लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १२६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १२६
[[लेखकः :|]]
अध्यायः १२७ →

श्रीनारायण उवाच-
ततो लक्ष्मि! महादेवो वर्णयामास शोभनम् ।
महालक्ष्म्याः स्वतन्त्रं तदन्तःपुरमशेषतः ।। १ ।।
चतुर्दिक्षु स्वर्णमणिसोपानानि भवन्ति वै ।
मणिकान्तिकराः स्वल्पस्तम्बगुल्माश्च कोटिशः ।। २ ।।
निःश्रेणीपार्श्वयोः सन्ति नवपल्लवशोभिताः ।
रत्नपुष्पप्रकाशिन्यो वल्लिकाः पार्श्वयोस्तथा । । ३ ।।
विरामपट्टिकाश्चैव तथा सन्ति सहस्रशः ।
रक्तहरिन्मणिक्लृप्ताः साऽऽदर्शाः सहशुक्तिकाः ।। ४ ।।
भित्तिका मणिचूर्णाना सचित्राः परिकल्पिताः ।
पार्श्वास्तासां प्रगल्भानां स्फटिकानां च निर्मिताः । । ५ ।।
स्थलान्यपि जलानीव जलान्यपि स्थलानि वा ।
अग्रचतुष्किकाः स्थल्यो भ्रान्तयन्ति सखीन्मुहुः ।। ६ ।।
स्तंभेषु सन्ति पक्षाढ्या वरमालाकराः शुभाः ।
उडुयन्तीव देव्यश्च रमातुल्याः सुयौवनाः । । ७ । ।
आह्वयन्तीव सत्कारं कुर्वन्तीव सचेतनाः ।
करात्तस्वर्णपात्रास्ता लाजया वर्धयन्ति ताः ।। ८ । ।
स्वर्णसूक्ष्माम्बराः स्वर्णकान्तयो द्वादशाब्दिकाः ।
स्तंभमूले नरसिंहा नृहरेरूपमास्थिताः ।। ९ । ।
सौम्या हास्यमुखाः सन्ति चेतना रक्षका इव ।
कम्मानिकासु नृत्यन्ति नर्तक्यो ह्येकवस्त्रिकाः ।। 1.126.१० ।।
नारायणप्रसादाय मुहुः संकोचमन्तरा ।
वादकास्तु विविधानि वादित्राण्यवगृह्य च ।। ११ । ।
वादयन्ति विलासान्तं विलासार्थं हरेर्मुहुः ।
द्वारोपरि प्रतिस्थालं सूतमागधबन्दिनः ।। १ २।।
वैष्णवा भालतिलका गायन्ति हरिकीर्तनम् ।
अवतारचरित्राणि विचित्राणि मुदा मुहुः ।। १३ । ।
विद्याध्राः किन्नराश्चैव सत्किंपुरुषजातयः ।
प्राक्सृष्टेः सुचरित्राणि गायन्ति श्रीहरेः सदा ।। १४।।
क्वचित्तु द्वादशवर्षाः कन्यका हरितृप्तये ।
शीतसुगन्धिमिष्टादिमिश्रं पेयं नयन्ति हि ।। १५।।
अन्यत्र श्रीहरेर्भोज्यं पाकेनाऽष्टोत्तरं शतम् ।
श्रपयन्ति तथा कन्या रमाः सर्वा हरिप्रियाः ।। १६।।
अपरत्र तु कामिन्यः शय्यां कुर्वन्ति तत्कृते ।
तथाऽन्याः श्रीहरेरर्थं स्नानसामग्रिकायुताः ।। १७।।
काश्चित्पूजाप्रकाण्डं वै गृहीत्वा यान्ति तं पतिम् ।
श्रांगारिकद्रवद्द्रव्याण्यादाय यान्ति गौरिकाः ।। १८।।
कज्जलालक्तगन्धाढ्यतैलप्रसूनसद्रसान् ।
ताम्बूलचर्व्यसद्वस्तु नीत्वा यान्ति प्रियं प्रति ।। १९।।
फलानि लेह्यचोष्याणि यान्त्यादाय हरिं प्रति ।
दृश्यस्पृश्यसुसंश्राव्यरस्यघ्रातव्यवस्तुकम् ।।1.126.२० ।।
समादाय पतिं स्वानां यान्ति रमयितुं रमाः ।
कल्किमुकुटभूषाश्चादाय यान्ति प्रभोः प्रियाः ।।२१ । ।
विद्युच्चंचत्स्वर्णवस्त्राः स्वर्णतन्व्यः सुमध्यमाः ।
क्वणत्किंकिणिकाभूषा विलासार्थं प्रयान्ति च ।।।२।।
स्थले स्थले प्रतोलीषु दिव्यचन्द्रा भवन्ति हि ।
वल्लभीषु गवाक्षेषु शीतसूर्या ज्वलन्ति वै ।।२३ ।।
वायवो मन्दसुरभिशीतला वान्ति चेतनाः ।
सूक्ष्मा मेघा रतिमध्ये वर्षन्ति घर्मशान्तये ।।।२४।।
दिव्या द्यौस्तत्र संवासे प्रतिकोणं प्रकाशते ।
दूरदृष्टिप्रयन्त्राणि दूरश्रवणपट्टिकाः ।।२५।।
दूरग्राहाः सिद्धिवर्या वसन्ति प्रतिमन्दिरम् ।
प्रबोधाय सुयन्त्राणि वाद्यन्ति हि वादकाः ।।२६।।
स्थले स्थले प्रतिसौधं हरिश्चास्ति सहस्रधा ।
दासदास्यौ रमयन् स रमते चापि तद्गमम् ।।।२७।।
स्नानागाराणि शयनागाराणि रतिमण्डपाः ।
शृंगारमण्डपाश्चैव पूजाया मण्डपास्तथा ।।।२८।।
पानलेपनसत्केलिगृहाणि क्रीडनक्षयाः ।
विहारव्यवहारादिसभास्थानानि तत्र च ।।।२९।।
पाकस्थानानि शस्त्रादिस्थानानि हेतिसंक्षयाः ।
स्वर्णमणिहरिद्रत्नमाणिक्यस्फटिकक्षयाः ।।।1.126.३०।।
गुप्ता यत्र कृताः सन्ति ततः सर्वोपरि स्थितः ।
विमानगृहमुख्यैश्च प्रासादैर्बहुभिर्युतः ।। ३ १।।
दिव्याप्सरोगणैः स्त्रीभिः सर्वतः समलंकृतः ।
राजप्रासादवर्योऽस्ति न भूतो न भविष्यति ।।।३२।।
मध्ये नारायणस्यैव राजस्थानं महोत्सवम् ।
माणिक्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम् ।। ३३ ।।
दिव्यवैष्णवसंकीर्णं सामगानोपशोभितम् ।
मध्ये सिंहासनं रम्यं सर्वदेवमयं शुभम । । ३४।।
धर्मज्ञानमयैश्वर्यवैराग्यैः पाढविग्रहैः ।
ऋग्यजुःसामाऽथर्वाणरूपजानुभिराहितम् ।। ३५।।
श्रद्धाशक्त्याधारशक्तिचिच्छक्तिशिवशक्तिभिः ।
व्याप्तं सूर्यशशिवह्निविद्युत्सुधांशुभिस्तथा ।। ३६ ।।
कूर्मः शेषो गरुडश्च हंसश्छन्दांसि मन्त्रकाः ।
पीठरूपा भवन्त्येते मध्ये पद्मं तु वैधसम् ।। २७।।
अष्टदलं च मध्ये सावित्री तत्कर्णिका स्थिता ।
महालक्ष्म्या सुयुक्तोऽत्र नारायणः प्रतिष्ठति ।। ३८ ।।
रत्नसिंहासनस्थश्च रत्नालंकारभूषितः ।
रत्नकेयूरवलयरत्ननूपुरशोभितः ।। ३९। ।
रत्नकुंडलयुग्मेन गण्डस्थलविराजितः ।
पीतवस्त्रपरीधानो वनमालाविभूषितः । ।1.126.४० । ।
शान्तः सरस्वतीकान्तो लक्ष्मीधृतपदांबुजः ।
कोटिकन्दर्पलीलाभः स्मितवक्त्रश्चतुर्भुजः । ।४ १ । ।
चन्दनोक्षितसर्वांगः सुरत्नमुकुटोज्ज्वलः ।
परमानन्दरूपः स भक्तानुग्रहकारकः । ।४२ । ।
इन्दीवरदलश्यामः कोटिसूर्यप्रकाशवान् ।
युवा कुमारः स्निग्धांगः कोमलावयवैर्युतः । ।४३ ।।
फुल्लरक्तांबुजकान्तिः कोमलांऽघ्रिकराब्जवान् ।
प्रबुद्धपुंडरीकाक्षः सुभ्रूलतायुगांकितः ।।४४ ।।
सुनासः सुकपोलाढ्यः सुशोभमुखपंकजः ।
मुक्ताफलाभदन्ताढ्यः सस्मिताधरसुन्दरः ।।४५।।
कोटिपूर्णेन्दुसंकाशः कबरीकृतकेशवान् ।
सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितः । ।४६ ।।
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः ।
हारस्वर्णस्रगासक्तकम्बुग्रीवाविराजितः ।।४७।।
सिंहस्कन्धनिभैः प्रोच्चैः पीनैरंसैर्विराजितः ।
मीनवृत्तायतहस्तैश्चतुर्भिरुपशोभितः ।।४८।।
अंगुलीयैश्च कटकैः शृंखलाभिश्च शोभितः ।
नानारत्नविचित्रांघ्रिकटकाभ्यां विराजितः ।।४९।।
सज्योत्स्नचन्द्रप्रतिभनखपंक्तिसमुज्ज्वलः ।
सौन्दर्यवीर्यलावण्यपुष्ट्यादिनिधिरच्युतः ।।1.126.५ ० ।।
शंखचक्रगृहीताभ्यामुद्बाहुभ्यां विराजितः ।
वरदाऽभयहस्ताभ्यामितराभ्यां सुशोभितः ।।५ १ ।।
वामांके संस्थिताः देवीं महालक्ष्मीर्महेश्वरी ।
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा ।।५२।।
दिव्यचिह्नसमायुक्ता यौवनारंभविग्रहा ।
दिव्यचन्दनलिप्तांगा नीलाकुंचितमूर्धजा ।।५२।।
रत्नकुण्डलशोभाढ्या दिव्यहारालिशोभिता ।
मन्दारकेतकीजातीपुष्पाञ्चितसुकुन्तला ।।५४।।
सुभ्रूः सुनासा सुश्रोणी पीनोन्नतपयोधरा ।
सस्मितपूर्णचन्द्रास्या सूर्यकुण्डलराजिता ।।५५।।।
स्वर्णवर्णा स्वर्णभूषा चतुर्हस्ताऽब्जहस्तगा ।
हारकेयूरकटकैरंगुलीयैः सुशोभिता ।।५६।।
स्वर्णतन्तिललाटा च धृतपद्मभुजद्वया ।
गृहीतमातुलुंगाख्यजाम्बूनदकराञ्चिता ।।५७।।
गन्धद्वारा दुराधर्षा नित्यपुष्टा करीषिणी ।
कर्णनासादिसद्भूषा सौभाग्यपुण्ड्रचन्द्रका ।।।५८।।।
चामरोशीरवृन्तार्द्रतांबूलदा तु विष्णवे ।
मोदते सा महावैकुण्ठाख्ये नारायणेन वै ।।५९।।
एवं नित्याऽनपायिन्या महालक्ष्म्या नरायणः ।
मोदते परमे व्योम्नि वैकुण्ठे शाश्वते प्रभुः ।।1.126.६०।।
दक्षिणे धर्मदेवश्च नन्दः सुनन्द इत्यपि ।
श्रुतदेवो जयन्तश्च विजयश्च जयस्तथा ।।६ १ ।।
चंडश्चैव प्रचण्डश्च पुष्पदन्तश्च सात्त्वतः ।
विश्वक्सेनो वैनतेयः प्रबलो बल इत्यपि ।।६२।।
कुमुदः कुमुदाक्षश्च सन्ति तै पार्षदाः सदा ।
दिव्याश्च वैष्णवा दासाः सेवाकार्यकृतक्षणाः ।।६ ३।
वामे तु धरणी लीला विमलोत्कर्षिणी क्रिया ।
योगा च सगुणा प्रह्वी ज्ञाना सत्येशनी तथा ।।६४।।
पद्मा जया च पांचाली भार्गवी ललिता रमा ।
पार्वती च प्रभा माणिक्या च लक्ष्मीश्च मंजुला ।।६५।।
ऊर्जा धनेश्वरी दीपावली प्रेमरसेश्वरी ।
देवा देववरा बालेश्वरी चोजस्वती शुभा ।।६६।।
कान्ता शान्ता च चतुरा हंसाऽमृतरसा तथा ।
मूलिका कस्तूरिका च सावित्री मौक्तिकेश्वरी ।।६७।।
जयदा मुक्तिदा हेममाला गोदावरी वरा ।
रंभा च जाह्नवी कान्तीश्वरी लाड्गलिकेश्वरी ।।६८ ।।
नन्दा च दमयन्ती च निर्मला रत्नपुष्करा ।
मणीश्वरी तथा रालियन्ती चम्पावती दया ।।६९।।
रमा जयेश्वरी पानेश्वरी च सविता प्रमा ।
शान्तिः सुखकरी चेति महिष्यः परमात्मनः ।।1.126.७०।।
गृहीत्वाऽर्हणसामग्रीः सेवयन्ति पतिं प्रभुम् ।
दिव्याप्सरोगणाः पञ्चशतमुख्या हरिप्रियाः ।।७१ ।।
अन्तःपुरनिवासिन्यः कोटिवैश्वानरप्रभाः ।
रमाः सर्वाः समाना वै शीतांशुसदृशाननाः ।।।७२।।
सेवयन्ति महाराजं श्रीमन्नारायणं हरिम् ।
तमेव परमात्मानं त्वक्षरे धाम्नि संस्थितम् ।।७३।।।
दिव्यरूपानुरूपं चाऽवतारिस्वस्वरूपिणम् ।
महामाया प्रतुष्टाव मां भजस्व महाप्रभो! ।।७४।।
तदा नारायणो भूत्वा महावैकुण्ठनामकम् ।
धाम संरचयामासाऽक्षरप्रान्ते तु शाश्वतम् ।।७५।।
स्ववामजां महामायां महालक्ष्मीं विधाय च ।
महावैकुण्ठधाम्न्येव रमते श्रीहरिः स्वयम् ।।७६।।
अन्येष्वप्यवतारेषु यत्र नारायणेन वै ।
स्वेन साकं गृहीता सा ताः रमाः संभवन्ति हि ।।७७।।
ताश्च सर्वा भजन्ति स्म पतिं नारायणं परम् ।
तासामपि च दासीनां कोटीनां पतिरेव सः ।।।७८।।।
नारायणोऽत्र वैकुण्ठे सेवां गृह्णाति भावतः ।
महाभागवताश्चान्ये ये भूतास्तेऽपि चात्र वै ।।७९।।
वसन्ति हरिसौधेषु भजन्ति प्रेयसं हरिम् ।
नारायणं भजित्वा वै भक्त्या तु बहुरूपया ।।1.126.८० ।।
गत्वाऽस्मिन्न निवर्तन्ते विष्णुना सह संस्थिताः ।
तत्समानसुखं नित्यं प्राप्नुवन्त्यात्मवेदिनः ।।८ १।।
नारायणानुचरतां मोक्ष एव सुखप्रदः ।
सततं संस्मरेद् विष्णुं शाश्वतानन्ददं प्रभुम् ।।८१ ।।
नामोच्चारणमात्रेण प्राप्नुयात्परमं पदम् ।
तस्मान्नारायणं लोकं गौरि! संप्रार्थयेत् सदा ।।८३ ।।
भक्त्या त्वनन्यया देवं भजेत करुणाकरम् ।
सः सर्वज्ञः स्वकं ज्ञात्वा रक्षत्येव यथा तथा ।।८४।।
तदूर्ध्वपुंड्रं तन्मन्त्रं तत्कण्ठीं तस्य मालिकाम् ।
तद्भक्तिं तन्नाम कृत्वा महावैकुण्ठमेति वै ।।८५ ।।
महालक्ष्म्याः कृते चैतन्ममहावैकुण्ठमक्षरे ।
कृतमेकं हरिणैव तदेतत्परमं पदम् ।।८६ ।।
वैराजस्य तु पुत्रेण द्वितीयं विष्णुना कृतम् ।
वैकुण्ठं तु सहलक्ष्म्या वासार्थं ध्रुवतः परम् ।।८७।।
सत्याच्चतुर्दशाल्लोकात्परे वैराजसंस्तरे ।
जलावरणप्रान्ते तेजो वैकुण्ठं द्वितीयकम् ।।८८।।
देवादीनां तु गत्यर्थं प्रार्थनार्थं पुनः पुनः ।
गतिमेलनलाभाय श्वेतद्वीपाख्यमित्यपि ।।८९ ।।
कृतं तृतीयं वैकुण्ठं सुगमं स्वस्य मेलनम् ।
ततोऽपि योगिगम्यं स्वशयनार्थे प्रशान्तिकृत् ।।1.126.९० ।।
शेषशायिस्वरूपेण क्षीरसागरमध्यगम् ।
चतुर्थं तु कृतं स्वेन वैकुण्ठं शान्तिलब्धये ।।९१ ।।
तत्र ते प्रथमं देवि महावैकुण्ठमीरितम् ।
अथ वार्यावरणस्थं द्वितीयं कीर्तये शृणु ।।९२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महालक्ष्म्याः महाप्रासादस्थविविधरमाकृतसेवासेवास्थान-
सिंहासनतत्स्थनारायणमहालक्ष्मीतत्पार्षदतदन्यमहिष्यादिसेवानिर्देशनामा षडविंशत्यधिकशततमोऽध्यायः ।। १२६।।