लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३०३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०४
[[लेखकः :|]]
अध्यायः ३०५ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! परंब्रह्म सर्वाविर्भावशक्तिकृत् ।
पुरुषोत्तमसंज्ञोऽसौ सविता जगतः पतिः ।। १ ।।
स्वयं कृष्णस्वरूपश्च राधां स्वस्मात् प्रसृष्टवान् ।
राधा कृष्णात्मिका शक्तिः साधिका भक्तकर्मणाम् ।। २ ।।
कृष्णस्य सवितुः शक्तिः प्रसूते सुचराचरम् ।
सा राधा कृष्णसेवायां गोलोके नित्यमस्ति हि ।। ३ ।।
स्वप्रसूतस्य लोकस्य प्रसवार्थं निरन्तरम् ।
ऐच्छद् रूपान्तरं धर्तुं तावत् कन्या व्यजायत ।। ४ ।।
सा तु नाम्ना कृता कन्या सावित्री प्रसवप्रदा ।
गोलोके राधया साकं रमते निजमन्दिरे ।। ५ ।।
सुरूपा दिव्यसामर्थ्ययुक्ता लोकमनोहरा ।
यथेष्टसिद्धिसम्पन्ना गुप्तैश्वर्यादिशालिनी ।। ६ ।।
यदा राधा स्वयं कृष्णसेवायां समवर्तते ।
तदा कन्या तु सावित्री समाधौ समतिष्ठति ।। ७ ।।
आत्मनि रमते नित्यमात्मानन्दमयी प्रसूः ।
आत्मसुखातिसंमग्ना ध्यायति ब्रह्म वै परम् ।। ८ ।।
योगाभ्यासबलाज्जन्मसिद्ध्या त्वैच्छद् विलोकितुम् ।
ब्रह्मणः कीदृशं रूपं कति वा सन्ति तानि च ।। ९ ।।
कुत्र कुत्र च वर्तन्ते किं कार्याणि वसन्ति च ।
तदैश्वर्याणि तेषां च कीदृश्यो वै विभूतयः ।। १० ।।
इत्येतत्सर्वमाज्ञातुं प्राणान्संकुच्य चात्मनि ।
अवातरच्छनैर्मूलाधारचक्रे तु योगिनी ।। ११ ।।
अत्र स्थित्वा गणपतौ संयमं सा चकार ह ।
तेनाऽसंख्यगणेशानां श्रीकृष्णांशस्वरूपिणाम् ।। १२।।
ब्रह्माण्डेषु त्वनन्तेषु धामान्यालोक्य सुन्दरी ।
गुदामूलस्थितं चक्रं परित्यज्याग्रमाययौ ।। १३ ।।
स्वाधिष्ठानाभिधं चक्रं संयमार्थं दधार सा ।
तत्र प्रजापतौ स्थित्वा संयमं सा चकार ह ।। १४।।
तेनाऽसंख्यप्रजेशानां परब्रह्मस्वरूपिणाम् ।
ब्रह्माण्डेषु त्वनन्तेषु धामानि वीक्ष्य सुन्दरी ।। १५।।
नाभिकन्दस्थितं मणिपुरं चक्रं जगाम सा ।
तत्र स्थित्वा तु सर्पिण्यां संयमं सा विधाय च ।। १६।।
ऊर्ध्वमुख्यां प्रविवेशाऽसंख्यलोकेषु सुन्दरी ।
तस्माद् यान्ति महानाड्यस्तेजोमय्योऽप्यसंख्यकाः ।। १७।।
काश्चित्पाताललोकाँश्च काश्चिल्लोकाचलातिगान् ।
काश्चित्स्वर्गादिसत्यान्तान् काश्चिदावरणादिकान् ।। १८।।
काश्चिदीश्वरलोकाँश्च काश्चिद्ब्रह्मगृहानपि ।
या या यद्यत् स्थलं यान्ति तत्तन्मार्गेण सुन्दरी ।। १९।।
जगाम बहुलोकेषु विलोक्य दिव्यभूमिकाः ।
ब्राह्माण्डिकविभूतीश्च पुनरागत्य तत्स्थलम् ।।२० ।।
जगामोर्ध्वं च हृदये चक्रमनाहताभिधम् ।
तत्र वै प्रणवं श्रुत्वा चक्रे ब्रह्मणि संयमम् ।।२१।।
यदात्मा चाप्यन्तरात्मा ब्रह्मात्मा ख्यायते स्वयम् ।
तत्र कृतेन सावित्री संयमेनैश्वरीकृतौ ।।२२।।
वैराजेषु भौमनेषु वैष्णवेषु च धामसु ।
प्राकृतेषु तया सादाशैवेष्वावरणेषु च ।।२३।।
तत्तद्धामसु सावित्री विलोक्य दिव्यभूमिकाः ।
तत्स्थलं पुनरागत्य ययावूर्ध्वं तु कण्ठगम् ।।२४।।
विशुद्धं चक्रमेवेयं चक्रे वै संयमं बलात् ।
वासुदेवेऽनिरुद्धे च प्रद्युम्ने च सुकर्षणे ।।२५।।
विलोक्य रचनास्तेषां धाम्नां धामविभूतिकाः ।
कण्ठं देशं पुनरायादूर्ध्वं च भ्रूकुटौ तु सा ।।२६।।
 गत्वाऽऽज्ञाचक्रमासाद्य चकार संयमं शनैः ।
दृष्टस्तत्र गुरुः साक्षात् परब्रह्मात्मकस्तया ।।२७।।
लोकसंचालनार्थाय जातो यो विश्वसृड् विभुः ।
परब्रह्मस्वरूपाद् यः प्राविर्बभूव वेदकृत् ।।२८।।
सर्वलोकगुरुर्ब्रह्मा प्रजानां यः पितामहः ।
तस्यांऽके तु स्थितां दिव्यां स्वां सावित्री विलोक्य वै ।।२९।।
वेधःपत्नीं विनिश्चित्य जहर्षातीव सुन्दरी ।
क्षणं विचारयामास याऽहं गोलोकवासिनी ।।३०।।
भवाम्यद्य कथं चात्र मां पश्याम्यंकसंस्थिताम् ।
अजसक्थिगतं यन्मे रूपं तत्कुत आगतम् ।। ३ १।।
यदहं संप्रपश्यामि मां वधूरूपिणीं त्विह ।
पितामहीं च तत्सर्वं पृच्छाम्यत्रैव कारणम् ।।३२।।
इति प्रष्टुं ययावग्रे तावत् तिरोबभूव सा ।
पितामह्या समाकृष्टा लीना बभूव सुन्दरी ।।३३।।
तावत्समाधितश्चेयं सावित्री बहिराययौ ।
क्व गोलोकस्थिता कन्या क्वाऽजांऽकस्था पितामही ।।३४।।
इत्याश्चर्यान्विता कन्या दृष्टार्थस्य विनिश्चयम् ।
ससंभ्रमा ययौ कर्तुं राधिका यत्र राजते ।।३५।।
सावित्र्या स्वप्रदृष्टार्थो राधिकायै निवेदितः ।
श्रुत्वा राधा तु तां प्राह कन्ये त्वं मत्स्वरूपिणी ।।३६।।
वर्तसे ब्रह्मशक्तिश्च ब्रह्मार्थे जातविग्रहा ।
जगत्प्रसूस्वरूपा या मायाशक्तिः परा मता ।।३७।।
साऽहं सा त्वं च सावित्री सूयमाना जगत्प्रसूः ।
ब्रह्मपत्नी ब्रह्मतन्वी ब्रह्मणोऽर्थे विनिर्मिता ।।३८।।
पितामहेन संपृक्ता नित्यं जगत्पितामही ।
वर्तसेऽनादिकालत्वात् प्रत्यजं तु नवा नवा ।।३९।।
भवसि त्वं महामाये कन्यका मत्स्वरूपतः ।
अथाराधय तं देवं प्राप्स्यसे तपसो बलात् ।।४०।।
इत्याश्रुत्य तु सावित्री ब्रह्मप्राप्तिं व्यचिन्तयत् ।
तावत्तत्र द्वादशिकादिने प्रातः समशृणोत् ।।४१ ।।
दुन्दुभिं देवदेवस्य घोषयन्तं कृपावचः ।
अधिमासव्रतं देव्यः कुर्वन्तु मानसप्रदम् ।।।४२।।
हृदि दृष्टं बहिर्दृष्टं लोके लोकान्तरेऽपि वा ।
दिनैकव्रतमात्रेण दास्यते पुरुषोत्तमः ।।।४३।।
अनन्तगुणकं पुण्यमद्याऽस्ति हरिवासरः ।
त्रिस्पृशाव्रततस्त्वद्य सहस्रगुणकं फलम् ।।४४।।
यथेष्टं लभ्यते कृत्वा ह्येकभुक्तं च नक्तकम् ।
फलाहारं च वा दुग्धपानं दधिप्रभोजनम् ।।४५।।
जलाहारं च वा घृताहारं तिलादनं च वा ।
यवाहारं च वा शाकाहारं कन्दादनं च वा ।।४६।।
भर्जिताऽदनमथवा व्रतं पत्रादनं तु वा ।
पुष्पादनं निरदनं पवनादनमेव वा ।।४७।।
धूम्रादनं च वा बाष्पादनं कृत्वा व्रतं शुभम् ।
द्वादश्यामधिमासेऽत्र लभन्तां शाश्वतं सुखम् ।।४८।।
ब्रह्मपरं तथा ब्रह्म गोलोकं चामृतं पदम् ।
अव्याकृतं च वैकुण्ठं मायालोकं च वैष्णवम् ।।४९।।
सदाशिवपदं वापि भूमसाम्राज्यमेव वा ।
श्रीपुरं चापि वैराज्यं हैरण्यगार्भिकं च वा ।।५०।।
भौमाद्यावरणे धामान्यर्जयन्तु व्रतेन वै ।
सत्यं वा ब्रह्मणः स्थानं वह्नेर्वा सौर्यमेव वा ।।५ १।।
चान्द्रमसं च वा स्थानं नाक्षत्रं ग्राहमेव वा ।
ऐन्द्रं च वारुणं स्थानं याम्यं कौबेरमेव वा ।।५२।।
ऐशानं पावनं वापि नैर्ऋतं तारकं च वा ।
भुवो राज्यं च वा भौमं चातलेयादिकं नु वा ।।५३ ।।
आवरणानि दिव्यानि देवराज्यानि वैभवान् ।
कौमारं ब्राह्मचर्यं वा यौगं वाऽऽत्मपदं शुभम् ।।।५४।।
श्वेतद्वीपादिकं चाऽथ सामुद्रं चान्तरीक्षगम् ।
राज्यं सार्वभौमं वा साम्राज्यं वापि मानवम् ।।५५।।।
मौनमार्षं च पैत्राद्यैश्वरं वा बहुसिद्धिकम् ।
स्त्रीराज्यं वापि कैलासं कामराज्यं च शाश्वतम् ।।५६।।
पातिव्रत्यं परं राज्यं स्वामिसेवात्मकं च वा ।
पत्नीमत्त्वं पतिमत्त्वं पुत्रपुत्रीसुसम्पदः ।।।।५७।।।
आरोग्यं च धनं धान्यं रसायनं च कायिकम् ।
यद्यदिच्छेद् व्रती त्वद्य द्वादश्यां हरिवासरे ।।५८।।
तत्सर्वं प्रददाम्यस्मै वदामि पुरुषोत्तमः ।
अद्य मे पूजनं कुर्यात् प्रातः स्नात्वा गृहान्तरे ।।।५९।।।
स्थित्वा ध्यानं च मे कुर्यात् कुर्यादावाहनादिकम् ।
पञ्चामृतैश्च मे स्नानं शुद्धोदाप्लवनं तथा ।।६०।।
निर्वर्तयेत्ततो वस्त्रभूषाचन्दनमर्पयेत् ।
यथाशक्ति प्रकुर्याच्च धूपदीपाभिवन्दनम् ।।६१।।
नैवेद्ये फलमूलाद्यं मिष्टान्नान्यथवाऽर्पयेत् ।
जाम्बूलं जलपानं च दक्षिणां नमणं चरेत् ।।६२।।
प्रदक्षिणं स्तुतिं चारार्त्रिकं पुष्पाञ्जलिं ददेत् ।
कुंकुमाऽक्षततुलसीफलैरर्घ्यं समर्पयेत् ।।६३।।
पुनर्नत्वा पुनः स्मृत्वा प्रार्थयेत् स्वेष्टवस्तुकम् ।
व्रतं चापि प्रपूर्णं स्यात् तव केशवपूजनात् ।।६४।।
क्षमापयेत्तथा स्तुत्या मूर्तिं तु कानकीं हरेः ।
क्रमाऽक्रमौ न विदितौ न ज्ञातं त्वदभीष्टकम् ।।६५।।
यथाबुद्धि मया प्रेम्णा कृतं न्यूने क्षमां कुरु ।
अधिमासोऽसि देवेश! ह्यधिवर्षाकर! प्रभो! ।।६६।।
अर्थिनामधिकं चेष्टं ददासि पुरुषोत्तम! ।
कृष्णनारायण विष्णो पार्वतीश प्रभेश्वर ।।६७।।
लक्ष्मीश माणिकीनाथ सावित्रीश जगत्प्रभोः ।
विश्वसृड् राधिकाकान्त कमलाकान्त केशव ।। ६८।।
द्वादश्यां मे व्रतेनाऽद्य मानसेष्टं प्रपूरय ।
इत्यभ्यर्थ्य हरिं नत्वा प्रातर्मध्ये निशीथके ।।६९।।
भूत्वा तन्मय एवापि तत्समर्पितसत्क्रियः ।
रञ्जयेन्नृत्यगीतैश्च सवाद्येन विसर्जयेत् ।।७०।।
इति कृत्वा व्रतं सम्यगर्चनं व्रतकृज्जनः ।
नरो नारी कुमारी वा कुमारो देवताऽथवा ।।७ १।।
सुरेश्वरी च वा पितृकोटिका मुनियोषितः ।
पातालवासिनी यद्वा तादृशा नरवर्गिणः ।।।७२।।।
ईश्वरा ईश्वराण्यश्च मुक्ता मुक्तान्य एव वा ।
यदिच्छन्ति त्वाप्नुवन्ति प्रतिजाने न संशयः ।।७३।।
यथाशक्ति यथाकार्यं व्रतं च पूजनं मम ।
बाह्याभावे हृदि मेऽपि भावभिन्नं सुपूजनम् ।।७४।।
कुर्यात्तस्यापि भावेन प्रेम्णा तुष्टो ददाम्यहम् ।
अद्याऽधिमासके त्वस्मि कृपावर्षी परेश्वर ।।७५।।
न भूतो न भविष्यामि यथाऽद्य वृष्टिकृत्तथा ।
तस्मान्मे कृपया भक्ताः कृत्वा किञ्चिदथो व्रतम् ।।७६।।
लभन्तां शाश्वतं पुण्यं सुखं लोकं च हृद्गतम् ।
इति श्रुत्वा तु सावित्री जहर्ष चाति सुन्दरी ।।७७।।
नत्वा सा दुन्दुभिं प्राह शृणु दैवाकृते कृतिन् ।
मया समाधौ ब्रह्मा वै परमेष्ठी पितामहः ।।७८।।
दृष्टस्तस्य च वामेंऽके सावित्री च निषेदुषी ।
मत्स्वरूपा मया दृष्टा तस्यां लिल्येऽप्यहं तदा ।।७९।।
पुनश्चाहं समाधेरुत्थिताऽस्म्यत्र कुमारिका ।
विश्वस्रष्टा पतिः सोयं प्राप्तव्यो मानसे स्थितः ।।८० ।।
अतोऽधिमासद्वादश्यामेकभुक्तं व्रतं मम ।
पूजनं देवदेवस्याऽऽचरिष्यामि यथाबलम् ।।८ १।।
अनेन मे शरीरेण प्राप्तिस्तस्य तु दुर्लभा ।
नित्यगोलोकधाम्नश्च विभूतेर्मेऽस्ति वर्ष्म यत् ।।८२।।
तस्यास्ति तत्त्वजं वैराजात्मजं वर्ष्म सञ्चितम् ।
तस्मान्मे ब्रह्मणो योगो यथा येन च वर्ष्मणा ।।८३।।
जायेत तत्तथा ब्रूहि करोमि द्वादशीव्रतम् ।
इति श्रुत्वा दुन्दुभिश्च तामाह पुरुषोत्तमः ।।८४।।
शृणु सावित्रि सुभगे ह्यद्य श्रीपुरुषोत्तमम् ।
वह्निपुत्रसुवर्णस्य मूर्तिरूपं विधापय ।।८५।।
लक्ष्मीं तथा सुवर्णस्य मूर्तिरूपां विधापय ।
ब्रह्माणं च तथा तस्य सावित्रीं कानकं कुरु ।।८६ ।।
पूजयित्वा यथाशक्ति दान कुरु सुपात्रके ।
इत्येवं वै व्रते त्वद्य पूजनं दानमित्यपि ।।८७ ।।
कुरु तेन प्रसन्नः स श्रीकृष्णः पुरुषोत्तमः ।
सर्वं विधास्यते तेऽर्थं मा चिन्तां कुरु कन्यके ।।८८।।
इति श्रुत्वा तु सावित्र्या व्रते वै द्वादशीप्रगे ।
योगबलेन सौवर्णं मेरोर्भागात् समर्जितम् ।।८९।।
ऐश्वर्येण च तत्रैव लक्ष्मीं नारायणं च सा ।
ब्रह्माणं चापि सावित्रीं सौवर्णीं मूर्तिमेव ह ।।९० ।।
कृत्वा त्वावाह्य संस्नाप्य भूषयित्वा प्रपूज्य च ।
भोजयित्वा पाययित्वा प्रार्थ्य नीराजनं व्यधात् ।।९ १ ।।
क्षमापयित्वा संस्तूय निवेद्यार्थं च हृद्गतम् ।
विसर्जयति यावत्तान्देवाँस्तावद्धरिः स्वयम् ।।९२।।
प्रादुर्बभूव सावित्र्यास्त्वग्रे लक्ष्मीयुतः प्रभुः ।
प्रसन्नवदनः सर्वशोभाढ्यो वरदानदः ।।९३।।
प्राहाऽस्यै वद कल्याणि किं ते मनसि वर्तते ।
सावित्री प्राह देवेशं देहि योगं तु वेधसः ।। ९४।।
कृष्णनारायणः प्राह जातं ते मनसि स्थितम् ।
नेत्रे प्रमील्य मद्ध्यानं कुरु सावित्रि वै क्षणम् ।।९५।।
तावत्ते मानसं सर्वं भविष्यति करागतम् ।
नारायणेन यत्प्रोक्तं तथैवाऽऽचरदादरात् ।।९६।।
तावन्नारायणः कृष्णो व्यलीयत हि तत्क्षणम् ।
अथ प्रातः प्रपूज्यैवं मध्याह्नेऽपि तथाऽकरोत् ।।९७।।
सायं चापि तथा पूजामकरोज्जागरं तथा ।
दोलायां तां कृष्णनारायणं लक्ष्मीं तथा ह्यजम् ।।९८।।
सावित्रीं च निधायैव कन्यकाऽऽन्दोलयन्मुहुः ।
तावत्प्राह पुनस्तत्राऽऽगत्य श्रीपुरुषोत्तमः ।।९९।।
देवि! पुष्पाञ्जलिं दत्वा दत्वा चार्घ्यं फलं जलम् ।
विसर्जनं कुरु मेऽत्र गच्छाम्यक्षरधाम यत् ।। १०० ।।
त्वं याह्यद्यैव वैराजं यस्माद् ब्रह्मा व्यजायत ।
वैराजे सूक्ष्मरूपेण प्रविश त्वं पुरा ततः ।। १०१ ।।
वैराजमानसी पुत्री तन्नाभेर्भव कन्यके ।
जातमात्रा युवतीं त्वां वैराजोऽजाय दास्यति ।। १ ०२।।
विधिना त्वैश्वरेणैव कर्मणा त्वां नियोक्ष्यते ।
कल्याणि गच्छ ते स्वस्ति सौभाग्यं शाश्वतं भवेत् ।। १०३।।
इत्युक्त्वा श्रीहरिर्नारायणस्तत्र तिरोऽभवत् ।
सावित्रीश्रीहरेमूर्त्यै पुष्पाञ्जलिं प्रदाय च ।। १ ०४।।
अर्घ्यं च श्रीफलं प्रार्प्याकरोद् देवविसर्जनम् ।
दानं ददौ सुवर्णस्य मूर्तीनां ब्रह्मवर्चसे ।। १०५।।
पत्नीव्रताख्यगुरवे गोलोकधामवासिने ।
आशिषं च ततः प्राप्य भव सौभाग्यसुन्दरी ।। १०६ ।।
ब्रह्मपत्नी जगतां च प्रसवित्री भवेति च ।
राधां कृष्णं ततो नत्वा द्रागेवाऽदृश्यतां ययौ ।। १ ०७।।
वैराजे प्रविवेशाऽस्य नाभिनाले समुद्गता ।
प्रसवं प्राप्य कन्या सा सावित्री युवती तदा ।। १ ०८।।
जातमात्राऽभवत्तां च विदित्वा ब्रह्मणः कृते ।
समुत्पन्नां ददौ चेशसमाजे विधिना विराट् ।। १०९ ।।
ब्रह्मणे चतुरास्याय सापि पूर्णमनोरथा ।
जगन्माताऽभवत्प्राप्य ब्रह्माणं पतिमीश्वरम् ।। ११० ।।
इति ते कथितं लक्ष्मि! द्वादशीव्रतकारणात् ।
सावित्र्या ब्रह्मपत्नीत्वं यथाजातं तदिष्टदम् ।। १११ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये राधिकाया मूर्तन्तरसावित्र्या समाधौ जीवेशब्रह्मसृष्टिविलोकने वेधसोंऽके स्व-स्थितिं दृष्ट्वा पत्नीरूपेण वेधःप्राप्तीच्छया चिन्तने दुन्दुभिश्रवणे द्वादशीव्रतेन वैराज-पुत्र्या तया ब्रह्मा पतिः प्राप्त इत्यादि-निरूपणनामा चतुरधिकत्रिशत-तमोऽध्यायः ।। १.३०४ ।।