लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०९०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९०
[[लेखकः :|]]
अध्यायः ०९१ →

श्रीनारायण उवाच--
देवगुरुः स्वयं यातो कावेर्याश्चोत्तरे तटे ।
होमं चकार चेन्द्रस्य राज्यनाशाय शेषतः ॥ १ ॥
ॐ नमो भगवति ऋक्षकर्णि चतुर्भुजे ।
ऊर्ध्वकेशि कालरात्रि वसारुधिरभोजने ॥ २ ॥
इन्द्रस्य प्राप्तकालस्य मृत्युदे हुं फट् हन ।
हन दह दह मांसं रुधिरं पच पच स्वाहा ॥ ३ ॥
इति होमं प्रकुर्वता कृत्या क्रूरा तु निर्मिता ।।
सा गता चेन्द्रनाशाय दृष्टेन्द्रो विह्वलोऽभवत् ॥ ४ ॥
पलायितो व्योममार्गाद् ब्रह्मणः सदनं ययौ ।।
कृत्या परावृता तस्माद् बृहस्पतिमुपागता ॥ ५ ॥
बृहस्पत्याज्ञया चेन्द्ररत्नानां नाशनाय हि । ।
गता स्वर्गं तदा सर्वे भयभीता त्वितस्ततः ॥ ६ ॥
विनाशिकां महाघोरां कालानलसमप्रभाम् ।।
व्यात्ताननां सशस्त्रां च दृष्ट्वा चक्रुः पलायनम् ॥ ७ ॥
दुर्वाससो मुनेः शापो महाकायः करालकः ।।
कृष्णपर्वतसन्निभो मेघान् लिहन् स्वजिह्वया ॥ ८ ॥
सूर्यचन्द्रनिभे नेत्रे विस्फारयन् प्रभक्षकः ।।
त्रिलोक्यास्तु विनाशाय स्वर्गं तु प्रथमं गतः ॥ ९ ॥
करालकः स पुरुषः कृत्या ऋक्षश्रवस्यपि ।
विनाशयामासतुश्च स्वर्गरत्नानि सर्वतः ॥1.90.१०॥
तदा शची तिरोधानं गता तु कमलेक्षणा ।
ऐरावतो महानागस्तथैवोच्चैःश्रवा हयः ॥११॥
प्रदुद्रुवुस्तथा चान्यरत्नानि स्वर्गतः किल ।।
पातालस्थेन बलिना ज्ञात्वा शक्रस्य दुर्दशाम् ॥१२॥
अकारि स्वर्गलाभाय युद्धं दैत्यप्रसेनया ।
लब्धाऽमरावती तेन रत्नान्यास्कन्दितानि च ॥१३॥
सप्तांगं सकलं तस्येन्द्रस्य नीतं तलातलम् ।
शुक्रप्रसादाद् दैत्यास्तु तदा विजयिनोऽभवन् ॥१४॥
समुद्रे पतितावुच्चैःश्रवऐरावतैस्तदा ।
अन्यान्यपि च रत्नानि ह्यनेकानि बहून्यपि ॥१५॥
स्वर्गान्नीतानि दैत्यैश्च दैत्यानहार्णि तानि तु ।।
विद्रुत्वा तानि दैत्येभ्यः पतितानि तु सागरे ॥१६॥
चन्द्रो जलद्रवो भूत्वा भूत्वा कामदुघा पयः ।।
कल्पवृक्षः पारिजातश्चादृश्यौ बीजभावतः ॥१७॥
अप्सरसो नदीरूपा हीरकाः कंकरास्तथा ।
अमृतं तु तदा भूत्वा वारिरसमयो द्रवः ॥१८॥
ऋद्धिस्मृद्धिरमारामा भूत्वा रूपान्तरात्मिकाः ।
जग्मुः समुद्रमध्याऽधस्तले विश्रान्तिमाप्नुवन् ॥१९॥
देवभोग्यानि रत्नानि दैत्यभोग्यानि नैव हि ।
तदा स विस्मयाविष्टो बलिराह गुरुं प्रति ॥1.90.२०॥
बलाज्जितानि रत्नानि पेतुर्जलमहार्णवे ।।
शुक्रः प्राहाऽश्वमेधानां शतेनाऽऽप्त्वा सुरेशताम् ॥२१॥
यस्तिष्ठति सुरराजाऽऽसने रत्नानि तस्य वै ।।
अश्वमेधशतं कृत्वा तेषां भोक्ता न संशयः ॥२२॥
अश्वमेधैर्विना किञ्चित्स्वर्गीयं नैव भुज्यते ।
गुरोर्वचनमाज्ञाय बलिः प्राह गुरुं तदा ॥२३॥
यतिष्ये प्राप्तसमये नेदानीं समयोऽस्ति सः ।
अथेन्द्रोऽपि शिक्षितः श्रीब्रह्मणा परमेष्ठिना ॥२४॥
ब्रह्माणं लोकपालाँश्च पुरस्कृत्य सुरास्तथा ।
मुनीन् देवाँश्चाऽगमत् स समुद्रं क्षीरसागरम् ॥२५॥
प्राप्ता विमृश्य ते सर्वे हरिं स्तोतुं प्रचक्रमुः ।।
देवानां दुःखहर्षे ते क्षीरसागरवासिने ॥२६॥
सर्वान्तर्यामिणे तस्मै शयानाय नमो नमः ।।
कालकृतं महादुःखं देवानां समुपस्थितम् ॥२७॥
प्रविधोतुं च दुःखं तत् त्वमेवाऽसि बलान्वितः ।
देवदेव जगत्त्रातः परमात्मन्नमोऽस्तु ते ॥२८॥
कृपालुर्भगवन् भूत्वा रक्ष सुरान्स्वकान्द्रुतम् ।
गुरोरवज्ञया चापि दुर्वाससोऽवमाननात् ॥२९॥
शतक्रतुर्भ्रष्टराज्योऽभवत्तं वै समुद्धर ।।
तदा तु भगवानाह मदः पातित्यकारकः ॥1.90.३०॥
गुरोरवज्ञया सर्वं नाशं यात्यखिलं स्वकम् ।।
पित्रोर्गुरोस्तथा पत्युः पत्न्याः साध्व्याः सतां तथा ॥३१॥
गवां चैवापमानस्य कर्तॄणां स्यान्महान् क्षयः ।।
कृतमिन्द्रेण तादृग्वै तद्दोषात्सकलं जगत् ॥३२॥
क्षणाद्दुःखं समापन्नं सद्य एव निरीक्ष्यताम् ।।
विपरीतो यदा कालस्तदा सर्वं समापयेत् ॥३३॥
विपरीते तदा काले धैर्यमालम्ब्य सन्धिना ।
शत्रुणाऽपि मिलित्वैव स्वकार्यं साधयेत् सुधीः ॥३४॥
अत इन्द्र त्वया कार्यो दैत्यैः सह समागमः।
मिलित्वा नष्टरत्नानि प्राप्स्यन्ते तूद्यमात्पुनः ॥३५॥
साहाय्यदो भविष्यामि समुद्रमथनेऽन्वहम् ।।
दैत्या देवा मिलित्वैव प्राप्स्यामः स्वधनं पुनः ॥३६॥
इत्याज्ञप्तस्तदा चेन्द्रो जगाम सुतलं बलिम् ।
आश्रितो विनयी भूत्वा ननाम प्रबलं बलिम् ॥३७॥
बलिनाऽपि तदा दृष्टो निःश्रीको निष्प्रभोऽमदः ।।
विमत्सरो गततेजाः सुरराजो महर्तिमान् ॥३८॥
निर्मदं तं परं दृष्ट्वा दयापन्नो बलिस्तदा ।।
उवाचेन्द्रं तु सामान्य प्रहसन्निव दाक्ष्यतः ॥३९॥
कस्मादिहाऽऽगतः शक्र ! सुतलं प्रति कथ्यताम् ।
जिज्ञासमानं ज्ञातारं समयज्ञं बलिं तदा ॥1.90.४०॥
इन्द्रः प्राह बले ! सर्वरत्नानि विगतानि वै ।।
यथा वयं तथा यूयं रत्नहीनाः कलिश्रिताः ॥४१॥
मम राज्यं त्वया नीतं कालवेगेन विग्रहात् ।
न ते भोग्यं जायते तद्विनेन्द्रपदवीं नृप ! ॥४२॥
दैत्यहस्तगतान्येव रत्नानि सुबहून्यपि ! ।
अयोग्यानीति तान्येव यत्रत्यानि गतानि तत् ॥४३॥
इदानीं राज्यरत्नादिविहीनोऽहं तलाधिप !।
तस्मात्प्रयत्नः कर्तव्यो रत्नानां लब्धये त्वया ॥४४॥
शरणार्थमहं प्राप्तः सुरैः सह तवान्तिकम् ।।
अमृतं तु समुद्राद्वै पुनराप्तव्यमेव ह ॥४५॥
तत्र ते तु यथायोग्यं स्वत्वं दास्ये तु लब्धिजम् ।
देवा दैत्या मिलित्वैव समुद्रमथनं मुहुः ॥४६॥
करिष्यामस्तदा तत्र गतानि यानि तानि वै ।।
लप्स्यामहे शरण्यस्त्वं साहाय्यं दातुमर्हसि ॥४७॥
एवमुक्तस्तदेन्द्रेण बलिदैत्यपतिः स्वयम् ।
विमृश्य परया बुद्ध्या कार्याकार्यविचक्षणः ॥४८॥
शक्रं संपूजयामास बहुमानपुरःसरम् ।।
शक्रः संस्मृत्य वचनं विष्णोः स्वार्थप्रसाधनम् ॥४९॥
प्राप्तव्यानि त्वया वीर रत्नानि सुबहून्यपि ।
शीघ्रं चोद्धरणे दैत्य ! यत्नो मन्थे विधीयताम् ।।1.90.५०॥
एवं स समयं कृत्वा यत्नार्थमकरोन्मनः ।।
बलिराह तदा शक्रं केनेन्द्र ! मथनं भवेत् ॥५१॥
तदा नभोगता वाणी विष्णुरूपात्मिका शुभा ।
उवाच देवदैत्यांश्च मन्थत क्षीरसागरम् ॥५२॥
मन्दराचलमन्थानं मन्थनरज्जुवासुकिम् ।।
कृत्वा देवाश्च दैत्याश्च संहृत्य कुरुताऽर्थदम् ।।५३।।
इति श्रुत्वा तदा दैत्या उद्यमं कर्तुमुत्सुकाः ।।
पातालेभ्यो निर्गतास्ते दानवा असुरादयः ॥५४॥
कोटिशस्ते तदा चाथ देवा अपि तु कोटिशः ।।
उद्युक्ता ब्रह्मविष्णुभ्यां युक्ता ययुश्च मन्दरम् ॥५५॥
चन्द्रं स्पृशते यच्छृगं पादानि बलिसत्तले ।
श्रोणीः पृथ्व्यां तु यस्यास्ति मन्दरं तं नमामहे ॥५६॥
अनेकदेवसंवास रत्नानामाकराकरम् ।
सर्वौषधिसमाकीर्णं नताः स्मो गिरिमन्दरम् ॥५७॥
अद्रे ! सुरा वयमत्र साहाय्यार्थं समागताः ।
बलिरिन्द्रो बभाषाते प्रस्तावसदृशं वचः ॥५८||
अमृतोत्पादनस्यार्थे मन्थस्त्वं भव गोत्रज !।
तथेति मत्वा शैलेन्द्रः प्राह तच्छृण्वतां वचः ॥५९॥
त्वया वज्रेण पक्षौ मे शातितौ हि सुरेश्वर !।।
कथमायामि गच्छामि व्योममार्गं विना तटम् ॥1.90.६०॥
तदा महाबला देवा दैत्याश्च मिलिता गिरिम् ।
मूलादुत्पाटयामासुर्धृत्वा स्कन्धेषु तं तदा ॥६१॥
क्षीराब्धितटमाप्तुं वै जग्मुर्बहुबलेश्वराः ।।
देवा दैत्या मन्दरातिभाराक्रान्ता बहुश्रमाः ॥६२॥
मार्गे एव निषेदुश्च मन्दरः पतितो भुवि ।।
तदधस्तान्मृताः केचित्केचिद्भग्ना विमूर्छिताः ॥६३॥
पुनर्नेतुं न वै शक्ता मृतशोकपरायणाः ।।
रत्नानि तु कदाऽऽप्स्यन्ते ह्येते तु जीवतो गताः ॥६४॥
माऽस्माभिः प्राणहा यत्नः कर्तव्यश्चाशया ह्ययम्।
दूरे तिष्ठन्तु रत्नानि पर्वतोऽप्यत्र तिष्ठतु ॥६५॥
वयं स्वं स्वं तु विवरं गमिष्यामः सुखाश्रयम् ।
एवं निराशा भूत्वैवाऽभवँस्तूष्णीं किमीक्षकाः ॥६६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बृहस्पतिसमुत्पादितकृत्यया दुर्वाससः शापपुरुषेण च स्वर्गं पराभूतं रत्नानि समुद्रे गतानि ब्रह्मेन्द्रादयो विष्णुं नीत्वा बलिना दैत्यैश्च सन्धाय समुद्रमथनार्थं मन्दराचलाऽऽनयनयत्नवन्तोऽभवन्नितिनिरूपणनामा नवतितमोऽध्यायः ॥९०॥