राजनिघण्टुः/पिप्पल्यादिवर्गः

विकिस्रोतः तः
← पर्पटादिवर्गः राजनिघण्टुः
पिप्पल्यादिवर्गः
[[लेखकः :|]]
शताह्वादिवर्गः →

राजनिघण्टु, पिप्पल्यादिवर्ग
चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा ।
आर्द्रकं मरिचद्वन्द्वं धान्यकं च यवानिका ॥ ५.१
चव्यं च चित्रकद्वन्द्वं विडङ्गं च वचाद्वयम् ।
कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गुपत्रिका ॥ ५.२
हिङ्गुद्वयं चाग्निजारौ रास्ने एलाद्वयं शिवम् ।
सौवर्चलं च काचाह्वं विडं च गडनामकम् ॥ ५.३
सामुद्रं द्रौणिकं चान्यदौषरं रोमकं तथा ।
नवधा लवणं प्रोक्तमजमोदा च रेणुका ॥ ५.४
बोलं कर्चूरकः पाठा वृक्षाम्लश्चाम्लवेतसम् ।
कटुकातिविषा मुस्ता द्वयं यष्टीमधुद्वयम् ॥ ५.५
भार्गी पुष्करमूलं च शृङ्ग्यथो दन्तिकाद्वयम् ।
जैपालश्च त्रिवृद्द्वेधा त्वक्पत्रं नागकेशरम् ॥ ५.६
तवक्षीरं च तालीसपत्राख्यं वंशरोचना ।
मञ्जिष्ठा च चतुर्धा स्याद्धरिद्रे च द्विधा मते ॥ ५.७
लाक्षा चालक्तको लोध्रो धातक्यब्धिफलं तथा ।
निर्विषाथ विषद्वन्द्वं द्विधा चाम्लहरिद्रका ॥ ५.८
अब्धिफेनमफेनं च टङ्कणौ साकुरुण्डकम् ।
हिमावली हस्तिमदः स्वर्जिको लोणकं तथा ॥ ५.९
वज्रको यवजश्चाथ सर्वक्षारोऽथ मायिका ।
औषधान्यभिधीयन्ते षडङ्गमितसंख्यया ॥ ५.१०
पिप्पली कृकरा शौण्डी चपला मागधी कणा ।
कटुबीजा च कोरङ्गी वैदेही तिक्ततण्डुला ॥ ५.११
श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा ।
उषणा चोपकुल्या च स्मृत्याह्वा तीक्ष्णतण्डुला ॥ ५.१२
पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका ।
दीपनी मारुतश्वासकासश्लेष्मक्षयापहा ॥ ५.१३
गजोषणा चव्यफला चव्यजा गजपिप्पली ।
श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश्च तैजसी ।
वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ॥ ५.१४
गजोषणा कटूष्णा च रूक्षा मलविशोषणी ।
बलासवातहन्त्री च स्तन्यवर्णविवर्धिनी ॥ ५.१५
सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा ।
पार्वती शैलजा ताम्रा लम्बबीजा तथोत्कटा ॥ ५.१६
अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला ।
जीवाली जीवनेत्रा च कुरवी षोडशाह्वया ॥ ५.१७
सैंहली कटुरुष्णा च जन्तुघ्नी दीपनी परा ।
कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥ ५.१८
वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानमेतत् ।
क्षुद्रादिपिप्पल्यभिधानयोग्यं वनाभिधापूर्वकणाभिधानम् ॥ ५.१९
वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी ।
आमा भवेद्गुणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥ ५.२०
ग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः ।
कोलमूलं कटुग्रन्थि कटुमूलं कटूषणम् ॥ ५.२१
सर्वग्रन्थि च पत्राढ्यं विरूपं शोणसम्भवम् ।
सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युश्चतुर्दश ॥ ५.२२
कटूष्णं पिप्पलीमूलं श्लेष्मक्रिमिविनाशनम् ।
दीपनं वातरोगघ्नं रोचनं पित्तकोपनम् ॥ ५.२३
शुण्ठी महौषधं विश्वं नागरं विश्वभेषजम् ।
विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणम् ॥ ५.२४
सौपर्णं शृङ्गवेरं च कफारिश्चार्द्रकं स्मृतम् ।
शोषणं नागराह्वं च विज्ञेयं षोडशाह्वयम् ॥ ५.२५
शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा ।
शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥ ५.२६
आर्द्रकं गुल्ममूलं च मूलजं कन्दलं वरम् ।
शृङ्गवेरं महीजं च सैकतेष्टमनूपजम् ॥ ५.२७
अपाकशाकं चार्द्राख्यं राहुच्छत्रं सुशाककम् ।
शार्ङ्गं स्यादार्द्रशाकं च सच्छाकमृतुभूह्वयम् ॥ ५.२८
कटूष्णमार्द्रकं हृद्यं विपाके शीतलं लघु ।
दीपनं रुचिदं शोफकफकण्ठामयापहम् ॥ ५.२९
मरिचं पलितं श्यामं कोलं वल्लीजमूषणम् ।
यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ॥ ५.३०
कटुकं च शिरोवृत्तं वीरं कफविरोधि च ।
रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितम् ॥ ५.३१
मरिचं कटु तिक्तोष्णं लघु श्लेष्मविनाशनम् ।
समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥ ५.३२
सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलम् ।
धवलं चन्द्रकमेतन्मुनिनाम गुणाधिकं च वश्यकरम् ॥ ५.३३
कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनम् ।
अवृष्यं दृष्टिरोगघ्नं युक्त्या चैव रसायनम् ॥ ५.३४
धान्यकं धान्यजं धान्यं धानेयं धनिकं तथा ।
कुस्तुम्बुरुश्चावलिका छत्रधान्यं वितुन्नकम् ॥ ५.३५
सुगन्धिः शाकयोग्यश्च सूक्ष्मपत्रो जनप्रियः ।
धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयम् ॥ ५.३६
धान्यकं मधुरं शीतं कषायं पित्तनाशनम् ।
ज्वरकासतृषाच्छर्दिकफहारि च दीपनम् ॥ ५.३७
यवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः ।
दीपनी चोग्रगन्धा च वातारिर्भूकदम्बकः ॥ ५.३८
यवजो दीपनीयश्च शूलहन्त्री यवानिका ।
उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥ ५.३९
यवानी कटुतिक्तोष्णा वातार्शःश्लेष्मनाशनी ।
शूलाध्मानक्रिमिच्छर्दिमर्दनी दीपनी परा ॥ ५.४०
चव्यकं चविका चव्यं वशिरो गन्धनाकुली ।
वल्ली च कोलवल्ली च कोलं कुटलमस्तकम् ।
तीक्ष्णा करिणिका वल्ली कृकरो नेत्रभूह्वया ॥ ५.४१
चव्यं स्यादुष्णकटुकं लघु रोचनदीपनम् ।
जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनम् ॥ ५.४२
चित्रकोऽग्निश्च शार्दूलश्चित्रपाली कटुः शिखी ।
कृशानुर्दहनो व्यालो ज्योतिष्कः पालकस्तथा ॥ ५.४३
अनलो दारुणो वह्निः पावकः शबलस्तथा ।
पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश्च विंशतिः ॥ ५.४४
चित्रकोऽग्निसमः पाके कटुः शोफकफापहः ।
वातोदरार्शोग्रहणीक्रिमिकण्डूतिनाशनः ॥ ५.४५
कालो व्यालः कालमूलोऽतिदीप्यो मार्जारोऽग्निर्दाहकः पावकश्च ।
चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्याद्रुद्राह्वश्चित्रकोऽन्यो गुणाढ्यः ॥ ५.४६
स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः ।
रसे नियामको लोहे वेधकश्च रसायनः ॥ ५.४७
विडङ्गा क्रिमिहा चैत्रा तण्डुला तण्डुलीयका ।
वातारिस्तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥ ५.४८
कैरली गह्वरामोघा कपाली चित्रतण्डुला ।
वरा सुचित्रबीजा च जन्तुहन्त्री च षोडश ॥ ५.४९
विडङ्गा कटुरुष्णा च लघुर्वातकफार्तिनुत् ।
अग्निमान्द्यारुचिभ्रान्तिक्रिमिदोषविनाशनी ॥ ५.५०
वचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा ।
रक्षोघ्नी विजया भद्रा मङ्गल्येति दशाह्वया ॥ ५.५१
वचा तीक्ष्णा कटूष्णा च कफामग्रन्थिशोफनुत् ।
वातज्वरातिसारघ्नी वान्तिकृन्मादनुत् ॥ ५.५२
मेध्या श्वेतवचा त्वन्या षड्ग्रन्था दीर्घपत्रिका ।
तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥ ५.५३
श्वेतवचातिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत् ।
वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥ ५.५४
कुलञ्जो गन्धमूलश्च तीक्ष्णमूलः कुलञ्जनः ।
कुलञ्जः कटुतिक्तोष्णो दीपनो मुखदोषनुत् ॥ ५.५५
जीरको जरणो जीरो जीर्णो दीप्यश्च दीपकः ।
अजाजिको वह्निशङ्खो मागधश्च नवाह्वयः ॥ ५.५६
जीरकः कटुरुष्णश्च वातहृद्दीपनः परः ।
गुल्माध्मानातिसारघ्नो ग्रहणीक्रिमिहृत्परः ॥ ५.५७
गौरादिजीरकस्त्वन्योऽजाजी स्यात्श्वेतजीरकः ।
कणाह्वा कणजीर्णा च कणा दीप्यः सितादिकः ।
ज्ञेया दीर्घकणा चैव सिताजाजी दशाह्वया ॥ ५.५८
गौराजाजी हिमा रुच्या कटुर्मधुरदीपनी ।
क्रिमिघ्नी विषहन्त्री च चक्षुष्याध्माननाशिनी ॥ ५.५९
कृष्णा तु जरणा काली बहुगन्धा च भेदिनी ।
कटुभेदिनिका रुच्या नीला नीलकणा स्मृता ॥ ५.६०
काश्मीरजीरका वर्षा काली स्याद्दन्तशोधनी ।
कालमेषी सुगन्धा च विज्ञेया बाणभूह्वया ॥ ५.६१
जरणा कटुरुष्णा च कफशोफनिकृन्तनी ।
रुच्या जीर्णज्वरघ्नी च चक्षुष्या ग्रहणीहरा ॥ ५.६२
दीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः ।
मनोज्ञा जरणी जीर्णा तरुणी स्थूलजीरकः ।
सुषवी कारवी ज्ञेया पृथ्वीका च चतुर्दश ॥ ५.६३
पृथ्वीका कटुतिक्तोष्णा वातगुल्मामदोषनुत् ।
श्लेष्माध्मानहरा जीर्णा जन्तुघ्नी दीपनी परा ॥ ५.६४
बृहत्पाली क्षुद्रपत्रोऽरण्यजीरः कणा तथा ।
वनजीरः कटुः शीतो व्रणहा पञ्चनामकः ॥ ५.६५
जीरकाः कटुकाः पाके क्रिमिघ्ना वह्निदीपनाः ।
जीर्णज्वरहरा रुच्या व्रणहाध्माननाशनाः ॥ ५.६६
मेथिका मेथिनी मेथी दीपनी बहुपत्रिका ।
वेधनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥ ५.६७
वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी ।
कुञ्चिका बहुपर्णी च पीतबीजा मुनीन्दुधा ॥ ५.६८
मेथिका कटुरुष्णा च रक्तपित्तप्रकोपणी ।
अरोचकहरा दीप्तिकरा वातघ्नदीपनी ॥ ५.६९
पृथ्वीका हिङ्गुपत्री च कवरी दीर्घिका पृथुः ।
तन्वी च दारुपत्री च बिल्वी बाष्पी नवाह्वया ॥ ५.७०
हिङ्गुपत्री कटुस्तीक्ष्णा तिक्तोष्णा कफवातनुत् ।
आमक्रिमिहरा रुच्या पथ्या दीपनपाचनी ॥ ५.७१
हिङ्गूग्रगन्धं भूतारिर्वाह्लीकं जन्तुनाशनम् ।
शूलगुल्मादिरक्षोघ्नमुग्रवीर्यं च रामठम् ॥ ५.७२
अगूढगन्धं जरणं भेदनं सूपधूपनम् ।
दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधम् ॥ ५.७३
हृद्यं हिङ्गु कटूष्णं च क्रिमिवातकफापहम् ।
विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनम् ॥ ५.७४
नाडीहिङ्गुः पलाशाख्या जन्तुका रामठी च सा ।
वंशपत्री च पिण्डाह्वा सुवीर्या हिङ्गुनाडिका ॥ ५.७५
नाडीहिङ्गुः कटूष्णा च कफवातार्तिशान्तिकृत् ।
विष्ठाविबन्धदोषघ्नमानाहामयहारि च ॥ ५.७६
अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भोऽग्निजः स्मृतः ।
वडवाग्निमलो ज्ञेयो जरायुश्चाग्निसम्भवः ॥ ५.७७
स्यादग्निजारः कटुरुष्णवीर्यस्तुण्डामयो वातकफापहश्च ।
पित्तप्रदः सोऽधिकसंनिपातशूलार्तिशीतामयनाशकश्च ॥ ५.७८
जाराभो दहनस्पर्शी पिच्छिलः सागरे भवः ।
जरायुस्तच्चतुर्वर्णः तेषु श्रेष्ठः सलोहितः ॥ ५.७९
रास्ना युक्तरसा रम्या श्रेयसी रसना रसा ।
सुगन्धिमूला सुरसा रसाढ्यातिरसा दश ॥ ५.८०
रास्ना तु त्रिविधा प्रोक्ता पत्रं तृणं तथा ।
ज्ञेये दले श्रेष्ठे तृणरास्ना च मध्यमा ॥ ५.८१
रास्ना गुरुश्च तिक्तोष्णा विषवातास्रकासजित् ।
शोफकम्पोदरश्लेष्मशमनी पाचनी च सा ॥ ५.८२
स्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भद्रैला ।
सुरभित्वक्च महैला पृथ्वी कन्या कुमारिका चैन्द्री ॥ ५.८३
कायस्था गोपुटा कान्ता घृताची गर्भसम्भवा ।
इन्द्राणी दिव्यगन्धा च विज्ञेयाष्टादशाह्वया ॥ ५.८४
एला बहुलगन्धैन्द्री द्राविडी निष्कुटिस्त्रुटिः ।
कपोतवर्णी गौराङ्गी बाला बलवती हिमा ॥ ५.८५
चन्द्रिका चोपकुञ्ची च सूक्ष्मा सागरगामिनी ।
गर्भारिर्गन्धफलिका कायस्थाष्टादशाह्वया ॥ ५.८६
एलाद्वयं शीतलतिक्तमुक्तं सुगन्धि पित्तार्तिकफापहारि ।
करोति हृद्रोगमलार्तिवस्तिशूलघ्नमत्र स्थविरा गुणाढ्या ॥ ५.८७
सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् ।
शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधम् ॥ ५.८८
सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनम् ।
त्रिदोषशमनं पूतं व्रणदोषविबन्धजित् ॥ ५.८९
सैन्धवं द्विविधं ज्ञेयं श्वेतं रक्तमिति क्रमात् ।
रसवीर्यविपाकेषु गुणाढ्यं नूतनं शिवम् ॥ ५.९०
सौवर्चलं तु रुचकं तिलकं हृद्यगन्धकम् ।
अक्षं च कृष्णलवणं रुच्यं कौद्रविकं तथा ॥ ५.९१
सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् ।
ऊर्ध्ववातामशूलार्तिविबन्धारोचकान् जयेत् ॥ ५.९२
नीलं काचोद्भवं काचं तिलकं काचसम्भवम् ।
काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतम् ॥ ५.९३
काचोत्थं हृद्यगन्धं च तत्काललवणं तथा ।
कुरुविन्दं काचमलं कृत्रिमं च चतुर्दश ॥ ५.९४
काचादिलवणं रुच्यमीषत्क्षारं च पित्तलम् ।
दाहकं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ ५.९५
विडं द्राविडकं खण्डं कृतकं क्षारमासुरम् ।
सुपाक्यं खण्डलवणं धूर्तं कृत्रिमकं दश ॥ ५.९६
विडमुष्णं च लवणं दीपनं वातनाशनम् ।
रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ ५.९७
गाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजम् ।
गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवम् ॥ ५.९८
गडोत्थं तूष्णलवणमीषदम्लं मलापहम् ।
दीपनं कफवातघ्नमर्शोघ्नं कोष्ठशोधनम् ॥ ५.९९
सामुद्रकं तु सामुद्रं समुद्रलवणं शिवम् ।
वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजम् ॥ ५.१००
सामुद्रं लघु हृद्यं च पलितास्रदपित्तदम् ।
विदाहि कफवातघ्नं दीपनं रुचिकृत्परम् ॥ ५.१०१
द्रौणेयं वार्धेयं द्रोणीजं वारिजं च वार्धिभवम् ।
द्रोणीलवणं द्रोणं त्रिकटुलवणं च वसुसंज्ञम् ॥ ५.१०२
द्रौणेयं लवणं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं चाल्पपित्तलम् ॥ ५.१०३
औषरकं सार्वगुणं सार्वरसं सर्वलवणमूषरजम् ।
साम्भारं बहुलवणं मेलकलवणं च मिश्रकं नवधा ॥ ५.१०४
औषरं तु कटु क्षारं तिक्तं वातकफापहम् ।
विदाहि पित्तकृद्ग्राहि मूत्रसंशोषकारि च ॥ ५.१०५
रोमकमौद्भिदमुक्तं वसुकं वसु पांशुलवणमूषरजम् ।
पांशवमौषरमैरिणमौर्वं सार्वसहं रुद्रैः ॥ ५.१०६
रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनम् ।
दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥ ५.१०७
अजमोदा खराह्वा च बस्तमोदा च मर्कटी ।
मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥ ५.१०८
मायूरी शिखिमोदा च मोदाढ्या वह्निदीपिका ।
ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका ।
मोदिनी फलमुख्या च वसुचन्द्राभिधा मता ॥ ५.१०९
अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रुचिकृत् ।
शूलाध्मानारोचकजठरामयनाशनी चैव ॥ ५.११०
रेणुका कपिला कान्ता नन्दिनी महिला द्विजा ।
राजपुत्री हिमा रेणुः पाण्डुपत्री हरेणुका ॥ ५.१११
सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी ।
कपिलोमा हैमवती पाण्डुपत्री च विंशतिः ॥ ५.११२
रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी ।
तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥ ५.११३
बोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषम् ।
निर्लोहं बर्बरं पिण्डं सौरभं रक्तगन्धकम् ॥ ५.११४
रसगन्धं महागन्धं विश्वं च शुभगन्धकम् ।
विश्वगन्धं गन्धरसं व्रणारिर्वसुभूह्वयम् ॥ ५.११५
बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् ।
कफपित्तामयान् हन्ति प्रदरादिरुजापहम् ॥ ५.११६
कर्चूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः ।
वेधमुख्यो गन्धसारो जटिलश्चाष्टनामकः ॥ ५.११७
कर्चूरः कटुतिक्तोष्णः कफकासविनाशनः ।
मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥ ५.११८
पाठाम्बष्ठाम्बष्ठिका स्यात्प्राचीना पापचेलिका ।
पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥ ५.११९
एकाष्ठीला कुचैली च दीपनी वरतिक्तका ।
तिक्तपुष्पा बृहत्तिक्ता दीपनी त्रिशिरा वृकी ।
मालवी च वरा देवी वृत्तपर्णी द्विदृङ्मिता ॥ ५.१२०
पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा ।
भग्नसन्धानकृत्पित्तदाहातीसारशूलहृत् ॥ ५.१२१
वृक्षाम्लमम्लशाकं स्याच्चुक्राम्लं तित्तिडीफलम् ।
शाकाम्लमम्लपूरं च पूराम्लं रक्तपूरकम् ॥ ५.१२२
चूडाम्लबीजाम्लफलाम्लकं स्यादम्लादिवृक्षाम्लफलं रसाम्लम् ।
श्रेष्ठाम्लमत्यम्लमथाम्लबीजं फलं च चुक्रादि नगेन्दुसंख्यम् ॥ ५.१२३
वृक्षाम्लमम्लं कटुकं कषायं सोष्णं कफार्शोघ्नमुदीरयन्ति ।
तृष्णासमीरोदरहृद्गदादिगुल्मातीसारव्रणदोषनाशि ॥ ५.१२४
अम्लोऽम्लवेतसो वेधी रसाम्लो वीरवेतसः ।
वेतसाम्लश्चाम्लसारः शतवेधी च वेधकः ॥ ५.१२५
भीमश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः ।
अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥ ५.१२६
सहस्रवेधी वीराम्लो गुल्मकेतुर्धराक्षिधा ।
शङ्खमांसादिद्रावी स्याद्द्विधा चैवाम्लवेतसः ॥ ५.१२७
अम्लवेतसमत्यम्लं कषायोष्णं च वातजित् ।
कफार्शःश्रमगुल्मघ्नमरोचकहरं परम् ॥ ५.१२८
कटुका जननी तिक्ता रोहिणी तिक्तरोहिणी ।
चक्राङ्गी मत्स्यपित्ता च बकुला शुकुलादनी ॥ ५.१२९
सादनी शतपर्वा स्यात्चक्राङ्गी मत्स्यभेदिनी ।
अशोकरोहिणी कृष्णा कृष्णमेदा महौषधी ॥ ५.१३०
कट्व्यञ्जनी काण्डरुहा कटुश्च कटुरोहिणी ।
केदारकटुकारिष्टाप्यामघ्नी पञ्चविंशतिः ॥ ५.१३१
कटुकातिकटुस्तिक्ता शीतपित्तास्रदोषजित् ।
बलासारोचकश्वासज्वरहृद्रेचनी च सा ॥ ५.१३२
अतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा ।
विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥ ५.१३३
वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता ।
अरुणोपविषा चैव ज्ञेया षोडशसम्मिता ॥ ५.१३४
कटूष्णातिविषा तिक्ता कफपित्तज्वरापहा ।
आमातीसारकासघ्नी विषच्छर्दिविनाशनी ॥ ५.१३५
त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा ।
रसवीर्यविपाकेषु निर्विशेषगुणा च सा ॥ ५.१३६
दोलायां गोमयक्वाथे पचेदतिविषां ततः ।
सूर्यतापे भवेच्छुष्का योजयेत्तां भिषग्वरः ॥ ५.१३७
मुस्ताभद्रावारिदाम्भोदमेघा जीमूतोऽब्दो नीरदोऽब्भ्रं घनश्च ।
गाङ्गेयं स्याद्भद्रमुस्ता वराही गुञ्जा ग्रन्थिर्भद्रकासी कसेरुः ॥ ५.१३८
क्रोडेष्टा कुरुविन्दाख्या सुगन्धिर्ग्रन्थिला हिमा ।
वन्या राजकसेरुश्च कच्छोत्था पञ्चविंशतिः ॥ ५.१३९
भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी ।
पित्तज्वरकफघ्नी च ज्ञेया सङ्ग्रहणी च सा ॥ ५.१४०
अपरा नागरमुस्ता नागरोत्था नागरादिघनसंज्ञा ।
चक्राङ्का नादेयी चूडाला पिण्डमुस्ता च ॥ ५.१४१
शिशिरा च वृषध्वाङ्क्षी कच्छरुहा चारुकेसरोच्चटा ।
सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥ ५.१४२
तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् ।
पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥ ५.१४३
यष्टीमधुर्मधुयष्टी मधुवल्ली मधुस्रवा ।
मधुकं मधुका यष्टी यष्ट्याह्वं वसुसंमितम् ॥ ५.१४४
मधुरं यष्टिमधुकं किंचित्तिक्तं च शीतलम् ।
चक्षुष्यं पित्तहृद्रुच्यं शोषतृष्णाव्रणापहम् ॥ ५.१४५
अन्यत्क्लीतनमुक्तं क्लीतनकं क्लीतनीयकं मधुकम् ।
मधुवल्ली च मधूली मधुरलता मधुरसातिरसा ॥ ५.१४६
शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता ।
सामान्येन मतेयमेकादशसंज्ञा बहुज्ञधिया ॥ ५.१४७
क्लीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् ।
शीतलं गुरु चक्षुष्यमस्रपित्तापहं परम् ॥ ५.१४८
भार्ङ्गी गर्दभिशाकश्च फञ्जी चाङ्गारवल्लरी ।
वर्षा ब्राह्मणयष्टिश्च बर्बरो भृङ्गजा च सा ॥ ५.१४९
पद्मा यष्टिश्च भारङ्गी वातारिः कासजित्परम् ।
सुरूपा भ्रमरेष्टा च शक्रमाता च षोडश ॥ ५.१५०
भार्ङ्गी तु कटुतिक्तोष्णा कासश्वासविनाशनी ।
शोफव्रणक्रिमिघ्नी च दाहज्वरनिवारिणी ॥ ५.१५१
मूलं पुष्करमूलं च पुष्करं पद्मपत्रकम् ।
पद्मं पुष्करजं बीजं पौष्करं पुष्कराह्वयम् ॥ ५.१५२
काश्मीरं ब्रह्मतीर्थं च श्वासारिर्मूलपुष्करम् ।
ज्ञेयं पञ्चदशाह्वं च पुष्कराद्ये जटाशिफे ॥ ५.१५३
पुष्करं कटुतिक्तोष्णं कफवातज्वरापहम् ।
श्वासारोचककासघ्नं शोफघ्नं पाण्डुनाशनम् ॥ ५.१५४
शृङ्गी कुलीरशृङ्गी स्यात्घोषा च वनमूर्धजा ।
चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥ ५.१५५
कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका ।
चक्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥ ५.१५६
तिक्ता कर्कटशृङ्गी तु गुरुरुष्णानिलापहा ।
हिक्कातीसारकासघ्नी श्वासपित्तास्रनाशनी ॥ ५.१५७
दन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा ।
भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद्वक्रदन्ता विशल्या ॥ ५.१५८
मधुपुष्पैरण्डफला भद्राण्येरण्डपत्रिका ।
उदुम्बरदला चैव तरुणी चाणुरेवती ।
विशोधनी च कुम्भी च ज्ञेया चाग्निकराह्वया ॥ ५.१५९
दन्ती कटूष्णा शूलामत्वग्दोषशमनी च सा ।
अर्शोव्रणाश्मरीशल्यशोधनी दीपनी परा ॥ ५.१६०
अन्या दन्ती केशरुहा विषभद्रा जयावहा ।
आवर्तकी वराङ्गी च जयाह्वा भद्रदन्तिका ॥ ५.१६१
अन्या दन्ती कटूष्णा च रेचनी क्रिमिहा परा ।
शूलकुष्ठामदोषघ्नी त्वगामयविनाशनी ॥ ५.१६२
रेचको जयपालश्च सारकस्तित्तिरीफलम् ।
दन्तीबीजं मलद्रावि ज्ञेयं स्याद्बीजरेचनी ॥ ५.१६३
कुम्भीबीजं कुम्भिनीबीजसंज्ञं घण्टाबीजं दन्तिनीबीजमुक्तम् ।
बीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्वाख्यं तन्निकुम्भ्याश्च बीजम् ॥ ५.१६४
जैपालः कटुरुष्णश्च क्रिमिहारी विरेचनः ।
दीपनः कफवातघ्नो जठरामयशोधनः ॥ ५.१६५
उक्ता त्रिवृन्मालविका मसूरा श्यामार्धचन्द्रा विदला सुषेणी ।
कालिन्दिका सैव तु कालमेषी काली त्रिवेलावनिचन्द्रसंज्ञा ॥ ५.१६६
त्रिवृत्तिक्ता कटूष्णा च क्रिमिश्लेष्मोदरार्तिजित् ।
कुष्ठकण्डूव्रणान् हन्ति प्रशस्ता च विरेचने ॥ ५.१६७
रक्तान्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका ।
कुलवर्णा मसूरी चाप्यमृता काकनासिका ॥ ५.१६८
रक्ता त्रिवृद्रसे तिक्ता कटूष्णा रेचनी च सा ।
ग्रहणीमलविष्टम्भहारिणी हितकारिणी ॥ ५.१६९
त्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनम् ।
शकलं सैंहलं वन्यं सुरसं रामवल्लभम् ॥ ५.१७०
उत्कटं बहुगन्धं च विज्जुलं च वनप्रियम् ।
लाटपर्णं गन्धवल्कं वरं शीतं ग्रहक्षिती ॥ ५.१७१
त्वचं तु कटुकं शीतं कफकासविनाशनम् ।
शुक्रामशमनं चैव कण्ठशुद्धिकरं लघु ॥ ५.१७२
पत्रं तमालपत्रं च पत्रकं छदनं दलम् ।
पलाशमंशुकं वासस्तापसं सुकुमारकम् ॥ ५.१७३
वस्त्रं तमालकं रामं गोपनं वसनं तथा ।
तमालं सुरभिगन्धं ज्ञेयं सप्तदशाह्वयम् ॥ ५.१७४
पत्रकं लघु तिक्तोष्णं कफवातविषापहम् ।
वस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनम् ॥ ५.१७५
किञ्जल्कं कनकाह्वं च केसरं नागकेशरम् ।
चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ॥ ५.१७६
सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरम् ।
फणिपुन्नागयोगादि केसरं पञ्चभूह्वयम् ॥ ५.१७७
नागकेशरमल्पोष्णं लघु तिक्तं कफापहम् ।
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥ ५.१७८
तवक्षीरं पयःक्षीरं यवजं गवयोद्भवम् ।
अन्यद्गोधूमजं चान्यत्पिष्टिकातण्डुलोद्भवम् ॥ ५.१७९
अन्यच्च तालसम्भूतं तालक्षीरादिनामकम् ।
वनगोक्षीरजं श्रेष्ठमभावेऽन्यदुदीरितम् ॥ ५.१८०
तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् ।
क्षयकासकफश्वासनाशनं चास्रदोषनुत् ॥ ५.१८१
तालीसपत्रं तालीशं पत्राख्यं च शुकोदरम् ।
धात्रीपत्त्रं चार्कवेधं करिपत्रं घनच्छदम् ॥ ५.१८२
नीलं नीलाम्बरं तालं तालीपत्रं तलाह्वयम् ।
तालीसपत्रकस्येति नामान्याहुस्त्रयोदश ॥ ५.१८३
तालीसपत्रं तिक्तोष्णं मधुरं कफवातनुत् ।
कासहिक्काक्षयश्वासच्छर्दिदोषविनाशकृत् ॥ ५.१८४
स्याद्वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥ ५.१८५
त्वक्सारा कर्मरी श्वेतावंशकर्पूररोचने ।
तुङ्गा रोचनिका पिङ्गा नवेन्दुर्वंशशर्करा ॥ ५.१८६
स्याद्वंशरोचना रूक्षा कषाया मधुरा हिमा ।
रक्तशुद्धिकरी तापपित्तोद्रेकहरा शुभा ॥ ५.१८७
तवक्षीरे यवक्षीरे क्षीरे जातं गुणोत्तरम् ।
वंशक्षीरीसमं प्रोक्तं तदभावेऽन्यवस्तुजम् ॥ ५.१८८
गवयक्षीरजं क्षीरं सुस्निग्धं शीतलं लघु ।
सुगन्धि द्रावकं शुभ्रमन्यत्स्वल्पगुणं स्मृतम् ॥ ५.१८९
मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लिका ।
समङ्गा विकसा पद्मा रोहिणी कालमेषिका ॥ ५.१९०
भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा ।
मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥ ५.१९१
क्षेत्रिणी चैव रागाढ्या भण्डीरी कालभाण्डिका ।
अरुणा ज्वरहन्त्री च छद्मा नागकुमारिका ॥ ५.१९२
भाण्डीरलतिका चैव रागाङ्गी वस्त्रभूषणा ।
त्रिंशाह्वया तथा प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥ ५.१९३
मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस्तथा ।
व्रणमेहज्वरश्लेष्मविषनेत्रामयापहा ॥ ५.१९४
चोलश्च योजनी कौञ्जी सिंहिली च चतुर्विधा ।
मञ्जिष्ठा चैव सा प्रोक्ता विलोमे चोत्तमोत्तमा ॥ ५.१९५
हरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा ।
हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥ ५.१९६
हरिता रजनीनाम्नी विषघ्नी वरवर्णिनी ।
पिङ्गला वर्णदा चैव मङ्गल्या मङ्गला च सा ॥ ५.१९७
लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया ।
श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥ ५.१९८
हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् ।
मेहकण्डूव्रणान् हन्ति देहवर्णविधायिनी ॥ ५.१९९
अन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका ।
कालेयकं पीतदारु स्थिररागा च कामिनी ॥ ५.२००
कटङ्कटेरी पर्जन्या पीता दारुनिशा स्मृता ।
कालीयकं कामवती दारुपीता पचम्पचा ।
स्यात्कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ॥ ५.२०१
तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् ।
कण्डूविसर्पत्वग्दोषविषकर्णाक्षिदोषहा ॥ ५.२०२
लाक्षा खदिरका रक्ता रङ्गमाता पलङ्कषा ।
जतु च क्रिमिजा चैव द्रुमव्याधिरलक्तकः ॥ ५.२०३
पलाशी मुद्रणी दीप्तिर्जन्तुका गन्धमादनी ।
नीला द्रवरसा चैव पित्तारिर्मुनिभूह्वया ॥ ५.२०४
लाक्षा तिक्तकषाया स्यात्श्लेष्मपित्तार्तिदोषनुत् ।
विषरक्तप्रशमनी विषमज्वरनाशनी ॥ ५.२०५
अलक्तको जन्तुरसो रागो निर्भर्त्सनस्तथा ।
जननी जन्तुकारी च संधर्षा चक्रमर्दिनी ॥ ५.२०६
अलक्तकः सुतिक्तोष्णः कफवातामयापहः ।
कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥ ५.२०७
लोध्रो रोध्रो भिल्लतरुश्चिल्लकः काण्डकीलकः ।
तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोध्रकः ॥ ५.२०८
तिल्वकः काण्डहीनश्च शावरो हेमपुष्पकः ।
भिल्ली शावरकश्चैव ज्ञेयः पञ्चदशाह्वयः ॥ ५.२०९
क्रमुकः पट्टिकारोध्रो वल्करोध्रो बृहद्दलः ।
जीर्णबुध्नो बृहद्वल्को जीर्णपत्रोऽक्षिभेषजः ॥ ५.२१०
शावरः श्वेतरोध्रश्च मार्जनो बहलत्वचः ।
पट्टी लाक्षाप्रसादश्च वल्कलो बाणभूह्वयः ॥ ५.२११
लोध्रद्वयं कषायं स्यात्शीतं वातकफास्रनुत् ।
चक्षुष्यं विषहृत्तत्र विशिष्टो वल्करोध्रकः ॥ ५.२१२
धातकी वह्निपुष्पी च ताम्रपुष्पी च धावनी ।
अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥ ५.२१३
कुमुदा सीधुपुष्पी च कुञ्जरा मद्यवासिनी ।
गुच्छसङ्घादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी ।
तीव्रज्वाला वह्निशिखा मद्यपुष्पीन्द्रसम्मिता ॥ ५.२१४
धातकी कटुरुष्णा च मदकृद्विषनाशनी ।
प्रवाहिकातिसारघ्नी विसर्पव्रणनाशिनी ॥ ५.२१५
समुद्रनाम प्रथमं पश्चात्फलमुदाहरेत् ।
समुद्रफलमित्यादि नाम वाच्यं भिषग्वरैः ॥ ५.२१६
फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि ।
त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविरोधकारि ॥ ५.२१७
निर्विषापविषा चैव विविषा विषहा परा ।
विषहन्त्री विषाभावा ह्यविषा विषवैरिणी ॥ ५.२१८
निर्विषा तु कटुः शीता कफवातास्रदोषनुत् ।
अनेकविषदोषघ्नी व्रणसंरोपणी च सा ॥ ५.२१९
विषमाहेयममृतं गरलं दारदं गरम् ।
कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकम् ॥ ५.२२०
नीलं च गरदं क्ष्वेडो घोरं हालाहलं हरम् ।
मरं हलाहलं शृङ्गी भूगरं चैकविंशतिः ॥ ५.२२१
अमृतं स्यात्वत्सनाभो विषमुग्रं महौषधम् ।
गरलं मरणं नागं स्तोककं प्राणहारकम् ।
गरलं स्थावरादि स्यात्प्रोक्तं चैकादशाह्वयम् ॥ ५.२२२
वत्सनाभोऽतिमधुरः सोष्णो वातकफापहः ।
कण्ठरुक्संनिपातघ्नः पित्तसंतापकारकः ॥ ५.२२३
स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गकौ ।
नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥ ५.२२४
विषस्याष्टादशभिदाश्चतुर्वर्गाश्च यत्पृथक् ।
तदत्र नोक्तमस्माभिर्ग्रन्थगौरवभीरुभिः ॥ ५.२२५
शटी शठी पलाशश्च षड्ग्रन्था सुव्रता वधूः ।
सुगन्धमूला गन्धाली शटिका च पलाशिका ॥ ५.२२६
सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका ।
सौम्या हिमोद्भवा गन्धवधूर्नागेन्दुसम्मिता ॥ ५.२२७
शटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च ।
कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोक्ता ॥ ५.२२८
अन्या तु गन्धपत्त्रा स्यात्स्थूलास्या तिक्तकन्दका ।
वनजा शटिका वन्या स्तवक्षीर्येकपत्त्रिका ॥ ५.२२९
गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्त्रिका ।
दीर्घपत्त्रा गन्धनिशा शरभूह्वा सुपाकिनी ॥ ५.२३०
गन्धपत्त्रा कटुः स्वादुस्तीक्ष्णोष्णा कफवातजित् ।
कासच्छर्दिज्वरान् हन्ति पित्तकोपं करोति च ॥ ५.२३१
समुद्रफेनं फेनश्च वार्धिफेनं पयोधिजम् ।
सुफेनमब्धिहिण्डीरं सामुद्रं सप्तनामकम् ॥ ५.२३२
समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् ।
कफकण्ठामयघ्नं च रुचिकृत्कर्णरोगहृत् ॥ ५.२३३
अफेनं खस्खसरसो निफेनं चाहिफेनकम् ।
अफेनं संनिपातघ्नं वृष्यं बल्यं च मोहदम् ॥ ५.२३४
चतुर्विधमफेनं स्यात्जारणं मारणं तथा ।
धारणं सारणं चैव क्रमाद्वक्ष्ये तु लक्षणम् ॥ ५.२३५
श्वेतं च जारणं प्रोक्तं कृष्णवर्णं च मारणम् ।
धारणं पीतवर्णं तु कर्बुरं सारणं तथा ॥ ५.२३६
जारणं जारयेदन्नं मारणं मृत्युदायकम् ।
धारणं च वयःस्तम्भं सारणं मलसारणम् ॥ ५.२३७
टङ्गणष्टङ्कणक्षारो रङ्गः क्षारो रसाधिकः ।
लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥ ५.२३८
वर्तुलः कनकक्षारो मलिनो धातुवल्लभः ।
त्रयोदशाह्वयश्चायं कथितस्तु भिषग्वरैः ॥ ५.२३९
कथितष्टङ्कणक्षारः कटूष्णः कफनाशनः ।
स्थावरादिविषघ्नश्च कासश्वासापहारकः ॥ ५.२४०
द्वितीयं टङ्गणं श्वेतं श्वेतकं श्वेतटङ्गणम् ।
लोहशुद्धिकरं सिन्धुमालतीतीरसम्भवम् ।
शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधम् ॥ ५.२४१
सुश्वेतं टङ्कणं स्निग्धं टूष्णं कफवातनुत् ।
आमक्षयापहृच्छ्वासविषकासमलापहम् ॥ ५.२४२
साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः ।
कुरुण्डः कर्बुरफलः सकुरुण्डश्च सप्तधा ॥ ५.२४३
साकुरुण्डः कषायश्च रुचिकृद्दीपनः परः ।
श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥ ५.२४४
हिमावली च हृद्धात्री कुष्ठघ्नो गारकुष्ठकः ।
अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो मुनिसंज्ञकः ॥ ५.२४५
हिमावली सरा तिक्ता प्लीहगुल्मोदरापहा ।
क्रिमिकुष्ठगुदात्युग्रखर्जूकण्डूतिहारिणी ॥ ५.२४६
हस्तिमदो गजमदो गजदानं मदस्तथा ।
कुम्भिमदो दन्तिमदो दानं द्वीपिमदोऽष्टधा ॥ ५.२४७
स्निग्धो हस्तिमदस्तिक्तः केश्योऽपस्मारनाशनः ।
विषहृत्कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥ ५.२४८
स्वर्जिक्षारः स्वर्जिकश्च क्षारस्वर्जी सुखार्जिकः ।
सुवर्चिकः सुवर्ची च सुखवर्चा मुनिह्वयः ॥ ५.२४९
स्वर्जिकः कटुरुष्णश्च तीक्ष्णो वातकफार्तिनुत् ।
गुल्माध्मानक्रिमीन् हन्ति व्रणजाठरदोषनुत् ॥ ५.२५०
लवणारं लवणोत्थं लवणासुरजं च लवणभेदश्च ।
जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ ५.२५१
लोणारक्षारमत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् ।
क्षारं लवणमीषच्च वातगुल्मादिदोषनुत् ॥ ५.२५२
वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् ।
सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ॥ ५.२५३
वज्रकं क्षारमत्युष्णं तीक्ष्णं क्षारं च रेचनम् ।
गुल्मोदरातिविष्टम्भशूलप्रशमनं सरम् ॥ ५.२५४
यवक्षारः स्मृतः पाक्यो यवजो यवसूचकः ।
यवशूको यवाह्वश्च यवापत्यं यवाग्रजः ॥ ५.२५५
यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् ।
आमशूलाश्मरीकृच्छ्रविषदोषहरः सरः ॥ ५.२५६
सर्वक्षारो बहुक्षारः समूहक्षारकस्तथा ।
स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ ५.२५७
सर्वक्षारो ह्यतिक्षारश्चक्षुष्यो वस्तिशोधनः ।
गुदावर्तक्रिमिघ्नश्च मलवस्त्रविशोधनः ॥ ५.२५८
मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पञ्चनामकम् ।
मायाफलं वातहरं कटूष्णकं शैथिल्यसंकोचककेशकार्ष्णयदम् ॥ ५.२५९
इत्थं नानाद्रव्यसम्भारनामग्रामव्याख्यातद्गुणाख्यानपूर्वम् ।
वर्गं वीर्यध्वस्तरोगोपसर्गं बुद्ध्वा वैद्यो विश्ववन्द्यत्वमीयात् ॥ ५.२६०
साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात्स्वौजःपात्रविचारणाय विपणेर्मध्यं समध्यासते ।
तेषामाश्रयभूमिरेष भणितः पण्यौषधीनां बुधैर्वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥ ५.२६१
यः सौम्येन सदाशयेन कलयन् दिव्यागमानां जनैर्दुर्ग्राहं महिमानमाशु नुदते स्वं जग्मुषां दुर्गतीः ।
वर्गः पिप्पलिकादिरेष नृहरेस्तस्येह शस्यात्मनो ।
नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठामगात् ॥ ५.२६२