राजेन्द्रकर्णपूरः

विकिस्रोतः तः
Jump to navigation Jump to search
राजेन्द्रकर्णपूरः
श्रीशम्भुः

महाकविश्रीशंभुविरचितो

बद्धस्पर्धः क्षितिधरसुताभ्रूलतावक्रतायं
भूयाद्भूत्यै तव हरशिरःशेखरो रोहिणीशः ।
यं निष्पीड्य स्तनमुखनखोल्लेखरेखासु देव्याः
संभोगन्ते वितरति सुधास्यन्दमर्धेन्दुमौलिः ॥ १ ॥

अव्यात्स वस्ताण्डवविभ्रमेण मौलौ विलीना हरिणाण्ग्कलेखा ।
सा यस्य वामे कुचमण्डलाग्रे कर्पूरपत्राङ्कुरतङ्कमेति ॥ २ ॥

प्रेमाणं विनिमील्य मल्लिकलिकाकर्णावतंसे रसं
मुक्त्वा मौक्तिककुण्डले कुरुत भोः शंभोर्गिरः कणयोः ।
युष्माकं रतिकान्तकार्मुकलताक्रेंकारकान्ते रुते
सोत्कण्ठं कलकण्ठकण्ठकुहरोद्धूतेऽपि मा भून्मनः ॥ ३ ॥

व्याप्तव्योमलते मृगाङ्कधवले निर्धौतदिङ्मण्डले
देव त्वद्यशसि प्रशान्ततमसि प्रौढे जगत्प्रेयसि ।
कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोधयः
क्षीरोदन्ति सुरद्विपन्ति करिणो हंसन्ति पुंस्कोकिलाः ॥ ४ ॥

कैलासाचलसानुसीमनि मरुत्सीमन्तिनीभिस्तथा
गीतास्ते कलकण्ठकण्ठनिनदश्रव्यैः स्वरैः कीर्तयः ।
अप्युत्तंसविलासवानपि रते रत्नप्रदीपो यथा
चूडाचन्द्रकलाङ्कुरः पुरजिता सद्यः प्रसादीकृतः ॥ ५ ॥

चौडीचूडाभरणहरणः कीर्णकर्णावतंसः
कर्णाटीनां मुषितमुरलीकेरलीहारलीलः ।
कुर्वन्नुर्वीतिलक तिलकोत्सृष्टलाटीललाटं
जीयादेकस्तव नवयशःस्वर्नशाणः कृपाणः ॥ ६ ॥

शान्त्यै दर्पवतां जयाय जगतां संपत्तये याचतां
संमानाय सतां हिताय महतां तापाय पृथ्वीभृताम्‌ ।
सोल्लासेन सकौतुकेन शमितध्यानेन दूरीकृत-
स्वाध्यायेन समाप्तसर्वतपसा त्वं वेधसा निर्मितः ॥ ७ ॥

..............................................................
.............................................................
किं वान्यद्वसुधापुरंदर पुरस्त्वत्पौरुषस्य क्वचि-
न्नार्हत्यस्खलितक्रमोऽपि गगने त्रैविक्रमो विक्रमः ॥ ८ ॥

देवाकर्णय नाकिनां पुरि नृणां लोके पुरे भोगिना-
मासन्केचन सन्ति केचन तथा स्थास्यन्ति ये केचन ।
तन्मध्ये न बभूव नास्ति भविता तादृङ्न नीतौ नतौ
कान्तौ काव्यरतौ मतौ रिपुहतौ कीर्तौ च यस्ते समः ॥ ९ ॥

आनन्द मुचुकुन्दकन्दलि भज स्वस्थासि वासन्तिके
कल्याणं तव मल्लिके कुशलिनी जातासि हे मालति ।
अद्यैतद्यशसि श्रुतिप्रणयितां याते न कुर्वन्ति वः
कर्णोत्तंसरसान्नवीनकलिकाभङ्गं कुरङ्गीदृशः ॥ १० ॥

चैत्रं मा स्मर विस्मर स्मर रतिं किं सायकैर्मारकै-
र्गोधां मुग्ध मुधा बधान जहिहि ज्याबन्धधीरं धनुः ।
देवेऽस्मिन्हि सकृत्स्मृतेऽपि न मतिर्नैव स्मृतिर्न स्थिति-
र्नासक्तिर्न धृतिर्न निर्वृतिरपि क्वाप्यास्ते वामभ्रुवाम्‌ ॥ ११ ॥

जहाति नगरी गलत्कनककङ्कणह कौङ्कणो
वनं विशति विह्वलः स्खलितकुन्तलः कौन्तलः ।
किमन्यदुदितक्रुधि त्वयि मृगेन्द्रभीमारवं
तटं विशति मारवं च्युतरमालवो मालवः ॥ १२ ॥

तां संक्रन्दनमन्दिरे सुरवधूकर्णामृतस्यन्दिनीं
त्वत्सौन्द्रर्यकथां निशम्य गदितामानन्दिभिर्वन्दिभिः ।
चापं मुञ्चति बाणमुज्झति शुचं धत्ते रतिं नेक्षते
चित्रं चैत्रमुपेक्षते परिणमन्मन्दव्यथो मन्मथः ॥ १३ ॥

कीरीहारलतासु केरलवधूधम्मिल्लमालासु या
चोलीदन्तचतुष्किकासु मुरलीलीलास्मितेषु द्युतिः ।
अग्रे त्वद्यशसां सुधाकरकरन्यक्कारपारंगमा-
मप्येतामसितामहो सुकवयो विन्दन्ति निन्दन्ति च ॥ १४ ॥

विषमेषुविगलितरसाश्चपलतरंगालिभिर्जडैः क्षुभिताः ।
तिमिरचितवसतयस्तव रिपुसुदृशो निम्नगा जाताः ॥ १५ ॥

अङ्के केरलसुन्दरीकचभरश्यामं कलङ्कं वह-
न्मिथ्यारोहति पूर्वपर्वतशिखां मुग्धस्तमीबान्धवः ।
यत्तापिच्छतरुच्छदच्छवि तमो लुम्पन्ति लिम्पन्ति च
प्रालेयैरिव पारदैरिव जगत्कोशं भवत्कीर्तयः ॥ १६ ॥

तस्थौ कम्पतरङ्गितस्तनतटं बाष्पाम्बुधौताधरं
शोकाक्रान्तकपोलकीलितकरं द्यां मुञ्जराजे गते ।
संजाते त्वयि हारिहारवलयक्वाणं क्वणत्कङ्कणं
चञ्चत्काञ्चनकाञ्चि सा भगवती नर्नर्ति वाग्देवता ॥ १७ ॥

आलेख्यं चिरमुल्लिलेख विजने सोल्लेखया रेखया
संकल्पानकरोद्विकल्पबहुलाकल्पाननल्पानपि ।
अद्राक्षीदपरप्रजापतिमतं चक्रे च तीव्रव्रतं
त्वन्निर्माणविधौ कियन्न विदधे बद्धावधानो विधिः ॥ १८ ॥

शेष क्लेशमशेषमुत्सृज भज त्वं कूर्म कर्म स्वकं
स्वैरं खेलत सिन्धुसैकतालताकुञ्जेषु दिक्कुञ्जराः ।
अप्येतां सकुलाचलां सनगरां साम्भोनिधिं सापगां
सद्वीपां च भुवं बिभर्ति हि भुजः श्रीहर्षपृथ्वीभुजः ॥ १९ ॥

हेरम्ब त्यज कर्णतालनिनदं चूडापगे गर्ज मा
मा मा काञ्चनकिङ्किणीकलकलं कण्ठे ककुद्मन्कृथाः ।
प्रक्रान्तासु सुरैः पुरः पुररिपोर्युष्मद्यशोगीतिषु
व्यग्रस्येति परिस्फुरन्ति वचनान्यानन्दिनो नन्दिनः ॥ २० ॥

अकङ्कणममेखलागुणमहारमस्ताङ्गदं
व्रजन्ति चतुरैः पदैर्मरुमरातिवामभ्रुवः ।
करोत्यसिलतां करे यदसिगर्वमुर्वीभुजो
भुजस्य परिपन्थिनामयमदक्षिणे दक्षिणे ॥ २१ ॥

राकाकान्तकलाङ्कुरं कुरु चिरं चण्डीश चूडान्तरे
कच्छं गच्छ पुराणकच्छप परं गम्भीरमम्भोनिधेः ।
ध्यानं मुञ्च विरञ्च किं च पयसा सिञ्चासनाम्भोरुहं
येनायं परितः प्रभो प्रसरति प्रौढः प्रतापानलः ॥ २२ ॥

कन्दर्पे नलकूबरे कुमुदिनीकान्तेऽप्यवज्ञायतां
त्वत्सौन्दर्यकथासु तासु मरुतां वृत्त्तासु कौतूहलात्‌ ।
प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी
जाता किं च स्वरस्मरज्वरभरारम्भापि रम्भातनुः ॥ २३ ॥

सोल्लासा अपि सोद्यमा अपि घनोत्कण्ठा अपि क्वापि नो
यान्ति श्यामनिशान्तरेऽपि रमणोपान्तं कुरङ्गीदृशः ।
सद्यस्त्वद्यशसा हि कुञ्जररदच्छेदच्छविच्छादिना
नीतं कान्तपुरंध्रिकुन्तलभरश्यामं विरामं तमः ॥ २४ ॥

न क्वाप्यौर्वज्वनलमहसा यस्य चक्काथ पाथः
शोषं तस्मिन्भजति जलधौ त्वत्प्रतापानलेन ।
शङ्के पङ्के पतति यतते बालशेवालमूले
कूले लोलः किमपि कुरुते कम वैकुण्ठकूर्मः ॥ २५ ॥

उल्लेखं निजमीक्षते भणितिषु प्रौढिं परां शिक्षते
संधत्ते पदसंपदः परिचयं धत्ते ध्वनेरध्वनि ।
वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके
देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्देवता ॥ २६ ॥

शान्तध्वान्तकलङ्क शंकरशिखालंकार तारापते
राकाकान्त सविभ्रमं भ्रम सदा निःशङ्कमङ्के दिवः ।
अद्यैतद्यशसैव सप्तसु कृतालोकेषु लोकेषु हि
स्वर्भानोर्भवितासि नासि नभसि च्छिन्नाकृतेर्गोचरः ॥ २७ ॥

त्वय्युत्पन्ने गुणवति सतां नाभिरामः स राम-
स्त्यागव्यग्रे भवति भवति म्लानवर्णः स कर्णः ।
ब्रूमः किं वा बहु ननु धनुर्वेदविद्याविदस्ते
सङ्ग्रामोर्वीपुरहर पुरः स्यादपार्थः स पार्थः ॥ २८ ॥

कान्तिं कल्पय तान्तिमल्पय सखि स्वल्पापि नैवास्ति ते
मुक्ताशुक्तिषु वारिराशिरमणि श्रीताम्रपर्णि क्षतिः ।
अस्यालोक्य कुरङ्गकेतनकलालावण्यचौरं यशो
वर्तन्ते हि विमुक्तमौक्तिकलतोत्कण्ठाः कुरङ्गीदृशः ॥ २९ ॥

निद्रा न द्रविणाधिपस्य भजते शङ्कां स लङ्कापति-
र्व्योम्नि व्याकुलतामलं कमलिनीकान्तस्य धत्ते वपुः ।
किं वान्यत्तव देव वेल्लति यदि भ्रूवल्लरीपल्लवः
सोऽपि क्षामकपोलकीलितकरः संक्रन्दनः क्रन्दति ॥ ३० ॥

अस्तं याति ययातिधाम विगतं दुष्यन्तवार्ताशतैः
शान्तं शान्तनुकीर्तिभिर्लघु रघोर्लोकेषु जातं यशः ।
किं चान्यत्त्वयि मेदिनीकुमुदिनी राकाशशाङ्कोदये
जाते हन्त तथा कथा अपि विभो रामे विरामं गताः ॥ ३१ ॥

लोलन्मौक्तिकवल्लि वेल्लदलकं वाचालकाञ्चीगुणं
चञ्चत्कान्चनकङ्कणं च गिरिजा जातोत्सवा नृत्यतु ।
त्वत्कीर्तिश्रवणोन्मुखेन विलसत्कल्लोलकोलाहला
यन्मुक्ता मुकुटान्मृगाङ्कशकलोत्तंसेन मन्दाकिनी ॥ ३२ ॥

कर्पूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते
जाते हन्त दिवापि देव ककुभां गर्भे भवत्कीर्तिभिः ।
धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो माधवं
कामः कैरवबान्धवोदयधिया धुन्वन्धनुर्धावति ॥ ३३ ॥

अधिकंसमाप्तसमरः प्रथितो भुवनेषु गोपनरसोत्कः ।
भाति सदानवविजयं कुर्वन्कृष्णस्तवायमसिः ॥ ३४ ॥

राकाकान्तकलाङ्कुराङ्कितजरत्कीशो निशीथक्षणे
गायन्तीषु सुराङ्गनासु भवतः कैलासकुञ्जे यशः ।
निष्पीड्य प्रियमौलिचन्द्रकलिकां कन्दर्पकेलिक्लम-
स्वापं दूरयितुं दृशोर्गिरिजया दत्ताः सुधाबिन्दवः ॥ ३५ ॥

किं तान्तिः किमनिर्वृतिः किमधृतिर्वाग्देवि मुञ्जे गते
किं शून्यासि किमाकुलासि किमिति क्लान्तासि कोऽयं क्रमः ।
एतं विद्धि तमेव सास्य हि मतिः सा विश्रुतिः सा द्युतिः
स त्यागः स नयः स सूक्तिषु रसस्ताः संमताः संपदः ॥ ३६ ॥

कस्मादम्ब विलम्बसे कुरु कृपां केनापि रूपेण मे
जिह्वाग्रे वस संनिधेहि हृदये वाग्देवि तुभ्यं नमः ।
यन्मे साहसिकस्य भूपचरितव्यावर्णने सादरं
सप्रेमप्रसरं सकौतुकरसं सोल्लासमास्ते मनः ॥ ३७ ॥

नाके मुग्धमधुव्रतप्रणयिनीहंकारहारिस्वनै-
श्चारु त्वच्चरितं यदैव चतुरैरुच्चारितं चारणैः ।
कान्तं मौक्तिकदामनद्धचिकुरस्वःसुन्दरीणां पुरः
प्राप्तो देव तदैव सूत्रितशरासारः ससारः स्मरः ॥ ३८ ॥

श्रीखण्डद्रवनिर्झरन्ति हृदये पीयूषकल्लोलिनी-
निःष्यन्दन्ति तनौ रसायनरसस्यन्दन्ति कर्णान्तिके ।
नासीरप्रसरन्ति दिक्परिसरे भूमण्डले मौक्तिक-
प्रस्तारन्ति सुधाकरन्ति गगनोत्सङ्गे भवत्कीर्तयः ॥ ३९ ॥

किं बालेन मृणालतन्तुमलिनच्छायेन खण्डेन्दुना
निःशङ्कोऽद्य वृषाङ्क शेखरपदे राकाशशाङ्कं कुरु ।
देवस्यास्य हि केतकोदरदलच्छायैर्यशोभिर्निशि
व्योम्नः सीम्नि च मण्डले च ककुभां व्यस्तं समस्तं तमः ॥ ४० ॥

नो चैत्रः सहकारकुड्मलकुलैः क्लॄप्तं न तत्कार्मुकं
नामी क्रूरशिलीमुखाः शितमुखा नो कोकिलापञ्चमः ।
नैवोद्दामकरः शशी न मकरः केतुस्थितो नो रति-
स्तत्रापि त्वमहो समस्तरमणीमानव्यधो मन्मथः ॥ ४१ ॥

तन्मूर्तं भुवने मुहूर्तममृतं मन्ये भृशं वासरं
सारं वेद्मि तदेव सैव च गुणैरायामिनी यामिनी ।
श्रीवासो यशसां पदं सुमनसामप्यास्पदं संपदां
यत्रागच्छति गोचरं नयनयोः काश्मीरमीनध्वजः ॥ ४२ ॥

संजाते जलदात्ययेऽपि फणभृत्पर्यङ्कशय्यातलं
मा मा मुञ्च मुकुन्द कानकमलादोःकन्तलालिङ्गितः ।
जागर्ति स्थितये सतां विरतये येनासतामप्ययं
संनद्धो गुणिमौलिमण्डनमणिर्भूमण्डलाखण्डलः ॥ ४३ ॥

श्लाघा राघा लाघवं तव गता दुष्यन्त विश्वं तव
म्लानिं याति यशो गता तव तथा पार्थ प्रथापार्थताम्‌ ।
जातेऽस्मिन्गुणिबान्धवे नरपतिश्यामाधवे क्ष्माधवे
कस्याप्यत्र न कर्ण कर्णपदवीं याता भवत्कीर्तयः ॥ ४४ ॥

ज्ञाता भूरियमम्बुराशिरसना किं नाम नालोचितं
तत्राखण्डलमण्डले मणिपुरे वार्तापि वृत्तैव नः ।
कान्तौ कीर्तिरतौ नये परिचये काव्यक्रमप्रक्रमे
यावत्क्वापि कदापि कोऽपि भवतः स्पर्धापरो नापरः ॥ ४५ ॥

एवं त्वामहमर्थये विरमितस्वाध्यायकौतूहलो
ब्रह्माण्डोदरमम्बुजासन पुनर्यत्नेन विस्तारय ।
देवस्यास्य यतो न माति विततं राकेन्दुरोचिर्लता-
लीलोन्मीलितकैरवोदरदलद्धौतावदातं यशः ॥ ४६ ॥

उर्वी मौर्वीकिणभृति भवद्दोष्णि बिभ्रत्यशेषां
शान्तक्लान्तिः किमपि कुरुते नर्मणा कर्म कूर्मः ।
कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीं
दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ॥ ४७ ॥

किं मौनं ननु मेनके किमु शुचं धत्से शवि क्षामता
केयं वाचि धृताचि साचि किमिदं रम्भे मुखाम्भोरुहम्‌ ।
याते त्वच्चरणामृते श्रुतिपथं गीर्वाणवामभ्रुवा-
मेवं देव खरस्मरज्वरजुषामुक्ताः सखीभिर्गिरः ॥ ४८ ॥

किं राकेन्दुकरच्छटाभिरुदितं किं मौक्तिकैरुद्गतं
किं मल्लीमुकुलैः स्मितं विकसितं किं मालतीकुड्मलैः ।
किं रूढं रमणीविलासहसितैः किं तत्र कीर्णं सुधा-
स्यन्दैर्यत्र जगत्त्रयैकतिलक भ्रान्तं भवत्कीर्तिभिः ॥ ४९ ॥

नोद्दामानि दिशां मुखानि न घनाभोगा नभोमण्डली
नैवोत्तालतलं रसातलमियं पृथ्वी न पृथ्वी पुनः ।
एवं देव कथं नु कुञ्जररदच्छेदावदातास्तव
स्वैरं यान्ति च मान्ति च श्रुतिसुधाधारामुचः कीर्तयः ॥ ५० ॥

यो वैरिष्वनिलो नलो वसुमतीदीपो दिलीपोऽथ यो
यो मानेन पृथुः पृथुर्जगति यो निर्लाघवो राघवः ।
यः कीर्तौ भरतो रतो नृपगुणैर्यः शंतनुः शंतनुः
संजाते त्वयि कस्य न क्षितिपते सर्वेऽपि ते विस्मृताः ॥ ५१ ॥

अपारपुलिनस्थलीभुवि हिमालये मालये
निकामविकटोन्नते दुरधिरोहणे रोहणे ।
मजत्यमरभूधरे गहनकन्दरे मन्दरे
भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्तयः ॥ ५२ ॥

तात्पर्यं कमलासने विरचितं गौरीहितैः पालिता
त्रैलोक्याद्भुतकृत्स्नदानवजये दोर्विक्रमो दर्शितः ।
एकेनैव कृतं तु देव भवता तत्रापि ते न स्मयो
यद्वेधाश्च पुरान्तकश्च कमलाकान्तश्च देवोऽकरोत्‌ ॥ ५३ ॥

औदार्यं सधने नयो गुणिजने लज्जा कुलस्त्रीजने
सत्काव्यं वदने मदो द्विरदने पुंस्कोकिलः कानने ।
रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले
तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनम्‌ ॥ ५४ ॥

जाता तामरसोदरे भगवतो धातुः कृतार्था स्थिति-
र्युक्तं यद्यचिरात्करोति जलधौ संस्थां रमावल्लभः ।
सर्वत्रैव विभो तव प्रसरति प्रौढे प्रतापानले
धत्ते सोऽपि पिनाकिनः सफलतां मौलीन्दुरेखाङ्कुरः ॥ ५५ ॥

कण्ठान्तःक्वणितं दिवाकरकरक्लान्त्या रजोविप्लवै-
स्तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवा-
मेवं देव मरोस्तटेऽपि सुरतक्रीडानुरूपः क्रमः ॥ ५६ ॥

संदिष्टं वसुधासुधाकर शचीकान्तेन मुञ्चोद्यमं
देव त्वं प्रबलप्रतापदहनोद्रेकाय बद्धाञ्जलिः ।
एते मानुभवन्तु नाकतरुणीकर्णावतंसोचिताः
क्लान्तिं नन्दनकन्दलीषु कलितव्यापल्लवाः पल्लवाः ॥ ५७ ॥

शक्तिं मानसतीव्रतापदहने धत्ते गलत्संयमा
कामाशां प्रकटीकरोति न सतां सर्वत्रपापासनात्‌ ।
प्रेम प्रौढमनारतं वितनुते वृद्धेति शुद्धेति च
प्रख्यातापि महीमनोभव भवत्कीर्तिर्विचित्राः स्त्रियः ॥ ५८ ॥

रूपं यन्मदने द्युतिः शशिनि या गम्भीरता याम्बुधौ
यो मेरौ गरिमास्ति या कमलिनीकान्ते प्रतापोन्नतिः ।
यो लक्ष्मीरमणेऽपि विक्रमगुणस्तत्सर्वमेकत्र चे-
द्द्रष्टुं वाञ्छसि दृश्यतामयमये देवस्त्रिलोकीमणिः ॥ ५९ ॥

स ख्यातो जगति त्रिविक्रम इति त्वद्विक्रमा भूरय-
स्तेनैको निहतो बलिर्बलिशतध्वंसी भुहस्तावकः ।
तं वैकुण्ठवमवैति को न जगतीं जेतुं त्वकुण्ठो भवा-
नस्त्येवं महदन्तरं तव तथा देवस्य दैत्यद्रुहः ॥ ६० ॥

चक्रे यत्र मदोर्जितार्जुनभुजस्तम्भाहतिं भार्गवो
यत्रासीद्दशकण्ठकण्ठविपिनच्छेदी रघूणां पतिः ।
पार्थेनापि जितः स यत्र गिरिजाकान्तः किराताकृति-
र्गीतः पल्लविताद्भुतैस्तव न कैस्तत्रापि दोर्विक्रमः ॥ ६१ ॥

राकेन्दोरुदयभ्रमेण मुखतो मुक्त्वा मृणालाङ्कुरं
तान्तिं तत्र वहन्ति हन्त विलसद्भृङ्गा रथाङ्गाङ्गनाः ।
किं चोदञ्चितचञ्चुरञ्चति शरच्चन्द्रप्रभाभ्रान्तितो
हर्षं हन्त चकोरपङ्क्तिरमलं यत्रोदितं ते यशः ॥ ६२ ॥

प्रालेयैः स्नपयन्ति कल्पलतिकाः सेकाननेकानथ
श्रीखण्डाम्बुगलज्जलैरविरलैस्तन्वन्ति संतानके ।
सान्द्रैश्चन्द्रमणिद्रवैरपि विभो मन्दारवल्लीमलं
सिञ्चन्त्यद्य भवत्प्रतापदहनत्रासेन नाकाङ्गनाः ॥ ६३ ॥

यातं रामविरामविक्लवतया दुष्यन्तविश्रान्तिजः
संतापो विगतो विलीनमखिलं दुःखं नलाभावजम्‌ ।
किं चान्यत्त्वयि देव बिभ्रति महासाम्राज्यलक्ष्मीमिमां
शान्तः शांतनवोऽपि कोऽपि विपुलाभोगो वियोगो भुवः ॥ ६४ ॥

किंचित्कुड्मलितैकलोचनपुटं कण्डूं मुहुर्गण्डय-
र्झम्पाकम्पितकुड्मले कुरबके निर्वाप्य वन्यद्विपैः ।
देव स्मेरसरोजसङ्गसुरभि स्वैरंभवद्वैरिणां
पीतं प्राङ्गणवापिकामकरिणीपीतावशेषं पयः ॥ ६५ ॥

कूर्मे धैर्यं शिथिलय धृतिं मुञ्च शेषस्य शेषा-
माशामाशाकरिषु वसुधे देवि मा मा दधीथाः ।
शक्तः सप्ताम्बुनिधिपरिखामेखलामप्ययं त्वां
वोढुं मौर्वीकिणपरिचितो भूपतेरस्य बाहुः ॥ ६६ ॥

कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृता-
मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च ।
भ्रान्ताः केतकगर्भपल्लवरुधः श्रान्ता इव क्ष्मापते
कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥ ६७ ॥

राकेन्दोरुदयः किमेष किमयं गौरीगुरुर्वा गिरिः
क्षीरोदः किमयं किमेष पुरजिल्लीलाविलासोरगः ।
किं मन्थाद्रिरयं सुधाजलनिधेर्धौतस्तरङ्गैरिति
त्वत्कीर्तौ वसुधापुरंदर सदा संदेहिनो देहिनः ॥ ६८ ॥

विलोकनकथापि मे न नलकूबरे न स्मरे
किमन्यदमृतद्युतेरपि न दर्शनं प्रार्थये ।
अयं नयनगोचरं व्रजति चेद्दृशामुत्सवः
समग्ररमणीमनोमधुपमाधवः क्ष्माधवः ॥ ६९ ॥

कुन्दः कन्दलितव्यथं विचकिलः कम्पाकुलं केतकः
सातङ्कं मदनः सदैन्यमलसं मुक्तोऽतिमुक्तद्रुमः ।
मोक्तुं किं तु न पारितस्तव रिपुस्त्रीभिः पुरीनिर्गमे
तत्कालं कृतमाधवीपरिणयः सत्केसरः केसरः ॥ ७० ॥

तद्युक्तं ननु कुम्भसम्भ्व भवत्प्रज्ञारहस्येन य-
द्द्यां च क्ष्मां च तिरोदधन्निरवधिर्विन्ध्योऽपि वन्ध्यः कृतः ।
देव्स्यास्य शरन्निशाकरकरन्यक्कारपारंगमं
मात्येतत्कथमन्यथा परिणतं द्यावापृथिव्योर्यशः ॥ ७१ ॥

धिक्तं मल्लीकुसुमकलितं केलिकर्णावतंसं
ध्वंसं सोऽपि व्रजतु विफलो रत्नताटङ्गटङ्कः ।
हे राजानः प्रकृतिसरलैः शांभवैरेव सूक्तै-
र्युक्तः कर्तुं भवति भवतां केवलं कर्णपूरः ॥ ७२ ॥

उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी
युक्ता यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य ज्रीवार्पणे
पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः ॥ ७३ ॥

किं हारैः किमु कङ्कणैः किमु सुमैः किं कर्णपूरैरलं
केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः ।
पुंसामेकखण्डनं पुनरिदं शंभोर्मते मण्डनं
यन्निष्पीडितपार्वणेन्दुशलकस्यन्दोपमाः सूक्तयः ॥ ७४ ॥

पीयूषद्रवहारिणी सुमनसां भ्रूलास्यविस्तारिणी
त्वत्सेवाभिरतापि काप्यभिनवा वाग्देवते भारती ।
अस्त्येका तु कृताञ्जलेर्जननि मे शंभोरियं प्रार्थना
मद्वाचां क्वचिदस्तु वस्तुनिपुणः श्रोता सचेता जनः ॥ ७५ ॥

॥ इति काश्मीरदेशोद्भवमहाकविश्रीशंभुविरचितो राजेन्द्रकर्णपूरः समाप्तः ॥

"https://sa.wikisource.org/w/index.php?title=राजेन्द्रकर्णपूरः&oldid=91988" इत्यस्माद् पुनः प्राप्तिः