राजतरङ्गिणी/प्रथमः तरङ्गः

विकिस्रोतः तः
राजतरङ्गिणी
प्रथमः तरङ्गः
कल्हणः
द्वितीयः तरङ्गः →


राजतरङ्गिणी ।

प्रथमस्तरङ्ग: |

भूषाभोगिफणारत्नरोचिःसिचयचारवे ।
नमः प्रलीनमुक्ताय हरकट्पमहीरुदे ॥ १॥
भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन्संभृत-
क्रीडत्कुण्डलिजृम्भितं जकधिजच्छायाच्छकण्ठच्छविः ।
वक्षो विभ्रदहीनकञ्चुकाचितं वद्धाङ्गनार्धास्य वो
भागः पुंगवलक्ष्मणोस्तु यशसे वामोथवा दक्षिणः ॥ २॥
वन्द्यः कोपि सुधास्यन्दास्कन्दी स सकवेर्गुणः ।
येनायाति यशःकायः स्थैर्ये स्वस्य परस्य च ॥ २॥
कोन्यः कालमतिकान्तं नेतुं प्रत्यक्षतां क्षमः।
कविप्रजापतींस्त्यक्त्वा रम्यनिर्माणशालिनः ॥ ४ ॥
न पश्येत्सर्वसंवेद्यान्भावान्प्रतिभया यदि ।
तदन्यद्दिव्यदृष्टित्वे किमिव ज्ञापकं कवेः ॥ ५ ॥
कथादैर्ध्यानुरोधेन वैचित्र्येप्यप्रपञ्चिते ।
तदत्र किंचिदस्त्येव वस्तु यत्प्रीतये सताम्‌ ॥ ६ ॥
श्लाघ्यः स एव गुणवान्ऱागद्वेषबहिष्कृता ।
भूतार्थकथने यस्य स्थेयस्येव सरस्वती ॥ ७॥


पूर्वैर्बध्दं कथावस्तु मयि भूयो निवघ्नति ।
प्रयोजनमनाकर्ण वैमुख्यं नोचितं सताम्‌ ॥ ८ ॥
दृष्टं दृष्टं नृपोदन्तं वध्द्वा प्रमयमीयुषाम्‌ ।
अर्कवाकालभवैर्वार्ता यत्प्रबन्धेषु पूर्यते ॥ ९ ॥
दक्षं कियदिदं तस्मादस्मिन्भूताथवर्णने ।
सर्वप्रकारं स्खलिते योजनाय ममोद्यमः॥ १० ॥
युगलकम्‌ ॥
विस्तीर्णाः प्रथमे ग्रन्थाः स्मृत्यै संक्षिपतो वचः ।‌
सुव्रतस्य प्रवन्धेन च्छिन्ना राजकथाश्रयाः ॥ ११ ॥
या प्रथामगमन्नैति सापि वाच्यप्रकाशाने ।
पाटवं दु्ष्टवैदुष्यतीव्रा सुव्रतभारती ॥ १२ ॥
केनाप्यनवधानेन कविकर्मणि सत्यपि !
अंशोपि नास्ति निर्दोषः क्षेमेन्द्रस्य नृपावलौ ॥ १३ ॥
दृग्गोचरं पूर्वसूरिग्रन्था राजकथाश्रयाः ।
 मम त्वेकादश गता मतं नीलमुनेरपि ॥ १४ ॥
दृष्टैश्च पूर्वभूभर्तृप्रतिष्ठावस्तुसशासनैः ।
प्रशस्तिपट्टैः शास्त्रैश्च शान्तोशेपभ्रमक्लमः ॥ १५ ॥
द्वापञ्चाशतमान्मायभ्रंशाद्यान्नास्मरन्नृपान्।
तेभ्यो नीलमतदृष्टं गोनन्दादिचतुष्टयम्‌ ॥ १६ ॥
वद्धा द्वादशभिर्ग्रन्थसहस्रै पार्थिवावलिः ।
प्राङ्भहाव्रतिना येन हेलाराजद्विजन्मना ॥ १७ ॥
तन्मतं पद्ममिहरो दृष्ट्वाशोकादिपूर्वगान् ।
अष्टौ लवदिन्नृपतीन्स्वस्मिङ्रन्थे न्यदर्शयत्॥ १८ ॥
युगलकम् ॥।

येप्यशोकादयः पञ्च श्रीछविल्लाकरोव्रवीत् ।
तान्द्वापश्चाशतो मध्याच्छ्लोकस्तस्य तथा ह्ययम्‌ ॥ १९ ॥
आशोकादभिमन्योर्ये प्रोक्ताः पञ्च महीभुजः ।
ते द्वापश्चाशतो मध्यादेव लब्धाः पुरातनैः ॥ २०॥
इयं नृपाणामुल्लासे ह्रासे वा देशकालयोः।
भैषज्यभूतसंवादिकथायुक्तोपयुज्यते ॥ २१ ॥
संक्रान्तप्राक्तनानन्तव्यवहारः सचेतसः ।
कस्येदृशो न संदर्भो यदि वा हृदयंगमः ॥ २२॥
क्षणभङ्गिनि जन्तूनां स्फुरिते परिचिन्तिते ।
मूर्धाभिषेकः शान्तस्य रसस्यात्र विचार्यताम् ॥ २३ ॥
तदमन्दरसस्यन्दसुन्दरेयं निपीयताम्‌ ।
श्रोत्रशुक्तिपुटैः स्पष्टमङ्ग राजतरङ्गिणी ॥ २४ ॥
पुरा सतीसरः कल्पारम्भात्प्रभृति भूरभूत्‌ ।
कुक्षौ हिमाद्रेरर्णोभिः पूर्णा मन्वन्तराणि षट्‌ ॥ २५ ॥
अथ वैवस्वतीयेस्मिन्प्रप्ते मन्वन्तरे सुरान्‌ ।
द्रुहिणोपेन्द्ररुद्रादीनवतार्य प्रजासृजा ॥ २६॥
कश्यपेन तद्‌न्तःस्थं घातयित्वा जलोद्भवम् ।
निर्ममे तत्सरोभूमौ कश्मीरा इति मण्डलम्‌ ॥ २७॥
युगलकम् ॥
उद्यद्वैतस्तनिःष्यन्ददण्डकुण्डातपत्रिणा ।
यत्सर्वनागाधीशेन नीलेन परिपाल्यते ॥ ५८ ॥
गुहोन्मुखी नागमुखापीतभूरिपया रुचिम्‌ ।
गौरी यत्र वितस्तात्वं याताप्युज्झति नोचिताम्‌ }} २९ ॥
शङ्खपद्ममुखैर्नागैर्नानारत्नावभासिभिः।
नगरं धनदस्येव निधिभिर्यन्निषेव्यते ॥ ३० ॥

यत्ताक्ष्यभीत्या प्राघ्रानां नागानां गुप्तये धुवम्‌ ।
भ्रसारितभुजं पृषे शोकधाकारटीटया ॥ ३१ ॥
भुक्तिमुक्तिफलप्रासिः काटरूपमुमापतिम्‌ ।
पापसूदनतीथौन्तयत्र संस्प्रातां भवेत्‌ ॥ २२ ॥
सेभ्यादेवीजरं यसिन्दत्ते निःसटिटे गिरौ ।
द्रोनं पुण्यपापानामन्वयव्यतिरेकयोः । ३३ ॥
स्वयंभू हुतथुग्भुवो गभीत्समुन्मिषन्‌ ।
जहतां प्रतिगृह्णाति ज्वालाभुजवनैर्वि; ॥ २४ ॥
देवी भेडगिरेः ग्धङ्गे गङ्गोद्धेद यचो स्वयम्‌ ।
सरोन्तरैश्यते यत्र हंसरूपा सरस्वती ॥ २५ ॥
नन्दिके दरावासप्रासदे दुचरापिताः ।
अद्यापि यत्र व्यज्यन्ते पूजाचन्दनविन्दवः ॥ ३६ ॥
आलोक्य शारदां देवीं यत्र संप्राप्यते क्षणात्‌ ।
तरङ्गिणी मधुमती वाणी च कविसेविता ॥ २३७॥
चक्रभ्यद्धिजयेशादिकेरशवेशानभूषिते ।
तिखांोपि न यत्रास्ति प्रथ्व्यास्तीर्थैवैहिष्छृतः ॥ ३८ ॥
विजीयते पुण्यवले्वखेर्यत्तु न शखिणाम्‌ ।
परखोकात्ततो भीतिर्यसिन्निवसतां परम्‌ ॥ ३९ ॥
सोष्मस्नानग्रहाः शीते सुखतीरास्पदा रथे ।
यादोविरहिता यत्र निख्नगा निरूपद्ववाः ॥ ४०॥
असं्तापहतां जानन्यज्न पित्रा विनिर्मिते ।
गौरवादिव तिग्मांडुर्धत्ते आओष्मेप्यतीवताम्‌ ॥ ४१॥
विद्या वेद्रमानि तुङ्गानि कुङ्कमं सदिमं पयः ।
द्राक्षेति यत्र सामान्यमस्ति चिदिवदुरकभम्‌ ॥ ४२ ॥

प्रथमस्तरङ्गः ।

त्रिलोक्यां रत्नसू: श्लाघ्या तस्यां घनपतेर्हरित् । तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम्‌ ॥ ५३ ॥ तत्र कौरवकौन्तेयसमकालभवात्कलौ । आ गोनन्दात्स्मरन्ति स्म न व्दापज्चाशतम् न्रुपान् ॥ ४४ ॥ तस्मिन्काले धुवं तेषां कुक्रृत्यैः काश्यपीभुजाम् । कर्तारः कीर्तिकायस्य नाभूवन्कविवेधसः ॥ ४५ ॥ भुजवनत्तरुच्छायां येषां निषेव्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया स्मुतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं प्र कु्मस्तस्मे नमः कविकर्मणे ॥ ७६ ॥ येप्यासन्निभकुम्भरायितपयेपि भियं टेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वरश्चन्द्रिकाः। तँष्धोकोयमवेति खोकतिलकान्स्वभ्नेप्यजातानिव भ्रातः सत्कविकरूत्य किं स्तुति्रातैरन्धं जगच्वां विना ॥ ७७॥ अष्टषछछ्यधिकामब्द दातद्धाविशति अपाः । अपीपदस्ते कदमीरान्गोनन्दाद्याः कणौ युगे ॥ ४८ ॥ भारतं द्वापरान्तेभूद्धातयेति विमोहिताः । केचिदेतां खषा तेषां कालसंख्यां प्रचक्रिरे ॥ ७९ ॥ युग्मम्‌ ॥ खन्धाधिपल्यसंख्यानां वर्षान्संख्याय भूभुजाम्‌ । मुक्तात्काखात्करेः रोषो नास्त्येवं तद्धिवनितात्‌ ॥ ५० ॥ रतेषु षटरखु सार्धषु व्यधिकेघु च भूतटे । केगतेषु वर्षाणामभूवन्छुःरुपाण्डवाः | ५९ ॥ रौकिकेब्दे चतुविदो शककारस्य सांप्रतम्‌ । सप्तत्याभ्यधिकं यातं सहसरं परिवत्सराः ॥ ५२ ॥ ६ राजतरङ्गिणी

प्रायस्तृतीयगोनन्दादारभ्य शरदा तदा ।
द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ ५३ ॥
वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता ।
भूभुजां कालसंख्यायां तद्वापञ्चाशतो मता ॥ ५४ ॥
ऋक्षाहक्षं शतेनाब्दर्यात्सु चित्रशिखण्डिषु ।
तच्चारे संहिताकारैरेवं दत्तोत्र निर्णयः ॥ ५५ ॥
आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।
पद्धिकपञ्चद्वितः शककालस्तस्य राज्यस्य ॥ ५६ ॥
कश्मीरेन्द्रः स गोनन्दो वेल्लद्गङ्गादुगूलया |
दिशा कैलासहासिन्या प्रतापी पर्युपास्थत ॥ ५७ ॥
विहाय देहं शेषाहेविषाश्लेषभयादिव ।
भूर्गारुत्मतरत्नाङ्के भेजे तस्य भुजे स्थितिम् ॥ ५८ ॥
साहायकार्थमाहूतो जरासंधेन बन्धुना ।
स संरुरोध कंसारेर्मथुरां पृथुभिर्वलैः ॥ ५९ ॥
तेनोपकूलं कालिन्द्याः स्कन्धावारं निबनता ।
यादवीहसितैः सार्धं योधानां मीलितं यशः ॥ ६० ॥
एकदा सर्वतो भग्नाः स्वसेनास्त्रातुमुद्यतः ।
तं संरुरोध योद्धारं संगरे लाङ्गलध्वजः ॥ ६१ ॥
तयोस्तुल्यौजसोर्युद्धे चिराय करवर्तिनी ।
मम्लौ विजयसंदेहे कि जयस्रग्जयश्रियः ॥ ६२ ॥
अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने ।
भुवं काश्मीरिको राजा यादवस्तु जयश्रियम् ॥ ६३ ॥
गतिं प्रवीरसुलभां तस्मिन्सुक्षत्रिये गते ।
श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ ६४ ॥

प्रथमस्तरङ्गः ।

भोगयोगोर्जितं राज्यं प्राप्तवानपि भूपतिः ।
ध्यायन्पितृवधं मानी नोपलेभे स निर्वृतिम् ।। ६५ ।।
अथोपसिन्धु गान्धारैः सजे कन्यास्वयंवरे ।
निमत्र्य शुश्रावानीतान्वृष्णीन्दपष्णदोमः ॥ ६६ ॥
ततस्तस्यातिसंरम्भात्तानदूरस्थितान्प्रति ।
यात्राभूडू जिनीवाजिरेणुग्रस्तनभस्तला ॥ ६७ ॥
तदाहवे विवाहोत्का विघ्नति स्म पतिंवरा ।
आसीत्तु द्युपुरंध्रीणां गान्धारेषु स्वयंवरः ॥ ६८ ॥
तदाक्रान्तासुहृच्चक्रः स चक्रायुधसंगरे ।
चक्रधाराध्वना धीरश्चक्रवर्ती दिवं ययौ ।। ६९ ॥
अन्तर्वनीं तस्य पत्नीं तदा यदुकुलोद्वहः |
राज्ये यशोवतीं नाम द्विजैः कृष्णोभ्यषेचयत् ॥ ७० ॥
तस्मिन्काले स्वसचिवान्सासूयान्विन्यवीवरत् ।
इमं पौराणिकं श्लोकमुदीर्य मधुसूदनः ॥ ७९ ॥
कश्मीरा पार्वती तत्र राजा ज्ञेयः शिवांशजः ।
नावज्ञेयः स दुष्टोपि विदुषा भूतिमिच्छता ॥ ७२ ॥
पुंसां निर्गौरवा भोज्य इव याः स्त्रीजने दृशः ।
प्रजानां मातरं तास्तामपश्यन्देवतामिव ॥ ७३ ॥
अथ वैजनने मासि सा देवी दिव्यलक्षणम् ।
निर्दग्धस्यान्वयतरोरङ्करं सुषुवे सुतम् ॥ ७४ ॥
तस्य राज्याभिषेकादिविधिभिः सह संभृताः ।
द्विजेन्द्रैर्निरवर्त्यन्त जातकर्मादिकाः क्रियाः ॥ ७९ ॥
स नरेन्द्रश्रिया सार्धं लब्धवान्बालभूपतिः ।
नाम गोनन्द इत्येवं नप्ता पैतामहं ऋमात् ॥ ७६ ॥

१ विध्यते इति नियते इति वा कथंचन समाधेयः पाठः स्यात् । राजतरङ्गिणी

आस्तां वालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये ।
एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः परा ॥ ७७ ॥
तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमत्रिणः ।
पार्श्वगेभ्यो ददुवित्तमनिमित्तस्मितेष्वपि ॥ ७८ ॥
अवुवाननुतिष्ठन्तस्तस्याव्यक्तं शिशोर्वचः ।
कृतागसमिवात्मानममन्यन्ताधिकारिणः ॥ ७९ ॥
पितुः सिंहासनं तेन कामता वालभूभुजा |
नोत्कण्ठा पादपीठस्य लम्वमानाङ्गिणा हता ॥ ८० ॥
तं चामरमरुल्लोलकाकपक्षं नृपासने |
विधाय मन्त्रिणोटण्वन्प्रजानां धर्मसंशयम् ॥ ८१ ।।
इति काश्मीरिको राजा वर्तमानः स शैशवे ।
साहायकाय समरे न निन्ये कुरुपाण्डवैः ॥ ८२ ॥
आम्नायभङ्गान्निर्नटनामकृत्यास्ततः परम् ।
पञ्चत्रिंशन्महीपाला मना विस्मृतिसागरे ॥ ८३ ॥
अथाभवल्लवो नाम भूपालो भूमिभूषणम् ।
वेल्लद्यशोदुगूलायाः प्रीतिपात्रं जयश्रियः ॥ ८४ ॥
यस्य सेनानिनादेन जगदौन्निद्यदायिना |
निन्थिरे वैरिणश्चित्रं दीर्घनिद्राविधेयताम् ॥ ८५ ॥
तेन षोडशभिर्लक्षैविहीनामश्मवेश्मनाम् ।
कोटिं निष्पाद्य नगरं लोलोरं निरमीयत ॥ ८६ ॥
दत्त्वाग्रहारं लेदर्या लेवारं द्विजपर्षदे ।
स ग्रामनिन्द्यशौर्यश्रीरारुरोह महाभुजः ॥ ८७॥
कुशेशयाक्षस्तत्पुत्रः प्रतापकुशलः कुशः ।
कुरुहाराग्रहारस्य दाताभूत्तदनन्तरम् ॥ ८८ ॥

प्रथमस्तरङ्गः ।

ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः ।
धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ ८९ ॥
स खागिखोनमुषयोः कर्ता मुख्याग्रहारयोः ।
हरहाससितैः कृत्यैः क्रीताँल्लोकान्क्रमाद्ययौ ॥ १० ॥
अनर्घमहिमा दीर्घमघवत्ताबहिष्कृतः ।
अथ साश्चर्यचर्यो भूत्सुरेन्द्रस्तत्सुतो नृपः ॥ ९१ ।।
शतमन्युः शान्तमन्योर्गोत्रभिगोत्ररक्षिणः ।
लेभे यस्य सुरेन्द्रस्य सुरेन्द्रो नोपमानताम् ॥ ९२ ॥
दरद्देशान्तिके कृत्वा सौरकाख्यं स पत्तनम् ।
श्रीमान्विहारं विदधे नरेन्द्रभवनाभिधम् ॥ ९३ ।।
तेन स्वमण्डलेखण्डयशसा पुण्यकर्मणा ।
विहारः सुकृतोदारो निर्मितः सोरसाभिधः ॥ १४ ॥
तस्मिन्निःसंततौ राशि प्रशान्तेन्यकुलोद्भवः ।
बभार गोधरो नाम सभूधरवरां धराम् ॥ ९५ ।।
गोधरो हस्तिशालाख्यमग्रहारमुदारधीः ।
स प्रदाय द्विजन्मभ्यः पुण्यकर्मा दिवं ययौ ॥ ९६ ॥
तस्य सूनुः सुवर्णाख्यस्ततो भूत्स्वर्णदोर्थिनाम् ।
सुवर्णमणिकुल्यायाः कराले यः प्रवर्तकः ॥ ९७ ॥
तत्सूनुर्जनको नाम प्रजानां जनकोपमः ।
विहारमग्रहारं च जालोराख्यं च निर्ममे ॥ ९८ ॥
शचीनरस्तस्य सूनुः क्षितिं क्षितिशचीपतिः ।
ततः श्रीमान्क्षमाशीलो ररक्षाक्षतशासनः ॥ ९९ ॥
राजाग्रहारयोः कर्ता शमाङ्गासाशनारयोः ।
सोभूदपुत्रः सुत्रामविष्टरार्धसमाश्रयी ॥ १०० ।।

( राजतरङ्गिणी

प्रपौत्रः शकुनेस्तस्य भूपतेः प्रपितृव्यजः ।
अथावहदशोकाख्यः सत्यसंधो वसुंधराम् ॥ १०१ ॥
यः शान्तवृजिनो राजा प्रपन्नो जिनशासनम् ।
शुष्कलेत्रवितस्तात्रौ तस्तार स्तूपमण्डलैः ॥ १०२ ॥
धर्मारण्यविहारान्तर्वितस्तात्रपुरेभवत् ।
यत्कृतं चैत्यमुत्सेधावधिप्रात्यक्षमेक्षणम् ॥ १०३ ॥
स षण्णवत्या गेहानां लक्षैर्लक्ष्मीसमुज्वलैः ।
गरीयसी पुरीं श्रीमांश्चक्रे श्रीनगरीं नृपः ॥ १०४ ॥
जीर्ण श्रीविजयेशस्य विनिवार्य सुधामयम् ।
निष्कल्मषेणाश्ममयः प्राकारो येन कारितः ।। १०५ ।।
सभायां विजयेशस्य समीपे च विनिर्ममे ।
शान्तावसादः प्रासादावशोकेश्वरसंज्ञितौ ॥ १०६ ।
म्लेच्छैः संछादिते देशे स तदुच्छित्तये नृपः ।
तपःसंतोषिताल्लेभे भूतेशात्सुकृती सुतम् ॥ १०७ ॥
सोथ भूभृजलौकोभूलोकसुरनायकः ।
यो यशः सुधया शुद्धं व्यधाद्ब्रह्माण्डमण्डलम् ॥ १०८ ।।
यस्य दिव्यप्रभावस्य कथाः श्रुतिपथं गताः ।
आश्चर्याचार्यतां यान्ति नियतं घुसदामपि ॥ १०९ ॥
कोटिवेधिनि सिद्धे हि स रसे हाटकार्पणैः ।
आसीत्सुषिरतां हतु हेमाण्डस्य ध्रुवं क्षमः ॥ ११० ॥
संस्तम्भ्याम्भःप्रविष्टेन तेन नागसरोन्तरम् ।
तारुण्यं फणिकन्यानां निन्ये संभोगभव्यताम् ॥ १११ ॥
तत्कालप्रबलप्रेद्धबौद्धवादिसमूहजित् ।
अवधूतो भवत्सिद्धस्तस्य ज्ञानोपदेशकृत् ॥ ११२ ॥

विजयेश्वरनन्दीशक्षेत्रज्येष्ठेशपूजने ।
तस्य सत्यगिरो राज्ञः प्रतिज्ञा सर्वदाभवत्‌ ॥ ११३ ॥
ग्रामे ग्रामे स्थितैरश्वैर्धावनं प्रतिषिद्धवान्।
स्वेनावहत्तं सततं नागः कोपि सुह्रत्तया॥ ११४ ॥
स रुद्धवसुधान्म्ले्च्छान्निर्वास्याखर्वविक्रमः।
जिगाय जैत्रयात्राभिर्महीमर्णवमेखलाम्‌ ॥ ११५ ॥
ते यत्रोज्झटितास्तेन म्लेच्छाश्छदितमण्डलाः ।
स्थानमुज्झटडिम्बं तज्जनैरद्यापि गद्यते ॥ ९१६ ॥ स्
जित्वोर्वी कन्यकुब्जादौ तत्रत्यं स न्यवेशयत्‌ ।
चातुर्वर्ण्यं निजे देशे धर्म्यांश्च व्यवहारिणः ॥ ११७ ॥
यथावद्ध्रुद्धिमप्राप्ते व्यवहारधनादिभिः।
सामान्यदेशवद्राज्यं तावदस्मिन्हि मण्डले॥ ११८ ॥
धर्माध्यक्षो धनाध्यक्षः कोशाध्यक्षश्चमूपतिः ।
दूतः पुरोधा दैवज्ञः सप्त प्रक्रुतयोभवन्‌ ॥ ११९ ॥
                         युगलकम्‌ ॥
कर्मस्थानानि धर्म्याणि तेनाष्टादश कुर्वता ।
ततः प्रभ्रुति भूपेन कृता यौधिष्ठिरी स्थितिः ॥ १२० ॥
स विक्रमप्रभावाभ्यां समुपार्जितया श्रि्या ।
विदधे वारबालादीनग्रहारानुदग्रध्रीः॥ १२१ ॥ ्
द्वारादिषु प्रदेशेषु प्रभावोग्राण्युदग्रया ।
ईशानदेव्या तत्पत्न्या मातृचक्राणि चक्रिरे ॥ १२२ ॥
श्रुतनन्दिपुराणः स व्यासान्तेवासिनो न्रुपः ।
सेवनं सोदरादीनां नन्दीशस्पर्धया व्यघात्‌ ॥ २२२ ॥
प्रतिष्ठां ज्ये्ष्ठरुद्रस्य श्रीनगर्यां वितन्वता ।
तेन नन्दीशसंस्पर्धा न मेने सोदरं विना ॥ १६२९४ ॥

राजतरङ्गिणी

विस्मारितो नित्यकृत्यं कार्यव्यग्रतयैकदा। विदूरसोदरजलाप्लावनालाभदुर्मनाः ॥ १२५ ॥ अपदयन्निर्जलातस्थादकस्मादुपस्थितं पयः ।

 युगलकम् ॥ 

प्रादुर्भुते ततस्तस्मिंस्तिर्थे कृतनिमज्जनः । स नन्दिरुद्रस्पर्धायं मानी पर्याप्तिमासदत् ॥ १२७ ॥ तेन जातु परीक्षार्थे निक्शिप्तः सोदरान्तरे। सपिधानाननः स्वर्णभ्रुङ्गारः सुषिरोदरः ॥ १२८ ॥ सार्धेन श्रीनगर्युद्भवाम्भसः । उन्मग्न स महीभर्तुस्तस्य चिच्छेद संशयम्‌ ॥ १२९ ॥ नूनं नन्दीश एवासौ भोक्तुं भोगानवातरत्‌ । द्रुष्टादृष्टक्रियासिद्धिर्न भवेत्ताद्रुगन्यथा ॥ १३० ॥ राशस्तस्य कदाचितु व्रजतो विजयेश्वरम्‌ । ययाचे काचिद्‌बला भोजनं मार्गमध्यगा ॥ १३९१ ॥ यथेष्टमशनं दातुं ततोनेन प्रतिश्रुते । व्यव्रुणोद्धिकृता भूत्वा सा न्रुमांसाश्रयां स्परुहाम्‌ ॥ १३२ ॥ स सत्वहिंसाविरतस्तस्यै मांसं स्वविग्रहात्‌ । अनुग्यां प्रददौ भोक्तुं यदा सैवं तदाव्रवीत्‌ ॥ १३२ ॥ बोधिसत्वोसि भूपाल कोपि सत्वर्जितवतः 1 कारुण्यं प्राणिषु द्रुढं यस्येद्रुक्ते महात्मनः ॥ १२४ ॥ वौद्धभाषामजानानो मादेभ्वरतया न्रुपः। को बोधिसत्वो यं भद्रे मां वेत्सीति जगाद ताम्‌ ॥ १३५ ॥ पुनर्बभाषे सा भूपं श्रोतव्यं मत्प्रयोजनम्‌ । ्ह्युत्थापिता बौद्धैः कोधाद्धिप्रकृतैस्त्वया ॥ १३६ ॥ प्रथमस्तरन्गः । १३

लोकालोकद्रिपार्श्वस्थास्तामस्य क्रुत्तिका वयम्‌ । बोधिसत्वैकशरणाः कान्स्यस्तपसः क्षयम्‌ ॥ १२७ ॥ लोके भगवतो लोकनाथादारभ्य केचन । ् ये जन्तवो गतक्लेशा बोधिसत्वानवेहि तान्‌ ॥ १३८ ॥ सागसेपि न कुप्यन्ति क्षमया चोपकुवैते । बोधिं स्वस्ययैव नेष्यन्ति ते विश्वधरणोद्द्यताः ॥ १२९ ॥ विहारतूर्यनिधोषेरुन्निद्रः प्रेरितः खलैः । पुरा भवान्व्यधात्कोधादविहारोद्दलनं यदा ॥ १४० ॥ महाशाक्यः स न्रुपतिर्न शक्यो बाधितुं त्वया । तस्मिन्द्रुष्टे तु कल्याणि भविता ते तमःक्षयः ॥ १४१ ॥ अस्मद्गिररा प्रेरणीयो विहारकरणाय सः । दत्त्वाम्ब हेमसंभारं त्वया मलिनितः खलैः ॥ १४२ ॥ तस्मिन्क्रुते न जायेत विहारच्छेदवैशसम्‌ । ् तस्य तत्पेरकाणां च प्रायश्चित्तं क्रुतं भवेत्‌ ॥ १४३ ॥ कुद्धैबॊद्धऐरयुध्याता त्वद्वधाय प्रधाविता । अनुशिष्टा समाहूय बोधिसतैस्तदेत्यहम्‌ ॥ १४४ ॥

                       कुलकम्॥ 

तस्मात्सच्वातिरेकस्ते मिषादेवं परीख्शितः । क्षीणपापाद्य संव्रुत्ता स्वस्ति ते साधयाम्यहम्‌ ॥ १४५ ॥ कृतप्रतिश्रवे रा विहारक्रुतये पुनः । प्रहर्षोत्फुल्लनयना क्रुत्यादेवी तिरोदधे ॥ १४६ ॥ अथ क्रुत्याश्रमं क्रुत्वा विहारं वसुधाधिपः । तत्रैव क्षीणतमसं क्रुत्यादेवीमबन्धयत्‌ ॥ १४७ ॥ विधाय सोश्मप्रासादं नन्दिक्षेत्रे क्षमापतिः। भूतेशाय क्षमां कोशैः पूजां रत्नमयीं ददौ ॥ १४८ ॥


१ तमसः इत्युचितः पाठः । २ नेच्छन्ति इत्युचितः पाठः ।


चीरमोचनतीर्थान्तर्गणरात्रं तपस्यता ।
ब्रह्मासननिविष्टेन ध्याननिःस्पन्दमूर्तिना ॥ १४९ ॥
राज्ञा कनकवाहिन्याः ्सुचिरात्पुण्यकर्मणाः ।
नन्दीशस्पर्शनोत्कण्ठा तेनानीयत कुण्ठडताम्‌ ॥ १५० ॥
ह्लादोदयान्न्रुत्तगीतक्षणे नत्तिर्तुमुत्थितम्‌ ।
प्रददौ ज्येष्ठरुद्राय सोवरोधवधूशतम्‌ ॥ १५१॥
भुक्त्वैश्वर्ये स पर्यन्ते प्रविष्टश्चीरमोचनम्‌ ।
पल्या समं ययौ राजा सायुज्यं गिरिजापतेः ॥ १५२ ॥
अथाशोकरकुलोत्पन्नो यद्वान्याभिजनोद्भवः ।
भूमिं दामोदरो नाम जुगोप जगतीपतिः ॥ १५३ ॥
द्या जाज्वलितस्योचै्मादेश्वररिखामणेः ।
अद्यापि श्रुयते यस्य प्रभावो भुवनाद्भुतः ॥ १५४ ॥
हरप्रसादपात्रेण सन्चारित्रानुरागिणा ।
वबन्ध सुखिना सख्यं येन वैश्रवणः स्वयम्‌ ॥ १५५ ॥
कुबेर इव यो राज्ञामग्र्यः स्वाज्ञाविधायिनः।
आदिश्य गुह्यकान्दीर्घे गुद्द्सेतुम्मबन्धयत्‌ ॥ १५६ ॥
सूदे दामोदरीये यत्तस्यासीत्स्वृतं पुरम्‌ ।
सेतुना तेन तत्रयैच्छत्कर्तुं सोम्भःप्रतारणम्‌ ॥ १५७ ॥
हितं र्लोको्त्तरं किंचिचिकीर्षोरुन्नतात्मनः ।

रोहन्ति हा धिकप्रत्युहा मितपुण्यतया न्रुणाम्‌ ॥ १५८ ॥
स हि कारयितुं यक्षैयैय॑तते स्म स्वमण्डले ।
दीघौनदममयान्सेतूस्तोयविष्वशान्तये ॥ १५९ ॥
तपोविभूतयोचिन्त्या द्विजानासु्ग्रेतजसाम्‌ ।
ताद्रुशामपि ये कुर्यु प्रभावस्य विपर्ययम्‌ ॥ १६० ॥

प्रथमस्तरङ्गः । १५

दायादादिबलैनर्ष्टा द्रुष्टा भूयः समुत्थिता । श्रीर्विप्रावज्ञया राज्ञामपुनःसंभंवा पुनः ॥ १६१९ ॥ श्राद्धार्थमुत्थितः स्नातुं द्विजैः कैश्चिद्धुभुक्षितैः । प्राक्स्नानाद्भोजनं राजा स कदाचिदयाच्यत ॥ १६२ ॥ यियासुना वितस्तान्तर्यदा तेनावधीरितम्‌ । तदा प्रभावात्ते तस्य तां धुनीमय्रतो व्यधुः १६३॥ सेयं वितस्ता स्पृषटैनां भोजयास्मान्स तैरिति । उक्तोपि मायाविहितामज्ञासीत्सरिदाह्रुतिम्‌ ॥ १६४॥ भोज्यं ददामि नास्नातो विप्राः सर्पत सांम्प्रतम्‌ । तेनेत्युक्तास्तमंशपंस्ततः सर्पो भवेति ते ॥ १६५ ॥ अशेषमेकेनैवाहा श्रुत्वा रामायणं तव ।

शापस्य शान्तिर्भवितेत्यूचिरे च प्रसादिताः १६६ ्॥ स दामोदरसूदान्तद्वधार्वन्दूरमुदन्यया । शापोष्णश्वासधूमेन जनैरद्यापि लक्ष्यते ॥ १६७ ॥ अथाभवन्स्वनामाङ्कपुरजयविधायिनः । हष्कजुष्ककनिष्कास्त्र्यास्त्रयस्तत्रैव पार्थिवाः ॥ १६८ ॥ सविहारस्य निर्माता जष्को जुष्कपुरस्य यः । जयस्वामिपुरस्यापि शुद्धधीः संविधायकः ॥ १६९ ॥ ते तुरूष्कान्वयोद्भुता अपि पुण्याश्रया न्रुपाः । शुष्कलात्रादिदेरोषु मठचैत्यादि चक्रिरे ॥ १७० ॥ प्राज्ये राज्यक्षणे तेषां प्रायः कश्मीरमण्डलम्‌ । भोज्यमास्ते स्म बौद्धानां प्रव्रज्योर्जिततेसाम्जिततेजसाम्‌ ॥ १७१ ॥ तदा भगवतः शाक्यसिंहस्य परनिर्व्रुतेः । अस्मिन्मदीरोकधातौ सार्घे वर्षशतं ह्यगात्‌ ॥ १७२ ॥ राजतरङ्किणी

बोधिसत्वश्च देशोस्मिन्नेको भूमीश्वरोभवत्‌ ।

स च नागार्ज्जुनः श्रीमान्षडहर्द्वसंश्रयी ॥ १.७३ ॥ अथ निष्कण्टको राजा कण्टकोत्साग्रहारदः । अभीर्बभूवाभिमन्युः शतमन्युरिवापरः ॥ १७३ ॥ स्वनामाङ्कं शशाङ्काङ्कशेखरं विरचय्य सः । परार्ध्यविभवं श्रीमानभिमन्युपुरं व्यधात्‌ ॥ १९७५ ॥ चन्द्राचार्यादिभिरैर्लब्ध्वादेशं तस्मात्तदागमम्‌ । प्रवर्तितं महाभाष्यं स्वं च व्याकरणं क्रुतम्‌ ॥ १७॥ तस्मिन्नवसरे बौद्धा देशे प्रबलतां ययुः । नागार्ज्जुनेन सुधिया बोधिसत्वेन पालिताः ॥ १७७्॥ ते वादिनः पराजित्य वादेन निखिलान्वुधान्‌ । क्रियां नीलपुराणोक्तामच्छिन्दन्नागमद्धिषः ॥१७८ ॥ मण्डले विष्ताचारे विच्छिन्नवलिकर्मभिः । नागैर्जनक्षयश्चक्रे प्रभूतहिमवर्षिभिः ॥ १७९. ॥ हिमान्यां वौद्धवाधाय पतन्त्यां प्रतिवत्सरम्‌ । शीते दार्वाभिसारादौ षण्मासान्पार्थिवोवसत्‌ ॥१८० ॥ तदा प्रभावः कोप्यासीद्द्विलिदहोमविधायिनाम्‌ । नानशन्यद्वराद्धिप्रा बौद्धाश्च निधनं गताः ॥१८१ ॥ नीलमुदिश्य देशस्य रक्षितारमहीश्वरम्‌ । काश्यपश्चन्द्रदेवाख्यस्तपस्तेपे ततो द्विजः ॥१८२॥ तस्य प्रत्यक्षतां यातो नीलस्तुहिनविप्लवम्‌ । न्यवारयज्जगादापि स्वपुराणविधिं पुनः ॥ १८२ ॥ आद्येन चन्द्रदेवेन शमितो यक्षविप्लवः। द्वितीयेन तु देशेसिन्दुहो भिक्षुविप्लवः ॥ १८४ ॥ प्रथमस्तरङ्गः) १७

राजा तृतीयगोनन्दः प्राप्तराज्यस्तदन्तरे । यात्रायागादि नागानां प्रावर्तयत पूवर्वत्‌ ॥ १८५.॥ राज्ञा प्रवर्तिते तेन पुनर्नीलोदिते विधौ । भिक्षवो हिमदोषाश्च सर्वतः प्रशमं ययुः ॥ १८६ ॥ काले काले प्रजापुण्यैः संभवन्ति महीभुजः । यैर्मण्डलस्य क्रियते दूरोत्सन्नस्य योजनम्‌ ॥१८७॥ ये प्रजापीडनपरास्ते विनशयन्ति सान्वयाः) नष्टं तु ये योजयेयुस्तेषां वंशानुगाः श्रीयः ॥ १८८ ॥ इत्येतत्पतिवृत्तान्तं देशेस्मिन्वीक्ष्य लक्षणम्‌ । भाविनां भूमिपालानां प्रयं शुभाशुभम्‌ ॥ १८९ ॥ नवीक्रुतवतो देशं तस्य वंशैयेरियं मही । सिद्धैः प्रवरसेनाद्द्यैश्चिरं भुक्ता खुकर्मभिः ॥१९० ॥ गोनन्दान्वयिनामादयः स रघूणां रघु्र्यथा । न्रुपतिः काश्यपीं वषौन्पन्चत्रिंशत्तिमन्वशात्‌ ॥१९१ ॥ वर्षषष्टिं सषण्मासैः षड्भिवर्षैर्विवर्जिताम्‌ । विभीषणाभिधोरख्शिप्तिं गोनन्दनन्दनः | १९२ ॥ इन्द्रजिद्रावणावास्तां पितापु्त्रॊ न्रुपऒ क्रमात्‌ । पश्चचिरात्सदाधौश्च वषाखिशद्योयेयुः ॥ १९२ ॥ बिन्दुरेखाछविर्यस्य दष्टा भाव्यथद्ंसिनी । स रावणस्य पूजार्थ छिङ्कः भाति वदेश्वरः ॥ १९४७ ॥ चतु शलामटस्यान्तः कृतायादायि भूभुजा । वटेश्वराय निखिलं तेन कश्मीरमण्डलम्‌ ॥ १९५ ॥ पञ्चचिरातमव्दानां क्ष्मां वुभोज महाभुजः । रावणक्चषोणिथृत्सूजुः सार्धमन्यो विभीषणः ॥ १९६ ॥ ३ १८

राजतरङ्गिणी

किंनरापरनामाथ किंनरैर्गीतविक्रमः। विभीषणस्य पुत्रोभून्नरनामा नराधिपः ॥ १९७ ॥ सदाचारोपि स न्रुपः प्रजाभाग्यविपर्ययैः । व्यधाद्धिषयदोषेण महानर्थपरस्पराम्‌ ॥ १९८ ॥ विहारे निवसन्नेकः किंनरग्रामवर्तिनि । तस्य योगबलात्कोपि श्रमणोपाहरस्मरियाम्‌ ॥१९९ ॥ विहाराणां सदखाणि तत्कोपान्निदैदाह सः । अजिग्रहंच्च तद्भामान्दिजेमेभ्यमटाध्रयेः ॥ २०० ॥ ऋद्धापणं राजपथेर्नोयानोङ्वरनिस्नगम्‌ । स्फीतपुष्पफोद्यानं स्वगेस्येवाभिधान्तरम्‌ ॥ २०१ ॥ दिग्जयोपार्जितै्र्विर्तैजितवित्तेशापत्तनम्‌ । वितस्तापुकिने तेन नगरं निरमीयत ॥ २०२ ॥ युगर्कम्‌ ॥ तन्नैकस्मिन्किलोदयाने स्वच्छस्वादुजलाश्चितम्‌ । आसीत्सुश्रवसो नास्नो नागस्य वसतिः सरः ॥ २०३ ॥ कदाचित्तस्य दुराध्वङ्कान्तो मध्यंदिने युवा । छायार्थी तत्सरःकच्छं विशाखाख्योविशद्धिजः ॥ २०४ ॥ सच्छायपादपतङे समीरे; रामितङ्कखमः। दानेजैलमुपस्पृदय भोक्त सक्तृन्प्रचक्रमे ॥ २०५ ॥ तान्पाणौ गृह्णतेवाथ तेन तीरविहारिभिः। पूर्वमाकर्णितो हंसैः शुश्रुवे नुपुरध्वनिः ॥ २०६ ॥ निर्गते मञ्जरीङुञ्ञादपश्यत्पुरतस्ततः । कन्ये नीटनिचोलिन्यौ स केचिच्चारुलोचने ॥ २०७ ॥ कर्णिकापद्मरागाज्ञनाटलीखायितस्प्रुशा। मनोज्ञधचलापाङ्गे तनीयोञ्जनरेखया ॥ २०८ ॥


१ कदाचिदथ इति पाठः स्यात्‌ । प्रथमस्तरङ्गः ।

हारिनेत्राञ्चलैर्मन्दमारुतान्दोलनाकुलैः ।
सनाथांसयुगे रूपपताकापल्लवैरिव ॥ २०९ ॥
तिलकम् ॥
ते शशाङ्कानने दृष्ट्वा शनैरभ्यर्णमागते ।
विररामाशनारम्भान्मुहुव्रडाजडीकृतः ॥ २१० ॥
भुञ्जाने कच्छगुच्छानां शिम्बीरम्बुजलोचने ।
ते पुनर्दृष्टवानग्रे किंचियापारितेक्षणः ॥ २११ ॥
आकृतेर्हा धिगीदृश्या भोज्यमेतदिति द्विजः ।
ध्यायन्कृपार्द्रः संमान्य स ते सक्तूनभोजयत् ॥ २१२ ॥
उपनिन्ये च संगृह्य पुटकैश्चटसीकृतैः ।
तयोः पानाय पानीयं सरसः स्वच्छशीतलम् ॥ २१३ ॥
आचान्ते शुचितां प्राप्ते कृतासनपरिग्रहे ।
ततश्च वीजयन्पर्णतालवृन्तैरभाषत ॥ २१४ ॥
भवत्यौ पूर्वसुकृतैः कैश्चित्संप्राप्तदर्शनः ।
चापलाद्विप्रसुलभात्प्रष्टुमिच्छत्ययं जनः ॥ २१५ ॥
कल्याणिनीभ्यां कतमा पुण्या जातिः परिष्कृता ।
कुत्र वा क्लान्त मेताइग्विरसं येन भुज्यते ॥ २१६ ॥
एका तमूचे विद्ध्यावामस्य सुश्रवसः सुते ।
स्वादु भोक्तव्यमप्राप्तं किमीहङ्गोपभुज्यते ॥ २१७ ॥
पित्रा विद्याधरेन्द्राय प्रदातुं परिकल्पिता ।
इरावत्यहमेषा च चन्द्रलेखा यवीयसी ॥ २१८ ॥
पुनर्द्विजोभ्यधादेवं नैष्किचन्यं किमस्ति वः ।
ताभ्यामवादि तातोत्र हेतुं वेत्ति स पृच्छ्यताम् ॥ २१९ ॥
ज्येष्ठेत्र कृष्णद्वादश्यां यात्रायै तक्षकस्य तम् ।
आगतं चूलया तोयस्यन्दिन्या ज्ञास्यसि ध्रुवम् ॥ २२० ॥

२०

राजतरङ्गिणी

द्रक्ष्यस्यावामपि तदा तदभ्यर्णकृतस्थिती ।
इत्युक्त्वा फणिकन्ये ते क्षणादास्तां तिरोहिते ॥ २२१ ॥
क्रमात्प्रववृते सोथ नटचारणसंकुलः ।
प्रेक्षिलोकसमाकीर्णस्तत्र यात्रामहोत्सवः ॥ २२२ ॥
द्विजोपि कौतुकाकृष्टः पर्यटन्रङ्गमञ्जसा ।
कन्योक्तचिह्नज्ञातस्य नागस्यान्तिकमाययौ ॥ २२३ ॥
पार्श्वस्थिताभ्यां कन्याभ्यां पूर्वमावेदितोथ सः ।
द्विजन्मने व्याजहार स्वागतं नागनायकः ॥ २२४ ॥
ततः कथान्तरे क्वापि पृष्टः कारणमापदाम् ।
जगाद तं द्विजन्मानं निःश्वस्य श्वसनाशनः ॥ २२५ ॥
अभिमानवतां ब्रह्मन्युक्तायुक्तविवेकिनाम् ।
युज्यतेवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ २२६ ॥
परदुःखं यदाकर्ण्य स्वभावसुजनो जनः ।
उपकारासमर्थत्वात्प्राप्नोति हृदयव्यथाम् ॥ २२७ ॥
वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभि-
र्व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः ।
गर्योपायनिषेवणं कथयति स्थास्तुं वदन्व्यापदं
श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः ॥ २२८ ॥
अत एव विवेक्तॄणां यावदायुः स्वमानसे ।
जीर्णानि सुखदुःखानि दहत्यन्ते चितानलः ॥ २२९ ॥
कः स्वभावगभीराणां लक्षयेद्वहिरापदम् ।
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ २३० ॥
तदस्मिन्नेतयोर्बाल्याद्वस्तुनि व्यक्तिमागते ।
तवाग्रे गोपनं साधो न ममाप्युपपद्यते ॥ २३१ ॥


त्वयाप्यस्मद्वितार्थाय निसर्गसरलात्मना ।
ईषत्प्रयासः कल्याणिक्रियतां यदि शक्यते ॥ २३२ ॥
योयं तरुतले मुण्डश्चूडालो दृश्यते व्रती ।
अमुना सस्यपालेन कांदिशीकाः कृता वयम्‌ ॥ २३३ ॥
अभुक्ते मात्त्रिकैरन्ने नवे नागैर्न भुज्यते ।
अयं नात्ति च तत्तेन समयेन हता वयम्‌ ॥ २३४ ॥
क्षेत्रणि रक्षत्येतस्मिन्दृष्ट्वापि फ़लसमंपदम् ।
भोक्तुः नैव समर्थाः स्मः प्रेता इव सरिज्रलम्‌ ॥ २३५ ॥
तथा कुरु यथा भ्रश्येत्समयादेष नैष्ठिकः ।
योग्यां प्रतिक्रियां विद्मो वयमप्युपकर्तृषु ॥ २३६ ॥
स तथेति ततो नागमुक्त्वा यत्नपरो द्विजः ।
अचिन्तयद्दिदिवारारत्रौ सस्यपालस्य वञ्चनाम्‌ ॥ २३७ ॥
गूढं तस्य बहिःक्षेत्रकुटिगर्हभकृतस्थितेः ।
पच्यमानान्नभाण्डान्तर्नवान्नान्यक्षिपत्ततः ॥ २२३८ ॥
भुञ्ञान एव तत्तस्मिन्क्षणादेव जहार सः ।
अहीन्द्रः करकासारवर्षी स्फीतां फलश्रियम् ॥ २३९ ॥
तं च व्युत्कान्तदारिद्द्रःसरसोभ्यर्णमागतम्‌ ।
कृतोपकारमन्येद्युर्निजोर्वीमनयद्धिजम्‌ ॥ २४० ॥
स तत्र पितुरादेशात्कन्याभ्यां विहितार्हणः।
अमर्त्यसुलभैर्भौगैरतोष्यत दिने दिने॥ २४१ ॥
कालेन सर्वानामरत्र्य स्वां भुवं गन्तुमुद्यतः ।
प्रतिश्वुतवरं नागं चन्द्रलेखामयाचत ॥ २४२ ।।
संबन्धायोग्यमपि तं कृतज्ञत्ववशंदः ।
संविभेजे स भुजगः कन्यया च धनेन च ॥ २४३ ॥


 



एवं नागवरावाप्तश्रियस्तस्य द्विजन्मनः ।
महान्नरपुरे कालस्तैस्तैर्नित्योत्सवैर्ययौ ॥ २४४ ॥
भुजगेन्द्रतनूजापि तं पतिं पतिदेवता ।
अतोषयत्परार्ध्यश्रीः शीलाचारादिभिर्गणैः ॥ २४५ ॥
तस्यां कदाचित्धासौधाग्र्स्तितायां प्राङ्ग्नाद्वहिः।
आतपायोज्झितं वुभुजे विहरन्हयः ॥ २४६ ॥
तं वारयितुमाहुता भृत्या नासन्ग्रहे यदा ।
शिञ्जानमञ्जीरा सा तदावातरत्स्वयम्‌ ॥ २७७ ॥
एकरहस्तधृतावेगस्र्स्तशीर्षसुकान्तया ।
तया पाणिसरोजेन धावित्वा सोथ ताडितः ॥ २४८ ॥
भोज्यमुत्सृज्य यातस्य फणिस्त्रीस्पर्शतस्ततः ।
सौवर्णीं पाणिमुद्राङ्के तुरगस्योदपद्यत ॥ २४९ ॥
तसिन्काले नरो राजा चारैस्तां चारुलोचनाम्‌ ।
श्रुत्वा द्विजवधूं तस्थौ प्रागेवाङ्करितस्मरः ॥ २५० ॥
तस्य धावन्तमुन्मत्तमन्तःकरणवारणम्‌ ।
वखान्नियमितुं नासीदपवादभयाङ्कुशः ॥ २५१ ॥
तस्मिन्नुदृत्तरागाग्निविप्लनवे भूपतेः पुनः ।
उवाह हयदत्तान्तो दृप्तवातानुकारिताम्‌ ॥ २५२ ॥
चक्रे पर्यस्तमयांदः सरखाङ्कुकिरोभिना ।
स काञ्चनकराङ्केण शशङ्कनेव वारिधिः ॥ २५२ ॥
व्रीडानिगडनिर्मुक्तो दूतैराकृतशंसिभिः।
तामुपच्छन्दयन्सोथ सुन्दरीमुदवेजयत्‌ ॥ २५४ ॥
सर्वोपायैरसाध्यां च विप्रस्तत्पतिरप्यसौ ।
तेनायाच्यत लुव्धेन रागान्धानां कुतस्त्रपा ॥ २५५ ॥



१ मुद्राङे इत्युचितम्‌ । २ अल नियमितुं इति स्यात्‌ ।


अथ निर्भर्त्सनां तस्मादपि प्राप्तवतासकृत्‌ ।
हठेन हंर्तु तां राज्ञा समादिश्यन्त सैनिकाः ॥ २५६ ॥
तैर्गृहाग्रे कृतास्कन्दो निर्गत्यान्येन वर्त्मना ।
त्राणार्थी नागभवनं सजानिः प्राविशद्धिजः ॥ २५७ ॥
ताभ्यामभ्येत्य वृत्तान्ते ततस्तस्मिन्निवेदिते ।
कोधान्धः सरसस्तस्मादुज्ज्गाम फणीश्वरः ॥ २५८ ॥
उद्ग्रर्जज्जिह्यजीमूतजनितध्वान्तसंततिः।
स घोराशनिवर्षेण ददाह सपुरं नृपम्‌ ॥ २५९ ॥
दग्धप्राण्यङ्गविगलद्वसासृक्स्त्रेहवहिनी ।
मयूरचन्द्रकाङ्केव वितस्ता समपद्यत ॥ २६० ॥
शरणाय प्रविष्टानां भयाच्चक्रधरान्तिकम्‌ ।
मुहूर्तान्निरह्वन्तसहस्राणि शरीरिणाम्‌ ॥ २६१ ॥
मधुकैटभयोर्भेदः प्रगूर्वोरिव चक्रिणम्‌ ।
दग्धानां प्राणिनां तत्तत्तदा सर्वाङ्गमस्पृशत् ॥ २६२ ॥
स्वसा सुश्रवसो नागी रमण्याख्याद्व्रिगह्वरात्‌ ।
सहायकायाश्मराशीन्समादाय तदाययौ ॥ २६२ ॥
सा योजनाधिके शेषे मार्गस्यारात्सहोदरम्‌ ।
कृतकार्यं निशम्याश्मवर्षं ग्रामेषु तज्जहौ ॥ २६४ ॥
योजनानि ततः पञ्च जाता ग्रामधरा खिला ।
सा रमण्यटवीत्यध्याप्यस्ति स्थूलशिलाविला ॥ २६५ ॥
घोरं जनक्षयं कत्वा प्रातः सानुशयोप्यहिः ।
लोकापवादनिर्विण्णः स्थानमुत्सृज्य तद्योयौ ॥ २६६ ॥
दुग्धाब्धिधवलं तेन सरो दूरगिरौ कृतम्‌ ।
अमरेश्वरयात्रायां जनैरद्यापि दृश्यते ॥ २६७ ॥




श्वशुरानुग्रहान्नागीभूतस्यापि द्विजन्मनः ।
जामातृसर इत्यन्यत्तत्र च प्रथितं सरः ॥ २६८ ॥
प्रजानां पालनव्याजान्निःशङ्कक्षयकारिणः ।
अकस्मादन्तकाः केचित्संभवन्ति तथाविधाः ॥ २६९ ॥
अद्यापि तत्पुरं दग्धं श्वभ्रीभूतं च तत्सरः ।
उपचक्रधरं दृष्ट्वा कथेयं स्मर्यते जनैः ॥ २७० ॥
राज्ञां रागः कियान्नाम दोषः स्वल्पदृशां मते ।
तत्तस्य तेन संवृत्तं यन्नाभूत्कापि कस्यचित्‌ ॥ २८७१ ॥
सतीदैवतविप्राणामप्येकस्य प्रकोपतः ।
श्रुतो हि प्रतिवृत्तान्तं त्रैलोक्यस्यापि विप्लवः ॥ २७२ ॥
चत्वारिंशतमब्दान्स मासैश्चोनां त्रिभिः समाम्‌ ।
भुवं भुक्त्वा क्षितिवृषा दुर्नयेन क्षयं ययौ ॥ २७३ ॥
अप्यल्पकालसंदृष्टप्रकारातट्टालमण्डलम्‌ ।
तत्किनरपुरं लेभे गन्धर्वनगरोपमाम्‌ ॥ २७४ ॥
एकस्तु तनयस्तस्य वैचित्र्यात्कर्मणां गतेः ।
स्वधात्र्या विजयक्षेत्रं नीतः प्राणैर्ने तत्यजे ॥ २७५ ॥
राजा सिद्धाभिधः सोथ तथा निःशेषितं जनम्‌ ।
नवीचकार जलदो दावदग्धमिवालम्‌ ॥ २७६ ॥
इतिवृत्तं महाश्चर्यं तस्य पित्र्यं महामतेः 1
संसारासारताज्ञाने प्राप पुण्योपदेशाताम्‌ ॥ २.७७ ॥
भोगयोगेन मालिन्यं नेतुं मध्यगतोपि सः।
न शक्यते स्म पङ्केन प्रतिमेन्दुरिवामलः ॥ २७८ ॥
दर्पज्वरोष्णभूपालमध्ये निर्ध्यायतोनिदशम्‌ ।
सुधासूतिकलामौलि तस्यैवोल्लाघतोद्यौ ।॥ २७९. ॥


गणितं गुणिना तेन मणींस्तृणमिवोज्झता ।
खण्डेन्दुमण्डनार्चायां मण्डनत्वमखण्डितम्‌ ॥ २८० ॥
राज्ञस्तस्यैव राजश्रीः परलोकानुगाभवत्‌ ।
यस्तामयोजयद्धूर्तो धर्मेणाव्यभिचारिणा ॥ २८१ ॥
षष्टिमब्दान्प्रशास्योर्वीमासन्नानुयुचरान्वितः ।
आरुरोह सदेहोसौ लोकाञ्शशिशिखामणेः ॥ २८२ ॥
भृत्या नरं समाश्रितः प्रययुः शोचनीयनाम्‌ ।
तत्सुतं तु समालम्ब्य परभुं भुवनवन्यताम्‌ ॥ २८३ ॥
यात्याश्रितः किल समाश्रयणीयलभ्यां
निन्द्यां गतिं जगति सर्वजनार्चितां वा ।
गच्छत्यधस्तृणगुणः श्रितकूपयन्नः
पुष्पाश्रयी सुरशिरोभुवि रूढिमेति ॥ २८४ ॥
सिद्धः सिद्धः सदेदोयमिति शब्दं सुरा दिवि।
प्रोद्धोषयंस्ताडयन्तः पटहं सप्त वासरान् ॥ २८५ ॥
उत्पलाक्ष इति ख्यातिं पेशलाक्षतया गतः ।
तत्सूनुस्त्रिंशतं सार्धा वर्षाणामन्वशान्महीम्‌ ॥ २८६ ॥
तस्य सूनुर्हिरण्याक्षः स्वनामाङ्कं पुरं व्यधात्‌ ।
क्ष्मां सप्तत्रिंशतं वर्षान्सप्त मासांश्च भुक्तवान्‌ ॥ २८७ ॥
हिरण्यकुल इत्यस्य हिरण्योत्सकृदात्मजः ।
षष्टिं षष्टिं वसुकुलस्तत्सूनुरभवत्समाः ॥ २८८ ॥
अथ स्लेच्छगणाकीर्णे मण्डे चण्डचेष्टतः ।
तस्यात्मजोभून्मिहिरकुलः कालोपमो नृपः ॥ २८९. ॥
दक्षिणां सान्तकामाशां स्पर्धया जेतुमुद्यता ।
यन्मिषादुत्तरहरिदभारान्यमिवान्तकम्‌ ॥ २९० ॥





        

सांनिध्यं यस्य सैन्यान्तर्हन्यमानाशनोत्सुकान्‌ ।
अजानन्गृध्रकाकादीन्दृष्ट्वाग्रे धावतो जनाः ॥ २९१ ॥
दिवारात्रं हतप्राणिसहस्रपरिवारितः|
योभूद्भूपालवेतालो विलासभवनेष्वपि ॥ २९२ ॥
बालेषु करुणा स्त्रीषु धृणा वृद्धेषु गौरवम्‌ ।
न बभूव नृशंसस्य यस्य घोराकृतेर्घ्नतः ॥ २९२ ॥
स जातु देवीं संवीतसिंहलांशुककञ्चुकाम्‌ ।
हैमपादाङ्कितकुचां दृष्टा जज्वाल मन्युना ॥ २९४ ॥
सिहलेषु नरेन्द्राङ्घ्रिमुद्राङ्ककः क्रियते पटः ।
इति कञ्चुकिना पृष्टेनोक्तो यात्रामदात्ततः ॥ २९५ ॥
तत्सेनाकुभ्मिदानाम्भोनिम्नगाकृतसंगमः ।
यमुनालिङ्गनप्रीतिं प्रयेदे दक्षिणार्णवः ॥ २९६ ॥
स सिहलेन्द्रेण समं संरम्भादुदपाटयत्‌ ।
चिरेण चरणस्पृष्टप्रियालोकनजां रुपम्‌ ॥ २९७ ॥
दूरात्तत्सैन्यमालोक्य लङ्कासौधैर्निशाचराः ।
भूयोपि राघवोद्योगमाशङ्क्य प्रचकम्पिरे ॥ २९८ ॥
स तत्रान्यं नृपं दत्त्वा तीव्रशक्तिरुपाहरत्‌ ।
पटं यमुषदेवाख्यं मार्ताण्डप्रतिमाङ्कितम्‌ ॥ २९९ ॥
व्यावृत्त्य चोलकर्णाटलाटादींश्च नरेश्वरान्‌ ।
सिन्धुरानिव गन्धेनैव गन्धेनैव व्यदारयत्‌ ॥ ३०० ॥
तस्मिन्प्रयते प्राप्तेभ्यः श्शंसुस्तत्पराभवम्‌ ।
नगर्यो नरनाथेभ्यस्त्रुट्यदट्टलमे खलाः ॥ ३०१ ॥
काश्मीरं द्वारमासाद्य श्वभ्रभ्रष्टस्य दन्तिनः ।
श्रुत्वा स त्रासजं घोषं तोषरोमाश्चितोभवत्‌ ॥ ३०२ ॥

तदाकर्णनसंरम्भे सहर्षोथ विरुद्धधीः ।
शतमन्यद्गजेन्द्राणां हठेन निरलोठयत्‌ ॥ ३०३ ॥
स्पर्शाोङ्गानि यथा वाचं कीर्तनं पापिनां तथा ।
संदूषयेदतो नोक्ता तस्यान्यापि नृशंसता ॥ ३०४ ॥
को वेत्त्यद्भुतचेष्टानां कृत्यं प्राकृतचेतसाम्‌ ।
धंर्म सुकृतसंप्राप्तिहेतोः सोपि यदाददे ॥ ३०५ ॥
श्रीनगर्यां हि दुर्बुद्धिर्विदधे मिहिरेश्वम्।
होलाडायां स मिहिरपुराख्यं पृथुपत्तनम्‌ ॥ ३०६ ॥
अग्रहाराञ्जगृहिरे गान्धारा ब्राह्मणास्ततः ।
समानशीलास्तस्यैव ध्रुवं तेपि द्विजाधमाः ॥ ३०७ ॥
मेधागमः फणिभुजं प्रथितान्धकारः
प्रीणाति हंसममलो जलदात्ययश्च ।
प्रीतेः समानरुचितैव भवेन्नितान्तं
दातुः प्रतिग्रहकृतश्च परस्परस्य ॥ ३०८ ॥
स र्वषसप्ततिं भुक्त्वा भुवं भूलोकभैरवः ।
भूरिरोगार्दितवपुः प्राविशज्जातवेदसम्‌ ॥ ३०९ ॥
सोयं त्रिकोटिहा मुक्तो यः स्वात्मन्यपि निर्घृणः।
देहत्यागेस्य गगनादुच्चचारेति भारती ॥ ३९० ॥
इत्यूचुर्ये मते तेषां स एव परिहारदः ।
खण्डयन्वीतघृणतामग्रहारादिकर्मेभिः ॥ ३११ ॥
आकान्ते दारदैर्भौट्टैर्म्च्छैरशुचिकर्मभिः।
विनष्टधर्मे देशेसिन्पुण्याचारप्रवर्तनम्‌ ॥ ३१२ ॥
आर्यदेदयान्स संस्ठाप्य व्यतनोद्दारुणं तपः ।
संकल्प्य स्ववपुर्दाहं प्रायश्चित्तक्रियां व्यधात्‌ ॥ ३९३ ॥


२८

राजतरङ्गिणी

अत एवाग्रहाराणां सहस्रं प्रत्यपादयत् ।
गान्धारदेशजातेभ्यो द्विजेभ्यो विजयेश्वरे ॥ ३१४ ॥
क्षुरखड्गासिधेन्वादिपूर्णेयः फलके तदा ।
वह्निप्रदीप्ते सहसा पर्यन्ते स्वां तनुं जहाँ ॥ ३१५ ॥
इत्येतस्मिञ्जनाम्नाये केचिदव्यभिचारिणि ।
प्राहुः पुरुषसिंहस्य क्रौर्य तस्याविगर्हितम् ॥ ३१६ ॥
कुलकम् ॥
ये नागेन रुषा पुष्टे नगरे प्राभवन्खशाः ।
तेषां नाशाय वृत्तान्तं पूर्वोक्तं जगदुः परे ॥ ३१७ ॥
अवतारयतस्तस्य चन्द्रकुल्याभिधां नदीम् ।
अशक्योन्मूलना मध्ये शिलाभूद्विघ्नकारिणी ॥ ३१८ ॥
ततः कृततपाः स्वप्ने देवैरुक्तः स भूपतिः ।
यक्षः शिलायां बलवान्ब्रह्मचार्यत्र तिष्ठति ॥ ३१९ ॥
साध्वी स्पृशति चेदेनां निरोद्धुं न स शक्नुयात् ।
ततोपरेधुः स्वप्नोक्तं शिलायां तेन कारितम् ॥ ३२० ॥
तासु तासु कुलस्त्रीषु व्यर्थयत्नास्वथाचलत् ।
चन्द्रवत्याख्यया स्पृष्टा कुलाल्या सा महाशिला ॥ ३२१ ॥
कोटित्रयं नरपतिः क्रुद्धस्तेनागसा ततः ।
सपतिभ्रातृपुत्राणामवधीत्कुलयोषिताम् ॥ ३२२ ॥
इयं चान्यमते ख्यातिः प्रथते तथ्यतः पुनः ।
अभव्या सनिमित्तापि प्राणिहिंसा गरीयसी ॥ ३२३ ॥
एवं क्षुद्रोपि यद्राजा संभूय न हतो जनैः ।
तत्कर्म कारयद्भिस्तदैवतैरेव रक्षितः ॥ ३२४ ॥
प्रजापुण्योदयैस्तीवैश्चिरात्तस्मिन्क्षयं गते ।
एकस्तत्प्रभवः पौरैः सदाचारोभ्यषिच्यत ॥ ३२५ ॥

१ बकः इत्युचितम् | प्रथमस्तरङ्गः ।

तत्रापि पूर्वसंस्कारादुक्तत्रासं दधे जनः ।
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ ३२६ ॥
अतिसंतापदाजातः स जनाह्लादकोभवत् ।
जलौघो जलदश्यामात्तापात्ययदिनादिव ॥ ३२७ ॥
लोकान्तरादिवायातं मेने धर्म तदा जनः ।
अभयं च परावृत्तं प्रवासाङ्गहनादिव ॥ ३२८ ॥
स बकेशं बकश्वभ्रे बकवत्यापगां तथा ।
कृत्वा पुरं परार्ध्यश्रीलवणोत्साभिधं व्यधात् ॥ ३२९ ॥
तत्र त्रिषष्टिर्वर्षाणां सत्रयोदशवासरा ।
अत्यवाह्यत भूपेन तेन पृथ्वीं प्रशासता ॥ ३३० ॥
अथ योगेश्वरी काचिद्वट्टाख्या रजनीमुखे ।
कृत्वा कान्ताकृति काम्यामुपतस्थे विशां पतिम् ॥ ३३१ ॥
तया मनोहरैस्तैस्तैर्वचनैर्लपितस्मृतिः ।
स यागोत्सवमाहात्म्यं द्रष्टुं हृष्टो न्यमत्र्यत ॥ ३३२ ॥
पुत्रपौत्रशतोपेतः प्रातस्तत्र ततो गतः ।
चक्रवर्ती तया निन्ये देवीचक्रोपहारताम् ॥ ३३३ ॥
कर्मणा तेन सिद्धाया व्योमाक्रमणसूचकम् ।
जानुमुद्राद्वयं तस्या दृषद्यद्यापि दृश्यते ॥ ३३४ ॥
देवः शतकपालेशो मातृचक्रं शिला च सा ।
खेरीमठेषु तद्वार्तास्मृतिमद्यापि यच्छति ॥ ३३५ ॥
देव्या कुलतरोः कन्दः क्षितिनन्दोवशेषितः ।
ततस्तस्य सुतस्त्रिंशद्वत्सरानन्वशान्महीम् ॥ ३३६ ॥
द्वापञ्चाशतमब्दान्क्ष्मां द्वौ च मासौ तदात्मजः ।
अपासीद्वसुनन्दाख्यः प्रख्यातस्मरशास्त्रकृत् ॥ ३३७ ॥

२९ ३० राजतरङ्गिणी

नरः षष्टिं तस्य सुनुस्तावतोक्षश्च तत्सुतः ।
वर्षानभूद्विभुर्ग्रामं योक्षवालमकारयत् ॥ ३३८ ।
जुगोप गोपादित्योथ क्ष्मां सद्वीपां तदात्मजः ।
वर्णाश्रमप्रत्यवेक्षादर्शितादियुगोदयः ॥ ३३९ ॥
सखोलखागिकाहाडिग्रामस्कन्दपुराभिधान्
शमाङ्गासमुखांश्चाग्रहारान्यः प्रत्यपादयत् ॥ ३४०
ज्येष्ठेश्वरं प्रतिष्ठाप्य गोपाद्वावार्यदेशजाः |
गोपाग्रहारान्कृतिना येन स्वीकारिता द्विजाः ॥ ३४१ ॥
भूक्षीरवाटिकायां यो निर्वास्य लशुनाशिनः ।

खासटायां व्यथान्विप्रान्निजाचारविवर्जितान् ॥ ३४२ ॥
अन्यांश्चानीय देशेभ्यः पुण्येभ्यो वश्चिकादिषु ।
पावनानग्रहारेषु ब्राह्मणान्स न्यरोपयत् ॥ ३४३ ॥
उत्तमो लोकपालोयमिति लक्ष्म प्रशस्तिषु ।
यः प्राप्तवान्विना यज्ञं चक्षमे न पशुक्षयम् ॥ ३४४ ॥
सषदिनां वर्षषष्टिं पालयित्वा स मेदिनीम् ।
भोक्तुं पुण्यपरीपाकं लोकान्सुकृतिनामगात् ॥ ३४५ ॥
गोकर्णस्तत्सुतः क्षौणीं गोकर्णेश्वरकृद्दधे ।
अष्टपञ्चाशतं वर्षात्रिंशत्याहां विवर्जितान् ॥ ३४६ ॥
सूनुर्नरेन्द्रादित्योस्य खिसिलान्याभिधोभवत् ।
भूतेश्वरप्रतिष्ठानामचविण्याश्च कारकः ॥ ३४७ ॥
दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात् ।
उग्रेशं मातृचक्रं च प्रभावोद्ग्रविग्रहः ॥ ३४८ ॥
भूत्वा षशितं वर्षाञ्शतं चाह्नां विभुर्भुवः |
स दीर्घेरनघाल्लोकानासदत्सुकृतैः कृती ॥ ३४९ ॥


युधिष्ठिराभिधानोभूदथ राजा तदात्मजः 1
यः सृक्ष्माक्षितया लोकै: कथितोन्धयुधिष्ठिरः ॥ ३५० ॥
तेन क्रमागतं राज्यं सावधानेन शासता ।
अनुजग्मे मितं कालं पूर्वभूपालपद्धतिः ॥ ३५१ ॥
काले कियत्यपि ततो यात्यभाग्यवशादसौ ।
सिषेवे श्रीमदक्षीबो ।यत्किंचनविधयिताम् ॥ ३५२ ॥
नान्वग्रहीदनुग्रह्यन्न । संजग्राह धीमतः ।
न प्रवृत्तोपचाराणं प्रागिवासीत्प्रियंकरः ॥ ३५२३ ॥
दुर्विद्यपर्षदा साकं निर्विशेषं सभाजितैः ।
परिजह्ने स दुर्जातो जाततेजोवधैर्वुधैः॥ ३५४ ॥
सर्वत्र समदृष्टित्वं गुणोयं खलु योगिनः ।
अकीर्तिहेतुः स महान्दोषस्तु पृथिवीपतेः ॥ ३५५. ॥
नयद्भिर्गुणतां दोषान्दोषतां च गुणान्विटैः ।
स लुप्तप्रतिभश्चक्रे शनकैस्त्रीजितोपमः ॥ ३५६ ॥
वाङ्मर्मच्छेदिनी दीर्घं नर्म शश्वत्कथा विटैः ।
अनीश्वरोचिता तस्य क्रिडापि भयदाभवत्‌ ॥ ३५७ ॥
पुरो मिथ्यागुणग्राही परोक्षं दोषदर्शकः ।
असुस्थिरादरो भूभृत्सोभूद्द्वेष्योनुजीविनाम्॥ २३५८ ॥
मनागनवधानेन स्खलतस्तस्य भूपतेः ।
इत्थं राज्यस्थितिरगाद चिरेण विसूत्रताम्‌ ॥ ३५९ ॥
उपेक्षितस्य निर्द्रोहैरयतन्ताजितात्मनः ।
अथ लब्धबलास्तस्य नाशाय द्रोहिमन्न्त्रिणः ॥ ३६० ॥
प्रभोः संकोचिताज्ञैस्तैश्चरद्भिर्निरवग्रहम् ।
राज्यं जिहीर्षवो भूपाश्चक्रिरे भूम्यनन्तराः ॥ २३६१ ॥

तदनुप्रणिताः सर्वे ते ते नानादिगाश्रयाः।
आसन्राज्यामिषं प्राप्तुं श्येना इव ससंभ्रमाः ॥ ३६२ ॥
अथोत्पन्नभयो राजा न शशाक निजस्थितिम्‌ ।
व्यवस्थापयितुं यन्न्रच्युतां कारूः शिलामिव ॥ ३६३ ॥
चिरक्षुण्णे क्षमाभर्तुस्तस्मिन्राज्ये विसंस्थुले ।
उपायोस्य स्थितेर्हेतुनैकः कश्चन प्रपथे ॥ ३६४ ॥
दृष्टदोपान्म्थितिं प्राप्तो हन्यादस्मानसंशयम् ।
विचिन्त्येति न सामास्य जगृहुर्निजमन्त्रिणः ॥ ३६५ ॥
अथ निरुरुधुस्ते संनद्धा बलैर्नृपमन्दिरं
व्यवहितजनाक्रन्दं भेरीरवैरतिभैरवैः।
मदकरिघटाकेतुच्छायानिर्द्धरविप्रभा
भवनवलभीः संतन्वन्तो दिवापि तमोवृताः ॥ ३६६ ॥
तैर्गन्तुं स्वभुवो निवारितरणैर्दत्तेवकाशो तत-
स्त्यक्तश्रीर्नगरान्तरात्स नृपतिस्तात्पर्यतो निर्ययौ ।
आजानेयरजोङ्कराजललनाप्रस्थानसंदर्शन-
क्षुभ्यत्पौरजनाश्रुलाजक्कणिकाकीर्णेन राजाध्वना ॥ २६७ ॥
राज्याच्युतस्य वहुशः परिवाररामाः
कोशादि तस्य रिपवो व्रजतोपजहुः ।
उर्वीरुहो विचलितस्य नगेन्द्रशृङ्गा-
द्वल्लीफलादि रभसादिव गण्डशैलाः ॥ २६८ ॥
रम्यैः शैलपथैर्व्रजञ्श्रमवशाच्छायां श्रितः शाखिना-
मासीनपचलायितेन सुमहदुःखं विसस्मार सः ।
दूरात्पामरपूत्कृतैः श्रुतिपथप्राप्तैः प्रवुद्धस्त्वभू
द्दष्टो निर्झरवारिभिः सह महच्छ्वभ्रे निमज्जन्निव ॥ २६९. ॥


नानावीरुत्तृणपरिमलैरुग्रगन्धा वनोर्वी
रम्भःक्षोभप्रतिहतशिलाः पिछिलाश्र्चाद्रिकुल्याः ।
क्रान्त्वा श्रान्तैर्बिसकिलयच्छायमुग्धाङ्गलेखै-
रभ्युत्सङ्गं निहितनुभिर्मूर्छितं तस्य दारैः ॥३७० ॥
पर्यस्ताद्रितटाद्विलोक्य सुचिरं दूरीभवन्मण्डलं
द्रागामन्त्रयितुं जहत्सु नृपतेर्दारेषु पुष्पाञ्जलीन्‌ ।
क्षोणीपृष्टविकीर्णपक्षति नमतुण्डं स्वनीडस्थितैः
सावेगं गिरिकंदरासु पततां वृन्दैरपि क्रन्दितम्‌ ॥ ३७१ ॥
स्तनयुगतलनद्धस्रस्तमूर्धांशुकानां
त्रिकवलनविलोलं वीक्ष्य दुरात्स्वदेश्म्।
अवहत रुदतीनां मौलिविन्यस्तहस्तं
पथि बलमबलानामस्त्रुभिनिर्झराम्भः॥ ३७२ ॥
प्रितीस्थेर्यरुचितवचनाक्षित्पया शोकशान्त्या
निर्व्याजाज्ञाग्रहणगुरुभिस्तैश्र्च तैश्चोपचरैः ।
तस्य स्नेहादुपगतवतो राज्यविभ्रंशदुःखं
मन्दीचक्रुः स्वभुवि सुजना भूपतेर्भूमिपालाः ।॥ ३७३ ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कृतौ रा-
जतरङ्गिण्यां प्रथमस्तरङ्गः ॥
चतुर्दशाधिकं वर्षसहस्रं नव वासराः ।
मासाश्च विगता ह्यस्मिन्नष्टात्त्रिंशतिराजसु ॥