लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३३
[[लेखकः :|]]
अध्यायः ०३४ →

श्रीलक्ष्मीरुवाच
ताम्बूलचर्वणाद् देव मोदते मम मानसम् ।
ताम्बूलस्य रसास्वादान्मदो भवति मानसे ॥ १ ॥
रसो नाड्यां वितननात् मनो धावति चंचलम् ।।
कमिव स्मरति हार्दै दीव्यति हृदयंगमम् ॥ २ ॥
रसः परिणतो रक्ते चोत्तेजयति चाऽऽन्तरम् ।।
औष्ण्यं ज्ञापयति प्रेष्ठं तापं जनयतीव मे ॥ ३ ॥
क्लेदं वाहयते चांगे स्वर्जनं विदधाति वै ।।
शान्तिं कुरु कृपानाथ कोऽयं रोगो बभूव मे ॥ ४ ॥
श्रुत्वा लक्ष्म्यास्तु चांचल्यं ताम्बूलरसजं तदा ।।
नारायणेन कामाख्यो देवः स्वस्यैव मानसात् ।।५।।
जनितो रूपसौन्दर्ययौवनोद्भेदवारिधिः ।।
कृष्णां प्रान्तपिशंगीं च जटां स्निग्धां दधन् घनाम् ।। ६ ।।
कल्गिं मयूरपर्णाभां विद्युन्मस्तकमण्डिकाम् ।।
ललाटे च दधन् रम्यं मणिं तेजःप्रभोद्भवम् ।। ७ ।।
इषत्कृष्णामिषत्स्वर्णां वक्रां भ्रूकुटिमावहन् ।
रत्यानन्द प्रवाहं स्वनेत्राभ्यां प्रक्षिपन् मुहुः ॥ ८ ॥
ओष्ठाभ्यां प्रेमधारां वै रक्ताभ्यां वाहयन्मुहुः ।।
चूम्बनाऽऽदरयत्नौष्ठमध्यचञ्चुद्वयं मिलन् ॥ ९ ॥
इषत्कृष्णामिषत्सूक्ष्मां श्मश्रुरेखां प्रकाशयन् ।।
पूर्णप्रेमसरच्चक्षुःसौम्यभावं विभावयन् ॥1.33.१०॥
चित्ताकृष्टिसमारब्धमन्दहास्यभरावुभौ ।
रक्तौ कपोलकौ कृत्वा रतिं देवीं कटाक्षयन् ।।११।।
क्वचित्व् चिद् द्वयोर्योगं बोधयन्ती रतिक्रियाम् ।
नेत्रयोः प्रान्तभागे तन्मुहुः कुर्वन् मिलन्क्रियाम् ॥१२॥
भ्रूकुटेर्वक्रभावस्य कृत्वा तु कामठं धनुः ।।
धृत्वा तत्राऽऽम्रपुष्पाणां बाणं तु प्रथमं हि सः ॥१३॥
सुगन्ध्यत्तरतैलादि द्वितीयं बाणमेव च ।।
तृतीयं सर्वतोभावप्रबलाऽऽसक्तत्राटकम् ॥१४॥
चतुर्थं युवरूपांगदर्शनाऽऽकर्षणाह्वयम् ।
पञ्चमं मोहसंवेगं निकषागमकं तथा ।।१५।।
चंचत्स्वर्णसमे काये रोम-जनन-दर्शनम् ।।
स्वर्णवर्णं तरं वस्त्रं लूतान्तुतसमं दधन् ॥१६॥
धातूद्भेदकरं सर्वं किशोरं षोडशाब्दकम् ।।
रूपं सन्दर्शयन् धीरः श्रीहरिं प्रणनाम ह ॥ १७ ॥
किं मे कार्यं भवेद् देव ! सेवकस्येत्युवाच सः ।।
मयोक्तस्त्वं प्रतिव्यक्ति भूत्वाऽऽविश श्रियो हृदि ।।१८।।
रज उत्पादकस्त्वं वै रत्यर्थं भव सर्वदा ।।
तत्राविश्य तथा वीर्योत्पादको भव सर्वथा ॥१९॥
अन्येष्वाविश्य सृष्टौ मे सर्वत्र तत्करो भव ।।
सृष्टिर्येन सदा तत्तद्भावबद्धा स्थिरा भवेत् ॥1.33.२०॥
इत्याज्ञां स समागृह्य सन्निवेशितवान् हृदि ।
तदा त्वं प्रथमं लक्ष्मि ! समाश्लेषितवत्यभूः ॥२१॥
मदंगसंगमाल्लक्ष्मि शान्तस्ते ज्वर आस ह ।।
मम वीर्यस्य ते गर्भे वासात्पुत्रोऽभवद्धनम् ॥२२॥
धनं सुशुविषे तं त्वं यत्काले समयः स च ।
तृतीयेन च कामेन ह्यावयोः कृतयोजनात् ॥२३॥
तथा पुत्रतृतीयाभ्यामावाभ्यां सुदशागमात् ।
धनेन च सह त्रयो वयं प्राप्ता दशां शुभाम् ॥२४॥
दशा पुत्रवती जाता धनत्रयोदशी मता ।
अत्र ते पूजनं ये वै कुर्वन्ति धनकांक्षिणः ॥२५॥
तेषां सुवर्णरजतरत्नादिधनमावह ।।
कामस्ततः समाज्ञप्तो मया बाणसहायकः ॥२६॥
गच्छ सृष्टौ किशोरेषु देहेष्वाविश सर्वतः ।
रजोवीर्यसमुत्पत्तिकरः सृष्टिसहायकृत् ।।२७॥
कामेनाऽभ्यर्थिता स्वस्य सहाया पूर्वगामिनी।।
युवावस्था मया दत्ता कामाय पूर्वचारिणी ॥२८॥
ततस्तत्र कृते वासे द्वितीया सहचारिणी ।।
रतिः पत्नी मया सृष्टा दत्ता कामाय रामणी ॥२९॥
दासः स्वार्थाऽभिधस्तस्मै मया कामाय चार्पितः।।
अनुजः स तु कामस्य मानसो मम बालकः ॥1.33.३०॥
हावभावौ तथा पुत्रौ मानसौ च मया कृतौ ।।
दत्तौ कामाय तौ तत्र भवतः सहसञ्चरौ ॥३१॥
प्रेमाख्याश्च ततः पुत्रौ मानसश्च मया पुनः ।।
समुत्पाद्य प्रदत्तोऽस्मै सोऽप्यभूदस्य साहभूः ॥३२॥
संश्लेशाख्यस्ततो गुप्तात्पुत्र उत्पाद्य चार्पितः ।।
सोऽप्यभूत् कामदेवस्य गुप्तेन्द्रियसहायकः ॥३३॥
जागराख्यस्ततो दासो मया दत्तोऽस्य जाग्रते ।
स्वादभोगौ च तद्दासौ समुत्पाद्य समर्पितौ ॥३४॥
स्रावाख्यश्च ततः पुत्रो मयोत्पाद्य तथाऽर्पितः।
सोऽप्यभूत् तत्र बिन्दूनां कामवेगसहायकः ॥३५॥
आनन्दाख्यस्ततः पुत्रो मया धातोः प्रकाशितः ।
स चाऽप्यस्मै प्रदत्तो वै कार्ये फलसहायकृत् ॥३६॥
उत्तेजनस्तथा पुत्रो मयोत्पाद्य तथाऽर्पितः ।।
चिरं जाग्रबलाऽऽपूरकार्कश्येन सहायकृत् ॥३७॥
निर्वृत्तिश्च मया दासी ततोऽप्यस्मै समर्पिता ।।
स्रावोत्तरं समागम्य विश्लेषयति देहिनौ ॥३८॥
शैथिल्यं च ततो दासो मयोत्पाद्य समर्पितः ।।
तिष्ठति तत्र घटिका कामनिवृत्तिबोधकः ॥३९॥
इत्येवं मण्डलं देवि ! मया सृष्ट्यर्थमादृतम् ।।
कृतं दत्तं रक्षितं च ऐशे जैवे द्वये द्वये ॥1.33.४०॥
तद्वै मदात्मकं सर्वं भावयन्नैति बन्धनम् ।
मया पञ्चाग्नयः क्लृप्ताः स्वस्मादेव प्रकाशिताः ॥४१॥
नरो नारी तथा कामो वीर्यं रजश्च पञ्चकम् ।।
अग्नयः पञ्च ते प्रोक्ता मया मत्तः प्रकाशिताः ॥४२॥
धातोश्चापि तथाऽवस्थाः पञ्चपञ्चाग्नयस्त्विमे ।।
पुरुषः प्रथमो ह्यग्निः पौरुषो धातुरुच्यते ॥४३॥
लिङ्गमग्निद्वितीयस्तु लैङ्गो धातुः स उच्यते ।।
योनिस्ततस्तृतीयोऽग्निर्योनौ धातुस्तदोच्यते ॥४४॥
गर्भस्ततश्चतुर्थोऽग्निर्गार्भो बालः स उच्यते ।
अपत्याग्निः पञ्चमश्चाऽऽपत्येयो मूर्त उच्यते ॥४५॥
इत्येवं धातुबीजाद्वै सृष्टिः प्रचलति ध्रुवम् ।।
ज्ञात्वा मदात्मकान् ताँस्तूपास्ते व्यक्तिः समाहितः ॥४६॥
मम भावपरिध्यानान्मामेति नैति बन्धनम् ।
कामस्तु देहिनोः स्नेहाद् बन्धनाय प्रकल्प्यते ॥४७॥
स एव ब्रह्मणोः स्नेहः कल्पितौ मुक्तये मतः ।।
ब्रह्मदृष्टया गुणो यस्माद् भेददृष्टया तु दूषणम् ॥४८॥
निर्गुणत्वाद्धरेः सर्वा योगाच्च निर्गुणाः क्रियाः ।।
हरेर्जाताद्धरेर्योगाद्धरेः प्रजननाश्रयात् ॥४९॥
देवो हि प्रोच्यते कामो रतिर्देवी तदाश्रयात् ।।
तस्माद्देवस्य देवत्वं सर्वदेवहरेर्बलात् ॥1.33.५०॥
कामो मूर्तिर्हरेर्बोध्या देह्यानन्दसुखप्रदा ।।
आनन्दो ब्रह्मणो रूपं ब्रह्मदृष्टया न बन्धकृत् ॥५१॥
लक्ष्मि ! ते च सुतौ द्वौ वै व्याजश्च व्यवसायकः ।।
तौ ददामि जना याभ्यां सोद्यमाः स्युः सुखाश्रयाः ॥५२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ताम्बूलनिमित्तकामोत्पत्तितत्सन्तानक्रियाऽग्नीनां वर्णननामा त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥