राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धतिः

विकिस्रोतः तः
राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धतिः
ध्यानचन्द्र गोस्वामी

एवं पद्मोपरि ध्यात्वा राधाकृष्णौ ततस्तयोः ।
अष्टकालोचितां सेवां विदध्यात्सिद्धदेहतः ।
गुरुवर्गाज्ञया तत्र पूजयेद्राधिकाहरी ॥ १ ॥
बाह्यपूजां ततः कृत्वा पाद्यमर्घ्यं क्रमेण च ।
विधिपूर्वकशुश्रूषानन्तरं साधकः क्रमात् ।
द्वात्रिंशद्अक्षरमुखान्जपेन्मन्त्रानतन्द्रितः ॥ २ ॥
महामन्त्रं जपेदादौ दशार्णं तद्अन्तरम् ।
ततः श्रीराधिकामन्त्रं गायत्रीं कामिकीं ततः ॥ ३ ॥
ततो युगलमन्त्रं च जपेद्रासस्थलीप्रदम् ।
ततोऽष्टानां सखीनां च जपेन्मन्त्रान् यथाक्रमम् ।
ततोऽष्टमञ्जरीणां च स्वस्वमन्त्रान् क्रमाज्जपेत् ॥ ४ ॥
अष्टकालीयसूत्रमाह, यथा
निशान्तः प्रातः पूर्वाह्नो मध्याह्नश्चापराह्नकः ।
सायं प्रदोषो रात्रिश्च काला अष्टौ यथाक्रमम् ॥ ५ ॥
मध्याह्नो यामिनी चोभौ षण्मुहूर्तमितौ स्मृतौ ।
त्रिमुहूर्तमिता ज्ञेया निशान्तप्रमुखाः परे ॥ ६ ॥
तेषु सिद्धदेहेन सेवनं यथा सनत्कुमारसंहितायाम्,
श्रीनारद उवाच
भगवन् सर्वमाख्यातं यद्यत्पृष्ठं त्वया गुरो ।
अधुना श्रोतुमिच्छामि रागमार्गमनुत्तमम् ॥ ७ ॥
श्रीसदाशिव उवाच
साधु पृष्ठं त्वया विप्र सर्वलोकहितैषिणा ।
रहस्यमपि वक्ष्यामि तन्मे निगदितं शृणु ॥ ८ ॥
परकीयाभिमानिन्यस्तथास्य च प्रिया जनाः ।
प्रचुरेणैव भावेन रमयन्ति निजप्रियम् ॥ ९ ॥
आत्मानं चिन्तयेत्तत्र तासां मध्ये मनोरमाम् ।
रूपयौवनसम्पन्नां किशोरीं प्रमदाकृतिम् ॥ १० ॥
नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ।
प्रार्थितामपि कृष्णेन ततो भोगपराङ्मुखीम् ॥ ११ ॥
राधिकानुचरीं नित्यं तत्सेवनपरायणाम् ।
कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥ १२ ॥
प्रीत्यानुदिवसं यत्नात्तयोः सङ्गमकारिणीम् ।
तत्सेवनसुखास्वादभरेणातिसुनिर्वृताम् ॥ १३ ॥
इत्यात्मानं विचिन्त्यैव तत्र सेवां समाचरेत् ।
ब्राह्ममुहूर्तमारभ्य यावत्सान्ता महानिशा ॥ १४ ॥
श्रीनारद उवाच
हरेरत्र गतां लीलां श्रोतुमिच्छामि तत्त्वतः ।
लीलामजानतां सेव्यो मनसा तु कथं हरिः ॥ १५ ॥
श्रीसदाशिव उवाच
नाहं जानामि तां लीलां हरेर्नारद तत्त्वतः ।
वृन्दादेवीं समागच्छ सा ते लीलां प्रवक्ष्यति ॥ १६ ॥
अविदूरे इतः स्थानात्केशीतीर्थसमीपतः ।
सखीभिः संवृता सास्ते गोविन्दपरिचारिका ॥ १७ ॥
श्रीसनत्कुमार उवाच
इत्युक्तस्तं परिक्रम्य गुरुं नत्वा पुनः पुनः ।
वृन्दास्थानं जगामासौ नारदो मुनिसत्तमः ॥ १८ ॥
वृन्दापि नारदं दृष्ट्वा प्रणम्यापि पुनः पुनः ।
उवाच तं मुनिश्रेष्ठं कथमत्रागतिस्तव ॥ १९ ॥
श्रीनारद उवाच
त्वत्तो वेदितुमिच्छामि नैत्यिकं चरितं हरेः ।
तदादितो मम ब्रुहि यदि योग्योऽस्मि शोभने ॥ २० ॥
श्रीवृन्दादेव्युवाच
रहस्यं त्वां प्रवक्ष्यामि कृष्णभक्तोऽसि नारद ।
न प्रकाश्यं त्वया ह्येतद्गुह्याद्गुह्यतरं महत् ॥ २१ ॥
अथ निशान्तसेवा
मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते ।
कल्पवृक्षनिकुञ्जे तु दिव्यरत्नमये गृहे ॥ २२ ॥
निद्रितौ तिष्ठतस्तल्पे निविडालिङ्गितौ मिथः ।
मद्आज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि ॥ २३ ॥
गाढालिङ्गननिर्भेदमाप्तौ तद्भङ्गकातरौ ।
न मनस्कुरुतस्तल्पात्समुत्थातुं मनागपि ॥ २४ ॥
ततश्च शारिकासंघैः शुकाद्यैरपि तौ मुहुः ।
बोधितौ विविधैः पद्यैः स्वतल्पादुदतिष्ठताम् ॥ २५ ॥
उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ ।
प्रविश्य चक्रिरे सेवां तत्कालस्योचितां तयोः ॥ २६ ॥
पुनश्च शारिकावाक्यैरुत्थाय तौ स्वतल्पतः ।
गच्छतः स्वस्वभवनं भीत्य्उत्कण्ठाकुलौ मिथः ॥ २७ ॥
इति निशान्तसेवा
अथ प्रातःसेवा
प्रातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरम् ।
कृत्वा कृष्णो दन्तकाष्ठं बलदेवसमन्वितः ॥ २८ ॥
मात्रानुमोदितो याति गोशालां दोहनोत्सुकः ।
राधापि बोधिता वृद्धवयस्याभिः स्वतल्पतः ॥ २९ ॥
उत्थाय दन्तकाष्ठादि कृत्वाभ्यङ्ग समाचरेत् ।
स्नानवेदीं ततो गत्वा स्नापिता ललितादिभिः ॥ ३० ॥
भूषागृहं व्रजेत्तत्र वयस्या भूषयन्त्यपि ।
भूषणैर्विविधैर्दिव्यैर्गन्धमाल्यानुलेपनैः ॥ ३१ ॥
ततश्च स्वजनैस्तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः ।
पक्तुमाहूयते तूर्णं ससखी सा यशोदया ॥ ३२ ॥
श्रीनारद उवाच
कथमाहूयते देवि पाकार्थं सा यशोदया ।
सतीषु पाककर्त्रीषु रोहिणीप्रमुखाष्वपि ॥ ३३ ॥
श्रीवृन्दोवाच
दुर्वाससा स्वयं दत्तो वरस्तस्यै महर्षिणा ।
इति कात्यायनीवक्त्राच्छ्रुतमासीन्मया पुरा ॥ ३४ ॥
त्वया यत्पच्यते देवि तद्अन्नं मद्अनुग्रहात् ।
मिष्टं स्वाद्व्अमृतस्पर्द्धि भोक्तुरायुष्करं तथा ॥ ३५ ॥
इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला ।
आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती ॥ ३६ ॥
श्वश्र्वानुमोदिता सापि हृष्टा नन्दालयं व्रजेत् ।
ससखीप्रकरा तत्र गत्वा पाकं करोति च ॥ ३७ ॥
कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः ।
आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः ॥ ३८ ॥
अभ्यङ्गमर्दनं कृत्वा दासैः संस्नापितो मुदा ।
धौतवस्त्रधरः स्रग्वी चन्दनाक्तकलेवरः ॥ ३९ ॥
द्विफालबद्धकेशैश्च ग्रीवाभालोपरि स्फुरन् ।
चन्द्राकारस्फुरद्भालतिलकालकरञ्जितः ॥ ४० ॥
कङ्कणाङ्गदकेयूररत्नमुद्रालसत्करः ।
मुक्ताहारस्फुरद्वक्षा मकराकृतिकुण्डलः ॥ ४१ ॥
मुहुराकारितो मात्रा प्रविशेद्भोजनालये ।
अवलम्ब्य करं मातुर्बलदेवमनुव्रतः ॥ ४२ ॥
भुक्त्वा च विविधान्नानि मात्रा च सखिभिर्वृतः ।
हासयन् विविधैर्वाक्यैः सखींस्तैर्हासितः स्वयम् ॥ ४३ ॥
इत्थं भुक्त्वा तथाचम्य दिव्यखट्टोपरि क्षणात् ।
विश्रमेत्सेवकैर्दत्तं ताम्बूलं विभजन्नदन् ॥ ४४ ॥
राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत ।
ललितादिसखीवृता भुङ्क्तेऽन्नं लज्जयान्विता ॥ ४५ ॥
इति प्रातःसेवा

अथ पूर्वाह्नसेवा
गोपवेशधरः कृष्णो धेनुवृन्दपुरःसरः ।
व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि ॥ ४६ ॥
पितरं मातरं नत्वा नेत्रान्तेन प्रियागणान् ।
यथायोग्यं तथा चान्यान् सन्निवर्त्य वनं व्रजेत् ॥ ४७ ॥
वनं प्रविश्य सखिभिः क्रीडित्वा च क्षणं ततः ।
वञ्चयित्वा च तान् सर्वान् द्वित्रैः प्रियसखैर्युतः ॥ ४८ ॥
सङ्केतकं व्रजेद्धर्षात्प्रियासन्दर्शनोत्सुकः ।
सापि कृष्णे वनं याते दृष्ट्वा तं गृहमागता ॥ ४९ ॥
सूर्यादिपूजाव्याजेन कुसुमाद्य्आहृतिच्छलात् ।
वञ्चयित्वा गुरून् याति प्रियसङ्गेच्छया वनं ॥ ५० ॥
इति पूर्वाह्नसेवा
अथ मध्याह्नसेवा
इत्थं तौ बहुयत्नेन मिलित्वा स्वगणैर्वृतौ ।
विहारैर्विविधैस्तत्र वने विक्रीडतो मुदा ॥ ५१ ॥
स्यन्दोलिकासमारूढौ सखीभिर्दोलितौ क्वचित् ।
क्वचिद्वेणुं करस्रस्तं प्रियया चोरितं हरिः ॥ ५२ ॥
अन्वेषयन्नुपालब्धो विप्रलब्धः प्रियागणैः ।
हासितो बहुधा ताभिर्हृतस्व इव तिष्ठति ॥ ५३ ॥
वसन्तर्तुना जुष्टं वनखण्डं क्वचिन्मुदा ।
प्रविश्य चन्दनाम्भोभिः कुङ्कुमादिजलैरपि ॥ ५४ ॥
विषिञ्चतो यन्त्रमुक्तैस्तत्पङ्केनापि तौ मिथः ।
सख्योऽप्येवं विषिञ्चन्ति ताश्च तौ सिञ्चतः पुनः ॥ ५५ ॥
तथान्यर्तुसु जुष्टासु क्रीडतो वनराजिषु ।
तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज ॥ ५६ ॥
श्रान्तौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम ।
उपविश्यासने दिव्ये मधुपानं प्रचक्रतुः ॥ ५७ ॥
ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ ।
मिथः पाणिं समालम्ब्य कामबाणवशङ्गतौ ॥ ५८ ॥
रिरंसु विशतः कुञ्जं स्खलत्पादाब्जकौ पथि ।
ततो विक्रीडतस्तत्र करिणीयूथपौ यथा ॥ ५९ ॥
सख्योऽपि मधुभिर्मत्ता निद्रया पिहितेक्षणाः ।
अभितः कुञ्जपुञ्जेषु सार्वा एव विलिल्यिरे ॥ ६० ॥
पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः ।
सर्वासां सन्निधिं गच्छेत्प्रियाणां परितो मुहुः ॥ ६१ ॥
रमयित्वा च ताः सर्वाः करिणीगजराडिव ।
प्रियया च तथा ताभिः सरोवरमथाव्रजेत् ॥ ६२ ॥
श्रीनारद उवाच
वृन्दे श्रीनन्दपुत्रस्य माधुर्यक्रीडने कथम् ।
ऐश्वर्यस्य प्रकाशोऽभूदिति मे छिन्धि संशयम् ॥ ६३ ॥
श्रीवृन्दोवाच
मुने माधुर्यमय्यस्ति लीलाशक्तिर्हरेर्दृशा ।
तया पृथक्कृतः क्रीडेद्गोपिकाभिः समं हरिः ॥ ६४ ॥
राधया सह रूपेण निजेन रमते स्वयम् ।
इति माधुर्यलीलायाः शक्तिर्नेशताया हरेः ॥ ६५ ॥
जलसेकैर्मिथस्तत्र क्रीडित्वा सगणौ ततः ।
वासःस्रक्चन्दनैर्दिव्यभूषणैरपि भूषितौ ॥ ६६ ॥
तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे ।
अश्नीतः फलमूलानि कल्पितानि मयैव हि ॥ ६७ ॥
हरिस्तु प्रथमं भुक्त्वा कान्तया परिवेशितम् ।
द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् ॥ ६८ ॥
ताम्बूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः ।
सेव्यमानो भृशन्ताभिर्मोदितः प्रेयसीं स्मरन् ॥ ६९ ॥
श्रीराधापि हरौ सुप्ते सगणा मुदितान्तरा ।
कान्तदत्तं प्रीतमना उच्छिष्टं बुभुजे ततः ॥ ७० ॥
किञ्चिदेवो ततो भुक्त्वा व्रजेच्छय्यानिकेतनम् ।
द्रष्टुं कान्तमुखाम्भोजं चकोरीवन्निशाकरम् ॥ ७१ ॥
ताम्बूलचर्वितं तस्य तत्रत्याभिर्निवेदितम् ।
ताम्बूलान्यपि चाश्नाति विभजन्ति प्रियालिषु ॥ ७२ ॥
कृष्णोऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः ।
प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः ॥ ७३ ॥
ताश्च क्ष्वेलीं क्षणं कृत्वा मिथः कान्तकथाश्रयाः ।
व्याजनिद्रां हरेर्ज्ञात्वा कुतश्चिदनुमानतः ॥ ७४ ॥
विमृश्य वदनं दृग्भिः पश्यन्त्योऽन्योन्यमाननम् ।
लीना इव लज्जया स्युः क्षणमुचुर्न किञ्चनम् ॥ ७५ ॥
क्षणादेव ततो वस्त्रं दूरीकृत्य तदङ्गतः ।

साधु निद्रां गतोऽसीति हासयन्त्यो हसन्ति तम् ॥ ७६ ॥
एवं तौ विविधैर्हासै रममाणौ गणैः सह ।
अनुभूय क्षणं निद्रासुखं च मुनिसत्तम ॥ ७७ ॥
उपविश्यासने दिव्ये सगणौ विस्तृते मुदा ।
पणीकृत्य मिथो हारचुम्बाश्लेषपरिच्छदान् ॥ ७८ ॥
अक्षैर्विक्रीडितः प्रेम्णा नर्मालापपुरःसरम् ।
पराजितोऽपि प्रियया जितमित्यवदन्मृषा ॥ ७९ ॥
हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया ।
तयैवं ताडितः कृष्णः कर्णोत्पलसरोरुहैः ॥ ८० ॥
विषण्डवदनो भूत्वा गतस्व इव नारद ।
जितोऽस्मि च त्वया देवि गृह्यतां यत्पणीकृतम् ॥ ८१ ॥
चुम्बनादि मया दत्तमित्युक्त्वा च तथाचरत् ।
कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः ॥ ८२ ॥
ततः शारीशुकानां च श्रुत्वा वागाहवं मिथः ।
निर्गच्छतस्ततः स्थानाद्गन्तुकामो गृहं प्रति ॥ ८३ ॥
कृष्णः कान्तामनुज्ञाप्य गवामभिमुखं व्रजेत् ।
सा तु सूर्यगृहं गच्छेत्सखीमण्डलसंयुता ॥ ८४ ॥
कियद्दूरं ततो गत्वा परावृत्य हरिः पुनः ।
विप्रवेशं समास्थाय याति सूर्यगृहं प्रति ॥ ८५ ॥
सूर्यं च पूजयेत्तत्र प्रार्थितस्तत्सखीजनैः ।
तदेव कल्पितैर्वेदैः परिहास्यावगर्भितैः ॥ ८६ ॥
ततस्ता अपि तं कान्तं परिज्ञाय विचक्षणाः ।
आनन्दसागरे लीना न विदुः स्वं न चापरम् ॥ ८७ ॥
विहारैर्विविधैरेवं सार्धयामद्वयं मुने ।
नीत्वा गृहं वजेषुस्ताः स च कृष्णो गवां व्रजेत् ॥ ८८ ॥
इति मध्याह्नसेवा

अथापराह्नसेवा
सङ्गम्य तु सखीन् कृष्णो गृहीत्वा गाः समन्ततः ।
आगच्छति व्रजं कर्षन्नुत्तानमुरलीरवैः ॥ ८९ ॥
ततो नन्दादयः सर्वे श्रुत्वा वेणुरवं हरेः ।
गोधूलिपटलैर्व्याप्तं दृष्ट्वा चापि नभःस्थलम् ॥ ९० ॥
विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च ।
कृष्णस्याभिमुखं यान्ति तद्दर्शनसमुत्सुकाः ॥ ९१ ॥
राधिकापि समागत्य गृहं स्नात्वा विभूषिता ।
सम्पाच्य कान्तभोगार्थं द्रव्याणि विविधानि च ।
सखीसंघयुता यान्ति कान्तं द्रष्टुं समुत्सुकाः ॥ ९२ ॥
राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः ।
कृष्णोऽप्येतान् समागम्य यथावदनुपूर्वशः ॥ ९३ ॥
दर्शनैः स्पर्शनैर्वापि स्मितपुर्वावलोकनैः ।
गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि ॥ ९४ ॥
साष्टाङ्गपातैः पितरौ रोहिणीमपि नारद ।
नेत्रान्तसूचितेनैव विनयेन प्रियास्तथा ॥ ९५ ॥
एवं तैश्च यथायोग्यं व्रजौकोभिः प्रपूजितः ।
गवालयं तथा गाश्च सम्प्रवेश्य समन्ततः ॥ ९६ ॥
पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् ।
स्नात्वा पित्वा तथा किञ्चिद्भुक्त्वा मात्रानुमोदितः ।
गवालयं पुनर्याति दोग्धुकामो गवां पयः ॥ ९७ ॥
इत्यपराह्नसेवा

अथ सायंसेवा
ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ।
पित्रा सार्धं गृहं याति पयोभारिशतानुगः ॥ ९८ ॥
तत्रापि मातृवृन्दैश्च तत्पुत्रैश्च बलेन च ।
संभुङ्क्ते विविधान्नानि चर्व्यचूष्यादिकानि च ॥ ९९ ॥
इति सायंसेवा
अथ प्रदोषसेवा
तन्मातुः प्रार्थनात्पूर्वं राधयापि तदैव हि ।
प्रस्थाप्यन्ते सखीद्वारा पक्वान्नानि तद्आलयम् ॥ १०० ॥
श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह
सभागृहं व्रजेत्तैश्च जुष्टं वन्दिजनादिभिः ॥ १०१ ॥
पक्वान्नानि गृहीत्वा याः सख्यस्तत्र समागताः ।
बहूनि च पुनस्तानि प्रदत्तानि यशोदया ॥ १०२ ॥
सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः
सर्वं ताभिः समानीय राधिकायै निवेद्यते ॥ १०३ ॥
सापि भुक्त्वा सखीवर्गयुता तद्अनुपूर्वशः
सखीभिर्मण्डित तिष्ठेदभिसर्तुं मुदान्विता ॥ १०४ ॥
प्रस्थाप्यतेऽनया काचिदित एव ततः सखी ।
तयाभिसारिता साऽथ यमुनायाः समीपतः ॥ १०५ ॥
कल्पवृक्सनिकुञ्जेऽस्मिन् दिव्यरत्नमये गृहे ।
सितकृष्णनिशायोग्यवेश याति सखीयुता ॥ १०६ ॥
कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतुहलं ततः ।
कवित्वानि मनोज्ञानि श्रुत्वा च गीतकान्यपि ॥ १०७ ॥
धनधान्यादिभिस्तांश्च प्रीणयित्वा विधानतः ।
जनैराकारितो मात्रा याति शय्यानिकेतनम् ॥ १०८ ॥
मातरि प्रस्थितायान्तु भोजयित्वा ततो गृहात् ।
सङ्केतकं कान्तयात्र समागच्छेदलक्षितः ॥ १०९ ॥
इति प्रदोषसेवा

अथ रात्रिसेवा
मिलित्वा तावुभावत्र क्रीडतो वनराजिषु ।
विहारैर्विविधैर्हास्यलास्यगीतपुरःसरैः ॥ ११० ॥
सार्धयामद्वयं नीत्वा रात्रेरेवं विहारतः ।
सुषुप्सू विशतः कुञ्जं पञ्चषाभिरलक्षितौ ॥ १११ ॥
निर्वृन्तकुसुमैः क्प्ते केलितल्पे मनोरमे ।
सुप्तावतिष्ठतां तत्र सेव्यमानौ प्रियालिभिः ॥ ११२ ॥
इति रात्रिसेवा

श्रीनारद उवाच
श्रोतुमिच्छामि भो देव व्रजराजसुतस्य च ।
वृन्दावने रसं दिव्यं राधयैकान्तिकं सह ॥ ११३ ॥
श्रीसदाशिव उवाच
शृणु नारद वक्ष्यामि राधाकृष्णरसं शुचिं ।
सुगोप्यं परमोदारं न वक्तव्यं हि कस्यचित् ॥ ११४ ॥
ऐकान्तिकरसास्वादं कर्तुं वृन्दावने मुने ।
व्रजराजकुमारं च बहुकालमभावयम् ॥ ११५ ॥
मयि प्रसन्नः श्रीकृष्णो मन्त्रयुग्ममनुत्तमम् ।
युगलाख्यं ददौ मह्यं स्वीयोज्ज्वलरसाप्लुतम् ॥ ११६ ॥
समब्रवीत्तदा कृष्णः स्वशिष्यं मां स्वकं रसम् ।
ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनामगोचरम् ॥ ११७ ॥
व्रजराजसुतो वृन्दावने पूर्णतमो वसन् ।
सम्पूर्णषोडशकला विहारं कुरुते सदा ॥ ११८ ॥
वासुदेवः पूर्णतरो मथुरायां वसन् पुरि ।
कलाभिः पञ्चदशभिर्युतः क्रीडति सर्वदा ॥ ११९ ॥
द्वारकाधिपतिर्द्वारवत्यां पूर्णस्त्वसौ वसन् ।
चतुर्दशकलायुक्तो विहरत्येव सर्वदा ॥ १२० ॥
एकया कलया द्वाभ्यां मथुराद्वारकाधिपौ ।
वृन्दावनपते रूपौ पूर्णौ स्वे स्वे पदे रसे ॥ १२१ ॥

मथुरानाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः ।
मथुरालीलायां मथुरायां च सम्पूर्णषोडशकलः ।
तथा द्वारकानाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च ।
द्वाभ्यां कलाभ्यामूनः ।
द्वारकायां द्वारकालीलायां च पूर्णषोडशकलः ।

श्रीर्भूलीला योगमाया चिन्त्याचिन्त्या तथैव च ।
मोहिनी कौशलीत्यष्टौ बहिरङ्गाश्च शक्तयः ॥ १२२ ॥
लीला प्रेमस्वरूपा चस्थापन्याकर्षणी तथा ।
संयोगिनी वियोगिन्याह्लादिनीत्यन्तरङ्गिका ॥ १२३ ॥
व्रजे श्रीकृष्णचन्द्रस्य सन्ति षोडशशक्तयः ।
पोषिका मधुरस्यैव तस्यैता वै सनातनाः ॥ १२४ ॥
ह्लादिनी य महाशक्तिः सर्वशक्तिवरीयसी ।
तत्सारभावरूपा श्रीराधिका परिकीर्तिता ॥ १२५ ॥
तया श्रीकृष्णचन्द्रस्य क्रिडायाः समये मुने ।
तद्आविष्टं वासुदेवं सह क्षीराब्धिनायकम् ॥ १२६ ॥
अन्तरीक्ष्यगतं कुर्याच्छक्तिराकर्षणी हरेः ।
क्रीडान्ते स्थापयेत्तन्तु स्थापनी कृष्णदेहतः ॥ १२७ ॥
सम्पूर्णषोडशकलः केवलो नन्दनन्दनः ।
विक्रीडन् राधया सार्धं लभते परमं सुखम् ॥ १२८ ॥
श्रीनारद उवाच
गते मधुपुरीं कृष्णे विप्रलम्भरसः कथम् ।
वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो ॥ १२९ ॥
श्रीसदाशिव उवाच
शक्तिः संयोगिनी कामा वामा शक्तिर्वियोगिनी ।
ह्लादिनी कीर्तिदापुत्री चैवं राधात्रयं व्रजे ॥ १३० ॥
मम प्राणेश्वरः कृष्णस्त्यक्त्वा वृन्दावनं क्वचित् ।
कदाचिन्नैव यातीति जानीते कीर्तिदासुता ॥ १३१ ॥
कामावामे न जानीत इति च ब्रह्मनन्दन ।
रासारम्भ इवान्तर्धिं गतवान्नन्दनन्दनः ॥ १३२ ॥
मथुरां मथुरानाथो वासुदेवो जगाम ह ।
अन्तर्हिते नन्दसुते श्रीमद्वृन्दावने मुने ॥ १३३ ॥
प्रवासाख्यं रसं लेभे राधा वै कीर्तिदासुता ।
ततो वदन्ति मुनयः प्रवासं सङ्गविच्युतिम् ॥ १३४ ॥
मम जीवननेता च त्यक्त्वा मां मथुरां गतः ।
इति विह्वलिता वामा राधा या विरहादभूत् ॥ १३५ ॥
यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च ।
गोलकं प्राप्य तत्राभूत्संयोगरसपेशला ॥ १३६ ॥
कामा राधा च मथुराविरहेण निपीडिता ।
कुरुक्षेत्रं गता तीर्थयात्रापरमलालसा ॥ १३७ ॥
नन्दनन्दनभावज्ञ उद्धवो व्रजमागतः ।
सान्त्वयिष्यन् कीर्तिदायाः सुतां मासद्वये गते ॥ १३८ ॥
राधामास्वादयामास श्रीमद्भागवतार्थकं ।
कथायां भागवत्यान्तु जातायां मुनिपुङ्गव ॥ १३९ ॥
व्रजेन्द्रनन्दनः श्रीमांस्तदा प्रत्यक्षतां गतः ॥ १४० ॥

अतएव पाद्मोत्तरखण्डोक्तं द्वारकाधिपतेर्वृन्दावनं प्रतिगमनं क्षीराब्धिशाय्याविष्टत्वात्क्षीराब्धिशायिनो द्रोणादीनां लब्धवरत्वात्, तेषां पुनः स्वस्थानप्रापणार्थमेवेत्यवगन्तव्यम् ।
श्रीमद्भागवतवाक्यानामेवं विचारोऽवगन्तव्यः पद्मोत्तरखण्डे तु “कालिन्दिपुलिने रम्ये” इत्यत्र श्रीद्वारकानाथस्य श्रीनन्दनन्दनमधुरलीलासंदर्शने सोत्कण्ठत्वाद्व्योमयानैरेत्य श्रीवृन्दावने मासद्वयमुवासेत्यभिप्रायो ज्ञेयः ।
तद्यथा श्रीललितमाधवे (८.३४)“अपरिकलितपूर्वः” इत्यादि ।


इति ते सर्वमाख्यातं नैत्यिकं चरितं हरेः ।
पापिनोऽपि विमुच्यन्ते स्मरणाद्यस्य नारद ॥ १४१ ॥
अष्टकालोक्तशुश्रूषानन्तरं साधकः क्रमात् ।
द्वात्रिंशद्अक्षरमुख्यान् जपेन्मन्त्रानतन्द्रितः ॥ १४२ ॥
महामन्त्रं जपेदादौ दशार्णं तद्अनन्तरम् ।
ततः श्रीराधिकामन्त्रं गायत्रीं कामकीं तथा ॥ १४३ ॥
ततो युगलमन्त्रं च जपेद्रासस्थलीप्रदम् ।
ततोऽष्टानां सखीनां च जपेन्मन्त्रान् यथाक्रमम् ।
ततः षण्मञ्जरीणां च स्वस्वमन्त्रान् क्रमाज्जपेत् ॥ १४४ ॥

यथा आदिपुराणे
गोपीभावेन ये भक्ता मामेव पर्युपासते ।
तेषु तास्विव तुष्टोऽस्मि सत्यं सत्यं धनञ्जय ॥ १४५ ॥
वेशभूषावयोरूपैर्गोपिकाभावमाश्रिताः ।
भावुकीयाश्च तद्भावं यान्ति पादरजोऽर्चनात् ॥ १४६ ॥

यथा एकाम्रपुराणे
अहो भजनमाहात्म्यं वृन्दावनपतेर्हरेः ।
पुमान् योषिद्भवेद्यत्र योषिद्आत्मसमानिका ॥ १४७ ॥

पाद्मे च (उत्तरखण्डे)
पुरा महर्षयः सर्वे दण्डकारण्यवासिनः ।
रामं दृष्ट्वा हरिं तत्र भोक्तुमैच्छन् सुविग्रहम् ॥ १४८ ॥
ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ १४९ ॥
बृहद्वामनसिद्धाश्च श्रुतयोऽपि यथा पुरा ।
गोपीभावेन संसेव्य समुद्भूता हि गोकुले ॥ १५० ॥

यद्उक्तं श्रीरूपगोस्वामिचरणैः
हरिं सुरागमार्गेण सेवते यो नरोत्तमः ।
केवलेनैव स तदा गोपिकात्वमियाद्व्रजे ॥ १५१ ॥

भक्तितत्त्वकौमुद्याम्
एकस्मिन् वासनादेहे यदि चान्यस्य भावना ।
तर्हि तत्साम्यमेव स्यात्यथा वै भरते नृपे ॥ १५२ ॥

यथा सनत्कुमारसंहितायाम्
श्रीनारद उवाच
धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः ।
हरेर्मे नैत्यिकी लीला यतो मेऽद्य प्रकाशिता ॥ १५३ ॥
श्रीसनत्कुमार उवाच
इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः ।
अन्तर्धानं गतो राजन्नारदो मुनिसत्तमः ॥ १५४ ॥
मयाप्येतदानुपूर्व्यं सर्वं तत्परिकीर्तितम् ।
जपन् नित्यं प्रयत्नेन मन्त्रयुग्ममनुत्तमम् ॥ १५५ ॥
कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः ।
तेनोक्तं नारदायाथ नारदेन मयोदितम् ॥ १५६ ॥
संसाराग्निविनाशाय मयाप्येतत्तवोदितम् ।
त्वया चैतद्गोपनीयं रहस्यं परमाद्भुतम् ॥ १५७ ॥
श्र्यम्बरीष उवाच
कृतकृत्योऽभवं साक्षात्त्वत्प्रसादादहं गुरो ।
रहस्यातिरहस्यं यत्त्वया मह्यं प्रकाशितम् ॥ १५८ ॥
श्रीसनत्कुमार उवाच
धर्मानेतानुपादिष्टो जपन्मन्त्रमहर्निशम् ।
अचिरादेव तद्दास्यमवाप्स्यसि न संशयः ॥ १५९ ॥

“एतान् धर्मान्अष्टकालसेवारूपान्; मन्त्रम्युगलमन्त्रम्; तद्दास्यम्तयोः श्रीराधाकृष्णयोर्दास्यं दासीभावम्” इति ।

मयापि गम्यते राजन् गुरोरायतनं मम ।
वृन्दावने यत्र नित्यं गुरुर्मेऽस्ति सदाशिवः ॥ १६० ॥

द्वात्रिंशद्अक्षरादीनां मन्त्राणां क्रमेण फलं यथा पाद्मे

द्वात्रिंशद्अक्षरं मन्त्रं नामषोडशकान्वितम् ।
प्रजपन् वैष्णवो नित्यं राधाकृष्णस्थलं लभेत् ॥ १६१ ॥

गौतमीयतन्त्रे च
अहर्निशं जपेन्मन्त्रं मन्त्री नियतमानसः ।
स पश्यति न सन्देहो गोपरूपिणमीश्वरम् ॥ १६२ ॥

गौरीतन्त्रे च
श्रीमद्अष्टाक्षरं मन्त्रं राधायाः प्रेमसिद्धिदम् ।
प्रजपेत्साधको यस्तु स राधान्तिकमाप्नुयात् ॥ १६३ ॥

सनत्कुमारसंहितायाम्
जपेद्यः कामगायत्रीं कामबीजसमन्विताम् ।
तस्य सिद्धिर्भवेत्प्रेम राधाकृष्णस्थलं व्रजेत् ॥ १६४ ॥
एतां पञ्चपदीं जप्त्वा श्रद्धयाऽश्रद्धयासकृत् ।
वृन्दावने तयोर्दास्यं गच्छत्येव न संशयः ॥ १६५ ॥

किशोरीतन्त्रे च
एतान् सखीनामष्टानां मन्त्रान् यः साधको जपेत् ।
श्रीराधाकृष्णयोः क्षिप्रं विहारस्थलमाप्नुयात् ॥ १६६ ॥

तत्रैव
मन्त्रानेतान्मञ्जरीणामष्टानां यो जपेत्सदा ।
प्रेमसिद्धिर्भवेत्तस्य श्रीवृन्दावनमाप्नुयात् ॥ १६७ ॥

स्मरणानन्तरं सिद्धदेहस्यैव च साधकः ।
अष्टकालोदितां लीलां संस्मरेत्साधकाङ्गकः ॥ १६८ ॥
कालौ निशान्तपूर्वाह्नावपराह्नप्रदोषकौ ।
विज्ञेयौ त्रित्रिघटिकौ प्रातः सायं द्वयं द्वयम् ॥ १६९ ॥
द्विद्विप्रघटिकौ ज्ञेयौ मध्याह्नरात्रिकाविति ॥ १७० ॥
एतेषु समयेष्वेवं या या लीला पुरोदिता ।
तां तामेव यथाकालं संस्मरेत्साधको जनः ॥ १७१ ॥

इति श्रीध्यानचन्द्रगोस्वामिविरचिता
श्री श्री राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धतिः ।