लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०८१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८१
[[लेखकः :|]]
अध्यायः ०८२ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पवित्रां तां कथां भक्तचमत्कराम् ।
दिवोदासो मम भक्तस्ततोऽपि भूतराट् स्वयम् ।। १ ।।
परमो मम भक्तो वै तिष्ठती मन्दरे गिरौ ।
मन्दरेण तपस्तप्तं घोरं परमदारुणम् ।। २ ।।
तपसाऽतिप्रसन्नो वै महादेवो जगत्पतिः ।
मन्दरं प्राह भूभृत्! ते हृद्ये किं नु विद्यते ।। ३ ।।
प्रसन्नोऽस्मि महादेवो वृणु स्वेष्टं वदाम्यहम् ।
मन्दरः प्राह देवेश! तव वासं वृणोम्यहम् ।। ४ ।।
तव वासेन मे कायः पवित्रः संभविष्यति ।
तीर्थमौर्धन्यमापन्नो मान्यतां संव्रजिष्यति ।। ५ ।।
सर्वे देवर्षिमुनयो भवद्दर्शनमागताः ।
स्वपादजलदानेन पावयिष्यन्ति मां सदा ।। ६ ।।
इत्यभ्यर्थनमासाद्य शंकरो लोकशंकरः ।
उवास मन्दरगिरौ तदा सर्वे दिवौकसः ।। ७ ।।
ऋषयो मुनयश्चाथ यक्षराक्षसपार्षदाः ।
सर्वेऽपि मन्दरवासं चक्रुः शंभुसमाश्रयाः ।। ८ ।।
काश्यां पूर्वे च ये ह्यासन् स्कन्दविष्णुगणाधिपाः ।
सूर्यो देव्यस्तथा चान्ये त्यक्त्वा काशीं गिरिं गताः ।। ९ ।।
गतेषु देवसंघेषु दिवोदासः प्रतापवान् ।
चकार राज्यं निर्द्वन्द्वं प्रभोर्भक्तिभरं शुभम् ।। 1.81.१० ।।
राजधानी कृता राज्ञा वाराणसी सुनिश्चला ।
वर्धयामास भक्त्या तां प्रजा धर्मेण पालयन् ।। १ १।।
काशीवासास्तु ये देवाः स्वर्गिणः साऽप्सरोगणाः ।
संयमेन तु हीनाँस्तान् दिवोदासो व्यवासयत् ।।१२।।
धर्महीनैर्व्रतहीनैः संयमेन तु वर्जितैः ।
मम काश्यां न वै स्थेयं देवैरन्यैरपि ध्रुवम् ।। १ ३।।
भगवद्भक्तिहीनैश्च विशेषेण न वै क्षणम् ।
स्थातव्यं चेति राजा वै देवादीन् निरकासयन् ।।१४।।
सूर्यवत् स प्रतपिता दुर्हृदां हृदि नेत्रयोः ।
चन्द्रवत् सुहृदामासीत् हृदि मनसि नेत्रयोः ।। १५।।
शत्रुगणाः पलायन्ते दृष्ट्वा तं तु धनुर्धरम् ।
धर्माधर्मविवेक्ता स धर्मराज इवाऽपरः ।। १६।।
इन्द्र इव बली चैव पाशीव वैरिपाशकृत् ।
कुबेरइव धनवान् प्राण इव प्रजाग्रहः ।। १७।।
राजराजः स एवासीद् रुद्र इव रिपुञ्जयः ।
विश्वदेवसमो रूपे ह्यसाध्यो वसुनाऽधिकः ।। १८।।
दस्रतो रूपमापन्नो मरुतामपि रोदकः ।
सर्वविद्याधरो गीतिकुशलो लोकतोषणः ।। १९।।
यक्षराक्षसनागाश्च दानवास्तं सिषेविरे ।
गुह्यका गुप्तदासास्तु यस्य कर्मकराः सटा ।।1.81.२० ।।
पवनो यस्य चाश्वान्वै परां गतिमशिक्षयन् ।
दानिनस्तु गजा यस्य दानमन्यानशिक्षयन् ।।२१।।
सभायां यस्य बोद्धारो योद्धारश्च रणाजिरे ।
शास्त्रैर्यस्य विजेता न न शस्त्रैः केनचित् क्वचित् ।।२२।।
राज्ये यस्य न वै द्वेष्याः प्रजाः सुखमयाशयाः ।
कलावानेक एवाऽऽसीज्जनाः सर्वे कलालयाः ।।२३।।
न कोऽप्यासीद् गोत्रभित् तद्राज्ये स्व एव गोत्रभित् ।
नासीत् कोपि क्षयी तस्य राज्ये स्वर्गे क्षयी शशी ।।२४।।
न तद्राज्येऽवग्रहोऽभूद् ग्रहास्तु नव वै दिति ।
हिरण्यगर्भो दिव्येको ह्यस्य सर्वे हिरण्मयाः ।।२५।।
स्वर्गे सप्ताश्व एकोऽस्त्यस्य जना बहुवाजिनः ।
स्वर्गाप्सरोगणश्रेष्ठा विषयेऽस्याऽप्सराः सदा ।।२६।।।
एकैव पद्मा वैकुंठेऽस्य वै पद्माकराः शतम् ।
इति दुःखानि नैवाऽस्य नासन्नुपद्रवाः क्वचित् ।।२७।।
वसुधा वसुदा सर्वा धनहास्तु गृहे गृहे ।
एवं सुखयतो राज्यप्रजा राज्ञोऽयुताऽष्टकम् ।।।२८।।
शरदां तु गतप्रायं तदा शंभुर्मनो दधे ।
वाराणस्यां निवासाय प्रतीकारं चिकीर्षति ।।२९।।
देवा बृहस्पतिं प्राप्य तेन चक्रुश्च मन्त्रणाम् ।
वयं भवद्युताः स्यामो विपत्कर्तार एव ह ।।1.81.३०।।
यद्यपि भूभृता तेन देवा यज्ञैः सुमानिताः ।
तथापि मानवा नैव मित्राणि वस्तुतो मताः ।।३ १।।
यद्यपि तेन चास्माकं नापकृत्यं विधीयते ।
तथापि द्युसदां रीतिः परोत्कर्षाऽसहिष्णुता ।।३२।।
दिवोदासगृहे राज्ये नाल्पोऽप्यधर्मसंग्रहः ।
नाऽस्य पराभवो राज्ञः कर्तुं केनापि शक्यते ।।।३३।।
एकपत्नीव्रताः सर्वे नरास्तस्य च मण्डले ।
पातिव्रत्यपरा नार्यो विद्यन्ते चाऽस्य मण्डले ।।३४।।
तद्राज्येऽविद्यविप्रो न नाऽवीरो बाहुजस्तथा ।
नाऽनुद्योगोऽपि वैश्योऽस्ति नाऽसेवाकृत् तु शूद्रकः ।।३५।।
नाऽस्य राज्ये ब्रह्मचार्यब्रह्मव्रतपरायणः ।
नाऽप्यसत्कारकृदस्य गार्हस्थ्यमपि मण्डले ।।३६।।
नाऽप्यवन्यवृत्तिकरा वानप्रस्थाश्च निःस्पृहाः ।
न चाऽसंगविहीनास्तु सन्यासपथगामिनः ।।।३७।।
एवमन्येऽपि तद्राज्ये नाऽवर्त्मगतिका वृथा ।
नाऽनपत्यो न चाऽभक्तो नाऽद्रव्यः कोऽपि तद्भुवि ।।३८।।
नाऽवृद्धसेवी नाऽकाण्डमृतिर्नाऽद्रोहकेतरः ।
न चाटा नैव वाचाटा न शठा वंचका नहि ।।३९।।
न पाखण्डा न वै भण्डा न रण्डा न च शौण्डिकाः ।
तस्य राज्ये तु सर्वत्र श्रुतिशास्त्रादिसेवनम् ।।1.81.४०।।
सर्वत्र शुभकृद्वाणी मद्यमांसादिहीनता ।
न द्यूतद्योतकास्तत्र ऋणिनो न न तस्कराः ।।४१।।
पितृदेवादिपूजापि न विच्छिन्ना कदाचन ।
न तद्राज्ये व्रतलोपो नाऽतीर्थसेवनं तथा ।।४२।।
पतिपत्न्योः सदा स्नेहः कुटुम्बं क्लेशकृन्नहि ।
वन्द्यन्ते वन्दकैर्वन्द्याः पूज्यन्ते पूजकैः पराः ।।४३।।
आद्रियन्ते तु विद्वांसः प्रजाभिस्तत्र सर्वदा ।
विद्वद्भिश्च तपःश्रेष्ठास्तापसैश्च जितान्नराः ।।४४।।
जितान्तरैर्ज्ञानधना ज्ञानिभिर्ब्रह्मविज्जनाः ।
ब्रह्मविद्भिः सर्वतत्त्वमीक्ष्यते ब्रह्मरूपकम् ।।४५।।
विप्रसाधुप्रसाध्वीनां मुखे देवान्नमर्प्यते ।
वापीकूपतडागानां जलान्यापूरवन्ति च ।।४६।।
मेघा मेहन्त ऐशान्या सस्यवस्त्रा मही सदा ।
हृष्टपुष्टाः प्रजास्तस्य शुचयोऽप्युभये सदा ।।४७।।
मार्गयन्तोऽपि छिद्रं तद्राज्ये देवा मनागपि ।
नाप्नुवन्नथ देवाँस्तान् बृहस्पतिरुवाच वै ।।४८।।
पराभवो विना छिद्रं नैव भावीति सर्वथा ।
उपायं भेदमादायाऽछिद्रोऽपि परिभूयते ।।४९।।
अस्मत्पक्षा अपि तत्र भवन्ति सुखसम्पदः ।
तथापि भेदकार्ये तु साहाय्याः स्युरतन्मताः ।।1.81.५० ।।
इति निर्णयमासाद्य तदाऽस्याऽन्तर्बहिश्चरान् ।
विज्ञाप्य द्युसदः सर्वे चाग्निदेवं ववन्दिरे ।।५१ ।।
इन्द्रोऽप्यग्निं तदा प्राह त्वं काश्यां संप्रतिष्ठितः ।
मूर्तिरूपो भवाँस्तत्र राजते विषयात् ततः ।।५२।।
तामुपासंहर क्षिप्रमेवं स्याद्विजयस्तु नः ।
मूर्तिशून्ये याजकास्तु हव्यकव्यादिवर्जिताः ।।५३।।
विरंक्ष्यन्ते नृपे तत्र प्रजा अप्यर्थशून्यताम् ।
राजशब्दस्य चालोक्य रूढिशक्तिविहीनताम् ।।५४।।
प्रजास्तत्र विरक्ताः स्युः क्षीणं कोशबलं भवेत् ।
राजाऽपि क्षीणवृत्तिः स्यात् त्रिवर्गः क्षीयते स्वयम् ।।५५।।
दिवोदासस्तथा क्षीणो नश्यत्यथवा यास्यति ।
तेन चास्माकमेवात्र काश्यां वासो ह्यकण्टकः ।।।५६।।
अतिशयाख्यदोषाद्यसंभिन्न एव संभवेत् ।
इत्यग्निरिन्द्रकथितमुपागम्य हृदि स्मरन् ।।५७।।
महादेवं स्वकां मूर्तिमाजहार स्थलात् ततः ।
आहवनीयां च गार्हपत्यां दाक्षिणकां त्रिकम् ।।२८८।।।
जाठराग्निं चापि तत्रत्यप्रजानां जहार सः ।
राजा प्रजा न विन्दन्ति प्रातर्मध्याह्नकर्मसु ।।।५९।।
कमप्यग्निं तदा सर्वे कर्मठाः पाचकास्तथा ।
चिन्तयामासुरुग्रं वै किं स्यात्कृत्यं विनाऽग्निना ।।1.81.६० ।।
राजा माध्याह्निकं कृत्वा प्रविवेश महानसम् ।
वैश्वदेवाय भोज्याय यावदागत्य तिष्ठति ।।६ १।।
आन्धसिका वेपमानाः क्षुधार्तं तं व्यजिज्ञपन् ।
यदि विश्रावयेद् राजन् भवानभयदक्षिणाम् ।।६२।।।
तदा विज्ञापयिष्यामः किमभूदिति तत्वतः ।
राज्ञा तथा कृतादेशाः पाचका ह्यूचिरे शनैः ।।६३।।
न जानीमो वयं नाथ कथमग्निरपासरत् ।
पुरात् कृशानौ विगते कथं पात्रादि संभवेत् ।।६४।।
सूर्यपाकेन यत्पक्वं तत् किंचिदानयामहे ।
तावद्राजा विवेदैतद्देवानां कृत्यमेव ह ।।६५।।
तपोबलादवेत्यैतद्विचार्याऽप्यवदत्तदा ।
अग्नौ गते न मे हानिर्देवानां हानिरेव वै ।।६६।।
मया तेभ्यो न राज्यं वै लब्धं लब्धं पितामहात् ।
स्वात्मबलाद् रचयिष्ये वायुमग्निं जलं भुवम् ।।६७।।
प्रकाशं चेति तत्सर्वं यद्यद्वाऽपेक्ष्यतेऽत्र तत् ।
सर्वं करिष्ये चैतन्याज्जडे मे न प्रयोजनम् ।।६८।।
इति चिन्तयतस्तस्याऽऽययुर्जानपदा जनाः ।
तमेव विरावं कर्तुं द्वाःस्थेनाऽन्तः प्रवेशिताः ।।६९।।
दत्वोपदां यथार्हं ते निषेदुर्मानदासने ।
जगदुर्दुःखमत्यर्थं वह्नियात्राकृतं तदा ।।1.81.७० ।।
प्राह राजा तदाश्रुत्य सर्वस्य सुखमावहन् ।
चिकीर्षुरहमेवाऽऽसं पौराः! कार्यमिदं पुरा ।।७१।।
परं ह्युपेक्षितप्रायं द्रोहो न स्यादितीच्छया ।
गतोऽनलोऽभवद्भद्रं प्राणोऽपि यात्वितो द्रुतम् ।।७२।।
शशी सूर्यो वरुणश्च भूराकाशोऽपि यान्त्वितः ।
भगवद्योगप्राबल्यादहमग्निर्भवाम्यहम् ।।।७३।।
चतुर्धा वह्निरूपेण गृह्णामि पाचयामि यत् ।
अहं प्राण स्वयं भूत्वा जीवयिष्यामि देहिनः ।।७४।।
महावायुः स्वयं भूत्वा धारयिष्यामि गोलकान् ।
शशी चाहं स्वयं भूत्वाऽऽप्याययिष्येंऽकुरं जगत् ।।७५ ।।
तापयिष्ये स्वयं सूर्यो भूत्वेमां मेदिनीं सदा ।
मेघो भूत्वा स्वयं वृष्टिं करिष्ये वरुणोऽप्यहम् ।।७६।।
स्थास्येहं जलरूपेण भूरूपोऽपि भवामि च ।
धारयिष्ये जगत्सर्वं व्योमरूपो भवामि च ।।७७।।
इत्युक्त्वा सान्तयित्वा स्वप्रजा राजा ह्यभूत् तथा ।
बहुरूपश्च संभूय तत्तत्कार्याण्यवर्तयत् ।।७८।।
भगवल्लब्धयोगेन ह्येकोप्यनेकशोऽभवत् ।
तदा दिवौकसां राजा शल्यरूपो बभूव ह ।।७९।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंकरस्य मन्दरगिरौ वरदानकृतावासः काशीतो देवा अपि तत्र गताः दिवोदासराज्ये गुणवर्णनं काशीतो दिवोदासस्य निष्कासनोपायरचनं चेत्यादिनिरूपणनामा एकाशीतितमोऽध्यायः ।।८ १।।