लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६९
[[लेखकः :|]]
अध्यायः ०७० →

श्रीनारायण उवाच---
शृणु लक्ष्मि ! प्रवक्ष्यामि तव चिह्नानि मे प्रिये !
पश्य नाभिं दक्षिणावर्तां ते गाम्भीर्यशालिनीम् ।। १ ।।
अरोमां त्रिवलीं पश्य हृत्स्तनौ रोमवर्जितौ ।
मध्यांशं सर्वशक्त्याढ्यं पश्याऽन्तर्दृढकुण्डलम् ।। २ ।।
नाभ्यधः पश्य रेखां तु स्वर्णबाणस्य पिंगलाम् ।
वामसक्थ्नि तथा पश्य पादुकाचिह्नमग्रतः ।। ३ ।।
वक्षसि स्तनयोर्मध्ये पादरेखां विलोकय ।
ललाटे मुकुटाकारां गण्डे बिन्दुं च लोकय ।। ४ ।।
उरसी पश्य विष्णुं मां रेखारूपचतुर्भुजम् ।
वामे भुजे गदाचिह्नं चाऽवलोकय मे प्रिये ।। ५ ।।
हृदये वैजयन्त्यास्तु रेखां पश्य प्रपौरटीम् ।
गजं करतले दक्षे सपद्मं पश्य चाऽनघे ।। ६ ।।
दक्षिणे तु पदे पश्य शंखचिह्नं सुमंगलम् ।
अंगुल्या मूलके पश्य रेखां विमानसदृशीम् ।। ७ ।।
कनिष्ठायाः पश्य मूलाधस्त्वं नौकां सुरेखया ।
तथा शंखगदारेखाः पश्य मकरलेखनम् ।। ८ ।।
तथा मध्ये सुशिखररेखां निभालय प्रिये ।
पश्य पार्ष्णौ मत्स्यरेखां मध्ये ताम्बूलवल्लिकाम् ।। ९ ।।
पश्य वामांगुष्ठमूले यवचिह्नं सुरेखया ।
तदधस्तु महान्तं वै प्रासादं पश्य रेखया ।।1.69.१०।।
छत्रं पश्य तदधस्तु युतं तच्चोर्ध्वरेखया ।
कमलरेखां फणके ध्वजरेखां प्रपश्य च ॥११॥
अंकुशचिह्नं कुमुदं पश्य श्रीफलमित्यपि ।
स्थलीयपद्मरेखां च घटरेखां निभालय ।।१२।।
द्वितीयायाश्चन्द्ररेखां दशचक्राणि पश्य च ।
स्वर्णरेखां फणोपरि भाले तान्तिकलेखनाम् ।।१३।।
चिबुके बिन्दुकं पश्य स्तने वामे तु चक्रकम् ।
दक्षे स्तने हस्तरेखां कण्ठे हारं सुपिंगलम् ॥१४॥
जघने तु सुवर्णां वै धनूरेखां प्रपश्य च ।
स्वस्तिकं दक्षिणे हस्ततले मत्स्यं ध्वजं तथा ॥१५॥
धनुर्वंशीमत्स्यरेखाः पश्य कलशरेखिकाम् ।
अंकुशं मण्डलं चक्रं पश्य दक्षे करे तले ॥१६॥
पश्य प्राकाररेखां च तत्र तोरणमित्यपि ।
पश्य लांगलचिह्नं च तत्रैव फणके प्रिये ॥१७॥
गूढ शुकं पश्य लक्ष्मि ! आरक्तावधरौ तथा ।
हस्ते दक्षे चोर्ध्वरेखां पश्य वामे तथैव च ॥१८॥
पादतलयोस्तूर्ध्वरेखाः प्रपश्य मम प्रिये ।
पादे तु वाजिनं चैव कुंजरं श्रीमहाद्रुमम् ।।१९।।
यूपं बाणं यवं चैव तोमरं पश्य रेखया ।
हस्ते च मालिकारेखां पश्य दीपं च चामरम् ।।1.69.२०।।
पश्य शैलं कुण्डलं च वेदिकां पश्य रेखया ।
मुखनेत्रभ्रूललाटौष्ठनासिकाकपोलकान् ॥२१॥
पश्य विभ्राजमानाँस्ते गौरान् स्वर्णमनोहरान् ।
तत्तच्चिह्नैस्तथा देव्यो भवन्ति भगवत्प्रियाः ॥२२॥
भक्तिमत्यश्च मे नार्यो लक्ष्मीरूपा भवन्ति वै ।
ममोपासनसामर्थ्यात् करोमि कमलालयाः ॥२३॥
ब्रह्मलोकनिवासिन्यो गोलोकभूकृतालयाः ।
वैकुण्ठवासमापन्नाः श्वेतद्वीपगताश्च याः ॥२४॥
अमृतधामस्थायिन्यो वह्निमण्डलमध्यगा ।
सूर्यलोकनिवासिन्यः चन्द्रमण्डलसंस्थिताः ॥२५॥
सत्यलोकनिवासिन्य ईश्वरसृष्टिसंभवाः ।
पितृसर्गगता याश्च ऋषिपत्न्यस्तथा च याः ॥२६॥
देव्यश्चाथ मनुष्याण्योऽदेव्यो नागादिसंप्रियाः ।
सर्वास्तु मां पराभक्त्या समासाद्याऽभवन् श्रियः ॥२७॥
ताश्चाऽहं नैकलोकेषु नारायणस्वरूपकः ।
रमयामि महालक्ष्मि ! यथा त्वामत्र धामनि ॥२८॥
मन भक्त्या तु सर्वास्ता लक्ष्म्यो जायन्त एव हि ।
याश्च मां न भजन्त्यन्याः तास्तु पापेन कर्मणा ॥२९॥
गच्छन्ति विविधाकारखनिष्वत्र परत्र च ।
यमलोके महादुःखान्यनुभूयापि जन्मनि ॥1.69.३०॥
जायन्ते नहि शुभदा दुःखाय संभवन्ति ताः ।
यमपुर्यास्तु या नार्यो यातना अनुभूय च ।।३१॥
पापलेशाज्जन्मवत्यो दुःखदा एव कीर्तिताः ।
शृणु ता अपि संक्षेपात्प्रसंगात्प्रवदामि ते ॥३२॥
कनिष्ठिकाऽनामिका वा यस्या न स्पृशते महीम् ।
अंगुष्ठं वा गताऽतीत्य तर्जनी कुलटा च सा ॥३३॥
रोमशे चातिमांसे च जंघे चातिशिरालके ।
वामावर्तं निम्नमल्पं गुह्यं यस्या हि दुःखदा ॥३४॥
ग्रीवया ह्रस्वया निःस्वा दीर्घया च कुलक्षयः ।
पृथुलया प्रचण्डा च भवत्येव न संशयः ।।३५॥
केकरे पिंगले नेत्रे श्यामे लोले तु चाऽसती ।
स्मिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी ॥३६॥
प्रलम्बिनी ललाटे तु देवरं हन्ति चांगना ।
उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्वयोः ॥३७॥
या तु रोमोत्तरौष्ठी स्यान्न शुभा भर्तुरेव ह।
स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा ॥३८॥
कराला विषमा दन्ताः क्लेशाय तु भवन्ति ताः ।
चौर्याय कृष्णमांसाभा दीर्घा भर्तुश्च मृत्यवे ॥३९॥
क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः ।
शिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति ताः ॥1.69.४०॥
समुन्नतोत्तरौष्ठी या कलहैः रूक्षभाषिणी ।
लम्बकर्णस्वरा श्मश्रुमती पादे तु कालिका ॥४१॥
नेत्रे रक्ता भुवि तीव्रा स्वल्पभाला तु घातिनी ।
बहुरेखा बहुरोमा बहुभाषाऽतिचञ्चला ॥४२॥
बहुसंगा बहुनिद्रा बह्वालस्या बहुव्यया ।
सर्वथा निर्धनत्वं च दारिद्र्यं मन्त्रयत्यसौ ॥४३॥
तस्मात् सत्कर्म कर्तव्यं नाऽसत्कर्म कदाचन ।
सुसत्कर्मकृतात्पुण्याच्छरीरं शुभलक्षणम् ।।४४।।
प्राप्यते धनधान्यार्थ्यगृहोद्यानादि चोत्तमम् ।
कालः प्रतीक्षते नैव किमनेन कृतं न वा ॥४५॥
म्रियते जायते जन्तुः पुष्यते च पुनः पुनः ।
मरणं जननं पुष्टिर्या तु मोक्षाय निर्मिता ।।४६।।
सा वै स्वेनैव कर्तव्या यद्वा पुत्रकुटुम्बिभिः ।
शुभं जन्तोर्भवेद् येन तथाऽऽचर्य्यं दिवानिशम् ।।४७।।
पृथ्वी वासाय सलिलं तृप्तये शान्तये मरुत् ।
देहः श्रमाय चान्नाय श्रेयः कस्मान्न साधयेत् ।।४८।।
सर्वत्राऽतिशयश्चास्ति विचार्यैव पुनः पुनः ।
यथाऽपेक्षे चातिशयो नास्तीत्यपि विचार्य च ॥४९॥
यदृच्छयोपपन्नेन निर्वाह्य स्वकलेवरम् ।
नातिसंसक्तमनसा लोकयात्रां तु निर्वहन् ॥1.69.५०॥
नारायणं भजेन्नित्यं यथा त्वं कमलेक्षणे ।
तस्य नास्ति सुखं श्रेयो मोक्षश्च दूरमण्वपि ॥५१॥
साधुसाध्वीस्वरूपं मां भजेत् सर्वसमर्पणात् ।
दीनाऽतिथिनिराधाररूपं मां सेवयेन्मुदा ॥५२॥
विद्यार्थिबालबालासुवृद्धगुर्वादिरूपतः ।
विचरामि क्वचिद् देवि ! तद्रूपं मां प्रसेवयेत् ॥५३॥
तत्रस्थोऽहं परं श्रेयः करिष्यामि यथा स्वयम् ।
भक्तस्य तु सदा श्रेयः कर्तुं दीक्षां वहाम्यहम् ॥५४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने लक्ष्मीचिह्नानि प्रमदान्तरचिह्नानि चेत्यादिकथननामा एकोनसप्ततितमोऽध्यायः ॥६९॥