सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २७७

विकिस्रोतः तः
← अध्यायः २७६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २७७
[[लेखकः :|]]
अध्यायः २७८ →

श्रीनारायण उवाच-
अथ लक्ष्मि! शृणु वक्ष्ये द्वादशीनां व्रतानि ते ।
कृत्वा यानि जना यान्ति शाश्वतं हरिमन्दिरम् ।। १ ।।
चैत्रशुक्लद्वादशीति मदनव्रतमाचरेत् ।
श्वेततन्दुलसंपूर्णं घटं फलेक्षुशोभितम् ।। २ ।।
वस्त्रयुग्मयुतं स्वर्णमिष्टान्नस्थालिकायुतम् ।
चन्दनाद्यर्चितं न्यस्य सर्वतोभद्रमण्डले ।। ३ ।।
स्थाल्यां श्रीकामदेवस्य मूर्तिं रतिसमन्विताम् ।
स्थापयेत्पूजयेत्सर्वपुष्परससुगन्धिभिः ।४ ।।
भोजयेच्च राजसानि भोजनानि च पायसम् ।
त्रयोदश्यां प्रगेऽभ्यर्च्य विसर्जयेदनंगकम् ।। ५ ।।
एवं वर्षं व्रतं कृत्वा घृतं शय्यां सवत्सगाम् ।
स्वर्णं कामं रतिं दद्याद् दानं श्रीगुरवे मुदा ।। ६ ।।
कृष्णनारायणं लक्ष्मीं पूजयेत्प्रार्थयेत्तथा ।
प्रीयतां कामरूपी मे हरिः सौख्यप्रदो भव । । ७ ।।
मदनद्वादशीव्रतकर्ता गोलोकमेति सः ।
दम्पती सुखमाप्नोति शाश्वतं कृष्णसेवनात् ।। ८ ।।
अस्यामेव व्रतं चान्यद् भर्तृद्वादशिकाव्रतम् ।
मंडपं कारयित्वा च सर्वतोभद्रमण्डलम् ।। ९ ।।
स्वास्तृता सुखशय्यां च सपुष्पामुपकल्पयेत् ।
रमायुक्तं हरि तत्र सम्पूज्य षोडशादिभिः ।। 1.277.१ ०।।
नीराजयित्वा श्रीकृष्णं स्वापयेद्रमया सह ।
व्रती जागरणं कुर्याद् गीतवादित्रपूर्वकम् ।। ११ ।।
प्रातः पुनश्च सम्पूज्य गन्धाद्यैर्भोजयेच्च तम् ।
सशय्यां श्रीहरिं हैमं श्रीगुरवे निवेदयत् ।। १२ ।।
भोजयित्वा द्विजान् साधून् विसृजेद् दक्षिणायुतान् ।
एवं व्रतकृश्चात्र दाम्पत्यं शाश्वतं भवेत्। ।। १३ ।।
सप्तजन्मसु भुंक्तेऽत्र भोगान् स्वर्गे स्तृतो व्रती ।
भर्तुः पूजा प्रकर्तव्या पत्न्या अपि विशेषतः ।। १४।।
भर्ता साक्षाद् वासुदेवः सर्वान् कामान् ददाति वै ।
दैहिकं लौकिकं स्वर्ग्यं सुखं सर्वं ददाति सः ।। १५ ।।
वैशाखशुक्लद्वादश्यां हरिं संपूज्य माधवम् ।
पक्वान्नं सजलं दद्यात्। सर्वान्कामानवाप्नुयात् ।। १६ ।।
ज्येष्ठशुक्लद्वादश्यां तु प्रसंपूज्य त्रिविक्रमम् ।
मिष्टं दद्यात् करकादि सर्वान् भोगानवाप्नुयात् ।। १७।।
अषाढशुक्लद्वादश्यां वामनं पूजयेत्प्रभुम् ।
शाकव्रतं प्रकुर्याच्चाऽलवणव्रतमाचरेत् ।। १८ ।।
दद्याद् दानानि धर्मात्मा वस्त्रभूषोपवीतकम् ।
पात्रमुद्रोर्मिकाधान्यधनानि गुरवेऽर्पयेत् ।। १९ ।।
श्रावणशुक्लाद्वादश्यां श्रीधरं पूजयेद् व्रती ।
शाकव्रतं समाप्यैव दधिव्रतं समाचरेत् ।। 1.277.२० ।।
कौशेयजं पवित्रं च श्रेष्ठं श्रीगुरवेऽर्पयेत् ।
दद्याद् दानानि सर्वाणि यथाशक्ति सुखी भवेत् ।।२ १ ।।
भाद्रशुक्लद्वादशिका व्रतं वामनजन्मनः ।
पायसं हरये दद्यात् पूजयेत् बहुवस्तुभिः ।। २२ ।।
सुवर्णस्य शुभां कुर्याद् वामनार्चां शुभाननाम् ।
बाला द्विभुजां सच्छत्रदण्डकमण्डलुस्रजम् ।। २३ ।।
मण्डपे सर्वतोभद्रे मध्याह्ने पूजयेत्तु ताम् ।
अदितिं कश्यपं भक्तं बलिं देवान् प्रपूजयेत् ।। २४।।
प्रचुराज्यसितैः कुर्यान्नैवेद्यं चूर्णलड्डुकैः ।
फलाहारं चैकभक्तं नक्तं कुर्याच्च वा व्रती ।। २५।।
द्वादशी यदि मध्याह्ने श्रवणर्क्षयुता भवेत् ।
वैकादश्यां तु मध्याह्ने यदि द्वादशिका भवेत् ।।२६।।
श्रवणर्क्ष मिलेत्तत्र स योगो विष्णुशृंखलः ।
भुक्तिमुत्तिप्रदो विष्णुसायुज्यप्रद उत्सवः ।।२७।।
द्वादश्यामाश्विने शुक्ले पद्मनाभं समर्चयेत् ।
भोजयेन्मधुरान्नं च दद्याद् दानानि भूरिशः ।।२८।।
श्वेत द्वीपगतिं विन्देद् भोगाँश्च वाञ्छितान् शुभान् ।
कार्तिके कृष्णपक्षे च गोवत्सद्वादशीव्रतम् ।।२९।।
कुर्याद्वै विधिना तत्र कारयेद् गां तु कानकीम् ।
सवत्सां पूजयेत् पुष्पचन्दनादिभिरादरात् ।।1.277.३० ।।
भोजयेच्छुभवस्तूनि ह्यर्घ्यं दद्यात्तु पादयोः ।
माषादिवटकान् दद्याद् ग्रासान् दद्यात्तृणादिकान् ।।३ १ ।।
संकल्पयेच्च तान्नत्वा कृत्वा प्रदक्षिणं तथा ।
सर्वदेवमयि मातर्ममाऽभिलषितं कुरु ।।३२।।
स्वर्गं मोक्षं सुखं देहि मातर्मातर्नमोऽस्तु ते ।
पूजयित्वेति दद्याच्च गवां दानं यथाबलम् ।।३३ ।।
तद्दिने गोः पयस्तक्रं दधि घृतं विवर्जयेत् ।
स्थालीपक्वं तैलपक्वं वैकृतं च विवर्जयेत् ।।३४।।
मूर्तां वत्सतरीयुक्तां पूजयेद्वा व्रती प्रगे ।
फलं तु बहुलं स्याद्वै प्रत्यक्षार्चनसेवनात् ।। ३५।।
द्वादश्यामूर्जशुक्लायां देवं दामोदरं प्रिये ।
पूजयेत् षोडशवस्तूत्तमैश्च भोजयेद्धरिम् ।। ३६।।
कुंभाँश्च सलिलैः पूर्णान् वस्त्रपल्लवपूजितान् ।
पूगमोदकरत्नादिफलस्वर्णादिशोभितान् ।।३७।।
दद्याद् दाने व्रती प्रीत्या गुरवे भोजयेत् सतः ।
एवं कृते प्रियो विष्णोर्जायतेऽखिलभोगयुक् ।।३८।।
द्वादश्यां भूभृता कार्यं नीराजनोत्तमव्रतम् ।
सुप्तोत्थितो जगन्नाथो ह्यलंकार्योऽतिवस्तुभिः ।।३ ९।।
निशागमे नवं वह्निं कृत्वा चाभ्यर्च्य मन्त्रतः ।
हुत्वा घृतादि मुन्यन्नं रौप्यदीपिकया जनैः ।।1.277.४०।।
गन्धपुष्पाद्यर्चितया व्रती नीराजयेद्धरिम् ।
कृष्णनारायनं लक्ष्मीं प्रभां रमां च पार्वतीम् ।।४१ ।।
ब्रह्माणीं चण्डिकां गौरीं माणिकीं मंगलां तथा ।
आदित्यं शंकरं यक्षं नन्दां गणपतिं ग्रहान् ।।४२।।
मातॄः पितॄन्नगान्नागान्सर्वान्नीराजयेत्तदा ।
गवां नीराजनं कुर्यान्नमो जयेति संवदेत् ।।४३।।
गोवृषाँश्च वाजिनश्च गजाँश्च लक्षणान्वितान् ।
राजचिह्नानि सर्वाणि छत्रादीनि नवानि च ।।४४।।
नृपं पुरोधसं मन्त्रिभृत्याऽन्तःपुरवासिनीः ।
पूजयित्वा यथायोग्यं शंखतूर्यादि वादयेत् । । ४५ । ।
अलंकृतस्ततो राजा तिष्ठेत् सिंहासने नवे ।
सभाऽपि परिपूर्णा स्यात्तदा वेश्या कुलांगना । । ४६। ।
शीर्षोपरि नरेन्द्रस्य वर्धयेदक्षतैस्तथा ।
कुसुमैः स्वर्णमुद्राभिस्ततो नीराजयेन्नृपम् ।। ४७।।
शान्तिमन्त्रास्तदा भूदेवानां श्रव्यास्तु भूभृता ।
एवमेषा महाशान्तिः कर्तव्या प्रतिवासरम् ।।४८ ।।
राज्ञा धनवता वापि वर्षमारोग्यमिच्छता ।
येषां राष्ट्रे पुरे ग्रामे क्रियते शान्तिरुत्तमा ।।४९ ।।
नीराजनाऽभिधा लक्ष्मि! तद्रोगा यान्ति संक्षयम् ।
यथाकथंचित्कर्तव्या संक्षिप्ताऽपि जनैरियम् ।।1.277.५ ० ।।
अस्यामेव तु द्वादश्यां कृतो वै विष्णुना पुरा ।
कृतयुगे तु तुलसीविवाहो व्रतमुत्तमम् ।।५ १ ।।
उष्णीषं धारयेत्कृष्णनारायणं कुसुम्भकम् ।
हेमसूत्रमयं रक्तं कञ्चुकं चापि धारयेत् ।। ५२ ।।
हेमवर्णां शुभां शाटीं तुलसीं परिधापयेत् ।
वस्त्राभरणपुष्पादिशृंगाराणि सुधापयेत् ।। ५३ ।।
गुडौदनं तथा मिष्टं नैवेद्ये तु समर्पयेत् ।
कदल्यादिकृते रम्ये मण्डपे तु निशामुखे ।।५४।।
कृष्णनारायणविष्णुं तुलसीं पूजयेद् व्रती ।
उपचारैः षोडशभिर्गोधूलिसमयेऽर्चयेत् ।।।५५ ।।
स्वर्णाम्बरं कण्ठसूत्रं नासाभूषां च कंकणान् ।
हरिद्रां कुंकुमादीनि तुलस्यै वै समर्पयेत् ।।५६ ।।
फलानि चामृतादीनि सेक्षुदण्डानि चार्पयेत् ।
नैवेद्ये पीतसाराणि खाजकानि समर्पयेत् ।।५७।।
कृत्वा नीराजनं वृन्दाकृष्णयोश्चान्तरं पटम् ।
कृत्वा पठित्वा मांगल्यं वृन्दां श्रीविष्णवेऽर्पयेत् ।।५८ ।।
साधून् साध्वीर्ब्राह्मणाँश्च बालांश्च बालिका जनान् ।
भोजयेच्छक्तितो दद्याद् दानानि विविधानि च ।।५९ ।।
वृन्दाविवाहपद्यानि गापयेद् रसिकानि वै ।
इत्येवमुत्सवं कुर्यादखण्डभाग्यरक्षकम् ।। 1.277.६० ।।
द्वादश्यां मार्गशुक्लायां साध्यव्रतमनुत्तमम् ।
मनोभवस्तथा प्राणो नरो यातश्च वीर्यवान् ।। ६१ ।।
चितिर्हयो नृपश्चैव हंसो नारायणस्तथा ।
विभुः प्रभुर्द्वादशैतान् साध्यान् देवान् प्रपूजयेत्। ।। ६२।।
सौवर्णांस्तण्डुलसंकल्पितान् गन्धाद्यमर्पयेत् ।
भोजयेद् बहुमिष्टान्नं प्रियान्नारायणस्त्विति ।।६ ३ ।।
एतस्यामेव कर्तव्यमादित्यद्वादशीव्रतम् ।
धाता मित्रोऽर्यमा पूषा शक्रोंऽशो वरुणो भगः ।।६४।।
त्वष्टा विवस्वान् सविता विष्णुर्द्वादश तान् रवीन् ।
प्रतिमा द्वादश हैमीः कृत्वा संपूज्य भोजयेत् ।।६५ ।।
प्रतिमासं तु शुक्लायां वर्षमेकं व्रतं चरेत्। ।
दद्याद् दानानि सर्वाणि विप्रान् साधूंश्च भोजयेत् ।।६६ ।।
एवं कृत्वा व्रतं प्राप्य सूर्यलोकं समुज्ज्वलम् ।
भुक्त्वा भोगाँश्चिरं तत्र भित्त्वा सौर्यं तु मण्डलम् ।।६७।।
मायापरे परंब्रह्म कृष्णनारायणं व्रजेत् ।
अथात्रैवाऽखण्डव्रतं जनार्दनस्य कारयेत् ।।६८।।
मूर्तिं कृत्वा च सौवर्णीं जनार्दनं प्रपूजयेत् ।
भोजयेत् प्रतिमासं तु वर्षमेकं व्रती ततः ।।६९।।
नक्ताशीस्तां स्वर्णमूर्तिं धेनुं वत्सयुतां शुभाम् ।
अर्पयेद् गुरवे विप्रान् भोजयेत्पायसादिकम् ।। 1.277.७०।।
प्रार्थयेच्छ्रीहरिं कृष्ण! व्रतं चाखण्डमस्तु मे ।
सौभाग्यं च धनं धान्यमारोग्यं नित्यमस्तु मे ।।७१।।
दद्याद् दानानि चान्यानि परलोकार्थमेव ह ।
कृत्वैवं स्वर्णयानेन याति विष्णोः पदं व्रती ।।७२।।
पौषस्य कृष्णद्वादश्यां रूपव्रतमुदीरितम् ।
दशम्यां विधिवत् स्नात्वा गृह्णीयाद् गोमयं व्रती ।।७३।।
श्वेताया वैकवर्णाया अन्तरीक्षगतं प्रिये ।
अष्टोत्तरशतं तस्य पिण्डिकाः शोषयेत्ततः ।।७४।।
धृत्वा ताम्रे मृतपात्रे वा रक्षयेत् हवनाय वै ।
एकादश्यां सोपवासो विष्णुमभ्यर्च्य कानकम् ।।७५ ।।
भोजयेज्जागरं कुर्याद् द्वादश्यां च प्रगे पुनः ।
घटे स्थाल्यां हरिं न्यस्य पूजयेदुपचारकैः ।।७६।।
काष्ठसंघर्षणजन्यमग्निं सम्पूज्य पिण्डिकाम् ।
एकैकां होमयेत् तिलघृताद्युक्तां तु शार्ङ्गिणः ।।७७।।
शतमष्टोत्तरं होमं द्वादशाक्षरविद्यया ।
नामभिर्वा प्रकुर्याद् भोजयेत्पायसपूरिकाः ।।७८।।
घटमूर्तिं तु गुरवेऽर्पयेत्संभोजयेद् द्विजान् ।
नत्वा विर्सजयेन्नारी नरो वा व्रतमादरात् ।।७९।।
कृत्वैवं लभते रूपं सौभाग्यं चोत्तमोत्तमम् ।
पौषशुवले सुजन्मद्वादशीव्रतमथोच्यते ।।1.277.८० ।।
स्नात्वा प्रातश्च गोशृंगवारि पीत्वा प्रणम्य च ।
प्रदक्षिणां तथा कृत्वा गृह्णीयाद् वार्षिकं व्रतम् ।।८ १ ।।
प्रतिमासं ततः शुक्ले द्वादश्यां दानमाचरेत् ।
घृतप्रस्थं प्रदद्याच्च व्रीहिप्रस्थचतुष्टयम् ।।।८२।।
यवप्रस्थचतुष्कं च हेम द्विरक्तिकं व्रती ।
तिलाऽऽढकार्धं दुग्धं तु घटपूर्णं समर्पयेत् । । ८३ । ।
रौप्यस्य मासमेकं च मिष्टान्नानि बहूनि च ।
छत्रं माषार्धहेम्नश्च प्रस्थ फाणितमुत्तमम् । । ८४ । ।
चन्दनं पलिकं वस्त्रं दशहस्तमितं शुभम् ।
प्रतिमासं तथा दानं व्रती दद्याद् यथाबलम् । ।८५ । ।
गोमूत्रं जलमाज्यं वा पिबेद् व्रती प्रशुद्धये ।
दधियुक्तं यवान्नं च तिलाज्यं तु सशर्करम् ।। ८६ । ।
क्षीरं दर्भाम्बुना युक्तं शाकं यथेष्टमेव च ।
भक्षयेत्प्रतिमासं वै वर्षं यावत्तु भावतः । ।८७ । ।
रवेः प्रतिमां सौवर्णीं ताम्रपात्रे समर्च्य च ।
अर्पयेद् गुरवे तां सधेनुं च प्रणमेत्ततः । । ८८ ।।
विप्रान् साधूँस्तथासाध्वीर्भोजयित्वा विसर्जयेत् ।
व्रतवाँल्लभते जन्म धनाढ्ये ह्युत्तमे कुले । ।८ ९ ।।
सर्वस्मृद्धिमये भोज्यभोजनौजःप्रशालिनि ।
रतिशक्त्याश्रये श्रेष्ठांगनासंसेविते कुले । । 1.277.९० । ।
ततो भोगानसंख्यातानत्र भुक्त्वा दिवि ध्रुवे ।
देवभोगान् प्रभुक्त्वैव वैकुण्ठं याति शाश्वतम् । । ९१ ।।
माघस्य शुक्लद्वादश्यां शालग्रामं प्रपूजयेत् ।
रौप्य पात्रे प्रसंस्थाप्य सुवर्णं तन्मुखेऽर्पयेत् ।। ९२ ।।
भोजयेत्पायसान्नेन खाण्डाज्यसहितेन च ।
प्रदद्याद् वेदविदुषे वस्त्राभरणभूषितम् । । ९३ । ।
व्रती यायात्तु वैकुण्ठं शाश्वतानन्दभाग् भवेत् ।
फाल्गुनशुक्लद्वादश्यां सौवर्णीं प्रतिमां हरेः । । ९४ । ।
अभ्यर्च्य गुरवे दद्याद् भोजयेद् बालबालिकाः ।
व्रतं कृत्वा जनो याति श्रीकृष्णमन्दिरं यतः ।। ९५ । ।
भुक्त्वा भोगानलभ्याँश्च शाश्वतं सुखमश्नुते ।
त्रिस्पृशान्मीलनी पक्षवर्धिनी वंजुली तथा ।। ९६ । ।
जया च विजया चैव जयन्ती चापराजिता ।
एता अष्टौ सदोपोष्या द्वादश्यः पापहारिकाः । । ९७ । ।
एकादशी निवृत्ता चेत्सूर्यस्योदयतः पुरा ।
तदा तु त्रिस्पृशानाम द्वादशी सा महाफला । । ९८ । ।
अस्या व्रतेनाश्वमेधसहस्रफलमश्नुते ।
यदाऽरुणोदये दशम्या विद्धैकादशी तिथिः । । ९९ । ।
तदा तां सम्परित्यज्य द्वादशीं समुपोषयेत् ।
सोन्मीलिता राजसूयसहस्रफलदायिनी ।। 1.277.१०० ।।
यदोदये तु सवितुर्याम्या त्वेकादशी स्पृशेत्। ।
तदा वंजुलिका सा तु सर्वक्रतुफलप्रदा ।। १०१ ।।
कुहूराके यदा वृद्धे स्यातां सा पक्षवर्धिनी ।
सर्वैश्वर्यप्रदा सा वै पुत्रपौत्रविवर्धिनी ।। १ ०२।।
यदा तु धवले पक्षे द्वादशी स्यान्मघान्विता ।
तदा प्रोक्ता जया नाम सर्वत्र जयदा मता ।। १०३ ।।
श्रवणर्क्षयुता चेत्स्याद् द्वादशी धवले दले ।
विजया सा सर्वतीर्थफलदा सुखभोगदा ।। १ ०४।।
यदा स्याच्च सिते पक्षे प्राजापत्यर्क्षसंयुता ।
द्वादशी सा जयन्त्याख्या व्रतदानफलप्रदा ।। १ ०५।।
यदा तु स्यात् सिते पक्षे द्वादशी जीवभान्विता ।
तदाऽपराजिता ज्ञानमुक्तिदा पापनाशिनी ।। १ ०६ ।।
यदा त्वाषाढशुक्लाया द्वादश्यां मैत्रभं भवेत् ।
तदा व्रतद्वयं कार्यं न दोषोऽत्रैकदैवतम् ।। १ ०७।।
श्रवणर्क्षयुतायां च द्वादश्यां भाद्रशुक्लके ।
ऊर्जे सितायां द्वादश्यामन्त्यभे च व्रतद्वयम् ।।१०८।।
एताभ्योऽन्यत्र कर्तव्यं द्वादश्यामेकभुक्तकम् ।
एकादश्या सहितं वै व्रतं द्वादशिकादिनम् ।। १ ०९।।
पृथङ्नोद्यापनं कार्यं दानं कार्यं यथाधनम् ।
इति व्रतानि कमले कार्याणि द्वादशीदिने ।। 1.277.११० ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकद्वादशीव्रतेषु मदनव्रतभर्तृद्वादशीमाधवकरकशा-
काऽलवणदधिव्रतपवित्रारोपणवामनजयन्तीपद्मनाभव्रत-गोवत्सद्वादशीदामोदरनीराजनव्रततुलसीविवाह-
साध्यादित्यरूपव्रतसुजन्मद्वादशीशालग्राम-हरिपूजात्रिस्पृशोन्मीलनीपक्षवर्धिनी-वंजुलीजयाविजयाजयन्त्यपराजिता-
द्वादश्यादिनिरूपणनामासप्तसप्तत्यधिकद्विशततमोऽध्यायः ।। २७७ । ।