लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २८०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २७९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८०
[[लेखकः :|]]
अध्यायः २८१ →

श्रीनारायण उवाच-
अथ लक्ष्मि! प्रवक्ष्यामि पूर्णिमाया व्रतानि ते ।
यानि कृत्वा नरो नारी प्राप्नुयात् पुण्यसम्पदः ।। १ ।।
चैत्रकृष्णाऽमावास्या तु मन्वादिस्तिथिरस्ति हि ।
अस्यां सान्नोदकं कुंभं प्रदद्यात् सोमतुष्टये ।। २ ।।
कुर्याच्छ्राद्धं यथोद्दिष्टं पितॄणां तृप्तिहेतवे ।
चैत्र्यां धवलपूर्णायां हनुमत्तिथिरुच्यते ।। ३ ।।
पूजनं तैलसिन्दूरैर्वटकादिभिरुत्तमम् ।
कर्तव्यं त्वत्र वैशाखस्नानारंभोऽपि सम्मतः ।। ४ ।।
वैशाखाऽमातिथौ श्राद्धं कर्तव्यं पितृतृप्तिकृत् ।
वैशाखशुक्लपूर्णायां कूर्मजयन्तिकाव्रतम् ।। ५ ।।
कर्तव्यं विधिना तत्र द्विभुजं नरमस्तकम् ।
कट्यधः कूर्मरूपं च सौवर्णं पूजयेत् प्रभुम् ।। ६ ।।
भोजयेद् दुग्धसारं च चाणकोद्भूतमोदकान् ।
नीराजयेद् विसर्जयेद् दद्याद्दानानि च व्रती । । ७ । ।
एवंव्रतकृतो वासो वैकुण्ठे भवति ध्रुवः ।
धर्मराजव्रतं त्वत्र कर्तव्यं धर्मतुष्टये । । ८ । ।
शृतान्नमुदकुंभं च ददेद्गां गुरवे व्रती ।
धर्मराजं पूजयेच्च भोजयेच्च विसर्जयेत् । । ९ । ।
शुभं कृष्णाजिनं दद्यात् सखुरं च सशृंगकम् ।
सतिलवस्त्रं संदद्यात् कुंभान् स्वच्छजलान्वितान । । 1.280.१ ० । ।
फलानि च हिरण्यं च दाने दद्याद् व्रती जनः ।
मोदते सत्यलोकेऽयं यावच्चन्द्रार्कतारकम् । । ११ । ।
अन्ते वैकुण्ठमाप्नोति शाश्वतं सुखमश्नुते ।
ज्येष्ठामा भावुका प्रोक्ता श्रीहरिं भावयेत्तदा । । १२ । ।
पूजयेत्सर्वथा रात्रौ भोजयेच्च विसर्जयेत् ।
ज्येष्ठपूर्णातिथौ कार्यं वटसावित्रिकं व्रतम् । । १३ ।।
सोपवासा वटं सिञ्चेत् सलिलैरमृतोपमैः ।
सूत्रेण वेष्टयेच्चैव सशताऽष्टप्रदक्षिणम् । । १४ । ।
पिप्पलं वा वेष्टयेच्च सावित्रीं प्रार्थयेद् व्रती ।
जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते । । १ ५ ।।
पत्या सहाऽवियोगं मे वटस्थे कुरुते नमः ।
इति संप्रार्थ्य सावित्रीं भोजयित्वा सुवासिनीः । । १६ । ।
स्वयं भुञ्ज्याद् व्रतकर्त्री सा स्यात् सौभाग्यभागिनी ।
अत्र बिल्वत्रिरात्राख्यं व्रतं कर्तव्यमादरात् । ।! १७।।
बिल्वपत्रैः शंभुरर्च्यो बिल्वं भक्ष्यं व्रतार्थिना ।
बिल्वस्नानं प्रकर्तव्यं बिल्वद्रुः पूज्य इत्यपि । । १८ । ।
बिल्वाधःशयनं कार्यं बिल्वदानं तथा मतम् ।
एवं कृत्वा त्रिरात्रं वै कैलासं प्राप्नुयाद् व्रती । । १९ । ।
मन्वादितिथिरेषास्ति मनुः पूज्यो विधानतः ।
देयं दानं तथा भोज्याः सन्तः साध्व्यः सुपुण्यदाः । । 1.280.२० । ।
ज्येष्ठाभिषेकसंस्नानयात्रा कार्याऽत्र वै दिने ।
तत्राऽभिषेकविधिना स्नपनीयो रमापतिः । । २१ ।।
जलैरुज्ज्वलपात्रस्थैर्निर्मलैश्च सचन्दनैः ।
शंखेन स्नपयेत् कृष्णं मन्त्रैर्वेदानुसारिभिः ।। २२ । ।
ततः पीताम्बराण्यत्र धारयेच्छ्रीपतिं प्रभुम् ।
उष्णीषं पाटलं चैव भूषाश्च विविधा अपि ।। २३ । ।
भक्तं सूपं पोलिकाश्च वटिकां क्वथिकां तथा ।
व्यञ्जनानि च नैवेद्ये मिष्टपेयान्युपाहरेत् । । २४। ।
जलक्रीडनपद्यानि श्रोहरेस्त्वत्र गापयेत् ।
विसर्जयद्धरिं पश्चाद् भुञ्जीत व्रतकृज्जनः । । २५ ।।
हरिप्रसादजं सौख्यं शाश्वतं तेन चाप्यते ।
अषाढाऽमातिथौ श्राद्धं कर्तव्यं पितृतारकम् ।। २६।।
अषाढस्य तु पूर्णायां गुरोर्व्यासस्य पूजनम् ।
षोडशोपसुवस्त्वाद्यैः कर्तव्यं वै यथा हरेः ।। २७।।
चन्दनाऽक्षततुलसीस्रक्फलाम्बरकुंकुमैः ।
भूषाभोज्यसुमिष्टान्नोत्तमाच्छादनवारिभिः ।। २८ ।।
द्रव्यैः सुवर्णरूप्यादिक्षेत्रैर्द्रव्यादिभिस्तथा ।
गुरुं कृष्णं तथाऽऽचार्यं गुर्वीं चाऽभ्यर्चयेद् व्रती ।। २९ ।।
गुरोः पादांगुष्ठजलं पिबेत् स्वाद्यविशुद्धये ।
गुरुर्हरिः स्वयं प्रोक्तः स्वमोक्षार्थं प्रसेवयेत् ।। 1.280.३० ।।
गुरोः प्रसन्नताप्राप्तं ज्ञानं वा सेवनं व्रतम् ।
मोक्षदं सुखदं पुण्यप्रदं भुक्तिविमुक्तिदम् ।। ३१ ।।
अषाढस्यात्र पूर्णायां गोपद्मव्रतमुत्तमम् ।
चतुर्भुजं शंखचक्रगदा पद्मविराजितम् ।। ३२ ।।
प्रसन्नास्यं कंजनेत्रं रमागरुडशोभितम् ।
स्वर्णवर्णं सुरूपं च सौवर्णं भूषणान्वितम् ।। ३३ ।।
सेवितं मुनिभिर्देवैर्यक्षगन्धर्वकिन्नेरैः ।
एवंविधं हरिं स्नापयित्वा पञ्चामृतैर्जलैः ।। ३४।।
स्नातो व्रती पूजयेत् संवदन् पुरुषसूक्तकम् ।
विभूषयेदर्चयेच्च नीराजयेच्च भोजयेत् ।। ३५ ।।
नमेत् क्षमापयेच्चापि व्रती विसर्जयेत्ततः ।
आचार्यं वा गुरुं साधुं भोजयेत्तोषयेन्मुहुः ।। ३६ ।।
दद्याद् दानं च भुञ्जीत प्रसादात् कमलापतेः ।
ऐहिकाऽऽमुष्मिकान् कामान् लभते शाश्वतान् व्रती ।। ३ ७।।
कोकिलाव्रतमत्रैव कर्तव्यं भूतिमिच्छता ।
श्रावणपूर्णिमान्तं तद् व्रते स्नायाद् बहिर्जले ।। ३८ । ।
गौरीरूपां कोकिलां वै नित्यं प्रपूजयेद् व्रती ।
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपंकजाम् । । ३ ९। ।
कस्तूरीवर्णशोभाढ्यां नन्दनाऽरण्यवासिनीम् ।
चूतचम्पकवृक्षस्थां कलगीतनिनादिनीम् ।।1.280.४० ।।
चिन्तयेत् पार्वतीं देवीं कोकिलारूपधारिणीम् ।
गन्धाद्यैः पूजयेन्नित्यं नीराजयेच्च भोजयेत् ।।४१ ।।
मासान्ते कानकीं तिलपिष्टजां प्रार्थयेत्तदा ।
कृष्णे चैत्ररथोत्पन्ने कोकिले हरवल्लभे ।। ४२ ।।
हररूपाय विप्राय दत्ता मे सुखदा भव ।
द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः ।। ४३ ।।
वस्त्रादिदक्षिणां दत्वा नत्वा देवीं विसर्जयेत् ।
नारी व्रतविधानेन कोकिलागौर्यनुग्रहात् ।।४४।।
भुक्तिं स्वर्गं महानन्दं कैलासं दम्पतीसुखम् ।
सौभाग्यं सप्तजन्माढ्यं लभेत्त्वन्ते प्रमोक्षणम् ।। ४५ ।।
मन्वादितिथिरेषापि चातुर्मास्यप्रवर्तनम् ।
शंभोः शयनजश्चात्रोत्सवः कार्यो विधानतः । ।४६। ।
कार्यः समुद्रः सजलः शय्या तत्र यथोचिता ।
हरिर्हरश्च वा तत्र शयनीयः सुसेविना ।।४७ ।।
भोजनीयोऽर्चनीयश्च प्रार्थनीयोऽपि भावतः ।
चातुर्मास्यस्य नियमा ग्राह्याश्च व्रतिना व्रते ।। ४८ ।।
एवं वै पूजनं कृत्वा व्रतं च नियमग्रहम् ।
भुक्तिं मुक्तिं फलं दिव्यं लभते नात्र संशयः । ।४९ ।।
श्रावणाऽमातिथौ कार्या दीपपूजा यथाविधि!
पुष्पचन्दनतन्दुलशर्कराफलवारिभिः ।। 1.280.५० । ।
चक्षुस्तेजःप्रदो दीपः सदा सौभाग्यदो भवेत् ।
दीपदानं तु देवाय कर्तव्यं स्वर्गदं हि तत् ।। ५ १ ।।
श्राद्धं चात्र प्रकर्तव्यं पितॄणां दिव्यतृप्तिकृत् ।
नववृक्षारोपणं च कर्तव्यं त्वतिभावतः । । ५२।।
हरितां पृथिवीं कुर्वन् स्वर्गं हरितमाप्नुयात् ।
यानवाहनदास्यादिसेवितं शाश्वतं व्रती ।। ५ ३ ।।
अथ श्रावणपूर्णायां नारिकेलफलं व्रती ।
पूजयेद् भक्षयेच्चापि दद्याद् दाने च भावतः ।।५५८। ।
नारिकेलत्रिनेत्रेषु हरिब्रह्महरास्त्रयः ।
वसन्ति पूजनीयास्ते नारिकेलफलेऽत्र वै । । ५५ । ।
त्वम् ब्रह्मा कुपरो विष्णुर्जलं शंभुस्त्रयस्तु ते ।
सत्त्वं विष्णुस्त्वन्तरस्थस्त्रिनेत्रो मध्यकुर्चुलः ।। ५६ । ।
त्वज्जटात्मा बहिर्ब्रह्मा त्रिदेवात्मा हरिः स वै ।
तस्य वै पूजया भुक्तिं मुक्तिं लभेत शाश्वतीम् । ।५ ७ । ।
अत्र श्रावणपूर्णायां वेदोपाकरणं व्रतम् ।
यजुर्भिस्तत्र कर्तव्यं देवर्षिपितृतर्पणम् । ।५८ । ।
ऋषीणां पूजनं कार्यं स्वस्वशाखाविधानवत् ।
बह्वृचैस्तु चतुर्दश्यां कर्तव्यं तद्धि तर्पणम् ।। ५९ । ।
सामगैर्भाद्रमासे तु कर्तव्यं तद्धि तर्पणम् ।
तृतीयायां द्वितीयायां शुक्ले हस्तर्क्षकालिके । । 1.280.६० ।।
होमः कार्यस्तथा वर्ष्मशुद्धिः कार्या विधानतः ।
जलेन दर्भमिश्रेण तर्पणं पूजनं तथा ।। ६१ ।।
कारयित्वोपवीतं च धारयेन्नूतनं शुभम् ।
भोजयेत्सर्वमिष्टान्नैः साधून् विप्रान् गुरून् सतीः ।। ६२ ।।
तेभ्यो दद्याद् दक्षिणां तु सुवर्णरजतात्मिकाम् ।
स्वयं भुञ्जीत बन्ध्वाद्यैर्व्रती सुखमवाप्नुयात् ।। ६३ ।।
तथा रक्षाविधानं च कर्तव्यं विधिनात्र वै ।
राजिका रक्तवस्त्राणि चाक्षतान् शर्करान्वितान् ।।६४।।
कौसुंभतन्तुना बध्वा प्रक्षाल्य सलिलैस्तथा ।
धृत्वा कांस्येऽथ संपूज्य गन्धाद्यैर्विष्णुमुख्यकान् ।।६ ४१।।
बध्नीयाद् ब्राह्मणद्वारा मुदितः स्वप्रकोष्ठके ।
द्विजाय दक्षिणां दद्याद् रक्षां करोति सूत्रकम् ।। ६६।।।
अत्रैव तु तिथौ पूर्वं हयग्रीवो महाप्रभुः ।
हिरण्याक्षविनाशाय वेदानां रक्षणाय च । ।६७।।
समजज्ञे ततस्तस्य कर्तव्यं व्रतमादरात् ।
सुखं हयस्वरूपस्य शुभं वर्ष्म नराकृति ।।६८ ।।
विधाय कानकं पूज्यं षोडशोपसुवस्तुभिः ।
भोजयेच्च व्रती नीराजयेदथ विसर्जयेत् । । ६९। ।
एवं व्रतकृतश्चात्र परस्मिन् जायते सुखम् ।
अत्रैव च दिने कुर्याद् रुद्रपवित्रकार्पणम् । ।1.280.७ ० । ।
विविधैस्तु पवित्रैर्वै पूजयेच्च शिवां शिवम् ।
कोकिलाव्रतपूर्णत्वं कुर्यात्त्वत्र दिने व्रती । ।७ १ । ।
भाद्राऽमायां पितृश्राद्धं प्रकुर्यात् तर्पणादिकम् ।
कुशानाहारयेत् क्षेत्राच्छस्त्राऽछिन्नान् समूलकान् । ।७२। ।
प्रौष्ठपद्यां पौर्णमास्यामुमामहेश्वरव्रतम् ।
स्नात्वा रुद्राक्षभस्मादि धृत्वा शंभुं प्रपूजयेत् । ।७३ ।।
बिल्वपत्रैः सुगन्धाढ्यैर्नैवेद्यैर्धूपदीपकैः ।
भोजयेच्च नमेन्नीराजयेत्प्रस्वापयेत्ततः । ।७४। ।
रात्रौ जागरणं कुर्यात्पुनः प्रातः प्रपूजयेत् ।
भोजयेत् प्रार्थयेच्चापि व्रती पश्चाद् विसर्जयेत् । ।७५।।
पारणां च स्वयं कुर्यात् कैलासं प्राप्नुयाद् व्रती ।
एवं पञ्चदशाऽब्दान्तं कृत्वा तूद्यापनं चरेत् । ।७६ ।।
उमायाश्च महेशस्य सौवर्णीं प्रतिमां शुभाम् ।
पञ्चदशघटेष्वन्तर्घटे संपूजिता च ताम् । ।७७।।
वस्त्राभूषणपुष्पाद्यैर्मिष्टान्नैश्च जलैः शुभैः ।
सहितां घटसम्पन्नां प्रतिमां गुरवेऽर्पयेत् ।।७८।।
एवं कृत्वा व्रतं त्वत्र निधानं सर्वसम्पदाम् ।
भवत्येव व्रती भुक्तिमुक्तिसम्पत्तिभाजनम् ।।७९ ।।
अथात्रैव दिने शक्रव्रतं कर्तव्यमादरात् ।
गन्धाद्यैरुपचारैश्च नैवेद्यैः पूजयेद्धरिम् । 1.280.८० । ।
शक्रं समर्प्य सौवर्णं गुरवे त्वन्यभूसुरान् ।
भोजयेद दक्षिणादानं कुर्याद्वै धनवान्नृपः ।।८ १ ।।
धनधान्येच्छुना कार्यमेतत्तु प्रतिवार्षिकम् ।
आश्विनाऽमादिने कार्यं सर्वपितृप्रतर्पणम् ।।८२ ।।
श्राद्धं कार्यं पिण्डदानं भोजनं जलसेचनम् ।
विविधान्नानि देयानि दुग्धसाराणि चापि वै ।।८३।।
विप्राश्च साधवो भोज्याः सत्यः साध्व्यश्च बालिकाः ।
तर्पणीयास्तृणैर्गावस्तथा वृक्षा जलादिभिः ।।८४।।
हरिकृष्णस्तर्पणीयो नैवेद्यफलसज्जलैः ।
कृष्णनारायणो लक्ष्मीस्तर्पणीयावुभावपि । ।८५।।
एवं कृत्वा महाश्राद्धं पितरश्च पितामहाः ।
तत्तत्पित्रादयः सर्वे मातरश्चापि वंशजाः । ।८६। ।
शाश्वतीं यान्ति वै तृप्तिं त्वन्ते ब्रह्मपदानुगाः ।
मोक्षस्थितिं प्रयास्यन्ति तस्माच्छ्राद्धं परं व्रतम् । ।८७।।
आश्विने मासि पूर्णायां रासलीलोत्सवो मतः ।
पूर्णचन्द्रोदये रात्रौ रासलीलां चकार सः । ।८८। ।
भगवान् राधया साकं गोपीभिश्च समं चिरम् ।
गोपीराधाकृष्णमूर्तीः सौवर्णीश्चातिशोभयेत् । ।८९।।
कौसुम्भं धारयेद् वासं उत्तरीयं च चेल्लकम् ।
कञ्चुकीं पीतवर्णां च भाले कुंकुमपत्रिकाम् । । 1.280.९० ।।
पीताम्बरं तु कृष्णं चाऽनर्घ्यं संधारयेद् व्रती ।
नानारत्नविचित्रं च मुकुटं कुण्डले तथा ।।९ १ ।।
करे तु मुरलीं स्वर्णां धारयेद् रत्नकाऽञ्चिताम् ।
नैवेद्ये पर्पिका देया पिण्डकाः पायसादिकम् ।।९२।।
सुगन्धिपुष्पतैलेन स्थलपद्मोदकेन च ।
वासांसि मन्दिरं चापि वासयेद् राधिकापतेः ।।९३।।
चन्द्रशालाऽऽसने न्यस्य पूजयेन्निशि माधवम् ।
गीतवादित्रनृत्यैश्च तोषयेद्वै रमापतिम् ।।९४।।
नवीनशालिपृथुकान् शर्करादुग्धमिश्रितान् ।
तस्मै निवेदयेद् रासलीलापद्यानि गापयेत् ।।९५।।
शरद्व्रतं तदारभ्य कर्तव्यं भूतिमिच्छता ।
कार्तिकस्नानमस्माद्धि दिनात्समारभेत वै ।।९६।।
अत्राश्विने तु पूर्णायां व्रतं कोजागराभिधम् ।
सोपवासं प्रकर्तव्यं त्वेकभुक्तं च वा चरेत् ।।९७।।
प्रातर्लक्ष्मीं पूजयेच्च विविधैरुपचारकैः ।
शृंगारयेद् भोजयेच्च मध्याहेऽपि प्रपूजयेत् ।। ९८।।
चन्द्रस्य दर्शने सायं लक्ष्मीमूर्तिं तु कानकीम् ।
ताम्रजे मृन्मये वापि घटे पात्रे निधाय च । ।९९।।
घटदीपान् सहस्रं वा शतं लक्षं प्रकाशयेत् ।
पूरिकाः पायसान्नं च महालक्ष्म्यै निवेदयेत् ।। 1.280.१०० ।।
जागरं नृत्यगीतैश्च कुर्यात् प्रातः प्रपूज्य ताम् ।
अर्पयेद् गुरवे मूर्तिं व्रतं समापयेद् व्रती ।। १० १।।
अत्र रात्रौ महालक्ष्मीर्वराऽभयकराम्बुजा ।
यातीक्षितुं मदर्थं को जागर्तीति सुभुक्तिमान् ।। १ ०२।।
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ।
प्रतिवर्षं कृतेनात्र स्मृद्धः स्याद् याति वैष्णवम् ।। १ ०३।।
कार्तिकाऽमातिथौ लक्ष्मीपूजा कार्या विशेषतः ।
लक्ष्मीश्चतुर्भुजा कार्या पद्मसिंहासनस्थिता ।। १०४।।
दक्षकरे च कमलं वामेऽमृतघटस्तथा ।
अधोऽन्यभुजयोः कार्यौ बिल्वशंखौ सुशोभनौ ।। १०५।।
तत्पार्श्वयोर्गजौ कार्यौ धृतकुंभकरावुभौ ।
तस्यास्तु मस्तके पद्मं कर्तव्यं सुमनोहरम् ।। १०६।।
मण्डपे निर्मिते रम्ये कदलीस्तभतोरणैः ।
पूजयेत् सर्वतोभद्रे लक्ष्मीसूक्तेन तां व्रती ।। १०७।।
अलकाराँश्च वासांसि महान्त्येवाऽर्पयेच्छ्रियै ।
भालेऽस्याश्चन्द्रकं कुर्यात् कुंकुमाक्षतशोभनम् ।। १ ०८।।
सुगन्धपुष्पहारैश्च सौवर्णैः सर्वभूषणैः ।
कमलैः पूजयेद् रत्नैर्धूपदीपद्रवादिभिः ।। १०९।।
परितः कारयेच्छक्त्या दीपानामावलीस्तथा ।
नैवेद्ये शष्कुलीर्दद्याच्छतच्छिद्राणि फेणिकाः ।। 1.280.११ ०।।
घृतपूराँश्च रेवालीः पीतसाराणि पूरिकाः ।
पर्पिकाः पिण्डकाँश्चापि शाकराँश्चणकादिकान् ।। ११ १।।
ओदनादीनि भोज्यानि शाकान्यस्यै निवेदयेत् ।
ताम्बूलवीटिकां दत्वा कुर्यान्नीराजनं महत् ।। १ १२।।
लक्ष्मीपूजनपद्यानि गापयेत्तु व्रती ततः ।
दीपान् प्रपूजयेत् सर्वस्थलीर्दीपैः प्रकाशयेत् ।।१ १ ३।।
शारदापूजनं कुर्यादायव्ययादिचर्पटे ।
शारदायास्तु सौवर्णीं मूर्तिं वा कारयेद् व्रती ।। १ १४।।
नागवल्लीदलपूगीफलैलाशर्करात्वचः ।
फलान्यक्षतकुंकुमगूडधानादिकानि च ।। १ १५।।
धूपदीपसुनैवेद्यैर्मषीलेखनिकादिभिः ।
पूजयेच्छारदां मन्त्रैर्नीराजयेद् विसर्जयेत् ।। १ १६।।
एवं व्रतकृतो लक्ष्मीः शारदा च स्थिरा सदा ।
सर्वसम्पत्करी स्याद्वै दानभोजनकामदाः ।। १ १७।।
अत्रैवाऽभ्यंगसंस्नानं तैलाद्यैर्मर्दनेन वै ।
कर्तव्यं व्रतिना येन दारिद्र्यं नश्यति ध्रुवम् ।। १ १८।।
कार्तिकशुक्लपूर्णायां देवदीपोत्सवो मतः ।
दीपान्प्रज्वालयेत्तीर्थे मन्दिरे भवनादिषु ।। १ १९।।
लक्ष्मीकान्तं प्रभाकन्तं धारयेन्मुकुटादिकम् ।
संयावपूरिकाभक्तक्वथिकासूपसूरणान् ।। 1.280.१२०।।
वृन्ताकादिकशाकानि श्रीकृष्णाय निवेदयेत् ।
विसर्जयेच्च विधिवत् स्वर्गं मोक्षं व्रजेद् व्रती ।। १२१ ।।
त्रिपुरी पूर्णिमा चेयं त्रिपुरारिं प्रपूजयेत् ।
भोजयेद् विविधान्नानि विसर्जयेत् सुखी व्रती ।। १२२।।।
चातुर्मास्यसमाप्तिश्च कर्तव्या सोत्सवा जनैः ।
मन्तव्या चापि मन्वादितिथिः प्रपूजयेन्मनुम् ।। १२३।।
भक्तिदेवीजयन्ती च पालनीयात्र सर्वथा ।
भक्तेर्विधूदये कार्या पूजा सम्यग्विधानतः ।। १२४।।
भोजयेत्समलंकुर्याच्छ्रांगारिकविभूषणैः ।
नीराजयेद् व्रती विसर्जयेत् स्याद्धामवासकृत् ।। १२५।
कार्तिक्यां पूर्णिमायां तु कुर्यात् स्कन्दस्य दर्शनम् ।
उत्सवस्तत्र कर्तव्यः सर्वशत्रुजयाय वै ।। १ २६।।।
अत्रैव दीपदानेन कर्तव्यस्त्रिपुरोत्सवः ।
कीटाः पतंगा मशका वृक्षा वल्ल्यश्च जन्मिनः ।। १२७।।
दीपदर्शनमात्रेण यान्ति वै परमां गतिम् ।
कृत्तिकाः षट् कार्तिकेयः खड्गी वह्निर्जलाधिपः ।। १२८।।
गन्धपुष्पफलैर्धूपदीपनैवेद्यपानकैः ।
पूजनीयाः प्रदेयाश्च दीपा बाह्ये गृहात्स्थले ।। १२९।।
दीपोपान्ते तथा गर्तश्चतुरस्रो मनोहरः ।
चतुर्दशांगुलः कार्यः सेच्यश्चन्दनवारिभिः ।। 1.280.१३०।।
गवां क्षीरेण संपूर्य मत्स्यं हैमं क्षिपेत्ततः ।
नमस्कृत्य च गन्धाद्यैः सम्पूज्य ब्राह्मणाय वै ।। १३ १।।
अर्पयेद् विधिना तेन मोदते हरिसन्निधौ ।
क्षीरसागरदानं वै ह्येतदेव प्रकीर्तितम् ।। १३२।।
अत्र तिथौ वृषोत्सर्गे कृत्वा कैलासमाप्नुयात् ।
मार्गशीर्षामादिने तु श्राद्धं कुर्याच्च तर्पणम् ।। १३३।।
तृप्ताश्च पितरो यान्ति परं भागवतं पदम् ।
मार्गशीर्ष्यां पूर्णिमायां स्वर्णाढ्यं लवणाढकम् ।। १३४।।
दाने देयं त्वनाथाय सर्वकामसमृद्धये ।
पौषस्य पूर्णिमायां तु स्नायात् सर्वौषधिजलैः ।। १ ३५।।
इदं जगत् पुरा लक्ष्मि! त्वयाऽऽसीत् त्यक्तमेव ह ।
पुनर्लक्ष्मीविधानार्थं विष्णुरिन्द्रो बृहस्पतिः ।। १३६।।
शुक्रः सोमश्च संभूय चक्रुः पुष्ये प्रयत्नकम् ।
अलंकृतं पुनश्चक्रुः सौभाग्योत्सवकेलिभिः ।। १ ३७।।
स्वस्वगुणप्रतापैश्च सर्वसौभाग्यवृद्धये ।
अतो व्रती तथा कुर्यात् पूजयेत् तान् यथाविधि ।। १ ३८।।
गौरसर्षपकल्केन तूपमृद्य तनुं स्वकाम् ।
सर्वौषधिजलैः स्नायाद् धारयेच्च नवाऽम्बरे ।। १ ३९।।
दृष्ट्वा तु मंगलं द्रव्यं नत्वा स्पृष्ट्वा ततो व्रती ।
हरिशक्रेन्दुपुष्येज्यान् पूजयेदुपचारकैः ।। 1.280.१४०।।
कृत्वा होमं भोजयेच्च ग्रहान् बालान् सुपायसैः ।
देवान् विसर्जयेत् पश्चाद् व्रती भुंजीत पारणाम् ।। १४१।।
अलक्ष्मीनाशनं लक्ष्मीप्रदं वै मोक्षदं व्रतम् ।
पूर्णिमायां तथा चात्र रैवताद्रौ पुराऽभवत् ।। १४२।।
अम्बाजन्म ततो गौर्याः पूजनं तत्र कारयेत् ।
माघस्नानसमारंभश्चास्माद् दिनाद् भवत्यपि ।। १४३ ।।
अत्रैव होलिकादण्डारोपणं कार्यमित्यपि ।
रत्नानि कञ्चुकोष्णीषपादत्राणानि वा धनम् ।। १४४।।
दत्वा प्रमोदते स्वर्गे तिलान् कार्पासकम्बलान् ।
समर्च्य शंकरं चात्र वाजिमेधफलं व्रजेत् ।। १४५।।
फाल्गुनाऽमातिथौ दुग्धव्रतारंभो भवत्यपि ।
बोध्यैषा द्वापरयुगाद्या तिथिर्मंगलावहा ।। १४६ ।।
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ।
काष्ठादिसंचये वह्निं हुत्वा रक्षोघ्नमन्त्रकैः ।। १४७।।
असृक्याभयसन्त्रस्तैः कृता त्वं होलि बालिशैः ।
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव ।। १४८।।
इतिमन्त्रेण सन्दीप्य परिक्रम्य नयेद् व्रती ।
होलिकां राक्षसीं चेमां प्रह्लादभयदायिनीम् ।। १४९।।
ज्वालयन्ति जना यद्वत् प्रह्लादेन सुभस्मिता ।
संवत्सरस्य दाहोऽयं पापानामिति होलिका ।। 1.280.१५०।।
शंकरेण कृतः कामदाहोऽयं होलिका मता ।
कल्पभेदेन दाहस्य भिद्यते तु कथानकम् ।। १५१।।
दोलोत्सवस्तथा चात्र पूर्णायां वोत्तरेऽहनि ।
उत्तराफाल्गुनीनक्षत्रयोगे रैवताचले ।। १५२।।
दोलामारोप्य कृष्णं चार्जुनं धर्माश्रये पुरा ।
आन्दोलयामासुरत्र देवाः कार्यः स उत्सवः ।। १५३।।
प्रातः पूजां प्रकुर्वीत नरनारायणप्रभोः ।
उपचारैः षोडशभिर्महानीराजनेन च ।। १५४।।
वस्त्रचन्दनपुष्पाद्यैस्तुलसीपत्रभूषणैः ।
पायसैः पूरिकाभिश्च बदरादिफलैरपि ।। १५५।।
वासन्तिकैश्च पुष्पाद्यैस्तथा रंगगुलालकैः ।
पूजयेद्भोजयेच्चापि नीराजयेच्च रंजयेत् ।। १५६।।
क्रीडां च कारयेद् यन्त्रैस्ततः प्रस्वापयेत् प्रभुम् ।
भक्तान् बालान् भोजयित्वा व्रती भुञ्जीत वै ततः ।। १५७।।
एवमभ्यंगकस्नानमाम्रकुसुमप्राशनम् ।
वसन्तोत्सवरमणं धूलिवन्दनमित्यपि ।। १५८।।
मन्वाद्यतिथिकं कुर्याद् व्रतं विस्तरतो व्रती ।
नरनारायणं प्रातः प्रबोध्य पूजयेद् व्रती ।। १५९।।
बहूनि दद्याद् दानानि व्रतं चापि समापयेत् ।
दाराः पुत्रान् धनं धान्यं स्वर्गं यायाच्च मोक्षणम् ।। 1.280.१६०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकपूर्णिमाऽमावास्याव्रतेषु श्राद्धाऽभावास्यामन्वादितिथि-
हनुमज्जयन्तीवैशाखस्नानारंभकूर्मजयन्तीधर्मराजव्रतभावुकामा-वटसावित्रीबिल्वत्रिरात्रव्रतज्येष्ठाभिषेकयात्रागुरुव्यासपूजागोपद्म-
कोकिलाव्रतचातुर्मास्यनियमशिवशयनदीपपूजानारिकेलपूर्णिमा-ऋग्यजुःश्रावणीसामगश्रावणीरक्षाबन्धनहयग्रीवजयन्तीशिवपवित्रा-
रोपणकुशग्रहणप्रौष्ठपद्युमामहेशव्रतशक्रव्रतसर्वपितृश्राद्धामारासलीलाकार्तिकस्नानशरद्व्रतकोजागरव्रतलक्ष्मीपूजादीपोत्सव-
शारदापूजाऽभ्यंगस्नानदेवदीपोत्सवत्रिपुरीपूर्णिमा-भक्तिजयन्तीस्कददर्शनमाघस्नानाऽम्बाजयन्ती-
होलिदण्डारोपणद्वापरादितिथिपयोव्रतदोलो-त्सववसन्तोत्सवाम्रकुसुमप्राशनधूलिवन्दना-दिनिरूपणनामाऽशीत्यधिकद्विशत-
तमोऽध्यायः ।। २८० ।।