लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६१
[[लेखकः :|]]
अध्यायः १६२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो देवौ दामोदरनरायणौ ।
समागतान् भोजयित्वा सर्वान् ब्रह्मसुराँस्ततः ।। १ ।।
जगृहतुः प्रसादं तं हर्यर्पितं च पायसम् ।
दामोदरस्ततः प्राह महिमानं नरायणम् ।। २ ।।
इदं गुप्ततमं क्षेत्रं सर्वप्राणिसुखावहम् ।
मोक्षदं सर्वजन्तूनां वैष्णवं शैवमेव वा ।। ३ ।।
व्रह्मघ्नो गोघ्नमातृघ्नगुरुघ्नाऽर्भकघातकाः ।
स्त्रीघ्नश्चात्र ह्रदे स्नात्वा मुच्यन्ते नात्र संशयः ।। ४ ।।
स्नात्वाऽत्र सुकृती भूत्वा मृतो यायात्परं पदम् ।
क्षेत्रेऽत्र निवसन्तो ये भक्ताः सुकृतिनो हरेः ।। ५ ।।
अन्योद्धारसमर्था वै नारायणसमा मताः ।
भित्त्वाजन्मबन्धजालं प्रापयन्ति हरेः पदम् ।। ६ ।।
इडा ओजस्वती बोध्या भद्रा तु पिंगला मता ।
स्वर्णरेखा सुषुम्णाऽस्ति तया मोक्षमवाप्नुयात् ।। ७ ।।
अनायासेन वै यत्र मोक्षप्राप्तिः प्रजायते ।
नानावर्णा विकर्माणश्चाण्डाला ये जुगुप्सिताः ।। ८ ।।
किल्बिषैः पूर्णदेहाश्च प्रकृष्टैः पातकैस्तथा ।
भेषजं परमं तेषां क्षेत्रं वस्त्रापथं मतम् ।। ९ ।।
दुष्टान्धादीनकृपणान्पापान्दुष्कृतकारिणः ।
अहन्तु दयया सर्वान्नयामि परमां गतिम् ।। 1.161.१० ।।
वस्त्रापथं गता ये वै महापुण्यकृतो नराः ।
अक्षय्या ह्यजराश्चैव विदेहाश्च भवन्ति ते ।। ११ ।।
अज्ञानाज्ज्ञानतो वापि नार्या वा पुरुषेण वा ।
यत्किंचिदशुभं कर्म कृतं चापि कुबुद्धिना ।। १२।।
वस्त्रापथे प्रविष्टस्य तत्सर्वं भस्मसाद्भवेत् ।
सदा यजति यज्ञेन सदा दानं प्रयच्छति ।। १३।।
सदा तपस्वी भवति रैवताद्रौ स्थितो नरः ।
सर्वात्मना तपः सत्यं प्राणिनां रैवताचले ।। १४।।
न सा गतिः कुरुक्षेत्रे गंगाद्वारे न पुष्करे ।
या गतिर्विहिता पुंसां रैवताद्रिनिवासिनाम् ।। १५।।
रैवताद्रौ स्थिता नित्यं पांशुभिर्वायुनेरितैः ।
स्पृष्टा दुष्कृतकर्माणो यान्ति वै परमां गतिम् ।। १६।।
रेवताद्रौ वसेद् यश्च संयतात्मा समाहितः ।
त्रैलोक्यमपि भुंजानो वायुभक्षसमः स्मृतः ।।१७।।
रैवताद्रौ वसेन्मांसं लघ्वाहारो जितेन्द्रियः ।
चातुर्मास्यवृतान्येव कृतानि स्युश्च तेन वै ।। १८।।
जन्ममृत्युभयं जीत्वा स याति परमां गतिम् ।
निःश्रेयसगतिं पुण्यां तथा योगगतिं व्रजेत् ।। १९।।
नहि ब्रह्मगतिर्लभ्या जन्मान्तरशतैरपि ।
प्राप्यते रैवतबलात् प्रभावाच्छ्रीहरेस्तथा ।। 1.161.२० ।।
एकाहारस्तु यस्तिष्ठेन्मासं तु रैवताचले ।
यावज्जीवकृतं पापं मासेनैकेन नश्यति ।।।२ १।।
विघ्नैराहन्यमानोऽपि रैवतं यस्तु न त्यजेत् ।
स मुंचति जरामृत्यू जन्म चैतद्धि नश्वरम् ।।२२।।
आदेहपतनाद् ये तु सेवन्ते रैवताचलम् ।
ते मृता हंसयानेन दिव्यान् लोकान् प्रयान्ति हि ।।२३।।
संसारव्याप्तचित्तोऽपि त्यक्तमोक्षक्रियो जनः ।
रैवताद्रौ मृतः सोऽपि संसारं न पुनर्विशेत् ।।२४।।
स्वर्गाऽपवर्गयोर्हेतुरेतत्तीर्थवरं भुवि ।
यस्तत्र पंचतां याति तस्य मुक्तिर्न संशयः ।।२५।।।
जन्मान्तरसहस्रेण योगी यत्पदमाप्नुयात् ।
रैवताद्रौ परं मोक्षं मरणादधिगच्छति ।।२६।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः ।
कृमयश्चैव ये म्लेच्छाः संकीर्णाः पापयोनयः ।।।२७।।
कीटाः पिपीलिकाश्चापि ये त्वन्ये मृगपक्षिणः ।
कालेन मरणं प्राप्तास्तेऽपि देवेश्वराः स्मृताः ।।२८।।
अकामो वा सकामो वा तिर्यग्योनिगतोऽपि वा ।
रैवताद्रौ त्यजन्प्राणान् मुक्तिभाङ् नात्र संशयः ।।२९।।
रैवताद्रौ कृतवासाः स्वर्णरेखाजलाऽप्लवाः ।
दामोदरप्राणचित्ता जीवन्मुक्ता न संशयः ।।1.161.३०।।
रैवताद्रौ मृत्युकाले हरिर्दामोदरः स्वयम् ।
लक्ष्मीनारायणमन्त्रं कर्णजाप्यं प्रयच्छति ।।।३ १।।
अतिप्रसन्नचित्तेन रैवताद्रिनिवासिने ।
मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् ।।३२।।
उपदेक्ष्यामि मन्मन्त्रं स मुक्तो भविता ध्रुवम् ।
दामोदरे मृतः कोऽपि न याति नरकं क्वचित् ।।३३।।
वामनानुगृहीतास्ते सर्वे यान्ति परां गतिम् ।
प्राणानिह जनास्त्यक्त्वा जोषन्ते न पुनः क्वचित् ।।३४।।
प्रथमो रेवतीकुण्डस्ततो दामोदराह्वयः ।
नारायणाख्यस्तृतीयो मृगीकुण्डश्चतुर्थकः ।।३५।।
पञ्चमो भवकुण्डश्च षष्ठो गंगा तु गोमुखी ।
कमण्डलुः सप्तमश्चाऽष्टमो भैरवनामकः ।।३६।।
मार्कण्डेयश्च दशमो ह्येकादशस्तु दत्तकृत् ।
एते स्नाताश्च पीताश्च दृष्टाश्चाऽऽचामिता अपि ।।३७।।
स्पृष्टा अपि जनान् शुद्धान् कृत्वा मोक्षं नयन्ति हि ।
अनन्ता सा गतिस्तेषां या गतिर्योगिनां मता ।।३८।।
तेषु मुक्तिः समुद्दिष्टा पतितानां तु पावनी ।
तत्रापि सर्वकुण्डानां श्रेष्ठो नारायणो ह्रदः ।।३९।।
यथा नारायणह्रदस्तथा दामोदरो ह्रदः ।
यत्र नीत्यं श्रीहरेश्च सान्निध्यं वामनस्य च ।।1.161.४०।।
दशानामश्वमेधानां यज्ञानां यत्फलं स्मृतम् ।
तदवाप्नोति धर्मात्मा तत्र स्नात्वा न संशयः ।।४१ ।।
उपवासं तु यः कृत्वा विप्रान् साधूँश्च तर्पयेत् ।
स सौत्रामणियज्ञस्य फलमाप्नोति निश्चितम् ।।४२।।
तत्र दीपप्रदानेन ज्ञानवत्स्फुरतीन्द्रियम् ।
आरार्त्रिकप्रदानेन नैरोग्यं जायते सदा ।।।४३।।
किमत्र बहुनोक्तेन धर्मादींस्तु प्रकुर्वतः ।
श्रीहरिं वै समुद्दिश्य तदनन्तफलं भवेत् ।।४४।।
दशाश्वमेधिकं पुण्यं पुष्पदाने प्रकीर्तितम् ।
अग्निहोत्रफलं धूपे गन्धे भूदानजं फलम् ।।४५।।
मार्जने गोप्रदानस्य फलमत्र प्रकीर्तितम् ।
अनुलेपे दशगुणं माल्ये दशगुणं स्मृतम् ।।४६।।
गीते सहस्रगुणितं वाद्ये लक्षगुणं मतम् ।
दामोदरं रैवताद्रावर्चयन्ति स्तुवन्ति ये ।।४७।।
सर्वपापविमुक्तास्ते वैकुण्ठं यान्ति शाश्वतम् ।
कल्पकोटिशतैश्चापि तेषां नास्ति पुनर्भवः ।।४८।।
ये तु ध्यानं समासाद्य मुक्तात्मानः समाहिताः ।
लक्ष्मीनारायणं जापं कुर्वन्ति नियतेन्द्रियाः ।।४९।।
रैवताद्रौ स्थिता नित्यं कृतार्थास्ते जनोत्तमाः ।
तारयित्वाऽनन्तजीवान् विष्णुलोकं प्रयान्ति ते ।।1.161.५०।।
माघ्यां तथा च कार्तिक्यां साध्व्यश्च साधवस्तथा ।
दृष्टाः स्पृष्टा नताश्चैवाऽर्चिताः संभोजितास्तथा ।।५१ ।।
शुश्रूषिता मर्दिताश्च सेविता वाहितास्तथा ।
येन केन प्रकारेण यैर्जनैः सम्प्रसादिताः ।।५२।।
प्रसादिता रमा तैश्च नारायणः प्रसादितः ।
तत्र लक्ष्मीस्तथा नारायणो वै वर्तते सदा ।।५ २ ।।
साध्वीसाधुस्वरूपेण लक्ष्मीनारायणः स्वयम् ।
वस्त्रापथे विचरति जनकल्याणहेतवे ।।५४।।
तयोरनुग्रहात्कार्यं सर्वे सिद्ध्यति मानसम् ।
ऐहिकं च पारलौकिकं च सिद्ध्यति वै ध्रुवम् ।।५५।।
देहेन मनसा वाचा सेवया भोजनेन च ।
अर्पणेन च यैरत्र वस्त्रापथे तु रैवते ।।५६।।
साधवः सेविताः सम्यक् सेविताः सर्वदेवताः ।
हरिः स्वयं प्रसेवितो मोक्षं ददाति सेविने ।।५७।।
वस्त्रापथं महत्तीर्थं साधून् साध्वींश्च देवताः ।
निन्दिष्यन्ति जना ये ते यास्यन्ति नरकं ध्रुवम् ।।५८।।
भगवता नृसिंहेण चागत्य रैवते गिरौ ।
यत्र स्वर्णनदीपार्श्वे गुहायां वास आदृतः ।।५९।।
तत्स्थलं मोक्षदं पुण्यं रजोऽप्यघविनाशकम् ।
किं बहुनाऽत्र सत्तीर्थे प्रत्येकं रज इत्यपि ।।1.161.६०।।
वस्त्रापथे रैवताद्रौ पत्रं पुष्पं तृणादिकम् ।
सर्वं दिव्यं च पापघ्नं मुक्तिदं नात्र संशयः ।।६१ ।।
राज्ञाऽऽनर्तेन गोलोकात् खण्डः सौराष्ट्रसंज्ञकः ।
स्थापितो मध्यभवने पुनस्तत्र हरेर्गलात् ।।६ २ ।।
कौस्तुभखण्डआनीतस्तैजसो रैवताचलः ।
पुनश्च रेवतीनक्षत्रस्य खण्डोऽपि संस्थितः ।।६३ ।।
पुनर्मेरोस्तु शिखरं मन्दरं कुमुदं तथा ।
अरुणं चेति दिव्यानि ऊर्जयन्तो गिरिस्तथा ।।६४।।
ब्रह्मविष्णुमहेशाना यत्र तिष्ठन्ति नित्यदा ।
स्वर्णरेखा नदी दिव्या ओजस्वती तथा शुभा ।।।६५।।
कृष्णा भद्रा तथाऽन्याश्च हरेः पत्न्यः सरिद्रूपाः ।
सरस्वती तथाऽऽकाशगंगा शृंगेषु वर्तते ।।६६।।
कोऽस्य रैवतराजस्य महिम्नः पारमेति नु ।
सर्वे दिव्याः समुदितास्तस्मान्मोक्षस्थलं हि तत् ।।६७।।
भुवस्तलाद् बहिर्यावान् ततो दशगुणस्तु सः ।
पृथ्वीगर्भे प्रविष्टोऽस्ति रैवताचलभूधरः ।।६८।।
वस्त्रापथे प्रदृश्यन्ते ये प्रकीर्णकपर्वताः ।
तानि तु शिखराण्येव दृश्यन्ते न तु पर्वतः ।।६९।।
यदा ह्यागत्य पतितो विवरे रैवताचलः ।
दशयोजनमुच्छ्रायो ह्यभूत्स रैवताचलः ।।1.161.७० ।।
वेगेनैवाऽपतन्मान्द्याद्यदा पृथ्व्यामवातरत् ।
योजनानां शतं तत्र गगने भ्रमणं ह्यभूत् ।।७१।।
पूर्वोत्तरदिशाभागात् पुनः पुनर्भ्रमिं यदा ।
न्यूनवेगां ह्यकरोत् स तदा तन्मूर्धभागतः ।।।७२।।।
दक्षिणायां दिशि वेगाच्छिखराणां सहस्रकम् ।
भंक्त्वा वियुज्य चोत्कृत्य पतितं बहुविस्तरम् ।।७३।।।
व्याघ्रारण्ये पतितानि रैवतशिखराणि वै ।
तथैव तानि स्थास्यन्ति यावदाचन्द्रतारकम् ।।७४।।
सोमनाथं समारभ्य भीमनाथावधि क्षितौ ।
शिखराणि पतितानि व्याघ्रारण्यस्थलान्तरे ।।७५।।
तदत्र रैवते भागे भवं दामोदरं तथा ।
स्मृत्वा मृतिं च यास्यन्ति यास्यन्ति मुक्तिमेव ते ।।७६।।
माहात्म्यमित्युपादिश्य हरिर्दामोदरः स्वयम् ।
समाश्लिष्याऽथ तं विप्रं मुहुः पत्नीव्रतं मुहुः ।।७७।।
प्राह तीर्थाय गमने तिरोदधे स्वयं तदा ।
इति ते कथितं लक्ष्मि! पूर्वं यच्चरितं मया ।।७८।।
पठितं पाठितं यद्वा श्रावितं मोक्षदं सदा ।
नैतादृशं भवेदन्यत् किं भूयः श्रोतुमिच्छसि ।।७९।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रैवताद्रिवस्त्रापथक्षेत्रतीर्थमहिमवर्णननामैकषष्ठ्यधिकशततमोऽध्यायः ।। १६१ ।।