लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १३७
[[लेखकः :|]]
अध्यायः १३८ →

श्रीनारायण उवाच-
नारायणः स्वयं लक्ष्मीपतिः लक्ष्मि! सुलक्ष्मकृत् ।
देवानां हितकार्याय सर्वार्पणं करोति वै ।। १ ।।
सुता तूत्तानपादस्य कल्याणीनामकन्यका ।
हिरण्यकशिपोः पत्नी सुषुवे चतुरः सुतान् ।। २ ।।
प्रह्लादश्चापि संह्लाद आह्लादो ह्लाद एव ते ।
प्रथमस्तत्र मद्भक्तो महातेजा बभूव ह ।। ३।।
महापुरुषसेवायां त्यक्तान्यः सर्वथाऽभवत् ।
ब्रह्मण्यः शीलसम्पन्नः सत्यवर्तनमानसः ।। ४ ।।
आत्मेव सर्वलोकानां हृदयंगम एव सः ।
महतां पादसेवायां किंकर इव वर्तते ।। ५ ।।
दीनदुःखहरः सौम्यः पर्युपासितमाधवः ।
विद्याभक्तिप्रभुशक्तिस्मृद्ध एव तु जन्मतः ।। ६ ।।
गुरुगोविप्रभक्तश्च व्यसनादिविवर्जितः ।
अनित्याऽशुचिदुःखानि जानन् तत्त्वानि दैहिके ।। ७ ।।
नाऽभूदासक्त ईर्ष्यादिमायाकार्यविवर्जितः ।
न बालक्रीडनकेऽस्ति प्रसन्नो वै मनागपि ।। ८ ।।
क्रीडा तस्य हरेर्मूर्तौ सुहृत् तस्य हरिः स्वयम् ।
अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ ।। ९ ।।
सर्वावस्थासु कार्येषु - मनोवाक्कायकर्मभिः ।
नान्यं जानाति वै विष्णोर्नारायणात् सनातनात् ।। 1.137.१० ।।
यस्मिन्महागुणाः सर्वे सात्त्वतानां सदा मताः ।
वासुदेवे हरौ कृष्णे तस्य नैसर्गिकी मतिः ।। १ १।।
जगत्प्रति सुषुप्तः स जागर्ति श्रीहरिं प्रति ।
स्वपन् श्वसन् समुत्तिष्ठन् चलन् पार्श्वं विवर्तयन् ।। १२।
प्लवमानः क्षुतौ पश्यन् रसन् जिघ्रन् वदन् स्पृशन्।
पिबन् क्षलन् प्रभुंजानो मिलन् किंचिद्विचारयन् ।। १३।।
नान्यवृत्तिर्हरौ वृत्तिं रक्षन् गृणन् हरे हरे ।
ध्यायति स्मरति प्रतिक्षणं चिन्तयते प्रभुम् ।। १४।।
क्वचिदश्रूणि वै प्रेम्णा विमुंचति हरिं स्मरन् ।
क्वचिद्धसति देवं स दिव्यं पश्यन् हृदि स्थितम् ।। १५।।
क्वचिदुद्गायति नामान्यतिप्रेम्णा हरेः स्वयम् ।
क्वचिन्नृत्यति प्रेमात्मा हरौ द्रवति च क्वचित् ।। १६।।
क्वचित्स्पृष्टो दिव्यमूर्त्या विलीनो जाड्यमेति सः ।
एवं ब्रह्मरसप्लुतो नारायणे सुवर्तते ।। १७।।
क्षुधा न तृषा तस्य न भूषा नांगमार्जनम् ।
न वस्त्रादिसमीभावो नान्यच्चित्ते वसत्यदः ।। १८।।
नेत्रे हरिर्मुखे कृष्णो जिह्वायां हरिरेव च ।
बाह्ये चैवान्तरे कार्ये हरिर्यस्याश्रयोऽभवत् ।। १९।।
स काले चोपनीतः सन् गुरोर्गेहेऽवसत् सुधीः ।
गुरुः पुरोहितस्तस्य काव्यश्चासुरपूजितः ।।।1.137.२० ।।
काव्यस्य तस्य शुक्रस्य सुतौ द्वौ शास्त्रपारगौ ।
आद्यः षण्डोऽपरोऽमर्कस्तौ राज्ञार्पितपुत्रकम् ।।।२ १ ।।
पाठयामासतुः पाठ्यानर्थानासुरभावनान् ।
तथा च सामवेदादीन् ग्राह्यं गृह्णाति नाऽपरम् ।।।२।।
दैव्योऽदैव्यो महाविद्या बह्व्यः सर्वाः प्रपाठिताः ।
गुरुप्रोक्तं हि तत्सर्वं शुश्रावानुपपाठ च ।।।२३ ।।
यया मोक्षो भवेत् तां स सम्यक् गृह्णाति भावतः ।
असद्ग्रहाश्रयां चान्यां विद्यां त्यजति चान्तरात् ।।२४।।
अधीत्य सर्ववेदाँश्च शास्त्राणि विविधानि च ।
कस्मिँश्चिदथ काले च गुरुणा सह दैत्यजः ।।२५।।
पितुः समीपमागत्य ववन्दे पातयोः पतन् ।
तं परिष्वज्य बाहुभ्यां तनयं शुभमानसम् ।।२६।।
अंकमारोप्य पप्रच्छ हिरण्यकशिपुः पिता ।
प्रह्लाद! चिरकाले त्वं गुरोर्गेहे निवेशितः ।।२७।।।
शिक्षितं गुरुणा श्रेष्ठं तन्ममाऽऽचक्ष्व साधु यत् ।
प्रह्रादस्तु नमस्कृत्य प्रहृष्टः सन् जगाद तत् ।।।२८।।
गृहजाल महायाम्यं परित्यज्याऽऽत्मवित् पुमान् ।
आत्ममालं हृच्छयनं परिष्वज्याऽऽत्मना यजेत् ।।।२९।।
सर्वविद्यार्थसंचारी योऽस्ति श्रीपरमेश्वरः ।
स वै सर्वगतः साधुरर्थोऽन्योऽर्थस्त्वपार्थकः ।।1.137.३ ०।।
श्रुत्वा पुत्रगिरो विष्णुभक्तिप्रवाहगर्भिताः ।
दैत्यस्तु प्रहसन् प्राह गुरून् पुत्रप्रशासने ।।।३ १।।
बालबुद्धिः स्वच्छवस्त्रसमा पार्श्वस्थरोपिणी ।
विष्णुपक्षिकृतो भेदे बुद्धावस्य कथं गतः ।।।३२।।
यथा न भिद्यते चाऽस्याऽपक्वा बुद्धिस्तथाऽर्थतः ।
शासथैनं पूज्यपादाः पुनर्नैवं वदेदयम् ।।३ ३।।
तदा वै गुरवस्तं स्वं गृहमानीय सामभिः ।
समपृच्छन्त केनायं विष्णुरर्थोऽधिशिक्षितः ।।।३४।।
नाऽयमर्थो दैत्यपक्षसुखदस्तं परित्यज ।
स्वतो वा परतस्तेऽयमर्थो विष्णुमयः कुतः ।।३५।।
प्रह्लादः प्राह सर्वात्मा नारायाणपरेश्वरः ।
सर्वान्तरात्मा दिशति भज नारायणं सदा ।।।३६।।
गुरुः प्राह त्वया प्रोक्तो नारायणः स ते पिता ।
नान्यो नारायणः कश्चित्तं भजस्व सुखी भव ।।३७।।
शिष्यः प्राह गुरो सत्यं नारायणस्य भक्तितः ।
नारायणसमा भक्ता भवन्त्येवं न मे पिता ।।३८।।
नरसमूहवासेन नारायणोऽपि मे पिता ।
कालग्रासो न तु दिव्यो नारायणोऽक्षराधिपः ।।३९।।
तयोरस्ति महान् भेदः पतंगद्युपतंगयोः ।
खद्योतं मम पितरं मृषा वेद्मि न भास्करम् ।।1.137.४०।।
आत्मप्रकाशकं सत्यं वेद्मि नारायणं गुरो ।
तथापि पितरं मन्ये पितरमेव केवलम् ।।४१।।
नात्यधिकं नारायणद्वेषित्वान्माननं न मे ।
गुरुः प्राह तथापि त्वं पितृशासनमावह ।।४२।।
पितुः पूजां परिचर्यां सेवामाज्ञां सदाऽऽवह ।
शिक्षित इति प्रह्रादः सायं गृहमुपागतः ।।।४३।।
पित्रा संपरिष्वज्यांके स्नेहपूर्वं निषादितः ।
साम्ना पृष्टश्च मे पुत्राऽद्य त्वयाऽधीतमत्र किम् ।।४४।।
वद श्रुत्वा सुखी स्यां ते विद्यामस्मत्कुलोचिताम् ।
प्रह्लादः प्राह पितरं नत्वाऽधीतं ब्रवीमि तत् ।।४५।।
भवान्नारायणो राज्यान्मृषा नैव यथार्थतः ।
लक्ष्मीनारायणः सत्यो वैकुण्ठवासिसेवितः ।।४६।।
तं भजामि भजत्वेनं भवानपि पितर्मम ।
श्रवणं कीर्तनं विष्णो स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।।४७।।
नवधाऽध्यापनं श्रेष्ठमन्यत् सर्वं विडम्बनम् ।
नवधाऽध्ययनं कार्यं किमन्येन विडम्बिना ।।४८ ।।
श्रुत्वैतत्परमं भक्तिमयं दैत्यपतिस्तदा ।
सरोषो गुरुमाहेत्थं किमेतच्छिक्षितं त्वया ।।४९।।
ममात्मजस्य दुर्बुद्धे हरिसंस्तवभृद्वचः ।
किमर्थमुक्तवानस्मत्कुलाकार्यं सुरोचितम् ।।1.137.५० ।।
गुरुपुत्र किमेतद्वै विपक्षगतशिक्षणम् ।
प्रच्छन्नोऽसि विष्णुपक्षपोषकश्छद्मवेशधृक् ।।५ १।।
कपटिनामसाधूनामपि कालो न दूरतः ।
गुरुपुत्रस्य पुत्रस्य सह दण्डो भविष्यति ।।५२।।
गुरुपुत्रस्तदा प्राह नेदृगध्यापितं मया ।
बुद्धिनैसर्गिकी त्वस्य मा कदर्थीकरोतु नः ।।५३।।।
तथापि प्राह दैत्येन्द्रो नाऽधीतं तु गुरोस्त्वया ।
कस्मादधीतमेतद्वै वद बाल यथोचितम् ।।५४।।
प्रह्लादः प्राह दैत्येन्द्र कृष्णदत्ता मतिर्मम ।
कृष्णभक्तरजोलेशाभिषिक्ततनुमन्तरा ।।५५।।
साधुप्रसंगसत्सेवामृते न त्वीदृशी मतिः ।
कृपया देवदेवस्य शिक्षितोऽस्मि हरेः प्रभोः ।।।५६।।
नाऽन्यो गुरुर्मे वदति स एव प्रेरको हरिः ।
श्रोता मन्ता तथा वक्ता द्रष्टा सर्वत्र वर्तते ।।५७।।
हरिरेवाऽक्षयः शास्ता बुद्धिदाताऽपि स प्रभुः ।
तदा हिरण्यकशिपुः प्राह पुत्रं रुषान्वितः ।।५८।।
अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्मतः ।
मामेवार्चय गोविन्दं त्यज शत्रुं तमच्युतम् ।।५९।।
अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम् ।
अर्चयस्व सुराध्यक्षं सर्वैश्वर्यप्रदंशिवम् ।।1.137.६०।।
प्रह्लादः प्राह देवस्य मायामोहमिमे गताः ।
राक्षसा अपि मन्यन्ते वयमेवेश्वरा इति ।।६१।।
शंकरोऽपि स्वयं विष्णुभक्तोऽस्ति वैष्णवाग्र्यगः ।
दैत्योऽयं किं न जानाति कथमेवं भ्रमंगतः ।।६२।।
पितर्नैतद्विजानासि मदगर्वधियाऽऽवृतम् ।
नारायणः परब्रह्म तत्त्वं नारायणः परः ।।६३।।
नारायणः परो ध्याता ध्यानं नारायणः परम् ।
गतिर्विश्वस्य जगतः शाश्वतः स प्रभुः परः ।। ६४।।
धाता विधाता जगतो वासुदेवः सनातनः ।
विश्वमेवेह पुरुषस्तद्विश्वमुपजीवति ।।६५।।
हिरण्मयशरीरः स पुण्डरीकनिभेक्षणः ।
तेनैव सृष्टौ ब्रह्मेशौ वर्तेते तस्य शासने ।।६६।।
भीषाऽस्माद्वाति पवनो भीषोदेति दिवाकरः ।
भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पंचमः ।।६७।।
आसीदेको हरिर्देवो दिव्यो नारायणः परः ।
न ब्रह्मा न तथेशानो न च चन्द्रदिवाकरौ ।।६८।।
न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः ।
विष्णोः परं पदं तस्य सदा पश्यन्ति सूरयः ।।६९।।
त्यक्त्वा तं श्रीहरिं कस्मात्पूजये पितरं शिवम् ।
यमर्चयन्ति ब्रह्मेशशक्राद्या देवतागणाः ।।।1.137.७० ।।
यं ध्यायन्ति महात्मानो योगिनः सनकादयः ।
यस्य लक्ष्म्याः कटाक्षार्धदृष्ट्या हृष्टा दिवौकसः ।।७ १ ।।
ब्रह्मेन्द्ररुद्रवरुणयमसोमधनाधिपाः ।
यन्नामजपनादेव मुक्तिर्भवति शाश्वती ।।७२।।
तं श्रीपतिं देवदेवमनन्तं पुरुषोत्तमम् ।
श्रीवत्सकौस्तुभोरस्कं नित्यानन्दसुखप्रदम् ।।७३।।
रक्षकं पूजयिष्यामि लक्ष्मीनारायणं हरिम् ।
प्राप्स्यामि सुसुखेनैव तद्विष्णोः परम पदम् ।।७४।।
चित्स्थं नारायणं देवमक्षरं परमं प्रभुम् ।
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।।७५।।
नारायणं सदा ज्ञेयं विश्वात्मानं परायणम् ।
नारायणं परंज्योतिरूपं नारायणात्मकम् ।।७६।।
यच्च किंचिज्जगत्सर्वं दृश्यते श्रृयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणं स्थितम् ।।७७।।
ऋतं सत्यं परंब्रह्म पुरुषं कृष्णपिंगलम् ।
नारायणं चोर्ध्वशीलं वन्दे विश्वस्वरूपिणम् ।।७८।।
एवं पुत्रवचः श्रुत्वा हिरण्यकशिपुस्तदा ।
क्रोधेन महताऽऽविष्टः कषायीभूतनेत्रकः ।।७९।।
भक्तं स्वपुत्रं स्वोत्संगात् पर्यत्यजन्महीतले ।
परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः ।।1.137.८० ।।
भीषणैः शस्त्रसंघातैः प्रह्लादं त्वपथस्थितम् ।
ममाऽऽज्ञया घातयन्तु शत्रुपूजनतत्परम् ।।८ १ ।।
वध्यतामाश्वयं वध्यो हित्वा स्वान् सुहृदोऽधमः ।
पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति ।।८२।।
अंगं रुग्णं चाऽचिकित्साविषयं छेद्यमेव तत् ।
परोऽपि हितनिवहः सेव्यस्तिक्तौषधादिवत् ।।८३।।
रक्षिता हरिरेवेति चोच्यते तेन वै बलात्।
अद्यैव सफलं जन्म पश्येय हरिरक्षणम ।।८४।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हिरण्यकशिपोः प्रह्लादे पुत्रे विद्याधीते भगवद्विद्याऽभिव्यंजनाद्द्वेषप्रयुक्त मृत्य्वाज्ञादिकथन-
नामा सप्तत्रिंशदधिकशततमोऽध्यायः ।। १३७ ।।