लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३००

विकिस्रोतः तः
← अध्यायः २९९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३००
[[लेखकः :|]]
अध्यायः ३०१ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! युगारंभे सृष्ट्यादौ यदभूत्पुरा ।
षट्कं जातमपत्यानां ब्रह्मणो मानसान्निशि ।। १ ।।
तपसा क्लेशितस्याऽस्य ललाटादभवन्महान् ।
रुद्रः सोऽप्याज्ञयाऽजस्य रुद्रैर्जगदपूरयत् ।। २ ।।
तांस्तु भयंकरान्क्रूरान् जगद्विप्लवकारकान् ।
दृष्ट्वा तोषं न वै लेभे ब्रह्माऽऽज्ञामकरोत्पुनः ।। ३ ।।
संहारार्थं तु रुद्राणां सृष्टेस्तदा सुतेन वै ।
रुद्रेण संहृताः सर्वे जगच्छून्यमभूत्ततः ।। ४ ।।
सत्यलोकं गृहं स्वस्य शून्यं विलोक्य विश्वसृङ् ।
औदासीन्यं जगामाऽति बालकाकलिकां विना ।। ५ ।।
यत्र गृहे न वै बालो बालानां रोदनं न वा ।
क्रीडनं कलहो नो न श्रूयते बालभाषितम् ।। ६ ।।
तद्गृहं कालरात्रेर्वै फेरुराजगृहोपमम् ।
विना पुत्रं विना पुत्रीं स्वर्गं तु नरकायते ।। ७ ।।
हीश्वराणां भवनानि रणायन्ते प्रगर्तवत् ।
जीर्णवृक्षायते सौधः केवलवृद्धमण्डलः ।। ८ ।।
अनपत्यं कुटुम्बं च शुष्कपर्वतशृंगवत् ।
अनपत्यः पिता दग्धज्वालामुखिस्थलीसमः ।। ९ ।।
अबालकाकलीशब्दं महाप्रलयवद्ग्रहम् ।
रसा अप्यरसाः सौधे जायन्ते बालकं विना ।। १० ।।
भोज्यान्यपि कवोष्णानि जायन्तेऽतृप्तिदानि च ।
उत्सवा यद्विना नैव भवन्त्येव नवा नवाः ।। ११ ।।
यदुन्नतिकृतोत्साहा अपि नश्यन्ति यद्विना ।
शुष्कायन्ते मुखचन्द्रा ग्रीष्मे कर्दमपिण्डवत् ।। १ २।।
रूक्षायन्ते मानसानि तापे बर्बुरकाष्ठवत् ।
तिक्तायन्ते च पेयानि ज्येष्ठे निम्बरसादिवत् ।। १३ ।।
सुखदानि त्वपत्यानि जायन्ते पुण्यशालिनाम् ।
दुःखदानि दरिद्राणि जायन्ते दुष्प्रकर्मिणाम् ।। १४।।
ऋणानुबन्ध एवात्र कारणं प्राग्विसर्गजः ।
नूतनं चापि कर्तव्यं स्वपत्यदायकं तपः ।। १ ५।।
इति संकल्प्य च ब्रह्मा संयम्येन्द्रियमण्डलम् ।
तपश्चचार घटिकामात्रं समाधिसंस्थितः ।। १ ६।।
अपत्यार्थी स्वपत्यार्थी सस्मार तानि वै हृदि ।
तावत् तन्मानसा जाता दुन्दुभिघण्टकम्बवः ।। १७।।
त्रयः पुत्राः सुतास्तिस्रो घण्टा नीराजना तथा ।
झल्लरी चेति मानस्यः पश्चाज्जातं त्रिकं पुनः ।। १८ ।।
कांस्यं च पञ्चपात्रं च धूपध्रं चेति मानसम् ।
तिस्रः पुत्र्यस्त्रयः पुत्रास्त्रयं षण्ढं प्रजापतेः ।। १९।।
संकल्पान्नवसंख्यानि त्वपत्यानि प्रजज्ञिरे ।
निषेके वाथ संकल्पे भावना यादृशी भवेत् ।। २० ।।
तादृशं जायतेऽपत्यं तथा जातानि पद्मजे ।
तत्र षट् खलु वाचालान्याक्रोशकारकाणि हि ।। २१ ।।
कम्बुर्घण्टो दुन्दुभिश्च घण्टा च झल्लरी तथा ।
कांस्यं च जातमात्राणि चक्रुः कोलाहलं गृहे ।। २२ ।।
औदासीन्यं गतं तेन शून्यतापि गता विधेः ।
गृहं क्रीडदपत्यैश्च सोत्सवं समजायत ।।२ ३ ।।
ब्रह्मा तेन प्रसन्नोऽभूत् संसक्तो लालनेऽवने ।
गृहं सापत्यकं मंगलायतनं त्वमन्यत ।। २४।।
नीराजना पञ्चपात्रं धूपध्रं मौनवृत्तितः ।
षड्भिस्तानि रमन्ते वै नर्तनाद्यैस्तदा क्षणे ।।२५।।
नित्यं प्रातस्तथा सायं मिलित्वा नव तानि वै ।
कुर्वन्ति कीर्तनं स्वस्व कर्तव्यार्थैः प्रपूजनम् ।। २६।।
कृष्णनारायणस्यैव बभूवुर्भक्तिमन्ति वै ।
ब्रह्मा जहर्ष चातीव स्वपत्यलाभतः खलु ।।२७।।
 एवं प्रयाते समयेऽधिमासस्याऽष्टमी प्रगे ।
महादुन्दुभिरेतैस्तु श्रुतो विष्णुपदीतटे । । २८ ।।
 प्रातः स्नानं प्रकुर्वद्भिः श्रुतं तत्र शुभावहम् ।
शृण्वन्तु चेतनाः सर्वे स्थावराश्च जडा अपि ।।२९।।
 मूर्तिमन्तो ह्यमूर्ताश्च बाला वा बालिकास्तथा ।
बालकान्यपि शृण्वन्तु स्वल्पायास फलोत्तमम् ।। ३० ।।
पुरुषोत्तमवाद्योऽहं याथातथ्येन वच्म्यहम् ।
पुरुषोत्तममासोऽयं पुरुषोत्तम एव सः ।। ३१ ।।
सर्वमासातिगः प्रापयति श्रीपुरुषोत्तमम् ।
मनसा कर्मणा वाचा त्वादृतः पुरुषोत्तमः ।। ३५।।
येन स त्वादृतः स्याच्छ्रीपुरुषोत्तमशार्ङ्गिणा ।
अद्य मौनं विधातव्यं भोजनं चैककालिकम् ।। ३३ ।।
प्रातः संपूजनं कार्यं मध्याह्ने च तथा निशि ।
कृष्णनारायणस्याऽद्य रूपं ध्यातव्यमैश्वरम् ।। ३४।।
प्रातः स्नात्वा हरिं नत्वा पूजासामग्रीरानयेत् ।
सुवर्णप्रतिमां विष्णोः स्थापयेन्मण्डले घटे ।। ३५।।
पञ्चामृतेन दुग्धेन दध्ना क्षौद्रेण सर्पिषा ।
शर्करया शुद्धवार्भिः स्नापयेत् पुरुषोत्तमम् ।। ३६ ।।
वस्त्रैः सम्मार्ज्य धौत्रादि धारयेत् पुरुषोत्तमम् ।
आभूषणानि कटककिरीटादीनि धारयेत् ।। ३७।।।
चन्दनात्तरकस्तूरी कुंकुमादिभिरर्चयेत् ।
भोजयेद् दुग्धपाकादि ताम्बूलादि समर्पयेत् ।। ३८ ।।
धूपदीपनमस्काराऽऽरार्त्रिकाद्यैर्विवर्धयेत् ।
प्रदक्षिणा दण्डवद्भिः प्रार्थयेन्मनसेप्सितम् ।। ३९ ।।
जलं पेयं तथाऽर्घ्यं च फलं पुष्पाञ्जलिं ददेत् ।
प्रार्थयेच्च कृपानाथ पुरुषोत्तम केशव ।।४० ।।
व्रतं तव कृते चाद्य पुरुषोत्तममासिकम् ।
अष्टम्यां पालितं चाहर्निशं कृत्वा ह्युपोषणम् ।।४१ ।।
एकभक्तं च वा कृत्वा यथाशक्ति कृतं प्रभो ।
क्रियते वा करिष्ये वा निर्विघ्नं तत् समाप्यताम् ।।।४२।।
यथेष्टं च फलं देहि कृपासिन्धो जनार्दन ।
इति संप्रार्थ्य देवेशं लभन्तां मनसेप्सितम् । ।४ ३ ।।
महादुन्दुभिं श्रुत्वैवं वेधोबालानि तत्क्षणम् ।
स्नात्वाऽऽश्चर्यभराण्येवाऽऽययुस्तस्याऽन्तिकं मुदा । ।४४। ।
पप्रच्छ दुन्दुभिः स्वल्पो महादुन्दुभिमुत्सुकः ।
कोऽसि कस्मात् समायातः किं प्रवक्षि ददासि किम् । ।४५। ।
क्व ते वासश्च किं कार्यं करोषि त्वत्प्रभुश्च कः ।
इति दुन्दुभिना पृष्टो महादुन्दुभिराह तम् । । ४६ । ।
अहं वैकुण्ठपुत्रोऽस्मि वैकु्ण्ठादागतोऽस्मि च ।
वैकुण्ठे मे सदा वासो नारायणस्य मन्दिरे । ।४७। ।
कार्यं नारायणनीराजनकाले प्रवादनम् ।
मम स्वामी कृष्णनारायणः श्रीपुरुषोत्तमः ।।४८ ।।
यस्याऽऽज्ञया जनको मे वैकुण्ठधामरूपधृक् ।
भूत्वा नित्यं वर्तते तु सेवायामपि सेवकः ।। ४९ ।।
पित्राज्ञया तथा नारायणाज्ञयाऽप्यहं सदा ।
विचरामि त्रिलोक्यां वै प्रेष्यकार्यकरोन्वहम् । ।५ ० । ।
या त्वाज्ञा जायते तस्य नारायणस्य तामहम् ।
प्रवदामि घोषयामि पुनर्गच्छामि तत्र च । ।५ १ । ।
स्वरूपे द्वे मम स्तो वै चतुर्बाहुस्तु पार्षदः ।
सेवायां सर्वदा वर्ते द्वितीयोऽस्मि सुदुन्दुभिः । ।५२ ।।
घोषयामि हरेराज्ञां दण्डेन ताडितो मुदा ।
अनेकानि स्वरूपाणि धर्तुं शक्तोऽस्म्यनुग्रहात् ।।५३ । ।
सेवया मत्कृपया च सन्तुष्टो भगवान् स्वयम् ।
ददाति भोजनं श्रेष्ठं सर्वं प्रासादिकन्तु मे । ।५४। ।
उद्यानानि भवनानि दिव्यान्युपस्कराणि च ।
यथा नारायणस्येव मेऽपि सन्ति च तान्यपि । ।५५ ।।
सर्वे नारायणतुल्यं न्यूनं किञ्चिन्न मेऽस्ति तत् ।
आनकः पटहो भेरी ढक्का रूपाणि सन्ति मे । ।५६। ।
यथापेक्षं निवसामि सेवायां मन्दिरेषु वै ।
दुन्दुभिस्तं समाकर्ण्य तत्सुखाकृष्टमानसः । ।५७। ।
पप्रच्छ दुन्दुभिश्रेष्ठं कथं वै प्राप्यते हरेः ।
वैकुण्ठं वा तदीयं च स्मृद्धं धाम तु मादृशैः । ।।९८ । ।
महादुन्दुभिराहैनं जिज्ञासुं स्वल्पदुन्दुभिम् ।
अधिमासेऽप्येककालं द्विकालं वा त्रिकालिकम् । ।५९ । ।
यस्मिन् कस्मिन् दिने कृष्णपूजनं तस्य चाप्तिदम् ।
उपवासाऽयाचितादिव्रतेनैकाऽदनेन वा । । ६०। ।
नक्तेन वा पयसा वा कृतव्रतेन चाप्यते ।
कृतेनाऽल्पेन बहु तत् फलं वै लभ्यते जनैः ।। ६१ ।।
जलमात्रप्रदानेन हरये लभ्यतेऽपि तत् ।
यस्याऽग्रे किंचन नास्ति भक्त्या तेनापि लभ्यते ।।६ २।।
देवाग्रे नर्तनं कार्यं गायनं सुस्वरान्वितम् ।
तुष्टस्तेनापि भगवान् वैकुण्ठं प्रददाति वै ।। ६३ ।।
वैकुण्ठं चापि गोलोकं ब्रह्मधामाऽक्षराह्वयम् ।
तदुत्तरोत्तरं श्रेष्ठं यदिच्छति ददाति सः ।।६४।।
एतच्छ्रुत्वाऽऽह वै स्वल्पदुन्दुभिर्दुन्दुभीश्वरम् ।
किं वैकुण्ठात्परं चास्ति गोलोकं वै स्थलान्तरम् ।।६५ ।।
गोलोकात् किं परं व्रह्मधामाऽस्त्यन्यत् स्थलं किमु! ।
कस्तत्र वसति स्वामी वयं तं प्राप्नुमो न वा ।।६६।।
महादुन्दुभिराह श्रीलक्ष्मीनारायणः प्रभुः ।
स्वामी वैकुण्ठलोकस्य यदीष्येताऽऽप्यते स वै ।।६७।।
स्वामी गोलोकधाम्नः श्रीराधाकृष्णो महान् प्रभुः ।
यदीष्येताऽऽप्यते सोऽधिमासे कृतव्रतेन वै ।।६८।।
स्वामी च ब्रह्मलोकस्याऽक्षरेशः पुरुषोत्तमः ।
यस्मात्परो न वै कश्चिन्न च येन समोऽस्त्यपि ।।६९।।
अनादिश्रीकृष्णनारायणः सोऽस्ति परेश्वरः ।
यस्याऽऽज्ञां मस्तके धृत्वा घोषयामि व्रतार्चनम् ।।७० ।।
अधिमासस्य स स्वामी ददाति व्रतिने हि तत् ।
व्रती यदीहते दिव्यं सर्वं ददात्यनुग्रहात् ।।७१ ।।
वः समिच्छा तु यस्यास्ति कार्यं तन्मूर्तिपूजनम् ।
वैकुण्ठात् कोटिगुणकं सुखं गोलोकधामनि ।।७२।।
गोलोकादप्यसंख्यं च परे धाम्न्यक्षरे सुखम् ।
आनन्दानां तथाऽऽनन्त्यमैश्वर्याणामसंख्यता ।।७३ ।।
नान्यद् वै तादृशं श्रेष्ठं भवतीत्यवगम्यताम् ।
ब्रह्मविष्णुमहेशानां लोकास्तन्निरयोपमाः ।।७४।।
गन्तव्यं यदि चेत् तत्राऽर्चयन्तु पुरुषोत्तमम् ।
अद्याऽष्टम्यां यथाशक्ति यथाभावं स पूज्यताम् ।।७५।।
नृत्यं विधीयतां चापि गायनं च विधीयताम् ।
इष्टं फलं हरिः सर्वं भावानुगं प्रदास्यति ।।७६।।
निवासार्थं यदा सर्वधामसु गोलकेषु च ।
प्रत्यच्युतग्रहं चापीष्यते सोऽपि ददाति तत् ।।७७।।
श्रुत्वा त्वहो ह्यहो कृत्वा महाश्चर्ययुतानि वै ।
वेधोऽपत्यानि तत्रैव नृत्यं चक्रुश्च गायनम् ।।७८।।
पुपूजुर्दुन्दुभिश्रेष्ठमर्थयामासुरादरात् ।
वयं तत्राऽऽगमिष्यामो यत्र श्रीपुरुषोत्तमः ।।७९।।
त्वया तस्मै कथितव्यमस्माकं व्रतपूजनम् ।
व्रतं कुर्मो वयं त्वद्याऽष्टम्यामुपोषणान्वितम् ।।८० ।।
पूजनं त्वक्षरेशस्य गोलोकेशस्य चापि वै ।
वैकुण्ठेशस्य वै कुर्मो येन सर्वत्र नो गतिः ।।८ १।।
दुन्दुभीशः सत्कृतस्तैर्नीत्वा वेधो गृहान्तरे ।
यथा नारायणः पूज्यः सर्वैस्तैः पूजितस्तथा ।।८२।।
शृंगारितः सेवितश्च विभूषाभिरलंकृतः ।
भोजितो मर्दितश्चैव दक्षिणाभिरलंकृतः ।।८३।।
पादसंवाहितो देहे मर्दितो विश्रमीकृतः ।
स्वापितश्च क्षणं पश्चाद् बोधितः संविसर्जितः ।।८४।।
सेवयाऽतिप्रसन्नः स परावृत्य पुनः पुनः ।
दुन्दुभिप्रभृतीन् प्राह कुर्वन्तु व्रतमादरात् ।।८५।।
ब्रह्माण्डे घोषणां कृत्वा सायमागत्य चात्र वै ।
मिलित्वा भवतः पश्चाद् यास्ये वैकुण्ठमेव ह ।।८६।।
इत्युक्त्वा दुन्दुभिश्रेष्ठो लोकान् बोधयितुं ययौ ।
दुन्दुभिप्रभृतयश्च प्रातर्मध्याह्नके निशि ।।८७।।
स्नानं कृत्वा त्रिषवणं त्रिकालं पूजनं तथा ।
लक्ष्मीनारायणस्यापि राधाकृष्णस्य वस्तुभिः ।।८८।।
अक्षराधिपतेश्चापि दिव्यैः षोडशकोत्तमैः ।
दुग्धपाकादिभिर्देवान् भोजयित्वा ततो मुदा ।।८९।।
निर्णयं स्म प्रकुर्वन्ति भगवन्मूर्तिसन्निधौ ।
कृष्णनारायणब्रह्मेश्वराः शृण्वन्तु निर्णयम् ।।९० ।।
भगवत्सदनेऽस्माभिः स्थातव्यं सर्वदा ध्रुवम् ।
पूजायां च प्रसेवायां सर्वसृष्टौ हरेः पुरः ।।९१ ।।
यथास्वाभिलषितं स रक्षत्वस्मान् स्वसन्निधौ ।
सेवामुक्तिः सदाऽस्माभिर्ग्रहीतव्या नहीतरा ।।९२।।
दास्यं वै सर्वतः श्रेष्ठं तत् किं न रोचयामहे ।
नियोजनं हरिर्विनिमयं स्वामी करोतु नः ।।९ ३ ।।
इति ते प्रार्थनां कृत्वा सवाद्यनृत्यगायनम् ।
कुर्वन्ति स्म नवैवैवं हावभावस्वरान्वितम् ।।९४।।
कृष्णनारायणब्रह्माधिपास्तुष्टा दयालवः ।
पुरुषोत्तममासोऽपि तत्र पश्यति भावनाम् ।।९५।।
तावत्तत्र समायातो दुन्दुभीशो हरेर्निशि ।
दृष्टवन्तः श्रुतवन्तो भक्तिं सर्वातिशायिनीम् ।।९६।।
नवानां वेधसोऽपत्यानां परप्रेमयुञ्जताम् ।
प्रसन्नाश्चातितुष्टाश्च सर्वे ते परमेश्वराः ।।९७।।
साक्षाद् दिव्यसुरूपास्ते प्रादुर्बभूवुरन्तिके ।
सर्वे दिव्यकिरीटास्ते दिव्यमालाद्यलंकृताः ।।९८।।
कोटिविद्युल्लतातुल्यलक्ष्मीराधाप्रभायुताः ।
दिव्याम्बरधराः छत्रिचामरिभिः सुसेविताः ।।९९।।
कोटिकन्दर्पलावण्यसौन्दर्यमृदुतान्विताः ।
दिव्यैश्वर्यमहावीर्याऽऽनन्दसंभृतमूर्तयः ।। १० ०।।
प्रसन्नवदनाः प्रोचुः किमपत्यानि चेष्यते ।
युष्मद्भक्त्या दुन्दुभीशपूजनेन च सेवया ।। १०१ ।।
अतितुष्टाः स्म पुत्रा वो यदिष्टं ब्रूत तच्च नः ।
दृष्ट्वा श्रुत्वा ततोऽपत्यान्यतिहृष्टानि वेधसः ।। १०२।।
प्राहुर्युष्मद्गृहाण्यस्मान्नयत श्रीपरेश्वराः ।
नियोजयत सेवायां पादयोर्वः सुसन्निधौ ।। १ ०३।।
प्रतिगृहं प्रतिलोकं युष्माकं भवनं च यत् ।
तत्र तत्र सदा सेवां करिष्यामो नवैव ह ।। १०४।।
वयं समप्रजन्मानः स्वसारो भ्रातरस्तथा ।
परस्परं ततोऽस्माकं वियोगो मा भवेत् क्वचित् ।। १ ०५।।
यत्र युष्मत्सु सेवायां रक्षन्त्वस्मान् दिवानिशम् ।
तत्राऽस्मान् संहतानेव रक्षन्तु परमेश्वराः ।। १ ०६।।
युष्मत्सेवां परां मुक्तिं लब्ध्वा स्यामः सुखालयाः ।
विज्ञापितं यदस्माभिस्तदावहत यन्मतम् ।। १ ०७।।
वयं तु किंकरा दासा दास्ये तुष्टा न चाऽर्थने ।
स्वामी तुष्टो यथा स्यात्तत्कर्तव्यं. किंकरस्य वै ।। १ ०८।।
इति तेषां भावगर्भं श्रुत्वा ते परमेश्वराः ।
पप्रच्छुर्दुन्दुभीशं किमेभ्यो देयं वदाऽऽज्ञया ।। १ ०९।।
महादुन्दुभिराहाऽत्र दायादाः सुलभा ननु ।
किंकरा दासवर्गाश्च लोके सर्वत्र दुर्लभाः ।। ११ ०।।
दासवर्गाय सर्वस्वं स्वामिनो भवति ध्रुवम् ।
एतादृशेभ्यो दासेभ्यः किं किं देयं न विद्यते ।। १११ ।।
देयश्चाऽक्षरलोको वै देयो गोलोक इत्यपि ।
देयो वैकुण्ठ एवापि धामान्यन्यानि यान्यपि ।। १ १२।।
मन्दिराणि तथान्यानि ब्रह्माण्डेषु भवन्ति च ।
यत्र यत्र तु वो मूर्तिरवतारादिमूर्तयः ।। १ १३।।
तत्र तत्र तु सर्वत्र वास एभ्यः प्रदीयताम् ।
मयापि सह वस्तव्यं ह्येते भक्ता हि मादृशाः ।। १ १४। ।
एषां रूपाण्यसंख्यानि भवन्तु भवतां यथा ।
भवद्भिः सह तिष्ठन्तु जयगायननर्तनैः ।। १ १५। ।
आरार्त्रिके च पूजायां भ्रामणैरुत्सवेषु च ।
घोषणैरर्घ्यदानेन सुगन्धाद्यर्पणेन च ।। १ १६।।
सायं प्रातस्तु पूजायां प्रत्येके मन्दिरे तु वः ।
नीराजना नर्तनं भ्रामणं करोतु साग्निका ।। ११७ ।।
दुन्दुभिः पटहात्माऽयं जयध्वानं करोतु वै ।
घण्टी ह्यनुजयं तस्य करोतु वश्च मन्दिरे ।। १ १८।।
कांस्यं करोतु मोक्षस्य घोषणां सुमनोहराम् ।
नीराजनादिवेलायां भजन्तां देहिनो हरिम् ।। १ १९।।
अभजन्तो निन्दकाश्च नास्तिकाश्च विरोधिनः ।
भविष्यन्ति यमैर्दण्ड्याः करोत्वित्यपि घोषणाम् ।। १२०।।
घण्टा करोतु गीतिं च नृत्यं वै सुस्वरा करे ।
झल्लरी गायनं लोकाऽऽह्वानं करोतु मन्दिरे ।। १२१ ।।
कम्बुस्तीर्थजलेनैव करोतु भ्रामणं पुरः ।
पञ्चपात्रं पादजलं रक्षत्वर्घ्यं ददात्वपि ।। १२२।।
धूपध्रं तु सुगन्धं वै धूपं करोतु मन्दिरे ।
दुन्दुभीशस्त्वहं सर्वान् दूरस्थानाह्वयामि ह । । १२३ । ।
आगच्छन्तु महाभागा दर्शनार्थं हरेरिह ।
मुमुक्षवो नरा नार्यो दुष्टास्तु यान्तु दूरतः ।। । १२४ । ।
एवं सर्वे वयं युक्ताः करिष्यामः प्रसेवनम् ।
व्रतस्याऽस्य फलं त्वेभ्यो ददत श्रीपरेश्वराः ।। १२५ । ।
किं च मद्वत् किलैतेषां ब्रह्माक्षरे द्विहस्तता ।
गोलोके द्विभुजत्वं वैकुण्ठे करचतुष्टयम् ।। १ २६।।
तत्तत्स्वामिस्वरूपैश्च साम्यं भवतु दिव्यता ।
असंख्यरूपधारित्वं स्यादेषा प्रतिमन्दिरम् । । १२७ ।।
युष्मादृशं च पावित्र्यं सत्कार्यता भवादृशी ।
पूज्यता रक्ष्यता चापि सर्वदाऽस्तु भवादृशी । । १२८ ।।
एषां निन्दाप्रकर्तारो भवन्तु निरयं गताः ।
एषां नाशं तथा चौर्यं भर्त्सनं भञ्जनादिकम् ।। १२९ ।।
करिष्यन्ति जना ये ते भवन्तु निरयं गताः ।
एषां त्वंगप्रघातेषु सन्धानादिप्रकारिणाम् ।। १३० ।।
एषां प्रतिमाकर्तृणां प्रतिमादानिनां तथा ।
प्रतिमापुष्टिकर्तॄणां जीर्णोद्धारादिकारिणाम् ।। १३१ ।।
पुरुषोत्तमलोकस्य प्राप्तिर्भवतु सेविनाम् ।
एतद्वाद्यनिनादादीन् कुर्वाणानां तु देहिनाम् ।। १३२।।
भगवद्धामसम्प्राप्तिर्भवत्विति वृणे ह्यहम् ।
महादुन्दुभिना दुन्दुभ्यादिकृते तथाऽर्थितम् ।। १३३ ।
भगवद्भिश्च तत्रैव तथास्त्विति समर्पितम् ।
नवाऽपत्यानि चाऽऽकृष्य संश्लिष्य परमेश्वराः ।। १ ३४।।
दत्वा दिव्यस्वरूपाणि चतुर्द्विहस्तकानि वै ।
निषाद्य वाहने नैजे निन्युर्धाम स्वकं स्वकम् ।। १३५ । ।
नीराजना तथा घण्टा झल्लरी दिव्यरूपिणी ।
तत्र लक्ष्मीसमा जाता हरिसेवापरायणा ।। १३६ ।।
अन्यत्र तु यथापेक्षाकृतयस्ता विरेजिरे ।
कम्बुर्घण्टो दुन्दुभिश्च कांस्यं च पञ्चपात्रकम् । । १३७ ।।
धूपध्र चेति षट् सौम्या दिव्यरूपधराः प्रभोः ।
मुक्तरूपाश्च सेवायां समवर्तन्त धामसु ।। १३८ ।।
अन्यत्र तु यथापेक्षाकृतयस्ता विरेजिरे ।
एवं लक्ष्मि! प्रदिव्या वै जाता विधातृबालकाः ।। १३९ ।।
पुरुषोत्तममासस्याऽष्टमीव्रतेन वै खलु ।
एवं ये व्रतकर्तारस्तेऽपि यास्यन्ति धाम तत् ।। १४० ।।
एवं वै मलमासेऽत्र कृतं स्वल्पं फलेद् बहु ।
अल्पादानन्त्यलाभो यः कृपा सा पारमेश्वरी ।। १४१ ।।
यावज्जीविष्यति ब्रह्मा यावत् स्थास्यति मेदिनी ।
तावत् दुन्दुभिघण्टाद्याः स्थास्यन्त्यच्युतमन्दिरे ।। १४२ ।।
मुक्तौ तु सर्वदा दिव्याः स्थास्यन्ति केशवालये ।
तस्माद् व्रतं प्रकर्तव्यं नैतादृक् स्यात् प्रवर्षणम् । । १४३। ।
ब्रह्मा विचारमकरोत् पुत्रा मे मुक्ततां गताः ।
अथान्यानुत्पादयेयं गृहं शून्य न मे भवेत् ।। १४४। ।
योगेश्वराः सनकाद्याः ऋषयश्चापि मानसाः ।
उत्पादिता ब्रह्मणा हि ततो वै ब्रह्मवादिनः । । १४५। ।
एवं सृष्टिप्रकर्तारश्चान्येऽपि प्रकटीकृताः ।
शान्तोऽभवत्प्रजा वीक्ष्य प्रवाहोऽप्यभवत्तथा ।। १४६ । ।
एतदाख्यानकं ये वै श्रोष्यन्ति मानवादयः ।
पठिष्यन्ति च तेऽष्टम्याः फलं प्राप्स्यन्ति वै ध्रुवम् । । १४७। ।
इति श्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये ब्रह्मणो मानसानां दुन्दुभिघण्टकम्बुनाम्नां पुत्राणां घण्टानीराजनाझल्लर्याख्यानां पुत्रीणां कांस्यपंचपात्रधूपध्राख्यानामपत्यानां च महादुन्दुभिघोषणाश्रवणोत्तरमष्टम्यां अधिकमासे व्रतकरणेनाऽक्षरेशगोलोकेश वैकुण्ठेशदर्शनं, तत्तद्धामसु सृष्टिषु च प्रति-मन्दिरमनेकरूपैः स्थापनं मुक्तिराशीर्वादाश्चेत्यादिनिरूपणनामा त्रिशततमोऽध्यायः । । १.३०० । ।