लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ११०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११०
[[लेखकः :|]]
अध्यायः १११ →

श्रीनारायण उवाच-
इत्येवं तु मया लक्ष्मि! प्रतिज्ञातं तु वेधसे ।
ततश्चाहं ततःस्थानाद् द्रागेवाऽदृश्यतां गतः ।। १ ।।
ममाक्षरे परे धाम्नि ब्रह्मचारिव्रते स्थितः ।
वर्ते यद्वत्सर्वथैव वर्ते बद्रीवने तथा ।। २ ।।
दिव्यं चाऽक्षरधाम्नस्तु प्रान्तभागे तदाश्रमे ।
तथैव च प्रसंकल्प्य धर्मदेवे प्रविष्टवान् ।। ३ ।।
अक्षरब्रह्मणा साकं धर्मान्मूर्तौ प्रविष्टवान् ।
मूर्त्या मम जनन्या च तदा संकल्पमात्रतः । । ४ ।।
बालौ प्रविर्भावितौ तौ नरनारायणात्मकौ ।
जातमात्रो षोडशाब्दौ सुरूपौ काममोहनौ ।। ५ ।।
सुपुष्टहृष्टसर्वांगौ माला पुस्तिकराब्जकौ ।
कोटिकोट्यर्कसंकाशौ प्रोज्ज्वलौ परमेश्वरौ ।। ६ ।।
सूक्ष्मस्वर्णतन्तुतुल्यजटाशोभितमस्तकौ ।
कौपीनाच्छादनौ वृक्षशालाकन्थाकमण्डलू ।। ७ ।।
सोपवीतौ ब्रह्मचर्यव्रतपूर्णौ तपस्विनौ ।
अन्यत्र पुरुषे नारीभागौ तु भवतो यथा ।। ८ ।।
पूरुषस्य वामभागो न्यूनशक्त्याश्रयो भवेत् ।
मयि नारायणे वामे न्यूनशक्तिर्न वै मनाक् ।। ९ ।।
वामदक्षिणयोः सर्वाः समाना एव शक्तयः ।
न्यूनशक्त्यात्मको नारीभागो मयि न विद्यते ।। 1.110.१ ०।।
विद्येते वक्षसि चिह्ने स्तनयोस्तु ममैव ते ।
स्तनचिह्नस्य विरहे मूर्तौ मे न्यूनता भवेत् ।। ११ ।।
सर्वांगपूर्णता न स्यात् ततश्चिह्ने तु रक्षिते ।
नरेऽथ मम रूपे वै विद्येते न स्तनौ यतः ।। १ २।
तस्मिन्नरे मया नारीभावलेशस्य हीनता ।
दर्शिता न तु सामर्थ्यन्यूनाधिक्यमुभांऽगयोः ।। १ ३।।।
निस्तनस्तु नरो बोध्यः सस्तनोऽहं नरायणः ।
मया लक्ष्मीः सदा रक्ष्या स्तनो वै रक्षितौ ततः ।। १४।।
नररूपे तु लक्ष्म्यास्ते सुसत्त्वे न प्रयोजनम् ।
ब्रह्मचर्यस्वरूपे मे पत्न्या नास्ति प्रयोजनम् ।। १५।।
इत्यतो नररूपं मे ब्रह्मचर्यं परं मतम् ।
तादृग्रूपौ समुत्पन्नावाजानुभुजपंकजौ ।। १६ ।।
दृष्ट्वा तु पितरौ सम्यक्प्रसन्नौ च प्रचक्रतुः ।
संस्कारौ जातसंशुद्धथै समाज्ञप्तौ तपःकृते ।। १७।।
तदा ह्यावां नरनारायणौ तौ च ववन्दतुः ।
सेवार्थं न तपोऽर्थ वै सेवा पित्रोस्तु दुर्लभा ।। १८।।
सेवायां तु सदा सम्यग्वर्तनीयं सुपुत्रकैः ।
लोके सृष्टौ सदा माता पुत्रं गर्भे सुरक्षति ।। १ ९।।
तन्निमित्तं सदा कष्टं सहते जननी महत् ।
प्रसवे चापि कष्टं च पालने कष्टमित्यपि ।। 1.110.२०।।
रात्र्यहं चानुसन्धानं क्षालनं मलमूत्रयोः ।
प्राणवद् रक्षणं शश्वत्स्तन्यपानेन पोषणम् ।।२१।।।
अंके कट्यां च वहनं स्वमभुक्त्वा प्रपोषणम् ।
लालनं रंजनं सेवा मात्रा तु क्रियते सदा ।। २२।।
तस्या जनन्या आजन्म आमृति सेवयाऽपि वै ।
न पुत्रो निर्ऋणो वै स्यादसेवकस्य किं भवेत् ।।२३ ।।
सेवाहीनस्य पुत्रस्य मातॄणं न निवर्तते ।
तस्मात्सेवा प्रकर्तव्या चेत्यावाभ्यां प्ररोचते ।।२४।।
मातृसेवाविहीनस्तु पुत्रो न पुत्र उच्यते ।
स त्वपुत्र इति प्रोक्तो मातृभारकरो हि सः ।।२५ ।।
तस्मात्सेवां करिष्यावो ह्युभौ पित्रोस्तु सर्वदा ।
असेवकस्य पुत्रस्य नरके नियता गतिः ।। २६ ।।
कालपाशेन बद्धः स्यात्प्रेतश्चापि भवेत्तथा ।
ऋणदानाय विविधां योनिं गच्छेच्च यातनाम् ।।२७।।
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
सऋणस्य गतिर्नास्ति न स्वर्गं नाऽपुनर्भवः ।।२८।।।
पितॄणं पुत्रमुत्पाद्य देवर्णं यागकर्मणा ।
ऋष्यृण विद्ययाऽपोह्य मनस्तपसि योजयेत् ।।२९।।
तस्मात्सेवां करिष्यावोऽन्यथाऽधोगतिमाप्नुवः ।
वृद्धौ तु पितरौ पुत्रैः पालनीयौ समन्ततः ।।1.110.३ ०।।
अनुजाः पालनीयाश्च रक्ष्याः स्वसार इत्यपि ।
विवाहनीयाः सततं दत्त्वा साहाय्यमर्थजम् ।। ३ १।।
कुटुम्बपोषणं कार्यमुद्यमश्च धनार्जने ।
सुखदुःखे समे चोह्ये सम्बन्धिभिर्गृहस्थितैः ।।३२।।
पित्रोरास्वर्गवासं वै सेवनीयौ तु तौ मतौ ।
पुत्रो युवा भविष्यन्वै रक्षिष्यति च नौ तदा ।।३३।।
सुखिनौ वै भविष्याव इति पित्रोः प्रकल्पनम् ।
भंक्त्वा यायाद्वने पुत्रौ न पुत्रः स तु राक्षसः ।।३४।।
वने फलं न वै तस्य भवेत्प्रत्युत पातकम् ।
पित्रोराशीर्वचोयुक्तान् पुण्यसंघान्न योऽर्जयेत् ।।।३५।।।
स स्वर्गं वाऽथ साम्राज्ये स्थितोऽपि नारकी मतः ।
तस्मात्तु युवयोः सेवां करिष्यावस्तु सर्वथा ।।।२६।।
मातृसेवा कृता येन तेन सर्वं कृतं भवेत् ।
दानं यज्ञस्तपो होमो वेदाध्ययनमेव च ।।३७।।
देवताः पूजितास्तेन ध्यानं सर्वं कृतं तथा ।
तपस्तप्तं च विविधं ब्रह्मविद्याऽपि चार्जिता ।।३८।।
साम्राज्यं च कृतं तेन स्वर्गं हस्तगतं कृतम् ।
पारमैष्ठ्यपदं लब्धं येन माता प्रसेविता ।।३९।।
पितरस्तर्पितास्तेन ऋषयः पूजितास्तथा ।
अतिथयोऽर्चितास्तेन येन माता सुसेविता ।।1.110.४० ।।
गमितानि च तीर्थानि क्षेत्राण्यायतनानि वै ।
विहितानीष्टपूर्तानि येन माता प्रसेविता ।।४१।।
नास्ति सेवासमं पुण्यं सांख्ययोगादिचर्वणे ।
नास्ति मातृसमा देवी नापि पितृसमो हरिः ।।४२।।
म्रियमाणोऽपि बालो वै पितृभ्यां च निरीक्षितः ।
तथापि स्वर्गमाप्नुयात् कस्तौ देवौ परित्यजेत् ।।४३।।
इन्द्रः सूर्यः शशी विष्णुर्गणेशः शंकरोऽब्जजः ।
वरुणोऽग्निस्तथा चान्ये देवास्तु जनके स्थिताः ।। ४४।।
जनकस्य सुतः सम्यक्सेवया लभतेऽन्वहम् ।
देवपूजाफलात्कोटिगुणं सत्फलमक्षयम् ।।४५।।
लक्ष्मीः सरस्वती सन्ध्या सावित्री च सती तथा ।
गायत्री रोहिणी संज्ञा वारुणी वैष्णवी तथा ।।४६।।
सर्वाश्च पूजितास्तेन येन माता सुसेविता ।
तासां पूजाकृतपुण्यात् कोटिपुण्यं प्रसूस्थितम् ।।४७।।
सर्वास्ता जननीमूर्तौ तिष्ठन्त्येव न वै पृथक् ।
तस्मान्मातुश्च सेवां वै पितुश्चापि प्रसेवनम् ।।४८।।
करिष्यावोऽत्र पित्रोस्तु पादयोर्वासमास्थितौ ।
पित्रोः सेवामहिमानं विजानन्तौ नराच्युतौ ।।४९।।
महापापाभिभूतस्य पितृसेवारतस्य तु ।
पुत्रस्य नयने दूता यमस्य प्रभवो न वै ।।1.110.५०।।
मृतिकाले यदि पित्रोर्नेत्राभ्यां नेत्रमेलनम् ।
क्रियते तु सुपुत्रेण तदापि सद्गतिर्भवेत् ।।५१ ।।
मृत्युकाले सुपुत्रेण मुखे वृन्दादलं जलम् ।
दीयतेऽपि च तन्मात्रात् पित्रोस्तु सुगतिर्भवेत् ।।।५२।।
यस्य गेहे भवेत्पुत्रः प्रतुष्यन्ति पितामहाः ।
पुत्रहीनं कुटुम्बन्तु शपन्त्येव पितामहाः ।।।५३।।
वंशे श्राद्धप्रकर्तारमदृष्ट्वा प्रपितामहाः ।
मुञ्चन्त्युष्णप्रणिःश्वासान् भाविनीरशनार्दिताः ।।५४।।
स्वसारश्चापि निःश्वासान् मुञ्चन्त्यभ्रात्र्य इत्यतः ।
नाऽस्मभ्यः कंचुकीदाता भ्राताऽपि विद्यते इति ।।५५।।
लोका वदन्त्यनपत्याननं दृश्यं न मंगलम् ।
कन्यां वदन्ति नभ्रात्रीं निर्वंश्योऽयं जनो वदेत् ।।५६।।
पुत्रशून्यं गृहं सौधो विमानं च श्मशानवत् ।
पुत्रशून्याः खानपानाभरणादिविभूतयः ।।५७।।
कृष्णाहिविषवद्बोध्या नानन्दाय भवन्ति ताः ।
देवाश्च ऋषयः सर्पा नागाश्चाण्डजजातयः ।।५८।।
सर्वेऽपीच्छन्ति सत्पुत्रान् जन्माऽपुत्रं निरर्थकम् ।
तस्माद्भाव्यं सुपुत्रेण सुसेवकेन सर्वथा ।।।५९।।
अतो ह्यावां करिष्यावः सेवां पित्रोस्तु सर्वदा ।
तत्रः श्रेयः परं भाव्यं सेवा मुक्तिप्रदायिनी ।।1.110.६० ।।
इति पित्रोर्महिमानमुक्त्वा नरनरायणौ ।
तूष्णीं बभूवतुस्तत्र सेवाधर्मरतौ यदा ।।६१।।
पितृभक्तिमयौ मातृसेवाकृतविनिश्चयौ ।
तुतुषतुर्मूर्तिधर्मौ शुभाशीर्वादयोजिनौ ।।।६२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नरनारायणाभ्यां जन्मोत्तरं पित्रोः सेवाधर्मप्रशंसननामा दशाधिकशततमोऽध्यायः ।। ११० ।।