लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३०९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१०
[[लेखकः :|]]
अध्यायः ३११ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! प्राक्कल्पस्य कथानकम् ।
सृष्ट्यारंभे भुवो भागे सम्राडासीज्जनाऽधिपः ॥ १ ॥
नाम्ना ब्रह्मसविताख्यस्तस्य पत्नी पतिव्रता ।
पतिधर्मपरा भक्ता भूरिशृंगाभिधाऽभवत् ॥ २ ॥
सेवते सा सदा कृष्णनारायणात्मकं पतिम् ।
दम्पती भगवद्भक्तौ गृहधर्मपरायणौ ॥ ३ ॥
कुर्वन्तौ दानधर्मादि सेवयन्तौ गुरून् जनान् ।
वर्तयन्तौ हरेर्मार्गे विष्णुसेवापरायणौ ॥ ४ ॥
अतिथीन् पूजयन्तौ च वृद्धेषु विनयान्वितौ ।
गवां सेवां प्रकुर्वन्तौ दयावन्तौ प्रजासु च ॥ ५ ॥
दीनानां दुःखहन्तारौ निर्धनानां प्रपोषकौ ।
सतां सेवां प्रकुर्वन्तौ दुष्टानां तु नियामकौ ॥ ६ ॥
आस्तां धर्मपरौ त्राणपरौ कष्टहरौ हि तौ ।
राजा ब्रह्मसवित्राख्यो नित्यं स्नात्वा नदीजले ॥ ७ ॥
सन्ध्यां जपं तथा होमं स्वाध्यायं स्म करोति वै ।
अन्नदानं वस्त्रदानं द्रव्यदानं करोति च ॥ ८ ॥
देवालयेषु देवानां दर्शनार्थं प्रगच्छति ।
नैवेद्यार्थे सुमिष्टान्नं फलाद्यर्पयति प्रधीः ॥ ९ ॥
योग्ये तु समये पूजां कारयत्येव भावतः ।
भोजयत्यतिथीन् विप्रान् साधून् साध्वीर्यतीन् मुनीन् ॥ १० ॥
ददाति दक्षिणां स्वर्णरूप्यात्मिकां सुतोषदाम् ।
अन्नसत्रेषु चान्नानि दापयत्यपि कोशतः ॥ ११ ॥
दासदासीप्रवर्गाणां शृणोति प्रार्थनां मुहुः ।
अपेक्षितं प्रदत्वैव सुखयत्यतिधर्मवान् ॥ १२॥
राज्ञी चापि तथा देवान् पूजयत्यनिशं गृहे ।
दर्शनार्थं च देवानां प्रयाति यानमन्तरा ॥ १३॥
अनुपानच्चरणाभ्यां यात्रां करोति नित्यदा ।
जलं पत्रं फलं पुष्पं चन्दनं स्वर्णदक्षिणाम् ॥ १४॥
देवाय गुरवे दत्वा समागच्छति तद्गृहम् ।
भोजयित्वा जनान् भुंक्ते सा नृपोऽत्ति तथोत्तरम् ॥ १५॥
चातुर्मास्ये व्रतं राज्ञा गृहीतं घृतदीपकाः ।
दातव्या हरयेऽखण्डाः सर्वदेवालयेषु वै ॥ १६॥
सप्तद्वीपेषु खण्डेषु सामुद्रद्वीपकेषु च ।
यत्र यत्राऽभवन् देवालया राज्ये स्वके भुवि ॥ १७॥
परमेशावताराणामीश्वराणां च योगिनाम् ।
देवानां सर्वजातीनां चमत्कारात्मना तथा ॥१८॥
विभूतीनां च तत्त्वानां देवीनां च चितां तथा ।
तीर्थानामधिदैवानां जडानां चेतनावताम् ॥ १९॥
चैत्यानां स्थावराणां च जंगमानां चमत्कृताम् ।
यत्र यत्राऽभवन् सुरक्ष्मालयास्तत्र तत्र च ॥२०॥
घृतदीपानखण्डान् स सुतेजस्कानकारयत् ।
स्वर्णपात्रेषु संशुद्धगोघृतानि सुवर्तिकाः ॥२१॥
धारयित्वा प्रकाशं वै सर्वदेवेभ्य आददौ ।
तस्य राज्ये यदि कस्मैचिदप्यर्हसुराय चेत् ॥२२॥
अनर्पितः प्रदीपश्चेज्जानात्ययं नृपस्तदा ।
सोपवासः सुवर्णानां सहस्रं च ददात्यपि ॥२३॥।
उद्धोषयति सर्वत्र चातुर्मास्ये व्रतं मम ।
मम राज्ये तु सर्वत्र देवेभ्यो मम दीपकाः ॥२४॥
प्रदेयाः पूजकैस्तीर्थजलेभ्यश्चैत्यशाखिने ।
देवालयेषु सर्वत्र भवन्तु मम दीपकाः ॥२५॥
सर्वपर्वकार्तिकादौ भवन्त्वाकाशदीपकाः ।
गवां घृतेन मे श्रेष्ठज्योतींषि सन्तु सर्वथा ॥२६॥
पञ्चामृताप्लवनं च देवानां मम भूयताम् ।
मिष्टान्नानि मम सन्तु देवेभ्यो विनिवेदने ॥२७॥
उपचारास्तथा सन्तु सर्वथा मम षोडश ।
नवधा श्रीहरेर्भक्तिर्जायतां मत्प्रभोजितैः ॥२८॥
चातुर्मास्ये तु शाकानि दुग्धानि च रसास्तथा ।
विप्राणां साधुसाध्वीनां देवानां भोजने मम ॥२९॥
दीनाऽनाथकृपणानां भोजनानि भवन्तु मे ।
गवां ग्रासाः शुनकादिग्राम्यादनानि सन्तु मे ॥३०॥
कणान्नादिप्रदानं च पारावतादिपक्षिणाम् ।
पिपीलिकाप्रभृतीनां पिष्टाद्यन्नं समस्तु मे ॥३ १॥
यज्ञानां कर्मणां सिद्धिः साधनैरस्तु मे तथा ।
आरार्त्रिकादिकं देवालयेषु चास्तु मेऽन्वहम् ॥३२॥
जलदानं वस्त्रदानं ममास्तु वैभवात् सदा ।
स्वर्णरूप्यादिमुद्राणां प्रदानं चास्तु मे सदा ॥३३॥
इत्येवं ब्रह्मसविता राजा प्राघोषयद् भुवि ।
भूरिशृंगा च तत्पत्नी चक्रे पत्या सह व्रतम् ॥३४॥
नित्यं स्नात्वाऽर्चयति स्म श्रीकृष्णपुरुषोत्तमम् ।
मण्डपं कदलीस्तम्भैः शोभितं तोरणादिभिः ॥३५॥
कारयित्वा नवं नित्यं पूरयित्वा च मण्डलम् ।
सप्तधान्यमयं श्रेष्ठं सर्वतोभद्रनामकम् ॥३६॥
कारयित्वा च सौवर्णीं मूर्तिं श्रीपौरुषोत्तमीम् ।
उपचारैर्बहुविधैः पुपूज बहुभावतः ॥३७॥
मध्याह्ने भोजनं चापि षट्पंचाशद्विधं ददौ ।
सायं नीराजयित्वा च नृत्यति दासिकायुता ॥३८॥
एवं करोत्यनुदिनं पुरुषोत्तमस्य, तोषाय मानमहतं विगणय्य राज्ञी ।
कृष्णोऽपि नृत्यमवलोक्य सुकण्ठमिश्रं, तुष्टो भवत्यपि न दृष्टिपथं प्रयाति ॥३९॥
दम्पती तौ तथावृत्तौ नित्यभक्तौ हरिप्रियौ ।
तृतीयायाः प्रगे त्वाकर्णयामासतुरैश्वरीम् ॥४०॥
घोषणां दुन्दुभिप्रोक्तां महाश्चर्यकरीं यथा ।
शृण्वन्तु नागरास्तद्वदारण्यका दिवौकसः ॥४१॥
नरा नार्यश्च शृण्वन्तु वच्मि श्रीपुरुषोत्तमः ।
ब्रह्मधामेश्वरः साक्षादधिमासाधिदैवतः ॥४२॥
परपक्षतृतीयायां व्रतं तु श्रद्धयान्वितम् ।
करिष्यन्ति नरा नार्यो मम पूजनपूर्वकम् ॥४३॥
एकभुक्तेन नक्तेन फलेनाऽयाचितेन वा ।
राजानो यदि वा राज्ञ्यः प्राप्स्यन्ति परमं पदम् ॥४४॥
प्राप्स्यन्ति धर्मकामार्थमोक्षान् लोकानभीप्सितान् ।
पुत्रपौत्रादिवंशाँश्च कुलविस्तारसद्यशः ॥४५॥
ऐश्वर्याणि समग्राणि प्राप्स्यन्ति मद्व्रतेन वै ।
गृह्णन्त्वेकदिवसस्य व्रतेन शाश्वतं सुखम् ॥४६ ॥
परमौदार्यसम्पन्नो दास्येऽहं पुरुषोत्तमः ।
कृष्णनारायणः सर्वसम्पदामस्मि योजकः ॥४७॥
अद्य भोजनदानेन दास्ये नवनिधीन् ध्रुवान् ।
अद्य सुवर्णदानेन दास्ये कुबेरगद्दिकाम् ॥४८॥
अद्य रसप्रदानेन दास्ये वारुणसत्पदम् ।
अद्य रत्नप्रदानेन दास्ये सुरेन्द्रतां शुभाम् ॥४९॥
अद्य पुण्यप्रदानेन दास्ये वै धर्मराजताम् ।
अद्य धनप्रदानेन दास्येऽष्टवसुविग्रहान् ॥५० ॥
अद्य सर्वस्वदानेन दास्येऽष्टसिद्धिवैभवान् ।
अद्य दीपप्रदानेन दास्ये त्रिलोकनेत्रताम् ॥५ १ ॥
अद्य पयःप्रदानेन दास्ये शीतामृतात्मताम् ।
अद्यान्नजलदानेन दास्ये साम्राज्यमर्थवत् ॥५२॥
अद्य रथादिदानेन दास्ये स्वर्गविमानकम् ।
अद्य वस्त्रप्रदानेन दास्ये वार्ध्यम्बरा क्षितिम् ॥५३ ॥
अद्य कन्यादिदानेन दास्ये सहस्रयोषितः ।
अद्य गवां प्रदानेन दास्ये पृथ्वीं रसान्विताम् ॥५४॥
अद्य गृहप्रदानेन दास्ये ब्रह्माण्डगह्वरम् ।
अद्य फलप्रदानेन दास्ये कल्पद्रुमावलिम् ॥५५॥
अद्य भूषाप्रदानेन दास्ये स्वर्गं सुभूषितम् ।
अद्य मे पूजया दास्ये त्रिलोकिपूज्यतां सदा ॥५६ ॥
यद्यदिच्छन्तु मे भक्तस्तत्तद् दास्ये न संशयः ।
दुन्दुभिस्त्वेवमाख्याय क्षणं मौनो बभूव ह ॥५७॥
राजा ब्रह्मसविता च भूरिशृंगा च तत्प्रिया ।
नत्वा तं दुन्दुभिं पूजां ददौ कृष्णप्रदूतकम् ॥५८॥
अधिमासे परपक्षे तृतीयायास्तु दम्पती ।
चकार व्रतमेकान्नं भुक्त्वा द्युमणिवाञ्च्छया ॥५९॥
चातुर्मास्ये दीपदाने सूर्यो भवामि केशव ।
सपत्नीकस्त्रिलोकानां नेत्रात्मा संभवाम्यहम् ॥६ ० ॥
एवं संकल्प्य राजाऽसौ तत्पत्नी चक्रतुर्व्रतम् ।
प्रातः स्नात्वा हरिं स्मृत्वा ध्यात्वेष्टरूपमुज्ज्वलम् ॥६ १ ॥
मण्डपे मण्डले कृष्णनारायणं घटे शुभे ।
आरोप्याऽऽनर्चतुर्भक्त्या सौवर्णं पुरुषोत्तमम् ॥६२॥
पञ्चामृतैः शुद्धवार्भिः संस्नाप्याऽऽदिश्य चाम्बरे ।
भूषाः पुष्पाणि हाराद्यान् समर्पय्याऽथ चन्दनैः ॥६ ३ ॥
धूपदीपादिभिर्देवं संपूज्याऽक्षतकुंकुमैः ।
षटपंऽचाशद्विधं त्वन्नं मिष्टं मृष्टं जलं फलम् ॥ ६४॥
अर्पयामासतुश्चोभौ भक्त्या श्रीपुरुषोत्तमम् ।
नीराजयामासतुश्च चक्रतुः सुप्रदक्षिणम् ॥६५ ॥
दण्डवन्नमनं कृत्वा चक्रतुः स्तवनं ततः ।
पुष्पांजलिं ददतुश्च प्रार्थयामासतुः क्षमाम् ॥६६॥
मध्याह्नेऽपि तथा सायं रात्रौ चक्रतुरर्चनम् ।
नृत्यं सजागरं तत्र चक्रतुर्बहुमानवैः ॥६७॥
प्रादुर्बभूव भगवान् सर्वतेजोनिधिर्हरिः ।
पूजया च व्रतेनापि चातुर्मास्यव्रतेन च ॥ ६८ ॥
दीपदानेन सर्वत्र प्रसन्नोऽस्म्यतिभक्तितः ।
तवेष्टं यत् त्रिलोकानां नेत्रस्थानं महत्तमम् ॥६९॥
दास्ये त्वम्बरसूर्यत्वं सभार्यस्त्वं रविर्भव ।
इत्याख्याय हरिस्तस्मात् स्थानादन्तर्हितोऽभवत् ॥७० ॥
कृत्वा ब्रह्मसविता च नृत्यं प्रजागरं तथा ।
भूरिशृंगासहितः सः प्रातर्दानानि सन्ददौ ॥७ १ ॥
मणिरत्नानि च गाश्च महिषीर्गजवाजिनः ।
अजाऽविकास्तथा स्वर्णरूप्यपात्राम्बराणि च ॥७२॥
दासदासीश्च पर्यंकान् गृहाणि भवनानि च ।
क्षेत्राणि वाटिकाश्चैवोद्यानानि च वनानि च ॥७३ ॥
अन्नानि कूपवापींश्च भूमिं कार्पासकानि च ।
कौशेयानि तथौर्णानि ददौ चानर्घ्यकाणि सः ॥७४॥
ब्राह्मणीभ्यस्तु शृंगारवस्तूनि विविधानि च ।
यतिभ्यस्तु बृसीपात्रकमण्डल्वादिकानि च ॥७५॥
गृहस्थेभ्यस्तु गार्हस्थ्ययोग्यवस्तूनि सन्ददौ ।
क्षुधितेभ्यो ददौ भोज्यं तृषितेभ्यो जलं ददौ ॥७६ ॥
तत्तत्सुखार्थिकेभ्यः स ददौ तत्सुखसाधनम् ।
अर्थिभ्यः प्रददौ त्वर्थान् सर्वं ददौ तु शार्ङ्गिणे ॥७७ ॥
एवं लक्ष्मि! कृतं ब्रह्मसवित्रा दानमुत्तमम् ।
कृतं तथैव च भूरिशृंगया पतिसम्मतम् ॥७८॥
भोजयित्वाऽथ साध्वादीन् भोक्तुं याति च दम्पती ।
तत्राऽऽयातस्तदा भिक्षुरूपः श्रीपुरुषोत्तमः ॥७९॥
स्वर्णरेखात्मिका लक्ष्मीः राजते यस्य वक्षसि ।
पाण्डुराऽङ्कमयी श्रीश्च राजते सक्थ्नि वामके ॥८० ॥
करे दक्षे ध्वजो मत्स्यः स्वस्तिकश्च धनुस्तथा ।
राजन्ते पद्मपत्राक्ष तेजःपरिधिकस्य वै ॥८ १ ॥
दृष्ट्वा राज्ञी नृपो भिक्षुं ज्ञात्वांऽकैस्तु नरायणम् ।
भोजयित्वा पादसंवाहनं चक्रतुरादरात् ॥८२॥
तावद् द्वयोस्तत्र मूर्तौ जातः समाधिरान्तरः ।
दृष्टं ब्रह्मसवित्रा तु सूर्याख्यं गोलकं महत् ॥८३ ॥
तत्र हिरण्मयं स्वस्य वर्ष्म दृष्टं परात्परम् ।
येन तेजोमयं सर्वं जगद् याति प्रकाशिताम् ॥८४॥
दृष्टं संज्ञास्वरूपं च स्वस्या वै भूरिशृंगया ।
हिरण्मयीं सूर्यपत्नीं दृष्ट्वा तुष्टिं जगाम सा ॥८५॥
हरिस्तिरोभवत् तावदुत्थितौ तौ समाधितः ।
आश्चर्यचकितौ जातौ मेनाते पूर्णमानसौ ॥८६ ॥
सेवेते स्म सदा कृष्णं प्रतीक्षेते स्म सूर्यताम् ।
तावद् बभूव कल्पस्य निधनं क्रमयोगतः ॥८७॥
राजा राज्ञी लयं यातौ प्राप्तौ सुदिव्यविग्रहौ ।
यानेन सूर्यकान्तेन ययतुश्च महस्स्तरम् ॥८८ ॥
निशां तु क्षपयित्वा तौ कल्पादौ सर्जनान्वये ।
सूर्यरूपो बभूवाऽयं ब्रह्मसवितृभूपतिः ॥८ ९॥
तत्पत्नी भूरिशृंगा च बभूव विश्वकर्मजा ।
संज्ञानाम्नी सुता सा च पित्राऽर्पितांऽशुमालिने ॥ ९० ॥
भूरिशृंगासवितारौ संज्ञासूर्यौ बभूवतुः ।
सर्वनेत्रप्रदौ देवौ कोऽन्यो लभेद् रवेः पदम् ॥ ९१ ॥
इति प्राप्तौ परं स्थानं यावत्स्वर्गं प्रकाशते ।
दीपदानप्रभावेण तृतीयाया व्रतेन च ॥ ९२॥।
तस्माद् दीपाः प्रदातव्या देवालयेषु .नित्यदा ।
अनन्धत्वं प्रकाशित्वं दिव्यत्वं तेन चाप्नुयात्।॥ ९३ ॥
यथा ब्रह्मसविता स प्राप्तवान् सूर्यतां नृपः ।
श्रोतुर्वक्तुः कथायाश्च लाभो वै तादृशो भवेत् ॥ ९ ४॥
इति ते कथितं लक्ष्मि! सूर्यनारायणीयकम् ।
आख्यानं परमं दिव्यं पावनं पुण्यदं हितम् ॥ ९५ ॥
इतिश्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये पूर्वकल्पीयस्य ब्रह्मसवित्राख्यराज्ञो भूरिशृंगाख्यपत्नीसहितस्य द्वितीयपक्षतृतीयाया व्रतेन दीपादिविविधदानेन च सूर्यनारायणतायाः संज्ञा-भिधपन्नीप्राप्तिसहिताया लब्धिरितिनिरूपणनामा दशाऽधिकत्रिशततमोऽध्यायः ॥ १.३१० ॥