षोनिवासायै कमलायै नमो नमः ।।।५८।।
राधायै च सरस्वत्यै पद्मिन्यै ते नमोनमः ।
दुर्गायै च महालक्ष्म्यै शारदायै च ते नमः ।।५९।।
गंगायै च तुलस्यै च वृन्दायै ते नमो नमः ।
पद्मावत्यै च भार्गव्यै कम्भरायै च ते नमः ।।1.438.६ ०।।
सिद्ध्यै पुष्ट्यै स्वधायै च स्वाहायै सततं नमः ।
दक्षिणायै मंगलायै पार्वत्यै च श्रियै नमः ।।६ १ ।।
माणिक्यायै प्रभायै च ललितायै च ते नमः ।
जयायै जानकीदेव्यै द्रोपद्यै ते नमो नमः ।।६२ ।।
नारायण्यै च सन्ध्यायै षष्ठ्यै देव्यै नमो नमः ।
मातृकायै च कृष्णायै मञ्जुलायै नमो नमः ।।६३।।
श्रद्धामेधाभूतिधात्रीहंसाख्यायै च ते नमः ।
धरण्यै सर्वविद्यायै बुद्ध्यै गोप्यै नमो नमः ।।६४।।
प्रकृत्यै ते जगन्मातः पुत्र्यै भूयो नमो नमः ।
पुत्रीभावे मया चाधिक्षिप्तं वा शासनं कृतम् ।।६५।।
त्वंकारकरणं लक्ष्मि! क्षमस्व मम सर्वथा ।
लोका वां शिशवः सर्वे जगतां पितरौ युवाम् ।।६६।।
सुतापराधः क्षन्तव्यः पितृभ्यां च प्रसीदतम् ।
इति सम्प्रार्थितौ देवौ विष्णुः पुण्यनिधिं नृपम् ।।६७।।
प्राह राजन्न वै भीश्च त्वया कार्या कदाचन ।
त्वया यज्ञः कृतः सेतुबन्धे तदा ह्यहं हरिः ।।६८।।
लक्ष्मीनारायणः कृष्णनारायणः पुमुत्तमः ।
अभवं सुप्रसन्नश्च प्रेषिता कमला मया ।।६९।।
तव यज्ञे प्रपूर्त्यर्थं सा दृष्टाऽवभृथे त्वया ।
त्वया साकं तदा सा तु वर्ततेऽत्र मदाज्ञया ।।1.438.७०।।
भक्त्याऽहं तव वश्योऽस्मि भक्तिपाशेन यन्त्रितः ।
भक्तापराधं सततं क्षमाम्येव न संशयः ।।७१।।
तव भक्तिं सदा ज्ञातुं सा लक्ष्मीस्ते गृहे स्थिता ।
त्वया संरक्षिता नित्यं पोषिता मत्प्रिया रमा ।।७२।।
तेनाऽहं चातितुष्टोऽस्मि मत्स्वरूपा त्वियं सती ।
लक्ष्म्यां यो भक्तिमान् लोके स मद्भक्तोऽभिधीयते ।।७३।।
अस्यां यो विमुखो राजन् स मे द्वेष्टा न संशयः ।
त्वं रमां भक्तिसम्पन्नः सदा पूजितवानसि ।।७४।।
मम पूजा कृता जाता लक्ष्म्यभिन्नोऽस्म्यहं यतः ।
अतस्त्वया नाऽपराधः कृतोऽस्ति निगडादिजः ।।७५।।
लक्ष्मीरक्षा कृता यस्माद् लक्ष्म्या वचनपालनात् ।
रमापराधकर्तारं निगडे धृतवान् यतः ।।७६ ।।
तेनाऽप्यतिप्रसन्नोऽस्मि मत्पत्नी रक्षिता त्वया ।
तद्रक्षतां कुर्वता राजन् संकेतोऽकारि यत्पुरा ।।७७।।
तत्संकेतः पालितः सा सेवा मम कृता त्वया ।
सा प्रिया मम राजेन्द्र सेवा साऽपि मम प्रिया ।।७८।।
इयं लक्ष्मीस्तव सुता त्वया सत्ये कृतं सदा ।
इत्युक्तः स पुण्यनिधिः साश्रुनेत्रो बभूव ह ।।७९।।
अथ लक्ष्मीस्तमुवाच पितः प्रीताऽस्मि सेवया ।
रक्षिताऽस्मि सदा चाहं स्वतन्त्राऽपि सदा त्वया ।।1.438.८०।।
तव भक्तेः प्रपुष्ट्यर्थमहं विष्णुरिहाऽऽगतौ ।
भक्त्या प्रसेवया चावां सन्तुष्टौ स्वः सुखी भव ।।८ १ ।।
आवयोः कृपया राजन् लक्ष्मीस्ते भवतात् तथा ।
महद्भूमण्डलैश्वर्यं सदा ते भवतु ध्रुवम् ।।८२।।
आवयोः पादयुगले भक्तिर्भवतु ते ध्रुवा ।
देहान्ते चावयोर्धामप्राप्तिस्तेऽस्तु च शाश्वती ।।८३ ।।
सदा कृष्णपातिव्रत्यपरा भक्तिस्तवास्त्विति ।
एवमुक्त्वा महालक्ष्मीः कृष्णनारायणे प्रिये ।।८४।।
तिरोबभूव सहसा गरुडश्चाप्यदृश्यत ।
पार्षदाश्च व्यदृश्यन्त ह्याशीर्वादपरायणाः ।।८५।।
विन्ध्यावली राजपत्नी श्रीकृष्णस्य च दर्शनात् ।
पार्षदानां दर्शनाच्च मुमुदे प्रेमविह्वला ।।८६।।
यदा ज्ञातवती दिव्या लक्ष्मीः पुत्रां ममाऽभवत् ।
मया सा सेविता नित्यं लालिता पालिता सदा ।।८७।।
रामिता हसिता साध्वी शासिता भोजिता मुहुः ।
स्नापिता च समुद्याने विहारिता मया सह ।।८८।।
पायिता मर्दिता शिरःप्रसाधिताऽतिहर्षिता ।
आवाहिता रत्नसिंहासने निषादिता मया ।।८९।।
आकारिता सुते पुत्रि कन्यके च कुमारिके ।
शोभने तातिके मातर्दुःखे सान्त्वयिता मुहुः ।।1.438.९० ।।
स्पृष्टा शृंगारिता नित्यं सखीभिः सह प्रेषिता ।
आनन्दिता महोद्याने रञ्जनेषु च रञ्जिता ।।९१ ।।
अनुकूलेषु चार्थ्येषु प्रदत्तेषु प्रसादिता ।
एवं भाग्यात् समालब्धा स्वप्नेऽपि न वियोजिता ।।९२।।
न च दूरीकृता पुत्री मम पार्श्वात् कदाचन ।
अहो भाग्यं च साफल्यं मम नार्याः सदुत्तमम् ।।९३।।
यस्याः सेवाकृतो लाभो मया नार्या समर्जितः ।
मम गृहं च भवनं शय्यास्तरणवस्तुकम् ।।९४।।
पात्राणि चासनादीनि यानानि वाहनानि च ।
प्रसादानि च दिव्यानि पूजानि मोक्षदानि वै ।।९५।।
मम गृहं तु वैकुण्ठं दिव्यं जातं न संशयः ।
सर्वं यद्यत् सुतया मे स्पृष्टं लक्ष्म्या निभालितम् ।।९६।।
तत्सर्वं दिव्यतां प्राप्तं किं भाग्यं वर्णयामि मे ।
अहो लक्ष्मि! मम मातः सुते पुत्रि पुनः सुकृत् ।।९७।।
यदि मे भक्तिरस्ति श्रीमत्यां त्वयि सनातनी ।
यदि मे पातिव्रत्यं च कृष्णे पत्यौ नरायणे ।।९८।।
तदा मे दर्शनं साध्वि! प्राणेशि देहि मे सुते! ।
कथमदृश्यतां प्राप्ता कथं मे नहि दृश्यसे ।।९९।।
इत्युक्त्वा नेत्रसलिलं सहर्षा प्रमुमोच सा ।
तावल्लक्ष्मीः स्मितहास्याऽऽनना चंद्रसमुज्ज्वला ।। 1.438.१०० ।।
निर्गत्य श्रीहरेर्वक्षःस्थलात् क्रोडाऽऽगता स्थिता ।
मातुस्तुवक्षसि लुप्ता क्षणं स्नेहेन पुत्रिका ।। १०१ ।।
अंकस्थितायाः शिरसं जिघ्राति स्म नृपप्रिया ।
उवाच पुत्रि यत्राऽसि श्रीकृष्णमन्दिरे सुते ।। १ ०२।।
देहान्ते मां पतियुक्तां नयेथाः कृष्णवल्लभे ।
ओमित्युक्त्वा मिष्टजलं पीत्वा विलोक्य चाननम् ।। १०३ ।।
शीघ्रं तिरोदधे लक्ष्मीर्नारायणस्तिरोऽभवत् .।
पार्षदाश्च गरुडश्च तिरोऽभवन् क्षणात् प्रिये ।। १ ०४।।
त्वां समादाय गरुडे वैकुण्ठमहमाप्तवान् ।
राजा वैराग्यमापन्नः पुत्रे धुरं निधाय च ।। १ ०५।।
पुनः पुण्यं सेतुमाधवाख्यं तीर्थं जगाम ह ।
पत्नीयुक्तो हरिं ध्यायन् शेषं कालं निनाय सः ।। १०६ ।।
कृष्णनारायणं ध्यात्वा देहान्ते मुक्तिमाप्तवान् ।
विन्ध्यावली च तत्पत्नी तमेवाऽनुममार सा ।। १ ०७।।
पतिव्रता पतिप्राणा लक्ष्मीकृष्णपरायणा ।
समुत्पाद्य सती वह्निं पादाङ्गुष्ठाच्चितोपरि ।। १ ०८।।
यावद्दग्धुं समारेभे तावल्लक्ष्मीनरायणौ ।
आययतुर्दम्पतीं तु नेतुं वैकुण्ठमुत्तमम् ।। १ ०९।।
विमाने तौ समारोहयित्वा भक्तौ हरिव्रतौ ।
पतिव्रतौ दिव्यदेहौ निन्यतुर्धाम वैष्णवम् ।। 1.438.११ ०।।
इति ते कथितं लक्ष्मि! तवैव चरितं शुभम् ।
एतत्पठन्वा शृण्वन्वा वैकुण्ठे लभते गतिम् ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुण्यनिधिनृपतेः सेतुबन्धरामेश्वरे यज्ञकरणेन पुत्रीरूपेण लक्ष्मीप्राप्तिः, लक्ष्मीकृतपरीक्षणे परमभागवतसभार्यकनृपतेर्नारायणाऽनुग्रहो ब्राह्मणरूपेणागमनम्, दिव्यदर्शनम्, वैकुण्ठनयनं चेत्यादिनिरूपणनामाऽष्टात्रिंशदधिकचतुश्शततमोऽध्यायः ।।४३८।।