लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४०५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४०६
[[लेखकः :|]]
अध्यायः ४०७ →

श्रीलक्ष्मीरुवाच-
वेंकटाद्रौ महापुण्ये श्रीरमाकमलापते! ।
कथं प्रादुरभूः पूर्वं वद मे सर्वमद्भुतम् ।। १ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! महिमानं कथयामि समासतः ।
सर्वेषामेव भूतानां कृष्णनारायणोऽस्मि भूः ।। २ ।।
गोलोकेऽहं कृष्णनामा वैकुण्ठेऽहं नरायणः ।
वासुदेवोऽमृते धाम्नि भूमाऽव्याकृतधामनि ।। ३ ।।
अक्षरे तु परे धाम्नि भवामि पुरुषोत्तमः ।
हिरण्यगर्भो वैराजः सदाशिवो भवामि च ।। ४ ।।
सहस्रशीर्षा भगवान् महाविष्णुर्भवामि च ।
एकशीर्षा कृष्णनारायणो भूमौ भवाम्यहम् ।। ५ ।।
मम भासा जगत् सर्वं भासते भास्करोऽस्म्यहम् ।
विद्यया मम सृष्टिर्वै व्याप्रीयते स चास्म्यहम् ।। ६ ।।
सर्वहृत्सु सन्निहितोऽन्तर्याम्यहं वसामि वै ।
हरिः सदाशिवो ब्रह्मा कांभरेयो जनार्दनः ।। ७ ।।
अहमेवाऽस्मि पर्यायाः सहस्राणि भवन्ति मे ।
यदेच्छामि शुभं कर्तुं तदाऽऽयामि भुवस्तलम् ।। ८ ।।
सृजामि राजसेनैतत् सत्त्येनापि वहामि च ।
हरामि तामसेनैव निद्रया स्वपिमीति च ।। ९ ।।
गतां जलतले भूमिमानेतुं स्वेच्छया मया ।
रूपं वाराहसदृशं धृतं वै लीलया पुरा ।। 1.406.१० ।।
कर्दमभावमापन्ना मया दंष्ट्राग्रसिद्धिभिः ।
पिण्डीकृत्याऽऽहृता जलोपरि संस्थानहेतवे ।। ११ ।।
जलं मर्यादितं यथा पृथ्वीं न नाशयेत्तथा ।
आधारार्थं दिग्गजाँश्च शेषं कूर्मं न्यवेशयम् ।। १२।।
ममाऽऽज्ञया जगद् ब्रह्मा यथापूर्वमकल्पयत् ।
कल्पे कल्पे च रक्षार्थं विहरामि महीतले ।। १ ३।।
वराहरूपधृक् चाहं प्रपेदे वेंकटाचलम् ।
स्वामिपुष्करिणीतीर्थे न्यवसं ब्रह्मणा तदा ।। १४।।
प्रार्थितो मूल्ररूपाय तदाऽदृश्योऽभवं प्रिये! ।
हैहयवंशजो राजा शंखनामा बभूव ह ।। १५।।
वैष्णवः परमो भक्तो नवधा भजनेऽनिशम् ।
लक्ष्मीनारायणसंहितां शृणोति सदा नृपः ।। १६।।
तथाऽप्यस्य न साक्षाच्छ्रीकृष्णनारायणोऽभवत् ।
तेनाऽयं चाऽतृप्तमना विचारमकरोन्मुहुः ।। १७।।
कथं नु यायाद् भगवान् विषयं मम नेत्रयोः ।
एवंचिन्तयतस्तस्योवाच श्रीभगवान् हृदि ।। १८।।
गच्छ श्रीवेंकटाद्रौ त्वं भज वर्षसहस्रकम् ।
अदृश्यो दृश्यतां यास्ये तव चागस्त्यकस्य च ।। १९।
आराध्य मां तपोनिष्ठौ मम दर्शनमाप्स्यथः ।
शंखो वज्रे सुते न्यस्य राज्यं श्रीवेंकटं ययौ ।।1.406.२०।।
अगस्त्योऽप्याससादैनं शैलं मुनिशतावृतः ।
प्रदक्षिणं चकारैनं ब्रह्मादिदेववासितम् ।।२१ ।।
देवाः सर्वे सनकाद्या ऋषयश्च तपोधनाः ।
प्रतीक्षन्ते हरेः साक्षाद् दर्शनं कुंभयोनिवत् ।।।२२।।
मिलित्वा ते समाजग्मुर्यत्र शंखोऽस्ति भक्तराट् ।
सुवर्णमुखरीतीरेऽपश्यँस्ते शंखभूपतिम् ।।२३।।
आसीनास्तत्र ते सर्वे संभाव्याऽन्योन्यमुत्सुकाः ।
गोविन्दकीर्तनपराः कृष्णनारायणात्मकाः ।।२४।।
तृतीयनिशिथे चान्ते ददृशुः स्वप्नमेव ते ।
शंखचक्रगदापाणिः पद्मिनीसहितः प्रभुः ।।२५।।
वरदानाय सम्प्राप्त इति ते ददृशुर्हरिम् ।
प्रातस्ते पुष्करिण्यां वै स्नात्वा तुष्टुवुरच्युतम् ।।२६ ।।
जेपुरष्टाक्षरं मन्त्रं ओंश्रीकृष्णनरायणः ।
तेषामग्रे प्रादुरभूदेकं तेजो महाद्भुतम् ।।२७।।
तत्र दृष्ट्वा कृष्णनारायणं तुष्टुवुरादरात् ।
जय विष्णो जय कृष्ण जय श्रीकृष्ण केशव ।।।२८।।।
जय भूधर गोविन्द वेंकटाद्रीश वै जय ।
कृतार्था नु कृताः सर्वे दिव्यदर्शनदानतः ।।२९।।
सदाऽत्र भगवन् वासं कुरु भक्तकृपाकर ।
सुवर्णमुखरीं चेमां कुरु त्रिलोकपावनीम् ।।1.406.३ ०।।
सदाऽस्मिन्नास्थितः शैले कांक्षितार्थप्रदो भव ।
कृष्णनारायणः श्रुत्वा प्राह तथास्त्विति प्रियम् ।।३ १ ।।
तेन कृष्णेन सुवर्णमुखरी स्वाश्रया कृता ।
शैलो वैकुण्ठशैलश्च कृतो वासेन नित्यदा ।।३२।।।
धर्मार्थकाममोक्षाणां प्रदो जातो हरिः प्रिये! ।
शंखमाह हरिः कृष्णः प्रीतोऽस्मि तव भक्तितः ।।।३३।।
आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः ।
भुक्त्वा बहुविधान् भोगाँस्ततो मल्लोकमेष्यसि ।।३४।।
एवं दत्वा वरं देवान् नित्यवासं प्रदाय च ।
नारायणः कमलेशस्तत्रैवाऽन्तरधीयत ।।३५।।
एवं सौम्यवपुर्भूत्वा कृष्णो वसति वेंकटे ।
नारायणं वेंकटाद्रिं स्वामिपुष्करिणीं तथा ।।।३६।।
कटाहादीनि तीर्थानि स्मृत्वा शुद्धा भवन्ति वै ।
लक्ष्मीश्रीभूपद्मिनीशं प्राप्नुयुः पुरुषोत्तमम् ।।३७।।
शृणु लक्ष्मि! पुरा काचिदंजनानामतः सती ।
पुत्रहीना तपः कर्तुं समारब्धाऽतिवैष्णवी ।।३८।।
मतंगाख्यो मुनिः कश्चित् तामाह तपसि स्थिताम् ।
किमिच्छसि दारुणेन तपसा वद सुन्दरि! ।।३९।।
अंजनाऽऽह पिता मे केसरी ज्ञातीयराक्षसः ।
तपश्चक्रे शिवं स्मृत्वा पुत्रार्थं दारुणं तपः ।।1.406.४०।।
शिवाशिवौ वृषभस्थौ समायातौ कृपाकरौ ।
शिवः प्राह च ते नास्मिन् जन्मनि पुत्रदायकम् ।।४१ ।।
पुण्यं किन्तु ददामि त्वां पुत्रीं लोकेषु विश्रुताम् ।
तस्याः पुत्रेण पुत्रीत्वं मन्येथाः स्वं सुखी भव ।।४२।।
इति तस्मै वरं दत्वा तत्रैवान्तर्दधे हरः ।
मत्पिता राक्षसस्तुष्टो गृहं यातस्ततः परम् । । ४३ । ।
जज्ञेऽहं तस्य पत्न्यां च काले विवाहिताऽभवम् ।
केसर्याख्येन पतिना किष्किन्धाख्यमहापुरे । ।४४ । ।
व्रतानि माघमासस्य कार्तिकस्य व्रतानि च ।
वैशाखस्य व्रतान्यपि चातुर्मास्यव्रतानि च । ।७५ । ।
कृतवतीं च नवधां भक्तिं नारायणस्य च ।
शालग्रामान्नदानानि गोदानं दीपदानकम् । ।४६ । ।
तिलदानं वस्त्रदानं भूदानं वारिदानकम् ।
फलपुष्पप्रदानं च सत्पुत्रफलकांक्षया ।। ४७ । ।
श्रावणस्य च यत्पुण्यं कृतवत्यपि सर्वथा ।
पुत्रं तथाऽप्यलब्ध्वाऽहं तदर्थं तपसि स्थिता ।। ४८ । ।
अथ तां तापसीं साध्वीं मतंगः प्राह पुत्रदम् ।
इतो वै दक्षिणे घनाचलो नृसिंहवासभूः । ।४ ९ । ।
दशयोजनदूरं सः तत्पूर्वे दशयोजने ।
नदी सुवर्णमुखरी तदुद्ङ् वृषभाचलः । ।1.406.५ ० । ।
तदग्रेऽस्ति स्वामिपुष्करिणी सरसी शोभना ।
गच्छ स्नाहि विधानेन वराहं पश्य केशवम् । ।५ १ । ।
वेंकटेशं नमस्कृत्वा वियद्गंगां प्रयाहि च ।
वायुमुद्दिश्य च तपः कुरु तत्र हि वैष्णवि! ।।।५२ । ।
इतिश्रुत्वा ययौ सा वै वेंकटाद्रिं तपस्विनी ।
चक्रे तीर्थानि विधिवत् तपश्चक्रेऽतिदारुणम् ।।५३ । ।
वियद्गंगातटे वायुः प्रादुरासीत्तु तत्पुरः ।
उवाच वरदानार्थं पुत्रं देहीति साऽब्रवीत् । । ५४ । ।
पुत्रस्तेऽहं भविष्यामीत्युक्त्वा चान्तर्दधेऽनिलः ।
तदा शंकरधातुं वै समादाय महर्षयः ।। ५५ । ।
समाजग्मुश्च तं वायुः केसरीरूपधृक् तदा ।
जहाराऽञ्जनीकर्णे तं ददौ पुत्रोऽभवत्ततः ।। ५६ । ।
जातमात्रो युवा जातिस्मरो वायुबलातिगः ।
हनुमान् सोऽभवत्तस्यास्तपस्विन्याः सुपुत्रकः । । ५७ । ।
मेषसूर्ये चतुर्दश्यां चित्रानक्षत्रयोगके ।
सुवर्णमुखरीतीरे प्रादुरासाऽनिलः स्वयम् । । ५८ । ।
तदात्र स्नानदानादि कृतं भवति चाऽक्षयम् ।
अन्नदानं वस्त्रदानं स्वर्णदानं सुतार्पणम् । । ५९ । ।
शालग्रामशिलादानं गोदानं भूप्रदानकम् ।
प्रपादानं तिलदानं धान्यदानं गृहार्पणम् ।।1.406.६ ० । ।
गन्धचम्पकपुष्पादि. छत्रव्यजनचामरम् ।
ताम्चूलघनसारादि गृहोपकरणानि च ।।६ १ । ।
यो ददाति जनस्तत्र दिव्यवस्त्रसहस्रकम् ।
भुक्त्वा भोगाननेकाँश्च स्वर्गलोकेऽपि भोगवान् ।।६२।
सार्वभौमस्ततो विप्रो भूत्वा मुक्तिं प्रयाति सः ।
इति ते कथिता लक्ष्मि! वेंकटाद्रिचमत्कृतिः ।।६३ ।।
श्रवणात्पठनाच्चास्य भुक्तिर्मुक्तिर्भवेद् ध्रुवम् ।
श्रुणु त्वन्यां कथां दिव्यां कृष्णनारायणाश्रिताम् ।।६४।।
कथयामि तव प्रीत्या पातिव्रत्यपरायणाम् ।
एकदा श्रीवेंकटाद्रिर्मेरुं गन्तुमचिन्तयत् ।।६५ ।।
उड्डीय स्वीयपक्षाभ्यां यावदुत्पतति क्षितेः ।
तावज्जातो महान् कम्पो विनाशो बहुदेहिनाम् ।।६६ ।।
चुक्रुशुः प्राणिनः सर्वे वराहं शरणं ययुः ।
मृताः स्मो भगवन्नस्योड्डयनेन विनाऽऽश्रयम् ।।६७।।
कुरु नो रक्षणं क्ष्मेश! यथावत् स्थापय प्रभो ।
इत्यर्थितो वराहो वै स्वयं नारायणः प्रभुः ।।६८।।
जीवानाश्वासयामास सस्मारेन्द्रं सवज्रकम् ।
तावदुपागतश्चेन्द्रो वज्रमुद्यम्य पक्षहाः ।।६ ९।।
इन्द्रं दृष्ट्वा वेंकटाद्रिस्तत्रास कम्पितोऽभवत् ।
जगाम शरणं विष्णोर्वराहरूपिणस्तदा ।।1.406.७० ।।
तुष्टाव मरणाद् भीतस्तमाह भगवान् स्वयम् ।
यदि कदाचिन्मा याहि पक्षाभ्यां व्योममार्गतः ।।७१ ।।
तदा रक्षां करिष्यामि स्थिरो भवात्र भूधर ।
इत्युक्तः सोऽभवन्नत्वा निष्कम्पः सुस्थिरस्तदा ।।७२ ।।
अदृश्योऽभूद् वराहश्च महेन्द्रः स्वालयं ययौ ।
वराहस्याश्रयेणास्य पक्षौ नेन्द्रेण कर्तितौ ।।७३ ।।
अथैकदा स शैलस्तु कल्पयामास वै हृदि ।
आगतोऽहं हि गोलोकाद् वसाम्यत्र चिरं समाः ।। ७४।।
गोलोकदर्शनार्थं वै गच्छामि कृष्णसन्निधौ ।
इति विचार्य स कृष्णजन्माष्टम्यां यश क्षितौ ।।७५ ।।
कुशस्थल्यां हि गोमत्यां स्नातुं तीर्थानि संययुः ।
ऋषयश्च गताः सर्वे नदा नद्यश्च देवताः ।।७६ ।।
अगस्त्यादय एवैते ययुर्गोमतीसंगमे ।
स्वं निर्जनं तदा दृष्ट्वा गन्तुं मनो दधे तदा ।।७७।।
चकम्पे पृथिवी तत्र जीवा नष्टाश्च कम्पनात् ।
तावत् तत्राऽभवदेका तापसी निर्धना सती ।।७८।।
ब्राह्मणी ब्राह्मणसेवापरा नित्यं प्रतिव्रता ।
नाम्ना सुवर्णरेखा च हिरण्या तत्स्वसा तथा ।।७१।।
हिरण्याऽभून्महासाध्वी कुमारिका तपस्विनी ।
सुवर्णरेखा सपतिका पतिर्नाम्ना नरायणः ।। 1.406.८० । ।
नारायणं द्विजं प्राह पीत्वा जलं तु पादयोः ।
वेंकटाद्रिः सपक्षोऽस्ति प्रागुड्डयने वारितः । ।८ १ । ।
पुनरुड्डीयतेऽस्माकं मृत्युरेव भविष्यति ।
यदि पत्याज्ञया चैनं जडीकरोमि सर्वथा । ।८२ । ।
तदा श्रीवेंकटेशाद्याः क्रुद्धा नो दुःखदाः खलु ।
भविष्यन्ति ततो नाथ कर्तव्यं किं वदात्र मे । ।८ ३ । ।
इत्युक्तः सः प्रियामाह यथेष्टं कुरु भामिनि! ।
यदि ते पातिव्रत्यं वै दृढं चास्ति जनाविह । । ८४। ।
सर्वे पराभवमाप्ता भविष्यन्ति तदग्रतः ।
मा भयं कुरु साध्वि त्वं शिक्षां कुरु हि पर्वतम् । ।८५। ।
इति प्रियस्य वचनं समासाद्य सती तदा ।
प्राह यद्यस्मि मद्धर्मसंस्थिता वै पतिव्रता । ।८६ । ।
तदा पर्वतराजोऽत्र तव पक्षौ भुवोऽन्तरे ।
जडीभूतौ सदा स्तां वै पक्षशक्तिं विनाकृतौ । ।८७। ।
पृथिव्या चैकतां प्राप्तौ यथा नोड्डयनं पुनः ।
इत्युक्तमात्रे तौ पक्षी जडीभूतावचंचलौ । ।८८ । ।
अभवतां शक्तिहीना भुवोऽन्तरं निवेशितौ ।
वेंकटाद्रिर्नम्रतया ययाचे वै क्षमां मुहुः । ।८ ९ । ।
सती प्राह सदा चात्र नारायणस्य मे तथा ।
वासो न निश्चितस्तस्माद् यास्यामो रैवताचलम् । । 1.406.९० । ।
त्वं सदा तिष्ठ निष्कर्मा मा भूः चंचलपर्वत! ।
अन्यथा ते पुनर्देवो ध्रुवं नाशं करिष्यति ।। ९१ ।।
सपक्षस्त्वं सर्वदैवं तिष्ठ नोड्डयनं भवेत्। ।
ददामि पक्षयोर्जीवं कृपया मा शुचः पुनः ।। ९२ ।।
शलभानां शुकानां च कोटयस्तव पक्षयोः ।
भविष्यन्ति सशक्तास्ता उड्डयिष्यन्ति चाम्बरे ।। ९३ ।।
शाद्वलेषु वनेष्वत्राऽरण्येषु शलभाः शुकाः ।
ओषधीन् भक्षयित्वा ते लयमेष्यन्ति पक्षयोः ।। ९४। ।
एवं ते पक्षयोः सजीवनतां ते ददामि वै ।
इत्युक्त्वा वेंकटं स्थिरीकृत्वा नारायणो द्विजः ।। ९५ । ।
पतिव्रता स्वर्णरेखा ययतू रैवताचलम् ।
स्वर्णरेखा नदीरूपाऽभवन्नित्या पतिव्रता ।। ९६ ।।
नारायणो ह्रदरूपोऽभवन्नित्योऽवसद् गिरौ ।
एवं नारायणः स्वर्णरेखा चेति हि दम्पती ।। ९७ ।।
निवासं चक्रतुस्तीर्थरूपौ दिव्यौ हि रैवते ।
यत्र दामोदरेणापि पत्नीव्रतेन विष्णुना ।।।९८ ।।
श्राद्धं कृतं परां तृप्तिं ददतुस्तौ हि चेतनान् ।
इति ते कथितं लक्ष्मि! चमत्कारमयं वृत्तम् ।। ९९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वेंकटाद्रावगस्त्यशंखद्वारा वराहप्रादुर्भावः, तत्र तपसांऽजन्यां हनुमत्पुत्रलाभः, वेंकटाद्रेः पक्षयोर्जडीकरणम्, त्वारेखानारायणहृदयोः रैवताचले आगमनं चेत्यादिनिरूपणनामा षडधिकचतुःशततमोऽध्यायः ।।४०६ ।।