सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०३५

विकिस्रोतः तः
← अध्यायः ०३४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५
[[लेखकः :|]]
अध्यायः ०३६ →

श्रीनारायण उवाच-
पत्नीव्रतस्य शब्दस्य सम्यगर्थो मयोदितः ।
तव पत्न्याः कृते किं किं कार्यं तद्वक्ष्यते मया ।। १ ।।
प्रथमं ब्रह्मचारित्वं पश्चाद्गार्हस्थ्यमेव च ।
ब्रह्मचारी पुरा भूत्वा पत्न्या सह ततो वसेत् ।। २ ।।
ब्रह्मचर्यं गृहाण त्वं यज्ञोपवीतमित्यपि ।
वेदार्थांश्च निबोध त्वं पश्चात् पत्नीयुतो भव ।। २ ।।
इत्याज्ञप्य स्वकं पुत्रं ब्राह्मणं यौवनोन्मुखम् ।
मुहूर्तं शुभमास्थाय प्रवृत्तो ह्युपनायने ।। ४ ।।
तथोपनीतिं पुत्रस्य कर्तुमुत्सुकमानसः ।
सर्वान् सम्पादयामास संभारानुरुविक्रमः ।। ५ ।।
तदा मंगलवाद्यानि ह्यवाद्यन्त मुहुर्मुहुः ।
लक्ष्म्यादयो जगुस्तत्र गीतान्यानन्दतस्तदा ।। ६ ।।
कृच्छ्रत्रयनिमित्तेन धेनुत्रयप्रदानकम् ।
कामचाराऽशनाऽशुद्धिशान्तये कृतमुत्तमम् ।। ७ ।।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
त्र्यहं परं च नाश्नीयाच्छुद्धं कृच्छ्रमुदीरितम् ।। ८ ।।
मातृकापूजनं चैव नान्दीश्राद्धं तथैव च ।
स्वस्तिवाचो गृहशान्तिं द्विजभोजनमित्यपि ।। १ ।।
स्थण्डिले तु समुद्भववह्निस्थापनमित्यथ ।
पूजनादि तथा तस्य चकार श्रीहरिः स्वयम् ।। 1.35.१० ।।
स्नातं भुक्त कृतकेशवापं च समलंकृतम् ।
दक्षभागे स्थितं संस्कारयामास सुतं तु सः ।।१ १ ।।
कौपीनं कटिसूत्रं च नवं यज्ञोपवीतकम् ।
त्रिगुणं स्म ददात्याज्यहोमं कृत्वाऽवदत्प्रभुः ।। १२।।
सामाख्यस्ते भवेद् वेदो गोत्रं श्रीब्रह्म विद्यते ।
प्रवरास्ते त्रयो नारायणः कृष्णो हरिस्तथा ।। १३।।
शाखा पत्नीव्रताख्या ते नाम्ना भविष्यति ह्यनु ।
इदानीं त्वं ब्रह्मचारी भवसीति निबोधय ।। १४।।
शृणु धर्मांस्तव योग्यान्कथयामि समासतः ।
जुहुध्यग्निं प्रातरादावपोशान तथा कुरु ।। १५।।
गुरोः सेवां कुरु नित्यं ब्रह्मपाठं तथा कुरु ।
गृहाणेमं च गायत्रीमन्त्रं जपं सदा कुरु ।। १६ ।।
ॐ नारायणायविद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयादित्यावर्त्तय मालिकाम् ।। १७।।
ब्रह्मदण्डं गृहाणेममैणाऽजीनमिदं तथा ।
सन्ध्योपास्तिं विधेहि त्वं क्रोधाऽनृते तु वर्जय ।। १८।।
ब्रह्मचर्यं तथा रक्ष विकृतिं माऽऽविश क्वचित् ।
अशुद्धं भक्षणं पानं माऽऽतिष्ठ हननं क्वचित् ।। १ ९।।
व्यसनं मा कुरु ब्रह्मन् निन्दनं मा कुरु क्वचित् ।
स्नानं सन्ध्यां जपं होमं स्वाध्यायं पितृतर्पणम् ।।1.35.२० ।।
आत्मज्ञानं हरेः पूजामष्टौ नित्यं समाचरेः ।
ओमित्यादाय तद्वाक्यमुपतस्थे रविं तथा ।। २१ ।।
अग्नेः प्रदक्षिणां चक्रे भिक्षां जग्राह मातृतः ।
श्रीहरिर्गाः स्वर्णमुद्रा वासांस्याभरणानि च ।।२२।।
ईश्वरेभ्यो ददाति स्म ये ते तत्र समागताः ।
भोजनानि दक्षिणाश्च दत्वा सन्तर्पिताश्च ते ।।।२३ ।।
पुत्रं ज्ञानस्तवात्मानं वेदमध्यापयद्धरिः ।
जटाकमण्डलूदण्डचर्मवल्कलधारिणः ।।२४।।
पत्नीव्रताख्यपुत्रस्य विवाहार्थं व्यचिन्तयत् ।
पतिव्रताख्यया सार्धं रूपयौवनपूरया ।। २५।।
कन्यया तद्विवाहं च नारायणो ह्यकारयत् ।
द्वयोर्जन्माऽक्षरे दृष्ट्वा लग्नार्थं निश्चिकाय सः ।। २६।।
मुहूर्तं च बलं दृष्ट्वा लग्नपत्रं लिलेख च ।
गीतिं मांगलिकीं स्वस्तिवाचनिकां विधाप्य वै ।। २७ ।।
मुखं मिष्टं तथा कृत्वा वरस्याऽक्षतबिन्दुकम् ।
पिष्टचूर्णैर्वरस्थांगं मर्दयित्वा ह्यपूजयत्। ।।।२८ ।।
मण्डपारोपणं कृत्वा माणेकस्तंभरोपणम् ।
गणेशस्थापनं कृत्वा मातृकापूजनं तथा ।। २९ ।।
कलशस्थापनं कृत्वा यज्ञकुण्डमकारयत् ।
करे कामफलं ( मींढोलकं) बध्वा वरं मण्डपमानयत ।। 1.35.३० ।।
कन्यां तत्र समानीय वरमालामधारयत् ।
गार्हपत्यं च कुण्डेऽग्निं प्रतिष्ठाप्य ह्यजूहवत् ।। ३१ ।।
हस्तयोर्मेलनं कृत्वा मुखे मिष्टमदापयत् ।
वस्त्रग्रन्थिं समाबध्य प्रदक्षिणा ह्यकारयत् ।। ३ २ ।।
वेदवाद्यध्वनिं कृत्वा मगलादीन्यगापयत् ।
मुद्रादिभी रामयित्वा हस्तद्रव्याणि चार्पयत् ।। २३ ।।
सह धर्मं चरेत्युक्त्वा लग्नकर्माऽसमापयत् ।
विघ्नान् शिरस उत्तार्य ह्याशीर्भिः समयोजयत् ।। ३४।।
ब्राह्मेण विधिना दत्त्वा वरकन्ये ह्यवाहयत् ।
अथ नारायणस्तत्र दम्पतिभ्यामशिक्षयत् ।। २५।।
पतिभिन्ना न वै पत्नी पत्नीभिन्नो न वै पतिः ।
द्वयोः प्रेम्णोरभिन्नत्वाद्द्वयोरैक्यं स्वभावजम् ।। ३६।।
पत्युर्गुप्तं महावीर्यं पत्नी गर्भे दधाति हि ।
अंगयोश्च तयोरैक्याद्दम्पत्योरैक्यमंगजम् ।। ३७।।
पितुर्भागः स्थितो गर्भे पत्नीभागेन पुष्यते ।
द्वयोर्बालो भवेदेकस्ततो ह्यैक्यं द्वयोरपि ।।३८।।
एकस्याऽनिष्टताप्राप्तौ द्वयोर्दुःखं समं भवेत् ।
एकस्य सुखसम्पत्तौ द्वयोः सौख्यं समं भवेत् ।।३९।।
हानिर्लाभः सुखं दुखं समं द्वाभ्यां नु वेद्यते ।
आत्माऽऽत्मनि द्वयोः सक्तस्तस्मादैक्यं द्वयोरपि ।।1.35.४०।।
एकेनाप्यर्जिते द्रव्येऽन्यस्य स्वत्वं प्रवर्तते ।
एके न कृतपुण्यस्य द्वितीयो भजते फलम् ।।४१।।
एकेन तु कृते कार्ये विश्वसित्यपरो यतः ।
एकेनोपार्जितं भोज्यं भुंक्ते तु द्वयमेव वै ।।४२।।
दिवा रात्रौ सहैकत्वं देहयोर्मनसोरपि ।
ममाऽहन्ते न वै भिन्ने तस्मादैक्यं द्वयोरपि ।।४३।।
रोदने रुदनं याति हर्षणे हर्षणं तथा ।
मूर्छने मूर्छनं याति चिन्तने चिन्तनं भवेत् ।। ४४।।
द्वयोरैक्यादिदं सर्वं भिन्नयोर्नहि जायते ।
तस्मात्तु सर्वथा बोध्यं दम्पत्योरैक्यमुत्तमम् ।।४५।।
इत्येवमैक्यसामर्थ्यात्पुण्येऽप्यैक्यं भवत्यपि ।
शत्रुदण्डे राजदण्डे सहनैक्यं भवत्यपि ।।४६।।
तीर्थे दाने चोपकारे शुभे पुण्ये च धर्मणि ।
पतिपत्न्योः समो भागः स्मृद्धौ चाऽत्र परत्र च ।।४७।।
तस्मादर्धं शरीरस्य स्वस्याऽन्यस्य परार्धकम् ।
पुंसोऽर्धं वाम पत्न्येव पत्न्यर्धं दक्षिणं पतिः ।। ४८।।
पत्न्यां पतिः सदा ह्यास्ते कान्ते पत्नी च वर्तते ।
तस्मादर्धांगना पत्नी पतिश्चाऽर्धांगनो मतः ।।४९।।
ततः स्वार्थं परित्यज्य द्वयोरर्थं विबुध्य च ।
द्वाभ्यामाजीवनं चार्थे स्थातव्यं तु परस्परम् ।।1.35.५०।।
परस्परं स्वकं ज्ञात्वा प्रतिबिम्बं सहायकृत् ।
प्रसोढ्वापि द्वयोमर्दं कर्तव्यं कार्यमन्वहम् ।।५१।।
पत्न्या यथा पतिः सेव्यो मान्यः पूज्यश्च देववत् ।
पत्या तथा सद्वा पत्नी सेव्या मान्येव देविका ।।५२।
भोजनाच्छादनाऽऽलापविहारोत्सवखेलने ।
शृंगारहाससम्मानाऽऽसनयानाऽधिरोहणे ।।५३।।
वर्तने वार्तने स्वत्वे पूजने सत्कृतेऽर्हणे ।
पत्नी तु सर्वथा ह्यग्रे गणनीया नरेण हि ।।५४।।
रमण्यो यत्र पूज्यन्ते वसन्ति तत्र देवताः ।
रमण्यो यत्र तुष्यन्ति तत्र वसन्ति सम्पद्ः ।।५५।।
रमण्यो यत्र मोदन्ते वर्धन्ते स्मृद्धयोऽत्र वै ।
रमण्यो यत्र तृप्यन्ति तत्राऽऽकृष्यन्त ऋद्धयः ।।५६।।
नार्यो ह्यानन्दयन्त्यत्र तत्राऽऽगच्छन्ति सिद्धयः ।
नोद्वेज्या नैव ताड्याश्च नार्यो वंशधरा यतः ।।।५७।।।
जनकं तु परित्यज्य याऽऽगता पतिवेशने ।
पत्यधीना पतिभाग्या कस्तामुद्वेजयेद् बुधः ।।५८।।
दासीवाऽऽजीवनं या वै भूजिष्येव नु वर्तते ।
दीनेव कृपणा भूत्वा पतिं चैवाऽनुवर्तते ।।५९।।
गोवत् वा वह्यते यत्र दीना वहति तत्र वै ।
छाया त्विव शरीरस्य कस्तां बुद्धो नु दुःखयेत् ।।1.35.६०।।
दत्तं भुक्तं परं वृंक्ते चाऽभियुक्तेऽवशेषजम् ।
पराधीना पतिं धत्ते कस्तां न रक्षयेद् बुधः ।।६१।।
क्षुधां तृषां प्रसोढ्वापि गृहकार्यं करोति या ।
कष्टं कालं सहित्वाऽपि पतिकार्यं करोति या ।।६२।।
त्यक्त्वा निद्रां तथाऽऽलस्यं विगणय्य मनः स्वकम् ।
पत्युः कामप्रवृत्त्यर्थमुपतिष्ठत्यधो भुवि ।।६ ३।।
ताडने भर्त्सने क्रोशेऽधिक्षेपे त्यजनेऽपि या ।
निर्बला सहते सर्वं कस्तां दुःखं प्रदापयेत् ।।६४।।
एतादृश्यां सुशीलायां पत्न्यां लक्ष्मीः प्रतिष्ठति ।
राधा रमा जया पद्मा शारदा च सरस्वती ।।६५।।
एकादशी रतिः सन्ध्या मोहिनी च जयन्त्यपि ।
एताश्चान्या महादेव्यस्तत्र पत्न्यां वसन्ति हि ।।६६।।
अन्धा रुग्णा दरिद्रा वा कुरूपा कुभगाऽपि वा ।
कुस्तनी कुमुखी कुब्जा स्थूला शैथिल्यमध्यमा ।।६७।।
कुश्वासा कुपदी कुष्ठा कुप्रिया कुस्वभाविनी ।
अपि दुष्टा दुराचारा पत्नी सेव्येव पद्मजा ।।६८।।
न क्वापि दुःखिन्नीं कुर्यात् स्वस्य श्रेयो ह्यभीप्सता ।
तस्या निःश्वासमात्रेण सर्वं दह्यति तत्क्षणात् ।।६९।।
तस्या दुःखकृतोच्छ्वासान् निर्वंशो जायते नरः ।
पुण्यं पूर्वकृतं नश्येत् तस्याः कल्पान्तवह्निना ।।1.35.७०।।
तस्मात्पुत्र सदा पत्नीं पूजय त्वं यथोचितम् ।
स्वस्माद् दशगुणं पत्न्यै देहि सर्वं त्वयाऽर्जितम् ।।७१।।
तेन गृह्यसुखं लब्ध्वा सह स्वर्गं विगाह्य च ।
अन्ते ब्राह्मं पदं दिव्यं प्रयास्यथोऽपुनर्भवम् ।।७२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पत्नीव्रताख्यपुरुषस्यब्रह्मचर्यगार्हस्थ्यदम्पतीत्वधर्ममाहात्म्यादिनिरूपणनामा पञ्चत्रिंशोऽध्यायः ।।३५।।