लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ४७
[[लेखकः :|]]
अध्यायः ०४८ →

श्रीनारायण उवाच --
मया सृष्टेः सभारंभे दिवसे प्रथमे प्रिये ! ।
सृष्टिस्तु मानसी प्रोक्ता सत्ययुगमयी हि सा ।। १ ।।
स्थानाभिमानिनश्चैव स्थानानि च पृथक पृथक् ।
स्थानात्मनः स सृष्ट्वा वै युगावस्थां विनिर्ममे ॥ २ ॥
कृतं त्रेतां द्वापरं च कलिं चैव तथा युगम् ।।
कल्पस्यादौ सत्ययुगेऽसृजत्स मानसीं प्रजाम् ॥ ३ ॥
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ।
सन्ध्यांशौ तस्य दिव्यानि शतान्यष्टौ च संख्यया ॥४॥
अब्दानां त्रिसहस्राणि तथा त्रेतायुगं मतम् ।
सन्ध्यांशौ तस्य दिव्यानि षट्शतानि तु संख्यया ।।५।।
वर्षाणां द्विसहस्राणि युगं द्वापरमुच्यते ।।
सन्ध्यांशौ तस्य दिव्यानि चतुःशतानि संख्यया ।। ६ ।।।
वर्षाणामेकसाहस्रं युगं कलिमथोच्यते ।
सन्ध्यांशौ तस्य दिव्यानि द्विशतानि तु संख्यया ।। ७ ।।
द्वादशाब्दसहस्राणि चतुर्युगं व्यधादजः ।
तत्र कृतयुगे लक्ष्मि ! प्रजा मानससिद्धयः ।।८।।
धर्माऽधर्मौ न तास्वास्तां निर्विशेषाः प्रजास्तु ताः ।
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे ॥ ९ ॥
सरित्सरःसमुद्राँश्च सेवन्ते पर्वतानपि ।
तदानात्यम्बुशीतोष्णा युगे तस्मिंश्चरन्ति वै ॥1.47.१०॥
मनःसिद्ध्युद्भवं मिष्टमाहारमाहरन्ति ताः ।।
सर्वशः कामचारिण्यो मानसीं सिद्धिमास्थिताः ।।११॥
न तासां प्रतिघातोऽस्ति न द्वन्द्वं नापि च क्रमः ।।
विशोकाः सत्वबहुला एकान्तसुखिताः सदा ।।१२।।
पशवः पक्षिणश्चैव नित्यं मुदितमानसाः ।।
सर्वकामसुखः कालो मनोऽभिलषितप्रदः ॥१३॥
उत्तिष्ठन्ति पृथिव्यां वै ताभिर्ध्याता रसादयः ।।
बलरूपप्रदास्तासां सिद्धिः सा रोगनाशिनी ॥१४॥
दृढपुष्टशरीरास्ताः प्रजाः सुस्थिरयौवनाः ।।
तदा सत्यमलोभश्च क्षमा तुष्टिः सुखं दमः ॥१५॥
निर्विशेषास्तु ताः सर्वा रूपाऽऽयुःशीलचेष्टितैः ।
सत्याधारो व्यवहारः प्रजानां जायते स्वयम् ॥१६॥
अप्रवृत्तिः प्रजानां तु कर्मणोः शुभपापयोः ।
वर्णाश्रमव्यवस्थाश्च न तदाऽऽसन् न संकरः ॥१७॥
रागद्वेषविहीनास्ता वर्तयन्ति परस्परम् ।
तुल्यसिद्ध्यायुषः सर्वा अधमोत्तमवर्जिताः ॥१८॥
सुखप्राया अशोकाश्च महोत्साहा महोत्सवाः ।।
नित्यप्रहृष्टमनसो महासत्वा महाबलाः ।।१९।।
लाभाऽलाभौ न तास्वास्तां मित्रा मित्रे प्रियाऽप्रिये ।।
मनसा विषयस्तासां निरीहाणां प्रवर्तते ॥1.47.२०॥
अन्योन्यं नैव लिप्सन्ति नानुगृह्णन्ति चैव ताः ।।
अकृष्टपच्यं वै सर्वमवृष्टिसलिलं भुवि ।।२१॥
अप्रयत्नकृतं भोज्यमनायाऽऽप्तसद्रसम् ।
तत्र प्रसवदुःखं न न गर्भधारणं तथा ॥२२॥
नारीणां नाऽऽर्तवं तत्र नॄणां न वीर्यसंस्रवः ।।
सर्वाः कामदुघा गावः सर्वाः संकल्पसिद्धयः ॥२३॥
चतुदर्शसु लोकेषु निर्विशेषास्तु सम्पदः ।।
गतयोऽव्याहताः सर्वा वाचः परिचितास्तथा ॥२४॥
वैमानिका अविमाना योगसिद्धितपोबलाः ।
ईश्वरा एव सर्वे ते पूर्णकामा इवेति च ॥२५॥
ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
प्रवृत्तो द्वापरे यज्ञो दानं कलियुगे वरम् ॥२६॥
सत्त्वं कृतं रजस्त्रेता रजस्तमसी द्वापरम् ।।
कलिस्तमस्तु विज्ञेयो युगवृत्तवशेन ते ॥२७॥
पादावशिष्टो भवति युगधर्मस्तु सर्वशः ।।
सत्ये युगे तु निःशेषे सिद्धिस्त्वन्तर्दधे हि सा ॥२८॥
सिद्धिरन्या युगे तस्मिंस्त्रेतायामभवत्पुनः ।।
आपां सौक्ष्म्ये विनष्टे तु तदा मेघात्मना पुनः ॥२९॥
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वर्षणं सकृत् ।
सकृदेव तया वृष्ट्या प्लाविते पृथिवीतले ॥1.47.३०॥
प्रादुरासँस्तदा ह्यापः कल्पवृक्षा गृहस्थिताः ।।
सर्वप्रत्युपभोगस्तु तेभ्यस्तासां प्रजायते ॥३१॥
कल्पद्रुमैर्वर्तयन्ति त्रेतायुगमुखे प्रजाः ।
तदा राजसभावेन तासामेव विपर्ययात् ।।३२।।
रागलोभात्मको भावस्तदा ह्याकस्मिको भवत् ।
यत्तद्भवति नारीणां जीवितान्ते तदार्तवम् ॥३३॥
सत्ये मानससृष्टानां मिथुनानां सहस्रकम् ।
प्रत्येकं प्राणिनां यत्तदिदानीमार्तवं व्यधात् ।।३४॥
ततो वै हर्षमाप्तास्ते द्वन्द्वीभूतास्तु जन्तवः ।
अन्योन्यहृच्छ्रयाऽऽविष्टा मैथुनायोपचक्रमुः ॥३५॥
ततः प्रभृति त्रेतायां मिथुनोत्पत्तिरुच्यते ।
आयुषोऽन्ते ह्येकवारमार्तवं तत्र योषिताम् ॥३६।।
जायते कामभोगार्थं सुगर्भधारणाय च ।
तत्तदा न सुषुविरे सेवितैरपि मैथुनैः ॥३७॥
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ताः सकृत् ।
समं जन्म च रूपं च म्रियन्ते चापि ताः सह ।।३८॥
तस्मिन् क्षीणे कृतांशे तु त्रेतायां कालधर्मतः ।।
क्षीयन्ते मानसीसिद्धितपःश्रुतबलाऽऽयुषः ॥३९॥
क्षीयन्ते च तदा यावत्कृतधर्माः शनैः शनैः ।।
पादन्यूनबलतत्त्वसामर्थ्यसुखवैभवाः ॥1.47.४०॥
अथेन्द्रेण हते वृत्रे ब्रह्महत्यात्मकं मलम् ।।
नारीवृक्षाऽऽबिलास्वेतच्चतुर्भागं प्रसञ्जितम् ॥४१॥
ततः प्रभृति नारीणां जीवितान्तं यदार्तवम् ।
तदेव तासां प्रवृत्तं मासे मासे तदार्तवम् ।।४२॥
ततस्तेनैव योगेन वर्ततां मिथुने तदा ।
तासां तत्कालभावित्वान्मासि मास्युपगच्छताम् ॥४३॥
अकाले ह्यार्तवोत्पत्तिर्गर्भोत्पत्तिरजायत ।
विपर्ययेण कालेन तासां विकलनेन च ॥४४॥
कल्पवृक्षाः प्रणष्टा वै सर्वे सर्वगृहस्थिताः ।
क्वचित्क्वचित् त्ववशिष्टा आश्रयागतसिद्धिदाः ।।४५॥
कल्पवृक्षेषु नष्टेषु विभ्रान्ता व्याकुलेन्द्रियाः ।।
गत्वा क्वाचित्ककल्पद्रून् अभिध्यायन्ति वस्तुकम् ॥४६॥
तदा वस्त्राणि सूयन्ते फलान्याभरणानि च ।।
तेष्वेव जायते तासां गन्धमिष्टरसादिकम् ॥४७॥
अमाक्षिकं महावीर्यं पुटके पुटके मधु ।।
एवं सर्वपरिकराः प्रवर्तन्ते प्रयत्नतः ॥४८॥
तेन ता वर्तयन्ति स्म सुखं त्रेतायुगार्धके ।।
हृष्टपुष्टास्तथा तुष्टाः कल्पवृक्षैर्गतज्वराः ॥४९॥
अथ काले गम्यमाने पुनर्लोभाऽऽवृताः प्रजाः ।।
वृक्षाँस्तान्जगृहुस्तेषां बलान्मधुफलादिकम् ॥1.47.५०॥
तासां तेनाऽपचारेण तथा कालबलेन च ।
प्रणष्टाः कल्पवृक्षास्ते प्रजास्तु निरुपाश्रयाः ॥५१॥
शीतवातातपैस्तीव्रैस्ततस्ता दुःखिता भृशम् ।
द्वन्द्वैश्च पीड्यमानास्तु चक्रुरावरणानि च ॥५२॥
कृत्वा द्वन्द्वप्रतीकारं निकेतानि हि भेजिरे ।
यथायोग्यं निकेतानि सस्यक्षेत्राणि भेजिरे ॥५३॥
मरुत्वत्सु प्रनिम्नेषु पर्वतेषु नदीषु च ।।
संश्रयन्ति स्म दुर्गाणि प्रदेश शाश्वतोदकम् ॥५४॥
यथायोगं यथाकामं समेषु विषमेषु च ।।
आरब्धास्ते निकेता वै कर्तुं शीतोष्णवारणम् ॥५५॥
आरब्धानि च सस्यानां कृषिक्षेत्राणि पार्श्वतः ।
तत्र संस्थापयामासुः खेटानि च पुराणि च ॥५६॥
ग्रामँश्चैवं यथाजोषं तथैवाऽन्तःपुराणि च ।।
संप्रमाप्यांऽगुलैः स्वीयैर्ग्रहाद्यं चक्रिरे ततः ॥५७॥
कनिष्ठांगुष्ठवितस्तिर्द्वादशांगुल उच्यते ।
चतुर्विंशतिभिश्चैव हस्तः स्यादंगुलैरथ ॥५८॥
चतुर्हस्तं धनुर्दण्डो द्विहस्तो बाण उच्यते ।
धनुःसहस्रे द्वे तत्र गव्यूतिः परिकीर्तिताः ॥५९॥
गव्यूतीनां चतुष्टयं योजनं परिकीर्तितम् ।।
एतेन पृथुना राज्ञा सन्निवेशोऽपि वै कृतः ॥1.47.६०॥
धनूँषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ।।
नृवाजिरथनागानामसंबाधः सुसंचरः ॥६१॥
अमितो दशधानुष्कं गृहं मध्यमवर्गकृत् ।।
शतधनुष्कं नृपतेः सम्राजस्तु सहस्रकम् ॥६२॥
इत्येवं वर्तमानानां गृहप्रासादकेषु च ।।
कल्पवृक्षेषु नष्टेषु वार्तापायो विचिन्तितः ॥६३।।
वृष्टेर्जलानि खातेभ्यो निम्नगानि कृतानि वै ।
अपां भूमेश्च संश्लेषादोषध्यस्तासु चाऽभवन् ॥६४॥
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माः प्रजज्ञिरे ।
कणा अफालकृष्टाश्च प्रसंपूर्णा प्रजज्ञिरे ॥६५॥
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा ।
ततः पुनरभूत्तेषां रागो लोभश्च कालतः ॥६६॥
ततस्ता जगृहुश्चापि नदीक्षेत्राणि पर्वतान् ।।
वृक्षान् गुल्मौषधींश्चैव प्रसह्य तु यथाबलम् ॥६७॥
बलात्प्रसह्य भोक्तारः कृत्वा स्वकीयमेव च ।
हठात्प्रबला गृह्णन्ति चाऽल्पतेजोभ्य एव हि ॥६८॥
बलैश्च प्रबलैश्चैव स्वकीया वै कृता क्षितिः ।।
अल्पबलास्तदा तेषां सेवया निर्वहन्ति वै ।।६९॥
ते तु शूद्रास्तदा जाताः परिचर्यापरायणाः ।
कृषिं कृष्ट्वा तु जीवन्तो वैश्या जातास्तथा परे ।।1.47.७०।।
बलात् पृथ्व्याः प्रशास्तारः क्षत्त्रा जातास्तथा परे ।
शान्तास्तु सात्त्विकास्तत्र भिक्षां याचन्त एव ये ।।७१॥
ब्राह्मणास्ते तथाभूता महात्मानः शुभाशयाः ।।
इत्येवं कर्मतो वर्णा ब्राह्मणेभ्यो विजज्ञिरे ॥७२॥
एवं विप्रतिपन्नेषु मानवेषु परस्परम् ।
तेन दोषेण तेषां ता ओषध्यो मिषतां तदा ।।७३॥
प्रणष्टा ह्रियमाणाश्च नीरसा ह्यभवन् पुनः ।।
पत्रपुष्पफलैर्हीना शुष्कायन्ते समग्रतः ।।७४॥
प्रजा भोज्यविहीनास्तु विभ्रान्ताश्च समन्ततः ।।
स्वायंभुवं प्रभुं जग्मुः क्षुधाऽऽविष्टाः प्रजापतिम् ।।७५॥
वृत्त्यर्थमर्थितं ज्ञात्वा ब्रह्मा सम्यग् विचार्य च ।
कृत्वा वत्सं सुमेरुं च दुदोह पृथिवीमिमाम् ।।७६॥
तदा प्रजज्ञिरे ग्राम्याऽऽरण्या ओषधयः पुनः ।
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ।।७७॥
प्रियंगवो ह्युदाराश्च कारुषाश्च सतीनकाः ।
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः॥७८॥
आढक्यश्चणकाश्चैव श्यामाकाः सगवेधुकाः ।
कुरुविन्दा वेणुयवा निवारा जर्तिलास्तथा ॥७९॥
मर्कटकाश्चेत्यफालकृष्टाः सर्वा मताः शुभाः ।।
वृक्षा गुल्मलतावल्लीविरुधस्तृणजातयः ॥1.47.८०॥
ऋतुपुष्पफलाः सर्वा ओषध्यो जज्ञिरे त्विह ।
यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः ॥८१॥
तदा ब्रह्मा प्ररोहार्थं वार्तोपायं चकार ह ।।
कृष्या तु वार्तया तास्तु कृष्टपच्या हि जज्ञिरे ॥८२॥
कर्षुकास्तत्र वैश्याश्च रक्षकाः क्षत्रियास्तथा ।
परिचरन्तः शूद्राश्च ब्रह्मार्पणास्तु ब्राह्मणाः ।।८३॥
गुरुत्वं तु कृतं स्थानं ब्राह्मणानां क्रियावताम् ।
राज्यं स्थानं क्षत्रियाणां संग्रामेष्वपलायिनाम् ।।८४॥
वैश्यानां भूमिजं स्थानं कृयादियत्नजीविनाम् ।
ग्रामान्तकं कृतं स्थानं शूद्राणां सेवया धृतम् ॥८५॥
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः ।।८६॥
चातुर्वर्ण्यात्मकः पूर्वो गृहस्थश्चाश्रमो महान् ।
त्रयाणामाश्रमाणां स प्रतिष्ठा योनिरेव च ।।८७।।
स्वस्वधर्मे स्थितानान्तु स्थानानि ब्रह्मणा स्वयम् ।
कल्पितानि च तान्येव कथयामि निबोध मे ||८८।।
गृहस्थानां ब्राह्मणानां प्राजापत्यं मतं परम् ।।
क्षत्रियाणां भवेदैन्द्रं न्यासिनां ब्रह्मणो गृहम् ।।८९।।
सत्यं तु ब्रह्मचाराणां वानप्रस्थगतायुषाम् ।।
वैश्यानां मारुतस्थानं गान्धर्वं शूद्रसत्कृते ।।1.47.९०।।
पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः ।।
तथैव पितृयानानां चन्द्रमा द्वारमुच्यते ।।९१।।
इत्येषाऽऽदौ तु त्रेतायां सृष्टिः सर्वाऽभ्यवर्तत ।।
त्रेतान्ते द्विपादह्रासबलवीर्यसुजीवनाः ।।९२।।
द्वापरे त्रिपादह्रासबलवीर्यादिजीवनाः ।।
कलौ यथाकथंचिज्जीवना वै सकलाः प्रजाः ॥९३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने युगवर्षसंख्याकृतयुगसिद्धिपादह्रासमिथुनसृष्टिनगरादिमानभक्ष्यौषधिवर्णाश्रमस्थापनादिनामा सप्तचत्वारिंशोऽध्यायः ॥४७॥