लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १०८
[[लेखकः :|]]
अध्यायः १०९ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! जगन्माता पार्वती बहुहर्षिता ।
स्नुषाद्वयं भविष्यन्मे चक्रे तत् बहुमंगलम् ॥ १॥
एतस्मिन्नन्तरे तत्र विश्वरूपः प्रजापतिः ।।
द्वे पुत्र्यौ स्वस्य दानार्हे नीत्वैव विधिनोदितः ॥ २ ॥
एका वराय दातव्यो गणेशाय गुणाब्धये ।
अन्या स्कन्दाय दातव्या यद्वा कन्यामतं मतम् ॥ ३ ॥
दृष्ट्वा स्कन्दं वधूयुक्तं वव्राते न द्वयं तु तम् ।
गणेशं कन्यके दृष्ट्वा वव्राते रूपसद्गुणम् ॥ ४ ॥
सिद्धिर्बुद्धिरुभे पत्न्यौ गणेशस्य बभूवतुः ।।
महोत्सवो विवाहस्य तदा जातोऽतिहर्षकृत् ॥ ५ ॥
देवगान्धर्वविद्याध्रकिन्नरागुह्यकादयः ।
सन्तुष्टाश्च त्रिलोकस्थास्तद्विवाहे समागमन् ॥ ६ ॥
सहधर्मं चरेतामित्यादिपुरोहितस्य वाक् ।
सफला तत्र संजाता गणेशस्य विवाहने ॥ ७ ॥
गणेशस्तु सदा सौख्यं ताभ्यां वै प्राप्तवान् परम् ।
लोके सापत्नशत्रुत्वं दुःखदं खलु जायते ॥ ८ ॥
यस्य भाग्यं भवेद् भग्नं लोकेऽस्य स्त्रीद्वयं भवेत् ।
द्विभार्यस्तु नरश्चार्धं मृतोऽस्त्येव विनिश्चयः ॥ ९ ॥
न वै तं शत्रवो घ्नन्ति द्विभार्यस्तु मृतो यतः ।
एका स्वपिति यावद्वै द्वितीया द्वेष्टि वै क्रुधा ॥१०॥
अन्या सेवां करोत्यत्र प्रथमा चेर्ष्यति क्रुधा ।।
क्षणे क्षणे द्विभार्यस्य क्रोधागारं गृहं मतम् ॥११॥
एकया पुत्रसम्पत्त्या द्वितीयां तु घृणायते ।
द्वितीया धनसम्पत्त्या प्रथमा वै तृणायते ।। १२।।
एकया रूपसम्पत्त्या द्वितीया नोत्सवायते ।
द्वितीया स्नेहसम्पत्त्या प्रथमां कुत्सितायते ।। १३।।
शयने भोजने याने विलासे वस्त्रधारणे ।
हावे भावे तथा माने चोत्सवे नरकं द्वयम् ।। १४।।
तत्रापि काकजातीये श्वजातीये यया स्त्रियौ ।
तदा साक्षात्तु वै कुंभीपाकाख्यं नरकं हि ते ।। १५।।
यदि भार्ये कुटुम्बिन्यौ सुनिषेकभवे तदा ।
क्लेशो नैव भवेत् तत्र स्वर्गवाच्यं गृहं मतम् ।। १६।।
परस्परं सहायिन्यौ सुखदुःखसमक्रिये ।
परस्परप्रदायिन्यौ नैकां विहाय तिष्ठतः ।। १७।।
नाऽन्योन्याऽन्तरभेदिन्यौ द्येकक्रियैकमानसे ।
परस्परोपकारिण्यौ समशीलव्रताऽर्थिके ।। १८।।
अपत्येष्वेकभाविन्यौ तथोपकरणैकते ।
स्वर्गसुखं पतिस्तत्र भुंक्ते ताभ्यां प्रमोदितः ।। १९।।
सिद्धिर्बुद्धिश्च तादृश्यौ पत्न्यौ शंदे बभूवतुः ।
कियता चैव कालेन गणेशस्य महात्मनः ।।1.108.२०।।
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामाऽभवत्सुतः ।
बुद्धेर्लाभाभिधः पुत्रः समजायत शोभनः ।।२१।।
अथ श्रीनारदश्चायात् स्कन्दस्य गृहमद्भुतम् ।
प्राह वच्मि मत्सरान्न नाऽसत्यं न छलेन च ।।२२।।
पितृभ्यां ते कृतं यादृक् तादृक् नान्यः करिष्यति ।
निष्कास्य त्वां प्रादक्षिण्ये मिषमुत्पाद्य तद्विधम् ।।२३।।
गणेशस्य वरोऽकारि विवाहः स्त्रीद्वयेन यत् ।
पलयोर्द्वयोर्गणेशोऽसौ लेभे पुत्रद्वयं शुभम् ।।२४।।
मातापित्रोर्मतेनैव सुखं भुंक्ते निरन्तरम् ।
भवता पृथिवी क्रान्ता तयोर्वै छलकर्मणा ।।२५।।
यदि माता च वा तातश्छलधर्मेण पुत्रकम् ।
वञ्चयत्यन्यलोकस्य का वार्ता छलधर्मणि ।।२६।।
असम्यग्वै कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म तत् ।
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ।।२७।।
दद्याद् यदि गरं माता विक्रीणीयाद् पिता यदि ।
राजा हरति सर्वस्वं कोऽन्यो रक्षाकरो भवेत् ।।।२८।।
येनैवेदं कृतं कर्म स्वपुत्रे पक्षपातजम् ।
कः शान्तिमान् सुधीः पुत्रस्तादृक्तातगृहे वसेत् ।।२९।।
इति नीतिर्मया प्रोक्ता यथेच्छसि तथा कुरु ।
इत्युक्त्वा नारदस्तस्माद् ययौ सत्यपुरं ततः ।।1.108.३० ।।
स्कन्दः शोकं समुद्वेगं समापन्नो गृहात्ततः ।
विनिर्गत्य च पितरौ प्रणम्य क्रोधपूरितः ।।३ १।।
जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि सन् ।
यद्येवं कपटं प्रीतिनपहाय कृतं मयि ।।३२।।
गणेशस्य सुलग्नस्य कार्यं सारल्यतः कृतम् ।
अहन्तु घोरपन्थार्थं गृहान्निष्कासितस्ततः ।।३३।।
मया नाऽत्र गृहे यावज्जीवं स्थातव्यमेव हि ।
मयूरं स्वं समारुह्य सेनां त्यक्त्वा पितुर्गृहे ।।३४।।
ययौ क्रौंचे महाशैले नारायणपरायणः ।
परमो वैष्णवो भूत्वा भजत्यनिशमच्युतम् ।।३५।।
स्वामित्वं स समापन्नः साधुतामग्रहीत्ततः ।
ब्रह्मव्रते सदा तिष्ठन् वर्तते साधुशीलवात् ।।३६।।
कार्तिकस्वामिनामाऽसौ पूज्यते क्रौंचपर्वते ।
कार्तिक्यां तु सदा देवा ऋषयश्च सतीर्थकाः ।।३७।।
दर्शनार्थं कुमारस्य गच्छन्ति च मुनीश्वराः ।
अथोमा दुःखमापन्ना स्कन्दस्य विरहे सति ।।३८।।
उवाच शंकरं दीना तत्र गच्छ मया सह ।
तत्सुखार्थं स्वयं शंभुर्गतः स्वांशेन पर्वते ।।३९।।
मल्लिकार्जुननामा स शंभुः सत्या सहाऽवसत् ।
कार्तिकस्तद्रव्रतं ज्ञात्वा विरज्याऽन्यत्र गच्छति ।।1.108.४०।।
तावद् देवादिभिस्तत्र प्रार्थितो ह्यवसत् खलु ।
योजनत्रयमुत्सृज्य स्थितः स्कन्दः सुशीलधृक् ।।४१।।
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।
दर्शनार्थं कुमारस्य स्नेहिलौ चापि गच्छतः ।।४२।।
अमावास्यादिने तत्र स्वयं शंभुः प्रयाति हि ।
पूर्णिमायां स्वयं याति पार्वती सेनया युता ।।४३।।
इत्येवं श्रीगणेशस्य सिद्धिर्बुद्धिश्च वै प्रिये ।
क्षेमो लाभश्च पुत्रौ द्वौ सह तैः पूजनं क्रियात् ।।४४।।
एतदाख्यानमनघं यशस्यं सुखवर्धनम् ।
आयुष्यं स्वर्ग्यमतुलं शिवभक्तिविवर्धनम् ।।४५।।
कथितं ते महालक्ष्मि! मातृसेवाविवर्धनम् ।
अपवर्गप्रदं प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।।४६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विश्वरूपप्रजापतिना सिद्धिबुद्धिनामककन्याद्वयं श्रीगणेशाय विवाहविधिनाऽर्पितं, ततः क्षेमो लाभश्चेति पुत्रोत्पत्तिः कार्तिकेयस्य क्रौंचाद्रिं प्रति सदा गमनमित्यादिकथननामाऽष्टाधिकशततमोऽध्यायः ।। १०८।।