राजनिघण्टुः/प्रभद्रादिवर्गः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← शाल्मल्यादिवर्गः राजनिघण्टुः
प्रभद्रादिवर्गः
[[लेखकः :|]]
करवीरादिवर्गः →

राजनिघण्टु, प्रभद्रादिवर्गः
प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः ।
द्विरग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका ॥ ९.१
काश्मर्याश्मन्तकश्चाथ कर्णिकारद्वयं तथा ।
वृश्चिकाली च कुटजस्तद्बीजं च शिरीषकः ॥ ९.२
करञ्जः षड्विधोऽङ्कोलो नीलः सर्जाश्वकर्णकौ ।
तालः श्रीतालहिन्तालमाडास्तूलस्तमालकः ॥ ९.३
चतुर्विधः कदम्बोऽथ वानीरः कुम्भिवेतसः ।
धवश्च धन्वनो भूर्जस्तिनिशश्च ततोऽर्जुनः ॥ ९.४
हरिद्रुदग्धाशाखोटाः शाकोऽथो शिंशपात्रयम् ।
असनत्रयं च वरुणः पुत्रजीवश्च पिण्डिका ॥ ९.५
कारस्करोऽथ कटभ्यौ क्षवको देवसर्षपः ।
डहुर्विकङ्कतश्चेति स्वराब्धिगणिताः क्रमात् ॥ ९.६
अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः ।
काकफलः कीरेष्टो नेतारिष्टश्च सर्वतोभद्रः ॥ ९.७
धमनो विशीर्णपर्णः पवनेष्टः पीतसारकः शीतः ।
वरतिक्तोऽरिष्टफलो ज्येष्ठामालकश्च हिङ्गुनिर्यासः ॥ ९.८
छर्दनश्चाग्निधमनो ज्ञेया नाम्नां तु विंशतिः ॥ ९.९
प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणकृमिवमिशोफशान्तये ।
बलासभिद्बहुविषपित्तदोषजिद्विशेषतो हृदयविदाहशान्तिकृत् ॥ ९.१०
महानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः ।
काकाण्डो रम्यकोऽक्षीरो महातिक्तो हिमद्रुमः ॥ ९.११
महानिम्बस्तु शिशिरः कषायः कटुतिक्तकः ।
अस्रदाहबलासघ्नो विषमज्वरनाशनः ॥ ९.१२
कैडर्योऽन्यो महानिम्बो रामणो रमणस्तथा ।
गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥ ९.१३
कैडर्यः कटुकस्तिक्तः कषायः शीतलो लघुः ।
संतापशोषकुष्ठास्रकृमिभूतविषापहः ॥ ९.१४
भूनिम्बो नार्यतिक्तः स्यात्कैरातो रामसेनकः ।
कैराततिक्तको हैमः काण्डतिक्तः किरातकः ॥ ९.१५
भूनिम्बो वातलस्तिक्तः कफपित्तज्वरापहः ।
व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ॥ ९.१६
नेपालनिम्बो नैपालस्तृणनिम्बो ज्वरान्तकः ।
नाडीतिक्तोऽर्धतिक्तश्च निद्रारिः संनिपातहा ॥ ९.१७
नेपालनिम्बः शीतोष्णो योगवाही लघुस्तथा ।
तिक्तोऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥ ९.१८
कण्डूलः कृष्णगर्भश्च सोमवल्कप्रचेतसी ।
भद्रावती महाकुम्भी कैडर्यो रामसेनकः ॥ ९.१९
कुमुदा चोग्रगन्धश्च भद्रा रञ्जनकस्तथा ।
कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥ ९.२०
कट्फलः कटुरुष्णश्च कासश्वासज्वरापहः ।
उग्रदाहहरो रुच्यो मुखरोगशमप्रदः ॥ ९.२१
अग्निमन्थोऽग्निमथनः तर्कारी वैजयन्तिका ।
वह्निमन्थोऽरणी केतुः श्रीपर्णी कर्णिका जया ।
नादेयी विजयानन्ता नदी यावत्त्रयोदश ॥ ९.२२
तर्कारी कटुरुष्णा च तिक्तानिलकफापहा ।
शोफश्लेष्माग्निमान्द्यार्शोविड्बन्धाध्माननाशनी ॥ ९.२३
क्षुद्राग्निमन्थस्तपनो विजया गणिकारिका ।
अरणिर्लघुमन्थश्च तेजोवृक्षस्तनुत्वचा ॥ ९.२४
अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु ।
तत्प्रयोगानुसारेण योजयेत्स्वमनीषया ॥ ९.२५
श्योनाकः शुकनासश्च कट्वङ्गोऽथ कटंभरः ।
मयूरजङ्घोऽरलुकः प्रियजीवः कुटन्नटः ॥ ९.२६
श्योनाकः पृथुशिम्बोऽन्यो भल्लको दीर्घवृन्तकः ।
पोतवृक्षश्च टेण्टूको भूतसारो मुनिद्रुमः ॥ ९.२७
निःसारः फल्गुवृन्ताकः पूतिपत्त्रो वसन्तकः ।
मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥ ९.२८
वातारिः पीतकः शोणः कुटनश्च विरेचनः ।
भ्रमरेष्टो बर्हिजङ्घो नेत्रनेत्रमिताभिधः ॥ ९.२९
श्योनाकयुगलं तिक्तं शीतलं च त्रिदोषजित् ।
पित्तश्लेष्मातिसारघ्नं संनिपातज्वरापहम् ॥ ९.३०
टेण्टुफलं कटूष्णं च कफवातहरं लघु ।
दीपनं पाचनं हृद्यं रुचिकृल्लवणाम्लकम् ॥ ९.३१
अजशृङ्गी मेषशृङ्गी वर्तिका सर्पदंष्ट्रिका ।
चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ॥ ९.३२
अजशृङ्गी कटुस्तिक्ता कफार्शःशूलशोफजित् ।
चक्षुष्या श्वासहृद्रोगविषकासातिकुष्ठजित् ॥ ९.३३
अजशृङ्गीफलं तिक्तं कटूष्णं कफवातजित् ।
जठरानलकृथृद्यं रुचिरं लवणाम्लकम् ॥ ९.३४
स्यात्काश्मर्यः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च ।
श्रीपर्णी स्यात्सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥ ९.३५
कुमुदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा ।
मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥ ९.३६
स्थूलत्वचा मधुमती सुफला मेदिनी महाकुमुदा ।
सुदृढत्वचा च कथिता विज्ञेयोनत्रिंशतिर्नाम्नाम् ॥ ९.३७
काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् ।
त्रिदोषविषदाहार्तिज्वरतृष्णास्रदोषजित् ॥ ९.३८
अश्मन्तकश्चेन्दुकश्च कुद्दालश्चाम्लपत्त्रकः ।
श्लक्ष्णत्वक्पीलुपत्त्रश्च स्मृतो यमलपत्त्रकः ॥ ९.३९
अश्मान्तकेन्दुशफरी शिलान्तश्चाम्बुदः स्मृतः ।
पाषाणान्तक इत्युक्तो वह्निचन्द्रमिताह्वयः ॥ ९.४०
अश्मन्तकः स्यान्मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित् ।
विदाहतृष्णाविषमज्वरापहो विषार्तिविच्छर्दिहरश्च भूतजित् ॥ ९.४१
अथ भवति कर्णिकारो राजतरुः प्रग्रहश्च कृतमालः ।
सुफलश्च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥ ९.४२
कर्णिकारो रसे तिक्तः कटूष्णः कफशूलहृत् ।
उदरकृमिमेहघ्नो व्रणगुल्मनिवारणः ॥ ९.४३
आरग्वधोऽन्यो मन्थानो रोचनश्चतुरङ्गुलः ।
आरेवतो दीर्घफलो व्याधिघातो नृपद्रुमः ॥ ९.४४
हेमपुष्पो राजतरुः कण्डूघ्नश्च ज्वरान्तकः ।
अरुजः स्वर्णपुष्पश्च स्वर्णद्रुः कुष्ठसूदनः ॥ ९.४५
कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः ।
कर्णिकारो महादिः स्यात्प्रोक्तश्चैकोनविंशतिः ॥ ९.४६
आरग्वधोऽतिमधुरः शीतः शूलापहारकः ।
ज्वरकण्डूकुष्ठमेहकफविष्टम्भनाशनः ॥ ९.४७
वृश्चिकाली विषाणी च विषघ्नी नेत्ररोगहा ।
उष्ट्रिकाप्यलिपर्णी च दक्षिणावर्त्तकी तथा ॥ ९.४८
कलिकाप्यागमावर्त्ता देवलाङ्गुलिका तथा ।
करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥ ९.४९
स्वर्णपुष्पा युग्मफला तथा क्षीरविषाणिका ।
प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥ ९.५०
वृश्चिकाली कटुस्तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् ।
रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥ ९.५१
कुटजः कौटजः शक्रो वत्सको गिरिमल्लिका ।
कलिङ्गो मल्लिकापुष्पः प्रावृष्यः शक्रपादपः ॥ ९.५२
वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः ।
प्रावृषेण्यो महागन्धः स्यात्पञ्चदशधाभिधः ॥ ९.५३
कुटजः कटुतिक्तोष्णः कषायश्चातिसारजित् ।
तत्रासितोऽस्रपित्तघ्नस्त्वग्दोषार्शोनिकृन्तनः ॥ ९.५४
इन्द्रयवा तु शक्राह्वा शक्रबीजानि वत्सकः ।
तथा वत्सकबीजानि भद्रजा कुटजाफलम् ॥ ९.५५
ज्ञेया भद्रयवा चैव बीजान्ता कुटजाभिधा ।
तथा कलिङ्गबीजानि पर्यायैर्दशधाभिधा ॥ ९.५६
इन्द्रयवा कटुस्तिक्ता शीता कफवातरक्तपित्तहरा ।
दाहातिसारशमनो नानाज्वरदोषशूलमूलघ्नी ॥ ९.५७
शिरीषः शीतपुष्पश्च भण्डिको मृदुपुष्पकः ।
शुकेष्टो बर्हिपुष्पश्च विषहन्ता सुपुष्पकः ॥ ९.५८
उद्दानकः शुकतरुर्ज्ञेयो लोमशपुष्पकः ।
कपीतनः कलिङ्गश्च श्यामलः शङ्खिनीफलः ।
मधुपुष्पस्तथा वृत्तपुष्पः सप्तदशाह्वयः ॥ ९.५९
शिरीषः कटुकः शीतो विषवातहरः परः ।
पामासृक्कुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥ ९.६०
करञ्जो नक्तमालश्च पूतिकश्चिरबिल्वकः ।
पूतिपर्णो वृद्धफलो रोचनश्च प्रकीर्यकः ॥ ९.६१
करञ्जः कटुरुष्णश्च चक्षुष्यो वातनाशनः ।
तस्य स्नेहोऽतिस्निग्धश्च वातघ्नः स्थिरदीप्तिदः ॥ ९.६२
अन्यो घृतकरञ्जः स्यात्प्रकीर्यो घृतपर्णकः ।
स्निग्धपत्रस्तपस्वी च विषारिश्च विरोचनः ॥ ९.६३
घृतकरञ्जः कटूष्णो वातहृद्व्रणनाशनः ।
सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ॥ ९.६४
ज्ञेयो महाकरञ्जोऽन्यः षड्ग्रन्थो हस्तिचारिणी ।
उदकीर्या विषघ्नी च काकघ्नी मदहस्तिनी ।
अङ्गारवल्ली शार्ङ्गेष्टा मधुसत्तावमायिनी ॥ ९.६५
हस्तिरोहणकश्चैव ज्ञेयो हस्तिकरञ्जकः ।
सुमनाः काकभाण्डी च मदमत्तश्च षोडश ॥ ९.६६
महाकरञ्जस्तीक्ष्णोष्णः कटुको विषनाशनः ।
कण्डूविचर्चिकाकुष्ठत्वग्दोषव्रणनाशनः ॥ ९.६७
प्रकीर्यो रजनीपुष्पः सुमनाः पूतिकर्णिकः ।
पूतिकरञ्जः कैडर्यः कलिमालश्च सप्तधा ॥ ९.६८
अन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी ।
गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥ ९.६९
करञ्जः कटुतिक्तोष्णो विषवातार्तिकृन्तनः ।
कण्डूविचर्चिकाकुष्ठस्पर्शत्वग्दोषनाशनः ॥ ९.७०
रीठाकरञ्जकस्त्वन्यो गुच्छलो गुच्छपुष्पकः ।
रीठा गुच्छफलोऽरिष्टो मङ्गल्यः कुम्भबीजकः ।
प्रकीर्यः सोमवल्कश्च फेनिलो रुद्रसंज्ञकः ॥ ९.७१
रीठाकरञ्जस्तिक्तोष्णः कटुः स्निग्धश्च वातजित् ।
कफघ्नः कुष्ठकण्डूतिविषविस्फोटनाशनः ॥ ९.७२
अङ्कोलः कोठरो रेची गूढपत्रो निकोचकः ।
गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ॥ ९.७३
पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः ।
कोलः कोलम्बकर्णश्च गन्धपुष्पश्च रोचनः ।
विज्ञानतैलगर्भश्च स्मृतिसंख्याभिधा स्मृतः ॥ ९.७४
अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् ।
कफानिलहरः सूतशुद्धिकृत्रेचनीयकः ॥ ९.७५
नीलस्तु नीलवृक्षो वातारिः शोफनाशनो नखनामा ।
नखवृक्षश्च नखालुर्नखप्रियो दिग्गजेन्द्रमितसंज्ञः ॥ ९.७६
नीलवृक्षस्तु कटुकः कषायोष्णो लघुस्तथा ।
वातामयप्रशमनो नानाश्वयथुनाशनः ॥ ९.७७
सर्जः सर्जरसः शालः कालकुटो रजोद्भवः ।
वल्लीवृक्षश्चीरपर्णो रालः कार्श्योऽजकर्णकः ॥ ९.७८
वस्तकर्णः कषायी च ललनो गन्धवृक्षकः ।
वंशश्च शालनिर्यासो दिव्यसारः सुरेष्टकः ।
शूरोऽग्निवल्लभश्चैव यक्षधूपः सुसिद्धकः ॥ ९.७९
सर्जस्तु कटुतिक्तोष्णो हिमः स्निग्धोऽतिसारजित् ।
पित्तास्रदोषकुष्ठघ्नः कण्डूविस्फोटवातजित् ॥ ९.८०
जरणद्रुमोऽश्वकर्णस्तार्क्ष्यप्रसवश्च शस्यसंवरणः ।
धन्यश्च दीर्घपर्णः कुशिकतरुः कौशिकश्चापि ॥ ९.८१
अश्वकर्णः कटुस्तिक्तः स्निग्धः पित्तास्रनाशनः ।
ज्वरविस्फोटकण्डूघ्नः शिरोदोषार्तिकृन्तनः ॥ ९.८२
तालस्तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः ।
तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ ९.८३
चिरायुस्तरुराजश्च गजभक्ष्यो दृढच्छदः ।
दीर्घपत्रो गुच्छपत्रोऽप्यासवद्रुश्च षोडश ॥ ९.८४
तालश्च मधुरः शीतपित्तदाहश्रमापहः ।
सरश्च कफपित्तघ्नो मदकृद्दाहशोषनुत् ॥ ९.८५
श्रीतालो मधुतालश्च लक्ष्मीतालो मृदुच्छदः ।
विशालपत्रो लेखार्हो मसीलेख्यदलस्तथा ।
शिरालपत्रकश्चैव याम्योद्भूतो नवाह्वयः ॥ ९.८६
श्रीतालो मधुरोऽत्यन्तमीषच्चैव कषायकः ।
पित्तजित्कफकारी च वातमीषत्प्रकोपयेत् ॥ ९.८७
हिन्तालः स्थूलतालश्च वल्कपत्रो बृहद्दलः ।
गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥ ९.८८
स्थिरपत्रो द्विधालेख्यः शिरापत्रः स्थिराङ्घ्रिपः ।
अम्लसारो बृहत्तालः स्याच्चतुर्दशधाभिधः ॥ ९.८९
हिन्तालो मधुराम्लश्च कफकृत्पित्तदाहनुत् ।
श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ॥ ९.९०
माडो माडद्रुमो दीर्घो ध्वजवृक्षो वितानकः ।
मद्यद्रुमो मोहकारी मदद्रुरृजुरङ्कधा ॥ ९.९१
माडस्तु शिशिरो रुच्यः कषायः पित्तदाहकृत् ।
तृष्णापहो मरुत्कारी श्रमहृत्श्लेष्मकारकः ॥ ९.९२
तूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकम् ।
ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् ।
क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितम् ॥ ९.९३
तूलं तु मधुराम्लं स्यात्वातपित्तहरं सरम् ।
दाहप्रशमनं वृष्यं कषायं कफनाशनम् ॥ ९.९४
तमालो नीलतालः स्यात्कालस्कन्धस्तमालकः ।
नीलध्वजश्च तापिञ्छः कालतालो महाबलः ॥ ९.९५
तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः ।
कफपित्ततृषादाहश्रमभ्रान्तिकरः परः ॥ ९.९६
कदम्बो वृत्तपुष्पश्च सुरभिर्ललनाप्रियः ।
कादम्बर्यः सिन्धुपुष्पो मदाढ्यः कर्णपूरकः ॥ ९.९७
कदम्बस्तिक्तकटुकः कषायो वातनाशनः ।
शीतलः कफपित्तार्तिनाशनः शुक्रवर्धनः ॥ ९.९८
धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः ।
मेघागमप्रियो नीपः प्रावृषेण्यः कदम्बकः ॥ ९.९९
धूलीकदम्बः क्रमुकप्रसूनः परागपुष्पो बलभद्रसंज्ञकः ।
वसन्तपुष्पो मकरन्दवासो भृङ्गप्रियो रेणुकदम्बकोऽष्टौ ॥ ९.१००
भूमीकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः ।
लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः ॥ ९.१०१
त्रिकदम्बाः कटुर्वर्ण्या विषशोफहरा हिमाः ।
कषायाः पित्तलास्तिक्ता वीर्यवृद्धिकराः पराः ॥ ९.१०२
वानीरो वृत्तपुष्पश्च शाखालो जलवेतसः ।
व्याधिघातः परिव्याधो नादेयो जलसम्भवः ॥ ९.१०३
वानीरस्तिक्तशिशिरो रक्षोघ्नो व्रणशोधनः ।
पित्तास्रकफदोषघ्नः संग्राही च कषायकः ॥ ९.१०४
कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः ।
कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ ९.१०५
वेतसो निचुलो ज्ञेयो वञ्जुलो दीर्घपत्रकः ।
कलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ ९.१०६
वेतसः कटुकः स्वादुः शीतो भूतविनाशनः ।
पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ।
रक्तपित्तोद्भवं रोगं कुष्ठदोषं च नाशयेत् ॥ ९.१०७
धवो दृढतरुर्गौरः कषायो मधुरत्वचः ।
शुक्लवृक्षः पाण्डुतरुर्धवलः पाण्डुरो नव ॥ ९.१०८
धवः कषायः कटुकः कफघ्नोऽनिलनाशनः ।
पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ॥ ९.१०९
धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः ।
रुजापहः पिच्छलको रूक्षः स्वादुफलश्च सः ॥ ९.११०
धन्वनः कटुकोष्णश्च कषायः कफनाशनः ।
दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥ ९.१११
भूर्जो वल्कद्रुमो भुर्जः सुचर्मा भूर्जपत्रकः ।
चित्रत्वग्बिन्दुपत्रश्च रक्षापत्रो विचित्रकः ।
भूतघ्नो मृदुपत्रश्च शैलेन्द्रस्थो द्विभूमितः ॥ ९.११२
भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः ।
त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ ९.११३
तिनिशः स्यन्दनश्चक्री शताङ्गः शकटो रथः ।
रथिको भस्मगर्भश्च मेषी जलधरो दश ॥ ९.११४
तिनिशस्तु कषायोष्णः कफरक्तातिसारजित् ।
ग्राहको दाहजननो वातामयहरः परः ॥ ९.११५
अर्जुनः शम्बरः पार्थश्चित्रयोधी धनंजयः ।
वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ ९.११६
सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः ।
कौन्तेय इन्द्रसूनुश्च वीरद्रुः कृष्णसारथिः ।
पृथाजः फाल्गुनो धन्वी ककुभश्चैकविंशतिः ॥ ९.११७
अर्जुनस्तु कषायोष्णः कफघ्नो व्रणनाशनः ।
पित्तश्रमतृषार्तिघ्नो मारुतामयकोपनः ॥ ९.११८
हरिद्रुः पीतदारुः स्यात्पीतकाष्ठश्च पीतकः ।
कदम्बकः सुपुष्पश्च सुराह्वः पीतकद्रुमः ॥ ९.११९
हरिद्रुः शीतलस्तिक्तो मङ्गल्यः पित्तवान्तिजित् ।
अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ ९.१२०
दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा ।
रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ ९.१२१
दग्धा कटुकषायोष्णा कफवातनिकृन्तनी ।
पित्तप्रकोपणी चैव जठरानलदीपनी ॥ ९.१२२
शाखोटः स्याद्भूतवृक्षो गवाक्षी यूकावासो भूर्जपत्रश्च पीतः ।
कौशिक्योऽजक्षीरनाशश्च सूक्तस्तिक्तोष्णोऽयं पित्तकृद्वातहारी ॥ ९.१२३
शाकः क्रकचपत्रः स्यात्खरपत्रोऽतिपत्रकः ।
महीसहः श्रेष्टकाष्ठः स्थिरसारो गृहद्रुमः ॥ ९.१२४
शाकस्तु सारकः प्रोक्तः पित्तदाहश्रमापहः ।
कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलम् ॥ ९.१२५
शिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका ।
तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ ९.१२६
श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् ।
नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ ९.१२७
शिंशपान्या श्वेतपत्रा सिताह्वादिश्च शिंशपा ।
श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ ९.१२८
कपिला शिंशपा चान्या पीता कपिलशिंशपा ।
सारिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा ॥ ९.१२९
कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा ।
वातपित्तज्वरघ्नी च छर्दिहिक्काविनाशिनी ॥ ९.१३०
शिंशपात्रितयं वर्ण्यं हिमशोफविसर्पजित् ।
पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ ९.१३१
असनस्तु महासर्जः सौरिर्बन्धूकपुष्पकः ।
प्रियको बीजवृक्षश्च नीलकः प्रियशालकः ॥ ९.१३२
असनः कटुरुष्णश्च तिक्तो वातार्तिदोषनुत् ।
सारको गलदोषघ्नो रक्तमण्डलनाशनः ॥ ९.१३३
द्वितीयो नीलबीजः स्यान्नीलपत्रः सुनीलकः ।
नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥ ९.१३४
बीजवृक्षौ कटू शीतौ कषायौ कुष्ठनाशनौ ।
सारकौ कण्डुदद्रुघ्नौ श्रेष्ठस्तत्रासितस्तयोः ॥ ९.१३५
वरुणः श्वेतपुष्पश्च तिक्तशाकः कुमारकः ।
श्वेतद्रुमः साधुवृक्षः तमालो मारुतापहः ॥ ९.१३६
वरुणः कटुरुष्णश्च रक्तदोषहरः परः ।
शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ ९.१३७
पुत्रजीवः पवित्रश्च गर्भदः सुतजीवकः ।
कुटजीवोऽपत्यजीवः सिद्धिदोऽपत्यजीवकः ॥ ९.१३८
पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः ।
चक्षुष्यः पित्तशमनो दाहतृष्णानिवारणः ॥ ९.१३९
महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश्च सः ।
करहाटः क्षुरश्चैव शस्त्रकोशतरुः सरः ॥ ९.१४०
पिण्डीतरुः कषायोष्णस्त्रिदोषशमनोऽपि च ।
चर्मरोगापहश्चैव विशेषाद्रक्तदोषजित् ॥ ९.१४१
कारस्करस्तु किम्पाको विषतिन्दुर्विषद्रुमः ।
गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ ९.१४२
कारस्करः कटूष्णश्च तिक्तः कुष्ठविनाशनः ।
वातामयास्रकण्डूतिकफामार्शोव्रणापहः ॥ ९.१४३
कटभी नाभिका शौण्डी पाटली किणिही तथा ।
मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥ ९.१४४
शितादिकटभी श्वेता किणिही गिरिकर्णिका ।
शिरीषपत्रा कालिन्दी शतपादी विषघ्निका ।
महाश्वेता महाशौण्डी महादिकटभी तथा ॥ ९.१४५
कटभी भवेत्कटूष्णा गुल्मविषाध्मानशूलदोषघ्नी ।
वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ ९.१४६
क्षवकः क्षुरकस्तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः ।
राजोद्वेजनसंज्ञश्च भूतद्रावी ग्रहाह्वयः ॥ ९.१४७
भूताङ्कुशस्तीव्रगन्धः कषायोष्णः कटुस्तथा ।
भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥ ९.१४८
देवसर्षपकश्चाक्षो बदरो रक्तमूलकः ।
सुरसर्षपकश्चैन्द्रस्तथा सूक्ष्मदलः स्मृतः ।
सर्षपो निर्जरादिः स्यात्कुरराङ्घ्रिर्नवाभिधः ॥ ९.१४९
देवसर्षपनामा तु कटूष्णः कफनाशनः ।
जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥ ९.१५०
लकुचो लिकुचः शालः कषायी दृढवल्कलः ।
डहुः कार्श्यश्च शूरश्च स्थूलस्कन्धो नवाह्वयः ॥ ९.१५१
लकुचः स्वरसे तिक्तः कषायोष्णो लघुस्तथा ।
कफदोषहरो दाही मलसंग्रहदायकः ॥ ९.१५२
विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः ।
कण्ठपादो बहुफलो गोपघोण्टा स्रुवद्रुमः ॥ ९.१५३
मृदुफलो दन्तकाष्ठो यज्ञीयो ब्रह्मपादपः ।
पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ ९.१५४
विकङ्कतोऽम्लमधुरः पाकेऽतिमधुरो लघुः ।
दीपनः कामलास्रघ्नः पाचनः पित्तनाशनः ॥ ९.१५५
इत्थं वन्यमहीरुहाह्वयगुणाभिख्यानमुख्यानया भङ्ग्या भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरम् ।
वैद्यो वै द्यतु वर्गमेनमखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणम् ॥ ९.१५६
ये वृश्चन्ति नृणां गदान् गुरुतरानाक्रम्य वीर्यासिना ये स्थित्वापि वने गुणेन सरुजां स्वेनावनं तन्वते ।
तेषामेष महानसीममहिमा वन्यात्मनां वासभूर्वृक्षाणां भणितो भिषग्भिरसमो यो वृक्षवर्गाख्यया ॥ ९.१५७
यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसोऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभग्नश्रिया ।
तस्यायं नवमः कृतौ नरहरेर्वर्गः प्रभद्रादिको भद्रात्मन्यभिधानशेखरशिखाचूडामणौ संस्थितः ॥ ९.१५८