लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४७
[[लेखकः :|]]
अध्यायः १४८ →

श्रीनारायण उवाच-
असुराणां तदा चाऽऽसीत्कश्मलं परमं महत् ।
विचक्रमे पदैकेन क्षितिं स वा मनो रमे! ।। १ ।।
सप्तस्वर्गान् द्वितीयेन तृतीयार्थं न शिष्यते ।
अथ ब्रह्मा मरीच्याद्याः सनन्दाद्याश्च योगिनः ।। २ ।।
वेदोपवेदा नियमा यमाः पुराणसंहिताः ।
यतयो मुनयो ब्रह्मचारिणश्चोर्ध्वरेतसः ।। ३ ।।
ववन्दिरे पदं सत्याक्रान्तं श्रीवामनस्य ते ।
तोयैः पुष्पैश्चन्दनैश्च दिव्यगन्धानुलेपनैः ।। ४ ।।
सुगन्धधूपदीपैश्च लाजाऽक्षतफलादिभिः ।
स्तवनैर्जयशब्दैश्च शंखदुन्दुभिनिःस्वनैः ।। ५ ।।
नृत्यवादित्रगीतैश्च तत्सामर्थ्यमयैस्तथा ।
पुपूजुर्विजयस्यास्य महोत्सवमघोषयत् ।। ६ ।।
असुरास्तु प्रज्वलिता हृत्सु नैतद् विषेहिरे ।
कपटिनो वामनस्याऽसत्यक्रमस्य सर्वथा ।। ७ ।।
देवपक्षप्रपातेश्च वध एवास्ति शासनम् ।
इत्यायुधानि जगृहुर्दैत्या ह्यासुरदानवाः ।। ८ ।।
सहेतिहस्तका उग्राः स्वार्थमात्रपरायणाः ।
अनिच्छन्तो बलेः राज्ञः प्राद्रवज्जातमन्यवः ।। ९ ।।
तान्प्रति पार्षदा विष्णोर्धृतशस्त्रास्त्रपाणयः ।
बलो नन्दः सुनन्दोऽथ प्रबलः कुमुदस्तथा ।। 1.147.१० ।।
विश्वक्सेनः कुमुदाक्षो गरुडः सात्त्वतस्तथा ।
जयन्तः श्रुतदेवश्च पुष्पदन्तस्तथाऽपरे ।। ११ ।।
सर्वे नागायुतबलाश्चमूं ते जघ्नुरासुरीम् ।
बलिस्तु वारयामास दैत्यान् दानवपुंगवान् ।। १ २।।
मा युध्यत निवर्तध्वं कालो नाऽस्माकमर्थदः ।
यो नो भवाय देवोऽभूद् दिवौकसां विपर्यये ।। १ २।।
स एव भगवानद्याऽस्मत्तो विपर्ययं गतः ।
तस्मात्पराजयं प्राप्य स्थेयं तच्छासनेऽधुना ।। १४।।
प्राप्ते पुनस्तु समये विजेष्यामो हरेर्बलात् ।
दैत्या वाक्यं बलेः श्रुत्वा विविशुस्ते रसातलम् ।। १५।।
अथाऽत्र गरुडः पाशैर्बलिं बबन्ध वारुणैः ।
हाहाकारो महानासीद् ब्रह्माण्डेऽत्र स्थले स्थले ।। १६ ।।
वामनः प्राह बद्धं तं राज्यहीनं श्रियोज्झितम् ।
पदानि त्रीणि दत्तानि तत्रैकमवशिष्यते ।। १७।।
द्वाभ्यां क्रान्तं तव राज्यं तृतीयमुपकल्पय ।
प्रतिश्रुतमदातुस्ते नरके वसतिर्ध्रुवा ।। १८।।
विप्रलब्धेः फलं भुंक्ष्व निरयं कतिचित्समाः ।
एवं विप्रकृतो भक्तः प्राह देवं हि रञ्जयन् ।। १९ ।।
न मे वचो व्यलीकं स्यात् तवानुग्रहकारणात् ।
मच्छरीरं तृतीयस्य पदस्यार्थे समर्पितम् ।।1.147.२ ० ।।
तव पाशश्च पादश्च मम स्यादभवाय हि ।
श्लाध्यश्चासुरभावानां परोक्षस्थितिको गुरुः ।। २ १।।
पितामहो मम देव त्वया रक्षित एव ह ।
प्रहलादस्तद्वदत्रापि भवपाशात्सुरक्षितः ।। २२।।
तव हस्तकृतः पाशो न पाशः किन्तु मुक्तये ।
राज्यं स्वर्ग सुखं बन्धुर्जीवनं मरणं गुरुः ।।२३।।
मुक्तिः पाशश्च यत्किंचित् तन्मे त्वमेव वर्तसे ।
नान्यं जानामि सुखदं बन्धदं मोक्षदं च वा ।।।२४।।।
आसनाच्च तदागत्य प्रह्लादः प्राह केशवम् ।
त्वया दत्ते पदे मोहोऽस्यात्र त्वया विनाशितः ।। २५।।
स एवानुग्रहो जातस्त्वां विना को विमोचयेत् ।
सन्ध्यावली बलेः पत्नी प्रांजलिः प्राह माधवम् ।।।२६।।
त्वया दत्तं त्वया भुक्तं त्वयैवोपहृतं तथा ।
तव क्रीडामयं सर्वं मूढ स्वामित्ववैभवाः ।।२७।।
ब्रह्मोवाच तदा देवं मुञ्चैनं सात्त्वतं बलिम् ।
आत्मनिवेदिनं भक्तं हृष्यन्तं बन्धनेऽपि यत् ।।२८।।
हृतं सर्वस्वमेवाऽस्य बन्धनं चापि संकृतम् ।
शरीरं चार्पितं तेन नाऽयमर्हति निग्रहम् ।।२९।।
वामनः प्राह मद्भक्तेऽहंममत्वे तु मायया ।
अहिते यदि राज्यादेस्तदा कोऽनुग्रहो नु मे ।।1.147.३० ।।
जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः ।
यदि नैव विमुह्येत सोऽयं त्वनुग्रहो मम ।।३ १ ।।
यदि मुह्येत तन्मोहं नाशयामि प्रसह्य वै ।
तदापि मन्मति स्याच्चेदजैषीदजयां हि सः ।।।३२।।
कीदृशोऽयं मम भक्तः परीक्षितो मयाऽधुना ।
क्षीणरिक्थश्च्युतः स्थानाद् बद्धश्चैवापमानितः ।।३३ ।।
गुरुणा प्रतिसिद्धोऽपि सत्य जहौ न मत्कृते ।
छलेन याचितः सर्वस्वं बलात् हृतवानहम् ।।३४।।
तथापि मम दासत्वं नैव त्यजति सन्मतिः ।
तस्मान्नाहं त्यजाम्येनं मदाराधनतत्परम् ।।३५। ।
रसातलं शुभं लोकं ददाम्यस्मै समृद्धिमत् ।
सर्वेषां दानवानां च नागानां यादसामपि ।। ३६।।
राजानं तु बलिं कुर्वे यावदाभूतसम्प्लवम् ।
मन्वन्तरे च सावर्णौ पुनश्चेन्द्रो भविष्यसि ।। ३७।।
बले यमनुगृह्णामि तत्सर्वं विधुनोम्यहम् ।
मानं मोहं विनाश्यैव पुनः स्मृद्धं करोमि तम् ।। ३८।।
बलिः प्राह तदा देवं नाथाऽऽप्तं यादृशं मया ।
तादृशं नान्यलब्धव्यं वच्मि किं मेऽतिधन्यताम् ।।३ ९।।
तृतीयचरणार्थं मे शिरश्चात्राऽवशिष्यते ।
निधेहि चरणं तत्र सर्वं प्राप्तं मया भवेत् ।।1.147.४० ।।
हरिः सकरुणस्तस्य न्यधान्मूर्ध्नि पदं स्वकम् ।
तृतीयं क्रममासाद्य प्रसम्पूर्णमनोरथः ।।४१।।
बलिं प्रसह्य भारेण रसातलमवानयत् ।
तत्र राज्ये नियुयोज ज्ञातिभिः परिवारितम् ।।४२।।
बलिस्तं वामनं प्राह भगवन् पद्मकोमले ।
पत्तले ते मम लोमशूलाः प्रोता हि दुःखदाः ।।४३।।
क्व दैत्यस्य वपुर्वज्रं क्व हरेः पादपंकजम् ।
पादे पीडाऽभवद् यस्मात्कुरु नाथ मयि क्षमाम् ।।४४।।
इति कृत्वा बलिस्तत्र लिलेह जिह्वया पदम् ।
चुचुम्ब पत्तलं प्रेम्णा कोमलं मोक्षदं मुहुः ।।४५।।
यल्लाभे लब्धमेवेदं सर्वं यत्र प्रतिष्ठितम् ।
कथं तल्लेहनं न स्यादानन्दामृतपानदम् ।।४६।।
हरिः प्राह बलेऽलं तै भक्त्या तुष्टोऽस्मि वाञ्छितम् ।
शृणु तद् यदि किंचित्स्यान्न मेऽदेयं तवाऽस्ति यत् ।।४७।।
बलिः प्राह सदा त्वेतच्चरणं मे गृहे वसेत् ।
शश्वत्प्रपूजनार्थाय दैत्याघक्षालकं शुभम् ।।४८।।
कूपां कुरु मयि श्रीश सदा रक्षां विधेहि मे ।
न पुनर्दैत्यतां यायां पार्षदं कुरु मां प्रभो ।।४९।।
हरिः प्राह तदा रक्षां करिष्ये द्वारसंस्थितः ।
सुदर्शनं च मे चक्रं राज्यरक्षां करिष्यति ।।1.147.५० ।।
नाहं बलिं विना तिष्ठे मां विना न बलेः स्थितिः ।
तुभ्यं दर्शनदानाय तिष्ठामि तव गोपुरे ।।।५ १ ।।
त्वच्छासनाऽतिगान्दुष्टाँश्चक्रं मे सूदयिष्यति ।
रक्षयिष्ये सदाऽहं त्वां सकुटुम्बपरिच्छदम् ।।५२। ।
सदा सन्निहितं मां त्वं द्रक्ष्यसे भवने तव ।
मम कृपावशात्ते ह्यासुरो भावो विनङ्क्ष्यति ।।५३।।।
कुरु रासातलं राज्यं सुतले ते पितामहः ।
प्रहलादोस्ति मम भक्तः पाताले हाटकेश्वरः ।।५४।।
शंभुश्चास्ति मम भक्तस्तत्र तत्र वसाम्यहम् ।
गदामादाय गोविन्दो वसामि बलिमन्दिरे ।। ५५ ।।
वामनो भगवान् साक्षाद् कृत्वा रूपान्तरं ततः ।
बले सौधे निवसति सदा रक्षणहेतवे ।।५ ६ ।।
प्रतिगृह्य बलेर्लोकान् वटुवेषेण वामनः ।
महेन्द्राय समुकुटहारतिलकभूषितम् ।।५७।।
कृत्वा मंगलसत्कार्यं ददौ राज्यं त्रिलोकगम् ।
ततो देवाः सगन्धर्वाः ऋषयश्च महौजसः ।।५८।।
चतुर्दशस्तरावासाः पुपूजुस्त्विन्द्रमच्युतम् ।
यज्ञान्तिमस्तदा होमः सश्रीफलसमेधितः ।। ५९ ।।
विष्णुना चेन्द्रहस्तेन कारितस्तत्र पूर्तकृत् ।
शुक्रं प्राह हरिस्तत्र कर्मच्छिद्रं तथाऽऽक्रमम् ।।1.147.६ ०।।
वैषम्यं परिहार्यं च त्वया वै गुरुणा यतः ।
शुक्रः प्राह हरिं यत्र कर्मद्रष्टा भवान्मतः ।।६ १ ।।
कुतस्तत्कर्मवैषम्यं यज्ञेशो यत्र पूजितः ।
मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ।।।५।।
सर्वं जातं तु निश्छिद्रं तव साक्षादुपस्थितेः ।
पूर्णाहुतिं विधायाऽवभृथस्नानं च वारिधौ ।।६३।।
सोमनाथे महाक्षेत्रे कृतवन्तश्च याज्ञिकाः ।
विष्णुना प्रेषिताः सर्वे गता स्वस्वनिकेतनम् ।।६४।।
त्रैलोक्यं महदैश्वर्यमवाप त्रिदशेश्वर ।
अथ प्रजापतिर्ब्रह्मा विष्णुस्तथा च शंकरः ।।६५।।
दक्षभृग्वंगिरोमुख्या देवर्षिपितृभूमिपाः ।
कश्यपस्याऽदितेः प्रीत्यै सर्वलोकस्य शान्तये ।।६६।।
दिक्पाला लोकपालाश्च ह्यकुर्वन् वामनं पतिम् ।
ऋषीणां च मुनीनां च देवानां भूभृतः तथा ।।६७।।
लोकानां लोकपालानां धर्माणां यशसां श्रियः ।
व्रतानां दानधर्माणां यज्ञानां पुण्यकर्मणाम् ।।६८।।
मङ्गलानां विभूतीनां तथा स्वर्गाऽपवर्गयोः ।
उपेन्द्रं कल्पयाञ्चक्रे पतिं सर्वविभूतये ।।६९।।
तदा सर्वे मुमुदिरे वामनं प्रणिपत्य च ।
गताः स्वस्वराजधानीमिन्द्रोऽनुजं तु वामनम् ।।1.147.७० ।।
देवयानेन सौधं स्वं नीत्वाऽपूजयदच्युतम् ।
प्राप्य त्रिलोकजं राज्यं चोपेन्द्रभुजरक्षितः ।।७१।।
महेन्द्रो मुमुदे देवाः सुखिनो वामनाश्रिताः ।
इत्थं सुरक्षिताः सेन्द्रदेवाः श्रीविष्णुना पुरा ।।७२।।
देवानां परमो हर्षः सञ्जातो वामनार्पितः ।
निवासाय मनश्चक्रे वामनो वामनस्थलीम् ।।७३।।
वामनेन पुरा यत्राऽर्थिता भिक्षा मुहुर्मुहुः ।
बलेस्तु निग्रहात् तद्वै पुर दैत्यैर्विनाशितम् ।।७४।।
पुरं सर्वं तथा स्मृद्धिं निन्युदैत्या रसातलम् ।
ततस्तं ब्राह्मणं गर्गं पप्रच्छ भगवान्प्रभुः ।।७५।।
कस्मिन्स्थाने मया कार्यं वैष्णवं नगरं वद ।
यत्र सौख्यं तथा मुक्तिर्नॄणां स्याद् भवबन्धनात् ।।७६।।
वस्त्रापथे रैवतस्य पश्चिमे वामनस्थली ।
नगरी कारिता विश्वकर्मणा विप्रसात्कृता ।।७७।।
पत्नीव्रतेन विप्रेण राज्यं तस्याः कृतं पुरा ।
वंशपरम्पराप्राप्तं युगान्तेऽन्यकरस्थितम् ।।७८।।
तीर्थानां रैवते सार्धकोटित्रयं वसत्यपि ।
भद्रा मधुमती चोर्जस्वती स्वर्णसुरक्षिका ।।७९।।
सर्वा वै भगवत्पत्न्यो नदीरूपेण संस्थिताः ।
यन्नामस्मरणाद् यत्र स्नानाद् दानाच्च तीर्यते ।।1.147.८०।।
प्रतिकल्पं महायज्ञा भवन्ति बलिना कृताः ।
क्वचिद् हिमगिरेः प्रान्ते क्वचिद्भूमौ तु पुष्करे ।।८१।।
क्वचिच्च रैवते त्वद्रौ नर्मदायास्तटे क्वचित् ।
कल्पान्तरे वामनोऽयं नर्मदायास्तटे बलेः ।।८२।।
यज्ञे गत्वा बलिं बध्वा त्रिलोकीं तु हरिष्यति ।
एवं वामनरूपाणि सहस्राणि भवन्ति वै ।।८३।।
कल्पे कल्पे चतुष्क्यां च भिन्ना वै वामनाः स्मृताः ।
नान्तोस्ति मेऽवताराणां दिङ्मात्रं प्रोच्यते मया ।।८४।।
एतत्ते सर्वमाख्यातं वामनं वैभवं प्रिये ।
वद लक्ष्मि! ततः पुण्यं हृद्यं श्रोतुं किमिच्छसि ।।८५।।
इति श्रीलक्ष्मीनारायणीयसहिताया प्रथमे कृतयुगसन्ताने बलेः पाशबन्धनं, रसातलराज्यदानं, वामनस्य बलिगृहे वासः, इन्द्राय त्रिलोकीदानम्, अवभृथस्नानं, वामनस्थलीनाम्नी पुरी कारितेत्यादिनिरूपणनामा सप्तचत्वारिंशदधिकशत-
तमोऽध्यायः ।।१४७।।