लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०२८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २८
[[लेखकः :|]]
अध्यायः ०२९ →

श्रीनारायण उवाच
मदीयास्तु गुणास्तासु दिव्या वसन्ति सर्वदा ।।
तान्गुणान्सार्थकान् तुभ्यं कथयामि शृणु प्रिये ॥ १ ॥
सर्वभूतहितो भावः सत्यं तत्र प्रकीर्तितम् ।।
हेयप्रतिभटत्वं तु शौचं तत्र प्रकीर्तितम् ॥ २ ॥
परदुःखनिराकारो दया तत्र प्रकीर्तिता ।
अपराधसहिष्णुत्वं क्षमा तत्र प्रकीर्तिता ॥३॥
स्वार्थेऽप्यनादरस्त्यागः सन्तोषः पूर्णकामता ।।
आर्जवं सर्वलोकेषु सारल्यं संप्रकीर्तितम् ॥ ४ ॥
शमः क्लेशाऽपरिभवो दम इन्द्रिययन्त्रणम् ।।
तप इच्छानिरोधः स्यात् साम्यं सर्वाऽविशेषता ।। ५ ।।
तितिक्षा सहनैश्वर्यं श्रुतं शास्त्रार्थवेत्तृता ।।
विरामस्तु प्रयत्नस्याऽनुद्भवः परिकीर्तितः ॥ ६ ॥
ज्ञानं तत्त्वयथावत्तापरिचय इति स्मृतम् ।
वैराग्यं सर्वथा रागशून्यत्वं परिकीर्तितम् ॥ ७ ॥
ऐश्वर्यं तु नियन्तृत्वं सर्वेशनस्वभावता ।
शौर्यं स्वभावविजयस्तेजोऽप्रधृष्यतामता ।।८।।
बलं देहात्मसामर्थ्यं स्मृतिर्भानं तु शाश्वतम् ।।
स्वातन्त्र्यं चाऽपराधीनमन्याऽनपेक्षमीरितम् ।। ९ ।।
कौशलं सर्वकार्येषु नैपुण्यं परिकीर्तितम् ।।
कान्तिः सर्वमनोहारि सौन्दर्यं सहजं मतम् ॥1.28.१०॥
धैर्यं तु क्षिमप्राप्तावव्याकौल्यं सुसम्मतम् ।
मार्दवं तु स्वभावस्याऽकाठिन्यं सर्वथा मतम् ॥११॥
प्रागल्भ्यं प्रतिभोन्मेषा.ऽगाधता परिकीर्तिता ।
प्रश्रयो विनयो बोध्यः शीलं वृत्तेस्तु शुद्धता ।।१२।।
सहस्तु सर्वथा प्रत्यापत्तेर्वै परिपाचनम् ।
ओजः कार्यसमारंभे तत्सिद्ध्यान्तरतेजनम् ।।१३।।
भगो ज्ञानप्रकाशादेरुत्कर्षः सर्वदा मतः ।।
गाम्भीर्यं तदभिप्रायेऽप्यगाधत्वं प्रकीर्तितम् ॥१४॥
कीर्तिर्लोकजनैर्गीतयशःपात्रत्वमुच्यते
मौनं प्रलापरहित्यं स्थैर्यं चाञ्चल्यशून्यता ॥१५॥
आस्तिक्यं त्वाप्तवाक्यार्थविश्वासः संप्रकीर्तितः ।
गुणाभिमानराहित्यमगर्वः खलु सम्मतः ॥१६॥
दूरहंकारशून्यत्वममानित्वं तु सम्मतम् ।।
अदंभित्वं वञ्चकत्वफलाऽबाध्यसुवर्तनम् ॥१७॥
मिताहारो यथापेक्षतृप्तिसाधनगृह्यता ।
दक्षता भग्नकार्याणां पारदर्शित्वमीरितम् ॥१८॥
मैत्री सर्वतनुभृतां विश्वासाधारता मता ।।
उपकारः प्रतिलाभाऽनपेक्षप्रसहायता ॥१९॥
अद्रोहस्तु कथंचिद्वै परपीडाविवर्जनम् ।
मानदत्वं यथायोग्यं सर्वसत्कारकारिता ॥1.28.२०॥
षडूर्मिविजयः प्रोक्तः सर्वथा षड्विजेतृता ।
क्षुधा तृषा शोकमोहौ जरामृती षडूर्मयः ॥२१॥
शरणागतपालत्वं शरण्यत्वं प्रकीर्तितम् ।
तृष्णातन्तुरहितत्वमनीहत्वं तु कीर्तितम् ॥२२॥
यथापेक्षाऽधिकाऽग्रहश्चाऽपरिग्रह उच्यते ।।
सेवनं सर्वथा चैव पोषणं प्राणिनां च वै ॥२३॥
गुणा ह्येताः सदा सन्ति श्रीहरौ ते च मोक्षदाः ।।
भक्तैग्राह्या भवेयुस्ते हरेरुपास्तिवेगतः ॥२४॥
तैरेव सद्गुणैर्युक्तः साध्वीषु निवसाम्यहम् ।।
ततः साध्व्यः सदा पूज्याः पवित्राः पंक्तिपावनाः ॥२५॥
मपुत्र्यः सांख्ययोगिन्यः सत्यः साधुगुणाश्रयाः ।।
कुमार्यः सत्यसंकल्पाः स्वप्रपन्ना स्त्रियस्तु याः ॥२६॥
प्रापयन्ति परं धाम सुखयन्ति च तास्तथा ।
ह्लादयन्ति हरेर्मूर्तावर्पयन्ति च ता मयि ॥२७॥
मम कार्यस्य करणान्मम साधुनिषेवणात् ।
मदंशुकस्य धरणान्मत्तो न्यूना न ता मताः ॥२८॥
अक्षरे परमे धाम्नि योगैश्वर्याणि यानि मे ।।
तानि मया पृथक्कृत्वा योगिन्यः प्रकटीकृताः ॥२९॥
तास्त्वनन्ताः सदा दास्यो मत्स्वरूपा भवन्ति वै ।।
सर्वलोकेषु दिव्यास्ता विचरन्ति मदाज्ञया ॥1.28.३०॥
दिव्या दिव्यचमत्काराः सदा द्वादशहायनाः ।।
अयोनिजाः सदा सत्ये ब्रह्मलोके वसन्ति ताः ॥३१॥
आतिवाहिक्य एतास्तु देवताः परिकीर्तिताः ।
ता एव मुक्तिमार्गं तु नयन्ति मुक्तिभागिनम् ।।३।।
असंख्यातास्तु विज्ञेया देशकालार्हशक्तयः ।।
यत्र यादृग् भवेत् कार्यं तत्र कुर्वन्ति तादृशम् ॥३३॥
मन्मूतौं यस्तु सन्न्यास्तो गुणो भवति सर्वथा ।।
तद्गुणं तु पृथक्कृत्य सन्न्यासिन्यस्ततः कृताः ॥३४॥
ता अपि दिव्यरूपास्तु सृष्टौ चरन्ति नित्यशः ।।
दिव्या द्वादशवार्षिक्यो मुक्तिं नयन्ति देहिनः ॥३५॥
मन्मूतौ यस्तु वैराग्यः पृथक्कृत्वा च तद्गुणम् ।
तस्मान्मदिच्छया वीतरागिण्यः प्रकटीकृताः ॥३६॥
बाला द्वादशवार्षिक्यो दिव्यामुक्तिप्रदापिकाः ।।
यथाऽहं शाश्वतो वर्ते तथा शाश्वत्य एव ताः ॥३७॥
तथा तत्राऽक्षरे धाम्नि मन्मूर्तौ सांख्यवेदनम् ।
तद्वद्योगसु सामर्थ्यं वर्तते ह्युभयं तु तत् ॥३८॥
पृथककृत्वा ततो दिव्याः कन्यका द्वादशाब्दिकाः ।
सौम्या उत्पादिता रम्या मत्सारूप्यसमन्विताः ॥३९॥
सर्वात्मरससंपूर्णाः सर्वानन्दपरिप्लुताः ।
अप्राप्तयौवनोद्भेदाः सर्वपुष्टिमयाऽङ्गनाः ॥1.28.४०॥
एतास्तु सांख्ययोगिन्यः सर्वथा ब्रह्मभावनाः ।।
सर्वदा ब्रह्मदेहास्ता सर्वब्रह्म मया यतः ॥४१॥
तास्तु दिव्यस्वरूपेण चरन्ति सर्वसृष्टिषु ।
मोचयन्ति सदा जीवानीश्वरान्वा तमोऽन्तरात् ॥४२॥
यदा तु क्वापि नारीणां गर्भात्प्रादुर्भवन्ति ताः ।
तदा चिह्नानि तासां तु भवन्ति करपादयोः ।।४३॥
दैवीचिह्नैस्तु विज्ञेया आश्रेयाश्च मुमुक्षुभिः ।।
चिह्नानि तानि संवक्ष्ये शृणु लक्ष्मि ! ममाग्रतः ॥४४॥
मध्ये तु स्तनयोर्यासां हृदि नारायणस्य वै ।।
चरणोर्ध्वतिलकाख्यपुड्ररेखा भवन्ननु ॥४५॥
नाभ्यधोजघने भागे भवेत्स्वर्णसुपिंगला ।
बाणाकृतिसमारेखा ललाटे मुकुटाकृतिः ॥४६॥
गण्डे तु दक्षिणे चाथ ललाटे मध्यदेशके ।
शोणबिन्दुर्भवेच्चापि सुदर्शनसमस्तथा ॥४७॥
उरसि यच्चतुर्हस्तविष्णुरेखा तु संभवेत् ।
यस्या वामे भुजबन्धे गदाचिह्नं तु संभवेत् ।।४८॥
वामसक्थ्नि तु यस्याः स्यात्पदुकाचिह्नमग्रतः ।
हृदये वैजयन्त्याश्च रेखा यस्यास्तु पौरटी ॥४९॥
कमलं तु करे धृत्वा हस्तिर्यस्याः करे भवेत् ।।
लक्ष्मीः स्वयं तु विज्ञेया कन्या मानुषरूपिणी ।।1.28.५०।।
अथान्यान्यपि चिह्नानि स्वाभाविकानि वर्णये ।
यासां पदे करे वा ता ज्ञेया नारायणांगनाः ॥ ५१ ॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुग सन्ताने भगवद्गुणात्मकदिव्यसाध्वीनां दैवीचिह्नप्रदर्शननामाऽष्टाविंशोऽध्यायः ॥२८॥