लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८७
[[लेखकः :|]]
अध्यायः ०८८ →

श्रीलक्ष्मीरुवाच-
पतिदेव! नमस्तुभ्यं कृष्णात्मा तु गजाननः ।
काश्यामवस्थितः पश्चान्मन्दरेऽभूद्धरस्य किम् ।। १ ।।
श्रीनारायण उवाच-
शंकरेण तदा विष्णुः प्रोक्तः काशीगमाय तु ।
तथा त्वमपि मा कार्षीर्यथा प्राक्प्रस्थितैः कृतम् ।। २ ।।
विष्णुश्चतुर्भुजः प्राह यथाबुद्धिबलोदयम् ।
उद्यमः प्राणिना कार्यः फलं दैवकृतं मतम् ।। २ ।।
अतीव यदसाध्यं तत्सुसाध्यं हर्यनुग्रहात् ।
सुमुहूर्तं संविलोक्य सलक्ष्मीको हरिः स्वयम् ।। ४ ।।
विष्णुश्चतुर्भुजोऽगच्छत् काशीं स्नातश्च गंगया ।
सा वै पादोदकी गंगा कीर्त्यते भक्तपुंगवैः ।। ५ ।।
कृतपादोदकस्नानं पीतपादोदकोदकम् ।
दत्तपादोदपानीयं नरं न निरयः स्पृशेत् ।। ६ ।।
विष्णुपादोदके तीर्थे प्राश्य पादोदकं सकृत् ।
जातुचिज्जननीस्तन्यं पातव्यं न भवेदिति ।। ७ ।।
सचक्रशालग्रामस्य शंखेन स्थापितस्य च ।
अद्भिः पादोदकस्याऽम्बु पिबन्नमृततां व्रजेत् ।। ८ ।।
विष्णुपादोदके तीर्थे विष्णुपादोदकं पिबेत् ।
सप्त सप्त तथा सप्त स्ववंशाँस्तारयिष्यति ।। ९ ।।
तत्र तीर्थे स्वयं विष्णुः स्वमूर्तिं दार्षदीं व्यधात् ।
आदिकेशवनाम्नीं तां स्वयमस्थापयत्ततः ।। 1.87.१० ।।
श्वेतद्वीपइतिस्थानं तत्काशीसीम्नि वर्तते ।
यत्र यत्र स्थितः सुप्तो विश्रान्तो निद्रितस्तथा ।। १ १।।
तत्र तत्र च तीर्थानि जातानि विष्णुसंज्ञया ।
क्षीराब्धिनामकं तीर्थं शंखतीर्थं तथा परम् ।। १२।।
चक्रतीर्थं गदातीर्थ तीर्थं च पद्मसंज्ञकम् ।
महालक्ष्म्यभिधं तीर्थं तार्क्ष्यतीर्थं तथापरम् ।। १३।।
तत्र नारदतीर्थं च प्रह्लादतीर्थमित्यपि ।
अम्बरीषमहातीर्थमादिकेशवतीर्थकम् ।। १४।।
दत्तात्रेयमहातीर्थं तीर्थं च भार्गवं तथा ।
तथा वामनतीर्थं च नरनारायणाभिधम् ।। १५।।
यज्ञवाराहतीर्थं च गोपीगोविन्दतीर्थकम् ।
लक्ष्मीनृसिंहतीर्थं च शेषतीर्थं तथापरम् ।। १६।।
शंखमाधवतीर्थं च तीर्थं हयाननं तथा ।
मत्स्योदरामहातीर्थं राधाकृष्णसुमन्दिरम् ।। १७।।
काशीविश्वेश्वरसौधं तीर्थमेवमनेकधा ।
विष्णुना तत्र वासाय स्थापिता निजमूर्तयः ।। १८।।
विष्णुना चाथ कार्यं वै शंकरार्थं तु किं कृतम् ।
सौगतं प्रथमं रूपं कृतं त्रिलोकिमोहनम् ।। १९।।
लक्ष्मीस्तदा तु संजाता सुभगा परिव्राजिका ।
गरुत्मानपि संजातः शिष्यो हस्ताग्रपुस्तकः ।।1.87.२०।।
गुरुः पुण्यसूर्यभिधः शिष्यो विनयसूरिकः ।
लक्ष्मीरार्यसूरिणी च विवेचयन्ति चत्वरे ।।।२ १।।
विनयसूरिः पप्रच्छ गुरुं धर्मं सनातनम् ।
पुण्यसूरिर्गुरुः प्राह जनानां शृण्वतां तदा ।। २२।।
अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः ।
स्वयं प्रादुर्भवेदेषः स्वयमेव विलीयते ।।।२३।।
आत्मैवैकस्तु सर्वत्र नामान्येकस्य सन्ति च ।
शरीरं भूतजं कालकृतं कालेन लीयते ।।२४।।
आहारो मैथुनं निद्रा भयं चेति समानकम् ।
अत्र चतुष्टये सर्वे तुल्याः सन्ति विचार्यते ।।२५।।
कर्मकृतं परं सर्वं नाऽस्मात्कश्चित्परो मतः ।
भजनं कस्य कर्तव्यं नास्ति कश्चित्परो यतः ।।२६।।
धर्मो जीवदयातुल्यो नास्ति पाल्यः स सर्वदा ।
हिंस्यन्ते जन्तवः स्नाने तस्मात्स्नानं न धार्मिकम् ।।२७।।
दह्यन्ते जन्तवो दीपे तस्माद्दीपो न धार्मिकः ।
उपवासैः प्रमर्तव्यं कर्मनाशस्तदा भवेत् ।।।२८।।
आत्मा भवेत्परमात्मा सर्वे तथा भवन्त्विति ।
पंचकर्मेन्द्रियाण्येव पंचज्ञानेन्द्रियाणि च ।।२९ ।।
मनो बुद्धिश्च संपूज्यं द्वादशायतनं शुभम् ।
न धर्मो नाऽप्यधर्मश्च स्वर्गं न नरकं नहि ।।1.87.३ ० ।।
सुखं स्वर्गो दुःखमन्यत् तन्नाशो मोक्ष उच्यते ।
वृक्षान् छित्वा कणान् हुत्वा वृथा विनाश्य कर्मणि ।।३ १ ।।
दग्धा वह्नौ तिलाज्यादि यज्ञस्तु पापमेव तत् ।
न कर्तव्यं न कर्तव्यं कर्महिंसामयं क्वचित् ।। ३ २।।
तद्विनाशाय गन्तव्यं पर्वतारण्यभूमिषु ।
ज्ञानश्रवणमित्येतत् कृत्वाऽन्येपि जनास्तदा ।।३३।।
त्रयाणां तत्र शिष्या वै भवन्ति बहवो जनाः ।
प्रयान्ति काशीं विसृज्य पर्वतारण्यभूमिषु ।।३४।।
अथ नारीषु आर्या सा ह्युपदेशं करोत्यपि ।
प्राह देहो मनुष्याणां स्वकर्मणा ह्यवाप्यते ।।३५।।
कर्म तु हिंसनाद्यात्म न सेवात्म विचार्यते ।
नैको नियामकश्चान्या नियम्येति यथातथम् ।।३६।।
सेवया चान्यदेहस्य यदि लभ्येत नाकदम् ।
स्वस्य देहस्य तां सेवां कथं नैव प्रकुर्महे ।।३७।।
स्वार्थैव पतिसेवाऽस्ति न पुण्यादिकरी मता ।
पराधीनं महादुःखं स्वाधीनं सुखमुच्यते ।।३८।।
तस्मान्नरेण पत्न्यास्तु सेवा कस्मान्न चेष्यते ।
अतः सेवा न कर्तव्या हिंसा स्वार्थश्च पापकृत् ।।३९।।
इत्यार्याया उपदेशान्नार्यः सेवां न कुर्वते ।
दानहोमादिकार्यं च प्रतिरुद्धं न जायते ।।1.87.४० ।।
देवस्नानविधिः सर्वो विलीनश्च ततः पुनः ।
अभ्यस्याकर्षिणीं विद्यां वशीकृतिमतीमपि ।।४१ ।।
नरा नार्यो विमोहेन ब्रह्मचर्यं च तत्यजुः ।
एवं सर्वेषु पौरेषु पराङ्मुखेषु धर्मतः ।।४२।।
प्रविष्टोऽधर्मपादश्च राजा संकल्पकुण्ठितः ।
सामर्थ्यं लीनमेवाऽस्य दिवोदासस्य सर्वथा ।।।४३ ।।
अजिगणद्दिवोदासोऽप्यष्टादशदिनावधिम् ।
तावदष्टादशे प्राप्ते दिवसेऽगाद् द्विजोत्तमः ।।४४।।
स एव विष्णुः प्रत्यक्षो द्विजो भूत्वा समागतः ।
तं स नत्वा प्रपूज्याऽन्तःपुरे निनाय चाह तम् ।।४५ ।।
मासद्वये तु मद्राज्यं निर्माल्यमिव दृश्यते ।
न शक्तिर्न च संपत्तिर्न प्रजा न च धार्मिकम् ।।४६।।
कीदृशोऽयं समायातः समयो न च वेद्म्यहम् ।
चित्ते विराग आयातश्चाहं जिगमिषुर्वनम् ।।४७।।
सर्वं सम्यक् कृतं राज्यं भोग्यं भुक्तं हरेर्बलात् ।
एक एवाऽपराधस्तु मया देवास्तृणीकृताः ।।४८।।
निष्कासिता मया राज्यात्तपोबलसुलम्बिना ।
यदेव कथयस्वाऽद्य तत्तथैव करोम्यहम् ।।४९।।
अवन्तोऽपि प्रजाः सर्वा निजधर्ममनुव्रताः ।
पुरा ते त्रिपुराः शेन लीलया भस्मसात्कृताः ।।1.87.५० ।।
बलिं यज्ञकृतां श्रेष्ठं पाताले नीतवान् हरिः ।
वृत्तवानपि वै वृत्र इन्द्रेणैव निषूदितः ।।५१ ।।
दधीचिविप्रो देवैरस्थिकृते तु हतोऽमलः ।
तस्माद्विरोधो भद्राय न भवेद् दैवतैः सह ।।५२।।
विष्णुः प्राह तदा तस्मै दिवोदासाय मुक्तये ।
न भवत्सदृशो राजा भवन् भूतो भविष्यति ।।।५३।।
त्वया धर्मस्य देवानां किमप्यपकृतं नहि ।
काशीविश्वेश्वरो दूरं कृतोऽपराध एव सः ।।५४।।।
तच्छान्त्यै लिंगमेकं वै काशीविश्वेश्वराभिधम् ।
प्रतिष्ठाप्यं त्वया पश्चात् सप्तमे ह्यद्यवासरात् ।।५५।।
दिव्यं विमानमारुह्य गन्तव्यं श्रीहरेः पदम् ।
श्रुत्वा राजाऽप्यदाद् देयं विप्रं प्रणम्य भावतः ।।५६।।
सर्वतो मन आकृष्य लिंगं संस्थाप्य शोभनम् ।
ॐ नमो भगवते वासुदेवायेति संजपन् ।।५७।।
प्रायोपवेशनव्रतं गृहीत्वा पश्चिमे तटे ।
महान्तं मण्डपं कृत्वा समाहूय प्रजाजनान् ।।५८।।
आहूय पण्डितान्सर्वान् सामात्यान्मण्डलेश्वरान् ।
सर्वांस्तत्तत्कृताध्यक्षान् पुत्रान् पञ्चशतानि च ।।५९।।
पुरोहितं प्रतीहारमृत्विजो गणकान् द्विजान् ।
सामन्तान् राजपुत्राँश्च सूपकाराँश्चिकित्सकान् ।।1.87.६० ।।
बहून् वैदेशिकाँश्चापि बालगोपालवृद्धकान् ।
साऽन्तःपुराञ्च महिषीं सर्वान् प्रोवाच भावतः ।।६१ ।।
आद्यारभ्यसप्तमेऽह्नि मरणं मे भवेद् ध्रुवम् ।
मम राज्येऽभिसिञ्चामि कुमारं समरंजयम् ।।६२।।
क्राशीविश्वेश्वरार्थं च सौधं कुर्वन्तु शिल्पिनः ।
लक्ष्मीनारायणसंहितासप्ताहं शृणोम्यहम् ।।६३।।।
सारमेव च द्रव्यं मे व्ययार्थं दीयतां मुहुः ।
अथ शंभुः स्वयं सर्वं मण्डलं स्वं निनाय च ।।६४।।
विप्ररूपेण काश्यां वै तत्कथायां समगतः ।
ब्राह्मणस्तु स्वयं विष्णुर्वेदशास्त्रार्थपारगः ।।६५।।
वक्ताऽभवत् तदा तत्र पाठकश्च हरोऽभवत् ।
जापका ऋषयस्तत्र देवाः प्रजाः सभासदः ।।६६ ।।
धर्मयज्ञो महान् जातो न भूतो न भविष्यति ।
स्वयमग्निः समाप्तौ तु नीराजयति नित्यशः ।।६७।।
सप्तमे तु दिने पूर्णे मन्दिरे स्वर्णशोभिते ।
विश्वेश्वरं प्रतिष्ठाप्य महता विधिना ततः ।।६८।।
कथापूर्णाहुतिं कृत्वा कोटिजनानभोजयत् ।
राजा यज्ञप्रसादं चाऽजिघ्रद् व्यासाज्ञयाऽथ च ।।६९।।
यावत्तिष्ठति मध्याह्ने सन्ध्यायां हरिसन्निधौ ।
तावद्विमानमाकाशादुज्ज्वलं ब्रह्मलोकजम् ।।1.87.७० ।।
अल्पमवातरद् भूत्वा तस्मान्नारायणः श्रिया ।
सहितस्तत्र सप्ताहस्थले प्रत्यक्षतामगात् ।।७१ ।।
रूपानुरूपाऽवयवं कंजनेत्रं कृपामयम् ।
प्रसन्नवदनं हास्यं कुर्वन्तं च मनोहरम् ।।।७२।।।
ब्रह्मधामस्थितं दिव्यं स्वरूपं तर्कभूम्यगम् ।
आयाहीति ब्रुवन्तं श्रीनारायणं प्रणम्य सः ।।।७३।।
दिवोदासः पराभक्त्या विस्मृत्याऽन्यदहो प्रभो! ।
आयामीति वदन् देहं दिव्यं तमेव वर्तयन् ।।७४।।
सदेहस्तु महालक्ष्म्या ब्रह्मवार्यभिसिञ्चितः ।
महामुक्तोऽभवद् दिव्यो विष्णुतुल्यः सदेहकः ।।७५।।
आरुरोह विमानं तत् प्रार्थयामास वै हरिम् ।
या प्रजा तव भक्ताऽस्ति नय तामपि मोक्षद् ।।७६।।
हरिः प्राह दिवोदास! याभिर्यैः समभीष्यते ।
वैकुण्ठं तु समागन्तुमायान्तु तेऽनिवारिताः ।।७७।।
श्रुत्वैवं डिण्डिमं विष्णोः प्रजा लक्षप्रलक्षकाः ।
नागरा देशिकाश्चान्ये जानपदसभासदाः ।।७८।।
अर्बुदाश्च परार्धाश्च दिवोदासेन वै समम् ।
आरुरुहुर्विमानं ता वैकुण्ठगमनेच्छया ।।७९।।
सर्वे दिव्या दिव्यदेहा भूत्वा त्यक्त्वाऽनवानि वै ।
तावद्विमानमाकाशे महद्रूपं व्यदृश्यत ।।1.87.८०।।
सूर्यचन्द्रादयो यस्य निकटे सर्षपा इव ।
कोटिपार्षदसंजुष्टं कोटिमुक्तसमन्वितम् ।।८ १ ।।
ऊर्ध्वमपासरन् तावत्क्षणेनादृश्यतां गतम् ।
काश्यां त्रिलोक्यां वैलोक्यां जयशब्दास्तदाऽभवन् ।।८२।।
एवं राजा दिवोदासो भक्त्या वैकुण्ठमाप्तवान् ।
एतां कथां पठेद्वापि शृणुयान्मुक्त एव सः ।।८३।
भक्त्या ह्यनेकजीवाँश्च स वै तारयितुं शमः ।।
दिवोदाससमानस्य वैकुण्ठोऽत्र परत्र च ॥८४॥
ततः सर्वेऽपि देवा वै शंकरः सकुटुम्बकः ।
काशीं चावासयन् सर्वां राजधानी पुरा यथा ॥८५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हरेण काशीं प्रति विष्णुः प्रेषितः, विष्णुतीर्थानि, विष्णुना सुगतरूपेण नास्तिकोपदेशद्वारा प्रजा धर्मशून्या नास्तिका कृता, तेन दिवोदासस्य प्रतापस्य ह्रासः, ततः अस्याः संहितायाः श्रवणम् , काशीविश्वेश्वरस्थापनम् , ततो दिव्यविमानेन दिव्यदेहस्य दिवोदासस्य प्रजया सह वैकुंठगमनमित्यादिनिरूपणनामा सप्ताशीतितमोऽध्यायः ।।८७॥