लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १९२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९२
[[लेखकः :|]]
अध्यायः १९३ →

शृणु लक्ष्मि ततो गत्वा नारदो विस्मितोऽभवत् ।
दृष्ट्वाऽऽश्चर्यकरां विश्वकर्मणा रचितां कृतिम् ।। १ ।।
कृत्रिमेषु मोहितः सन्नारदः प्राह भूभृतम् ।
वरवाहिनी प्रागेवाऽयाताऽत्र किमु विद्यते ।। २ ।।
शैलः प्रत्याह देवर्षे विस्मयं त्यज कृत्रिमम् ।
विश्वकर्मकृतं चैतद्दृश्यं देवादिमण्डलम् ।। ३ ।।
भोजितः पूजितः प्रार्थितः शंभोरागमाय च ।
नारदस्त्वरितो गत्वा प्राह शंभुं सुरादिकान् ।। ४ ।।
प्रतीक्षते हिमाद्रिश्चाऽऽयातु वै वरवाहिनी ।
तत्र विमोहनार्थं च समाश्चर्यार्थमित्यपि ।। ५ ।।
चित्रमयी कृता माया यत्र त्रैलोक्यमाहितम् ।
ब्रह्मविष्णुमहेन्द्राद्याः सर्वे देवाः सुचित्रिताः ।। ६ ।।
कृत्रिमाश्चित्ररूपेण न किंचिदवशेषितम् ।
जडं तु चेतनं यद्वद् दृश्यते सक्रियं हि तत् ।। ७ ।।
श्रुत्वैतच्च वराद्या आतुरा ह्यासन् निरीक्षितुम् ।
शिवाज्ञया वरयात्रा वाहिनी निर्जगाम ह ।। ८ ।।
आजगामोपहेमाद्रिपुरं तु हरवाहिनी ।
आकर्ण्यैतत्तु हेमाद्रिः प्रेषयामास पर्वतान् ।। ९ ।।
विप्राँश्चापि स्वयं चापि ययौ संभारसंभृतः ।
सेनया सहितः शैलः संभाषां कर्तुमीश्वरम् ।। 1.192.१० ।।
शैलेन्द्राणां महासेनां शैवानां च ततोऽधिकाम् ।
दृष्ट्वोभपक्षगास्ते तु विस्मयं परमं गताः ।। ११ ।।
विरजेतुर्मिलित्वैव पूर्वपश्चिमसागरौ ।
हैमो शैलाश्च विप्राद्याः प्रणेमुर्वरशंकरम् ।। १२।।
वृषविमानसंस्थं सुप्रसन्नास्यं सुभूषितम् ।
दिव्यावयवसत्कान्तिप्रकाशितदिगन्तरम् ।। १३।।
रत्नभृते सुरेशैश्च सेवितं छत्रचामरैः ।
वामस्थितहरिं दक्षस्थितब्रह्माणमित्यपि ।। १४।।
पृष्ठस्थितमहेन्द्रं च ततो देवगणान्वितम् ।
अथ सत्कृत्य हाराद्यैर्जलपानादिभिर्वरम् ।। १५।।
वरपक्षाँश्च संस्थाप्य विश्रान्तिभवनेषु च ।
शिवाज्ञया हिमशैलो ययौ च विधिवेदिकाम् ।। १६।।
कर्तुं त्वथ वराचारमाहूताः सेश्वराश्च ते ।
गमनं चक्रुरीशाद्या अग्रगा गिरिराट्गृहम् ।। १७।।
तस्मिन्नवसरे मेना शिवदर्शनलालसा ।
नारदं पार्श्वतः कृत्वा चन्द्रशालां समागता ।। १८।।
शिवोऽपि स्वचमत्कारं दर्शयितुं समिच्छति ।
प्राह वै वेधसं विष्णुं यातं यूपं पृथक्-पृथक् ।। १ ९।।
सेनां क्रमयसारां च कृत्वा यामः सुदर्शनाम् ।
मेना व्यवस्थितां रम्यां सेनां दृष्ट्वा जहर्ष च । । 1.192.२० ।।
प्रथमं च गिरिद्वारं गन्धर्वाः सुन्दराः प्रभाः ।
दिव्यालंकारवस्त्राढ्याः सुभगा वाहनैर्युताः ।। २ १ ।।
वादयन्तश्च वाद्यानि ह्यप्सरोभिः स्वरायिताः ।
पताकाजयपट्टैश्च युताः प्रविविशुस्तदा ।। २२।।
अथ वसुपतिं दृष्ट्वा शिवोऽयमिति साऽब्रवीत् ।
नारदः प्राह नाऽयं स ह्येते वै शिवकिंकराः ।। २३ ।।
अथ द्विगुणशोभाढ्ययक्षसेनाधिपं तु सा ।
मणिग्रीवाभिधं दृष्ट्वा रुद्रोयऽमिति साऽब्रवीत् ।। २४।।
नारदः प्राह नायं स ह्येतेऽपि शिवसेवकाः ।
अथद्विगुणशोभाढ्यसेनामध्यगतोऽनलः ।। २५।।
दृष्टो ह्यायात इत्ययं शिवास्वामीति साऽब्रवीत् ।
नारदः प्राह नाऽयं सः शिवनेत्रानलो ह्ययम् ।। २६।।
अथ ततोऽपि द्विगुणशोभावान् यम आगतः ।
तं स्वसेनायुतं दृष्ट्वा मेना शिवोऽयमब्रवीत् ।। २७।।।
नारदः प्राह नाऽयं सः सूर्यपुत्रस्त्वयं यमः ।
अथाऽऽयान्तं निर्ऋतिं स्वसेनान्वितं विलोक्य सा ।। २८ ।।
यमाद्द्विगुणशोभाढ्यं पुण्यजनमहाप्रभुम् ।
शिवोऽयमब्रवीन्मेना नारदः प्राह नेति सः ।। २९ ।।
अथाऽऽयान्तं वरुणं द्विगुणशोभान्वितं च सा ।
सेनामध्यगतं दृष्ट्वाऽब्रवीद्रुद्रोऽयमेव किम् ।। 1.192.३० ।।
नारदः प्राह नायं सः तावद्वायुः समागतः ।
ततोऽपि द्विगुणशोभं दृष्ट्वा तं सैन्यमध्यगम् ।। ३१ ।।
मेनाऽब्रवीच्च रुद्रोऽयं नारदः प्राह नैव सः ।
अथाऽऽयात् तद्द्विगुणाधिशोभान्वितो धनाधिपः ।। ३२ ।।
सैन्यमध्यगतं दृष्ट्वा मेना प्राह शिवो ह्ययम् ।
नारदः प्राह नायं स गुह्यकाधिपतिस्त्वयम् ।। ३३ ।।
अथात ईशान आयात् स्वसैन्यपरिवारितः ।
ततो द्विगुणशोभाढ्यं तं दृष्ट्वा मेनकाऽब्रवीत् ।। १ ४।।
रुद्रोऽयमिति तां नारदः प्राहाऽयं न शंकरः ।
अथेन्द्रः सैन्यशोभाढ्यो द्विगुणस्मृद्धिराययौ ।। ३५ । ।
दृष्ट्वा तं हर्षिता मेना प्राहाऽयं मच्छिवापतिः ।
नारदः प्राह नायं सः किन्त्विन्द्रोऽयं सुराधिपः ।। ३ ६। ।
अथ चन्द्रः समायातस्ततो द्विगुणशोभितः ।
दृष्ट्वा स्वसैन्यमध्यं तं मेनाऽब्रवीच्छिवो ह्ययम् ।। ३७।।
नारदः प्राह नाऽयं सः किन्तु तद्भालचन्द्रकः ।
अथ सूर्यः समायात्स्वसैन्यमध्यगतः स्वराट् ।। ३८ । ।
ततो द्विगुणशोभं तं दृष्ट्वाऽऽहाऽयं शिवेति सा ।
नारदः प्राह नाऽयं सः किन्त्वयं तत्तनू रविः ।। ३ ९। ।
अथाऽऽययुश्च भृग्वाद्याः ऋषयस्तेजसाऽधिकाः ।
स्वशिष्यगणसैन्याढ्यास्तन्मध्यस्थ बृहस्पतिम् ।।1.192.४ ० ।।
ततो द्विगुणशोभं च दृष्ट्वाऽऽहाऽयं शिवेति सा ।
नारदः प्राह नाऽयं सः किन्त्वयं देवदेशिकः । । ४१ । ।
अथर्षिमण्डलैस्तेजोराशिभिः पूजितो ह्यजः ।
ततोऽपि बहुशोभाढ्यः समायाद्वै पितामहः ।।४२ । ।
दृष्ट्वा ततो बहुशोभं मेना हर्षवती ह्यभूत् ।
प्रोवाच शंकरोऽयं स्यात् नारदः प्राह नैव सः ।। ४३ ।।
किन्तु ब्रह्मा विश्वसृष्टा मेनाऽऽश्चर्यगताऽभवत् ।
अथ विष्णुर्बहुरूपोऽत्यतिलक्ष्मीरमायुतः ।।४४ ।।
सर्वशोभान्वितो मेघश्यामः स्वर्णसमुज्ज्वलः ।
कोटिकन्दर्पलावण्यः पीताम्बरश्चतुर्भुजः ।।४५ ।।
चक्रादिचिह्नवान् वक्षःस्थलराजत्सुकौस्तुभः ।
मुकुटकटकाद्युक्तः पद्मपत्राभलोचनः ।।४६ ।।
लावण्यसौन्दर्यनिधिरप्रमेयप्रभोज्ज्वलः ।
अनन्तदासदासीनां सैन्ये गरुडराजितः । ।४७।।
प्रविवेश तमायान्तं दृष्ट्वाऽतिहर्षविहला ।
चकिताऽक्ष्यभवन्मेनाऽब्रवीदयं स एव सः । । ४८ ।।
नारदः प्राह नाऽयं त्वत्त्सुतास्वामी हि मेनके ।
शिवभ्राता ह्ययं विष्णुः शिवकार्याधिकार्ययम् । ।४९ ।।
वैवाहिके महाऽमात्योऽनुवरो वरपार्श्वगः ।
शिवस्त्वस्मादधिकोऽस्ति रूपस्मृद्धचादिवैभवैः ।। 1.192.५० । ।
अथैकादशकोट्यश्च रुद्राणां विविशुस्तदा ।
सर्वे शंभुसमाकारा विष्णुतुल्यविभूषणाः । । ५१ । ।
अथाऽऽदित्या द्वादशकोट्यश्च संविविशुस्तदा ।
सर्वे विष्णुसमाकारा नारायणसुमूर्तयः । । ५ २ ।।
दृष्ट्वा मेना मत्यगम्यान् भाग्ये स्वं बह्वमन्यत ।
वारं वारं पर्यपृच्छन्नारदं क्वाऽस्ति शंकरः ।। ५३ ।।
तावत् प्रविविशुस्तत्र वैराजाश्चोर्ध्वरेतसः ।
नारायणादप्यधिकरूपतेजोऽभिसंवृताः ।।।५४।।
चतुर्विंशतिकोट्यस्ते महाविष्णुस्तदन्तरे ।
राजाधिराजलक्ष्म्या स राजते सर्वतोऽधिकः ।।५५ । ।
तमनु साधवः सर्वे योगिनोऽर्बुदकोटयः ।
आययुश्च पुरद्वारं महाविष्णुस्वरूपिणः । । ५६ । ।
दृष्ट्वा तत्र महाविष्णुं मेना हर्षपरिप्लुता ।
अत्युत्साहवती प्राह सोऽयं शिवः समागतः । ।५७ । ।
अहो भाग्यं मम पुत्र्या योग्यं तपः कृतं तया ।
अर्जितश्चेदृशः स्वामी सुखी भवतु पुत्रिका ।५८ । ।
नारदं प्राह मेनेयं न शिवस्त्वच्छिवापतिः ।
किन्तु शिवः सदाशिवो राजते ईशसृष्टिषु ।।५९। ।
तस्य भ्राता महासम्राट् महाविष्णुरयं किल ।
अतोऽतिरूपवान् समृद्धो वर्तत पार्वतीपतिः ।।1.192.६० । ।
वर्णयितुं तु तच्छोभां मया नैव हि शक्यते ।
मा त्वरा त्वं कुरु मेने पश्यैनं कोऽयमागता । ।६ १ । ।
तावच्छ्रीकृष्णचन्द्रः श्रीराधाकृष्णः स्वयंप्रभुः ।
आययौ कोटिकोट्यब्जाऽर्बुददासादिमण्डितः । ।६२। ।
नारदः प्रणनामैनं मेनाऽपि प्रणताऽभवत् ।
दृष्ट्वा कृष्णस्वरूपं च क्षणं मूर्छामवाप सा । ।६३। ।
तन्मूर्तिदर्शनसौख्याप्लुताऽऽकृष्टाऽऽन्तरा तदा ।
समाधिसुखमापन्ना ह्युत्थिता च क्षणान्तरे ।।६४। ।
प्राह नारद! पार्वत्याः पतिश्चायं न संशयः ।
नारद प्राह मेनेऽयं शिवापतिपिताऽस्ति हि । ।६५। ।
शिवस्त्वस्मात्समुत्पन्नश्चाऽस्याऽस्ति दायभाक् सदा ।
अयं कृष्णः परंब्रह्म गोलोकाधिपतिः प्रभुः । ।६६ । ।
तन्मूर्तेश्च समुत्पन्नो मानसस्तनयः शिवः ।
महावैराग्यमूर्तिः स वर्णयितुं न शक्यते । ।६७।।
आयात्यनन्तरं पश्य रूपगुणमहाखनिः ।
मेना स्वस्याश्च जामातुर्दृष्ट्वा तु पितरं तदा ।।६८ ।।
निःसन्देहाऽभवच्चातिप्रहृष्टाऽप्यभवन्मुहुः ।
द्रष्टुं समुत्सुकाऽभूच्च तावच्छंभुः समाययौ ।।६९।।
इदानीं यावच्छृंगारः कृत्स्नः कृष्णसमोऽभवत् ।
नासीन्न्यूनं तु शोभायां वरे शोभाऽस्त्यतोऽधिका ।।1.192.७० ।।
वरयात्राप्रवाहिन्यां वरशोभा विशिष्यते ।
कोटिकन्दर्पलावण्यसौन्दर्यकान्तिसूज्ज्वलम् ।।७ १ ।।
श्रीकृष्णसदृशं रूपं दृष्ट्वा मेनाऽतिहर्षिता ।
आत्मस्वार्पणभक्त्या साऽभवच्छुद्धाऽद्रिराडपि ।।७ १ ।।
मेनेऽप्यहो मया दृष्टा सर्वेऽपि देवनायकाः ।
एतेषां यः पतिः सोऽत्र पतिः पुत्र्या भविष्यति ।। ७३ ।।
स्वभाग्यमधिकं मेने पुत्र्याश्चापि ततोऽधिकम् ।
यत्पतिं प्राप्य मे पुत्री जगन्माता भविष्यति ।। ७४।।
कुटुम्बमपि सर्वं मे यशोभाक् संभविष्यति ।
वर्णयन्तीति भाग्यं स्वं कृष्णशंभुं ददर्श सा ।।७५ ।।
एवमेवाऽभवच्छंभुः किन्तु मेनाहिमालयौ ।
तादृक्सुशोभितं शंभुं पश्येतां भावतो यदि ।।७६ ।।
मन्वीयातां कृतकृत्यौ पुत्रीदानेन भावतः ।
सर्वतो भावनाभक्त्या प्राप्नुयातां च शुद्धताम् ।।७७।।
शंभोर्माहात्म्यविज्ञानात् पारमार्थिकनिश्चयात् ।
मुक्तिं द्रागेव गच्छेता शैलश्च लीनतां व्रजेत् ।।७८।।
तथासति महद्दुःखं श्वशुरध्वंससंभवम् ।
श्वश्र्वाश्चापि निधनस्य दुःखं चात्यधिकं भवेत् ।।७९।।
रंगे भंगो भवेच्चापि भवेत् कैलासनाशनम् ।
भवेच्च देवकोटीनां स्थाननाशो मृते हिमे ।।1.192.८० ।।
हिमाचलविनाशेन पृथ्वी रिक्ता भवेत्तदा ।
असंख्यौषधयः सर्वा विनष्टाः स्युस्तथा तदा ।।८ १ ।।
इति सर्वं त्वापतेच्च तन्माभूदितिवाञ्च्छया ।
मेनाहिमाचलादीनां भावभक्तिनिवृत्तये ।।८२।।
अवगुणग्रहार्थाय शैलभूवासलब्धये ।
शंकरो हि तदा रूपं परिव्यवर्तयत् स्वकम् ।।८३।।
कृष्णाकृतिसमं रूपं विवृत्य रुद्रमूर्तिकम् ।
शांभवं रूपमास्थाय मेनायै दर्शनं ददौ ।।८४।।
हिमालयाय तद्वच्च शैलादिभ्यस्तथैव च ।
ददौ हि दर्शनं स्वस्य भस्माक्तं मुण्डमालिकम् ।।८५।।
सजटासर्परुद्राक्षत्रिशूलचर्मराजितम् ।
कदरूपं तथाऽतीताऽर्धाऽऽयुष्कं रूक्षविग्रहम् ।।८६ ।।
सपिनाकं पञ्चवक्त्रं व्याघ्रचर्मसुधौत्रकम् ।
दशहस्तं सडमरुं रौद्ररूपं च धूर्जटम् ।।८७।।
दुःश्मश्रु रोमसर्वांगं भूतप्रेतादिसेवितम् ।
सकपर्दं सकपालं द्रष्टुर्भयकरं महत् ।।८८।।
गंजापानरतं नेत्रे घूर्णिते चाऽप्यदर्शयत् ।
तुन्दिलं पीनमत्यर्थ श्यामवर्णं च वामनम् ।।८९।।
मेना प्राह तदा कोऽयं क्व गतः कृष्णरूपधृक् ।
सुरूपो विलयं यातो रौद्ररूपोऽस्ति कोऽत्र वै ।।1.192.९० ।।
पश्य नारद जामाता क्वाऽस्ति मे दर्शयाऽत्र माम् ।
नारदः प्राह पश्यन्तीं कुरूपं मेनकां तदा ।।९१।।
योऽयमायाति रुद्राणां सेनाया मध्यगे वृषे ।
निषीदन् प्रेतभूतादिगणावृतमहाप्रभुः ।।।९२।।
यस्य सैन्ये वातरूपाः पताका मर्मरूपिणः ।
वक्रतुण्डा विरूपाश्च करालाः श्मश्रुलास्तथा ।।९३।।
खञ्जा ह्यलोचना दण्डपाशमुद्ररपाणयः ।
शंखडमरुगोमुखवादिनो नर्तका इव ।।९४।।
विरुद्धेषु वाहनेषु पुच्छाभिमुखमास्थिताः ।
केचित्तु विमुखाः पृष्ठमुखा बहुमुखास्तथा ।।९५।।
अकरा विकराः केचित्केचिद्बहुकरास्तथा ।
अशिरा विशिराश्चापि कुशिराश्च विनेत्रकाः ।।९६।।
अनेत्रा बहुनेत्राश्च बहुकर्णा अकर्णकाः ।
अनासाः छिन्ननासाश्च वृक्णाश्च केकराक्षकाः ।।९७।।
पिंगलाः धूम्रवर्णाश्च प्रोर्ध्वरोमाणइत्यपि ।
ह्येते सर्वे महावीर्याः सन्ति शिष्यास्त्रिशूलिनः ।।९८।।
पश्य मेने! तव जामातरं सेवन्त आदरात् ।
इमे सर्वे निरातंका निष्परिग्रहविग्रहाः ।।९९।।
निर्द्वन्द्वाश्च निरीहाश्च प्रबलास्तापसाः शिवाः ।
पश्यैतान् तव जामातृगणान् जामातरं तथा ।। 1.192.१०० ।।
इत्यंगुल्या विनिर्दिश्य नारदस्तमदर्शयत् ।
रौद्रं रूपं मनोऽभाव्यं वीक्ष्य भीता शिवाप्रसूः ।। १०१ ।।
दुःखिताऽभूत् वञ्चिताऽहं चेत्युक्त्वा मूर्छिताऽभवत् ।
पुत्र्यापि वञ्चिता नारदेन त्वयापि वञ्चिता ।। १०२।।
सप्तर्षिभिर्वञ्चिता च क्षिप्ता ह्यमानुषे सुता ।
विगर्ताऽर्धपराऽऽयुष्येऽसुघटे श्मश्रुलेऽगुणे ।। १ ०३।।।
प्रायोऽसुखकरे नेत्राऽरंजने चाऽमनोहरे ।
रूक्षे वृक्षे कंटकाढ्ये त्यक्ता पुण्यलता मया ।। १ ०४।।
इत्येवं मानसे मेना मुहुः शोचति खिद्यति ।
साश्रुनेत्रे तदा कृत्वा सखीभिरुपसेविता ।। १०५ ।।
क्षणाद् धैर्यं समालम्ब्योद्वेगाज्जजल्प कालिकम् ।
अनिष्टोत्थसगद्गदकण्ठा तापातुरा ह्यभूत् ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने वरयात्रायां वरवाहिनीजनवाहानां शोभा, मेनाकृतवाहिनोवरप्रतीक्षणं, शंकरदर्शनान्मेनायाः शोकश्चेत्यादिनिरूपणनामा द्वानवत्यधिकशततमोऽध्यायः ।। १ ९२।।