सामग्री पर जाएँ

राजतरङ्गिणी/षष्ठः तरङ्गः

विकिस्रोतः तः
← पञ्चमः तरङ्गः राजतरङ्गिणी
षष्ठः तरङ्गः
कल्हणः
सप्तमः तरङ्गः →

२०० राजतरङ्गिणी

प्रतिमितरविदीपोद्भासिशुभ्रातपत्र-
प्रचयरजतपात्रासूत्रितारात्रिकश्रीः ।
अथ मुखरितमाशीर्मङ्गलैरङ्गनाना-
मवनिहरिणधामा राजधाम प्रपेदे ॥ ४८३ ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कहणस्य कृतौ राज-
तरङ्गिण्यां पञ्चमस्तरङ्गः ॥
त्र्यधिकायां समाशीतौ मासेषु च चतुर्ध्वगात् ।
कल्पपालाष्टकं रथ्याहृतस्त्रीसचिवा अपि ॥
षष्ठस्तरङ्गः ।
नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षोरगौ
पश्यैतावत एव संप्रति कृतौ तन्मात्रवृत्ती बहिः ।
प्रेम्णैवार्धमिदं चराचरगुरोः प्रापेयमात्मस्तुती-
रेवं देववधूमुखाच्छ्रतिसुखाः शृण्वत्यपर्णावतात् ॥ १ ॥
इच्छन्नलङ्घनीयत्वमथ कक्ष्यां विलङ्घयन् ।
प्रतीहारान्द्विजा दूरं वार्यन्तामिति सोन्वशात् ॥ २ ॥
वेत्रिवित्रास्यमानांस्तु तान्कृताञ्जलिरब्रवीत् ।
राज्यप्रदाश्च पूज्याश्च यूयं नो दैवतैः समाः ॥ ३ ॥
राज्यदानाभिमानेन वर्तिष्यत मदोद्धताः ।
यत्कार्यकालादन्यत्र नागन्तव्यं मदन्तिकंम् ॥ ४ ॥
तदाकर्ण्याखिलो लोकस्तमधृष्यममन्यत ।
व्यस्मरत्सहसंवाससंभूतमपि लाघवम् ॥ ५ ॥
खिलीभूताः पूर्वराजव्यवस्थाः प्रतिभावलात् ।
उन्नीतवान्स सुकविः प्राक्कविप्रक्रिया इव ॥ ६॥



अचौराभूत्तथा भूमिर्यथा रात्रो वणिक्पथाः ।
अतिष्ठन्विवृतद्वारा मार्गाश्चाविघ्रिताध्वगाः ॥ ७ ॥
प्रत्यवेक्षापरे तस्मिन्नासीत्सर्वापहारिणाम् ।
कृष्यध्यक्षत्वमुत्सृज्य कृत्यं नान्यन्नियोगिनाम्‌ ॥ ८ ॥
ग्राम्याः कृषिपराधीना नापश्यन्राजमन्दिरम् ।
विप्राः स्वाध्यायसंसक्ता नाकुर्वञ्शस्त्रधारणम् ॥ ९. ॥
न विप्रगुरवः साम गायन्तो मदिरां पपुः ।
न तापसाः पु्त्रदारपशुधान्यान्यढौकयन् ॥ १० ॥
न मूर्खगुरवः मत्स्यापूपयागविधायिनः ।
चक्रिरे स्वकृतैर्ग्रन्थैस्तर्कागमपरीक्षणम् ॥ १९
नाद्दश्यन्त च गेहिन्यो गुरदीक्षोत्थदेवताः
कुर्वाणाः भर्तृशीलश्रीनिषेधं मूर्धधूननैः ॥ १२॥
कार्तान्तिको भिषक्सभ्यो गुरुर्मन्त्री पुरोहितः ।
दूतः स्थेयो लेखको वा न तदाभूदपण्डितः ॥ १३ ॥
प्रायोपवेशाधिकृतैर्बोधितेन महीभृताः ।
प्रायोपविष्टो निकटं प्रापितः कश्चिदब्रवीत्॥ १४ ॥
अहमाढ्योभवं पूर्वं वास्तव्योत्र महीपते ।
निष्किंचनत्वं शानककैरगच्छं दैवयोगतः ॥ १५ ॥
उन्तमर्णैः पीडितस्य प्रबृद्धर्णस्य तस्य मे ।
निश्चयोभूद्द्ण् छित्वा परिभ्रान्तं दिगन्तरे ॥ १६ ॥
अथ विक्रीय सर्वस्वमूण्म् शोधयता मया ।
महाधनाय वणिजे विक्रीतं निजमन्दिरम्‌ ॥ १७ ॥
भार्यामुद्दिश्य भर्तव्यामेक एव तु वर्जितः ।
सोपानकूपो विकीतान्महतो वेश्मनस्ततः ॥ १८ ॥
२९

निदाघे पुष्पताम्बूलीपर्णाद्यत्रातिशीतले ।
न्यस्यद्धिर्मालिकैर्दत्तात्सा जीवेद्भाटकादिति ॥ १९. ॥
ततो दिगन्तराद्भ्रान्त्वा विंशत्या वत्सरैरहम्‌ ।
लब्धाल्पवित्तः संप्राप्तो जन्मभूमिमिमां पुनः ॥ २०}
अन्विष्यता मया साध्वी स्ववधूर्दद्दशेथ सा ।
विवर्ण जीवन्ती प्रेष्यात्वेनान्यवेसश्मसु ॥ २१ ॥
किं दत्तजीविकापि त्वमीद्दशीं वृत्तिमाश्रिता ।
मयेति सा सदुःखेन पृष्टा स्वोदन्तमब्रवीत् ॥ २२ ॥
सोपानकूप संप्राप्ता त्वयि याते दिगन्तरम्‌ ।
लगुडैस्ताडयित्वाहं वणिजा तेन वारिता ॥ २३ ॥
तदन्या कास्ति मे वृत्तिरित्युक्त्वा विरराम सा।
तदाकर्ण्य निमग्नोहमन्तरे शोककोपयोः ॥ २४ ॥
कृतप्रायोपवेशोथ स्थेयैस्तैस्तेः पदे पदे ।
परत्यर्थिनो दत्तजयैः किमप्यस्मि पराजितः ॥ २५ ॥
जडत्वाद्वेद्मि न न्यायं न विक्रीतो मया पुनः ।
सापानकूप इत्यस्मिन्नर्थो प्राणा इमे पणः ॥ २६ ॥
सोहं विपद्ये क्षीणार्थो द्वारि शास्तुस्तव ध्रुवम् ।
वृजिनादस्थि चेद्भीतिर्वस्तु निर्णीयतां स्वयम्‌ ॥ २७ ॥
राजेति तेन विज्ञप्तो गत्वा धर्मासनं स्वयम्‌ ।
संघट्टय्याखिलान्स्थेयानासीत्तत्वं विचारयन्‌ ॥ २८ ॥
स्थेयास्तमूचुर्बहुशो विचार्यायं पराजितः ।
शाख्यादगणयन्न्यायं दण्ड्यो लिखितदूषकः ॥ २९ ॥
सोपानकूपसहितं विक्रीतं गृहमित्यथः।
राजा विक्रयपत्त्रस्थान्स्वयं वर्णानवाचयत्‌ ॥ २० ॥

षष्ठस्तरङ्कः २५३

ततोधिगतमित्येव सभ्येषु निगदत्स्वपि ।
अन्तरात्मा जगादेव नृपतेरर्थिनो जयम्‌ ॥ २९ ॥
मुहूर्त्तमिव संचिन्त्य राजान्याभिरभूच्चिरम्‌ ।
कथाभिरतिवचित्राभिर्मोहयन्सभ्यमण्डलम् ॥ २२ ॥
कथान्तराले सर्वेभ्यो गृह्णन्रत्नानि वीक्षितुम्‌ ।
हसन्प्रत्यर्थिनो हस्तादुपादत्ताङ्गुलीयकम् ॥ ३२ ॥
क्षणादेवाखिलैः स्थेयमित्थमेवेति सस्मितम् ।
वचो ब्रुवाणः प्रययौ पादक्षालनकैतवात्‌ ॥ २४ ॥
अभिज्ञानाय तत्रस्थः स वितीर्याङगुलीयकम्
भृत्यमेकं वणिग्वेश्म प्राहिणोदत्तवाचिकम् ॥ ३५ ॥ ` ६
स वणिग्गणनाध्यक्षं ययाचे साङ्गुलीयकः ।
यत्राब्दे पत्त्रमुत्पन्नं गणनापत्रिकां ततः ॥ ३६ ॥
निर्णयेद्य तया कृत्यमस्ति भाण्डपतेरिति ।
श्रुत्वादाद्गणनाध्यक्षस्तां गृहीताङ्गुलीयकः ॥ ३७ ॥
दीन्नाराणां दशशतीं तस्यां भूभृदवाचयत्‌ ।
व्ययमध्येधिकरणलेखकाय समर्पिताम्‌ ॥ २३८ ॥
तस्मै मितधनार्हाय बहुमूल्यार्पणान्नृपः ।
रेफे सकारं वणिजा कारितं निश्चिकाय सः ॥ ३९ ॥
सभायां तत्प्रदर्श्याथ पृष्ट्वा दत्त्वाभयं च तम्‌ ।
आनीय लेखकं सभ्यान्संजातंप्रत्ययान्व्यधात् ॥ ७० ॥
सभ्यैरभ्यर्च्यमानेन राज्ञा सार्थं वणिग्गृहम्‌ ।
वितीर्णमर्थिने देशात्प्रत्यर्थी च प्रवासितः ॥ ४२ ॥
कृताह्निकं भोक्तुकामं तं दिनान्ते च भूपतिम्‌ ।
अकालावेदनाद्विभ्यत्क्षत्तां जातु व्यजिज्ञपत्‌ ॥ ४२ ॥

देवः समाप्तकृत्योद्य विज्ञप्तौ श्वस्तव क्षणः ।
इत्युक्तो दर्शने प्राणव्यागी विप्रो बहिः स्थितः ॥ ४३ ॥
दत्तप्रवेशादेशोथ रुद्धसूदेन भूभुजा ।
द्विजः प्रविष्टः पृष्टश्च तीव्रार्तिरिदमब्रवीत् ॥ ४४ ॥
सुवर्णरूपकशतं भ्रान्त्वा देशान्तरेर्जितम् ।
गृहीत्वा श्रुतसौराज्यः स्वदेशमहमागतः ॥ ४५ ॥
त्वयि राजनि निश्चौरैरध्वभिर्विशतः सुखम् |
ह्योभवल्लवणोत्से मे दिनान्ते श्राम्यतः स्थितिः ॥ ४६ ॥
दीर्घाध्वलङ्घनक्लान्तस्तत्राहमकुतोभयः ।
मार्गारामतरोर्मूले त्रियामामत्यवाहयम् ॥ ४७ ॥
वेतनं ग्रन्थिबद्धं तदुत्थास्नोरपतन्मम ।
अरघट्टे समीपस्थे कक्षयोगादलक्षिते ॥ ४८ ॥
तस्मिन्दुरवरोहेतिनिर्वसुत्वाज्जहद्वपुः ।
सोहं हारितसर्वस्वः शोचन्रुद्धश्चिरं जनैः ॥ ४९. ॥
एकोध्यवसितः कोपि साहसे पुरुषोब्रवीत् ।
मह्यं दापितवित्ताय किं ददासीति मां ततः ॥ ५० ॥
तमस्म्यवोचं विवशस्तस्यार्थस्यास्मि कः प्रभुः ।
तुभ्यं यद्रोचते मद्यं तत्ततो दीयतां त्वया ॥ ५१ ॥
अवरुह्याधिरूढोथ रूपकेभ्यो द्वयं मम ।
स प्रादात्स्पष्टमेवाष्टानवतिं स्वीचकार तु ॥ ५२ ॥
व्यवहारा वचोनिष्ठा एव राज्ञि यशस्करे ।
निन्दन्व्यवस्थां तां लोकैर्न्यक्कृतोस्मीतिवादिभिः ॥ ५३ ॥
उपचारोक्तिसारल्यच्छलहारितवेतनः।
सोहं जहाम्यसुन्द्वारे दुर्व्यवस्थापकस्य ते ॥ ५४ ॥

पुंसस्तस्य स राज्ञाथ पृष्टः प्रकृतिनामनी ।
वदनप्रत्यभिज्ञैव ममास्तीत्यभ्यभाषत ॥ ५५ ॥
प्रातस्तवेप्सितावाप्ति करिष्यामीति भूभुजा ।
प्रतिज्ञाय कथंचित्स स्वपार्श्वे कारितोशनम्‌ ॥ ५६ ॥
लवणोत्सौकसां दूताहूतानां स विशां ततः ।
स्थितमन्तर्द्विजोन्येद्युस्तं राज्ञेदर्शयन्नरम्‌ ॥ ५७ ॥
पृष्टः स राज्ञा विप्रेण यथैवोक्तं तथैव तत्‌ ।
सर्वमूचे वाक्प्रतिष्ठं व्यवहारमुदीरयन् ॥ ५८ ॥
खत्यवाक्पारतन्त्र्यस्य वस्तुवृत्तस्य चान्तरम्‌ ।
अलक्षयन्तः प्रैक्षन्त दोलाकुलधियो धराम्‌ ॥ ५९ ॥
धर्मासनस्थो राजाथ रूपकाणामभाषत ।
तमष्टानवतेः पात्रं विप्रमन्यं द्वयस्य तु ॥ ६० ॥
अनुयोक्तॄञ्जगादापि दुःसंचिन्त्या महात्मनः ।
धर्मस्याधर्ममुद्धृतं निहन्तुं धावतो गतिः ॥ ६९ ॥
सायं हुताशं प्रविशन्नम्मयं चेन्दुमण्डलम् ।
स्वतेजसा संविभजन्प्रदीपैर्ज्योत्स्नयाप्यसौ ॥ ६२ ॥
तदुत्थाय यथा भानुर्निहन्ति ध्वान्तमुद्धतम्‌ ।
अनन्यकर्मा धर्मोयं तथाधर्मं व्यपोहति ॥ ६३ ॥
                            युग्मम्‌ ॥
दुःसंलक्ष्यस्तु धर्मोसावधर्मं बाधतेञ्जसा ।
तिष्ठन्नित्यमधिष्ठाय दाह्यं काष्टामिवानलः ॥ ६४ ॥
ददाति यद्भवान्दत्तां तदिव्याद्युक्तमुज्झतः ।
तुभ्यं रोचत इत्यादि वचोस्य निसृतं तदा ॥ ६५ ॥
रुचितास्य बभूवाष्टानवतिर्लोभिनोस्य ताम्‌ ।
नादादस्मायरुचितं रूपकाणां द्वयं ददत्‌ ॥ ६६ ॥



२०६ राजतरङ्गिणी

इत्यादिसूक्ष्मेक्षिकया धर्माधर्मान्तरं विदन्‌ ।
प्रत्यवेक्षापरः क्ष्माभृद्भ्यधात्कृतयुगोदयम् ॥ ६७ ॥
इत्थं जनं स विनयन्हास्योभून्निजदुर्नयैः ।
परस्योपदिशन्पथ्यमपथ्याशीव रोगहृत् ॥ ६८ ॥
श्रोत्रियेणैव तेनापि मृदम्भःशौचशालिना ।
डोम्बोच्छिष्टभुजो भृत्याः पार्श्वान्न परिजह्रिरे ॥ ६९ ॥
यथोत्तरं संश्रितार्थैरन्योन्यं पृष्ठपातिभिः ।
नगराधिकृतैश्चक्रे चतुर्भिः सोर्थसंग्रहम्‌ ॥ ७० ॥
लेभिरे निधनं तस्मात्सत्यंकारात्पदातयः ।
श्रीरणेश्वरपीठाग्रन्यस्तखड्गादपि प्रभोः ॥ ७१ ॥
स ज्येष्ठे भ्रातरि मृते तथाभून्मुदितश्चिरम् ।
तदुपज्ञं यथा प्राज्ञैस्तत्रोत्प्रेक्षि रसार्पणम्‌ ॥ ७२ ॥
नीतस्य मण्डलेशत्वं वेलावित्तस्य भूभुजा ।
देवीः कामयमानस्य चक्रे गजनिमीलिका ॥ ७३ ॥
रागाच्छुद्धान्तकान्तानां मू्र्धानमधिरोपिता ।
लल्ला नामाभवत्तस्य वेश्या वैवश्यकारिणी ॥ ७४ ॥
अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम्‌ । ।
इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥ ७५ ॥
उत्तमाधमसंसक्तौ जानन्सदृशवृत्तिताम् ।
नारीणां शुचिबाह्यानामङ्गनात्वं व्यधाद्विधिः ॥ ७६ ॥
सा लालितापि राज्ञा यल्लल्ला ललितलोचना ।
चण्डालयामिकेनागाद्यामिनीषु समागमम्‌ ॥ ७७ ॥
                             युग्मम्‌ ॥

 



षष्ठस्तरङ्गः ।

सुभगंकरणं किंचिञ्चण्डालतरुणेभवत् ।
तं यत्प्रभावविवशा भेजे राजवधूरपि ॥ ७८ ॥
सा वा चण्डालकुलजा स वा कार्मणकर्मवित् ।
अन्यथा संगमः किं स्यादसंभाव्यस्तथाविधः ॥ ७९ ॥
सोभूत्केन प्रकारेण तया सह समागतः ।
इत्येष लेभे वृत्तान्तः प्रतिभेदं न कुत्रचित् ॥ ८० ॥
केवलं प्रत्यभात्तादृक्पापिनोः प्रेम तत्तयोः ।
दृग्व्यापारेक्षणात्क्षिप्रं हाडिनाम्नोधिकारिणः ॥ ८१ ॥
तमर्थमथ तथ्येन वीक्ष्य प्रणिधिभिर्नृपः ।
प्रायश्चित्तानुचरणक्षामः कृष्णाजिनं दधौ ॥ ८२ ॥
कुपितोपि स यन्नां न्यवधीद्रागमोहितः ।
तेनैवागात्पुरोभागिवितर्कातङ्कपात्रताम् ॥ ८३ ॥
डोम्बोच्छिष्टानुगासङ्गादशुचित्वं यशस्करे ।
संक्रान्तं कुष्टिसंस्पर्शात्कुष्ठं दुःखमिवाभवत् ॥ ८४ ॥
सामान्येन सता कैश्चित्सदृशैः शुभकर्मभिः ।
जन्मान्तरीयैः साम्राज्यं मया प्रापीति चिन्तयन् ॥ ८५ ॥
साम्राज्यकामो नृपतिर्भाविष्वपि स जन्मसु ।
युक्त्या प्रादान्निरातङ्कां राज्यलक्ष्मी द्विजन्मने ॥ ८६ ॥
भूभुजा दानशौण्डेन पैतृके स्थण्डिले कृतः ।
छात्राणामार्यदेश्यानां तेन विद्यार्थिनां मठः ॥ ८७ ॥
मठाधिपतये तत्र च्छन्त्रचामरहासिनीम् ।
स नरेन्द्राश्रितां प्रादाढङ्कान्तःपुरवर्जिताम् ॥ ८८ ॥
वितस्तापुलिने राजा नानोपकरणान्वितान् ।
ब्राह्मणेभ्यः सोग्रहारान्पश्चपञ्चाशतं ददौ ॥ ८९ ॥

१ ददौ इत्युचितम् । २ यन्नैनं इति स्यात् । ३ नरेन्द्रश्रियं इति स्यात् । २०७ २०८ राजतरङ्गिणी

अथ जातोदरव्याधिर्मजातो नायमित्यसौ ।
जानन्संग्रामदेवाख्यं परिवर्ज्य निजात्मजम् ॥ ९० ॥
समर्प्य सचिवैकाङ्गसामन्तानभ्यषेचयत् ।
रामदेवात्मजं राज्ये वर्णटं प्रपितृव्यजम् ॥ ९१ ॥
युग्मम् ॥
शक्ये राज्यादपाकर्तु शिशावनभिषेचिते ।
निराशाः समपद्यन्त तदा राज्यजिहीर्षवः ॥ ९२ ॥
स पर्वगुप्तकौटिल्यप्रयुक्तेरुदयोन्मुखः ।
विपाककालस्तत्राह्नि भङ्गोन्मुख इवाभवत् ॥ ९३ ॥
राजधानीस्थितस्यापि वर्णटो राज्यदायिनः ।
आरोग्यवार्तयाप्यासीन्मुमूर्षोरनिरीक्षकः ॥ ९४ ॥
ततः सानुशयो राजा ताम्यन्त्रैर्यत मत्रिभिः ।
राज्यं संग्रामदेवाय दातुमाश्वासकारिभिः ॥ ९५ ॥
राजाज्ञया निशामेकां बद्धोष्टस्तम्भमण्डपात् ।
बहिर्दत्तार्गलात्प्रातर्वर्णटो निरवत्स्यत ॥ ९६ ॥
भयात्प्रजागराद्वापि तद्भुत्यानां विवेकनाम् ।
आस्थानमण्डपं प्राप पायुक्षालनभूमिताम् ॥ ९७ ॥
एकाहराजपुरुषस्तदासिं विजयेश्वरे ।
व्रीडाद्देवप्रसादाख्यो राजवीजी समार्पयत् ॥ १८ ॥
अथाभिषिच्य संग्रामदेवं तीव्रीभवद्यथः ।
स राजधान्या निर्गत्य मर्तु निजमठं ययौ ॥ ९९ ॥
धीः केशश्मश्रुवपने शिरःशाटकवर्जनम् ।
काषायग्रहणोद्वेगः शस्त्रत्यागग्रहश्च यः ॥ १०० ॥

१ निरवास्थत इति स्यात् । २ विरेकिणाम् इत्युचितम् । षष्ठस्तरङ्गः ।

ाजभृत्यैः प्रतिज्ञातः स तस्मिन्निश्चितक्षये ।
जीवत्येव कृतज्ञत्वव्यञ्जकैः परिवर्जितः ॥ १०१ ॥
युग्मम् ॥
द्वे सहस्रे सुवर्णस्य सार्धं वडा पटाञ्चले ।
यो निर्जगाम राजासौ मुमूर्षुर्निजमन्दिरात् ॥ १२ ॥
पञ्चभिः पर्वगुप्ताद्यैर्यौतकं तस्य मत्रिभिः |
हृतं सजीवितस्यैव विभक्त्वान्योन्यमग्रतः ॥ १०३ ॥
युग्मम् ॥
विवेष्टमानः शय्यायां व्याधिदग्धान्तरो नृपः ।
तिष्टन्मठाङ्गनकुटीगर्भे ध्वान्तान्धकारिते ॥ १०४ ॥
अजातसंविशो पश्यन्द्रोहपरान्निजान् ।
प्राणैरहानि द्वित्राणि न यदा निरमुच्यत ॥ १०५ ॥
तदा सुहृद्वन्धुभृत्यवेलावित्तैः कृतत्वरैः ।
जिहीर्षुभिश्च साम्राज्यं विषं दत्त्वा विपादितः ॥ १०६ ॥
तिलकम् ॥
अवरोधवधूमध्यात्सती तं पतिमन्वगात् ।
एका त्रैलोक्यदेव्येव स्वप्रभेव विरोचनम् ॥ १०७ ॥
वर्णाश्रमप्रत्यवेक्षाबद्धकक्ष्यः क्षितीश्वरः ।
चक्रभान्वभिधं चक्रमेलके द्विजतापसम् ॥ १०८ ॥
कृतात्याचारमालोक्य राजा धर्मवशंवदः ।
निजग्राह श्वपादेन ललाटतटमङ्कयन् ॥ १०९ ॥
युग्मम् ||
२०९
तन्मातुलेन तद्रोपाद्वीरनाथेन योगिना ।
सांधिविग्रहिकेणाथ स स्वेनैव न्यगृहात ॥ ११० ॥
पूर्वाचार्यप्रभावेण स्वमाहात्म्याधिरोपणम् ।
प्रख्यापयद्भिर्गुरुभिः श्रद्धयेति यदुच्यते ॥ १११॥

१ विभज्य इत्युचितम् । २१० राजतरक्रिणी

तत्ख्यापितैव सप्ताहात्स विपन्न इति श्रुतिः ।
दीर्घव्याधिहते तस्मिन्नुपपत्तिः कथं भवेत् ॥
११२ ॥
युग्मम् ॥
अथामयान्तरे वाभूत्सा वार्तेत्युच्यते यदि ।
वर्णटाद्यभिशापोपि तदायात्वत्र हेतुताम् ॥ ११३ ॥
भुक्तैश्वर्यो नव समाश्चतुर्विंशे स हायने ।
मासि भाद्रपदे कृष्णतृतीयस्यां व्यपद्यत ॥ ११४ ॥
पितामहीं शिशोर्गोत्री विनिवेश्य नृपासने ।
भूभटाद्यैः समं प्राभूतपर्वगुप्तोथ पञ्चभिः ॥ ११५ ॥
क्रमात्समं पितामह्या तान्व्यापाद्येतरान्बली ।
एकः स एवमाक्रान्तिः प्रबभूव नृपास्पदे ॥ ११६ ॥
स पार्थिवत्वमत्रित्वमिश्रया चेष्टया स्फुरन् ।
राजा राजानकश्चेति मिश्रामेवं घियं व्यधात् ॥ ११७ ॥
सेवमानः स्वयं बालभूपं भोज्यार्पणादिभिः |
ऋजूनां प्रत्यभात्पर्वगुप्तो द्रोहबहिष्कृतः ॥ ११८ ॥
यान्द्रोहभीरून्संभाव्य संविभेजे यशस्करः ।
तस्य तत्तनयोच्छेदे त एवासन्प्रयोजकाः ॥ ११९ ॥
करभाङ्गरुहापिङ्गे श्मश्रुणि क्षितिपालवत् ।
स ददौ कुङ्कुमालेपं वर्चः शाहलविस्तृते || १२० ॥
बिभ्यदेका संघातात्प्रकटोत्पादनाक्षमः ।
प्रमापणाय प्रायुत शिशोः कर्माभिचारिकम् || १२१ ॥
न्याय्यं ते सान्वयस्यास्ति राज्यं चैत्रादिवासरे।
अन्यथा चरतो नाशः क्षिप्रं वंशायुषोर्भवेत् ॥ १२२ ॥
इतीमामपि यामिन्यां श्रुतवान्भूतभारतीम् ।
अभिचारस्य वन्ध्यत्वं निर्ध्यायाधिकशङ्कितः ॥ १२३ ॥


एकाङ्गेभ्यो विभिन्नेभ्यो बिभ्यदुद्भिन्नसंभ्रम: |
उदताम्यत्तथा चिन्तालुप्तसंविद्दिवानिशम् || १२४७ ॥
यथा महाहिमापातनि:संचारजने दिने |
अकस्मात्संभृतबलो राजधानीं निरुद्धवान्‌ ॥ २२५ ॥
विरोधकारिणं वुद्धाभिधेन सह सूनुना ।
निर्दोहमाहवे हत्वा मन्त्रिणं रामवर्धनम्‌ ॥ १२६ ॥
पित्र्येण वेलावित्तेन प्राभृतार्थमुपाहृताम्।
गले पुष्पस्त्रजं बध्वा पातितं पार्थिवासनात्‌ ॥ १२७ ॥
स तं वफ़्राङ्ग्घिदसंग्रामं हतमन्यत्र मन्दिरे ।
पातयित्वा वितस्तान्तः कण्ठबद्धशिलं निशि ॥ २२८ ॥
चतुर्विंशस्य वषैस्य दशम्यां क्रुष्णफाल्गुने ।
पापः सखङ्गकवचो न्यविक्षत नृपासने ॥ १२९. ॥
चक्कलकम् ॥
पारेविशोकं दिविराज्जातस्याभिनवाभिधात् ।
सूनु: संग्रामगुप्तस्य स तदा पार्थिवोभवत्‌ ॥ १३० ॥
केचित्तं प्रत्यवस्थानं ये पुरा प्रतिजज्ञिरे ।
ते सर्व एव तद्धीताः प्रातरेव प्रणेमिरे ॥ १३१९ ॥
पार्थिवैकाङ्गसामन्तमन्त्रिकायस्थतन्त्रिणाम् ।
तद्भित्या द्रोहवृत्तीनां द्रोहाद्वैतमद्दश्यत ॥ १३२ ॥
एकाङ्गस्य तदा स्थाने सुय्याभिजनजन्मनः ।
प्रमादान्मदनादित्यनाम्नो ढक्का व्यदीर्यत-॥ १३३ ॥
हृतांशुकेन भूभर्त्रा कुपितेन खलोकृतः ।
स निङृत्तकचरमश्रुस्तपस्वी समपद्यत ॥ २३४ ॥
ताद्दशस्य पुनस्तस्य सस्त्रीपुत्रत्वमीयुषः |
अद्याप्यभिजने जाता वसन्ति त्रिपुरेश्वरे ॥ १३५ ॥

२१२ राजतरङ्गिणी

कुर्वता पर्वगुप्तेन भूभृता द्रविणार्जनम्‌ ।
प्रापिताः पुनरुत्साहं प्रजारोगा नियोगिनः ॥ १३६ ॥
व्यधत्त स्कन्दभवनविहारवसुधान्तिके ।
पर्वगुप्तेश्वरं सोपि वृजिनार्जितया श्रिया ||१३७||
श्रीयशस्करभूभर्तुशुद्धान्तस्य विशुद्धधीः ।
कौलीनमलुनादेका गोरी नृपतिसुन्दरी ॥ १३८ ॥
सुचिराङ्करितर्प्रातेः पर्वगुप्तस्य याकरोत्‌ ।
समागमार्थिनो युक्तया वन्छनामुचितां सती ॥ १३९ ॥
इदं यशस्करस्वामिसुखेश्मार्धनिर्मितम् ।
त्यक्त्वा पत्युर्विपन्नस्य कृत्वा निर्वाणपूरणम्‌ ॥ १४० ॥
अमोघमस्मि नियमाद्बिधास्यामि त्वदीप्सितम्‌ ।
स ह्युपच्छन्दयन्नेवं सुभ्रुवाभिहितस्तया ॥ २४१ ॥

युग्मम्‌ ॥
अथ प्रवृद्धगर्वेण तत्स्वल्यैरेव वासरैः ।
संपूर्णतां सुरगृहं गमितं तेन भूभुजा ॥ २४२ ॥
सा यागज्वलने राजललना पीतसर्पिषि ।
पूणीहुत्या समं साध्वी जुहाव सहसा तनुम् ॥ १४३ ॥
उपर्यस्या निरस्तासोः पुष्टाः कुसुमवृष्टयः ।
तत्काङ्क्षिणस्तु न्यपतन्नवर्णमुखरा गिरः ॥ १४४ ॥
खुदीर्घसाहसारम्भचिन्तासंरम्भशोषितः ।
पवेगुप्नो वभूवाथ तृष्णामयपथातिथिः ॥ १४५ ॥
व्याध्याधिप्रशमायासैर्ज्ञात्वाप्यस्थायिनीं स्थितिम्‌ ।
मरूढाः प्ररूढिं नोज्झन्ति द्रोहे श्रीलोभमोहिताः ॥ १४६ ॥
आशङ्कयताद्दङ्गिष्ठोपि सोकुण्ठैः प्राक्तनैः शुभैः |
कैश्चित्सुरेश्वरीक्षेत्रे परासुः समपद्दत ||१४७||
 आक्तनैः शनैः ।
कैित्सुरेभ्वरीक्षेत्रे परासुः समपद्यत ॥ १४७ ॥

१ निमौण इति स्यात्‌ ।

षड्विंशवत्सराषाढवहुलेह्नि त्रयोदशे।
द्रोहार्जितेन नृपतिः स राज्येन व्ययुज्यत ॥ १४८ ॥
अतीन्द्रियायां परलोकवृत्ता-
विहैव तीव्राशुभपाकशंसी ।
द्दश्येत नाशो यदि नाम नाशु
न कः कुकृत्येन यतेत भूत्यै ॥ १४९ ॥
क्षेमगुप्ताभिधानोभूदथ राजा तदात्मजः ।
आसवासेवनोत्सिक्तवित्ततारुण्यसंज्वरः ॥ १५० ॥
सोभूत्स्वभावदुर्व्रुत्तो नितरां दुजेनाश्रयात्‌ ।
कृष्णक्षपाक्षणो धघोरमेघान्ध इव भीतिकृत्॥ १५१ ॥
स्वतुल्यवेषालंकाराः शतं लालितका नृपम्‌ ।
तं फल्गुणप्रभृतयो दुराचाराः सिषेविरे ॥ १५२ ॥
द्यूतासवाङ्गनासेवाव्यसनेपि स पार्थिवः ।
विटनिर्लुण्ठ्यमानोपि नाभूल्लक्ष्मीवहिष्कृतः ॥ १५३ ॥
रागी मधुप्रणयवान्विहिताक्षसक्ति-
र्यः सख्यमेति मधुपैर्हृतकोशसारैः ।
पद्मे प्रयाति दिनमात्रमपि प्रसक्तिं
श्रीस्तत्र चेत्किमिव तन्न कुतूहलाय ॥ १५४ ॥
विटाः प्राविष्ठा हृदयं जिप्णुजा वामनादयः ।
पिशाचस्येव रुचितामशुचिं तस्य चक्रिरे ॥ १५५ ॥
परोपहासकुशलः परनारीरतिप्रियः ।
परायत्ताशयस्तथौ पार्थिवोनर्थतत्परः ॥ २५६ ॥
ष्ठीवनं श्मश्रुमालासु गालयः श्रोत्रपालिषु ।
तेन क्षिप्नाः प्रर्ताक्ष्याणां करोटीषु च टक्कराः ॥ १५७ ॥


कटिसंघटनैर्नार्यो मृगव्यज्ञा वनाटनैः ।
विटाश्चाश्श्लीलरटनैर्वाल्लभ्यं तस्य लोभिरे ॥ १५८ ॥
पुंश्चलीजाल्मवैधेयबालकद्रोग्धृनिर्भरा ।
समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम्‌ ॥ १५९ ॥
जिष्णुपुत्रैः क्षेमगुप्तक्षमाभृद्यन्त्रपुत्रकः ।
चारणत्वगुणाकृष्टः किं न धूर्तैरनर्त्यत ॥ १६० ॥
तस्य कङ्कणवर्षोसीत्यभिधानं विधाय ते ।
तोषिताच्चासरच्चकरुदोँष्णोः कङ्कुणवर्षिताम्‌ ॥ १६१ ॥
निदौषदोषाविष्कारे नववस्तुपदरने ।
अधष्यटकराधाने प्रसादः प्रापि तेेपात्‌ ॥ १६२ ॥
संलश्ष्यकुचकक्षयान्ताः कत्वा निजवधूः पुरः
रागी राजा गरहान्नीतो चूते तेर्मिर्धनः छतः ॥ १६३ ॥
संभोगाभद्मसोभाग्यङृतस्पर्भैः परस्परम्‌ ।
संभुज्यैता भवान्वक्तु विरोषमिति चोदितः ॥ ९६४ ॥
उपभोगं स्वभार्याणां निटैजेस्तेः स कारितः ।
का हृदयेति च रत्यन्ते प्ृष्टोभीष्टधनपरदः ॥ २६५ ॥
युग्मम्‌ ॥

तस्य लालितकेष्वास्तां मूढो संभोगढौकने ।
मात्रोश्चारि्ररश्चित्वाद्धिक्षाको हरिधूजैटी ॥ २६६ ॥
नीत्वा नमकथाङ्गतां निजवपुमुञ्न्ति मानोन्नति

संदूष्य स्वयमङ्कनाः शुचितया व्यक्तं कुं कुवैते ।

सौख्यं घ्रन्ति खुदीर्धसेवनसमासक््या यदथ श्रमः
भ्रतयाख्याय तदेव वेद्धि न विरः किं पार्थ्यते सेवया ॥ १६७॥
यशस्करस्य भूत्वापि सचिवो भङट्फल्गुणः ।
तस्याभूदयजीव्यन्ते धिग्मोगाभ्यासवासनाम्‌ ॥ २६८ ॥


फल्गुणस्वामिमुख्यानां प्रतिष्ठानां विधायिनः ।
तस्योपदेशो भूभर्त्रा पर्यहास्यसकृद्रहः ॥ १६९ ॥
गृह्नन्विद्वेषितां हंन्तु टक्करादिबलात्ततः ।
बृद्धो रक्कः कम्पनेशो दुर्गोष्ठीमध्यगोभवत् ॥ १७० ॥
तीक्ष्णोक्ष्येपे संप्रविष्टं हन्तुं संग्रामडामरम्‌ ।
श्रीजयेन्द्रविहारं स निर्घृन्नणो निरदाहयत्‌ ॥ १७१ ॥
सुगतप्रतिमारीतं हृत्वा दग्ध्वा ततोखिलात्‌ ।
जरद्देवगृहेभ्यश्च संग्राह्य ग्रावसंचयम्‌ ॥ १७२ ॥
सखुरप्रतिष्ठया दाढर्थं मूढः स्वयशसो विदन्‌ ।
नगरापणवीथ्यन्तःक्षेमगौरीश्वरं व्यधात्‌ ॥ ९७२ ॥
युग्मम्‌ ।।
एकः प्रयात्युपरतिं द्रविणं तदीयं
हृत्वा परः प्रसभमुद्वहति प्रमोदम्‌ ।
नो वेत्ति तत्स्वनिधने परकोशगामि
धिग्वासनामसममोहकृतान्धकाराम्‌ ॥ १७४ ॥
त्यागिना क्षेमगुप्तेन भुक्त्यर्थे खशभूभुजे।
हृत्वा विहारान्निंर्दग्धाङ्रामाः षट्रिंशदर्पिताः ॥ १७५ ॥
दुर्गाणां लोहरादीनां शास्ता शतमखोपमः ।
नृपतिः सिंहराजाख्यस्तस्मै स्वां तनयां ददौ ॥ १७६ ॥
स तस्यां शाहिदौहित्र्यां दिद्दायां सक्तमानसः ।
दिद्याक्षेम इति ख्यातिं ययौ लज्जावहां नृपः ॥ १७७ ॥
मातामहेन भूभर्तुवध्वास्तस्या व्यधीयत ।
श्रीभूमिस्वमिनोदात्तप्रासादो भीमकेशवः ॥ १७८ ॥
चन्द्रलेखाभिधां कन्यां राज्ञे दत्तवताभवत्‌ ।
फल्गुणद्वारपतिना समं दिद्दा समत्सरा ॥ १७९ ॥

 



१ निर्दग्धात्‌ इति स्यात्‌ । २ श्रीभीमस्वामिना इति स>


गुरूपदेशः खुमदान्कुन्तविद्याश्रमस्तथा ।
तस्य निर्वहणाद्भर्हाद्भूभुजो हास्यतां ययौ ॥ ८० ॥
अमोघपतनान्प्रासान्योग्यान्संग्रामकर्मखु ।
सृगालमृगयासक्त्या स हि "्छाघ्यानमन्यत ॥ ६८१ ॥
तं वृतं वागुरावाहिडोम्बाटविकपेटकैः 1
पर्यटन्तं श्वभिः सार्घमपश्यन्सततं जनाः ॥ ६८२ ॥
तस्य दामोदरारण्यलल्यानशिमिकादिषु ।
स्थानेषु क्रोष्टुमृगयारसिकस्य वयोगमत्‌ ॥ १८३ ॥
अथ कृष्णचतुर्दश्यां स कुर्वन्मृगयां नृपः ।
ज्वालामपश्यत्क्रोशन्त्याः सृगाल्या निर्गतां मुखात्‌. ॥१८४॥
तदालोकनसंजातसंत्रासाकम्पितस्ततः ।
लूतामयज्वरेणाभूत्परीतो मृत्युहेतुना ॥ १८५ ॥
मर्तुं ययौ च वाराहक्षेत्रं यत्र विधायकः ।
श्रीकण्ठक्षेममठयोरासीद्धुष्कपुरान्तिके॥ १८६ ॥
मसूरविदलाकारलूताक्लिन्नकलेवरः ।
पौषे चाब्दे चतुस्त्रिंशे नवमेन्हि सिते मृतः ॥ २८७ ॥
क्षेमगुप्तात्मजः क्षाभृदभिमन्युरभूत्ततः ।
शिशूर्निस्त्रंशधर्मिण्या दिद्दादेव्यानुपालितः ॥ १८८ ॥
संधिविग्रहशुद्धान्तमुख्यकर्माधिकारिणः ।
निःसाध्वसं राजवधूमवन्ध्यदायनां व्यधु; ॥ २८९ ॥
अभिमन्यौ क्षितिं रक्षत्यकस्मादेव दारुणः ।
तुङ्गेश्वरापणोपान्तादुज्जगाम हुताशनः ॥ २९० ॥
वर्धनस्वामिपार्श्वस्थभिक्षुकीपारकावधिः ।
वेतालसूत्रपातस्थान्स ददाह महागृहान्‌ ॥ १९२ ॥

षष्ठस्तरङ्गः ।

१ प्राप इत्युचितम् । २८ २१७

डोम्बचण्डालसंस्पृष्टभूपसंपर्कदूषितान् ।
दग्ध्वा महागृहान्वहिर्भुवः शुद्धिमिवाकरोत् ॥ १९२ ॥
रक्षित्री क्षमापतेर्माता स्त्रीस्वभावाद्विमूढधीः ।
सारासारविचारेण लोलकर्णी न पस्पृशे ॥ १९३ ॥
राज्ञः सुतार्पणाद्वद्धवैरा तस्थौ पुरा यतः ।
पतिवत्येव सा सार्धं फल्गुणेनाग्र्यमन्त्रिणा ॥ १९४ ॥
पत्यौ मृते सपत्नीनां दृष्टानुमरणं ततः ।
दम्भेनानुमुमूर्षन्तीमनुमेने स तां द्रुतम् ॥ १९५ ॥
निषिषेधानुबन्धात्तु सानुतापां चितान्तिके |
कृपालुर्मरणादेताममात्यो नरवाहनः ॥ १९६ ॥
अतो निसर्गपिशुनो रक्कस्तां मन्युदूषिताम् ।
फल्गुणाद्राज्यहरणाशङ्कां राशीमजिग्रहत् ॥ १९७ ॥
विरागशंसिभिर्लिङ्गैस्तां ज्ञात्वा विषमाशयाम् ।
समन्युं साखिलामात्यां फल्गुणोप्यास्त शङ्कितः ॥ १९ ॥
स हि सर्वाधिकारस्थः सर्वस्याक्षिगतोभवत् ।
दीप्यमानोधिकं मत्रशौर्योत्साहादिभिर्गुणैः ॥ १९९ ॥
अस्थीनि क्षेमगुप्तस्य गृहीत्वा जाह्नवीं गते ।
पुत्रे कर्दमराजाख्ये प्रवलैरन्वितो बलैः ॥ २०० ॥
तत्प्रत्यागमपर्यन्तं पर्णोत्से स्थातुमुद्यतः ।
अविश्वसन्नुपगृहे फल्गुणो वैरिशङ्कितः ॥ २०१ ॥
निर्गत्य नगराद्यावत्सभाण्डागारिसैनिकः ।
काष्टवाटान्तिकं प्राप्य तावद्रक्कादिचोदिता ॥ २०२ ॥
आकलय्य द्रुतं दिद्दा संत्यज्य प्रार्थनादिकम् ।
पृष्ठे प्रत्युत याष्टीकांस्तस्य हन्तुं व्यसर्जयत् ॥ २०३ ॥

चक्कलकम् ॥ २१८ i, राजतरङ्गिणी

नवावमानखिन्नः स मिलितानन्तसैनिकः ।
प्रत्यावृत्त्य ततो मानी वाराहं क्षेत्रमाययौ ॥ २४ ॥
श्रुत्वा समेतसैन्यं तं प्रत्यायातं प्रतापिनम् ।
आस्कन्दशङ्किनी दिद्दा सामात्या समकम्पत ॥ २०५ ।।
तस्मिन्क्षेत्रे गतं शान्तं विलप्य स्वामिनं चिरम् ।
वराहपादसविधे तेन शस्त्रं समर्पितम् ॥ २६ ॥
द्रोहसंभावनापापं शस्त्रत्यागेन मत्रिणा |
स्वस्य संमार्जितं तेन राजमातुश्च साध्वसम् ॥ २०७ ॥
युक्तायुक्तविचारबाह्यमनसः सेवा महद्वैशसं
क्रुद्धेस्मिन्प्रतिकारकर्म गहनद्रोहापवादावहम् ।
येन न्यूनगुणेडशोपकरणीभावोपि तस्मै परं
कोपः कोपि विवेकिनः समुचितः शास्त्राय शस्त्राय वा २०८
पर्णोत्समेव शनकैः ससैन्ये फल्गुणे गते ।
विगताध्यापका बाला इवामोदन्त मत्रिणः ॥ २०९ ॥
योगक्षेमौ चिन्तयन्ती क्षेमगुप्तवधूरपि ।
अनिशं प्रजजागार स्वयं कण्टकपाटने ॥ २१० ॥
राज्यप्रार्थी पर्वगुप्तो मत्रिणौ कोशपीथिनौ ।
अजिग्रहत्करौ पूर्व पुत्र्योय छोजभूभटौ ॥ २११ ॥
तयोः प्रजातौ तनयौ ख्यातौ महिमपाटलौ ।
अवर्धिषातां यौ राजमन्दिरे राजपुत्रवत् ॥ २१२ ॥
तौ तत्रावस्थितावेव तत्कालं राज्यलालसौ ।
संमत्र्य समगंसातामुद्दामैर्हिम्मकादिभिः ॥ २१३ ॥
बलिनौ ताववलया राज्ञ्यापास्तौ नृपास्पदात् ।
समन्यू स्वगृहादास्तां यावत्कृतगतागतौ ॥ २१४ ॥

१ शान्ति इत्युचितम् । षष्ठस्तरङ्गः ।

एकतः पृष्ठतः प्रादान्महिम्नो निर्गतस्य सा
निर्वासनाय याष्टीकांस्तावत्प्रकटवैकृता ॥ २१५ ॥
युग्मम् ॥
२१९
शक्तिसेनाभिधानस्य श्वशुरस्य निवेशनम् |
प्रविवेश स तज्ज्ञात्वा तं ते तत्रापि दुद्रुवुः ॥ २१६ ॥
शक्तिसेनेन याष्टीका: सान्त्विता नाचलन्यदा |
तदा भीतस्य जामातुर्व्यक्तं प्रादात्स संश्रयम् ॥ २१७ ॥
तं लब्धसंश्रयं प्राप हिम्मको मुकुलस्तथा ।
एरमत्तकनामा च परिहासपुराश्रयः ॥ २१८ ॥
श्रीमानुदयगुप्ताख्योप्यमृताकरनन्दनः

ललितादित्यपुरजा यशोधरमुखा अपि ॥ २१९ ॥
युग्मम् ॥
एकैकं तं मिथः सैन्यैर्भुवनक्षोभकारिणः ।
संभूय चक्रुद्वैराज्यं महिम्नः पक्षमाश्रिताः ॥ २२० ॥
तस्मिन्महाभये दिद्दापक्षं मत्री सबान्धवः ।
एक एव तु तत्याज नाद्रोहो नरवाहनः ॥ २२१ ॥
प्रवर्धमानपृतना योद्धुं बद्धोद्यमास्ततः ।
पद्मस्वाम्यन्तिकं प्रापुर्दीप्यमानायुधा द्विषः ॥ २२२ ॥
अथ शूरमठे दिद्दा विसृज्यात्मजमाकुला ।
आपच्छान्तिक्षमांस्तांस्तानुपायान्समचिन्तयत्
ललितादित्यपुरजान्द्विजान्स्वर्णेन भूरिणा ।
तूर्ण स्वीकृत्य विधे रिपूणां संघभेदनम् ॥ २२४ ॥
एकाक्षेपेखिलैः कोपो विधेय इति वादिभिः ।
महिम्नः पीतकोशैस्तैः संधिर्देव्या समं कृतः ॥ २२५ ॥
गोष्पदोल्लङ्घने यस्याः शक्तिर्नाज्ञायि केनचित् ।
वायुपुत्रायितं पङ्ग्वा तया संघाब्धिलङ्घने ॥ २२६ ॥

॥ २२३ ॥ २२० राजतरङ्गिणी

यत्संग्रहो रत्नमहौषधीनां
करोति सर्वव्यसनावसानम् ।
त्यागेन तद्यस्य भवेन्नमोस्तु
चित्रप्रभावाय धनाय तस्मै ॥ २२७ ॥
उत्कोचकाञ्चनादानेप्युच्चां ध्यायन्त्युपक्रियाम् ।
दिद्दा यशोधरादिभ्यः कम्पनादि समार्पयत् ॥ २२८ ॥
अभिचारं महिम्नश्च कृतवत्या मितैर्दिनैः ।
मण्डलेखण्डिताशत्वं दिद्दायाः समजृम्भत ॥ २२९ ॥
कदाचित्थक्कनाख्यस्य शाहीशस्योपरि क्रुधा ।
सत्रा स्ववंशजैर्यात्रां कम्पनाधिपतिर्ददौ ॥ २३० ॥
तद्देशं निम्नगाशैलदुर्ग प्रविशता जवात् ।
अखण्डशक्तिना तेन बलादग्राहि थक्कनः ॥ २३१ ॥
स कृतप्रणतेस्तस्य करमादाय भूपतेः ।
अभिषेकाम्बुभिश्चक्रे श्रीलताप्यायनं पुनः ॥ २३२ ॥
लब्धप्रवेशैः समये तस्मिन्रक्कादिभिः खलैः ।
कम्पनाधिपतौ राज्ञ्या विद्वेषोग्राहि मूढया ॥ २३३ ॥
उर्वीपतेश्च स्फटिकाश्मनश्च
शीलोज्झितस्त्रीहृदयस्य चान्तः ।
असंनिधानात्सततस्थितीना-
मन्योपरागः कुरुते प्रवेशम् ॥ २३४ ॥
स्वचित्तसंवादि बचो वदन्तो
धूर्ता वितन्वन्ति मनःप्रवेशम् ।
पृथग्जनानां गणिका वधूनां
विटाः प्रभूणामपि गर्भचेटाः ॥ २३५ ॥


द्रोग्धायं थक्कनं रक्षन्धनादायीति पैशुनम्‌ ।
तथ्यमेव तदीयं सा स्वयं वादादमन्यत ॥ २३६ ॥
अथ स्ववसतिं प्राप्ते कम्पनेशे जयोर्जिते ।
याष्ठीकान्व्यसृजद्दिद्दा स्फुटं निर्वासनोद्यता ॥ २३७ ॥
तदाक्षेपं समाकर्ण्य स्मरन्तः कोशसंविदम्‌ ।
ते हिम्मकैरमत्तायाः पूवैवद्धिक्रियां ययुः ॥ २३८ ॥
नरवाहनमुख्यास्तु राज्ञीपक्षं न तत्यजुः ।
विभेदं पूर्ववत्प्रापदेवं निजबलं पुनः ॥ २३९ ॥
प्रविष्टेषु ततः कोपात्पुरं शुभधरादिषु ।
भट्टारकामठे दिद्दा भूयः पुत्रं व्यसर्जयत्‌ ॥ २४० ॥
दत्तार्गले नृपगृहे स्थितां तां दैवमोहिताः ।
ते तदैव विना पुत्रं विमूढा नोदपाटयन्‌ ॥ २४१ ॥
राक्ष्या संजघटे लोकः परस्मिन्नेव वासरे ।
यद्वलेन तदा‌ स्थैर्ये सा किंचित्समदर्शयत्‌ ॥ २४२ ॥
जयाभट्टारिकापार्श्वेद्यावकच्छूरमठान्तिकम्‌ ।
व्याप्य स्थितैर्द्विषत्सैन्यैरथ प्रववृते रणः ॥ २४३ ॥
राजधानीं राजसैन्ये प्रविष्टे त्रासविद्रुते ।
सिंहद्वारे घटाबन्धमेकाङ्गाः समदर्शयन्‌ ॥ २४४ ॥
शरीरनिरपेक्षास्ते भीतं संस्तम्भ्य तद्वलम्‌ ।
अधावन्विद्विषां सैन्यं चेलुः केचिच्च शत्रवः ॥ २४५ ॥
तसिन्नवसरे राजकुलभट्टः समाययौ ।
तूर्यघोषैर्द्विषां सैन्यं भिन्दन्नानन्दयन्निजम्‌ ॥ २४६ ॥
तस्मिन्प्राप्ते द्विषां सैन्यं विननाश विनेश्वरम्‌ ।
न द्रोहाविनयं जातु सहन्ते शस्त्रदेवताः ॥ २४७ ॥



त्रोटयत्यायसान्बन्धान्स्फोटयत्युपलानिति ।
यः ख्यातिमवहत्तथ्यां हिम्मको भीमविक्रमः ॥ २४८ ॥
तस्यासिना राजकुलभट्टदेहार्धपातिना ।
चर्ममार्त्रं न तुत्रोट कङ्कटस्यातिसंकटे ॥ २४९ ॥
                             युग्मम्‌ ॥
विलोक्य तदसंभाव्यं सैन्ये दैन्यं समाश्रिते ।
अघानि हिम्मको योधैरवष्टनम्भि यशोधरः ॥ २५० ॥
तथाप्यासीत्स्फुरन्संख्ये य ऐरमत्तकः क्षणम्‌ ।
स भग्नासिश्च्युतो वाहाज्जीवग्राहमगृह्यत ॥ २५१ ॥
नाजौ तैरेष्यताधातुं यः श्रीमान्रजबान्धवः ।
जगामोदयगुप्तः स क्वापि त्यक्त्वा महाहवम्‌ ॥ ५२ ॥ ,
इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा ।
यशोधरं शुभधरं मुकुलं च सबान्धवम्‌ ॥ २५३ ॥
काश्मीरिकाणां यः श्राद्धशुल्कोच्छेत्ता गयान्तरे ।
सोप्येरमत्तकः शूरः परिहासपुराश्रयः ॥ २५४ ॥
बद्ध्वा महाशिलां कण्ठे वितस्ताम्भसि पातितः ।
स्वदुर्नयफलं देव्याः प्रकोपेनानुभावितः॥ २५५ ॥
                            युग्मम्‌ ॥
ये सप्तसप्तताद्वर्षादा गोपालनृपात्पुरा ।
अभिमन्युं यावदासन्षोडशानां महीभुजाम्‌ ॥ २५६ ॥
वर्षषष्टिं प्रतापायुःश्रीहरा द्रोहवृत्तयः ।
ते क्षिप्रं मन्रिणः स्वे सान्ववायाः सदानुगाः ॥ २५७ ॥
भीमभ्रुभङ्गमात्रेण दिद्दादेव्या सकोपया ।
आसन्निःदोषतां नीता दुर्गयेव महासुराः ॥ २५८ ॥
                          तिलकम् ॥



अभवन्विहिता राज्ञ्या तानुत्पातट्य मदोद्धतान्‌ ।
रक्कादयः कम्पनादिकर्मस्थानाधिकारिणः ॥ २५९॥
इत्थं मन्निप्रकाण्डः स रण्डामाखण्डलोपमाम्‌ ।
अखण्डमण्डलां चक्रे निरर्द्रोहो नरवाहनः ॥ २६० ॥
राज्ञी कतज्ञभावेन सापि मन्निसभान्तरे ।
तमाजुहाव निद्रोहं स्वयं राजानकाख्यया ॥ २६१ ॥
सुप्ते सुष्वाप निष्पन्नभोजनेस्मिन्नभुङ्क सा ।
हृष्टे जहर्षं निर्विण्णे निर्विवेदानुकूल्यतः ॥ २६२ ॥
आरोग्यान्वेषणं शिक्षाप्रार्थनां गृहवर्तिनः ।
सात्मवस्तुविसर्गे च नाकृत्वा तस्य पिप्रिये ॥ २६३ ॥
अभूतां युग्यवाहस्य कुय्यनाम्नः सुतौ पुरा ।
यौ सिन्धुभुय्यौ तज्ज्यायान्सिन्धुर्लालितकः किल ॥ २६४॥
पर्वगुप्तगृहे भूत्वा गञ्जध्यक्षे स्थिते क्रमात्‌ ।
लब्ध्वा गञ्जाधिकारित्वं तस्या राज्ञ्याः शनैरभूत्‌ ॥ २६५ ॥
रूढ्या तयैव गञ्जेशो नवायासविधायकः ।
कर्मस्थानस्य निर्माता सिन्धुगञ्जाभिधस्य यः ॥ २६६ ॥
प्रायशो हृतराज्यस्ते वतेते नरवाहनः ।
इति नेयधियं राज्ञीं सोभ्यधत्त दुराशयः ॥ २६७ ॥
सा तथेत्यब्रवीद्यावत्तावत्प्रेम्णा स जातुचित्‌ ।
मन्न्री तां प्रार्थयामास भोक्तुं निजगृहागमम्‌ ॥ २६८ ॥
सा सानुगां तत्र यातां ध्रुवं त्वामेव वन्त्स्यति ।
इत्युक्ता सिन्धुनापृच्छत्तत्कर्तव्यं भयाकुला ॥ २६९ ॥
अनुक्त्वैव प्रचलिता राजधानीमरक्षिता ।
स्त्रिधर्मिण्यस्मि जातेति पश्चाद्वार्तो व्यसर्जयत्‌ ॥ २७० ॥


संप्रवृत्तोपचारायां गतायां तत्पथात्तथा ।
राश्यां नाशममात्यस्य प्रीतिः संविच्च सा ययौ ॥ २७१ ॥
तयोस्ततः प्रभृत्येव निष्कृष्टस्रेहयोः कृतम्‌ ।
चाक्रिकैरतिरूक्षत्वं तिलपिच्याकयोरिव ॥ २७२ ॥
कुलिशं सर्वलोहानामम्भसां शैलसेतवः ।
अभेद्याः प्रतिभाव्यन्ते न किंचिदसतां पुनः ॥ २७३ ॥
ये बालादपि संमूढाः प्राज्ञाः सुरगुरोरपि ।
तेषां न विद्मः किं तावन्निर्माणपरमाणवः ॥ २७४ ॥
विश्वासोज्झितधीः शिशुन्कलयते काकोन्यदीयान्निजा-
न्हंसः क्षीरपयोचिभागकुशलस्त्रस्यत्यसाराद्धनात्‌ ।
लोकावेक्षणतीक्ष्णधीः खलगिरं जानाति सत्यां नृपो
धिग्वैदग्ध्यविसुग्धताव्यतिकरस्पृष्ठं विधानं विधेः ॥ २७५ ॥
मूढाचरणहीना सा श्रुतिबाह्यतया तया ।
वैधेयविप्रप्रकृतिरिव प्रायाद्विगर्ह्यताम्‌ ॥ २७६ ॥
उद्धेजितस्तया शश्वत्तथा स नरवाहनः ।
यथा विमाननोत्तप्तः स्वयं तत्याज जीवितम्‌ ॥ २७७ ॥
प्रकुप्यत्यप्रतीकार्ये स्वतेजस्तप्तचेतसाम्‌ ।
शरणं मरणं त्यक्त्वा किमिवान्यद्यशोर्थिनाम्‌ ॥ २७८ ॥
शशिहीनेव रजनी सत्यत्यक्तेव भारती ।
विरराज न राजश्रीर्नरवाहनवर्जिता ॥ २७९ ॥
सा क्रौर्याभ्यासविषमा हन्तुं विततविक्रमान्‌ ।
संप्रामडामरसुतान्समीपस्थानचिन्तयत्‌ ॥ २८० ॥
निजसुत्तरघोषं ते तद्भयेन विनिर्गताः ।
कय्यकद्वारपत्यादीन्कृरब्धीन्व्यपादयन्‌ ॥ २८१ ॥


उत्पिञ्जभीतया राज्ञ्या त्यक्त्वा परिभवत्रपाम्‌ ।
ते यत्नात्समघट्यन्त मानः स्वार्थार्थिनां कुतः ॥ २८२ ॥
स्थानेश्वरादिर्भिमुख्यैडामरैः समम्‌ ।
ते भीताः पुरतस्तस्याः पुनरेत्य जजृम्भिरे ॥ २८३ ॥
अथ तद्भीतया राज्ञ्या रक्के प्रमयमागते ।
आनीतः फल्गुणो भूयो वीरार्थिन्या निजान्तिकम्‌ ॥२८४॥
राजकार्याणि कुर्वाणः स भूयः शस्त्रमग्रहीत्‌ ।
न्यस्तशस्त्रोपि यत्सत्यं दुस्त्यजा भोगवासना ॥ २८५ ॥
महिमा राजपुर्यादिजयिनस्तस्य पश्चिमः ।
अद्भुतो वृद्धबन्धक्या अवरुद्ध इवाभवत्‌ ॥ २८६ ॥
अभूदुदयराजस्य देवीभ्रातुरतिप्रियः ।
यः सहायोक्षपटले जयगुप्ताभिधः कुधीः ॥ २८७ ॥
अन्येधिकारिणस्तेन सहिताः क्रूरवृत्तयः ।
कश्मीरेषु व्यधुर्लुण्टिं दुष्कृतैस्तदुपार्जितैः ॥ २८८ ॥
दौःशील्यभाजो मातुश्च पाप्मभिर्विधुरीकृतः ।
अमिमन्युः क्षणे तस्मिन्क्षयरोगेण पस्पृशे ॥ २८९. ॥
पण्डितः पुण्डरीकाक्षो विद्त्पुत्रैरुपस्कृतः ।
कृतश्रुतः स वैदुष्यतारुण्याभ्यां विदिद्युते ॥ २९० ॥
तथा विशुद्धप्रकृतेस्तस्य दुष्कृतसंगमः ।
शोषाधायी शिरीषस्य रविताप इवाभवत्‌ ॥ २९२ ॥
अर्धमानः प्रजाचन्द्रस्तृतीयस्यां स कार्तिके ।
शुक्लेष्टचत्वारिंशाब्दे ग्रस्तो नियतिराहुणा ॥ २९२ ॥
तत्पुत्रो नन्दिगुप्तस्तु वालश्चक्रे निजासने ।
वृद्धस्तनयशोकेस्तु दिद्दाया हृदये पदम्‌ ॥ २९३ ॥




सा शोकपिहितक्रौर्या तस्थै प्रशमशीतला ।
रविरत्नशलाकेव ध्वान्तच्छन्नोष्मवैकृता ॥ २९४ ॥
ततः प्रभृत्यद्भुताभिस्तस्या धर्मप्रवृत्तिमिः।
कुकर्मभिरुपोढापि लक्ष्मीः प्राप्ता पवित्रताम्‌ ॥ २९५ ॥
नगराधिपतिर्भुय्यः सिन्धुभ्राता शुभाशयः।
तदीयधर्मचर्यायां बभूव परिपोषकः ॥ २९६ ॥
सा तेनोत्पादितानर्धजनरागा गतैनसा ।
ततः प्रभृत्यभूद्देवी सर्वलोकस्य संमता ॥ २९७ ॥
राज्ञः स सचिवः सत्यं दुष्प्रापो लुप्तचण्डिमा ।
कुर्याद्यः सुखसेव्यत्वं हेमन्त इव भास्वतः ॥ २९८ ॥
सा निर्मात्री विपन्नस्य सूनोः सुकृतवृद्धये ।
अभिमन्युस्वामिनोभूदभिमन्युपुरस्य च ॥ २२९ ॥
अथ दिद्दापुरोपेतो दिद्दास्वामी तया कृतः ।
मठश्च मध्यदेशीयलाटाशौडोचसंश्रयः ॥ ३०० ॥
भर्तुः कङ्कणवर्षस्य पुण्योत्कर्षाभिवृद्धये ।
चकार कङ्कणपुरं रमणी स्वर्णवर्षिणी ॥ ३०१ ॥
श्वेतशैलमयं चान्यं सा दिद्दास्वामिनं व्यधात्‌ ।
धवलं चरणोद्भूतगङ्गाम्भःप्लवनैरिव ॥ ३०२ ॥
चक्रे काश्मीरिकाणां च दैशिकानां समाश्रयः।
तयात्युञ्चतुःशालो विहारश्चारुसंपदा ॥ ३०२ ॥
श्रीसिहस्वामिनं नाम्ना सिंहराजस्य सा पितुः।
मठं च विदधे स्थित्यै दैशिकानां द्विजन्मनाम्‌ ॥ ३०४ ॥
मठप्रतिष्ठावैकुण्ठनिर्माणाद्यैः स्वकर्मभिः
तयातिपावनश्चक्रे वितस्तासिन्धुसंगमः ॥ २०५ ॥


तेषु तेषु प्रदेशेषु किमुक्तैर्भूरिभिः शुभैः ।
सा प्रतिष्ठा व्यरचयञ्चतुःषष्टिमिति श्रुतिः ॥ ३०६ ॥
जीणोंद्धारकृता देव्या पुष्टभाकारमण्डलाः ।
प्रायः सुरगृहाः सर्वे शिखावप्रावृताः कृताः ॥ ३०७ ॥
क्रीडाचड्क्रमणे राज्ञ्याः पङ्ग्वा विग्रहवाहिनी ।
वल्गाभिधा वैवधिकी वल्गामटमकारयत्‌ ॥ ३०८ ॥
तीर्थासेवनमोनभागपि तिमिः सक्तः स्वकुल्याशने
वाताश्याङ्रसते शिखी घनपयोमात्राशनोप्यन्वहम्‌ ।
विश्वस्ताञ्जलचारिणः प्रकटितध्यानोपि भुङ्क्ते बकः ।
सत्कर्माचरणेपि दोषविरतौ न प्रत्ययः पापिनाम्‌ ॥ २०९ ॥
चर्षणी वषमात्रेण शान्तशोका बभूव सा ।
भोगोत्सुकार्भके तसिन्नप्तरि व्यभिचारकृत्‌ ॥ ३१० ॥
वर्ष एकान्नपञ्चाशे नीतः पक्षे सिते क्षयम्‌ ।
स मार्गशीर्षद्धादश्याममार्गव्यग्रया तया ॥ ३११ ॥
पौत्रस्त्रिभुवनो नाम मार्गशीर्षे सितेहनि ।
पञ्चमेप्येकपञ्चाशे वर्षे तद्वत्तया हतः ॥ ३१२ ॥
अथ मृत्युपथे राज्यनाम्नि स्वैरं निवेशितः ।
ऋूरया चरमः पौत्रो भीमगुप्ताभिधस्तया ॥ ३१३ ॥
तस्मिन्नवसरे वृद्धः फल्गुणोपि व्यपद्यत ।
निगूढक्रोर्यदौःशील्या दिद्दा यद्रौरवादभूत्‌ ॥ २१४ ॥
बभूव साथ सुस्पष्टदुष्टचेष्टाशतोत्कटा ।
अरष्टवक्रपटा मत्तदन्तिमूर्तिरिवोत्कटा ॥ ३१५ ॥
महाभिजनजातानामपि हा धिङ्निसर्गतः ।
सरितामिव नारीणां वृत्तिर्निम्नानुसारिणी ॥ २१६ ॥

२२८

राजतरङ्गिणी

स्रोतोधिराज्यमधिगम्य विराजमाना-
त्सिन्धोः प्रसूय कमलाल्पपयोनिकेते ।
जाते सरस्यविरतं जलजे प्रसक्ता
नार्यो महाभिजनजा अपि नीचभोग्याः ॥ ३१७ ॥
खशस्य वद्दिवासाख्यपर्णोत्सग्रामजन्मनः ।
बाणस्य सुनुस्तुङ्गाख्यो विंशन्महिषपालकः ॥ ३१८ ॥
प्रविष्टो जातु कश्मीराँल्लेखहारककर्मणा ।
सुगन्धिसीहप्रकटनागायिकपण्मुखैः ॥ ३१९ ॥
पञ्चभिर्भ्रातृभिः सार्धं संधिविग्रहकान्तिके |
देव्या दृग्गोचरं यातो हृदयावर्जकोभवत् ॥ ३२० ॥
तिलकम् ||
रहः प्रवेशितो दूत्या स भाव्यर्थवलायुवा |
संभुक्तभूरिजाराया अपि तस्याः प्रियोभवत् ॥ ३२१ ॥
तुङ्गानुरागिणी राज्ञी पापा लजोज्झिता ततः ।
रसदानेन वैमुख्यभाजं भुय्यमघातयत् ॥ ३२२ ॥
धिङिर्विचारान्कुपतीन्येषां विषमचेतसाम् ।
फलशून्या स्तुतिस्तोषे दोषे प्राणधनक्षयः ॥ ३२३ ॥
रक्कजो देवकलशो वेलावित्तः कृतस्तया ।
भुय्याधिकारे कौट्टन्यमाचरन्निस्त्रपो विटः ॥ ३२४ ॥
येपि कर्दमराजाद्या वीरा द्वारादिनायकाः ।
तेपि कौट्टन्यमभजन्नन्येषां गणनैव का ॥ ३२५ ॥
चतुष्पञ्चानि वर्षाणि तिष्ठनृपगृहे शिशुः |
भीमगुप्तोभवद्यावत्किंचित्प्रौढीभवन्मतिः ॥ ३२६ ॥

१ विशां इति स्यात् । षष्ठस्तरङ्गः ।

राज्यव्यवस्था यावच्च पितामह्याश्च वृत्तयः ।
दुःस्थिताः प्रत्यभासन्त संस्थाप्यास्तस्य चेतसि ॥ ३२७ ॥
अङ्गशीलविहीनाया निर्घृणाया निसर्गतः ।
तावन्नेयधियस्तस्याः स चिन्त्यः समपद्यत ॥ ३२८ ॥
तिलकम् ॥
अभिमन्युवधूस्तं हि चक्रे गूढप्रवेशितम् ।
महाभिजनजं पुत्रं तस्मात्सोभूत्तथाविधः ॥ ३२९ ॥
सा देवकलशेनाथ दत्तमन्त्रा विशङ्किता |
त्रपोज्झिता स्पष्टमेव भीमगुप्तमबन्धयत् ॥ ३३० ॥
निगूढे नन्दिगुप्तादिद्रोहे लोकस्य योभवत् ।
संदेहः स तया तेन व्यक्तकृत्येन वारितः ॥ ३३१ ॥
ताभिस्ताभिर्यातनाभिर्भीमगुप्तं निपात्य सा ।
षट्पञ्चाशेभवद्वर्षे स्वयं क्रान्तनृपासना ॥ ३३२ ॥
प्रवृद्धरागया राज्ञ्या दत्तोद्रेको दिने दिने ।
सर्वाधिकारी तुङ्गोथ बभूवाधरिताखिलः ॥ ३३३ ॥
सभ्रातृकेण तुङ्गेन मीलिताः पूर्वमत्रिणः |
राज्यविप्लवमाधातुमयतन्त विरागिणः ॥ ३३४ ॥
तेथ संमत्र्य कश्मीरानानिन्युः क्रूरपौरुषम् ।
उग्रं विग्रहराजाख्यं दिवाभ्रातुः सुतं नृपम् ॥ ३३५ ॥
मुख्याग्रहारान्स प्राप्तो विधातुं राज्यविप्लवम् ।
धीमान्प्रायोपवेशाय द्रुतं प्रायोजयद्विजान् ॥ ३३६ ॥
विहितैक्येषु विप्रेषु लोकः सर्वोपि विप्लतः ।
अन्वियेषान्वहं तुङ्गं तत्र तत्र जिघांसया ॥ ३३७ ॥
कस्मिंश्चित्पिहितद्वारे तुङ्गं प्रच्छाद्य वेश्मनि ।
दिनानि कतिचिद्दिद्दा तस्थावास्कन्दशङ्किनी ॥ ३३८ ॥

२२९ २३० राजतरङ्गिणी

तया स्वर्णप्रदानेन सुमनोमन्तकादयः ।
ब्राह्मणाः समगृह्यन्त ततः प्रायो न्यवर्तत ॥ ३३९ ॥
एवं तस्मिन्महाक्षेपे तया दानेन वारिते ।
ययौ विग्रहराजः स भग्नशक्तिर्यथागतम् ॥ ३४० ॥
अथ दाढ्यं समासाद्य तुङ्गाद्याः प्रभविष्णवः ।
शनैः कर्दमराजादीअनुर्विहितविप्लवान् ॥ ३४१ ॥
सुलक्कनो रक्कसूनुस्तथान्ये मुख्यमन्त्रिणः ।
रुष्टैर्निर्वासिता देशात्तुस्तैः संप्रवेशिताः ॥ ३४२ ॥
प्रवर्धमानवैरेण गूढदूतैर्विसर्जितैः ।
प्रायं विग्रहराजेन ब्राह्मणाः कारिताः पुनः ॥ ३४३ ॥
उत्कोचादित्सया विप्रा भूयः प्रायविधायिनः ।
लब्धस्थैर्येण तुङ्गेन संनिपत्यापहस्तिताः ॥ ३४४ ॥
तेषां मध्ये वसन्गूढमादित्याख्यः पलायितः ।
हतो विग्रहराजस्य प्रियः कटकवारिकः ॥ ३४५ ॥
शस्त्रक्षतः प्रतीहारो वत्सराजाभिधः
पुनः 1
न्यङ्कोतकादिभिर्धावञ्जीवग्राहमगृहात ॥ ३४६ ॥
ते स्वर्णग्राहिणो विप्राः सुमनोमन्तकादयः ।
सर्वेपि वद्धास्तुङ्गेन कारागारं प्रवेशिताः ॥ ३४७ ॥
अथ फल्गुणनाशेन हप्ते राजपुरीपतौ ।
तां प्रत्यारब्धिरभवत्क्रुध्यतां सर्वमत्रिणाम् ॥ ३४८ ॥
निपत्य संकटे वीरः पृथ्वीपालाभिधस्ततः ।
चक्रे राजपुरीराजः काश्मीरिकवलक्षयम् ॥ ३४९ ॥
शिपाटको हंसराजो विपन्नौ तत्र मत्रिणौ ।
चन्द्राद्यैर्दुर्गतिर्दृष्टा मरणं यत्र भेषजम् ॥ ३५० ॥

अथान्येन पथाकस्मात्तुङ्गः सार्धं सहोदरैः ।
कृत्स्नां राजपुरीं वीरः प्रविश्य सहसादहत्‌ ॥ ३५१॥
ननाश तेनोपायेन पृथ्वीपालः स पार्थिवः।
शेषाणां मन्रिणां सैन्यं प्राप मुक्तिं च संकटात्‌ ॥३५२
अबलः सन्स भूपालस्तुङ्गाय प्रददौ करम्‌ ।
एवं कृतं तदा तेन नष्टस्यार्थस्य योजनम्‌ ॥ २५२ ॥
प्रविशन्नगरं तुङ्गस्ततः स्वीकृतकम्पनः ।
चकार डामरग्रामसंहारं सिंहविक्रमः ॥ २५७ ॥
दिद्दाप्युराजस्य भ्रातुः पुन्नं परीक्षितम्‌ ।
चक्रे संग्रामराजाख्यं युवराजमशङ्किता ॥ २५५ ॥
सा हि सर्वाञ्शिशुप्रायान्पुरो भातृसुतान्तास्थितान्‌ ।
परीक्षितुं मुमोचाग्रे पालेवतफलावलिम् ॥ २५६ ॥
शक्तः कियन्ति कः प्राप्तुं फलान्यत्रेति वादिनी ।
साभवद्राजपुत्राणां तेषां कलहकारणम्‌ ॥ २५७ ॥
गृहीताल्पफलाल्लग्नप्रहारांस्तान्ददर्श च ।
संग्रामराजं त्वस्वल्पफलभाजमविक्षतम् ॥ २५८ ॥
अनन्तफलसंप्राप्तावक्षतत्वे च कारणम्‌ ।
सविस्मयं तया पृष्टः स तामेवं तदाब्रवीत् ॥ ३५९ ॥
अन्योन्यकलहव्यग्रानेतान्कृत्वा पृथग्वसन् ।
समवापं फठान्यन्स्मिन्न चाभूवं परिक्षतः ॥ ३६० ॥
व्यसने संप्रवेश्यान्यान्स्थितानामप्रमादिनाम्‌ ।
न काः क्लेशविहीनानां घटन्ते स्वार्थसिद्धयः ॥ ३६१॥
श्रुत्वेति तस्य सा वाचमप्रमत्तत्वदूतिकाम्‌ ।
भीरुर्नारीस्वभावेन राज्येमन्यत योग्यताम्‌ ॥ ३६२ ॥


शूरस्य लभ्यं शौर्येण भीरोर्भीरुतया यथा ।
कार्यं हि प्रतिभात्यन्तर्न भवेच्च तदन्यथा ॥ ३६२ ॥
काष्ठं वन्हयुज्झितमपि भवेच्छीतशान्त्यै कपीनां
लग्नां शुद्ध्यै सलिलमनलश्चाग्निशौचैणकानाम् ।
जन्तोर्भावा विदधति यथाभाविनः कार्यसिद्धिं
तत्वं तेषां क्वचन सहजं वस्तुतो नास्ति किंचित्‌ ॥ ३६४ ॥
तस्यामेकान्नरीत्यब्दशुक्लभाद्राष्टमीदिने ।
देव्यां दिवं प्रयातायां युवराजोभवन्रुपः ॥ ३६५ ॥
 स्त्रीसंबन्धेन भूपालवंशानां भूवनाद्भुतः।
तृतीयः परिवर्तोयं वर्ततेमुत्र मण्डले ॥ २६६ ॥
निर्नष्टकनण्टककुले वसुसंपदाढ्ये
श्रीसातवाहकुलामाप महीतलेस्मिन् ।
दावाश्दग्निग्धकुतरौ जलदवाम्बुसिक्ते
नचूतप्ररोह इव केलिवने घचृद्धिम्‌ ॥ २६७ ॥
अथ स मृदुतयान्तर्गुढधैर्यानुभावः
सुखमवनिमशेषां दोष्णि संग्रामराजः
बिसकुलनिभशोभानिह्नुतप्राणसारः
फणकुल उरगाणामीशितेव न्यधत्त ॥ ३६८ ॥
इति श्रीकाश्मीरिकमहामात्यबचण्पकप्रभुसूनोः कल्हणस्य कृतौ
राजतरङ्गिण्यां षष्ठस्तरङ्गः ॥

अत्र वर्षचतुःषष्टौ मासेप्यर्धे दिनेषु च ।
अष्टस्वभूवन्भूपाला दश भूभोगभागिनः ॥