रामवनगमनम्

विकिस्रोतः तः
रामवनगमनम्
कैलासनाथः एम् ए
१९२९

रामवनगमनम् वनवासादेशः स ददशंसने रामो विषण्णं पितरं शुभे। कैकेय्या सहित दीनं मुखेन परिशुष्यता ॥१॥ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२॥ रामेत्युक्त्वा तु वचनं वाष्पपर्याकुलेक्षणः । शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ।। ३ ॥ तदपूर्व नरपतेदृष्ट्रा रूपं भयावहम् । रामोऽपि भयमापन्नः पदा स्पृष्ट्येव पन्नगम् ॥ ४॥ इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् । निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५ ॥ ऊर्मिमालिनमक्षोभ्यं तुभ्यन्तमिव सागरम् । उपप्लुतमिवादित्यमुक्तानृतमृर्षि यथा ॥६॥ अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन् । बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ ॥ चिन्तयामास चतुरो रामः पितृहिते रतः। किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥६॥ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति । तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥४॥ स दीन इव शोकातों विषण्णवदनद्यतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥१०॥ कञ्चिन्मया नापराद्धमशानायेन मे पिता। कुपितस्तन् ममाचक्ष्व त्वमेवैनं प्रसादय ॥ ११ ॥ २ ( २ ) अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः । विषण्णवदनो दीनः सदा मां प्रतिभाषते ॥ १२ ॥ शारीरो मानसो वापि कच्चिदेनं न बाधते । संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥ १३ ॥ कञ्चिन् न किंचिद् भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥ १४ ॥ अतोषयन्महाराजमकुर्वन् वा पितुर वचः । मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ १५ ।। यतो मूलं नरः पश्येत् प्रादुर्भावमिहात्मनः । कथं तस्मिन्न वर्तेत प्रत्यक्ष सति दैवते ॥ १६ ॥ कञ्चित्ते परुषं किंचिदभिमानात् पिता मम । उक्तो भवत्या रोषेण येनास्य लुलितं मनः ॥ १७ ॥ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः। किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥ एवमुक्ता तु कैकेयी राघवेण महात्मना । । उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १६ ॥ न राजा कुपितो राम व्यसनं नास्य किंचन । किंचिन् मनो गतं त्वस्य त्वद् भयान् नानुभाषते ॥ २० ॥ प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते । तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ २१ ॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च । स पश्चात् तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ २२ ॥ अतिसृज्य ददानीति वरं मम विशांपतिः । स निरर्थं गत-जले सेतुं वन्धिबुमिच्छति ॥ २३ ॥ धर्ममूलमिदं राम विदितं च सतामपि । तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥ यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् । करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ २५ ॥ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते । ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२६॥ एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् । उवाच व्यथितो रामस्तां देवी नृपसन्निधौ ॥ २७ ॥ अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः । अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥ २८॥ भत्तयेयं विषं तीक्ष्णं पतेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २६ ॥ तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ ३०॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम् । उवाच राम कैकेयी वचनं भृशदारुणम् ॥ ३१ ॥ "पुरा देवासुरे युद्धे पित्रा ते मम राघव । रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ ३२ ॥ तत्र मे याचितो राजा भरतस्याभिषेचनम् । गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ ३३ ॥ यदि सत्यप्रतिनं त्वं पितरं कर्तुमिच्छसि । आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ ३४॥ सन्निदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम् । त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ ३५ ॥ भरतश्चाभिषिच्येत यदेतदभिषेचनम् । त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ ३६॥ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः । अभिषेकमिदं त्यवत्वा जटाचीरधरो भव ।। ३७ ॥ ( ४ ) भरतः कोसलपतेः प्रशास्तु वसुधामिमाम् । नानारत्नसमाकीर्णां सवाजिरथसंकुलाम् ॥ ३८ ॥ एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ ३६ ॥ एतत्कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नरेश्वरम् ॥ ४०॥" इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् । प्रविव्यथे चापि महानुभावो राजा च पुत्रव्यसनाभितप्तः ॥ ४१ ॥ तदप्रियममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ ४२ ॥ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः । जटाचीरधरो राक्षः प्रतिज्ञामनुपालयन् ॥ ४३ ॥ इदं तु ज्ञातुमिच्छामि किमर्थ मां महीपतिः । नाभिनन्दति दुर्धर्षो यथापूर्वमरिन्दमः ॥ ४४ ।। मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः । यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥ ४५ ॥ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च । नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम् ॥ ४६ ॥ अलीकं मानसं त्वेकं हृदयं दहते मम । स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् ॥४७॥ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च । हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥ ४८ ।। किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः । तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् ॥ ४६ ॥ तथाश्वासय ह्रीमन्तं किं न्विदं यन्महीपतिः । वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥५०॥ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः । भरतं मातुलकुलादद्यैव नृपशासनात् ॥ ५१ ॥ दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः । अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ५२ ॥ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकेयी। प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम् ॥५३ ॥ एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः । भरतं मातुलकुलादिद्दावर्तयितुं नराः ॥ ५४॥ तव त्वहं तमं मन्ये नोत्सुकस्य विलम्बनम् । राम तस्मादितः शीघ्रं धनं त्वं गन्तुमर्हसि ॥ ५५ ॥ व्रीडान्वितः स्वयं यश्च नृपस्त्वां नाभिभाषते । नैतत् किंचिन् नरथेष्ठ मन्युरेषोऽपनीयताम् ॥ ५६ ॥ यावत् त्वं न वनं यातः पुरादस्मादतित्वरन् । पिता तावन्न ते राम नास्यते भोक्ष्यतेऽपि वा ॥ ५७ ॥ धिक् कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः । मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते ॥ ५८ ॥ रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः । कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ ५६ ॥ तदप्रियमनार्याया वचनं दारुणोदयम् । श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ ६॥ नाहमर्थपरो देवि लोकमावस्तुमुत्सहे । विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम् ॥ ६१ ॥ यत्तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया । प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ १२ ॥ न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् । यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ ६३ ॥ अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् । वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ ६४ ॥ न नूनं मयि कैकेयि किंचिदाशंससे गुणान् । यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ ६५ ॥ यावन् मातरमापृच्छे सीतां चानुनयाम्यहम् । ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥६६॥ भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा । तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥ ६७ ॥ रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता । शोकादशक्नुवन्वक्तुं प्ररुरोद महास्वनम् ॥ ६८ ॥ वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा । कैकेय्याश्चप्यनार्याया निष्पपात महाद्युतिः ॥ ६६ ॥ स रामः पितरं कृत्वा कैकेयी च प्रदक्षिणम् । निष्क्रम्यान्तः पुरात् तस्मात् स्वं ददर्श सुहृजनम् ॥ ७० ॥ तं वाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह । लक्ष्मणः परमकद्धःसुमित्रानन्दवर्धनः ॥ ७१ ॥ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् । शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ।। ७२ ॥ न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति । लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः। ७३ ॥ न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् । सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ ७४ ॥ प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते । विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ ७५ ॥ धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च । प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥ ७६ ॥ सर्वोऽप्यभिजनः श्रीमान् छ्रीमतः सत्यवादिनः। नालक्षयत रामस्य किंचिदाकारमानने ॥ ७ ॥ उचितं च महाबाहुर्न जहौ हर्षमात्मवान् । शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ ७ ॥ वाचा मधुरया रामः सर्वं संमानयञ् जनम् । मातुः समीपं धर्मात्मा प्रविवेश महायशाः ॥ ७६ ॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः । सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥८०॥ मातृदर्शनम् । सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् । उपविष्ट गृहद्वारि तिष्ठतश्चापरान् बहून् ॥१॥ दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः । जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥२॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान् ॥ ३॥ प्रणम्य रामस्तान् वृद्धांस्तृतीयां ददर्श सः । स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः ॥४॥ वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः । न्यवेदयन्त त्वरितं राममातुः प्रियं तदा ॥ ५ ॥ कौसल्यापि तदा देवी रात्रि स्थित्वा समाहिता । प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ ६ ॥ सा क्षौमवसना हृष्टं नित्यं व्रतपरायणा । अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला ।। ७ ।। प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम् । ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ ८॥ देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् । दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ॥ ६ ॥ लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा । समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ १० ॥ तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् । तर्पयन्तीं ददर्शाद्भिर्दैवतां वरवर्णिनीम् ॥ ११ ॥ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् । अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ १२ ॥ स मातरमुपक्रान्तामुपसंगृह्य राघवः । परिष्वक्तश्च बाहुभ्यामवध्रातश्च मूर्धनि ।। १३ ।। तमुवाच दुराधर्षं राघवं सुतमात्मनः । कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ १४ ॥ वृद्धानां धर्मशालानां राजर्षीणां महात्मानाम् । प्राप्नुह्यायुश्च कीर्तिं च धर्म चाप्युचितं कुले ॥ १५ ॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव । अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ १६ ॥ दत्तमासनमालभ्य भोजनेन निमन्त्रितः। मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत् ॥ १७॥ स स्वभावविनीतश्च गौरवाच्च तथानतः । प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ देवि नूनं न जानीषे महद्भयमुपस्थितम् । इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ १६ ॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे । विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २० ॥ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने । कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥ २१ ॥ भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ २२ ॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने । आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ २३ ॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने । पपात सहसा देवी देवतेव दिवश्च्युता ॥ २४ ॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव । रामस्तूत्थापयामास मातरं गतचेतसम् ॥ २५ ॥ उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् । पांसुगुण्ठितसर्वाङ्गी विममर्श च पाणिना ॥ २६ ॥ सा राघवमुपासीनमसुखार्ता सुखोचिता । उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ २७ ॥ यदि पुत्र न जायेथा मम शोकाय राघव न स्म दुःखमतो भूयः पश्येयमहमप्रजा ॥२८॥ एक एव हि वन्ध्यायाः शोको भवति मानसः। अप्रजास्मीति सन्तापो न हन्यः पुत्र विद्यते ॥ २६ ॥ न दृष्टपूर्वे कल्याणं सुखं वा पतिपौरुषे । अपि पुत्रे विपश्येयमिति रामास्थितं मया ॥ ३० ॥ सा बहन्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् । अहं श्रोष्ये सपत्नीनामवराणां परा सती ॥ ३१ ॥ अतो दुःखतरं किं नु प्रमदानां भविष्यति । मम शोको विलापश्च यादृशोऽयमनन्तकः ।। ३२॥ त्वयि सन्निहितेऽप्येवमहमासं निराकृता। किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ ३३ ॥ अत्यन्तं निगृहीतास्मि भर्तुनित्यमतन्त्रिता । परिवारेण कैकेय्याः समा वाप्यथवावरा ॥ ३४ ॥ यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते । कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ ३५ ॥ नित्यक्रोधतया तस्याः कथं नु खरवादिनम् । कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ ३६ ॥ सप्त दश च वर्षाणि जातस्य तव राघव । अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥ ३७॥ तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात् । विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ ३०॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् । कृपणा वर्तयिष्यामि कथं कृपणजीविका ॥ ३९ ॥ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः । दुःस्वसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४०॥ स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते । प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ।। ४१ ।। ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम । यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदर्ती मृगीमिव ॥ ४२ ॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नो विदीर्यते । अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ ४३ ॥ इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि। ( ११ ) ततश्च तप्तं यदपत्यकाम्यया सुनिष्फलं बीजमिवोप्तमूषरे ॥४॥ यदि ह्यकाले मरणं यदृच्छया लभेत कश्चिद्गुरुदुःखकर्शितः । गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ॥ ४५ ॥ अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ । अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवाभिकांक्षया ॥ ४६॥ भृशमसुखममर्षिता यदा बहु विललाप समीक्ष्य राघवम् । व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी ॥ ४७ ॥ तथा तु विलपन्तीं तां कौसल्यां राममातरम् । उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥४८॥ न रोचते ममाप्येतदार्थं यद्राघवो वनम् । त्यक्त्वा राज्यश्रियं गच्छेत्स्रिया वाक्यवशंगतः॥४६ ।। विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः । नृपः किमिव न वयाच्चोद्यमानः समन्मथः ॥१०॥ नास्यापराधं पश्यामि नापि दोषं तथाविधम् । येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ।। ५१ ॥ अहं हनिष्ये पितर वृद्धं कामवशं गतम् । स्त्रियायुक्तं च निर्लजं धर्मायुक्तं नृपं यथा ॥ ५२ ॥ न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ५३ ॥ 1 ( १२ ) देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् । अवेक्षमाणः को धर्मे त्यजेत्पुत्रमकारणात् ॥ ५४ ॥ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरम् ॥ ५५ ॥ यावदेव न जानाति कश्चिदर्थमिमं नरः । तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ ५६ ॥ मया पार्श्वे सधनुषा तव गुप्तस्य राघव । कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥ ५७ ॥ निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ । करिष्यामि शरैस्तीपणैर्यदि स्थास्यति विप्रिये ।। ५८ ।। भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति । सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते ॥ ५६ ॥ प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता । अमित्रभूतो निःसंगं बध्यतां वध्यतामपि ॥ ६०॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्ये भवति शासनम् ॥ ११ ॥ वलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम । दातुमिच्छति कैकेय्यै उपस्थितमिदं तव ॥ ६२ ॥ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् । कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ ६३ ॥ अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः । सत्येन धनुषा चैव दत्तेनेप्टेन ते शपे ॥ ६४ ॥ दीप्तमग्निमरण्यं वा यदि रामः प्रवक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय । ६५ ।। हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः। देवी पश्यतु मे वीर्य राघवश्व पश्यतु ॥ ६६ ॥ ( १३ ) हरिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् । कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ॥ ६७ ॥ एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः। उवाच राम कौसल्या रुदती शोकलालसा ॥ ६॥ भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया । यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते ॥ ६ ॥ न चाधर्म्ये वचः श्रुत्वा सपत्न्या मम भाषितम् । विहाय शोकसंतप्तां गन्तुमर्हसि मामितः॥ ७० ॥ धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि । शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ ७१ ।। शुश्रूषुर्जननी पुत्र स्वगृहे नियतो वसन् । परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ ७२ ॥ यथैव राजा पूज्यस्ते गौरवण तथा ह्यहम् । त्वां साहं नानुजानामि न गन्तव्यभितो वनम् ॥ ७३ ॥ त्वद्वियोगान मे कार्य जीवितेन सुखेन च । त्वया सह मम श्रेयस्तुणानामपि भक्षणम् ।। ७४ ॥ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् । अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम् ।। ७५ ॥ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् । ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः ॥ ७६ ॥ विलपन्ती तथा दीनां कौसल्यां जननीं ततः। उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ ७७ ॥ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम । प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ७ ॥ ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा । गौर्हता जानता धर्म कण्डुना च विपश्चिता ॥ ७ ॥ ( १४ ) अकस्माकं तु कुले पूर्व सगरस्याज्ञया पितुः । खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः ॥ ८०॥ जामदग्न्येन रामेण रेणुका जननी स्वयम् । कृत्ता परशुनारण्ये पितुर्वचनकारणात् ।। ८२ ॥ एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् । पितुर्वचनमक्लीवं करिष्यामि पितुर्हितम् ॥ ८२ ॥ न खल्वेतन्मयैकेन क्रियते पितृशासनम् । एतैरपि कृतं देवि ये मया परिकीर्तिताः ॥३॥ नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये । पूर्वरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ८४ ॥ तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा । पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ५ ॥ तामेवमुक्त्वा जननी लक्ष्मणं पुनरब्रवीत् । वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ ८॥ तव लक्ष्मण जानामि मयि हमनुत्तमम् । विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ ८७ ॥ मम मातुर्महद्दुःखमतुलं शुभलक्षण । अभिप्रायन विज्ञाय सत्यस्य च शमस्य च ॥ ८ ॥ धर्मो हि परमो लोके धर्म सत्यं प्रतिष्ठितम् । धर्मसंश्रितमप्येतत्पितुर्वचनमुत्तमम् ।। ८६ ।। संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा। न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ।।६० ॥ सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् । पितुर्हि वचनाद्वीर कैकेय्या प्रचोदितः ॥ ६१ ।। तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् । धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ।। ६२॥ ! तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः । उवाच भूयः कौसल्या प्राञ्जलिः शिरसा नतः ॥ १३ ॥ अनुमन्यस्व मां देवि गमिष्यन्तमितो धनम् । शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥४॥ तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् । ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ६५ ।। शोकः संधार्यतां मातर्हदये साधु मा शुचः । वनवासादिहेष्यामि पुनः कृत्वा पितुर्वचः॥६६॥ त्वया मया च वैदेह्या लक्ष्मणन सुमित्रया। पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ १७ ॥ अम्ब संभृत्य संभारान्दुःख हदि निगृह्य च । वनवासकृता वुद्धिर्मम धानुवर्त्यताम् ॥ ८ ॥ एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्ययमविक्लवं च । मृतेव संज्ञा प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ ६६ ॥ यथैव ते पुत्र पिता तथा गुरुः स्वधर्मेण सुहृत्तया च । न त्वानुजानामि न मां विहाय सुदुःखितामहसि पुत्र गन्तुम् ॥ १०० ।। किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन । श्रेयो मुहूर्तं तव सन्निधान ममैव कृत्वादपि जीवलोकात् ॥ १०१ ॥ नरैरिवोल्काभिरपोहमानो महागजो ध्वान्तमभिप्रविष्टः । भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः॥ १०२ ॥ स मातरं चैव विसंज्ञकल्प- मार्तं च सौमित्रिमभिप्रतप्तम् । धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ १०३ ॥ अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च । मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ १०४ ॥ धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु । ये तत्र सर्वे स्युरसंशयं मे भार्येव वश्यामिमता सपुत्रा ॥ १०५ ॥ यस्मिंस्तु सर्वे स्युरसन्निविष्टा धर्मो यतः स्यात्तदुपक्रमेत । द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वति न प्रशस्ता ॥ १०६॥ गुरुश्च राजा च पिता च वृद्धः क्रोधात्प्रहर्षादथवापि कामात् । यद्यादिशेत्कार्यमवेक्ष्य धर्म कस्तं न कुर्यादनृशंसवृत्तिः ॥ १०७ ॥ न तेन शक्नोमि पितुः प्रतिक्षा- मिमां न कर्तु सकलां यथावत् । स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिश्च धर्मः ॥ १०८ ॥ 1 ( १७ ) तस्मिन्पुनर्जीवति धर्मराजे विशेषतः स्खे पथि वर्तमाने । देवी मया सार्धमितोऽभिगच्छेत् कथं स्विदन्या विधवेव नारी ॥ १०६ ॥ सा मानुमन्यस्व वनं वजन्तं कुरुष्व नः स्वस्त्ययनानि देवि । यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः ॥ ११० ।। यशो यह केवलराज्यकारणा- न पृष्ठतः कर्तुमलं महोदयम् । अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः॥ ११९॥ प्रसादयन्नरवृषभः स मातरं पराक्रमाजिगमिषुरेव दण्डकान् । अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननी प्रदक्षिणम् ॥ ११२ ।। तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने । कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ ११३ ॥ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः । मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् ॥ ११ ॥ यस्य भृत्याश्च दासाश्व मृष्टान्यन्नानि भुञ्जते । कथं स भोक्ष्यते रामो बने मूलफलान्ययम् ॥ ११५ ।। क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् । गुणवान्दयितो राक्षः काकुत्स्थो यद्विवास्यते ॥ ११६ ॥ नूनं तु बलवांल्लोके कृतान्तः सर्वमादिशन् । लोके रामाभिरामस्त्वं वनं यत्र गामध्यास ॥ ११७॥ ( १८ ) अयं तु मामात्मभवस्तवादर्शनमारुतः । विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥ ११८ ॥ चिन्तावाष्पमहाधूमस्तवागमनचिन्तजः। कर्शयित्वाधिकं पुत्र निःश्वासायासंसभवः ॥ ११६ ॥ त्वया विहीनामिह मां शोकाग्निरतुलो महान् । प्रधक्ष्यति यथा कदयं चित्रभानुर्हिमात्यये ॥ १२० ॥ कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति । अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि ॥ १२१ ॥ यथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः । श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १२२ ॥ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते । भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११३ ॥ भर्तुः पुनः परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ १२४ ॥ यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः । शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः ॥ १२५ ।। एवमुक्ता तु रामेण कौसल्या शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १२६ ॥ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १२७ ॥ मया चैव भवत्या च कर्तव्यं वचनं पितुः । राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १२८ ॥ इमानि तु महारण्ये विहृत्य नव पञ्च च । वर्षाणि परमप्रीत्या स्थास्यामि वचने तव । १२६॥ एवमुक्ता प्रियं पुत्रं वाष्पपूर्णानना तदा । उवाच परमार्ता तु कौसल्या सुतवत्सला ॥ १३०॥ (१६) आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् । नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव ॥ १३१ ॥ यदि ते गमने बुद्धिः कृता पितुरपेक्षया । तां तथा रुदती रामोऽरुदन्वचनमब्रवीत् ॥ १३२ ।। जीवन्त्यां हि स्त्रियां भर्ता दैवतं प्रभुरेव च । भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥ १३३ ।। न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता। भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ॥ १३ ॥ भवतीमनुवर्तेत स हि धर्मरतः सदा । यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥ १३५ ॥ श्रमं नावाप्नुयात्किचिदप्रमत्ता तथा कुरु । दारुणश्चाप्ययं शोको यथैनं न विनाशयेत् ॥ १३६ ॥ राज्ञो वृद्धस्य सततं हितं चर समाहिता। व्रतोपवासनिरता या नारी परमोत्तमा ॥१३७ ॥ भतारं नानुवर्तेत सा च पापगतिर्भवेत् । भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् ।। १३८ ॥ अपि या निर्नमस्कारा निवृत्ता देवपूजनात् । शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ॥ १३६ ॥ एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः । अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥ १४० ॥ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः। एवं कालं प्रतीक्षस्व ममागमनकाक्षिणी ॥ ११ ॥ नियता नियताहारा भर्तुशुश्रूषणे रता। प्राप्स्यसे परमं कामं मयि पर्यागते सति । यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ १४२॥ । ( २० ) आशीर्वादः। एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा। कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ १॥ गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥२॥ पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा। प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥३॥ पितुरानृण्यतां प्राप्त स्वपिध्ये परमं सुखम् । कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥४॥ यत्त्वां संचोदयति मे वच भाविद्धय राघव । गच्छेदानी महावाहो क्षेमेण पुनरागतः ॥ ५॥ सा विनीय तमायासमुमस्पृश्य जलं शुचि । चकार माता रामस्य मङ्गलानि मनस्विनी ॥६॥ न शक्यते वारयितुं गच्छेदानी रघूत्तम । शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ॥ ७॥ यं पालयसि धर्म त्वं प्रीत्या च नियमेन च । स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥८॥ येभ्यः प्रणमसे पुत्र देवेन्वायतनेषु च । ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ६॥ यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता। तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥ १० ॥ पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा । सत्येन च महाबाहो चिरं जीवाभिरक्षितः ।। ११ ।। समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः ।। १२॥ (२१) पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम । स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः॥१३॥ स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा । लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ॥ १४ ॥ ऋतवः षट् च ते सर्वे मासाः संवत्सराक्षपाः । दिनानि च मुहूतांश्च स्वस्ति कुर्वन्तु ते सदा ॥ १५ ॥ श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः। स्कन्दश्च भगवान्देवः सोमश्व सबृहस्पतिः॥ १६ ॥ सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः । ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः ॥१७॥ स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः। शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥ १८ ॥ द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः । नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः॥ १६ ॥ अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् । ऋतवश्वापि षट् चान्ये मासाः संवत्सरास्तथा ॥ २० ॥ कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते । महावनेऽपि चरतो मुनिवेशस्य धीमतः ॥ २१ ॥ तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा। राक्षसानां पिशाचानां रौद्राणं करकर्मणाम् ॥ २२ ॥ मन्यादानां च सर्वेषां मा भूत्पुत्रक ते भयम् । प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ॥ २३ ॥ सरीसृपाश्च कीटाश्च मा भूवन्गहने तव । महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ॥ २४ ॥ महिषाः ऋङ्गियो रौद्रा न ते द्रुह्यन्तु पुत्रक । मांसभोजना रौद्रा ये चान्ये सर्वजातयः ॥ २४ ॥ ( २२ ) मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह । आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥ २६ ॥ सर्वसंपत्तयो राम स्वस्तिमानगच्छ पुत्रक । स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः॥ २७ ॥ सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः। शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२८ ।। पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् । अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः ॥ २६ ॥ उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन । सर्वलोकप्रभुर्ब्रह्मा भूतकर्ता तथर्षयः ॥ ३० ॥ ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम् । इति माल्यैः सुरगणान्गन्धश्चापि यशस्विनी ॥ ३१ ॥ स्तुतिभिश्चानुरूपाभिरान यतलोचना 1 ज्वलनं समुपादाय ब्राह्मणेन महात्मना ॥ ३२॥ हावयामास विधिना राममङ्गलकारणात् । घृतं श्वतानि माल्यानि समिधश्चव सर्षपान् ॥ ३३ ॥ उपसंपादयामास कौसल्या परमाङ्गना। उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् ॥ ३४ ॥ हुतहव्याविशेषेण बाह्यं वलिमकल्पयत् । मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः॥३५ ।। वाचयामास रामस्य वने स्वस्त्ययनक्रियाम् । ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ॥३६ ॥ दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् । यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ॥ ३७ ॥ वृत्रनाशे समभवत्तचे भवतु मङ्गलम् । यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा ॥ ३८॥ ( २३ ) अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् । अमृतोत्पादने दैत्यान्घ्नतो वज्रधरस्य यत् ॥ ३६ ॥ अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् । त्रिविक्रमान्प्रक्रमतो विष्णोरतुलतेजसः ॥ ४० ॥ यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् । ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ताः ॥४१॥ मङ्गलानि महावाहो दिशन्तु शुभमङ्गलम् । इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥४२॥ गन्धैश्चापि समालभ्य राममायतलोचना । ओषधीं च सुसिद्धार्थ विशल्यकरणी शुभाम् ॥ ४३ ॥ चकार रक्षां कौसल्या मन्त्रैरभिजजाप च । उवाचापि प्रहृष्टव सा दुःखवशवर्तिनी ॥४४॥ वाङ्मात्रेण न भावेन वाचा संसजमानया । प्रानम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ॥ ४५ ॥ अवदत्पुत्रमिष्टार्थों गच्छ राम यथासुखम् । अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ॥ ४६ ॥ पश्यामि त्वां सुखं वत्स संघितं राजवर्त्मसु । भद्रासनगतं राम वनवासादिहागतम् ॥ द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥४७॥ मङ्गलैरुपसंपन्नो पनवासादिहागतः । वध्वाश्च मम नित्यं त्वं कामान्संवर्ध याहि भोः ॥४८॥ मार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः। अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव ॥४६॥ ( २४ ) इतीव चाक्षुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि । प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे ॥ ५० ॥ तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः । जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया ॥५१॥ पतिव्रता सीता। प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् । प्रहृष्टजनसंपूर्णं ह्रिया किञ्चिदवाङ्मुखः ॥ १॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् । । अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ २॥ तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् । तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ ३ ॥ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् । आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥ ४॥ अद्य वार्हस्पतः श्रीमान्युक्तः पुष्येण राघव । प्रोच्यते ब्राह्मणैः प्राज्ञः केन त्वमसि दुर्मनाः॥५॥ न ते शतशलाकेन जलफेननिभेन च । आवृतं वदनं वल्गुच्छत्रेणाभिविराजते ॥६॥ व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् ॥ ७॥ चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ७॥ वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ । स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः ।।८।। ( २५ ) न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः। मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः ॥ ६ ॥ न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः । अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १० ॥ चतुर्भिर्वेगसम्पन्नहयैः काञ्चनभूषणैः । मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः ॥ ११ ॥ न हस्ती चाग्रतः श्रीमान्सर्वलक्षणपूजितः । प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ १२ ॥ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन । भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् ॥ १३ ॥ अभिषेको यदा सज्जः किमिदानीमिदं तव । अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १४ ॥ इतीव विलपन्ती तां प्रोवाच रघुनन्दनः । सीते तत्रभवांस्तातःप्रव्राजयति मां वनम् ॥ १५ ॥ कुले महति संभूते धर्मो धर्मचारिणि । शृणु जानकि येनेदं क्रमेणाद्यागतं मम ॥ १६ ॥ राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै। कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ १७ ॥ तयाद्य मम सजेऽस्मिन्नभिषेके नृपोद्यते । प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ १८ ॥ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया । पित्रा में भरतश्चापि यौवराज्ये नियोजितः ॥ १६ ॥ सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् । भरतस्य समीपे ते नाहं कत्थ्यः कदाचन ॥ २० ।। ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् । तस्मान्न ते गुणाः कत्थ्या भरतस्याग्रतो मम ॥ २१ ॥ ( २६ ) अहं ते नानुवक्तव्यो विशेषेण कदाचन । अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २२ ॥ तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् । स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ २३ ॥ अहं चापि प्रतिकज्ञां तां गुरोः समनुपालयन् । वनमद्यैव यास्यामि स्थिरीभव मनस्विनि |॥ २४ ॥ याते च मयि कल्याणि वनं मुनिनिषेवितम् । व्रतोपवासपरया भवितव्य त्वयानघे ॥ २५ ॥ कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि । वन्दितव्यो दशरथः पिता मम जनेश्वरः ॥ २६ ॥ माता च मम कौसल्या वृद्धा संतापकर्शिता । धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति ॥ २७ ॥ वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः। स्नेहप्रणयसंभोगैः समा हिमम मातरः ॥ २८ ॥ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः । त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ २६ ॥ विप्रियं च न कर्तव्यं भरतस्य कदाचन । स हि राजा च वैदेहि देशस्य च कुलस्य च ॥ ३० ॥ आराधिता हि शीलेन प्रयत्नैश्चोपसविताः । राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ३१ ।। औरस्यानपि पुत्रान्हि त्यजन्त्यहितकारिणः । समर्थान्संप्रगृहन्ति जनानपि नराधिपाः ॥ ३२ ॥ सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी। भरतस्य रता धर्म सत्यवतपरायणा ॥ ३३ ॥ अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिव भामिनि । ( २७ ) यथा व्यालीकं कुरुषे न कस्यचित् तथा त्वया कार्यमिदं वचो मम ॥ ३४॥ एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी। प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ ३५ ॥ किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् । त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम ॥ ३६ ॥ वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप । अनर्हमयशस्यं च न श्रोतव्यं त्वरितम् ॥ ३७ ।। आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा । स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ ३८॥ भर्तुर्भाग्यं तु नायेका प्राप्नोति पुरुषर्षभ । अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ ३६॥ न पिता नात्मजो वात्मा न माता न सखीजनः । इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥४०॥ यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव । अग्रतस्ते गमिष्यामि मृदन्ती कुशकण्टकान् ॥ ४१॥ ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम् । नय मां वीर विनब्धः पापं मयि न विद्यते ॥ ४२ ॥ प्रासादाग्रे विमानैर्वा वैहायसगतेन वा । सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥४३॥ अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् । नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया ॥४४॥ अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् । नानामृगगणाकोणे शार्दूलगणसेवितम् ॥ ४५ ॥ सुखं वने निवत्स्यामि यथैव भवने पितुः । अचिन्तयन्ती त्रील्लोकांश्चिन्तयन्ती पतिव्रतम् ॥ ४६॥ (२८ ) शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी । सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ ४७ ॥ त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् । अन्यस्यापि जनस्येह किं पुनर्मम मानद ॥ ४ ॥ साहं त्वया गमिष्यामि वनमद्य न संशयः । नाहं शक्या महाभाग निवर्तयितुमुद्यता ॥ ४६॥ फलमूलाशना नित्यं भविष्यामि न संशयः । न ते दुःखं करिष्यामि निवसन्ती त्वया सदा ॥ ५० ॥ अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि । इच्छामि परतः शैलान्पल्बलानि सरांसि च ॥ ५१ ॥ द्रष्टुं सर्वत्र निर्मीता त्वया नाथेन धीमता । हंसकारण्डवाकीर्णाः पद्मिनी साधुपुष्पिताः ॥ ५२ ॥ इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता । अभिषेकं करिष्यामि तासु नित्यमनुव्रता ।। ५३ ।। सह त्वया विशालाक्ष रंस्ये परमनन्दिनी । एवं वर्षसहस्राणि शतं वापि त्वया सह ॥ ५४ ।। व्यतिकर्म न वेत्स्यामि स्वर्गोऽपि हि न मे मतः । स्वर्गेऽपि च विना वासो भविता यदि राघव ॥ त्वया विना नरव्याघ्र नाहं तदपि रोचये ॥ ५५ ॥ अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् । वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संमता ॥ ५६ ॥ अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम् । ( २६ ) नयस्व मां साधु कुरुष्व याचनां नातो मया ते गुरुता भविष्यति ॥ ५७ ॥ तथा ब्रुवाणामपि धर्मवत्सलां न च स्म सीतां नृवरो निनीषति । उवाच चैनां बहु सन्निवर्तने वने निवासस्य च दुःखितां प्रति ॥ ५ ॥ स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः। न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ ५६ ॥ सान्त्वयित्वा ततस्तां तु वाष्पदूषितलोचनाम् । निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ ६० ॥ सीते महाकुलीनासि धर्मे च निरता सदा । इहाचरस्व धर्म त्वं यथा मे मनसः सुखम् ॥ ६१ ।। सीते यथा त्वां वक्ष्यामि तथा कार्य त्वयावले । वने दोषा हि बहवो वसतस्तान्निबोध मे ॥ २ ॥ सीते विमुच्यतामेषा वनवासकृता मतिः । बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ६३ ॥ हितबुद्धया खलु वचो मयैतदभिधीयते । सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ ६४ ॥ गिरिनिर्झरसंभूता गिरिनिर्दरिवासिनाम् । सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ ६ ॥ क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः। दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ ६६ ॥ सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः। मतैरपि गनित्यमतो दुःखतरं वनम् ॥ ६७ ॥ लताकण्टकसंकीर्णाः ककवाकूपनादिताः। निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम् ॥ ६॥ ( ३० ) सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले । रात्रिषु श्रमखिन्नेन तस्माहुःखमतो वनम् ॥ ६६ ॥ अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना । फलैर्वृक्षावपतितैः सीते दुःखमतो धनम् ॥ ७० ॥ उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि । जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ॥ ७१ ॥ देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् । प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ ७२ ॥ कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः । चरतां नियमेनैव तस्माद्दुःखतरं वनम् ॥ ७३ ॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः । आर्षेण विधिना वेद्यां सीते दुःखमतो वनम् ॥ ७४॥ यथालन्धेन कर्तव्यः संतोषस्तेन मैथिलि । यथाहारैर्वनचरैः सीते दुःखमतो वनम् ।। ७५ ॥ अतीव वातस्तिमिरं बुभुता चास्ति नित्यशः । भयानि च महान्त्यत्र अतो दुःखतरं वनम् ।। ७६ ।। सरीसृपाश्च बहवो बहुरूपाश्च भामिनि । चरन्ति पथि ते दत्ततो दुःखतरं वनम् ॥ ७७॥ नदीनिलयनाः सी नदीकुटिलगामिनः । तिष्ठन्त्यावृत्य पाथानमतो दुःखतरं वनम् ॥ ७८ ॥ पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह । वाधन्ते नित्यमवले सर्व दुःखमतो वनम् ।। ७६ ॥ द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि । वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम् ॥२०॥ कायक्लेशाश्च बहवो भयानि विविधानि च । अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ ८१ ॥ ( ३१ ) क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः। न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम् ॥ २॥ तदलं ते वनं गत्वा क्षम नहि वनं तव । विमृशन्निव पश्यामि बहुदोषकरं वनम् ॥ २३ ॥ वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना। न तस्य सीता वचनं चकार तं ततोऽब्रवीद्राममिदं सुदुःखिता ॥४॥ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता। प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ ५ ॥ ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति । गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृता ।। ८६ ॥ मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा । चमराः सृमराश्चैव ये चान्ये वनचारिणः ॥ ८ ॥ अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव । रूपं दृष्ट्वाऽपसपैयुस्तव सर्वे हि बिभ्यति ॥ ८ ॥ त्वया च सह गन्तव्यं मया गुरुजनाया। त्ववियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ ६ ॥ नहि मां त्वत्समीपस्थामपि शकोऽपि राघव । सुराणामीश्वरः शकः प्रधर्षयितुमोजसा ॥६॥ पतिहीना तु या नारी न सा शत्यति जीवितुम् । काममेवंविघं राम त्वया मम निदर्शितम् ॥ ११ ॥ अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम् । पुरा पितगृहे सत्यं वस्तव्यं किल मे वने ॥ १२॥ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाई वचनं गृहे। वनवासकृतोत्साहा नित्यमेव महाबल ॥ ६३॥ ( ३२ ) आदेशो वनवासस्य प्राप्तव्यः स मया किल । सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा ॥ १४॥ कृतादेशा भविष्यामि गमिष्यामि त्वया सह । कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः ॥ १५ ॥ वनवासे हि जानामि दुःखानि बहुधा किल । प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ ६६ ॥ कन्यया च पितुर्गेहे वनवासः श्रुतो मया । भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः ॥ १७ ॥ प्रसादितश्च वै पूर्व त्वं मे बहुतिथं प्रभो । गमनं वनवासस्य काइक्षितं हि सह त्वया ॥१८॥ कृतक्षणाहं भद्रं ते गमनं प्रति राघव । वनवासस्य शूरस्य मम चर्या हि रोचते ॥ ६ ॥ शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा। भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् ॥ १० ॥ प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया । श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ १०१॥ इहलोके च पितृभिर्या स्त्री यस्य महाबल । अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ १०२ ॥ एवमस्मात्स्वकां नारी सुवृत्तां हि पतिव्रताम् । नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥ १०३ ॥ भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः । नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥ १० ॥ यदि मां दुःखितामेवं वनं नेतुं न चेच्छासि । विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् ॥ १०५ ॥ एवं बहुविधं तं सा याचते गमनं प्रति । नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ १०६ ॥ ( ३३ ) एवमुक्ता तु सा चिन्ता मैथिली समुपागता। स्नापयन्तीव गामुष्णैरश्रुभिनयनच्युतैः ॥ १०७ ॥ चिन्तयन्ती तदा तां तु निवर्तयितुमात्मवान् । क्रोधाविष्टां तु वैदेही काकुत्स्थो वह्नसान्त्वयत् ।। १०० ॥ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा । वनवासनिमित्तार्थ भारमिदमब्रवीत् ॥ १०६ ॥ सा तमुत्तमसंविना सीता विपुलवक्षसम् । प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ ११०॥ किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ १११ ॥ अनृतं वत लोकोऽयमज्ञानाद्यदि वक्ष्यति । तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ ११२ ॥ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते । यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ।। ११३ ॥ द्युमत्लेनसुतं वीरं सत्यवन्तमनुव्रताम् । सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ११४॥ न त्वहं मनसा त्वन्यं द्रष्टास्मि त्वदृतेऽनघ । त्वया राघव गच्छेयं यथान्या कुलपसिनी ॥ ११५ ॥ स्वयं तु भार्या कौमारी चिरमध्युषितां सतीम् । शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ ११६ ॥ यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे । त्वं तस्य भव वश्यश्च विधेयश्च सदानघ ॥ ११७॥ स मामनादाय वनं न त्वं प्रस्थितुर्महसि । तपो वा यदि वारण्यं स्वर्गो वा स्यात्त्वया सह ॥ १८ ॥ न च मे भविता तत्र कश्चित्पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ ११ ॥ ( ३४ ) कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२० ॥ महाबातसमुद्भूतं यन्मामवकरिष्यति । रजो रमण तन्मन्ये पराय॑मिव चन्दनम् ॥ १२१ ॥ शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा। कुथास्तरणयुक्तेषु किं स्यात्सुखतरं ततः ॥ १२२ ॥ पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु । दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ १२३ ॥ न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः । आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १२४ ॥ न च तत्र ततः किंचिद्रष्टुमर्हसि विप्रियम् । मत्कृते न च ते शोको न भविष्यामि दुर्भरा ।। १२५ ॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना । इति जानन्परां प्रीतिं गच्छ राम मया सह ॥ १२६ ॥ अथ मामेवमव्ययां वनं नैव नयिष्यसि । विषमद्यैव पास्यामि मा वशं द्विषतां गमम् ॥ १२७ ॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् । उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ १२ ॥ इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे। किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ १२६ ॥ इति सा शोकसंतप्ता विलय करुण बहु । चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ॥ १३० ।। सा विद्धा बहुभिर्वाक्यदिग्धरिव गजाङ्गना । चिरसंनियतं वाष्पं मुमोचाग्निमिवारथिः ॥ १३१ ॥ तस्याः स्फटिकसंकाशं वारि सन्तापसंभवम् । नेत्राभ्यां परिसुनाव पङ्कजाभ्यामिवोदकम् ॥ १३२॥ ( ३५ ) तत्सितामलचन्द्राभं मुखमायतलोचनम् । पर्यशुष्यत वाष्पेण जलोद्धमिवाम्बुजम् ॥ १३३ ॥ तां परिष्वज्य वाहुभ्यां विसंज्ञामिव दु:खिताम् । उवाच वचनं रामः परिविश्वासयंस्तदा ॥ १३४॥ न देवि तव दुःखेन स्वर्गमप्यभिरोचये । नहि मेऽस्ति भयं किंचित्स्वयंभोरिव सर्वतः॥ १३५ ॥ तव सर्वमभिप्रायमविज्ञाय शुभानने । वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ १३६ ।। यत्सृष्टासि मया साध वनवासाय मैथिली। न विहातुं मया शक्या प्रीतिरात्मवता यथा ॥१३७ ।। धर्मस्तु गजनासोरु सद्भिराचरितः पुरा । तं चाहमनुवर्तिष्ये यथा सूर्य सुवर्चला ॥ १३८ ॥ न खल्वहं न गच्छेयं वनं जनकनन्दिनि । वचनं तनयति मां पितुः सत्योपहितम् ॥ १३६ ॥ एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता । आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ १४० ॥ अस्वाधीनं कथं देवं प्रकारैरभिराध्यते । स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ।। १४१ ।। यत्र त्रयं त्रयो लोकाः पवित्रं तत्सम भुवि । नान्यदस्ति शुभापा तेनेदमभिराध्यते ॥ १४२॥ न सत्यं दानमानौ वा यो वाप्याप्तदक्षिणः । तथा वलकराः सीते यथा सेवा पितुर्मता ॥ १४३॥ स्वर्गों घनं वा धान्यं वा विद्या पुत्राः सुखानि च । गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम् ॥ १४४ ॥ देवगन्धर्वगोलोकान्ब्रह्मलोकांस्तथापरान् । प्राप्नुवन्ति महात्मानो मातापितपरायणाः ।। १४५ ।। ( ३६ ) स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः । तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ॥ १४६ ॥ मम सन्ना मतिः सीते नेतुं त्वां दण्डकावनम् । वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ १४७ ॥ सा हि दिष्टानवद्याङ्गि वनाय मदिरेक्षणे । अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥१४८ ॥ सर्वथा सदृशं सीते मम स्वस्य कुलस्य च । व्यवसायमनुकान्ता कान्ते त्वमतिशोभनम् ॥ १४६ धारभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते स्वोऽपि मम रोचते ॥ १५० ॥ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् । देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम् ॥ १५१ ।। भूषणानि महार्हाणि वरवस्त्राणि यानि च । रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः ॥ १५२ ।। शयनीयानि यानानि मम चान्यानि यानि च । देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ।। १५३ ॥ अनुकूलं तु सा भर्तुात्वा गमनमात्मनः । क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे ॥ १५४ ।। (भ्राता लक्ष्मणः) एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः । वाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन् ॥ १ ॥ स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः । सीतामुवाचातियशां राघवं च महावतम् ॥ २ ॥ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् । अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः ॥३॥ ( ३७ ) मया समेतोऽरण्यानि रम्याणि विचरिष्यसि । पक्षिभिर्भृङ्गयूथैश्च संघुष्टानि समन्ततः ॥ ४ ॥ न देवलोकाक्रमणं नामरत्वमहं वृणे। ऐश्वर्यं चापि लोकानां कामये न त्वया विना ॥५॥ एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः । रामेण बहुभिः सान्त्वैनिषिद्धः पुनरब्रवीत् ॥ ६ ॥ अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम् । किमिदानीं पुनरपि क्रियते मे निवारणम् ॥ ७ ॥ यदर्थ प्रतिषेधो में क्रियते गन्तुमिच्छतः । एतदिच्छामि विशातुं संशयो हि ममानघ ॥८॥ ततोऽनवीन्महातेजा रामो लक्ष्मणमग्रतः । स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम् ॥ ६ ॥ स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः । प्रियःप्राणसमो वश्यो विधेयश्च सखा च मे ॥ १०॥ मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् । को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११ ॥ अभिवर्षति कामयः पर्जन्यः पृथिवीमिव । स कामपाशपर्यस्तो महातेजा महीपतिः ॥ १२॥ सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता। दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥ न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् । भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः॥ १४ ॥ तामार्या स्वयमेवेह राजानुग्रहणेन वा। सौमित्रे भर कौसल्यामुलमर्थममुं चर ॥ १५ ॥ एवं मयि च ते भक्तिभविष्यति सुदर्शिता। धर्मगुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ १६ ॥ ( ३८ ) एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन । अस्माभिर्विप्रहीणाया मातुनॊ न भवेत्सुखम् ॥ १७॥ एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा। प्रत्युवाच तदा रामं वाक्यको वाक्यकोविदम् ॥ १८ ॥ तवैव तेजसा वीर भरतः पूजयिष्यति । कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः ॥ १६ ॥ यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम् । प्राप्य दुर्मनसा धीर गर्वेण च विशेषतः ॥ २०॥ तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः । तत्पक्षानपि तान्सस्त्रैिलोक्यमपि किं तु सा ॥ २१ ॥ कौसल्या बिभृयादार्या सहस्रं मद्विधानपि । यस्याः सहनं ग्रामाणां संप्राप्तमुपजीविनाम् ॥ २२ ॥ तदात्मभरणे चैव मम मातुस्तथैव च । पर्याप्ता मद्विधानां च भरणाय मनस्विनी ॥ २३ ॥ कुरुष्व मामनुचरं वैधय॑ नेह विद्यते । कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते ॥ २४ ॥ धनुरादाय सगुणं खनित्रपिटकाधरः । अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन् ॥ २५ ॥ आहरिष्यामि ते नित्यं मूलानि च फलानि च । वन्यानि च तथान्यानि स्वाहाहाणि तपस्विनाम् ॥ २६॥ भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते। अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ २७ ।। रामस्त्वनेन पाक्येन सुप्रीतः प्रत्युवाच तम् । व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृजनम् ॥ २८ ॥ ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् । जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २६ ॥ ( ३६ ) अभेद्य कवचे दिव्ये तूणी चाक्षय्यसायको । आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥ सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि । सर्वमायुधमादाय विप्रमात्रज लदमण ॥ ३१ ॥ स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः । इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२॥ तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् । रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ ३३ ॥ दशरथः दत्त्वा तु सह वैदेह्या वाह्मणेभ्यो धनं बहु । जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥१॥ ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे । मालादामभिरासक्के सीतया समलंकृते ॥ २॥ ततःप्रासादहर्म्याणि विमानशिखराणि च । अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ ३ ॥ न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः । प्रारुह्य तस्मात्प्रासादाहीनाः पश्यन्ति राघवम् ॥४॥ पदाति सानुजं दृष्ट्वा ससीतं च जनास्तदा । ऊचुर्बहुजना वाचः शोकोपहतचेतसः ॥ ५॥ यं यान्तमनुयाति स्म चतुरङ्गबलं महत् । तमेकं सीतया सार्घमनुयाति स्म लक्ष्मणः ॥६॥ ऐश्वर्यस्य रसः सन् कामानां चाकरो महान् । नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात् ॥ ७ ॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि । तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥८॥ ( ४० ) अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम् । वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ ६ ॥ अद्य नूनं दशरथः सत्वमाविश्य भाषते । नहि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ १० ॥ निर्गुणस्यापि पुत्रस्य कथं स्याद्विनिवासनम् । किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ ११ ॥ आनृशंस्यमनुकोशः श्रुतं शीलं दमः शमः । राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ १२ ॥ तस्मात्तस्योपघातेन प्रजाः परमपीडिताः । औदकानीव सत्त्वानि ग्रीष्मे सलिलसंतयात् ॥१३॥ पीडया पीडितं सर्व जगदस्य जगत्पतेः। मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ १४ ॥ मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः । पुष्पं फलं च पत्रं च शाखाश्चास्यतेरे जनाः ॥ १५ ।। ते लक्ष्मण इव क्षिप्रं सपल्यः सहवान्धवाः । गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ १६ ॥ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ १७ ॥ समुद्धृतनिघानानि परिध्वस्ताजिराणि च । उपात्तधनधान्यानि हतसाराणि सर्वशः॥ १८ ॥ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः। मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥ १६ ॥ अपेतोदकधूमानि हीनसंमार्जनानि च । प्रणष्टबलिकर्मज्यामन्त्रहोमजपानि च ॥२०॥ दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च । अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम् ॥ २१ ॥ । (४१ ) वनं नगरमेवास्तु येन गच्छति राघवः । अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ २२ ॥ बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः । त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥ २३ ॥ अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च । तृणमांसफलादानं देशं व्यालमृगद्विजम् ॥ २४॥ प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः । राघवेण वयं सर्वे वने वत्स्याम निर्वृताः ॥ २५ ॥ इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम् ॥ २६ ॥ स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम् । अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२७॥ स राजा पुत्रमायान्तं दृष्ट्वा चारात्कृताञ्जलिम् । उत्पपातासनात्तूर्णमातः स्त्रीजनसंवृतः॥२८॥ सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः । तमसंप्राप्य दुःखार्तः पपात भुवि मूञ्छितः ॥ २६ ॥ तं रामोऽभ्यपतत्क्षिप्रं लक्ष्मणश्च महारथः। विसंज्ञमिव दुःखन सशोकं नृपति तदा ॥ ३० ॥ तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ । पर्यङ्के सीतया सार्ध रुदन्तः समवेशयन् ॥ ३१ ॥ अथ रामो मुहूर्तस्य लब्धसंझं महीपतिम् । उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतः ॥ ३२॥ आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः । प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ ३३ ॥ लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम् । कारणैर्बहुभिस्तथ्यैर्वार्यमाणो न चेच्छतः ॥ ३४ ॥ ( ४२ ) अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद । लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान् ॥ ३५ ॥ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः। उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ ३६ ॥ अहं राघव कैकेय्या वरदानेन मोहितः । अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम् ॥ ३७ ॥ एवमुक्तो नृपतिना रामो धर्मभृतां वरः । प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ ३८ ॥ भवान्वर्षसहस्राय पृथिव्या नृपते पतिः । अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता ॥ ३ ॥ नव पञ्च च वर्षाणि वनवासे विहृत्य ते । पुनः पादौ ग्रहीष्यामि प्रतिक्षान्ते नराधिप ॥ ४० ॥ रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः । कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत् ॥ ४॥ श्रेयस वृद्धये तात पुनरागमनाय च । गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ ४२ ॥ नहि सत्यात्मनस्तात धर्माभिमनसस्तव । संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ।। ४३ ॥ अद्य त्विदानीं रजनी पुत्र मा गच्छ सर्वथा । एकाहं दर्शनेनापि साधु तावञ्चराम्यहम् ॥ ४४ ॥ मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम् । तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि ॥ ४५ ॥ दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय । त्वया हि मत्प्रियार्थ तु वनमेघमुपाश्रितम् ॥ ४६ ॥ न चैतन्मे प्रियं पुत्र शपे सत्येन राघव । छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया ॥४७॥ ( ४३ ) वञ्चना या तु लब्धा मे तां त्वं निस्ततुमिच्छसि । अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः ॥ १८॥ न चैतदाश्चर्यतमं यत्त्वं ज्येष्ठः सुतो मम । अपानृतकथं पुत्र पितरं कर्तुमिच्छसि ॥४६॥ अथ रामस्तदा श्रुत्वा पितुरातस्य भाषितम् । लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥५०॥ प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति । अपक्रमणमेवातः सर्वकामैरहं वृण ॥ ५१ ॥ इयं सराष्ट्रा सजना धनधान्यसमाकुला । मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ५२ ॥ वनवासकृता वुद्धिर्न च मे ऽद्य चलिष्यति । यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया ॥५३ ॥ दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव । अहं निदेशं भवतो यथोक्तमनुपालयन् ॥५४॥ चतुर्दश समा वत्स्ये वने वनचरैः सह। मा विमर्श वसुमती भरताय प्रदीयताम् ॥ ५५ ॥ नहि मे काङ्क्षितं राज्यं सुखमात्मनि वा प्रियम् । यथानिदेश कर्तुं वै तवैव रघुनन्दन ॥ ५६ ॥ अपगच्छतु ते दुःखं मा भूर्वाष्पपरिप्लुतः । नहि तुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ५७ ॥ नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम् । नैव सर्वानिमान्कामान स्वर्ग न च जीवितुम् ॥ ५८ ॥ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ । प्रत्यहं तव सत्येन सुकृतेन च ते शपे ॥ ५६ ॥ न च शक्यं मया तात स्थातुं क्षणमपि प्रभो। स शोकं धारयस्वम नहि मेऽस्ति विपर्ययः॥६० ॥ (४४) अर्थितो ह्यस्तु कैकेय्या वनं गच्छेति राघव । मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ६१॥ मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम् । प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥ १२ ॥ पिता हि दैवतं तात देवतानामपि स्मृतम् । तस्मादेवतमित्येव करिष्यामि पितुर्वचः ॥ ६३ ॥ चतुर्दशसु वर्षेषु गतेषु नृपसत्तम । पुनर्द्रक्ष्यसि मां प्राप्तं सन्तापोऽयं विमुच्यताम् ॥६५॥ येन संस्तम्भनीयोऽयं सर्वो वाष्पकलो जनः । स त्वं पुरुषशार्दूल किमर्थ विकियां गतः ॥ ६५ ॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् । अहं निदेशं भवतोऽनुपालय- न्वनं गमिष्यामि चिराय सेवितुम् ॥ ६६ ॥ मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम् । शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत् ॥ ६७ ॥ न मे तथा पार्थिव दीयते मनो महत्सु कामेषु न चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःख तव मत्कृतेऽनघ ॥ ६८ ॥ तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्वसुधां न मैथिलीम् । न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्य व्रतमस्तु ते तथा ॥६६॥ (४५) 1 फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च । वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ ७० ॥ एवं स राजा व्यसनाभिपन्न- स्तापेन दुःखेन च पीड्यमानः । प्रालिङ्गय पुत्रं सुविनष्टसंत्रो भूमिं गतो नैव चिचष्ट किंचित् ।। ७१ ॥ देव्यः समस्ता रुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम् । रुदन्सुमन्त्रोऽपि जगाम मू. हाहाकृतं तत्र बभूव सर्वम् ॥ ७२ ॥ सबाष्पं निःश्वस्य राजा जगादेदं पुनर्वचः । सूत रत्नसुसंपूर्णा चतुर्विधवला चमूः ॥ राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ ७३ ॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः। तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ७४ ॥ प्रायुधानि च मुख्यानि नागराः शकटानि च । अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः ॥ ७५ ॥ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः । तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७६ ॥ यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः । ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने ॥ ७७॥ भरतश्च महाबाहुरयोध्यां पालयिष्यति । सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति ॥ ७८ ।। एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् । मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत ॥ ७६ ॥ एवंविधं वचः श्रुत्वा रामो दशरथं तदा । अभ्यभाषत वाक्यं तु विनयको विनीतवत् ॥ ८० ॥ त्यक्तभोगस्य मे राजन्वने वन्यन जीवतः । किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ ८१ ॥ यो हि दत्त्वा द्विजश्रेष्ठं कक्ष्यायां कुरुते मनः। रज्जुनेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ २॥ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते । सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ २३ ॥ खनित्रपिटके चोभे समानयत गच्छत । चतुर्दश वने वासं वर्षाणि वसतो मम ॥ ८४ ॥ चीरपरिधानम् अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् । उवाच परिधत्स्वेति जनौधे निरपत्रपा ॥१॥ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते । सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ २॥ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे। तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ ३॥ अथात्मपरिधानार्थं सीता कौशेयवासिनी। संप्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥४॥ सा व्यपत्रपमाणेव प्रगृह्य च सुदुमनाः। कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा ॥५॥ अश्रुसंपूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी । गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ ६॥ (४७) कथं नु चीरं बध्नन्ति मुनयो वनवासिनः । इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ॥ ७ ॥ कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना। तस्थौ ह्यकुशला तत्र ब्रीडिता जनकात्मजा ॥ ८॥ तस्यास्तत्क्षिप्रमागत्य रामो धर्मभृतां वरः । चीरं बबन्ध सीतायाः कौशयस्योपरि स्वयम् ॥ ६ ॥ रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम् । अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम् ॥ १० ॥ चीरे गृहीते तु तया सवाष्पो नृपतेर्गुरुः। निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ ११ ॥ अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि । वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि ॥ १२ ॥ न गन्तव्यं वनं देव्या सीतया शीलवर्जिते । अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥१३॥ आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् । आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥१४॥ अथ यास्यति वैदेही वनं रामेण संगता । वयमत्रानुयास्यामः पुरं चेदं गमिष्यति ॥ १५ ॥ अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः । सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ १६ ॥ न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः । तद् वनं भविता राष्ट्र यत्र रामो निवत्स्यति ॥ १७ ॥ भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः। वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ १८ ॥ यद्यपि त्वं क्षितितलाद्गगनं चोत्पतिष्यसि । पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ १६ ॥ (४८) अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम् । न चीरमस्याः प्रविधीयतेति न्यवारयत्तवसनं वसिष्ठः ॥२०॥ तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे । नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥२१॥ तस्यां चीरं वसानायां नाथवत्यामनाथवत् । प्रचुकोश जनः सो धिक्त्वां दशरथं त्विति ॥ २२ ॥ तेन तत्र प्रणादेन दुःखितः स महीपतिः । चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ २३ ॥ स निःश्वस्योष्णभैक्ष्वाकस्तां भार्यामिदमब्रवीत् । कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ २४ ॥ सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ २५ ॥ इयं हि कस्यापकरोति किचित् तपस्विनी राजवरस्य पुत्री। या चीरमासाद्य वनस्य मध्ये जाता विसंज्ञा श्रमणीव काचित् ॥ २६ ॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा । यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः ॥२७॥ अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् । ( ४६ ) त्वया हि बाल्यात्प्रतिपन्नमेतत् तन्मा दहेद्वेणुमिवात्मपुष्पम् ॥ २० ॥ रामेण यदि ते पापे किंचित्कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥ २६ ॥ मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी । अपकारं कमिव ते करोति जनकात्मजा ॥ ३०॥ ननु पर्याप्तमेवं ते पापे रामनिवासनम् । किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ ३१ ॥ प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता । रामं यदभिषेकाय त्वमिहागतमव्रवीः ॥ ३२ ॥ तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि। मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ ३३॥ इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किंचित् । भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ॥ ३४ ॥ एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् । अवाक्शिरसमासीनमिदं वचनमब्रवीत् ॥ ३५ ॥ इयं धार्मिक कौसल्या मम माता यशखिनी। वृद्धा चाक्षुद्रशीला च न च त्वां देव गहते ॥ ३६॥ मया विहीनां वरद प्रपन्नां शोकसागरम् । अदृष्टपूर्वव्यसनां भूयः समन्तुमर्हसि ॥ ३७॥ रामस्य तु वचः श्रत्वा मुनिवेषधरं च तम् । समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ ३८॥ नैनं दुःखेन संतप्तः प्रत्यवेक्षत राधवम् । न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ ३६ ॥ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः । विललाप महाबाहू राममेवानुचिन्तयन् ॥ ४० ॥ मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः । प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम् ॥४१॥ न त्वेवानागते काले देहाच्च्यवति जीवितम् । कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥४२॥ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् । विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥४३॥ एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः । स्वार्थे प्रयतमानायाः संश्रित्य निकृति विमाम् ।। ४४॥ एवमुक्त्वा तु वचनं वाष्पेण विहतेन्द्रियः। रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः॥४५॥ संक्षां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः । नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ४६ ।। औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः । प्रापयैनं महाभागमितो जनपदात्परम् ।। ४७॥ एवं मन्ये गुणवतां गुणानां फलमुच्यते । पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥४८॥ राज्ञो वचनमाशाय सुमन्त्रः शीघ्रविक्रमः । योजयित्वा ययौ तत्र रथमश्वैरलंकृतम् ।। ४६ ।। तं रथं राजपुत्राय सूतः कनकभूपितम् । आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ ५० ॥ राजा सत्वरमाहूय व्यापृतं वित्तसंचये । उवाच देशकालशो निश्चितं सर्वतः शुचिः॥ ५१ ।। वासांसि च वराहाणि भूषणानि महान्ति च । वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ।। ५२ ।। नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः । प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् ॥ ५३ ।। सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयामास गात्राणि तैर्विचित्रविभूषणैः ॥ ५४॥ व्यराजयत वैदेही वेश्म तत्सुविभूषिता। उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ।। ५५ ।। तां भुजाभ्यां परिष्वज्य श्ववचनमब्रवीत् । अनाचरन्ती कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ।। ५६ ।। असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः । भर्तारं नाभिमन्यन्ते विनिपातगत स्त्रियः ॥५७ ।। एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ ५८ ।। असत्यशीला विकृता दुर्गा अहृदयाः सदा। असत्यः पापसंकल्पाः क्षणमात्रविरागिणः ॥ ५ ॥ न कुलं न कृतं विद्यां न दत्तं नापि संग्रहः । स्त्रीणां गृह्णाति हृदयमनित्यहृदया हिताः ॥ ६०॥ साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते । स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥६१ ॥ स त्वया नावमन्तव्यः पुत्रः प्रवाजितो वनम् । तव देवसमस्त्वेष निर्धनः सधनोऽपि वा ॥ ६२॥ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् । कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता ॥६३ ॥ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् । अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ ६४ ॥ न मामसज्जनेनार्या समानयितुमर्हति । धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा ॥६५॥ ( ५२ ) नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः । नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ ६६ ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥ ६७ ॥ साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा । आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम् ॥ ६८ ॥ सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् । शुद्धसत्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ ६६ ॥ तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम् । रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ७० ॥ अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम । क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति ॥ ७१ ॥ सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च । समग्रमिह सम्प्राप्त मां द्रक्ष्यसि सुहृवृतम् ॥ ७२॥ --::-- वनगमनम् । अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः । उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥१॥ तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया। राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २ ॥ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् । अपि मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् । हितकामा महाबाहुं मूर्युपाघ्राय लक्ष्मणम् ॥ ४॥ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृजने । रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ ५॥ व्यसनी वा समृद्धो गतिरेष तवानघ । एष लोके सतां धर्मों यज्ज्येष्ठवंशगो भवेत् ॥ ६ ॥ इदं हि वृत्तमुचितं कुलास्यास्य सनातनम् । दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेपु हि ॥ ७ ॥ लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम् । सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥ राम दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ ६ ॥ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यव्रवीत् । विनीतो विनयशश्च मातलिसवं यथा ॥ १०॥ रथमारोह भद्रं ते राजपुत्र महायशः। क्षिप्रं त्वां प्रापयिष्यामि यत्र मांराम वक्ष्यसे ॥ ११ ॥ तं रथं सूर्यसंकाशं सीता हृऐन चेतसा । प्रारुरोह वरारोहा कृत्वालङ्कारमात्मनः ॥ १२॥ वनवासं हि संख्याय वासांस्याभरणानि च । भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १३ ॥ तथैवायुधजातानि भ्रातृभ्यां कवचानि च । रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत् ॥ १४ ॥ अथ ज्वलनसंकाशं चामीकरविभूषितम् । तमारुरुहतुस्तूर्णे भ्रातरौ रामलक्ष्मणौ ॥१५॥ सीतातृतीयानारूढान्दृष्ट्वा रथमचोदयत् । सुमन्त्रः संमतानश्वान्वायुवेगसमाञ्जवे ॥ १६ ॥ ततः सबालवृद्धा सा पुरी परमपीडिता । राममेवाभिदुद्राव धर्मातः ससिलं यथा ॥ १७ ॥ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः । वाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः ॥ १८ ॥ 1 ( ५४ ) संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः मुखं द्रक्ष्याम रामस्य दुर्दर्श नो भविष्यति ॥ १६ ॥ आयसं हृदयं नूनं राममातुरसंशयम् । यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥२०॥ कृतकृत्या हि वैदेही छायेवानुगता पतिम् । न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २१ ॥ अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् । भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ २२ ॥ महत्येषा हि ते वुद्धिरेष चाभ्युदयो महान् । एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥२३ ।। एवं वदन्तस्ते सोढुं न शेकुर्वाष्पमागतम् । नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम् ॥ २४ । अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः । निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति वन्गृहात् ॥ २५॥ शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः । यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २६ ॥ पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौ । परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ २७ ।। स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः। सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ २८ ॥ रामो याहीति तं सूतं तिष्ठेति च जनस्तथा । उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ २६ ॥ निर्गच्छति महावाहौ रामे पौरजनाश्रुभिः । पतितैरभ्यवहितं प्रणनाश महीरजः ॥ ३०।। रुदिताशुपरिबूनं हाहाकृतमचेतनम् । प्रयाणे राघवस्थासीत्पुरं परमपीडितम् ॥ ३१ ॥ सुस्राव नयनैः स्त्रीणामस्रमायाससंभवम् । मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ।। ३२ ।। दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् । निपपातैव दुःखेन कृत्तमूल इव द्रुमः ।। ३३ ॥ ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः । नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३४॥ हा रामेति जनाः केचिद्राममातेति चापरे । अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन् ।। ३५ ॥ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् । राजनं मातरं चैव ददर्शानुगतौ पथि ।। ३६॥ स बद्ध इव पाशेन किशोरो मातरं यथा। धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत ॥ ३७ ।। पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ। दृष्ट्वा संचादयामास शीघ्रं याहीति सारथिम् ॥ ३८॥ नहि तत्पुरुषव्याघ्रो दुःखजं दर्शनं पितुः । मातुश्च सहितुं शक्तस्तोत्रैर्नुन इव द्विपः ॥ ३१ ॥ प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात् । बद्धवत्सा यथा धेनू राममाताभ्यधावत ॥ ४० ॥ तथा रुदन्ती कौसल्यां रथं तमनुधावतीम् । क्रोशन्ती राम रामेति हा सीते लक्ष्मणेति च ॥ ४१ ॥ तिष्ठेति राजा चुक्रोश याहि याहीति राघवः । . सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥४२॥ नाधौषमिति राजानमुपालब्धोऽपि वक्ष्यसि । चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ ४३ ॥ स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम् । व्रजतोऽपि हयाशीघ्र चोदयामास सारथिः॥४४॥ न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् । मनसाप्याशुवेगेन न न्यवर्तत मानुषम् ॥ ४५ ॥ यमिच्छेत्पुनरायातं नैनं दूरमनुव्रजेत् । इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ ४६॥ तेषां वचः सर्वगुणोपपन्नः प्रस्विन्नगात्रः प्रविषण्णरूपः । निशम्य राजा कृपणः सभार्यो व्यवस्थिस्ततं सुतमीक्षमाणः ॥ ४७ ॥ यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत । नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी ॥४८॥ न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः। तदार्तश्च विषण्णश्च पपात धरणीतले ॥ ४६॥ तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना । परं चास्यान्वगात्पावं कैकेयी सा सुमध्यमा ॥५०॥ तां नयेन च संपन्नो धर्मेण विनयेन च । उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५१ ॥ कैकेयि मामकाङ्गानि मा स्प्राक्षी: पापनिश्चये । नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ५२ ॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्तधी त्यजाम्यहम् ॥ ५३ ॥ अथ रेणुसमुध्वस्तं समुत्थाप्य नराधिपम् । न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १४ ॥

"https://sa.wikisource.org/w/index.php?title=रामवनगमनम्&oldid=309238" इत्यस्माद् प्रतिप्राप्तम्