लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ४०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४०३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४०४
[[लेखकः :|]]
अध्यायः ४०५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! दानपात्रं सत्तीर्थं कथयामि ते ।
नारायणः परं तीर्थं देयमस्मै तु शार्ङ्गिणे ।। १ ।।
साधवे धर्मशीलाय विद्याजुषे महात्मने ।
त्यागिने ब्रह्मवेत्रे च दत्तं भवति चाक्षयम् ।। २ ।।
साध्व्यै भोगप्रसक्तायै हरिकृष्णस्य योषिते ।
नारायण्यै महालक्ष्म्यै दत्तं भवति शाश्वतम् ।। ३ ।।
सत्कर्मनिरतायै च सेविकायै हरेस्तथा ।
कृष्णनारायणपत्न्यै सत्यै दत्तं तु शाश्वतम् ।। ४ ।।
अनाथायै च भक्तायै योगिन्यै दत्तमक्षयम् ।
भक्ताय ब्रह्मरूपाय ब्रह्मणे वेदवेदिने ।। ५ ।।
कृष्णनारायणमूर्तिरूपाय देशिकाय च ।
विप्राय देवशिष्याय तथा सत्कर्मकारिणे ।। ६ ।।
अनपेक्षितशान्ताय दत्तं भवति चाऽक्षयम् ।
गवे बालाय कन्यायै पितृभ्यां दत्तमक्षयम् ।। ७ ।।
पत्न्यै स्वस्रे दुहित्रे च दौहित्राय सुकर्मिंणे ।
स्वसृपुत्राय शिष्याय दत्तं भवति चाक्षयम् ।। ८ ।।
गुरवे गुरुपत्न्यै च गुरुपुत्राय वेदिने ।
धर्मप्रचारकर्त्रे च दत्त भवति चाक्षयम् ।। ९ ।।
व्याख्यात्रे ज्ञानदात्रे च शास्त्रिणे विदुषे तथा ।
विद्याधिकारिणे विद्यापात्रे दत्तं हि चाक्षयम् ।1.404.१ ०।।
वृत्तिशून्याय वै देयं दरिद्राय कुटुम्बिने ।
देवस्य पूजकायाऽपि परोपकारकारिणे ।।१ १ ।।
अध्यापकाय दातव्यं दातव्यं देश हेतवे ।
अभ्युदयार्थमेवापि दातव्यं रक्षकाय च ।। १ २।।
नारायणस्य सामीप्ये दत्तं भवति चाक्षयम् ।
वैष्णवाय प्रदातव्यं येन तुष्टो भवामि वै ।। १३ ।।
दंभाचाराय चौराय विद्विषे निन्दकाय च ।
परद्रव्यपरदारपरे दत्तं तु निष्फलम् ।। १४।।
कृतघ्नस्य च मूर्खस्याऽसूयाविष्टहृदस्तथा ।
हिंसकस्य विक्रयिणो दत्तं भवति निष्फलम् ।। १५ ।।
परोपतापकर्तुश्च नास्तिकस्य जडस्य च ।
खलस्य छलधर्मस्य मर्यादाभेदकस्य च ।। १६ ।।
पाखण्डिनः कितवस्य शठस्याऽधर्मवर्तिनः ।
विवाढशालिनश्चण्डरूपस्यापि तु निष्फलम् ।। १७।।
तीर्थे चक्रपुष्करिणीतीरे देयं विशेषतः ।
दाने पुण्यतमं तीर्थं चक्रतीर्थमनुत्तमम् ।। १८।।
पुरा श्रीवत्सगोत्रीयः पद्मनाभो द्विजर्षभः ।
चक्रपुष्करिणीतीरे तपोऽतप्यत दारुणम् ।। १ ९।।
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत् ।
कंचित्कालं जलाहारो वाय्वाहारः कियत्समाः ।।1.404.२०।।
एवं वै द्वादशे वर्षे तुष्टः कृष्णनरायणः ।
प्रत्यक्षतामगात्तस्य श्रीराधाकमलापतिः ।। २१ ।।
दृष्ट्वा कृष्णं श्रीनिवासं स्तोतुं समुपचक्रमे ।
गोपालकृष्णरूपाय कांभरेयाय विष्णवे ।।२२।।
नमः शेषाद्रिवासाय वेंकटेशाय ते नमः ।
नारायणाद्रिवासाय श्रीनिवासाय ते नमः ।।२३ ।।
भक्तिप्रियाय लक्ष्मीशपद्मिनीशाय ते नमः ।
इति स्तुतो घनश्यामः श्रीनिवासस्तुतोष ह ।।२४।।
पद्मनाभं द्विजं चाह चक्रतीर्थेऽत्र सर्वदा ।
आकल्पं पूजयँस्त्वं मां वस भक्तोत्तम प्रिय! ।।२५।।
इत्युक्त्वा भगवान् कृष्णस्तत्रैवाऽन्तरधीयत ।
पद्मनाभोऽवसत् तत्र कदाचित्तं तु भक्षितुम् ।।२६ ।।
राक्षसश्चागतस्तत्र जग्राह ब्राह्मणं तदा ।
प्रचुक्रोश चक्रपाणे! रक्ष रक्षेति वै मुहुः ।।२७।।
वेंकटेश हरे कृष्ण कृष्णनारायण! प्रभो! ।
कांभरेय! कृपानाथ रक्ष मां रक्षसा धृतम् ।।२८।।
इति स्तुवतस्तस्यैव रक्षार्थं चक्रधारकः ।
स्वचक्रं प्रेषयामास चक्रपुष्करिणीतटम् ।।।२९।।
सुदर्शनं महाज्वालं दृष्ट्वा रक्षः प्रदुद्रुवे ।
तस्य शिरश्चकर्तेदम विप्रस्तुष्टाव चक्रकम् ।। 1.404.३० ।।
विष्णोश्चक्र! नमस्तेऽस्तु भक्तरक्षणदीक्षित! ।
कृष्णनारायणहस्तपद्मभूषण! ते नमः ।। ३१ ।।
सर्वदाऽत्र प्रतिष्ठ त्वं रक्षकं भव मत्कृते ।
नारायणस्वरूपाय मोक्षदाय नमो नमः ।।३ २ ।।
इत्यर्थितं पद्मनाभभक्तं प्राह सुदर्शनम् ।
चक्रतीर्थं मम नाम्ना बोध्यं भक्त! त्वया कृतम् ।। ३३ ।।
चक्रतीर्थे सततं संवसामि तव वाञ्च्छया ।
इतः परं जनानां न पीडा स्याद् राक्षसादिजा ।। ३४।।
स्नातारोऽत्र धूतपापा यास्यन्ति श्रीहरेः पदम् ।
इत्युक्त्वा तां चक्रपुष्करिणीं प्राविशदुज्ज्वलम् ।। ३५।।
इत्येवं मुक्तिदं भक्तपातिव्रत्यप्रभावतः ।
तीर्थं चक्राश्रितं जातं लक्ष्मि! पापविनाशनम् ।। ३६ । ।
शृणु यथाऽभवत् सोऽपि राक्षसो यो मृतोऽधुना ।
पुरा श्रीरंगपुर्यां वै वशिष्ठाद्यास्तु वैष्णवाः ।।३७ ।।
उपासाञ्चक्रिरे श्रीरंगनाथं मुक्तिकांक्षया ।
कदाचित् तत्र गन्धर्वः सुन्दराख्यः समाययौ ।। ३८ ।।
सलिले युवतीभिर्विवस्त्राभिः स्नानमाचरत् ।
क्रीडां चकार विविधां वशिष्ठस्तावदेव हि ।। ३९ ।।
स्नातुं गतो ददर्शैनं नग्नं शशाप निस्त्रपम् ।
मां दृष्ट्वापि न वै वासो धत्से तस्माद्धि सुन्दर! ।।1.404.४० ।।
याहि राक्षसतां सद्यस्ततोऽसौ राक्षसोऽभवत् ।
युवत्यः श्रीवशिष्ठं सनत्वा क्षमां ययाचिरे ।। ४१ ।।
दयासिन्धो विलोक्याऽस्मान् कोपं मा कर्तुमर्हसि ।
पतिरेव हि नारीणां भूषणं परमं मतम् ।।४२ ।।
पतिहीना तु या नारी शतपुत्रापि नो शुभा ।
विधवेत्यमंगला सा ततो जन्म निरर्थकम् ।।४३ ।।
एकोऽपराधः क्षन्तव्यः प्रसीदाऽस्मत्प्रिये प्रभो ।
एवं स्तुतो वशिष्ठस्ताः प्राह शापो न मेऽफलः ।।४४।।
षोडशाब्दावधौ रक्षः पश्चाद् गन्धर्वतां व्रजेत् ।
चक्रतीर्थे पद्मनाभविप्रयोगे विमोक्ष्यति ।।४५।।
सुदर्शनेन चक्रेण मुक्तिरस्य भविष्यति ।
पतिर्वस्त्रिदिवं भूयो रमयिष्यति सुन्दरः ।।४६ ।।
इत्युक्त्वा स वशिष्ठो वै ययौ श्रीरंगमन्दिरम् ।
सुन्दरो राक्षसो जातो महादंष्ट्रो भयानकः ।। ४७।।
तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ।
भ्रमतो रक्षसश्चाद्रौ षोडशाब्दानि निर्ययुः ।।४८ ।।
ततो ब्राह्मणयोगेन सुदर्शनेन मोचितः ।
सुन्दरः सुन्दरो जातो विमानेन दिवं ययौ ।।४९ ।।
चक्रं तत्रोषितं शश्वच्चक्रतीर्थमतोऽभवत् ।
यच्छ्रुत्वा पापजालानां नाशो भवति वै ध्रुवम् ।।1.404.५० । ।
जाबालितीर्थमाहात्म्यं शृणु लक्ष्मि! वदामि ते ।
दुराचाराभिधो विप्रः कवेरीतीरवासकृत् ।।५१ । ।
सदाऽभूत पापिसंसर्गी नष्टब्राह्मण्यसत्क्रियः ।
ग्रस्तोऽभवद्भीषणेन वेतालेन बलीयसा ।।५२ । ।
बहुकालोत्तरं सोऽयं भ्रमन् वेंकटपर्वतम् ।
न्यमज्जत् तु जले तावद् वेतालेन विमोचितः ।।५३ । ।
यत्र जलेऽभवन्मुक्तस्तत्र जाबालिको मुनिः ।
अवसत् तन्महत्तीर्थं जाबालितीर्थमुच्यते ।।५४ । ।
वेतालोऽप्यभवत् पूर्वं ब्राह्मणो नास्तिको महान् ।
निन्दको देवसाधूनां तेन वेतालतां गतः ।।५५ ।।
सोऽपि तीर्थप्रभावेण पुनर्मानुष्यमेष्यति ।
इति ते कथितं लक्ष्मि! जाबालितीर्थमुत्तमम् ।।।५६ । ।
तुम्बुरुतीर्थमत्रापि कथयामि शृणु प्रिये! ।
पापिनो मनुजाः सर्वे ह्यमासु स्नान्ति वै मुहुः ।।।५७ ।।
विसृज्य पापजालानि पूता भवन्ति ते जनाः ।
अस्माकं पापजालानि कथं नश्यन्ति सर्वतः ।।५८ ।।
एवमालोच्य तीर्थानि गतानि वेंकटाचलम् ।
तत्र स्वामिपुष्करिणीजले सस्नुश्च तुम्बुरौ ।।५९ । ।
तीर्थे सस्नुरुत्तराफाल्गुन्यां शुक्ले तु पर्वणि ।
तेषां पापानि नष्टानि ययुस्तानि यथालयम् ।।1.404.६ ० ।।
महापापरतं क्रूरं दानहीनं कुलान्तकम् ।
पशुघ्नं द्रोहकर्तारं पिशुनं चानृतं जनम् ।।६ १ ।।
मित्रद्रुहं कृतघ्नं च भ्रूणहं परदारगम् ।
परार्थसूचकं स्वामिद्रोहं देवपराङ्मुखम् ।।६२ ।।
शठं च वञ्चकं धर्मविघ्नं कुलविभेदकम् ।
सुपल्लवफलोपेतवृक्षोद्यानविनाशकम् ।।६३ ।।
अग्निदं गरदं चापि पापं विश्वासघातकम् ।
गुरुद्वेषकरं दुष्टं दम्पत्योर्विरसावहम् ।।६४।।
एतान्सर्वांश्च वै लक्ष्मि! तुम्बुरुतीर्थमुत्तमम् ।
पुनाति स्नानपानाद्यैः स्वर्गं मोक्षं ददाति च ।।६५।।
तुम्बुरुर्नामगन्धर्वो भार्यामुवाच वै पुरा ।
माघत्रये मया साकं स्नानं कुरु मलापहम् ।।६६ ।।
माघमास्युदिते सूर्ये गोमयालेपनं कुरु ।
रंगवल्ल्यादिभिः शुभ्रपद्मधातुकस्वस्तिकैः ।।६७।।
कृष्णनारायणपूजास्थलं शुद्धं कुरु प्रिये! ।
दीपं कुरु घृतवर्त्तिप्रकाशितं सुगन्धकम् ।।६८।।
देहि पाकं शुचिर्भूत्वा कृष्णनारायणाय च ।
प्रदक्षिणानमस्कारैर्मया सह प्रसेवय ।।६९ ।।
देवसेवां कुरु नित्यं कथाश्रवणमाचर ।
नित्यं कृष्णप्रसादान्नजलं गृहाण वैष्णवि! ।।1.404.७०।।
कृष्णनारायण विष्णो काम्भरेय जनार्दन ।
गोपालकृष्णगोविन्द रमाराधापते प्रभो ।।७१ ।।
श्रीलक्ष्मीपार्वतीनाथ माणिकोश प्रभापते! ।
अन्तर्यामिन् मुक्तिदातृ चेति कीर्तय सर्वदा ।।७२।।
क्रोधमात्सर्यलोभादींस्त्यक्त्वा व्रत समाचर ।
तेनैव जायते मुक्तिर्विष्णुलोको ह्यवाप्यते ।।७३ ।।
इति भर्तुर्वचः श्रुत्वा क्रोधं कृत्वा तु भामिनी ।
प्रत्युवाच तदा कान्तं शीतपीडामये खलु ।।७४।।
प्राणहारिणि माघे वै किं स्नानं तेऽतिसम्मतम् ।
न करोमि पते! स्नानं म्रिये चेद् रक्षकोऽत्र मे ।।७५ ।।
धर्मस्तावज्जनैः कार्यो यावच्छक्यो भवेन्मृदुः ।
दुःखदो नाशकृद्धर्मो न कार्यो न करोमि तम् ।।७६।।
न च कर्माणि विष्ण्वर्थं शक्यानि च प्रगे मया ।
तुम्बुरुरित्युक्तवतीं शशापाऽप्रियवादिनीम् ।।७७।।
वेंकटाद्रौ घोणतीर्थे पिप्पलद्रुमकोटरे ।
तत्राम्बुरहिते मूढे मण्डूकी भव केवला ।।७८।।
श्रुत्वा साऽप्रार्थयत् कान्तं विशापमवदत् पतिः ।
कदाचिन्मुनिभिः सार्धमगस्त्यस्ते समीपतः ।।७९।।
स्थित्वा घोणस्य माहात्म्यं कथयिष्यति वै तदा ।
श्रुत्वा त्वं दूरतो मण्डूकीदेहाद्वै विमोक्ष्यसे ।।1.404.८० ।।
पुनरागत्य मे स्थानं मया साकं रमिष्यसि ।
इत्युक्त्वा विररामाऽथ धर्मपत्नी पतिव्रता ।।८१ ।।
भर्तृशापान्महाघोरां मण्डूकतनुमाश्रिता ।
बहुवर्षे गते कालेऽगस्त्यस्तत्र समाययौ ।।८२।।
स्वामिपुष्करिणीं स्नात्वा नत्वा वराहमीश्वरम् ।
वेंकटेशं श्रीनिवासं दृष्ट्वा पिप्पलसन्निधौ ।।८३ ।।
आगत्य घोणतीर्थस्य माहात्म्यमवदज्जनान् ।
मण्डूकी सा तदा मुक्ता पूर्वरूपवती बभौ ।।८४।।
उवाच मां दयया रक्ष पतिवाक्यविरोधिनीम् ।
पतिशापेन मण्डूकी जाताऽहं मोचिता त्वया ।।८५ ।।
अगस्त्यस्तां तदा प्राह पातिव्रत्यवृषान् शृणु ।
तव भर्ता सुधर्मज्ञस्त्वां शशाप ऋतं हि तत् ।।८६।।
पतिवाक्यविरोधिन्यां शापो युक्तो हि सर्वथा ।
पतिवाक्यमनादृत्य यथेष्टं वर्तते तु या ।।८७।।
सा पत्नी नरके कष्टे पतत्याकल्पमेव यत् ।
नार्या वाक्यं स्वपत्युर्वै नोल्लंघ्यं हि कदाचन ।।८८।।
पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च ।
स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ।।८९।।
पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः ।
पतिर्गुरुः पतिस्तीर्थं पतिर्मोक्षः परो मतः ।। 1.404.९० ।।
पतिवाक्यमपाकृत्य या तु सुकृतकारिणी ।
न सा फलमवाप्नोति नैव शुद्धा भवेत्तथा ।। ९१।।
गुर्वाज्ञावर्तमानाऽपि पत्याज्ञां न करोति चेत् ।
नैव पूता नवा पुण्या भवत सा कदाचन ।। ९२।।
पत्याज्ञया विदध्यात् सा व्रतं धर्मादिकं तथा ।
पतिबुद्ध्या प्रकुर्याच्च हरेः सेवादिकं सदा ।। ९३ ।।
पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया ।
सा स्नाता सर्वतीर्थेषु गंगादिषु न संशयः ।। ९४।।
त्वया भुक्तं फलं दुःखं पुनर्जाताऽसि पूर्ववत् ।
गच्छ त्वं तुम्बुरोर्वासं सुखिनी भव सर्वथा ।।९५।।
तुम्बुरुतीर्थमेवैतत् तेन यातं प्रसिद्धताम् ।
अत्र स्नान्ति पौर्णमास्यां ते यज्ञफलभागिनः ।। ९६ ।।
दिने दिने कपिलागोसहस्रदानजं फलम् ।
दिने दिने रत्नकोटिसहस्रदानजं फलम् ।। ९७।।
दिने हस्तिसहस्रदानस्याऽश्वाऽयुतदानजम् ।
फलं वै प्राप्यते सुभ्रु घोणतीर्थाऽवगाहनात् ।। ९८।।
कन्याकोटिप्रदानस्य फलं घोणाऽवगाहनात् ।
कुरुक्षेत्रे सुवर्णानां सहस्रस्य प्रदानजम् ।। ९९।।
यत्फलं तदावाप्नोति तुम्बुरुतीर्थगाहनात् ।
गुर्वर्थे च सतामर्थे स्वाम्यर्थे यस्त्यजेत्तनुम् ।। 1.404.१० ०।।
पतिव्रतार्थं साध्व्यर्थं हर्यर्थं यस्त्यजेत् तनुम् ।
तत्फलं समवाप्नोति घोणतीर्थाऽवगाहनात् ।। १०१ ।।
आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम् ।
सत्यव्रतानां यत्पुण्यं घोणतीर्थाद्धि यद्भवेत् । । १० २।।
गंगायां नर्मदायां च सरयूचन्द्रभागयोः ।
स्वर्णवत्यां यमुनायां यत्फलं तद्भवेदिह ।। १ ०३।।
इति श्रुत्वा जलं पीत्वा ययौ सा तुम्बुरुगृहम् ।
इति ते कथितं लक्ष्मि! तुम्बुरुतीर्थमुत्तमम् ।। १ ०४।।
यच्छ्रुत्वाऽपि जनो यायाद् वाजपेयफलं महत् ।
विष्णुलोकं परं स्वर्गं तथा वै शाश्वतं पदम् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये दानपात्रं, चक्रतीर्थे जाबालितीर्थे च पतिव्रतामाहात्म्यं, तीर्थबलं चेत्यादिनिरूपणनामा
चतुरधिकचतुःशततमोऽध्यायः ।। ४०४ ।।