लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१३

विकिस्रोतः तः
← अध्यायः ३१२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१३
[[लेखकः :|]]
अध्यायः ३१४ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! श्रीपुरुषोत्तमाश्रिता ।
कथा सम्पत्प्रदा सौख्यप्रदा सर्वेष्टदा सदा ॥ १ ॥
पूर्वे कल्पे ब्रह्मणो वै मरुदेशेऽतिधार्मिकः ।
धनाढ्यो ब्राह्मणो नाम्ना देवयवो बभूव ह ॥ २ ॥
तस्य पत्नी देवजुष्टाऽप्यासीत्पतिव्रता शुभा ।
तयोर्भृत्यो गिरिक्षितो भृत्या चाद्रिद्युतिस्तथा ॥ ३ ॥
बभूवतुः सदा कृष्णनारायणपरायणौ ।
स्वामिकार्यं विधायैव कृष्णचर्या प्रचक्रतुः ॥ ४ ॥
ब्रह्मकर्मपरा नित्यं षट्कर्मादिपरायणाः ।
चत्वारस्ते बभूवुर्वै कृष्णभक्तिपरायणाः ॥ ५ ॥
ब्राह्मणौ स्वामिनौ चापि विप्राण्यौ सेविके च ते ।
हर्यर्थं मनसा वाण्या तन्वा निन्युः क्षणात्क्षणम् ॥ ६ ॥
मरुदेशाधिपतिना राज्ञा देवसखेन वै ।
नगर्यां भास्वतीनाम्न्यां कारितं विष्णुमन्दिरम् ॥ ७ ॥
सप्तशिखरसंशोभं त्र्यग्रगोलमनोहरम् ।
स्वर्णस्तंभांगनरम्यं त्रिप्राकारमनोहरम् ॥ ८ ॥
मध्ये तु शिखराऽन्तःस्थसिंहासने चतुर्भुजः ।
कृष्णनारायणो विष्णुर्लक्ष्मीराधासमन्वितः ॥ ९ ॥
दक्षशिखरगर्भेषु श्रीप्रभापार्वतीत्रिकम् ।
स्वस्वदासीसमाजुष्टं प्रत्येकं राजते शुभम् ॥ १० ॥
वामशिखरगर्भेषु माणिक्या ललिता जया ।
स्वस्वदासीसमाजुष्टा प्रत्येकं राजते त्रिषु ॥ १ १॥
तत्सेवाया नियुक्तास्ते चत्वारो वै पृथक् पृथक् ।
देवयवो मध्यभागे पूजां करोति सर्वदा ॥ १ २॥
गिरिक्षितो बहिश्चन्दनादिकार्यकरोऽभवत् ।
देवजुष्टा दक्षभागे पार्वतीश्रीप्रभार्चनम् ॥ १३ ॥
अद्रिद्युतिर्वामभागे माणिक्याद्यर्चनादिकम् ।
करोत्येव विभागेन राजा ददाति वेतनम् ॥ १४॥
भवनं वासयोग्यं च जीविकां वाटिकादिकाम् ।
वार्षिकं च तथा द्रव्यं तथा स्वर्णसहस्रकम् ॥ १५॥
वस्त्रान्नभूषणादीनि ददाति चोत्सवेऽधिकम् ।
देवपूजासुनैवेद्यादिकं ददाति भूपतिः ॥ १६ ॥
एवं वै वर्तमानेन विप्रदेवयवेन वै ।
लोभाकृष्टेन मनसा गृह्यते ढब्बुकं क्वचित् ॥ १७॥
क्वचित्तु रूप्यकं स्वर्णमुद्रा यात्रालुभिः खलु ।
देवायाऽर्पितमित्येतद्देवद्रव्यं मुमोष सः ॥ १८ ॥
तेन चौर्यदुरितेन देवधनेन मिश्रितम् ।
देवयवस्य सद्द्रव्यं दूषितं त्वास चञ्चलम् ॥ १ ९॥
इयेष गन्तुमन्यत्र चंचला हि श्रियो मताः ।
देवद्रव्यान्वितं यत्तत् समूलं नाशमेति वै ॥ २० ॥
यद्यपि न्यायलब्धं स्वं देवद्रव्यस्पृशिं गतम् ।
दूषितं तद् विनश्येद्वै लक्षं नीत्वा प्रगच्छति ॥ २ १ ॥
अन्नं चापि सुरान्नादिमिश्रितं नश्यति द्रुतम् ।
वस्त्रं देवाम्बरयुक्तं नाशयत्येव देहिनम् ॥ २२॥
वस्तुमात्रं चौर्यलब्धं यन्न प्रसादरूपतः ।
पूजकाचार्यगुरुभिर्दत्तं देवस्वरूपि तत् ॥२३ ॥
यत्र क्षिप्तं तु तत् सर्व मूलीयमपि दह्यति ।
चुल्लीकाष्ठाऽनलोऽरण्यगतोऽरण्यं प्रदह्यति ॥ २४॥
गवामन्नं भिक्षुकान्नं विप्रान्नं प्रमदान्नकम् ।
अनाथान्नं निराधारान्नमग्निः कुपितः स वै ॥ २५॥
ब्रह्मस्वं विधवास्वं च देवस्वं भिक्षुनाणकम् ।
अनाढ्यस्वं महानग्निः पतेद् यत्र स दह्यति ॥ २६॥
देवपूजाकृता किञ्चित्फलं चान्नं च ढब्बुकम् ।
न ग्राह्यं देवतात्वं चेद् यतो दहति तत्कुलम् ॥ २७॥
पूर्वैः पूर्वतमैश्चापि मुषितं देवनाणकम् ।
तदेवान्यदपि न्याय्यं मुष्णाति मुषकस्य वै ॥ २८ ॥
देवयवोऽपि देवस्य मन्दिरे हरिसन्निधौ ।
यात्रालुभिस्त्वर्पितं च प्रक्षिप्तं ढब्बुकादिकम् ॥२ ९॥
पुष्णात्येव स्वके द्रव्ये निक्षिपति च वृद्धये ।
येन केन निमित्तेन तस्य नाशं उपागतः ॥ ३० ॥
मरुकोसलयोः राज्ञोर्युद्धं घोरं बभूव ह ।
कोसलस्य तु सैन्यैर्वै विजितो मरुभूपतिः ॥ ३१ ॥
सैन्यैस्तु नगरी सर्वा भास्वती ध्वंसिता तदा ।
धनाढ्यानां नाणकानि हृतानि वै प्रसह्य तैः ॥ ३ २॥
नृपमान्यं द्विजं ज्ञात्वा सर्वं तस्य हृतं धनम् ।
निष्कासितस्ततः स्थानात् सभार्याभृत्यमात्रकः ॥ ३३ ॥
ययौ स रैवतगिरौ हिरण्यायास्तटे शुभे ।
सोमनाथस्य निकषां वने मूलफलाशनः ॥ ३४॥
निर्गमयत्यहान्येव पर्यटन् भृत्यदारयुक् ।
सरस्वतीं नदी प्राचीं गत्वा पिप्पलशाखिनम् ॥ ३५॥
निषसाद जलं पीत्वा विशश्राम क्षणं तदा ।
सस्मार च हरिं कृष्णनारायणं जगद्गुरुम् ॥ ३६ ॥
चिन्तयामासुरन्योन्यं शत्रुजन्यं पराभवम् ।
गिरिक्षितस्तदा भृत्यः प्राह देवयवं द्विजम् ॥ ३७॥
यस्य वै पूजनं सम्यक् कृतं तेनापि शार्ङ्गिणा ।
रक्षिता न वयं शत्रोरुपद्रवेऽपि सेवकाः ॥ ३८॥
सर्वस्वं वै हृतं सैन्यैर्मन्दिरस्यापि कांचनम्।
तत्रापि रक्षणं नैव कृतं श्रीविष्णुना तदा ॥ ३९॥
परस्य रक्षणं कस्मात् कुर्याद् यः स्वं न रक्षयेत् ।
इत्युक्ते ब्राह्मणो देवयवः प्राह स्वभृत्यकम् ॥ ४० ॥
मैवं वद तथा नास्ति यथा त्वं वदसि द्विज! ।
रक्षति श्रीहरिः सर्वान् जीवतो रक्षिता वयम् ॥४ १ ॥
रक्षा कृता चतुर्णां वै यज्जीवामोऽत्र संयुताः ।
देवद्रव्यापहारस्य पातकं त्वन्तवर्जितम् ॥४२॥
तत्कृतं वै मया तच्च द्रव्यं स्वद्रव्यमिश्रितम् ।
तेन सर्वं गतो नो वै द्रव्यं मत्पातकेन वै ॥४३॥
देवद्रव्यं च देवान्नं यस्य कोशे हि जीर्यति ।
तस्य सर्वस्वनाशाय फलं भवति निश्चितम् ॥४४॥
सर्वस्वं तद्गतं योग्यं फलमत्रैव चार्जितम् ।
यमलोकोऽपि भोक्तव्यो ह्यधुना शिष्यतेऽपि हि ॥४५॥
तथापि सेवनस्यैतत्फलं रक्षति नोऽत्र वै ।
यद्वयं घातिता नैव रक्षिताः परमात्मना ॥४६ ॥
देवद्रव्यं न भोक्तव्यं पत्रं पुष्पं फलादिकम् ।
वस्त्रं यानं गृहं पात्रं भोक्तव्यं नैव सर्वथा ॥४७॥
अन्यायेनापि लोभेनाऽज्ञानेनापि प्रसह्य वा ।
भुक्तं यदि तदा तत्तु भोक्तुर्नाशकरं भवेत् ।।४८॥
तद्वयं नाशिता नैव कृपा सेयं हरेर्द्विज ।
अथ यत्नः प्रकर्तव्यो यथा यमो न संचरेत् ॥४९ ॥
प्रपन्नानां हरिस्त्राता यमस्तत्र न संचरेत् ।
प्रपत्तौ षड्विधत्वं वै नारायणेन दर्शितम् ॥५ ० ॥
विश्वासो वरणं न्यासः कार्पण्यं च स्थिरा मतिः ।
आनुकूल्यस्य संकल्पः प्रातिकूल्यविवर्जनम् ॥५ १ ॥
तत्र हरिर्मदर्थं यत् करोति सकलं तु तत् ।
मदर्थं योग्यमेवाऽस्ति त्वेवं विश्वासमाचरेत् ॥५२ ॥
त्वं ममासि तवाहं चेत्येवं वरणमर्थयेत् ।
सर्वस्वोऽहं पादयोस्ते न्यस्तोऽस्मि न्यासमाचरेत् ॥५ ३ ॥
सत्यपि सार्वभौमेऽपि कार्पण्यं दासवच्चरेत् ।
सर्वनाशेऽपि खेदं न कुर्यान्मतिं स्थिरां चरेत् ॥५ ४॥
तव तोषो मम तोषो नान्यथेति सुकल्पयेत् ।
इत्येवं तस्य यद्रम्यं रम्यमेव ममापि तत् ॥५ ५ ॥
नान्यदिति प्रकुर्याद्वै मत्वा भक्तिं सदा हरेः ।
अपराधान् क्षमाप्यैव सोऽस्मान् संतारयिष्यति ॥५६ ॥
उदरार्थं प्रलोभेन कृतं चौर्यादि पातकम् ।
तत्सर्वं भगवान् भक्त्या ध्रुवं प्रज्वालयिष्यति ॥५७॥
कृष्णनारायणं ब्रह्म व्याहरँस्तं त्वनुस्मरन् ।
यः प्रयाति त्यजन्वर्ष्म स याति परमं पदम् ॥५ ८ ॥
तस्मादत्रैव सत्तीर्थे ह्युषित्वा चिरमेव तु ।
आराध्य तं कृष्णनारायणं यास्याम वै पुनः ॥५९॥
यद्वाऽऽयुष्यक्षये तस्य धाम प्राप्स्याम ईप्सितम् ।
अपराधसहस्राणि स श्रीहरिः क्षमिष्यते ॥६ ०॥
इति विचार्य चत्वारः कृष्णनारायणाभिधाम् ।
जपयज्ञं प्रचक्रुस्ते प्राचीसरस्वतीस्थले ॥६ १ ॥
प्रातः स्नात्वा हरिं ध्यात्वा पुपूजुर्नित्यमेव ते ।
दलं पुष्पं फलं तोयं कन्दादि यदुपस्थितम् ॥६२॥
अर्पयन्ति हरये ते जलार्थं प्रार्थनादिकम् ।
कुर्वन्ति स्म प्रगे मध्ये सायं निशि पुनः पुनः ॥६३॥
एवं वै वर्तमानेषु व्योममार्गेण संश्रुतः ।
दुन्दुभिस्त्वधिमासस्य श्रीपुरुषोत्तमोदितः ॥६४॥
षष्ठ्यां प्रातर्दुन्दुभेस्तु पुरुषोत्तममासि वै ।
घोषणा मोक्षदा यद्वा सकामानां तु भोगदा ॥६५॥
प्रवर्तते स्म सा कर्णपथं प्राप्ता मनोरमा ।
चतुर्भिस्त्वपि सध्यानां विचार्वाऽवधृता हृदि ॥६६ ॥
शृण्वन्तु मानवाः सर्वे निर्धनाः सधना अपि ।
निरागसः सापराधास्तथा नार्यो नरा अपि ॥६७॥
पूजायां मे त्वपराधा भवन्ति बहवोपि वै ।
यदि कैश्चित् कृतास्तान् वै गणयिष्ये मनाङ् न वै ॥६८॥
कुर्वन्तु व्रतमद्यैव षष्ठ्यां द्वितीयपक्षके ।
पुरुषोत्तममास्यस्मिन् क्षमयिष्ये नु पातकम् ॥६९॥
वज्रलेपादिकं पापं क्षालयिष्येऽद्य वै व्रतात् ।
एकभुक्तं च वा नक्तं विना याञ्चां समागतम् ॥७०॥
गृहीत्वापि तु षष्ठ्यां वै व्रतं कार्यं ममात्र हि ।
फलं भुक्त्वा जलं पीत्वा ग्रसित्वा पवनं च वा ॥७ १॥
व्रतं कार्य मम षष्ठ्यां तस्मै दास्ये यथेप्सितम् ।
प्राक् कृतं मे विपरीतं स्मरिष्ये तन्न सर्वथा ॥७२॥
अद्याऽहं कृपया दास्ये तदिष्टं पुरुषोत्तमः ।
पुरुषोत्तममासोऽयं वर्तते भुवनत्रये ॥७३॥
ईशलोकेऽप्ययं मासो ममाऽऽज्ञया प्रवर्तते ।
सर्वमूर्धन्यमासोऽयं मूर्धन्यपुरुषोत्तमात् ॥७४॥
मूर्धन्यफलदस्तस्माद् वृणुतेप्सितमुत्तमम् ।
इत्युक्त्वा दुन्दुभिस्तस्मात् स्थानात् स्थानान्तरं ययौ ॥७५॥
चत्वारो ब्राह्मणास्ते तु दारिद्र्यदुःखपीडिताः ।
षष्ठ्यां व्रतं प्रचक्रुस्ते श्रुत्वा दुन्दुभिशब्दितम् ॥७६॥
दारिद्र्यं नष्टतां गच्छेत् सुखं वैभवसंभवम् ।
पूर्वतोऽप्यधिकं स्याच्च विशाला धनसम्पदः ॥७७॥
यानवाहनसौधानि दासा दास्यः समुज्ज्वलाः ।
राज्यादप्यधिकं सर्वं भवेत्तर्हि सुखं भवेत् ॥७८॥
इत्यभिलष्य तैः सर्वैस्तूपवासव्रतं कृतम् ।
पूर्वं संभोगिनः पश्चाद् वाञ्छन्ति भोगसम्पदः ॥७९॥
स्वभावं यान्ति भूतानि निग्रहस्तु दुराधरः ।
यावद्वाञ्च्छा न वै शान्ता तावज्ज्ञाता प्रवर्तते ॥८०॥
भक्तानामपि चेष्टेषु भोग्येष्वस्ति प्रवर्तनम् ।
रागशून्यस्य नास्त्येव समद्रष्टुः प्रवर्तनम् ॥८१ ॥
विचार्य विषवत् त्यक्तं यदि रागो न लीयते ।
तर्हि सुयोगे सम्पन्ने पुनरादातुमिच्छति ॥८२॥
तस्मादिन्द्रियनैर्बल्यं साधयन्ति सुयोगिनः ।
तपसा क्षालितपापबला जयन्ति मायिकम् ॥८३॥
अनाहारेण विजयो बहुक्लेशेन वा जयः ।
शैथिल्येन च विजयो भवत्याहारशालिनाम् ॥८४॥
एभिस्तु ब्राह्मणैर्दारायुक्तैर्न विजयः कृतः ।
इष्टं वै मायिकं तैस्तु राज्यं वै पूर्वतोऽधिकम् ॥८५॥
पारमेष्ठ्यपदं यद्वा सूर्यचन्द्रादिकं पदम् ।
इन्द्रपदसमं देवराजवन्नाऽन्यदस्ति तत् ॥८६॥
ब्रह्मणः सर्वदा त्वस्ति वार्धक्यं स्वप्रजाः प्रति ।
सूर्यचन्द्रादिका व्योम्नि भ्रमन्ति परवश्यगाः ॥८७॥
प्रवासिनां सुखं नास्ति विश्रामो नास्ति वै क्वचित् ।
अविश्रान्तः सदा क्लिष्टस्तस्मादैन्द्रपदं वरम् ॥८८॥
राज्यं सर्वसुराणां वै दाराधामधनादिकम् ।
स्वर्गे लक्ष्मीः शाश्वती च स्मृद्धिरिन्द्रस्य वर्तते ॥८९॥
तस्मादैन्द्रपदं ग्राह्यं भोगोत्तमप्रदं शुभम् ।
पश्चाद् भक्त्या समुपार्ज्य वैकुण्ठं दिव्यसाधनम् ॥९० ॥
एवं निश्चित्य तैः सर्वैः कृतं षष्ठ्यां व्रतं शुभम् ।
प्रातः स्नात्वा मृदो मूर्तिं कारयित्वा हरेस्तदा ॥९१ ॥
पार्श्वे स्फटिकपाषाणं स्थापयित्वा ततश्च ते ।
आवाहयित्वा श्रीकृष्णनारायणं पुमुत्तमम् ॥९२॥
संस्नाप्य पंचदुग्धाद्यमृतेन च जलेन च ।
वस्त्राभूषाद्रवद्द्रव्याक्षतपुष्पादिचन्दनैः ॥९३॥
धूपदीपसुनेवेद्यैः फलपत्रजलादिभिः ।
संपूज्याऽर्घ्यं बिल्वफलैर्युक्तं दत्वा नमः स्तुतिम् ॥९४॥
प्रार्थनां स्तवनं पुष्पाञ्जलीन्समर्प्य विष्णवे ।
आन्दोलयांचक्रिरे च लतारज्ज्वादिदोलने ॥९५॥
मध्याह्ने च तथा सायं रात्रौ पूजां सजागराम् ।
चक्रुस्ते नृत्यगीतादि तत्राऽऽविरास केशवः ॥९६॥
वरान् वृणुत भक्ताः स्थ गतं दुःखं व्रतेन मे ।
यथेष्टं त्वर्पयितुं चागतोऽस्मि तोषितोऽस्मि च ॥९७॥
दृष्ट्वा श्रुत्वा कृष्णनारायणं हरिं चतुर्भुजम् ।
नत्वा ते पादयोः पुष्पांजलिं वारि ददुस्तदा ॥९८॥
वव्रिरे देवसदनं महेन्द्रपदमृद्धिमत् ।
तथास्त्विति वरं दत्वा हरिस्तिरोबभूव ह ॥९९॥
अधिमासे सरस्वत्यास्तटे प्राच्याः सुपिप्पले ।
स्थले त्यक्त्वा शरीराणि चत्वारो दिवमागताः ॥ १ ००॥
प्रान्तेन्द्रस्याऽऽयुषो नाशे दशलोकिक्षयोत्तरम् ।
चत्वारस्ते ययुः सौम्ये महर्लोके चिरंस्थिताः ॥ १० १॥
पुनः कल्पान्तरारंभे चत्वारो दिवमागताः ।
देवयवो महेन्द्रो वै बभूव व्रतपुण्यतः ॥ १ ०२॥
देवजुष्टा महेन्द्राणी संबभूव हरेः प्रिया ।
गिरिक्षितो बभूवेन्द्रपुत्रो जयन्तनामकः ॥ १ ०३॥
अद्रिद्युतिर्विजयन्तपत्नी जाता तु मानसी ।
विश्वकर्मसुता त्वेषा स्नुषा त्विन्द्रस्य या मता ॥ १०४॥
पुलोमजाऽभवदिन्द्राणीति सा मानसी सुता ।
इन्द्रपत्नी संबभूव दासीदासाऽर्बुदाऽन्विता ॥ १०५॥
षष्ठीव्रतेन विप्रैस्तैराप्तं त्वैन्द्रपदं शुभम् ।
सुखं देवेश्वरपदं प्राप्तं श्रीहर्यनुग्रहात् ॥ १०६॥
इमां कथां पठेद् यस्तु शृणुयाद्वा समाहितः ।
तस्य षष्ठीफलं स्याद्वै तथेष्टं संलभेत च ॥ १ ०७॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये मरुदेशीयदेवयवगिरिक्षितविप्रयोस्तत्पत्न्योर्देवजुष्टाऽऽर्द्रद्युत्योश्च देवद्रव्यचौर्येण सर्वस्व-नाशोत्तरं त्वधिकमासस्य द्वितीयपक्षस्य षष्ठ्या व्रतेन महेन्द्रजयन्तमहेन्द्राणीजायन्तीपद-प्राप्तिनिरूपणनामा त्रयोदशाधिकत्रिशत-तमोऽध्यायः ॥१.३१३॥