सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ००८

विकिस्रोतः तः
← अध्यायः ००७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८
[[लेखकः :|]]
अध्यायः ००९ →

श्रीनारायण उवाच-
नमः परस्मै देवाय भूम्ने शक्तित्रयाय च ।
साक्षिणे देहिनां मध्येऽनुपलक्ष्यात्मवर्त्मने ।। १ ।।
नमो भूयः सतां गोत्त्रेऽसतां नाशाप्तभूतये ।
नमो निरस्तसाम्याऽतिशयाय धाम्नि रंस्यते ।। २ ।।
कुयोगिनां विदूराय सन्निकृष्टाय ते नमः ।
नारायणपरा वेदा नारायणपरा मखाः ।। ३ ।।
नारायणपरं ज्ञानं सृजिर्नारायणात्मिका ।
नारायण इदं सर्वं नारायणपरा गतिः ।। ४ ।।
गुणत्रयं समागृह्य निर्गुणोऽपि हरिः स्वयम् ।
वैराजपुरुषो भूत्वा ससर्जाऽऽपः स्वदेहतः ।। ५ ।।
आपो नारा इति बोध्या आपस्तु नरपुत्रिकाः ।
कृत्वा तास्वयनं शेते ततो नारायणः स्वयम् ।। ६ ।।
जले तत्र शयानस्याऽतीताः सहस्रवत्सराः ।
तदा तन्नाभितो नालं पाद्मं प्रादुर्बभूव ह ।। ७ ।।
पद्मोपर्यभवद्ब्रह्मा नारायणसमीहया ।
स ददर्शाऽभितो वारि नान्यत्स प्रमुमोह च ।। ८ ।।
कथं कस्मात्कुतश्चाहं किं करोम्यत्र केवले ।
तस्मान्मूलं मदीयं वै दिदृक्षाम्यनुनालतः ।। ९ ।।
निश्चित्यैवं स्वयं नाले ब्रह्मा संप्रविवेश ह ।
चतुर्युगसहस्रं तच्चचालान्तं न चाप्तवान ।। १० ।।
तदा विश्रम्य तन्नाले न्यवर्तत यदा तु सः ।
योगसिद्धिसहायेन वेगादुपरि संस्थितः ।। ११ ।।
किमर्थं वा कथं चाहं समुत्पन्नो जले कजे ।
विचारयति यावत्स वागुवाचाऽशरीरिणी ।। १ २।।
तपः कुरु स्थितस्तत्र काले ज्ञानं भविष्यति ।
वेत्स्यसि स्वजनेरर्थं श्रुत्वा तां तप आस्थितः ।। १३।।
ततो ज्ञानं ह्यभूत्तस्य सृष्ट्यर्थं मे जनिस्त्वियम् ।
सृष्टिस्तु कीदृशी कार्या मयेत्यर्थे मनो दधौ ।। १४।।
तावन्नारायणमूर्तौ सृष्टिं पूर्वां ददर्श ह ।
पूर्वात्पूर्वतरां चापि दृष्ट्वा संमुमुदे स च ।। १५।।
तपोमहिम्ना स्वगुरुं हरिं स वै समाधिमाप्याऽनुददर्श कारणम् ।
कृत्वा जले वै शयनं महाप्रभुं समस्तसृष्ट्यन्वितचित्ररूपकम् । १६।
दिव्येन चक्षुषा तत्र वैराजे जडचेतनम् ।
भावि सृष्ट्यात्मकं सर्वं दृष्टवान् नामरूपकम् ।। १७।।
पादमूलेऽस्य पातालं पार्ष्णिभागे रसातलम् ।
ददर्श गुल्फयोरस्य लोकं ब्रह्मा महातलम् ।। १८।।
तलातलं तथा लोकं जंघयोः स ददर्श वै ।
जान्वोस्तु सुतलं लोकमुर्वोस्तु वितलाऽतले ।। १९।।
भूतलं सक्थिमूलेऽथ नाभौ भुवर्दिवं हृदि ।
ग्रीवायान्तु महर्लोकमास्ये जनं ददर्श सः ।।१.८. २०।।।
ललाटेऽस्य तपोलोकं सत्यं शिर्ष्णि व्यचष्ट सः ।
बाह्वोरिन्द्रादिदेवाँश्च कर्णयोर्दिश एव च ।।२१।।
श्रोत्रे शब्दं च नासत्यौ नासारन्ध्रे ददर्श सः ।
घ्राणे गन्धं मुखे वह्निं द्यां तु नेत्रद्वयाण्डयोः ।।२२।।
चक्षुषोः सूर्यचन्द्रौ तत्पक्ष्मणोर्दिवसं निशाम् ।
भ्रूविलासे परमेष्ठिपदं तालौ जलं तथा ।।२३।।
जिह्वायान्तु रसाँस्तस्य दंष्ट्रायां यममित्यपि ।
मेधायां चाऽस्य छन्दांसि कटाक्षे कालविप्लवम् ।।२४।।
उत्तरौष्ठे तथा व्रीडामधरौष्ठे तु गर्धनम् ।
स्तनयोरुभयोर्धर्मं पृष्ठेऽधर्मं तु दृष्टवान् ।।।२५।।
शिश्ने प्रजापतिं मित्रावरुणौ तु तदण्डयोः ।
कुक्षिष्वस्य ममुद्राँश्च गिरीनस्थिषु दृष्टवान् ।।।२६ ।।
नदीर्नाडीसु वृक्षाँस्तु व्याचष्टे स हि रोमसु ।
श्वासे वायुं गतौ कालं मेघान्केशेषु तस्य वै ।।२७।।
सन्ध्यां वाससि हृदये मायां मनसि चन्द्रकम् ।
चित्ते महदहंकारे रुद्रं नखे गजाश्वकान् ।। २८।।
नैपुण्ये पक्षिणः सर्वान् बुद्धौ स्वायंभुवं मनुम् ।
नितम्बयोर्मृगान्सर्वान्स्मृतौ गन्धर्व गायकान् ।।२५।।
वीर्ये त्वासुरसैन्यानि मुखेऽस्य ब्राह्मणाँस्तथा ।
भुजयोः क्षत्रियानूर्वोर्वैश्यानंघ्रौ तु शूद्रकान् ।।।१.८.३ ० ।।
स्थावरं जंगमं यावत् सृज्य स्वेनं भवेत्तु यत् ।
सर्वं वैराजदेहेऽयं ब्रह्मा सम्यक् ददर्श ह ।।३ १ ।।
कार्यं यस्य यथा यावत् करणं यस्य यद् यथा ।
कार्ययोगसमाकृष्टिश्लेषाविर्भाववैभवम् ।।३२।।
हस्तामलकवत्सर्वं दृष्टवान् स प्रजापतिः ।
तत्त्वाधीनां मनोऽधीनां द्वेधा ज्ञात्वाऽथ पद्मजः ।।३३ ।।
बीजजां मानसी चेति सृष्टिं प्रतिं मुमोद ह ।
पूर्वं नष्टां स्मृतिं लब्ध्वा ब्रह्मा तुष्टाव केशवम् ।।३४।।
नमः सृष्टिस्वरूपाय नमो वैराजमूर्तये ।
नमोऽवान्तरसर्गाय नमो ब्रह्मादिरूपिणे ।।।३५।।
नमो हिरण्यगर्भाय महाविष्णुत्वरूपिणे ।
नमः प्रधानपतये प्रकृतिस्वामिने नमः ।।२६।।
नमो भूम्नेऽनिरुद्धाय प्रद्युम्नाय च ते नमः ।
नमः संकर्षणाख्याय वासुदेवाय ते नमः ।।२७।।
नमो महापूरुषाय महाकालाय ते नमः ।
नमोऽक्षरनिवासाय मुक्तान्तर्यामिणे नमः ।।३०।।
व्यापकाय परेशाय नैकरूपाय ते नमः ।
सति त्वयि विपर्यासो विवर्तः परिणामकः ।।२९।।
जगतोऽस्य भवेन्नूनं तदभिन्नाय ते नमः ।
साक्षिणे सर्वनेत्राय स्वराजे च नमो नमः ।।१.८.४० ।।
नानाश्चर्यनिवासाय नानारूपधराय च ।
भिन्नात्मदर्शिने पूर्वं पश्चादेकात्मदर्शिने ।।४१।।
अन्विताऽनन्वितार्थाय नमः सदसदात्मने ।
परमाणुस्वरूपाय व्यापकाय च ते नमः ।। ४२।।
त्रिधाच्छेदविहीनाय स्रीपुंरूपात्मने नमः ।
नमो ज्ञानाय दिव्याय ज्ञेयाय ज्ञातृरूपिणे ।।४३ ।।
नमो मानस्वरूपाय मानाय मितये नमः
प्रमात्रे च नमस्तेऽस्तु सत्कार्याय च ते नमः ।४४!।
फलव्याप्तिस्वरूपाय श्रुतिवादाय ते नमः ।
वप्तिवश्रान्तिस्वरूपाय नमो ज्ञप्तिलयात्मने ।।४७।।
प्रकाशाऽकाशतनवे दिव्याऽदिव्यगुणात्मने]
सर्वे यस्माद्यत्र सर्व यश्च सर्वात्मकः प्रभुः ।।४६।।
स्वप्नाऽस्वप्नोभयार्थाय शास्त्रे तेऽस्तु नमो नमः ।
त्वया कृपालुना देव हृत्कपाट प्रवोधितम् ।।४७।।
यदर्थ तत्करिष्येऽहं तत्र मा विस्मर प्रभो ।
त्वत्प्रदत्तप्रबोधेन करिष्ये सर्गघट्टनाम् ।।४८।।
तत्र मे बन्धनं मा स्यात्साहाय्यं प्रार्थये तव ।
सर्वकार्यसमुत्पादे क्लृप्तिदर्शकरो भव ।।४९।।
इति स्तुत्वा स्वयं ब्रह्मा तूष्णीमास क्षणान्तरे ।
तावन्नारायणेनाऽपि संहृतं नैकभावनम् ।।१.८.५० ।।
वैराजस्य स्वरूपन्तु यावत्पश्यति पद्मजः ।
तावद्वैराजहृद्देशाद्विष्णुः प्रादुर्बभूव ह ।।।५१।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणः सष्टिज्ञानप्राप्त्यादिनिरूपणनामा अष्टमोऽध्यायः ।। ८ ।।