रामायण पारायण श्लोकाः

विकिस्रोतः तः

रामायणस्य पारायणादौ पठ्यमानस्तोत्रम् स्मार्तसंप्रदायानुसारेण गणपतिध्यानम् :-- शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युः, तं नमामि गजानम् ॥२॥

गुरुवन्दना :-- गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥३॥ अखण्डमण्डलाकारं व्याप्तंयेन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥४॥ सरस्वतीस्मरणम्:- दोर्भिर्युक्ता चतुभिः स्फटिकमणीमयीमक्षमालां दधाना, हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना, सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥५॥ वाल्मीकिवन्दना:-- कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्यकविताशाखां वन्दे वाल्मीकिकोकिलम् ॥६॥