लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १५८
[[लेखकः :|]]
अध्यायः १५९ →

श्रीनारायण उवाच-
शृणु लक्ष्मीस्तथा नारायणश्च रैवते प्रिये ।
निवसतः सदा देवौ द्रष्टव्यौ कार्तिके सिते ।। १ ।।
तत्र दामोदरं दृष्ट्वा प्रपूज्य च विधानतः ।
पुरुषोत्तमपुर्यास्तु यात्राफलमवाप्नुयात् ।। २ ।।
माघे मासि भवं दृष्ट्वा न पुनर्जायते भवे ।
वाराणस्यां कुरुक्षेत्रे कुशस्थल्यां जनार्दने ।। ३ ।।
यत्फलं तन्निमिषार्धे दृष्ट्वा दामोदरं रमाम् ।
प्रेतत्वं नरकं वा न वस्त्रापथे मृतस्य वै ।। ४ ।।
धन्यानामपि ते धन्या देवानामपि देवताः ।
वस्त्रापथे मृतिर्येषां येषां हरे हरौ मतिः ।। ५ ।।
गोदानं तत्र कर्तव्यं ब्राह्मणानां च भोजनम् ।
पिण्डदानं च कर्तव्यं कल्पान्तं तृप्तिकारकम् ।। ६ ।।
दामोदरो भवः स्वर्णरेखा ब्रह्मेश्वरस्तथा ।
ब्रह्मकुण्डः कालमेघो नारायणह्रदस्तथा ।। ७ ।।
कालिकेन्द्रेश्वरो मृगीकुण्डउन्नबिलस्तथा ।
मंगलश्च तथा सिद्धाः सिद्धेश्वरश्च रेवती ।। ८ ।।
रेवतीकुण्ड इत्युक्तश्चक्रोद्यानं परीसरः ।
इत्येवमादितीर्थानि स्मृत्वा पापं विनाशयेत् ।। ९ ।।
धन्यो दामोदरः कुण्डो मृतानां मोक्षदः सदा ।
यत्राऽस्थि पतितं पापकृतोऽपि तं च तारयेत् ।। 1.158.१० ।।
यत्र वै पतितं भस्म देहिनं मोक्षयेत् सदा ।
यज्जलानां कणमात्रं मुखे पतितमेव च ।। १ १।।
प्रज्वालयति पापानि जन्मान्तरकृतानि वै ।
यत्तीरे कृतदानस्य श्राद्धस्याऽसीमकं फलम् ।। १२।।
अवश्यं तत्र कर्तव्यं श्राद्धं मुक्तिप्रदं तथा ।
धन्यो नारायणह्रदो यत्र श्राद्धं प्रशस्यते ।। १ ३।।
तत्तत्तिथौ हि श्राद्धस्य फलं वै कीर्तयामि ते ।
पितॄनभ्यर्च्य प्रतिपद्याप्नुयात्सुगृहे प्रियाः ।। १४।।
द्वितीयायां कृते श्राद्धे पुत्र्यो जायन्त उज्ज्वलाः ।
तृतीयायां कृते श्राद्धे जायन्ते वाजिनः शुभाः ।। १५।।
चतुर्थ्यां तु कृते श्राद्धे छागाऽजाः पशवो गृहे ।
पञ्चम्यां तु कृते श्राद्धे पुत्रा जायन्त ऐश्वराः ।। १६।।
षष्ठ्यां श्राद्धे कृते सर्वे नीरोगा द्युतिभागिनः ।
सप्तम्यां तु कृते श्राद्धे कृषिप्राप्तिर्भवेन्ननु ।। १७।।
अष्टम्यां तु कृते श्राद्धे वाणिज्ये लाभमाप्नुयात् ।
नवम्यां तु कृते श्राद्धे भवत्येकशफं बहु ।। १८।।
दशम्यां तु कृते श्राद्धे गोमहिष्यादिकं बहु ।
एकादश्यां कृते श्राद्धे वस्त्रपात्रादिकं बहु ।। १ ९।।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते च प्रभाविणः ।
द्वादश्यां तु कृते श्राद्धे वित्तं स्वर्णाऽदिकं बहु ।।।1.158.२० ।।
त्रयोदश्यां कृते श्राद्धे ज्ञातिश्रेष्ठोतिमानितः ।
चतुर्दश्यां कृते श्राद्धे युद्धे विजयवान् भवेत् ।।२१।।
अमायां सेकृते श्राद्धे सर्वान्कामानवाप्नुयात् ।
पूर्णिमायां कृते श्राद्धे बहुधा स्मृद्धिमान् भवेत्। ।।२२।।
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
तिथयः श्राद्धकर्मादौ प्रशस्ता न तथेतराः ।।।२३।।
यथा चैवाऽपरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ।।२४।।
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा ।
दत्तेन सम्यक् प्रीयन्ते श्राद्धेन पितरः प्रिये ।।।५।।
सर्वेष्वेव तु श्राद्धेषु तिलाः प्राधान्यतः स्मृताः ।
मिष्टान्नानि बहून्येव सर्पिर्गव्यं च पायसम् ।।२६।।
आपो मूलं फलं गव्यमन्नं च पेयमुत्तमम् ।
यत्किंचिन्मधुसमिश्रं श्राद्धेऽनन्तसुतृप्तिदम् ।।२७।।
नक्षत्रेषु फलं श्राद्धे कथयामि शृणु प्रिये ।
अपत्यकामो रोहिण्यां तेजस्कामो मृगोत्तमे ।। २८।।
क्रूरकर्मा तथाऽऽर्द्रायां धनकामः पुनर्वसौ ।
पुष्टिकामस्तथा पुष्ये चाऽऽश्लेषायां सुतेच्छुकः ।।।२९।।
ज्ञात्यग्र्येच्छुर्मघायां तु फाल्गुन्यां सुभगेच्छुकः ।
अपत्यभागुत्तरासु हस्ते कार्यफलेच्छुकः ।।।1.158.३ ०।।
सुपुत्रेच्छुस्तु चित्रायां स्वातौ वाणिज्यकामुकः ।
राज्येच्छुरनुराधायां श्राद्धं कुर्यान्नरः सदा ।।३ १।।
बहुपुत्रेच्छुकः श्राद्धं विशाखायां प्रवर्तयेत् ।
अधिपतीच्छुर्ज्येष्ठायां मूले त्वारोग्यकामुकः ।।३२।।
पूर्वाषाढासु तु यशस्कामः श्राद्धं समाचरेत् ।
उत्तरासु त्वषाढासु वीतशोकेच्छुकश्चरेत् ।।३३ ।।
भिषगिच्छुरभिजिति श्रवणे सद्गतीच्छुकः ।
राज्येच्छुको धनिष्ठायां कुर्याच्छ्राद्धं विधानतः ।।३४।।
भिषक्सिद्धीच्छुकः शतभिषजि श्राद्धमाचरेत् ।
अजाऽवीच्छुः पूर्वभाद्रपदायां श्राद्धमाचरेत् ।। ३५।।
गवेच्छुकश्चोत्तरायां रेवत्यां वित्तकामुकः ।
अश्विन्यामश्वसंकल्पो भरण्यामायुरिच्छुकः ।।३६।।
श्राद्धं कुर्याद् रेवताद्रौ दामोदरसमीपतः ।
नारायणह्रदे चैव कुण्डे दामोदरे तथा ।।३७।।
ये तु धर्मव्यपेतेषु चारित्र्याऽपगतेषु च ।
हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्रेत्य नश्यति ।।३८।।
विद्यावेदव्रतस्नाताः सदाचारपरास्तथा ।
मातापित्रोः सेवकाश्च सत्यधर्मपरास्तथा ।। ३९।।
पुण्यतीर्थाऽभिषिक्ताश्चाऽवभृथस्नायिनस्तथा ।
अक्रोधनास्तथा क्षान्ताः समर्थाश्च जितेन्द्रियाः ।।1.158.४०।।
यतयो मोक्षधर्मज्ञा योगज्ञाः सुव्रतास्तथा ।
ये चेतिहासं प्रयताः श्रावयन्ति जनान्सदा ।।४१ ।।
वेदवेदांगवेत्तारः शास्त्रदर्शनसद्विदः ।
धर्मशास्त्रपुराणज्ञाः साध्व्यश्च साधवस्तथा ।।४२।।
अच्युतगोत्रा ये स्युस्ते सर्वे वै पंक्तिपावनाः ।
सर्वभूतहितान्सर्वान् श्राद्धेष्वेतान् निमन्त्रयेत् ।।४३।।
तेषु वै भुंजमानेषु पितरस्तत्र भुंजते ।
देवास्तु पितरो नाम निर्मिता ये स्वयंभुवा ।।४४।।
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा ।
विश्वे चाग्निमुखा देवास्तान् प्रवक्ष्यामि नामतः ।।४५।।
बलं धृतिर्विपाप्मा च पुण्यकृत् पावनास्तथा ।
पार्ष्णिः क्षेमा समूहश्च दिव्यसानुस्तथैव च ।।४६।।
विवस्वान् वीर्यवान् ह्रीमान् कीर्तिमान् कृत एव च ।
जितात्मा मुनिवर्यश्च दीप्तरोमा भयंकरः ।।४७।।
अनुकर्मा प्रतीतश्च प्रदाताऽत्यंशुमाँस्तथा ।
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ।।४८।।
स्रजो वज्री वरी चैव विश्वेदेवाः सनातनाः ।
विद्युद्वर्चाः सोमवर्चाः सूर्यश्रीश्चेति नामतः ।।४९।।
सोमपः सूर्यसावित्री दत्तात्मा पुण्डरीयकः ।
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ।।।।1.158.५०।।
चमूहरः सुरेशश्च व्योमारिः शंकरो भवः ।
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ।।५१।।
गणितः पञ्चवीर्यश्च ह्यादित्यो रश्मिवाँस्तथा ।
सप्तकृत्सोमवर्चाश्च विश्वकृत् कविरित्यपि ।।५२।।
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च ।
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ।।५३।।
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा ।
अंगिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ।।५४।।
महायोगेश्वरा एते पितरः पूर्वजाः स्मृताः ।
अष्टाशीतिसहस्राणि बालखिल्या महर्षयः ।।५५।।
अन्ये गोत्रप्रवराश्च सशाखाः पितरः स्मृताः ।
अग्निष्वात्ता बर्हिषदा आज्यपाः सोमपास्तथा ।।५६।।
गणश्चतुर्विधश्चायं पितरस्तेऽपि पूर्वजाः ।
ब्रह्मणा निर्मिता देवपितरस्ते चिरायुषः ।।५७।।
श्रवणाः प्रेतका याम्या नारकाः पितरश्च ते ।
सांवत्सराश्च आग्नेया जन्माप्ताः पितरश्च ते ।।५८।।।
तदान्ये वंशकर्तारो मृतास्ते ब्रह्मलोकगाः ।
ऐश्वराः पितरश्चैते विज्ञेया भागकांक्षिणः ।।५९।।
त एते सत्सु पात्रेषु भुंजते यान्ति तृप्तिकम् ।
तेभ्यश्चान्नं हविर्मृष्टं फलं जलं च पायसम् ।।1.158.६० ।।
विविधं वै प्रदातव्यं तृप्ता रक्षन्ति वंशजान् ।
दामोदरेऽर्पयेत्पिण्डान् स्वर्णरेखानदीतटे ।।६१।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
माता पितामही चेव तथैव प्रपितामही ।।६२।।
मातामहस्तत्पिता च प्रमातामहकादयः ।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।।६ ३ ।।
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय पिण्डमेनं ददाम्यहम् ।।६४।।
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय पिण्डमेनं ददाम्यहम् ।।६५।।
अजातदन्ता ये केचिद् ये तु गर्भे प्रपीडिताः ।
तेषामुद्धरणार्थाय पिण्डमेनं ददाम्यहम् ।।६६।।
अग्निदग्धाश्च ये केचिच्छीतनष्टास्तथाऽपरे ।
अनग्निनष्टा ये चान्ये तेभ्यः पिण्डं ददाम्यहम् ।।६७।।
विद्युच्चौरहता दावदाहे ये च मृतास्तथा ।
हिंसव्याघ्रहता ये च तेभ्यः पिंडं ददाम्यहम् ।।६८।।।
दंष्ट्रिशृंगिनखिक्ष्वेडिशस्त्रिपाशिहताश्च ये ।
आत्मघातिक्षुद् घातिनस्तेभ्यः पिण्डं ददाम्यहम् ।।६९।।
वनेऽरण्ये वर्त्ममध्ये तृषया क्षुधया हताः ।
भूतप्रेतपिशाचैश्च तेभ्यः पिण्डं ददाम्यहम् ।।1.158.७०।।
रौरवे ये च तामिस्रे कालसूत्रे च ये स्थिताः ।
तेषामुद्धरणार्थाय पिण्डमेनं ददाम्यहम् ।।७१।।
अनेकयातनासंस्थाः प्रेतलोकं च ये गताः ।
तेषामुद्धरणार्थाय पिण्डमेन ददाम्यहम् ।।७२।।
दुर्गतिं समनुप्राप्य येऽभिशापादिना हताः ।
तेषामुद्धरणार्थाय पिण्डमेनं ददाम्यहम् ।।७३।।
नरकेषु समस्तेषु यमदूतवशंगताः ।
तेषामुद्धरणार्थाय पिण्डमेनं ददाम्यहम् ।।७४।।
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ।
अपि ये वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ।।७५।।
जात्यन्तरसहस्रेषु ये भ्रमन्ति स्वकर्मभिः ।
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ।।७६।।
दिव्यन्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।
असंस्कृतमृता ये च तेभ्यः पिण्डं ददाम्यहम् ।।७७।।
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम ।
ते सर्वे तृप्तिमायान्तु पिण्डेनाऽनेन सर्वदा ।।७८।।
अबान्धवा बान्धवा ये तथाऽन्यजनिबान्धवाः ।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।।७९।।
पितृवंशे मृता ये च मातृवंशे च ये मृताः ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ।।1.158.८०।।
लुप्तपिण्डाः कुले ये मे पुत्रदारविवर्जिताः ।
क्रियालोपगता ये च जात्यन्धाः पंगवश्च ये ।।८ १ ।।
विरूपा आमगर्भाश्च ज्ञाताऽज्ञाताः कुले मम ।
तेषा पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।।।८२।।
आ ब्रह्मणः पितृवंशमातृवंशभवाश्च ये ।
जाताः कुलद्वये ये मे तेभ्यः पिण्डं ददाम्यहम् ।।८३।।
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम ।
ते सर्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः ।।८४।।
आब्रह्मस्तम्बपर्यन्तं यत्किंचित्सचराचरम् ।
मया दत्तेन पिण्डेन तृप्तिमायातु सर्वशः ।।८५।।
कुण्डे दामोदरे स्नानं करोम्यात्मविशुद्धये ।
सूर्यलोकादिसम्प्राप्तिसिद्धये प्रेतमुक्तये ।।८६।।
स्नात्वाऽथ तर्पणं कुर्याद् देवादीनां यथाविधि ।
आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ।।८७।।
वैराजा ब्रह्ममार्गस्थास्तथाऽन्ये पुण्यलोकगाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।।८८।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य होमाध्यासितमूर्तयः ।।८९।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ।।1.158.९० ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु पिण्डेषु मया दत्तेषु भूतले ।।९१ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या यन्मयैतदुदाहृतम् ।।९२।।।
मातामहस्तृप्तिमेतु तृप्तिमुपैतु तत्पिता ।
विश्वे देवा यान्तु तृप्तिं तृप्तिं यातु हरिः प्रभुः ।।९३।।
यस्य श्राद्धे यतिर्भुंक्ते तस्य भुंक्ते हरिः स्वयम् ।
यस्य श्राद्धे हरिर्भुंक्ते तस्य भुंक्ते जगत्त्रयम् ।।९४।।
साधवो वैष्णवाः श्राद्धे भोजनीया विशेषतः ।
साध्व्यश्च भोजनीया वै पुण्यमक्षय्यतृप्तिकृत् ।।९५।।
यो वै यतीननादृत्य भोजयेदितरान् द्विजान् ।
विजानन् वसतो ग्रामे कव्यं तद्याति राक्षसान् ।।९६।।
हरेर्भक्तो यतिर्यत्र श्राद्धे भुंक्ते तदा तु तत् ।
प्रसंपूर्णं भवेत् श्राद्धं विनापि श्राद्धसम्पदम् ।।९७।।
अन्नक्षीरघृतक्षौद्रैरैक्षवेण च तर्पिताः ।
प्राप्नुवन्त्यक्षयां तृप्तिं सर्वे पितृगणा अपि ।।९८।।
निर्दोषं पायसं चान्नमृषिधान्यानि चाब्धिजे ।
अर्पयेत् सर्वपितृभ्यस्तेन तुष्यन्ति ते सदा ।।९९।।
पयो दधि घृतं नवनीतं गवां तु पावनम् ।
महिषीणां घृतं श्रेष्ठं न तु तत्पय उच्यते ।। 1.158.१ ००।।
मातामहोऽथ दौहित्रो भागिनेयश्च मातुलः ।
मातृष्वसेयस्तज्जश्च मातुलेयस्तथैव च ।। १० १।।
जामाता श्वशुरश्चैव भार्याभ्राता च तत्सुतः ।
ऋत्विग्गुरुरुपाध्याय आचार्यः श्रोत्रियस्तथा ।। १०२।।
सुव्रताः साधुसाध्व्यश्च ह्येते श्राद्धेषु पावनाः ।
युगानुरूपधर्मज्ञा विद्याचारादिरक्षकाः ।।१ ०३।।
कालः कुतुपसंज्ञश्च तथा नेपालकम्बलः ।
रौप्यं दर्भास्तिलाः श्राद्धे दौहित्रश्चेति पावनाः ।। १ ०४।।
अह्नो मुहूर्ता विख्याता दशपंच च सर्वदा ।
तत्राऽष्टमो मुहूर्तो यः स कालः कुतुपः स्मृतः ।। १०५।।
अगस्त्यं भंगराजं च तुलसी शतपत्रिका ।
चम्पकं तिलपुष्पं च पितॄणां वल्लभानि षट् ।। १ ०६।।
पिण्डमात्रं प्रदातव्यमसत्त्वे द्रव्यविप्रयोः ।
श्राद्धीयाऽहनि संप्राप्ते श्राद्धं शक्तिवदाचरेत् ।। १०७।।
उदकुंभं प्रदद्याद्वा फलं कदलमेव वा ।
तृणानि वा गवे दद्यान्न तु शून्यं दिनं नयेत् ।। १ ०८।।
वैष्णवैस्तु क्रमात्प्राप्तं श्राद्धमेकादशीदिने ।
द्वादश्यामपि कर्तव्यं पितरो वैष्णवा यतः ।। १० ९।।
श्राद्धं कृत्वा चोपवसेदाघ्राय पितृसेवितम् ।
श्राद्धे प्राप्तोऽतिथिर्भोजनीयः स्याच्छ्राद्धपूर्णता ।। ११ ०।।
अरोगोऽविकलो भोक्ता चिरायुः पुत्रपौत्रवान् ।
अर्थवानर्थभोगी च श्राद्धकर्ता विवर्धते ।। ११ १।।
देवे श्राद्धं चामृतं स्यान्मर्त्ये भोज्यं पशौ तृणम् ।
नागे वायुर्यत्र योनौ प्रेते तद्भोजनं भवेत् ।। १ १२।।
तत्तदन्नतयैवेत्थं श्राद्धान्नं सर्वयोनिषु ।
प्राप्यते प्राणिभिस्तस्माच्छ्राद्धं धर्मः सनातनः ।। १ १३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रेवताचले दामोदरकुण्डे श्राद्धे तिथिफलं नक्षत्रफलं सत्पात्रं विविधपितरस्तद्देयसामान्यमित्यादिनिरूपणनामाऽष्टपंचाशदधिकशततमोऽध्यायः ।। १५८।।