लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १२४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १२४
[[लेखकः :|]]
अध्यायः १२५ →

श्रीनारायण उवाच-.
शंभुस्ततो महादेवीं प्राह तत्परवर्णनम् ।
साकेते तत्र वर्तुलाभ्यन्तरे राजमार्गकः ।। १ ।।
कोटियोजनदीर्घोऽस्ति याति नारायणालयम् ।
पार्श्वे वनान्यनन्तानि कल्पद्रुमन्ति सन्ति वै ।। २ ।।
धर्मशालाः शान्तिशाला विश्रान्तिभूमयोऽपि च ।
द्वयोस्तु पार्श्वयोः सन्ति कूपतडागदीर्घिकाः ।। ३ ।।
क्वचित्सौधाश्च धवलाः प्रासादाश्च क्वचित् तथा ।
सन्ति प्रवासिनां सर्वसत्कारार्हाढ्यसद्गृहाः ।। ४ ।।
मणिस्वर्णमयाः सर्वे स्वर्णकलशशृंगिणः ।
सुधासद्रससरसो नागवल्ल्यादिशोभिताः ।। ५ ।।
सोद्यानाः सोपभोगाश्च वरकन्यानिवासदाः ।
वैष्णववैष्णवीसौधाः पार्श्वयोर्विलसन्ति हि ।। ६ ।।
पताकातोरणध्वजमञ्चदर्पणदीपकैः ।
सौम्यमृदूपकरणैर्भक्ष्यपेयादिवर्धितैः ।। ७ ।।
विविधैः साधनैर्युक्ताः प्रासादास्ते लसन्ति हि ।
वैकुण्ठान्नैव किञ्चिद्वै न्यूनताऽस्ति विभूतिषु ।। ८ ।।
साकेतात्तु समारभ्य वैकुण्ठो दिव्यलोककः ।
अन्तरीक्षे ब्रह्मधाम्नि स्थितो वै वर्तते परः ।। ९ ।।
तस्य वै परितः सर्ववैष्णवानां निवासिनाम् ।
वर्तुले वै वसतयः साकेते संवसन्ति हि ।। 1.124.१० ।।
साकेतकृन्निवासानां मध्ये वैकुण्ठमुत्तमम् ।
पूर्वे साकेतसद्भागे ब्रह्मपनसपादपः ।। १ १।।
पञ्चयोजनविस्तीर्णो दशयोजनमूर्ध्वगः ।
सहस्रस्कन्धशोभावान् कोटिशाखाप्रविस्तरः ।। १२।।
पीतपक्वफलाढ्यश्च हरित्पल्लवशोभितः ।
सुच्छायासुखदस्तस्याऽधश्चतुरस्रवेदिकाः ।।१३।।
सन्ति तत्र रमन्ते वै रमावैष्णवबालकाः ।
नारायणसमा रूपे पीतवस्त्राश्चतुर्भुजाः ।। १४।।
गन्धचन्दनकस्तूरीप्रभतिवर्ष्मवासिताः ।
सर्वलक्षणशोभाढ्या रमन्ते विहरन्ति च ।। १५।।
ततः पार्श्वे द्वितीयस्तु लक्ष्मीपनसपादपः ।
वर्तते विस्तृतः पंचयोजने द्विगुणोच्छ्रयः ।। १६ ।।
विहारिण्या रमायास्तद्विश्रान्तिस्थलमस्ति वै ।
सद्रत्नसारमाणिक्यवेदिकाः सन्ति वर्तुले ।। १७।।
वैष्णवीनां कन्यकानां विहाराणि च तत्र वै ।
सर्वास्ताः कन्यका लक्ष्मीसमरूपगुणाश्रयाः ।। १८।।
भासुरास्ता रमन्ते स्म दिव्या द्वादशहायनाः ।
नारायणं प्रतीक्षन्ते यान्त्यायान्ति पुनः पुनः ।। १ ९।।
नारायणं प्राणपतिं संसेव्यैव प्रयान्ति ताः ।
तयोः पनसयोर्मध्ये राजमार्गो मनोहरः ।।।1.124.२० ।।
लक्ष्मीनारायणसौधं प्रतिगच्छति पारतः ।
तस्य पार्श्वद्वये रत्नमाणिक्यमणिवेदिकाः ।।२१।।
दिव्यगृहाश्च प्रासादा वैष्णवाऽऽवासशोभिताः ।
वैष्णव्यः कन्यकाः पूजापात्राण्यादाय यान्ति च ।।२२।।
विविधोद्यानपुष्पाणां मालाशेखरहस्तकाः ।
नारायणं प्रपूज्यैव पुनरायान्ति तत्र वै ।।२३।।
तप्तकार्तस्वरवस्त्रास्तप्तकांचनविग्रहाः ।
कोटिकामविमोहास्याः सेवन्ते श्रीहरिं गृहे ।।२४।।
वैकुण्ठवासिनां चैव साकेतवासिनां तथा ।
बहिरन्तर्गमो मार्गः संकुलितोऽस्ति सर्वदा ।।२५।।
पार्श्वे क्वचित्सहकारतरूद्यानानि सन्ति वै ।।
क्वचित्पनसरंभादिफलोद्यानसुमण्डितः ।।२६।।
पुष्पोद्यानमनोहारिसरःशोभासमन्वितः
सोऽयं विशति पूर्वस्मात्पूर्वं प्राकारगोपुरम् ।।२७।।
प्राकारान्तर्गतं सर्वं वैकुण्ठं हरिमन्दिरम् ।
प्राकाराभ्यन्तरे सन्ति भक्तावासास्तु कोटिशः ।।२८।।
प्राकारो वर्तुलाकारः कोटियोजनविस्तृतः ।
ब्रह्मधाम्नि स्थितो व्योम्नि महावैकुण्ठ उच्यते ।।२९।।
नित्यवैकुण्ठ इत्येव परवैकुण्ठ इत्यपि ।
नाम्ना परिचयस्तत्र कुर्वन्ति वैष्णवा जनाः ।।1.124.३० ।।
प्राकारोपरि वर्तन्ते विमानानि तु कोटिशः ।
व्रह्मधाम्नि प्रगच्छन्ति साकेते विहरन्ति च ।।३ १ ।।
ब्रह्माण्डेषु स्वकान् भक्तानादयाऽऽयान्ति धाम तत्। ।
सर्वे ते पार्षदा नारायणपादाग्र्यसेवकाः ।। ३२।।
दिव्या वसन्ति प्राकारे प्रासादेषु महत्सु च ।
सद्रत्नमणिमाणिक्यहीरकादिसुकोष्ठिकाः ।। ३३ ।।
स्थले स्थले तु वर्तन्ते प्रासादे तत्र शोभनाः ।
बहुभोगार्थसम्पूर्णा वहुसौख्यप्रदद्रवाः ।। ३४।।
भवन्ति तत्र प्राकारप्रासादेषूत्तरोत्तराः ।
नारायणार्थसर्वस्वार्पितवैष्णवकन्यकाः ।। ३५।।
पंचाशत्कोटिसंख्याको वसन्ति श्रीहरिप्रियाः ।
आश्रमा वर्तुले तत्र प्राकारे सप्तभूमिषु ।। ३६।।
कोट्यब्जाः सन्ति दिव्यास्ते नारायणस्य पार्षदैः ।
कृतावासाः शाश्वताः श्रीहर्यन्यूनविभूतयः ।। ३७।।
व्योमोद्यानसुधाखन्यो निसर्गानन्दराशयः ।
भक्ताश्च वैष्णवश्रेष्ठाः शतकोटिर्वसन्ति वै ।। ३८ । ।
सर्वे चतुर्भुजाः षोडशाब्दा नारायणा इव ।
द्वादशवत्सराः कन्याः सर्वास्ताः कमला इव ।। ३९ ।।
ततोऽप्यन्ते महाभक्ताः सात्वताः हरिरूपिणः ।
प्रासादेषु कृतावासा वर्तन्ते कोटिशोऽपरे ।।1.124.४० ।।
लक्ष्मीदेव्याः किंकरीणां द्वात्रिंशत्कोटयोऽपराः ।
वसन्ति तत्र प्राकारसौधेषु हरितन्मयाः ।।४ १ ।।
नारायणं परब्रह्म विदित्वैत्यतिमृत्युताम् ।
तस्य तत्र भवेद्वासो महावैकुण्ठमण्डले ।।४२ ।।
नारायणपराभक्त्या रमायाः सेवया तथा ।
गच्छन्त्यपुनरावृत्तिं महावैकुण्ठमेव ते ।।।४३ ।।
तेषां कृते निवासास्ते प्राकारे मणिनिर्मिताः ।
पुष्पशय्यापुष्पमालाऽमृतभोज्यादिस्मृद्धयः ।।४४।।
छत्रचामरदर्पणस्वर्णकलशभूषणाः ।
वस्त्राभरणशोभाढ्यास्तेषां वासा भवन्ति ते ।।४५ ।।
अव्ययाऽमोघवीर्याऽऽप्तहृष्टपुष्टशरीरकाः
निवसन्ति स्वसौधेषु वैष्णवाः कोटिकोटयः ।।४६ ।।
अष्टौ सन्ति महान्तो वै प्राकारे तत्र गोपुराः ।
रक्षिता द्वारपालैर्वै चतुर्दशाधिभूमयः ।।४७।।
ऐन्द्रं च पावकं चैव याम्यं च नैर्ऋतं तथा ।
वारुणं चैव वायव्यं सौम्यमैशानमेव च ।।४८ । ।
द्वारपालत्वमेवैतद्देवानां निर्मितं सदा ।
देवास्ते वैष्णवाः सर्वे नित्या मुक्ता वसन्ति ये ।।४९ ।।
ते वै द्वाराधिपाः सन्ति न तु स्वर्गादिपालकाः ।
इन्द्रश्च पावकश्चैव यमश्च निर्ऋतस्तथा ।।1.124.५० ।।
वरुणः पवनश्चैव कुबेर ईश इत्यपि ।
एतन्नामान इत्येते मुक्ता वैकुण्ठवासिनः ।।५ १ ।।
--९७----
तेषां वशास्तु वैकुण्ठे कोट्यर्बुदास्तु वैष्णवाः ।
एकैकस्य तु ते सर्वे प्राकाराभ्यन्तरे स्थिताः ।।।५२। ।
अयं तु सप्तमो व्यूहस्ततोऽप्यभ्यन्तरेऽपरम् ।
शंखचक्रगदापद्मखड्गशार्ङ्गहलानि च ।।५३ ।।
मुसलं चाऽऽयुधान्यष्टौ तत्तन्नाम्ना तु पार्षदाः ।
चतुर्भुजा मूर्तिमन्तो मन्त्रशस्त्रास्त्रसंयुताः ।।५४।।
षष्ठं व्यूहं विरचय्याऽष्टदिक्षु सन्ति वै क्रमात् ।
एकैकस्य वशे सन्ति वैष्णवाश्चार्बुदास्तथा ।।५५।।
अथ वै पञ्चमे व्यूहे षष्ठस्याभ्यन्तरस्थिते ।
ऋग्वेदश्च यजुर्वेदः सामवेदो ह्यथर्वणः ।।५६।।
सावित्री गरुडो धर्मो मखश्चाष्टौ तु पार्षदाः ।
वैकुण्ठस्था मूर्तिमन्तो वसन्ति दिव्यऋद्धयः ।।५७।।
तेषां वश्या भवन्त्येव कोटिकोट्यस्तु वैष्णवाः ।
अथ व्यूहे चतुर्थे वै तिष्ठन्ति दिव्यविग्रहाः ।।५८ ।।
सत्यश्चैवाऽच्युतश्चैवाऽनन्तो दुर्गस्तथाऽपरः ।
विश्वक्सेनो गणेशश्च दिव्या मुक्ताश्च ते स्मृताः ।।५९ ।।
एतेषामपि वश्या वै कोटिशः सन्ति वैष्णवाः ।
अथ व्यूहे तृतीये तु चनुर्थाऽभ्यन्तरे स्थिते ।।1.124.६० ।।
मत्स्यश्च कच्छपश्चैव वाराहो नरसिंहकः ।
वामनः परशुरामो रामचन्द्रश्च कल्किकः ।।६ १ ।।
दिव्या विभूतयो नारायाणस्यांशास्तु वैष्णवाः ।
तदधीनास्तथा तत्र वैष्णवाः कोटिकोटिशाः ।।६२।।
अथ व्यूहे द्वितीये तु प्रह्लादो नारदस्तथा ।
पराशरः पुण्डरीकः कृष्णद्वैपायनस्तथा ।। ६३ ।।
अम्बरीषो ध्रुवश्चैव वाल्मिकाद्या महर्षयः ।
कोटिशः सन्ति दिव्या वै भक्ता वैकुण्ठवासिनः ।। ६४।।
प्रथमे व्यूहने वै प्राग्वासुदेवस्य मन्दिरम् ।
आग्नेय्यां वसति लक्ष्मीर्याम्यां संकर्षणालयः ।। ६५।।
सारस्वतं नु नैर्ऋत्यां प्राद्युम्नः पश्चिमे तथा ।
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ।।६६।।
ऐशान्यां शान्तिलोकश्चेत्येवं प्रथममण्डलम् ।
एते सर्वे स्वस्वभक्तार्बुदपारार्ध्यकोटिभिः ।।६७।।
निवसन्ति परे महावैकुण्ठे हरिसन्निधौ ।
नैतेषां तु विभूतीनां प्रासादानां च हीनता ।।६८ ।।
स्मृद्धीनां भोग्यभावानां भोज्यपेयविलासिनाम् ।
प्रमदानां सुवस्त्राणां मृद्यानां द्रवभाविनाम् ।।६९ ।।
सुगन्धानां सुद्रस्यानां स्पृश्यानां श्रवमार्गिणाम् ।
दृश्यानां दिव्यभोगानामुद्यानानां सुधार्थिनाम् ।।1.124.७० ।।
दधिदुग्धादिमिष्टानां शयनासनवाहिनाम् ।
शीतोष्णव्यंजनादीनां व्यजनाऽऽदर्शवर्त्तिनाम् ।।७१ ।।
रमारामाविहाराणां सौधप्रासादशालिनाम् ।
विभूषाणां कज्जलानां रंगाणां स्वादिनां तथा ।।।७२।।
लेप्यानां च प्रभक्ष्याणां पात्राणां कर्मिणां तथा ।
दासीनां दासदासानां वैष्णवानां सुसेविनाम् ।।७३।।
किंकरीणां सुलोकानां फलपुष्पसुपत्रिणाम् ।
वृक्षोद्यानवनानां च मधुवापीसरित्सताम् ।।७४।।
भौतिकानां च दिव्यानां काचकम्बलद्रुत्वचाम् ।
मुखवासादिवस्तूनां विमानानां विमानिनाम् ।।७५।।
सेवकानां सुरतानां विलासिनीविलासिनाम् ।
रूपाणां कोमलानां च वस्तूनां वासदायिनाम् ।।७६।।
वाद्यानां सामनृत्यानां समाजोत्सवशालिनाम् ।
सिंहासनानां बृसीनां पात्राणां पत्रिणां तथा ।।७७।।
रूपे गुणे च सामर्थ्ये वैभवे चैश्वरे तथा ।
नारायणान्न वै न्यूनं लक्ष्म्या न्यूनं च वा नहि ।।७८।।
सर्वे नारायणसमा भक्ता नार्यो रमासमाः ।
महावैकुण्ठवासे वै नारायणान्न हीनता ।।७९।।
लक्ष्मीनारायणे यद्वत् तद्वत्स्वस्मिन्न भिन्नता ।
न बलिर्न जरा पलितता नैव च क्षीणता ।।1.124.८०।।
न ह्रासो नाऽप्यकान्तिश्च न शोको मरणं कुतः ।
न वै संकल्पहानिश्च यद्यदिच्छति तद्भवेत् ।।८१।।
सर्वं चिन्तामणिव्याप्तं संकल्पद्रुमनैत्यकम् ।
सर्वमक्षयकरणं ब्रह्मधामप्रपूरितम् ।।८२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महावैकुण्ठे राजमार्गब्रह्मपनसलक्ष्मीपनसमहाप्राकारप्रासादगोपुरसप्तव्यूहादिवर्णननामा चतुर्विंश-
त्यधिकशततमोऽध्यायः ।। १२४ ।।