राजतरङ्गिणी/अष्टमः तरङ्गः
← सप्तमः तरङ्गः | राजतरङ्गिणी अष्टमः तरङ्गः कल्हणः |
अष्टमस्तरङ्गः ।
प्रौढाः कञ्चुकिनो जरद्वरवृषः कुलस्तुषारयुति-
र्नित्याप्तोपि बहिष्कृतः परिकरः सोयं समस्तोप्यहो ।
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा
सा भिन्द्याद्दुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ १ ॥
छन्नकोपप्रसादोभूत्कंचित्कालं नवो नृपः ।
प्राङ्मन्थादिव पाथोधिरव्यञ्जितविषामृतः ॥ २ ॥
सोदरो डामरौघश्च तस्याभूतां भृशोन्मदौ ।
मेघस्येव पुरोवातावग्रहौ स्फूर्तिहारिणौ ॥ ३ ॥
यत्किंचनविधाय्यासीद्धाता यद्यौवनोन्मदः ।
राज्ञो दुष्प्रक्रिया दौःस्थ्यकरी वात्सल्यशालिनः ॥ ४ ॥
सोनिशं हि गजारूढो विकोशासिः परिभ्रमन् ।
आत्तसारां महीं पीतरसां रविरिवाकरोत् ।। ५ ।।
एकीभूतानमून्सर्वान् डामरान्निर्दहाग्निना ।
इत्युक्तं तेन नोर्वीभृत्सत्त्वैकाग्रो वचोग्रहीत् ॥ ६॥
दस्यवो मत्रिसामन्ता द्वैराज्येच्छुः सहोदरः ।
भूर्निष्कोशेत्यभूत्किं न भूपतेस्तस्य संकटम् ॥ ७ ॥
अधिराज्याभिषेकेण सत्कृत्य भ्रातरं ततः ।
पातुं लोहरसंबद्धं प्राहिणोन्मण्डलान्तरम् ॥ ८ ॥
द्विरदायुधपत्त्यश्वकोशामात्यादि स व्रजन् ।
निनाय सर्व वात्सल्यानिषिद्धोग्रजन्मना ॥ ९ ॥
आशङ्कय कोट्टभ्रुत्येभ्य:प्रबेशे प्रत्यवस्थितिम् ।
उत्कर्षजं प्रतापाख्यं सह निन्येब्रवीच्च तान् ॥ १० ॥
कुर्याममुं न्रुपमहं प्रातिहायें समाचरन् ।
नम्रा: स्वभ्रुत्यवत्तस्थुर्भुभुजो भूम्यनन्तराः ॥ १२॥
दिनानि सप्त संरुद्धे मार्गे तदनुयायिनाम् ।
गायनः कनको लब्धान्तरो देशान्तरो ययौ ॥ १२ ॥
वाराणस्यां विजहता निर्वेदात्तेन जीवितम् ।
हर्षभुभर्तुभ्रुत्येषु व्यक्तं निन्ये कृतज्ञता ॥ १३ ॥
ऊर्ध्वाधिरोहमं दाश्चिण्याहस्यूनामुच्चमल: पुनः ।
सेवास्मृत्या खुधीः सेहे चन्दनो भोगिनामिव ॥ १४ ॥
तथा जनकचन्द्रेण दर्पाह्यवह्रुमं तदा ।
राजान्ये डामराश्चासन्यथा नष्टप्रभा इव ॥ १५ ॥
अभयस्योरशाभर्तुस्तनयायामजीजनत् ।
राझ्यां विभवमत्यां यं भोजो हर्षनृपात्मज: ॥ १६ ॥
जातं मृतद्वित्रपुत्रानन्तरं गुरुभिः शिशुम् ।
आयुष्कामैस्तमावद्धाभिक्षाचराभिधम्॥ १७ ॥
ह्यब्दमप्यरिसंतानतन्तुत्वेनाप्रियोचितम् ।
ररक्ष तद्गिरा राजा राज््याश्चाङ्के समार्पयत् ॥ १८ ॥
तिलकम् ॥
तमादाय स्वयं वासौ यावद्राज्येकरोन्मनः ।
तावद्वभारेङ्गितज्ञो नीतिकौटिल्यमुश्चल: ॥ १९. ॥
तुल्योत्साहासहिष्णुत्वादस्मै कुप्यन्तु डामराः ।
एष एवातिसत्काराद्यद्धास्तु विशदाशय: ॥ २० ॥
इति संचिन्त्य स द्वारदित्सां तस्योदघोषयत् ।
यथा विकारं प्रययुर्भीमादेवादयोखिखाः ॥ २१ ॥ `
तेषां तस्य च मात्सर्यं यदापर्याप्तिमाययौ ।
तदान्योन्याश्रिता भृत्या: पणं चक्त्रुर्युयुत्सव: ॥ २२ ॥
दिहक्षु: क्ष्मापतिस्तेषां सेतुपृष्ठे रणं मिथः ।
वार्यमाणोपि सचिवैरारुरोह चतुष्किकाम् ॥ २३ ॥
द्वन्दयुद्धे प्रवृत्ते तु डामरैरुभयाश्रितै: ।
अथ प्रारभ्यताकस्मात्संरब्धैर्दारुणो रणः ॥ २४ ॥
सेतुद्धयाध्वना युद्धे लग्ने राज्ञि सरित्तटात् ।
योधा जनकचन्द्रस्य शरवर्षमवाकिरन् ॥ २५ ॥
यान्तः शराः ससीत्कारास्तेस्पृष्टनृपविग्रहा: ।
मग्रा:स्तम्भेश्वदृश्यन्त कोपेनेव प्रकस्पिनः ॥ २६ ॥
आकृष्य दोर्भ्यां भूपालं वलादिव ततोनुगा: ।
प्रविष्ठा मण्डपद्वारं चक्रिरे निहितार्गलम् ॥ २७ ॥
शस्त्रं जनकचन्द्राद्या भीमादेवादयोपि ते ।
चतुष्किकायां चकृषुस्ततोन्योन्यं जिघांसवः ॥ २८ ॥
तुमुले तत्न शख्याङ्धं भीमादेवानुगोभिनत् ।
तीक्ष्णो जनकचन्द्रस्य कालपाशात्मजोर्जुन: ॥ २९ ॥
स वीक्ष्य स्वं क्षतं द्रहं प्रयुक्तं भूभुजा विदन् ।
पादप्रहारान्विदधे क्रधाद्वरि नृपौकसः ॥ २६० ॥
अभग्रे तत्र संत्रासात्स्नानन्द्रोण्यन्तरं गतम् ।
अधावत्क्र्ष्ट्शस्त्रीको भीमादेवो जिघांसया ॥ ३९ ॥
स्तम्भन्नस्तद्विलोक्य तद्गेहगणनापतिः ।
मध्यं जनकचन्द्रस्य कृपाणेन द्विधा व्यधात् ॥ ३२ ॥
तस्मिन्हते तदनुजौ गग्गसड्डौ प्रधावितौ ।
स एव करवालेनालक्षितोकृत विक्षतौ ॥ ३३ ॥
`
अवभज्य तरुं वज्रं सुचिरं नावतिष्ठते ।
उदग्रकर्मा च पुमान्निहत्यात्युन्नतं रिपुम् ॥ ३४ ॥
स हि द्विभाद्रे तत्राब्दे हर्षान्ताहादनन्तरम् ।
अन्यूनानतिरिक्तैर्यत्रिभिः पक्षैरहन्यत ॥ ३५. ॥
यद्वोपकर्तुंरप्येष द्रोहं यत्स्वामिनो व्यधात् ।
औत्कट्यात्पाप्मनस्तस्य क्षिप्रमेव क्षयं ययौ ॥ ३६ ॥
सान्तस्तोषे कोपशोकावाविष्कुर्वति कृत्रिमौ ।
भीमादेवः पलायिष्ट गग्गस्तु व्यश्वसीन्नृपे ॥ ३७ ॥ `
प्रहिते लोहर गग्गे स्वमुल्लाघयितुं क्षतम् ।
त्रस्तास्तेन व्यसृज्यन्त स्वोर्वीरन्येपि डामराः ॥ ३८ ॥
उपायापकृतैः प्राप्तराज्यं दस्युभिरुज्झितम् ।
एवं हानैरवष्म्भं भेजे भूपतिरुचलः ॥ २९ ॥
तेनाथ लबधस्थैर्येण् दिनैरेव जिगीषुणा ।
त्याजिताः क्रमराज्यान्तर्हयसैन्यादि डामराः ॥ ४० ॥
ततो मडवराज्यं स प्रस्थितो विप्रप्रियान्
डामरान्कालियमुखा न्बद्ध्वा शूले व्यपादयत् ॥ ४१ ॥
इल्लाराजोपि बलवांस्तेन कान्तक्षितिः क्रमात् । `
बलैर्नगर एवोग्रैरवस्कन्देन घातितः ॥ ४२ ॥
प्राग्जन्म प्रेमसंस्कारादन्तरज्ञतयाथवा ।
तस्य पुत्र इव प्रीतिर्गग्ग एव व्यवर्धत ॥ ४३ ॥
न सेहे नाममात्रं यः कण्टकानां प्रियप्रजः ।
छपो गग्गाय चुक्रोध सापराधाय न कचित् ।॥ ४४ ॥
राज्यारम्भेनुयुक्तेन भीमादेवेन धीमता ।
उक्ते शुभावहे शिक्षे दे स मनत्रवदस्मरत् ॥ ४५ ॥
एकया लोकवार्तार्थ प्राह्वात्प्रभृति निर्गतः ।
बहिरुद्दिश्य बाह्यालीरचारीदादिनक्षयम् ॥ ४६ ॥
अन्ययोत्थानशीलेन श्रुत्वा नामापि वैरिणः ।
अर्धरात्रेपि यात्राभिस्तेनाच्छिद्यत विप्लवः ॥ ४७ ॥
तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये मनस्विनः ।
कार्पण्योपहतं वृत्तं नाप्यभूदमलीमसम् ॥ ४८ ॥
अद्योच्चलसदाचारजाहवीजलमज्जनात् ।
कुनृपोदीरणोद्भूतो गिरः पाप्मापनेष्यते ॥ ४९ ॥
तेनानुपचिताङ्गेन प्रायशो विनिवारिताः ।
अनूरुणेव सदृष्टिध्वंसिनो ध्वान्तसंचयाः ॥ ५० ॥
प्रायोपविष्टप्रमये देहत्यागप्रतिज्ञया ।
निबद्धया प्रत्यवेक्षां धर्माध्यक्षानकारयत् ॥ ५१ ॥
निशम्य कृपणस्यार्ते ऋन्दितं तदनिष्टकृत् ।
बभूव तस्य स्वात्मापि नानिग्राह्यो महात्मनः ॥ ५२ ॥
कार्यिणो यस्य वा दोषादार्ताऋन्दितमुद्ययौ ।
तस्य स्वबान्धवाक्रन्दैस्तस्मिन्क्रुद्धे शशाम तत् ॥ ५३ ॥
अवलानुग्रहव्यग्रे तस्मिन्न्राजनि सर्वतः ।
वास्तव्या बलिनस्तस्थुरवलास्त्वधिकारिणः ॥ ५४ ॥
सोश्वेनैकश्चरन्नाजेत्यज्ञात्वा कथितं जनैः ।
यं यं स्वदोषमश्रौषीत्तं तं त्वरितमत्यजत् ॥ ५५ ॥
येन केनापि संप्राप्तः प्राप्युपायेन पार्थिवः ।
अमोघदर्शन: सोभूत्कल्पवृक्ष इवार्थिनाम् ॥ ५६ ॥
सुधावर्षी प्रियालापप्रीतिदायैर्जनप्रियः ।
नाशकत्सेवकांस्त्यतुं विस्रम्भभवनेष्वपि ॥ ५७ ॥
राजतरङ्गिणी
श्लाघ्यश्रमैः प्रतिकलं तस्य सेवाविधायिभिः ।
प्राप्तं त्रिचतुरान्वारान्क्षणदास्वपि दर्शनम् ॥ ५८ ॥
सेव्यमानः सदाक्षिण्यः क्षणेनैव फलप्रदः ।
कस्यैन्द्रजालिकैरुप्तः शाखीव न बभूव सः ॥ ५९ ॥
वास्तव्यानां निशम्यार्ति तेन दैन्यनिवारणम् ।
चक्रे पित्रेव पुत्राणां संत्यक्तेतरकर्मणा ॥ ६० ॥
स्वसंचितानि सोन्नानि विक्रीणानोल्पवेतनैः ।
दुर्भिक्षमुद्गतावेव जघान जनवत्सलः ॥ ६१ ॥
निवार्य चौर्याचरणात्कृपाईस्तस्करानपि ।
कोशाध्यक्षान्स विद्धञ्चकारागर्ह्यजीविकान् ॥ ६२ ॥
कः संविभाग्य छेत्तव्या विपदः कस्य मण्डले ।
इत्यन्विष्यन्सदैकैकं चारैश्चिन्तापरोभवत् ॥ ६३ ॥
तस्यैकोप्यर्थनैस्पृह्यं नाम कोपि महान्गुणः ।
अनुषक्तो गुणैस्तैस्तै राज्ञः पल्लवितोभवत् ॥ ६४ ॥
स स्थित्यै दण्डयन्दण्ड्यानघालेषभयाद्धनम् ।
तेषां नादत्त सत्कर्म शुद्धये तांस्त्वकारयत् ॥ ६५ ॥
प्रस्तुतस्यार्थिने दातुं वस्तु तस्यैकसंख्यया |
सहस्रसंख्यया दानश्रद्धागात्पूर्णतां यदि ॥ ६६ ॥
श्रूयतेर्थी यथा मह्यं देहि देहीति गां वदन् ।
तथास्मै देहि देहीति वदन्दाता स शुश्रुवे ॥ ६७ ॥
अनुदात्तं क्षिप्तकालं क्षीणसंख्यमसत्कृतम् ।
नेतृदूतादिनीतार्थं न तद्दत्तमदृश्यत ॥ ६८ ॥
उत्सवे दैन्यविज्ञप्तौ रञ्जने कार्यसाधने ।
आलेख्यलीनशाखीव न सोलभ्यफलोभवत् ॥ ६९ ॥
उत्सवे शिवरात्र्यादौ जनतां सोसिचद्धनैः ।
ग्रहयोगे पयःपूरैर्महेन्द्र इव मेदिनीम् ॥ ७० ॥
ताम्बूलदानव्यसनं परार्ध्यात्सवता तथा ।
नाभूद्धर्षनृपस्यापि तादृक्तस्यास्त यादृशी ॥ ७९ ॥
लोष्टमात्रावशेषेपि लब्धे नृपपदे व्यधात् ।
स दानविभ्रमांस्तान्ये धनदेनापि दुष्कराः ॥ ७२ ॥
निर्माणलोठनैर्धाम्नामजस्रं वाजिनां ऋयैः ।
काश्मीरकोपि चक्रे स न मृत्तस्करसाद्धनम् ॥ ७३ ॥
अध्वन्यध्वनियोगेन प्राणविन्यासनैस्तथा ।
बभूव सर्वकृत्यशः सोन्तरात्मेव देहिनाम् ॥ ७४ ॥
भोगान्राजोचितान्विप्रा भैषज्यं व्याधिपीडिताः ।
वेतनं वृत्तिहीनाश्च तस्मात्समुपलेभिरे ॥ ७५ ॥
पित्र्योपरागकेत्वादिदुर्निमित्तोपमार्तिषु ।
गोसहस्राभ्वहेमादिसंभवैः सोभजद्विजान् ॥ ७६ ॥
नन्दिक्षेत्रे पुरं कृत्स्नं दग्धमुत्पातवहिना ।
पूर्वाधिकगुणं तेन नवं राज्ये व्यधीयत ॥ ७७ ॥
श्रीचक्रधरयोगेशस्वयंभूस्थानयोजनम् ।
जीर्णोद्धतिव्यसनिना कृतं तेन सुकर्मणा ॥ ७८ ॥
हर्षदेवेन यो निन्ये श्रीपरीहासकेशवः ।
परिहासपुरे तं स नवं नरपतिर्व्यधात् ॥ ७९ ॥
प्राग्वर्णितशुकावल्या भूषितो हर्षनीतया ।
तेन त्रिभुवनस्वामी निर्लोभेन महीभुजा ॥ ८० ॥
जयापीडाहृतं हर्षोत्पाटने प्लष्टमग्झिना ।
सिंहासनं नवं चक्रे स राज्यककुदं नृपः ॥ ८१ ॥
१ दुर्निमित्तामयार्तिषु इति स्यात् ।
लब्ध्वा तदर्धाध्यारोहं भर्तुः प्रेम्णातिदुर्लभम् ।
सामान्ययापि देवीत्वं जयमत्या न दूषितम् ॥ ८२ ॥
सा ह्यानृशंस्यमाधुर्यत्यागसत्प्रियतानयैः ।
अस्तम्भार्तपरित्राणमुख्यैर्भव्याभवद्गुणैः ॥ ८३ ॥
लब्धभूपालवाल्लभ्या नार्यः क्रोधात्प्रजासु यत् ।
राक्षस्य इव भङ्गाय लावण्यललिता अपि ॥ ८४ ॥
प्रियप्रजस्यायमन्यो गुणः सर्वगुणाग्रणीः |
उच्चलक्ष्मापतेरासीदर्थनैस्पृह्यशालिनः ॥ ८५ ॥
जिघांसवः पापकामाः परस्वादायिनश्च ताः ।
रक्षांस्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ ८६ ॥
तेनेतिहासिनीं नीतिं श्रद्दधानेन सर्वदा ।
येन संपठता लोकं कायस्थोन्मूलनं कृतम् ॥ ८७ ॥
यत्ते विषूचिकाशूलसंन्यासेभ्यः किलेतरे ।
प्रन्त्याशुकारिणो विश्वं प्रजारोगा नियोगिनः ॥ ८८ ॥
पितरं कर्कटो हन्ति मातरं हन्ति पुत्तिका ।
हन्ति सर्व तु कायस्थः कृतघ्नः प्राप्तसंभवः ॥ ८९ ॥
गुणान्समर्प्य स्फुरता येनैवोत्थाप्यते शठः ।
वेताल इव कायस्थस्तमेवाहन्ति हेलया ॥ १० ॥
विषवृक्षो नियोगी च यदेवाश्रित्य वर्धते 1
चित्रं करोति तस्यैव स्थानस्यानभिगम्यताम् ॥ ९९ ॥
तेन ते क्ष्माभुजा मानक्षतिकार्यनिवारणैः ।
काराप्रवेशैश्च खलाः शमं नीताः पदे पदे ॥ ९२ ॥
कार्यान्निवार्य बहुशः सहेलाद्यान्महत्तमान् ।
भङ्गासूत्रमयं वासः कारायां पर्यधापयत् ॥ ९३ ॥
१ दायिनः शठाः इत्युचितः पाठः ।
सकार्यवेषं हास्याय सभाय चारणोचितम् ।
अकारयद्भूतभिश्चधावनं डोम्भयोधवत् ॥ ९४ ॥
स भरांदयु्वे्टितदमशरुरष्णीषेणोत्फखन्पुनः ।
शरूखदस्तः सजानूरुः केषामासीन्न दास्यङृत् ॥ ९५ ॥
सरीर्षदरानं साम्यवादवेदयाविटान्वितम् ।
परियवेदयं कचिदग्रे चत्तवायमकारयत् ॥ ९६ ॥
बद्धान्यं शकटे नञ ्ुररनाधैमस्तकम् ।
अकारयत्सटान्यस्तचीनपिष्टच्छराङ्कितम् ॥ ९७ ॥
ते कुम्भवादनेर्मुण्डमण्डनेश्चाङ्भिताभिधाः ।
नियोगिनो मञ्नमानाः स्वतः ख्यातिमाययुः ॥ ९८ ॥
कार्यभ्रष्टा मरुष्किन्नस्षीणवखावगुण्ठनाः ।
सर्वार्थिनो व्यभाव्यन्त केष्यरन्तः प्रतिक्चषपम् ॥ ९९ ॥
चृथाचृद्धाः खुखभाप्यं पाण्डित्यं भूजेचत्परे ।
मत्वा बाला इवाचायगृहे पररेभिरे श्रुतम् ॥ १०० ॥
केप्युचचैरडभिक्षाकाः सादरं स्तो्रपाठिनः ।
छतानुपााः स्वापल्येः प्राह्ने ोकमदहासयन् ॥ १०१ ॥
माता स्वसा खुता भाया स्वापि कैरप्यका्यैत ।
सामन्तसेवनं कार्यभराप्ये खुरतसेवया ॥ १०२ ॥
जातकस्वप्रराकुनस्वटश्चषणनिरीक्षणम् ।
कारयद्धिः इैरन्येगैणकाः परिखेदिताः ॥ १०३ ॥
पिशाचा इव दयुष्कास्या रु्तदमश्चुकचाः ₹दाः ।
बद्धाः परर्व्यभाव्यन्त शङ्कलामुखराङ्क्यः ॥ १०४ ॥
दपेण कार्यिणां दर्टिङ्गनाशे विपारिते ।
अक्ष्णोज्ञीतिपरिज्ञानक्षमत्वं समजायत ॥ १०५ ॥
र् o राजतरङ्गिणी
भारतस्तवराजादिस्तोत्रपाठमशिश्रियन् ।
ते दुर्गोत्तारिणीविद्याजपं चोदखुलोचनाः ॥ १०६ ॥
इत्थं दौःस्थ्योदये दीर्घे मज्जन्तो नित्यदुर्जनाः ।
तस्मिन्राजनि कायस्था व्यलोक्यन्त पदे पदे ॥ १०७ ॥
भिन्नसंधानभूर्यर्थदानभोज्यादिढौकनैः ।
नहि मोहयितुं शक्ताः प्राज्ञं तं तेन्यराजवत् ॥ १०८ ॥
तान्प्रजाकण्टकान्दुष्टान्कृतधीरकृतानिशम् ।
तैस्तैः शुचिभिरध्यक्षैः स विशामीश्वरो वशान् ॥ १०९ ॥
भूतेशस्य यथा पुरी हुतवह प्लष्टा त्वदाज्ञावला-
द्भूयः स्वां श्रियमाससाद सहसा तद्वत्समस्तामिमाम् ।
त्वं कायस्थक्कुटुम्विक्लृप्तिसचिवप्रायं पञ्चानली-
लीढामुञ्चलदेव निर्वृतिसुखस्थित्या पुरीं स्वां क्रियाः ॥ ११०
शिवरात्र्युत्सवे श्लोकममुं शिवरथाभिधः ।
विद्वान्पठंस्तेन हठात्सर्वाध्यक्षो व्यधीयत ॥ १११ ॥
व्यवहारानभिज्ञोपि कंचित्कालमदीदृशत् ।
शुचित्वादार्यभाजः स क्रामन्कृतयुगस्थितिम् ॥ ११२ ॥
शीघ्रदण्डत्वमुच्चण्डतेजसस्तस्य भूपतेः ।
क्रूरानुद्दिश्य कायस्थान्धीमद्भिर्वमन्यत ॥ ११३ ॥
नहि क्षुद्राश्वकायस्थपिशाचाविष्टवैरिणाम् ।
शंसन्त्यन्तरितं दण्डं दण्डनीतिविशारदाः ॥ ११४ ॥
चिरेण दण्डिता ह्येते कुर्युर्दण्डभयाडुवम् ।
लब्धान्तराः प्राणहरं कृच्छ्रं किंचित्प्रशासितुः ॥ ११५ ।।
दण्ड्यानां दण्ड्यमानानां पुत्रस्त्रीमित्रवान्धवाः ।
राज्ञा विचारशीलेन न तेनोपद्रुताः क्वचित् ॥ ११६ ॥
कर्णेजपाँल्लोष्टधरप्रखांस्तेन दु:खदै:|
कर्मभिः क्लिश्नताध्वापि पैशुन्यस्य खिली कृत: ॥ ११७ ॥
विस्म्रुतिं लब्धरज्यनां पूर्वसंकल्पवासनाः ।
प्रयान्ति प्राप्तजनुषां गर्भवासस्पृहा इव ॥ ११८ ॥
प्राग्राज्याधिगमाक्तिंचित्सदसद्यह्यचिन्तयत् ।
राज्ये तन्न विसस्मार जातिस्मर इवोन्चल: ॥ ११९ ॥
ददर्श शत्रोरद्रोहन्यान्द्रोग्ध्रुन्वा पुरानुगान् ।
कर्वव्यायुगुणं तेषां प्रतिपत्तिमदर्शयत् ॥ १२० ॥
स्मरेन्नोपपतिः पूवैपतिद्रोहं कुयोपितः।
पूर्बस्वाम्यरितां चाद्य कुभृत्यस्येश्वरो जडः ॥ १२१ ॥
शेषाहिदेहान्मेदिन्या समं प्रज्ञापि राङ्यभुत् ।
तस्मिन्परिणता नूनं क्रुत्याक्रुत्यबिबेक्तरि ॥ १२२ ॥
तथाह्वेकस्य वणिजो व्यवहर्त्रुश्च सोभवत् ।
विवादे संशयं छिन्दन्नेवं स्थेयाद्यगोचरे ॥ १२३ ॥
सौह्रुदारूढसद्भावे व्यापदौपयिकं धनी ।
न्यासीचकार दीन्नारलक्ष्यं कोपि वणिग्गृहे ॥ १२४ ॥
ते पयुज्यमाना च व्ययेषु वणिजः करात् ।
कियतवपि ग्रुहितभुद्यतमत्रान्तरन्तरा ॥ १२५ ॥
त्रिंशद्विंश--द्यातासु समासु न्यासधारिणम् ।
ग्रुहितशेपं दातुं स धनं प्रार्थयताथ तम् ॥ १२६ ॥
वणिक्तु कुकृती तस्य न्यासग्रासाय सोद्यमः ।
कालापहारमकरोत्तैस्तै: कलुपधीर्मिपै: ॥ १२७ ॥
स्रोतोभिर्व्यस्तमम्भोधौ लभ्यं मेघमुलखै: पय:
प्राप्तिर्भूयस्तु नास्त्ये वाणिङ्न्यस्तस्य वस्तुनः ॥ १२८ ॥
तैलस्त्रिग्धमुखः स्वल्पालापो म्रुद्वाक्रुक्क्तिर्भवन् ।
न्यासंग्रास्नविवादोग्रो वणिग्व्याघ्राद्धिशिष्यते ॥ १२९. ॥
विवादे श्रेष्ठिना शाठ्यं स्मितैः प्राक्सख्यदर्शनैः ।
मुक्तं मुक्तं ज्ञायमानं प्राणान्तेपि न मुच्यते ॥ १३० ॥ `
निसर्गवन्चका वेश्या: कायस्थो दिविरो वणिक् ।
गुरूपदेशोपस्काऱैर्विशिष्टा: सविषाशिषोः ॥ १३१ ॥
चन्द् नाङ्कालिके श्वेतांशुके धूपाधिवासिनि ।
विश्वस्तः स्याक्तिराटे यो विप्रक्रुष्टेस्य नापदः ॥ १३२ ॥
ललाटहक्पुटश्रोद्वन्द्वह्रुत्यस्तचन्दन: ।
षड्विन्दुव्रुसश्चिक इव क्षणात्प्राणान्तक्रुद्वणिक् ॥ १३३ ॥
पाण्डुश्यामोग्निधुमार्द्र: सूच्यास्यो गहनोदरः ।
तुम्बीफलोपमः श्रेष्ठी रक्तं मांसं च कर्षति ॥ १३४ ॥
सोथ निःशेषितमिषः त्क्रुद्धो निर्बर्न्धकारिणः ।
गणनापञिकां तस्य सभ्रुमङ्गमदर्शयत् ॥ १३५ ॥
यदादौ श्रेयस इति न्यस्तमश्रेयसे पदम् ।
आतरेष्वत्यये सेतोग्रुहीता षट्शति त्वया ॥ १३६ ॥
छिर्न्नोपानत्कषाबन्धे शतं चर्मक्रुतेर्पितम् ।
विपादिकाक्रुते दास्या नीतं पन्चाशते धृतम् ॥ ९२३७ ॥
स्फोटने भाण्डभारस्य क्त्रन्दन्त्या: क्रुपयार्पितम् ।
कुलाल्या बहुश: पश्य भुर्जे लग्नं शतत्रयम् ॥ १३८ ॥
शिशुभ्योस्य विडालस्य क्रिताः पोषाय मूषिकाः ।
त्वया शतेनं वात्सल्याद्वट्टान्मत्स्यरसस्तथा ॥ १३९ ॥
चरणोद्वर्तनं सर्पिः शालिचुर्णं च सप्तभिः ।
त्क्रितं शतै: श्राद्धपक्ष्स्त्राने च धृतमक्षिकम् ॥ १४० ॥
नीतं क्षौद्रार्द्रकं कासायासायादर्भकेण ते ।
सोव्यक्तजिह्व: किं वेत्ति वक्तुं लग्नं शतं ततः ॥ १४१ ॥
व्रुषणोत्पाटको भिक्षाचरस्ते हठयाचकः ।
यो वारितो युद्धपटुस्तस्मै दत्तं शतत्रयम् ॥ १४२ ॥
आनीते भट्टपादनां मध्यं सर्वव्ययोपरि ।
शतं शतद्वयं धूपशन्दामूलपलाण्डुषु ॥ १४३ ॥
इत्याद्यचिन्ततायुक्तापरिहार्यव्ययानसौ ।
तस्यैकीक्रुत्य गणनां लभेपि शनकैर्व्यधात् ॥ १४४ ॥
वर्षमासग्रहतिथिप्रत्याव्रुति: पुनः पुनः ।
संसारस्येव तस्यान्तं न ययौ नर्तिताङ्गुले: ॥ १४५ ॥
स मूलग्रहणं पिण्डीक्रुत्याथ सकलान्तरम् ।
प्रसारितौष्ठस्तन्नेत्रे मीलयन्नभ्यधान्म्रुदु ॥ १४६ ॥
शल्यमुद्धर निक्षेपं नयोजासधनं त्विदम् ।
विस्त्रम्भदत्तं निर्दम्भं दीयतां सकलान्तरम् ॥ १४७ ॥
तत्स धर्म्यं वचो जानन्क्षणमुच्छुसितोभवत् ।
क्षुरं क्षौद्रोपलिप्तं तु ध्यात्वा पश्चादतप्यत ॥ १४८ ॥
युक्त्यापह्नुतसर्वस्वं क्त्रौर्यानार्यमथार्थक: ।
विवादे नाशकज्जेतुं नापि स्थेया विचारकाः ॥ १४९ ॥
स्थेयैरनिश्चितन्यायं पुरो न्यस्तं ततो नृपः ।
तदित्थमिति निश्चित्य वणिजं तमभाषत ॥ १५० ॥
अद्यापि न्यासदीन्नाराः सन्ति चेत्तत्प्रदर्श्यताम्।
अंशः कियानपि ततस्ततो वच्मि यथोचितम् ॥ १५१ ॥
तथा कृते तेन वीक्ष्य दीन्नारान्मन्त्रिणोव्रवित् ।
राजभिर्भविनां राज्ञां नाम्ना टङ्कः क्रियेत किम् ॥ १५२ ॥
१ चिन्तिता इति युक्तम् |
राजतरङ्गिणी
न चेत्कलशभूपालकाले न्यासीकृतेष्वमी |
दीन्नारेषु कुतष्टङ्का मन्नामाङ्का अपि स्थिताः ॥ १५३ ॥
निक्षिप्तेनैष लक्षंण वणिक्तस्माद्यवाहरत् ।
वणिजो द्रविणेनायमप्यात्तेनान्तरान्तरा ॥ १५४ ॥
तस्माद्यदा यदेतेन गृहीतं दीयतां ततः ।
तदाप्रभृत्यद्ययावल्लाभोस्मै वाणिजोर्थिनः ॥ १५५ ॥
न्यसनानेहसश्चैष प्रभृत्यस्मै प्रयच्छतु ।
लक्षादखण्डिताल्लाभं किं वाच्यं मौलिके धने ॥ १५६ ॥
अवधारयितुं शक्यं मादृशैः सघृणैरियत् ।
श्रीयशस्करवद्रौक्ष्यमीहक्षेषु तु युज्यते ॥ १५७ ॥
विवादे संदिहानस्य युक्तं क्षान्त्यानुशासनम् ।
भाव्यं दण्डधराचारैः प्रयुक्तकुसृतेः पुनः ॥ १५८ ॥
अतिहार्येषु शल्येषु महामर्मगतेष्विव ।
सविवादेषु चोपेक्षां कालापेक्षी व्यधान्नृपः ॥ १५९ ॥
पप्रथे पार्थिवस्येत्थं निचोद्यं तस्य पालनम् ।
प्रजासु जागरूकस्य मनोरिव मनस्विनः ॥ १६० ॥
सख्यं कारणनिर्व्यपेक्षमिनताहंकारहीना सती
भावो वीतजनापवाद उचितोक्तित्वं समस्तप्रियम् ।
विद्वत्ता विभवान्विता तरुणिमा पारिप्लवत्वोज्झितो
राजत्वं विकलङ्कमत्र चरमे काले किलेत्यन्यथा ॥ १६१ ॥
से तादृशोषि राजेन्द्रचन्द्रमाः स किलाभवत् ।
मात्सर्याविष्टवैवश्याद्दोषोल्कावर्षभीषणः ॥ १६२ ॥
औदार्यशौर्यधीधैर्यगुणतारुण्यमत्सरः ।
बभूव संख्यातीतानां मानप्राणहरो नृणाम् ॥ १६३ ॥
१ यत् इति स्यात् । २ मात्सर्यावेश इति स्यात् ।
मानोन्नतैश्च भूयोपि वाक्पारुष्यरुषा हतैः ।
लाघवं प्रत्युपालम्भैः पार्थिवोप्यनुभावितः ॥ १६४ ॥
प्रसुप्तानां फणीन्द्राणामिव कोपोद्भवं विना ।
तेजोविस्फूर्जितं ज्ञेयं नहि नाम शरीरिणाम् ॥ १६५ ।।
विविधे भूतसर्गेस्मिन्न च कश्चित्स विद्यते ।
वपुर्वंशचरित्रादि यस्य दोषैर्न दूषितम् ॥ १६६ ॥
जातिः पङ्करुहाद्वपुःकपिलताक्रान्तं शिरः खण्डनं
प्रभृश्यच्छुचिशीलतादिविगुणाचारप्रदुष्टं यशः ।
विश्वस्त्रष्टुरिति प्रभूतविषयव्याप्तिस्पृशो दुःसहा
दोषा यत्र पुरोस्तु तत्र कतमो निर्दोषतोत्सेकभूः ॥१६७॥
अविचार्येति भूपालः स चकारानुजीविनाम् ।
वंशचारित्रदेहादिदोषोद्घोषणमन्वहम् ॥ १६८ ॥
अन्योन्यद्वेषमुत्पाद्य संख्यातीता महाभदाः ।
युद्धश्रद्धालुता तेन द्वन्द्वयुद्धेषु घातिताः ॥ १६९ ॥
मासार्घदिनमाहेन्द्रमहाद्यवसरेषु सः ।
१५
निनाय योधान्संनद्धानन्योन्यप्रधनैर्धनम् ॥ १७० ॥
स नाभूदुत्सवः कश्चित्तदा यत्र नृपाङ्गने |
भूमिर्न सिक्ता रक्तेन हाहाकारो न चोद्ययौ ॥ १७१ ॥
नृत्यन्त इव निर्याता गृहेभ्यो वंशशोभिनः ।
बान्धवैर्निन्थिरे योधा लूनाङ्गाः पार्थिवाङ्गनात् ॥ १७२ ॥
स्निग्धश्यामकचांश्चारुश्मश्रूनाकल्पशोभिनः ।
हतान्वीक्ष्य भटान्राजा मुमुदे न तु विव्यथे ॥ १७३ ॥
नार्यो राजगृहं गत्वा प्रत्यायातेषु भर्तृषु ।
मेनिरे दिवसं लब्धमनास्था नित्यमन्यथा ॥ १७४ ॥
भवेत्तद्यदहं कुर्यामित्यहंक्रियया वदन् ।
साचिव्यमव्याहतवा कैस्तैर्नृत्यैरजिग्रहत् ॥ १७५ ॥
प्रवर्धमानांस्तानेव विद्वेषकलुषाशयः ।
हृताधिकारान्विदधे बहुशश्च विमानितान् ॥ १७६ ॥
दञ्छकः कम्पनाधीशः प्रवृद्धौ तत्र सत्रुधि ।
विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥ १७७ ॥
तेन स्ववर्धितो द्वाराधीश्वरो रक्ककाभिधः ।
हृताधिकारो विदधे विभूर्ति वीक्ष्य भूयसीम् ॥ १७८ ॥
माणिक्यसैन्यपतिना द्वारेकस्मान्निवारिते ।
खिन्नेन विजयक्षेत्रे चक्रे व्रतपरिग्रहः ॥ १७९ ॥
कम्पनाद्यधिकारस्थाः प्रवीरास्तिलकादयः ।
काकवंशा मार्दवेन तत्कोपं नानुभाविताः ॥ १८० ॥
भोगसेनो निरनुगः क्षीणवासा भवत्कृतः ।
तेनातिसेवाप्रीतेन राजस्थानाधिकारभाक् ॥ १८१ ॥
यस्येन्द्रद्वादशीयुद्धे सान्द्रसैन्योपि विद्रुतः ।
क्षुद्रवद्गग्गचन्द्रोपि रौद्रमालोक्य विक्रमम् ॥ १८२ ॥
येपि सड्डाभिधानस्य पुत्राः सामान्यशस्त्रिणः ।
तात्रड्डुच्छुड्डव्यड्डान्स मत्रिणः समपादयत् ॥ १८३ ॥
पुत्रौ विजयसिंहस्य तत्सेवात्यक्तदुर्दशौ ।
तिलको जनकश्चास्ताममात्यश्रेणिमध्यगौ ॥ १८४ ॥
यमैलाभायबाणादिमुख्या द्वारादिनायकाः ।
कस्तान्समर्थः संख्यातुं तडित्तरलसंपदः ॥ १८५ ॥
द्वित्राः प्रशस्तकलशादयः पूर्वे तदन्तरे |
प्रापुर्बालद्रुमान्तःस्थजीर्णानोकहविभ्रमम् ॥ १८६ ॥
१ कृतोभवत् इत्युचितम् ।
कंद्पैः क्ष्माजुजा दृतेः समानीतोपि नाददे ।
तस्यासहनतां वीक्ष्य प्राथितोप्यधिकारिताम् ॥ १८७ ॥
आस्थानाचारसंखापव्यवहारादि मण्डले ।
नवमेवाभवत्सर्वे तसिज्रभिनवे नरपे ॥ १८८ ॥
लक्ष्मीः कार्मणच्ूणौङ्का वेदयेव वदावतिनः ।
शधीरानपि विधायेय करोत्युन्मामैवर्तिनः ॥ १८९ ॥
सपिण्डानामपि व्यक्तशीखवक्षणतत्परा ।
प्रेततेव नरेन्द्रश्रीजौतिखेहापकारिणी ॥ १९० ॥
समस्तसंपत्पूर्णोपि यस्मात्सुस्सरभूपतिः 1
दध्यौ भ्रातुरवस्कन्दं राज्यापदटरणोद्यतः ॥ १९२ ॥
अकस्मादश्णोच्ख्येनमिव तं शीघ्रपातिनम् ।
स्थाने वराहवातौख्यमुलङ्कयायातमथ्रजः ॥ १९२ ॥ .
क्षिप्रकारी विनिर्गत्य तमभ्रा्तपदं ततः ।
निपद्य सेन्येर्वहुकैः सोपकारमकारयत् ॥ १९३ ॥
विदुतस्यास्पदे तस्य नानोपकरणेश्युतेः ।
ताम्बूल्वेलाकूटैश्च सामग्री समभाव्यत ॥ १९४ ॥
ङृतका्यैपरावृत्यासावरूढोपि पार्थिवः ।
भत्याचृत्तं तमग्णोदन्येदयः कूरविकरमम् ॥ १९५ ॥
गग्गचन्द्रस्तदादेखाद्रत्वा बहरुसेनिकः ।
चक्रे खुस्सलभूपाखवटनिर्दैखनं ततः ॥ १९६ ॥
असंख्यैः सोस्सैर्योधेराहवायासनिःसदेः ।
ान्तिर्विमानोद्यानेषु चुनारीणाममुच्यत ॥ १९७ ॥
भर्चप्रसादस्याचरण्यं भरणेयुधि समर्पिते ।
राजपुत्रौ गतौ तत्र सद्देवयुधिष्ठिो ॥ १९८ ॥
३
वराश्वान्सुस्सलानीकान्गग्गस्तान्प्राप विद्रुतान् ।
चक्रे भूरितुरङ्गस्य यैर्भूपस्यापि कौतुकम् ॥ १९९ ॥
निविष्टकटकं तं स श्रुत्वा सेल्यपुराध्वना |
क्रमराज्योन्मुखं यान्तं द्रुतमन्वसरन्नृपः ॥ २०० ॥
अन्विष्यमाणसरणिः प्रयत्नादग्रजन्मना ।
प्रविवेश दरद्देशं परिमेयपरिच्छदः ॥ २०१ ॥
दत्तमार्ग तस्य राजा डामरं लोष्टकाभिधम् ।
स सेल्यपुरजं हत्वा नगरं प्राविशत्ततः ॥ २०२ ॥
तस्मिन्दूरं गते वैरकलुषोपि स नाददे ।
भ्रातृस्नेहैरसंरम्भं ग्रहीतुं लोहरं गिरिम् ॥ २०३ ॥
कल्हः कालिन्दराधीशो दौहित्रीं पुत्रवद्गृहे ।
यामवर्धयत स्नेहादपुत्रः पितृवर्जिताम् ॥ २४ ॥
राज्ञो विजयपालस्य सुतां सुस्सलभूपतिः ।
उपयेमे स तां श्रीमाननघां मेघमञ्जरीम् ॥ २०५ ॥
तस्य प्रभावाधिष्ठानाच्छिशोरपि न लोहरे ।
शक्तिरासीद्विरुद्धानामपि बाधाय वैरिणाम् ॥ २०६ ॥
धीर: सुस्सलदेवोपि मार्गेर्निर्गत्य दुर्गमैः ।
आसदद्भूरिभिर्मासैः स्वोर्वी दुर्गिरिवर्त्मना ॥ २०७ ॥
प्रशान्ते व्यसने तस्मिन्धीरस्योञ्चलभूपतेः ।
अन्येपि व्यसनाभासा उत्पन्नध्वंसिनोभवन् ॥ २०८ ॥
भीमादेवः : समादाय भोजं कलशदेवजम् ।
साहायकार्थमानिन्ये दरद्वाजं जगद्दलम् ॥ २०९ ॥
सहो हर्षमहीभर्तुरवरुद्धात्मजोभवत् ।
भ्राता दर्शनपालस्य सञ्जपालस्तु तद्वलम् ॥ २१० ॥
१ नीकाद्गग्गः इत्युचितम् । अष्टमस्तरङ्गः ।
नीतिज्ञेन ततो राज्ञा साम्नैव दरदीश्वरः ।
आक्षेपाद्वारितः प्रायात्प्रत्यावृत्त्य निजां भुवम् ॥ २११ ॥
सहस्तमन्वगाच्छन्नं भोजोविक्षत्स्वमण्डलम् ।
भेजे सुस्सलदेवस्य सञ्जपालोनुजीविताम् ॥ २१२ ॥
गृहीतार्थेन भृत्येन निजेनैव प्रदर्शितः ।
भोजः क्षिप्रं नृपात्प्राप निग्रहं तस्करोचितम् ॥ २१३ ॥
देवेश्वरात्मजः पित्थकोपि द्वैराज्यलालसः ।
डामरानाश्रिते राशि निर्याते व्यद्रवद्दिशः ॥ २१४ ॥
विचारपरिहारेण धावन्तः सर्वतो जडाः ।
तिर्यश्च इव हास्याय प्रसिद्धिशरणा जनाः ॥ २१५ ॥
मल्लस्य रामलाख्योहं सुनुरासं दिगन्तरे |
अट्टसुदः कश्चिदेवं चक्रिकाचतुरो बदन् ॥ २१६ ॥
निन्ये प्रवृद्धिं व्यामूढैर्बहुभिर्विप्लवप्रियैः ।
धनमानादिदानेन भूमिपैर्भूम्यनन्तरैः ॥ २१७ ॥
युग्मम् ॥
ग्रीष्मे प्रविष्टः कश्मीरानेकाकी धर्मपीडितः ।
व्यधीयत च्छिन्ननासः परिज्ञाय नृपानुगैः ॥ २१८ ॥
कटके पर्यटन्राज्ञः स एव दहशे पुनः ।
स्वजात्युचितभक्ष्यादिविक्रयी सस्मितं जनैः ॥ २१९ ॥
मिथ्यैव नीतिकौटिल्यैः क्रियतेभ्युदयश्रमः ।
शक्यतेपरथा कर्तुं न दैवस्य मनीषितम् ॥ २२० ॥
शान्तापि ज्वलति क्कापि क्वचिद्दीप्तापि शाम्यति ।
दैववातवशाच्छक्तिः पुंसः कक्षाग्निसंनिभा ॥ २२१ ॥
पलायनैर्नापयाति निश्चला भवितव्यता ।
देहिनः पुच्छसंलीना वह्निज्वालेव पक्षिणः ॥ २२२ ॥
राजतरङ्गिणी
नाच्छिन्नवाह्नविषशस्त्रशरप्रयोगै-
र्न श्वभ्रपातरभसेन न चाभिचारैः ।
शक्या निहन्तुमसवो विधुरैरकाण्डे
भोक्तव्यभोगनियतोच्छ्छ्रसितस्य जन्तोः ॥ २२३ ॥
भिक्षाचरः समादिष्टवधो जयमतीगृहात् ।
. नक्तं वध्यभुवं निन्ये वधकैः पार्थिवाज्ञया ॥ २२४ ॥
ग्राविण प्रस्फोट्य निक्षिप्तो वितस्तायां समीरणैः ।
क्षिप्तस्तरं क्षणं स्पन्दमानवक्षाः कृपालुना ॥ २२५ ॥
द्विजेनैकेन संप्राप्तश्चिरादुद्गतचेतनः ।
आसमत्यभिधानाया शातिर्दिद्देति गौरवात् ॥ २२६ ॥
शाहिपुत्रीभिरुक्ताया दत्तश्चतुरया तया ।
नीतो देशान्तरं गूढं ववृधे दक्षिणापथे ॥ २२७ ॥
तिलकम् ॥
स वृत्तप्रत्यभिज्ञोथ पुत्रवन्नरवर्मणा ।
मालवेन्द्रेण शस्त्रास्त्रविद्याभ्यासमकार्यत ॥ २२८ ॥
अन्यदीयं घातयित्वा तत्तुल्यवयसं शिशुम् ।
रक्षितो जयमत्यैव स किलेल्यपरेब्रुवन् ॥ २२९ ॥
देशान्तरागतादूतात्तां वार्तामुपलब्धवान् ।
अत एवाभवत्तस्या भूभृद्विरलितादरः ॥ २३० ॥
बहिरप्रतिभिन्दस्तत्स धीरो मार्गवर्तिभिः ।
चक्रे तदप्रवेशाय संबन्धं पार्थिवैः समम् ॥ २३१ ॥
ईर्ष्यामगोपयन्नार्याः शङ्कामच्छादयत्रिपोः ।
स्वयमन्याभिगम्यत्वं करोति हि जडो जनः ॥ २३२ ॥
भिक्षाचरे हते बालं कंचिदादाय तत्समम् ।
तन्नाम्ना ख्यातिमनयद्दद्दैवेत्यपरेब्रुवन् ॥ २३३ ॥
तथ्येन सोस्तु मिथ्या वा प्रतिष्टां तां तथाप्तवान् ।
यथा लघुत्वमानेतु न दैवेनाप्य्श्क्य्त ॥ २३४ ॥
स्वप्नेन्द्रजाल् रन्द्रजारमायानामपि निर्विषया इमाः ।
कर्मवैचिञ्यजनिताः काथिद्ाश्चयैविग्रुषः ॥ २३५ ॥
स् राजबीजी नाशाय - विशां गूढं व्यवर्धत ।
पुरग्रामादिदाहाय कक्षान्तरिव पावकः ॥ २३६ ॥
रोहत्यन्तिकसीमनि प्रतिविषा वीरुद्धिषक््मारुहः
काले प्रावृडपद्रुताच्छसलिले मूच्छरत्यगस्त्योद:
न्संधत्ते प्रतिकारकल्पनमहो दीर्घावलोकि विधिः ॥ २३७॥
अजायत विपन्मजज्नगदुद्धरणस्झम:।
तस्मिन्नेव क्षणे यस्मात्सुस्सलक्ष्मापतेः खुतः ॥ २३८ ॥
तज्जन्मकालादारभ्य सर्वतो जयमर्जयन् ।
नामान्वर्थ्ं नृपस्तस्य जयसिंह इति व्यधात् ॥ २३९ ॥
शास्तुः सर्वाथसिद्धाख्या यथा सर्वार्थसिद्धिभिः ।
तथा तस्याभिधान्वर्था नात्यजद्रूदिश्ाब्दताम् ॥ २४० ॥
मुद्रां सकुङ्कुमस्याङेध्रृस्तदेयस्याभ्युपागताम् ।
विलोक्क्योचख्दे वोभूद्धिमन्युश्चांतरं प्रति ॥ २४१ ॥
बालस्थैवाङ्किमुद्धास्य वैरं पित्पिदृव्ययोः ।
निवारयन्ती विदधे सुस्थितं मण्डलद्वयम् ॥ २४२ ॥
स स्वर्गिण: पितुर्नाम्रा ततः सुकृतसिद्धये ।
चकारोचलभूपालः पैतृके स्थण्डिले मटम् ॥ २४२ ॥
मोभूमिदेमवखान्नदाता तस्मिन्महोत्सवे ।
आश्वर्यकल्पवृझत्व्ं स्यागी सर्वाथिर्नमगात् ॥ २४४ ॥
प्रसादै:प्रहितैन महाधै: श्लाध्यसंपदा ।
महान्तोपि दिगन्तेषु पार्थिवा विस्मयं ययुः ॥ २४५ ॥
भर्तृप्रसादधिगतां श्रियां नेतुं परार्ध्यताम् ।
विहारं समठं देवी जयमत्यपि निर्ममे ॥ २४६ ॥
केषांचित्पूर्वषुण्यानां विरहेण महीभुजः ।
हताभीष्टाभिधानोभूनठ नवमठाख्यया ॥ २४७ ॥
सुल्लां स्वसारमुदिदय परस्मिन्स्थाण्डिरे पितुः ।
विहारोपि कृतस्तेन नोचितां ख्यातिमाययौ ॥ २४८ ॥
मुत्योमैस्तकपातित्वं तस्याकलयत: कि ।
न निष्ठां स्वप्रतिष्ठाखु संप्रपेदे व्ययस्थितिः ॥ २४९. ॥
कदाचिक्कमराज्यस्थो द्वघरुमर्चि स्वयंभुवम् ।
ययौ ब्हैणचक्राख्यं गिरिग्रामं स भूपतिः ॥ २५० ॥
तं कमस्बङेश्वरग्रामाध्वना यान्तमवेष्टयन् ।
अकस्मादेत्य त्रत्याश्चोराश्चण्डाखद्ासििणः ॥ २५१ ॥
प्रजिहिर्षुभिरप्याशु तस्मिन्नत्यल्प्सैनिके ।
न तैः प्रहतमुद्रोजोवष्टम्भस्तम्भितायुधै: ॥ २५२ ॥
अथ हारितमार्गा: स गहने गिरिगह्वरे ।
भ्रमन्नल्पानुयाय्येकां क्षणदामत्यवाहयत् ॥ २५३ ॥
उच्चचार क्षणे तस्मिन्स्कन्धावारेषु दुःखहा ।
नास्ति राजेति दुवौर्ता सर्वतः क्षोभकरिणि ॥ २५४ ॥
कटकान्निःसृतात्यल्पा वाल्येव गिरिगहरात् ।
सा दुष्प्रवृत्तिदीर्धत्वं पुरेरण्य इवासदत् ॥ २५५ ॥
नगराधिकृतस्तसिन्क्षणे छुडामिधोभवत् ।
शास्त्रिणः कामदेवस्य कुल्यो रड्डादिसोदरः ॥ ६५६ ॥
कृत्वा पुरक्षोभशान्तिं शास्त्रौ: स नृपास्पदे
प्रविश्य भ्रातृभिः सार्ध्ं कार्यशेषमचिन्तयत् ॥ २५७ ॥
नृपं कं कुर्म इत्येवं तान्विचिन्तयतोब्रवित् ।
सड्डाभिधोपि कायस्थ:कुटूम्बिकुटिलाशय: ॥ २५८ ॥
यूयमेव सुह्र्द्वन्धुभृत्यबाहुल्यदुर्जया:
राज्यं कुरुत संप्राप्य राष्ट्र्मेवमकण्टकम्
तेनैवमुत्तास्ते पापा जातराज्यस्पृहास्तत:
सिंहासनाधिरोहाय क्षिप्रमासन्समुद्यता:
श्रीयशस्करदेवस्य वंश्या एत इति श्रुति:
तदन्वयेभूत्सर्चेषां रज्यौत्सुक्यप्रदायिनी
अत एवाभजत्क्रोधं तेषं कुसुह्रुदुक्त्तिभि:
सा वासनान्त: संलीना सदाचारानपेक्षिणाम्
कथं न प्रतिभ्गात्वेषा सह्रुस्यापि कुपद्धति:
सखा वासनान्तःसंखीना सदाचारानपेश्चिणाम् ॥ २६२ ॥
कथं न प्रतिभ्नात्वेषा सडस्यापि कुपद्धतिः ।
भारिकस्य कुले जातो लवटस्य हि सोधमः ॥ २६२ ॥
क्षेमदेवाभिधानस्य पुत्रोप्यल्पनियोगिनः ।
क्रूराशयत्वमभजन्महासाहसिकोचितम् ॥ २६४ ॥
चौर्येण स्वर्णभृङ्गारं हृतवान्भूपतेर्गृहात् ।
संभावितोपि गाम्भीर्यान्नाज्ञायि स किलेङ्गितै: ॥ २६५ ॥
सासिधेनुर्निरुष्णीषो विहसन्नखिलान्स्मयात् ।
राजपुत्र इवात्यल्पं स त्रौलोक्यममन्यत ॥ २६६ ॥
तस्य चिन्ता काचिदासीत्सदा दोलायतोङ्कुली: ।
या राज्यहेतुः क्रूरेण फ़लेन समभाव्यत ॥ २६७ ॥
तग्दिरा निजसंकल्पादपि ते राज्यलालसाः ।
नृपं जीचन्तमाकर्ण्य्य ततोभूवन्टतस्पृहाः ॥ २६८ ॥
राजतरङ्गिणी
न स्फुरन्न च संमीलन्न वा सुप्त इवानिशम् ।
तेषां चेतसि संकल्पस्तदाप्रभृति सोभवत् ॥ २६९ ॥
असुस्थिरादरेणाथ शनकैः पृथिवीभुजा ।
निन्यिरे मध्यमां वृत्तिं राजस्थानान्निवार्य ते ॥ २७० ॥
प्रकृत्या रूक्षवाग्राजा सर्वेषामेव सर्वदा ।
तेषामप्यकरोदत्रान्तरे मर्मस्पृशः कथाः ॥ २७१ ॥
ते राज्ये हर्षभूभर्तुः पितरि प्रमयं गते ।
मातुस्तारुण्यमत्ताया विधवाया गृहेवसन् ॥ २७२ ॥
तैर्मद्यासत्तको नाम शस्त्रभृत्प्रातिवेश्मिकः ।
सुहृद्धतोथ विश्वस्तो जननीजारशङ्कया ॥ २७३ ॥
असतीमपि किं नैते न्यगृहन्निति भूपतिः ।
विचार्य कोपात्तन्मातुर्नासाच्छेदमकारयत् ॥ २७४ ॥
तां कथां स नृपस्तेषां परोक्षमुदघोषयत् ।
व पुत्राश्छिन्ननासाया वदन्नित्यन्वियेष च ॥ २७५ ॥
बृहद्गञ्जादिगञ्जेशं कृत्वा कार्यान्यवारयत् ।
स कायस्थकृतान्तत्वं भजन्सडुमपि प्रभुः ॥ २७६ ॥
पीडितस्तेन रौद्रेण निजोथ गणनापतिः ।
कोशोत्पत्त्यपहर्तारं तं नृपाय न्यवेदयत् ॥ २७७ ॥
प्रवेशभागिकपदे हृते राज्ञा रुषा ततः ।
स क्रूरो रडुच्छुड्डादीन्यैरयत्पूर्वचिन्तिते ॥ २७८ ॥
जिघांसवस्ते नृपतिं प्रसङ्गापेक्षिणः परैः ।
समगंसत दुष्प्रज्ञैरथ हंसरथादिभिः ॥ २७९ ॥
प्रजिहीर्षुभिरुर्वीशं पतिको रौः समेत्य तैः 1
चतुष्पञ्चानि वर्षाणि नावाप्यवसरः क्वचित् ॥ २८० ॥
बहुभिर्बहुधा भिन्नर्बहुकाटं विचिन्तितः ।
न मेदमगमन्मन्नः स चिरं लोकदुष्कृतैः ॥ २८१ ॥
तवैतां कुरुते शाश्वन्नुपो मर्मस्पृशं कथाम् ।
इति धयेकमुक्त्वा ते विरागं पार्थिवेभजन् ॥ २८२ ॥
तैरुरःपाश्वपृष्ठादि गूदेवमभिरायसेः ।
प्रच्छाद्य पाधिवोजखमयुससरे जिघांसुभिः ॥ २८३ ॥
अखहो विरद सोद यां भसादयितुं न काम् ।
राजापि संदधे चेष्टां पाक्ाङृतभुजंगवत् ॥ २८४ ॥
स्वभाववैपरीस्येन नादशचिहेन स स्थिराम् ।
जयमव्या सहाप्रीति तदादाद्वत्सरद्धयम् ॥ २८५ ॥
रक्षां भिक्षाचरस्याइ्भिमित्तं तज केचन ।
केचित्तु विदुत्सदशौ प्रेम्णां तरखुढृत्तिताम् ॥ २८६ ॥
अथ वतैभूभतैरात्मजा विजखाभिधा ।
कृतपाणिग्रहास्यागाद्धाहभ्यं वसुधाभुजः ॥ २८७ ॥
सङ्गामपारे चृपतौ तसिन्नवसरे श्ते ।
तत्सूजुः सोमपारास्यः पिच्यं राज्यं समादधे ॥ २८८ ॥
राज्या्ैमग्रजं बद्धा सोभ्यषिच्यत चाक्रिकैः ।
इति कोपान्नरेन्द्रोभूत्करुष्यत्राजपुरीं भरति ॥ २८९ ॥
छक्ष्मीस्थेर्यप्रतिभुवः पुच्याः पाणिमजिग्रहत् ।
3 १ प ॥ २९० ॥
अ्थिचिन्तामणेस्तस्य श्रीणतो निखिखाः प्रजाः ।
नानाव्ययोर्जितो रेजे पश्चिमः स महोत्सवः ॥ २९१ ॥
याते जामातरि मारकर निखिरुतन्रिणः ।
नि्त्तीः किमपि कुष्यन्दुशुकषुर्त व्यसजंयत् ॥ २९२ ॥
र रदे
राजतरङ्गिणी
भोगसेनोपि भूपेन काटे तस्िन्समन्युना ।
निवारितो दारकार्यात्सवेरः समपद्यत ॥ २९३ ॥
विक्रान्तः स हि कार्यस्थो निजिताखिलडामरः 1
खुस्सटक्ष्मापति जतु भतस्थे खोहरं पुरा ॥ २९४ ॥
वात्सल्यमिश्रं वैरेण वारितोथ महीभुजा ।
तत्परीवादमकरोच्युक्रोधावेत्य तच्च सः ॥ २९५ ॥
प्रावेशयत्रडछुडमुखान्स समयान्तरम् ।
तमादि खुद्द वीरं तदा राज्ञा विमानितम् ॥ २९६ ॥
विमानिता विशालेच्छाः संहता इहतच्त्तयः 1
न ते बहिष्ृतास्तेन यमराषटरं जिगीषता ॥ २९७ ॥
तान्भोगसेनविन्यस्तसद्धावान्कुरिलादायः ।
सङो निनिन्द वीरत्वात्तं जानन्सरखान्तरम् ॥ २९८ ॥
ऊचे चायचेव हित्वापि पाणान्व्यापाद्यतां सपः ।
मोगसेनोन्यथा भेदं ऊुयीदगह नाशयः ॥ २९९ ॥
अन्यथाभून्न सड्कोक्तं भोगसेनो यदज्रवीत् ।
किचिद्रदहोसि वक्तेति शपति भेदखाखखः ॥ ३०० ॥
सतु किं वक्षि न द्वारं तव दद्यामिति श्ुवन् ।
दुश्चश्चुपक्षपणयं निन्ये तमवमानयन् ॥ ३०२ ॥
प्रबोधाधायिनो डटि नियतिप्रणयीभवन् ।
तपात्ययाहनिद्रातं इव जन्तुगतस्यतिः ॥ ३०२ ॥
तत्रिणो यामिका भूत्वा स्वस्िन्वारे ततोविशन् ।
ते राजधानीं संनद्धः स्वसेन्येः सह संहताः ॥ ३०३ ॥
यामिन्यां यं वयं हन्मस्तं दतेत्यसिधाय च ।
रावेदायन््यस्तचिहांश्चण्डालान्मण्डपान्तरम् ॥ ३०४ ॥
भुक्तोत्तरं स्थिते राज्ञि ते बाह्ये मण्डपे स्थिताः ।
सरोषो नृप इत्युक्त्वा सेवकोत्सारणं व्यधुः ॥ ३०५ ॥
राजा च विजलावेश्म यियासुर्मण्डपान्तरात् ।
दीपिकाभिः कृतालोको निर्ययौ मदनालसः ॥ ३०६ ।।
मध्यमं मण्डपं तस्मिन्प्राप्ते स्वल्पैः सहानुगैः ।
तत्त्यक्तं मण्डपं सड्डो रुवान्यानरुणज्जनान् ॥ ३०७ ॥
अन्यैरप्यग्रिमे द्वारे निरुद्धे सर्व एव ते ।
जिघांसवः समुत्थाय नृपतिं पर्यवारयन् ॥ ३०८ ॥
विज्ञप्तिदम्भादेकेन रुद्धमग्रे निषेदुषा ।
तं द्विजो दिन्नजस्तेजः शख्या कृष्टकचोभिनत् ॥ ३०९ ॥
ततः काञ्चनगौराणि तस्याङ्गान्यसिधेनवः ।
बहुयः सुमेरुशृङ्गाणि महोरग्य इवाविशन् ॥ ३१० ॥
स द्रोहो द्रोह इत्युक्त्वा केशान्कृष्टान्विमोचयन् ।
क्रीडाशख्याः कपां रुखमुष्टिं दन्तैर्व्यपाटयत् ॥ ३११ ॥
सुजनाकरनामा हि भृत्यः कट्टारकं वहन् ।
तस्यान्तिकात्पलायिष्ट प्रहरत्सु विरोधिषु ॥ ३१२ ॥
अतो बालोचितां लघ्वीं क्षुरिकां स चकर्ष ताम् ।
मुष्टावर्गलिता कोशात्सा कृच्छ्रेण विनिर्ययौ ॥ ३१३ ॥
निर्यातात्रः शत्रुभिस्तैस्त्यक्तकेशो बबन्ध तम् ।
धम्मिल्लमथ तां शस्त्रीं जानुद्वन्द्वान्तरर्पयन् ॥ ३१४ ॥
नदित्वा प्रहरंस्तेजंस्तादृग्वीयपि सोभवत् ।
येन क्षितौ निपतितः सर्वमर्मस्विवाहतः ॥ ३१५ ॥
अभिनञ्च ततो रडुं प्रहरन्तं च पृष्ठतः ।
नदुन्सिंह इव व्यड्डुं परिवृत्य व्यदारयत् ॥ ३१६ ॥
२७ ८
राजतरङ्किणी
अन्यं च शखिर्णं कंचित्सवमौणमपातयत् ।
विवेष्टमानो यः पणेरचिरेण व्ययुज्यत । ॥ ३१७ ॥
ऊन्धान्तरे प्रवासाय तस्मिन्धावति मण्डपः ।
रक्षिभिभूमिपारोयमित्यवुद्ा कवाटितः ॥ ३१९८ ॥
द्वारमन्यत्यसर्पन्स क भरयासीति जल्पता ।
छुडेन रुद्धमार्गेण खज्गपातेरहन्यत ॥ ३१९ ॥
भोगसेनं वतोपश्चयद्धारस्यान्ते समुत्थितम् ।
दारुतूकिकया भित्तिमाछिखन्तं पराड्छुखम् ॥ ३२० ॥
भोगसेनेश्षसे कश्सादसुं त्वमिति वादिनम् ।
सोव्यक्तं किमपि हीतः भ्रधावन्तं जगाद तम् ॥ २२१ ॥
रय्यावल्ाभिधो दीपधरस्तिष्ठन्निरायुधः ।
अयोदीपिकयारब्धयुद्धस्तेर्विक्षतोपतत् ॥ ३२२ ॥
चाम्पेयः सोमपालाख्यराजयुज्रः क्षताहितः।
प्रहारैः भ्रासषवेङ्कव्यो न गद्याचारतामगात् ॥ ३२३ ॥
पोजः श्रीद्युरपारस्य राजकापत्यमज्कः 1
विदद्रौ श्वेव संछाद्य शी पुच्छच्छरोपमाम् ॥ ३२४ ॥
ततः प्रधावन्त्रीवमारुरुषुः क्षितीश्वरः !
निरूत्तजायुञण्डाटेराछिलिङ्ग वसुंधराम् ॥ ३२५ ॥
तत्पृष्टे स्वं क्षिषन्देदं भारेजंजयीङृतः ।
शुङ्गारनामा कायस्थो निर्द्रोदो वारितोरिभिः ॥ ३२६ ॥
पुनरुत्थातुकामस्य सवै शखावलीर्दिंषः ।
न्यपातयंस्तस्य काल्या नीखाज्ञवरणसरजम् ॥ ३२७ ॥
तिष्ठेत्कदाचिद्धूर्तोयमविपन्नो विपन्नवत् ।
कंधरामधमः सडस्तस्येति स्वयमच्छिनत् ॥ २३२८ ॥
कृतं पदापहरणं यस्य सोहमिति ब्रुवन् ।
छित्त्वाङ्गुलीश्चकर्षापि रत्नाङ्कामूर्मिकावलीम् ॥ ३२९ ॥
एकपादस्थितोपानत्त्रस्तमाल्यैः शिरोरुहैः ।
छन्नवक्र: स दहशे सुप्तो दीर्घभुजः क्षितौ ॥ ३३० ॥
पर्याप्तयास्य पर्यन्ते वीरवृत्त्या महौजसः ।
२९
निर्दोषतामीषद्गान्निस्त्रिंशत्वं जनान्प्रति ॥ ३३१ ॥
सेवकः शूरो नाम पूत्कुर्वन्द्रोहमुच्चकैः ।
निर्गत्य भोगसेनेन बहिः क्रोधान्निपातितः ॥ ३३२ ॥
प्रस्थितो दयितावासं स दिङ्योहवशादिव ।
पन्थानं पृथिवीनाथः काल्या जग्राह वेश्मानेन ।। ३३३ ।।
राज्योद्याने नृपतिमधुपा भोगकिंजल्कलोला-
श्वेतो नानावसनकुसुमश्रेणिभिः प्रीणयन्तः ।
हा धिग्दैवानिलतरलया पात्यमाना नियत्या
वल्ल्येवैते किमपि सहसा दृष्टनष्टा भवन्ति ॥ ३३४ ॥
तिर्यग्भ्यस्त्रिजगजयी परिभवं लङ्केश्वरो लब्धवा-
न्प्रापाशेषनृपोत्तमः कुरुपतिः पादाहतिं मूर्धनि ।
इत्यन्ते बहुमानहृत्परिभवः सर्वस्य सामान्यव-
तत्को नाम भवेन्महानहमिति ध्यायन्धृताहंक्रियः ॥३३५॥
परासुमहितैस्त्यक्तं तमनाथमिव प्रभुम् ।
ननं हुताशसात्कर्तुं स्वच्छत्रग्राहिणोनयन् ॥ ३३६ ॥
भुजौ कण्ठे गृहीत्वैकः कराभ्यां चरणौ परः ।
तं भुग्नश्रीवमालोलकुन्तलं रुधिरोक्षितम् ॥ ३३७ ॥
सशूत्कारवणं नग्नमनाथमिव पार्थिवम् ।
राजधान्या विनिष्कृष्टं न्यधत्तां पितृकानने ॥ ३३८ ॥
युग्मम् ॥ 9 राजतरङ्गिणी
महासरिद्वितस्ताम्भःसंभेदद्वीपभूतले ।
अह्नाय वह्निसंस्कारं ते भीतास्तस्य चक्रिरे ॥ ३३९ ॥
न हतो नापि निर्दग्धः स केनापि व्यलोक्यत ।
उड्डीयेव गतस्त्वाशु नेत्रनिर्विषयोभवत् ॥ ३४० ॥
व्यतीतेन स वर्षेकचत्वारिंशतमायुषा ।
सप्ताशीत्यब्दपौषस्य शुक्लषष्ठ्यां व्ययुज्यत ॥ ३४१ ॥
चक्रेथ सासिकवचो रड्डः शोणितमण्डितः ।
श्मशानाश्मनि वेताल इव सिंहासने पदम् ॥ ३४२ ॥
.....…....…. ।
"बद्धमूलानामाद्यानां तन्न दिद्युते ॥ ३४३ ॥
तस्यावरोहतः सिंहासनाद्योद्धुं पुरो युधि ।
विक्रामन्तो बन्धुभृत्या युद्धभूमिमभूषयन् ॥ ३४४ ॥
तत्रिणौ बट्टपट्टाख्यौ युवा तद्द्वान्धवौ चिरम् ।
योधाश्च कट्टसूर्याद्याः सिंहद्वारेपतन्हताः ॥ ३४५ ॥
रणरङ्गनटो नृत्यनिय राजगृहाङ्गने ।
सखङ्गखेटको रड्डुः खण्डयन्नहितान्बभौ ॥ ३४६ ॥
दिशन्विजयसंदेह महितानां क्षणे क्षणे ।
प्रहारैः सुबहून्भित्त्वा स चिरेणापतद्रणे ॥ ३४७ ॥
राजद्रोहोचितं तस्य निहतस्यापि निग्रहम् ।
वैशसत्यक्तमर्यादो गर्गः कोपादकारयत् ॥ ३४८ ॥
दिद्दामठान्तिके व्यड्डः पौरैर्भस्माश्मवर्षिभिः ।
अवस्करप्रणालान्तर्मग्नवको न्यपात्यत ॥ ३४९ ॥
ते गुल्फदामभिः कृष्टाः स्थाने स्थाने प्रभुद्रुहः ।
तत्क्षणं लोकथूत्कारपूजां कृत्योचितां दधुः ॥ ३५० ॥
<poem>पलाय्य प्रययुः क्वापि सड्डुं हंसरथादयः ।
मरणाभ्यधिकां कंचित्कालं सोढुं विपह्यथाम् ॥ ३५१ ॥
द्यप्यन्पराजितं गंर्गं नष्टे तदनुजे विदन् ।
<poem>भोगसेनोथ तां वार्तामशृनणोत्प्रलयोपमाम् ॥ ३५२ ॥
व्यावृत्य प्रत्यवस्थातुकामः पश्यन्पलायिन: ।
योधान्स्वैः सहितः कैश्चित्ततः क्वापि भयादगात् ॥ ३५३ ॥
इत्त्थ्ं निहतविध्वस्तनायका द्रोग्धृ संहतिः ।
स्वदोर्मात्रसहायेन गर्गचन्द्रेण सा कृता ॥ ३५४ ॥
सत्वं साहससिध्धि च नेतिहासेष्वपि क्वचित् ।
अश्रौषं ताद्यशं याध्यक्तस्यास्ते स्म प्रतापिनः ॥ ३५५ ॥
निशां प्रहरमह्नश्च राज्यं कृत्वा स लब्धवान् ।
द्रोह्वकृछ्रं खराजाख्यां गतिं कुकृतिनामगात् ॥ ३५६ ॥
यशस्करकुले जन्म द्रोग्घृभिस्तै: प्रमाणितम् ।
क्षणभङ्गयभजद्राज्यं यस्माद्वर्णटदेववत् ॥ ३५७ ॥
दावोद्विपनकूटयन्रघटनैः सिंहादिसंहारिणो
यान्त्याकस्मिकगनण्डशैलपतनैरन्तं किराता वने ।
एकेनैव ननु प्रधावति जनः सर्वोपि मृत्यो: पथा
हन्ताहं निहतोयमेष तु मितं कालं विभेदग्रहः ॥ ३५८ ॥
स्वोद्वाहे ललनौघमङ्गलरवो यैर्हर्षुलै: श्रूयते
दीनैस्तैर्दयिताविलाप उदयन्नाकर्ण्यतेन्तेक्षणे ।
ह्वोपि घ्नन्नाहितं प्रहृष्यति परः स्वं घ्नन्तमन्ते मुदो-
द्धुत्तं सोप्यवलोकयत्यहह धिङमोहोयमान्ध्यावहः ॥ ३५९. ॥
सायं विचिन्तितो रात्रो फलितोऽन्यत्र वासरे ।
दुर्विपाकप्रदाताभूद्रोग्घृणां साहसद्रुमः ॥ ३६० ॥
अथ सिंहासनस्यान्त: कार्यान्ते त्यक्त्तविग्रह:
गर्गः प्रक्षालितामर्षश्चक्रन्द् स्वामिनं चिरम् ॥ ३६१ ॥
तस्मिन्ऱूदति सर्वोपि पौरलोको भयोज्झित:
संप्राप्तावसरो भूपं व्यलापील्लोकवत्सलम् ॥ ३६२ ॥
कारुण्योत्पत्तये दत्त्वा कोशं जीवितकामया ।
जयमत्या तदावादि गर्ग: कपटशीलया ॥ ३६३ ॥
कुरु मे संविदं भ्रातरिति सत्त्वमयस्तु सः ।
तत्प्रक्रियावचो ज्ञात्वा चितिं तस्या अकल्पयत् ॥ ३६४ ॥
चिकुरनिचये यत्कौटिल्यं विलोचनयोश्च या
तरलतरता यत्काठिन्यं तथा कुचकुम्भयोः ।
वसति ह्रुदि तद्यासां पिण्डीभवन्ननु ता इमा
गहनहृदया विज्ञायन्ते न कैश्चन योषितः ॥ ३६५ ॥
दौ:शील्यमप्याचरन्त्यो घातयन्त्योपि वल्लभान् ।
हेलया प्रविशन्त्यन्गिं न स्त्रीषु प्रत्ययः क्वचित् ॥ ३६६ ॥
युग्याधिरूढा सा यान्ती यावन्मार्गे व्यलम्बत ।
अग्रतो विज्जला तावन्निर्गत्य प्रविशश्चिताम् ॥ ३६७ ॥
अथ तस्याश्चितारोहं कुर्वत्या भूषणार्थिभिः ।
लुण्ठकैर्लुव्यमानाया व्यथा गात्रेषु पप्रथे ॥ ३६८ ॥
सछन्त्रचामरे राज्ञ्यौ दह्यमाने विलोकयन् ।
लोकः सर्वोपि साक्रन्दो दग्धदृष्टिरिवाभवत् ॥ ३६९ ॥
औचित्यं तेन च तदा निन्येत्यन्तपवित्रताम् ।
सर्वैर्यदर्थ्यमानोपि नोपाविक्षन्नृपासने ॥ ३७० ॥
सुतमुश्चलदेवस्य वालमङ्के निधित्सता ।
राज्येभिषेक्तुं ते केचित्तेनान्वैष्यन्त यन्तत: ॥ ३७१ ॥
लोको येष्वद्य केषांचित्तत्त्वमालोक्य सस्मितः ।
मिक्षामप्यटितुं जाने नैष जानाति योग्यताम् ॥ ३७२ ॥
राज्ञ्यां श्वेताभिघानायां मल्लराजस्य ये सुताः 1
सल्हणाद्यास्त्रयोभूवन्मघ्यमे प्राक्क्षयं गते ॥ ३७२ ॥
हन्तुं ज्येष्ठकनिष्ठौ दौ शेषौ सल्हणलोठनौ ।
अन्विष्टौ शङ्खराजेन भयान्नवमठं गतौ ॥ ३७४ ॥
निर्लज्जैर्निहतान्द्रोग्धृन्विहाय मिलितैः पुनः ।
तव्र्यश्वारोहसचिवैरानीतः कृतचाक्रिकैः ॥ ३७५ ॥
द्युष्ट्वा राज्यार्हमप्राप्य कंचिज्यायास्तयोस्तदा ।
गर्गेण राज्ये संरम्भादभ्यषिच्यत सह्वणः ॥ ३७६ ॥
हा धिकतुर्णो यामानामन्तरे नृपतित्रयी ।
अहस्त्रियामे तत्रासीदुद्युश्या या पुरुषायुषैः ॥ ३७७ ॥
ये सायमुच्चलनृपं प्राण्हे रड्ड्ं सिषेविरे ।
मध्यान्हे सह्लणं प्रापुर्द्दाष्टास्ये राजसेवकाः ॥ ३७८ ॥
अथ लोहरकोट्टस्थः सार्धेन्हि गलिति नृपः ।
सुस्सलो भ्रातृमरणं श्रुत्वा तूद्भ्रान्तमानसः ॥ ३७९. ॥
गर्गेण प्रहितो दूतः स क्रन्दन्स्वं क्षपन्क्षतौ ।
ततस्तं वीतसंदेहं चकारार्तप्रलापिनम् ॥ ३८० ॥
आद्यात्सल्हणवृत्तान्तपर्यन्तां नाशृणोत्कथाम् ।
गर्गदूताद्भ्रतृवधं स्वस्याह्वानं च केवलम् ॥ ३८१ ॥
अश्रद्दघानस्तं शीघ्रमारिच्छेदं सुदुष्करम् ।
तदाह्वानाय गर्गे यं प्रहिणोत्तं चलन्ग्गृहात् ॥ ३८२ ॥
आक्रन्दमुखरो भूत्वा तां रात्रिमरुणोदये ।
कर्श्मीराभिमुखो यात्रामसंभृतबलोप्यदात् ॥ ३८३ ॥
अन्योथ गर्गदूतस्तं पथि संघटितोभ्यधात् । कृत्स्त्रमावेद्य वृत्तान्तं नागन्तव्यमिति ध्रुवम् ॥ ३८४ ॥ क्षिप्रं हतेषु द्रोहेषु त्वय्यसंनिहितेनुजः । कृतस्तु सह्लणो राजा कृत्यमागमनेन किम् ॥ २३८५ ॥ श्रुत्वेति गर्गसंदेशं कोपादसहनो नृपः । अप्रयाणौषिणो भृत्यान्विहस्यैवं वचोब्रवीत् ॥ ३८६ ॥ नास्माकं पैतृकं राज्यं यदि रिक्थहरोनुजः । मज्यायसा मया चैतद्भुजाभ्यार्मार्जितं पुनः ॥ ३८७ ॥ राज्यं स्वीकुर्वतोरन्यो न दाताभूत्तदावयोः । येनाहृतमिदं पूर्वं स क्रमः क गतोधुना ॥ ३८८ ॥ इत्युक्त्वाविरतैरेव वहन्नासीत्प्रयाणकैः । दूतांश्च पार्श्वे गर्गस्य स्वीकृत्यै प्राहिणोद्धहून् ॥ ३८९ ॥ स काष्ठवाटं संप्राप सह्लणस्य हितैषिणा । निर्गल्य गर्गचन्द्रेण चक्रे इुष्कपुरे पदम् ॥ ३९० ॥ ड्त्तायां विभाव्य दृतेः छृतगतागतैः । तस्याङ्गीकृतसामापि गर्गो द्रोग्धा व्यधीयत ॥ ३९१ ॥ का्यैमध्यगतो राजा तथापि प्राहिणोत्तदा ।
धायं भ्रातरं ग्गाभ्य्णं दितदिताभिधम् ॥ २९२ ॥ भमोगसेनः क्षणे तस्मिन्नाययौ दैवमोहितः । खाद्राकान्विल्ववनजान्मध्येकृत्य रखपान्तिकम् ॥ ३९३ ॥ सोभ्यणं कर्णभूत्याख्यमश्वारोदं महीपतेः ।
चिरज्य गर्गं जेष्यामीत्युक्त्वाभूल्ोभनो्यतः ॥ ३९४ ॥ कारापेश्षामपि त्यक्त्वा इन्त घ्रावृदुदं स तम् ।
योग्यं प्रसङ्गमन्विष्यञ्जज्ञे लोकैरसज्रनः ॥ २३९५ ॥ अष्टमस्तरङ्गः ।
यस्य भ्रातृहः पार्श्वे स त्वमाश्रीयसे कथम् ।
गर्गोपि तमुपालेभे दूतैरित्यादि संदिशन् ॥ ३९६ ॥
स तु मार्गात्पलाय्यायं तमसीति विलम्बकृत् ।
दत्तास्कन्दः क्षपापाये तं सानुगमघातयत् ॥ ३९७ ॥
पतन्त्रणं कर्णभूतिवरवृत्त्या व्यरोचत ।
तस्य द्वैमातुरो भ्राता तेजःसेनोप्यनूनया ॥ ३९८ ।।
तेजः सेनस्तु शूलाग्रे नृपादेशात्र्यवेश्यत ।
मरिचो लवराजस्य तनूजोश्वपतेरपि ॥ ३९९ ॥
अवष्टम्भेन भूपोभून्निग्रहानुग्रहक्षमः ।
नयेनासितुमप्यास्था तावदासीन्न तंदूलम् ॥ ४०० ॥
पुरोगोपि कृतः पञ्चाद्योतीतेहि महीभुजा ।
स सज्जपालस्तत्पार्श्वमथादाय ययौ हयान् ॥ ४०१ ॥
तेष्वायातेष्ववष्टम्भं यातं किंचिच तद्बलम् ।
प्राप्तश्च गर्गसेनानीः सूयाश्वोनल्पसैनिकः ॥ ४०२ ॥
दुध्रुक्षून्वीक्ष्य तानातैर्नृपोश्चमधिरोपितः ।
उत्सेकशठधीवर्म कृच्छ्राञ्च परिधापितः ॥ ४०३ ॥
गगनं शलभच्छन्नमिव कुर्वन्नयात्तत् ।
शरासारो रिपुबलात्सर्वतोच्छिन्नसंततिः ॥ ४०४ ॥
ओंकारं शरशूत्कारैः कृत्वा द्रोहस्य दुःसहाः ।
प्राहरन्राजकटके सर्वान्सर्वायुधैर्द्विषः ॥ ४०५ ॥
हतविक्षतविध्वस्तसैन्यः साहसिको नृपः ।
वेगादपससारैको मध्यान्निर्गत्य वैरिणाम् ॥ ४०६ ॥
गर्जत्सिन्धुरथाश्रान्तनत्युन्नतिरलङ्घयत ।
सवाजिना तेन सेतुदुर्लङ्यः पत्रिणामपि ॥ ४०७ ॥
१ तद्बले इति स्यात् । २ आययौ इत्युचितम् ।
३५ राजतरङ्गिणी
सजपालादयो द्वित्राः शेकुस्तमनुवर्तितुम् ।
पृष्ठलग्ना निरुन्धन्तः स्थाने स्थाने विरोधिनः ॥ ४०८ ॥
वीरानकाभिधं वीरः स खशानां निवेशनम् ।
त्रिंशद्विशैः समं भृत्यैः प्रविष्टस्तत्यजेरिभिः ॥ ४०९ ॥
निरम्बरैर्निराहारैस्तिष्ठन्कतिपयैः समम् ।
स तत्र चित्रमाक्रम्य निर्भयोदण्डयत्वशान् ॥ ४१० ॥
क्रमेण च हिमापातदुर्लङ्ख्याध्वनि संकटे ।
अविपन्नो भाग्ययोगात्प्रययौ लोहरं पुनः ॥ ४११ ॥
पदे पदे प्राप्तमृत्युरायुःशेषेण रक्षितः ।
तथाप्यासीत्स कश्मीरप्राप्तिमेव विचिन्तयन् ॥ ४१२ ॥
वराकं द्वारसेत्वग्राद्र्गो हितहितं क्रुधा ।
विरुद्धधीर्वितस्तायां बद्धपाण्यमिक्षिपत् ॥ ४१३ ॥
तस्मिन्प्रक्षिप्यमाणेप्सु क्षेमाख्यः स्वं क्षिपन्पुरः |
दासोस्योञ्चैः पदारोहमधःपातेपि लब्धवान् ॥ ४१४ ॥
राज्यप्रदः क्षतारिश्च गर्गः प्राप्तोन्तिकं ततः ।
प्राप सहणराजस्य सविशेषमधीशताम् ॥ ४१५ ॥
स भूभृन्मत्रिविक्रान्तिहीनो राज्यमवाप्तवान् ।
चक्रभ्रममिवापश्यत्सर्वतो भ्रान्तमानसः ॥ ४१६ ॥
न मत्रो न च विक्रान्तिर्न कौटिल्यं न चार्जवम् ।
न दातृता न लुब्धत्वं तस्योद्रितं किमप्यभूत् ॥ ४१७ ॥
तद्राज्ये राजधान्यन्तर्मध्याहेपि मलिम्लुचः ।
लोकं मुमुषुरन्याध्वसंचारस्य कथैव का ॥ ४१८ ॥
पङ्गुरप्यङ्गनाकालं क्रान्त्या यत्रात्यवाहयत् ।
पुमानप्यभवत्तत्र सांध्वसाध्वस्तधीरसौ ॥ ४१९ ॥
१ साध्वसध्वस्तधीः इत्युचितम् ।
1 अष्टमस्तरङ्गः ।
यामद्य सहणोन्येचुर्भेजे तां लोठनः स्त्रियम् ।
साधारण्यं गतो राज्यभोग इत्यभवत्तयोः ॥ ४२० ॥
३७
पुरुषान्तरविज्ञानविहीनस्य प्रमाद्यतः ।
सर्वोपि तस्य तत्रज्ञैर्व्यवहारो व्यहस्यत ॥ ४२१ ॥
श्वशुरो लोठनस्योजसूहस्तेन व्यधीयत ।
द्वारे तापसगोष्ठीषु योग्यो विक्रमनिष्टुरे ॥ ४२२ ॥
यः सुस्सलभयोच्छेदमङ्गीकुर्वैस्तदागमे ।
स्वमन्त्रलक्षजापेन सिद्धिं मत्रक्षणेभ्यधात् ॥ ४२३ ॥
जिह्यो गर्गाज्ञया राजा तदप्रियमपातयत् ।
॥ ४२५ ॥
बद्धाश्मानं वितस्तायां बिम्बं नीलाश्वडामरम् ॥ ४२४ ॥
राजानुग्राहको गर्गस्तांस्तान्व्यापादयत्रिपून् ।
हालाहाण्डामरान्भूरीन्दत्तभोज्यानघातयत्
राश्यकिंचित्करे गर्गायत्तजीवितमृत्यवः ।
बहिश्चाभ्यन्तरे चासन्नल्पे वा पृथवोपि वा ॥ ४२६ ॥
कदाचिल्लहराद्गर्गे प्रविष्टेथ नृपान्तिकम् ।
घुक्षोभ नगरे लोकः सर्व एव भयाकुलः ॥ ४२७ ॥
तदा शुदचरद्वार्ता शूलान्यारोप्य नौषु यत् ।
क्रुध्यन्गर्गोयमायातो हन्तुं सर्वान्नृपाश्रितान् ॥ ४२८ ॥
गर्भिणीगर्भपातिन्या तादृश्या भयवार्तया ।
द्वित्राण्यहान्यन्वभावि जनैर्वर इवाखिलैः ॥ ४२९ ॥
ततस्तिलकसिंहाद्यैरुद्रेकाागदीयत ।
अनवेक्ष्य नृपादेशमास्कन्दो गर्गमन्दिरे ॥ ४३० ॥
देशश्चात्युल्वणः कृत्स्नो धावति स्म धृतायुधः ।
प्रत्यग्रहीत्तानखिलान्गर्गचन्द्रस्त्वविह्वलः ॥ ४३१ ॥
१ श्रियम् इत्युचितम् ।
! 2३८
राजतरङ्गिणी
निज्ञा दिब्दभल्चरछकषकायास्तुरंगमेः । -
भ्राम्यन्तस्तत्रादश्यन्त गगौवसथवीथिषु ॥ ४२२ ॥
निषिषेध न तान्राजा भ्रत्युतास्कन्ददायिनाम् ।
लोठनं कुण्टशक्तीनां तेषां स्फू व्यसजयत् ॥ ४३३ ॥
तेनापि योधेरम्मस्य रुद्धमार्गेण मन्दिरम् ।
न रुद्धं नापि निर्दग्धुं पारितं दत्तवहिना ॥ ४३४ ॥
धायुष्कः केशवो नाम मटेखो खोटिकामटे ।
अवाधतैव नाराचेस्तद्योधान्धातयन्परम् ॥ ४३५ ॥
भकारोन समं राजरोके विरतां गते ।
सायं साजुचरो गगों हयारूढो विनिर्ययौ ॥ ४३६ ॥
समरेरप्रतिहतो निनाय रुदरं बजन् । `
बद्धोजसुदमस्वस्थमासीनं ्ियुरेश्वरे ॥ ४३७ ॥
तापसेन किमेतेनेत्युक्त्वान्येदयुभमोच तम् ।
तं खुस्सरेपि - विधुरे पति नोदपारयत् ॥ ७३८ ॥
क्षणे क्षणे भवदेशस्ततः भ्रति सर्वतः ।
गगीगमनसंजस्तपोरार्गछितमन्दिरः ॥ ४३९. ॥
अथातंस्य मदीभवर्गगंसंधानमिच्छतः ।
महत्तमः सहेलोभूष्छदरे दृत्यमाचरन् ॥ ७४० ॥
तेनाङ्गीकारितो ग्मः कर्थचित्कन्यका्षणम् ।
भरव्यास्तु तेन संबन्धं नेच्छन्भूतस्य भूपतेः ॥ ४४१ ॥
ततः खुस्सख्देवेन सह संधि निबद्धवान् ।
पश्चात्संप्राथ्यमानोपि संबन्धं न व्यधत्त सः ॥ ४४२ ॥
मण्डले विशरारत्वमेवं याते रूंपोत्रवीत् ।
खड हं सरथं नोनरथं चासादितांश्चरेः ॥ ४४३ ॥
१ वरपोवधीत् इति स्यात् । अष्टमस्तरङ्गः ।
तानग्निकणसूच्यादिप्रवेशैर्जनः ।
अत्यक्तानसुभिर्घोरामवस्थामन्वबीभवत् ॥ ४४४ ॥
भोगसेनाङ्गनां मल्लामनुमेने स यन्नृपः ।
अनुसतु पति छन्नं वसन्तीं साधु तद्व्यधात् ॥ ४४५ ॥
तादृग्दृष्ट्वापि वैक्लव्यं शङ्कितेन तदन्तरे ।
प्रमिम्ये दिहभट्टारो रसदानेन भूभुजा ॥ ४४६ ॥
न राजबीजी नोच्चण्डविक्रमो वा बभूव सः ।
शमितो गूढदण्डेन यत्तथा तेन पापिना ॥ ४४७ ॥
तं या निनिन्दानिष्पन्नपौरुषं तत्स्वसुस्तदा ।
तस्या वहिप्रवेशेन सिद्धं मानवतीव्रतम् ॥ ४४८ ॥
सोल्पोपि राज्यकालोभूदेवमातङ्कदुःसहः ।
दीर्घक्षपादृश्यमानदीर्घदुःस्वप्नसंनिभः ॥ ४४९ ॥
कालवित्सुस्सलो गर्गाद्वद्धसंधिरपि त्रसन् ।
न्ययुङ्काग्रे सजपालं काश्मीरौन्मुख्यभाक्ततः ॥ ४५० ॥
द्वारेण सह दत्तार्थो लक्ककः सहभूभुजा ।
वराहमूलं संप्राप कथंचित्प्रस्थितिं भजन् ॥ ४५१ ॥
गर्गः स्मरन्नवस्कन्दं पश्चादयेत्य नाशयन् ।
वराहमूलेन समं तस्य सैन्यमलुण्ठयत् ॥ ४५२ ॥
विद्रौ स तु तद्योधैर्हतैश्च परिषस्वजे ।
अदिव्यैर्मेदिनी दिव्यैर्देस्त्वप्सरसां गणः ॥ ४५३ ॥
नायके गलिते शुद्धवृत्तैः सद्वंशजैर्मही ।
पतितै रुप्पछुड्डाद्यैर्भूषिता मौक्तिकैरिव ॥ ४५४ ॥
आगच्छता छिन्नभीतिः सजपालेन लक्ककः ।
निराश्रयः संप्रपेदे पार्श्व सुस्सलभूपतेः ॥ ४५५ ॥
३९ राजतरङ्गिणी
सोथ भूभृत्सजपाले दूरं क्रान्तरिपौ गते ।
आजगामान्तिकं प्राप्तैः प्रेरितः पौरडामरैः ॥ ४५६ ॥
संधि तव विधास्यामि सार्ध सुस्सलभूभुजा ।
इत्युक्त्वा सहणं प्रायात्तदभ्यर्ण सहेलकः ॥ ४५७ ॥
काङ्क्षाभ्युदयं पौरैश्चातकैरिव वारिदम् ।
अशिश्रियन्त्राजवर्जे सर्व एवोच्चलानुजम् ॥ ४५८ ॥
गर्गस्य गृहिणी छुड्डाभिधानाथ तदन्तिकम् ।
कन्यकाद्वयमादाय परिणेतुमुपाययौ ॥ ४५९ ॥
उपयेमे स्वयं राजा राजलक्ष्म्यभिधां ततः ।
गुणलेखां स्नुषात्वेन स्वीचक्रे तद्यवीयसीम् ॥ ४६० ॥
सहणे सानुजेभ्येत्य सज्जपालेन वेष्टिते ।
राजापि राजसदसः सिंहद्वारं समासदत् ॥ ४६१ ॥
साक्षाद्विरोधिभृत्येन द्वारमेकेन पातितम् ।
अभून्मोघं तमप्राप्य सार्धं वैरिमनोरथैः ॥ ४६२ ॥
ससैन्येर्गलितद्वारराजवेश्मस्थिते रिपौ ।
गर्गास्कन्दविशङ्ख्यासीञ्चकितं सौस्सलं बलम् ॥ ४६३ ॥
गर्गे वितीर्णकन्येपि राजसैन्यमविश्वसत् ।
तस्थौ स्थातव्यमित्येव तृणस्पन्देपि शङ्कितम् ॥ ४६४ ॥
अस्ताभिलाषिणि दिने तादृक्त्रासहते बले ।
स्नेहाददहति क्षमापे दुर्भदौकः स्थितान्रिपून् ॥ ४६५ ॥
प्रविश्य ग्रामनिर्भुग्नकवाटेन तमोरिणा ।
द्वारं विवृत्त्याङ्गनस्थैः सज्जपालोग्रहीद्रणम् ॥ ४६६ ॥
युग्मम् ||
तस्य निश्चित्य पातंगी वृत्तिं भूयस्परिव्रजे |
अनुप्रवेशं विद्धे पदातिर्लक्ककाभिधः ॥ ४६७ ॥
दरदानयने काष्ठवाटसंकटविक्रमे ।
यस्तस्य सदृशो योधः प्रतिबिम्ब इवाभवत् ॥ ४६८ ॥
स केशवश्च मठाधीश:स्तमनुसस्त्रतु:॥
शैनेयमाखुती पार्थमिव प्राथितसैन्धवम् ॥ ४६९ ॥
निर्गत्य मण्डपाल्लग्रप्रहारैस्तै:कथंचन|
विव्रुते प्राङ्गनद्धारे धीरो राजाविशत्स्वयम् ॥ ४७० ॥
निर्विभागे वर्तमाने संगरे सैन्ययोर्द्व्यो: । `
प्राङ्गने प्रमयं प्रापुभूयांसस्तत्र शस्त्रिण: ॥ ४७१ ॥
सचिवः सहराजस्य पतंगग्रामजो द्विज: ।
आजौ प्रापाब्जको नाम स्वःस्त्रीसंभोगभागिताम् ॥ ४७२ ॥
कायस्थेनापि रुद्रेण लब्ध्वा गञ्जाधिकारताम् ।
स्वामिप्रसादः साफल्यं निन्ये त्यक्त्वा तनुं रणे ॥ ४७३ ॥
सायं वनस्पतिलीनै:खगैर्वाचालितो यथा ।
ग्राण्वि प्रविष्टे प्रोडीननि:शव्दविहगोर्भत् ॥ ४७४ ॥
आयोधनोर्वी वाचाला चक्रे चित्रार्पितेव सा|
तथा सुस्सलभूपेन तुरंगस्थेन तर्जिता ॥ ४७५ ॥
अनारूढेङ्गनान्तःस्थे तस्मिन्सिहासने ध्वनिः ।
सुस्सलोजयतीत्येवं ढकावाद्यं च शुश्चुवे ॥ ४७६ ॥
मल्लराजग्रुहेतादङ्ान्यस्याप्युद पद्यत ।
अगातां तत्र वैङ्कव्यं याद्रुक्ससह्रुणलोठ नौ॥ ७७७ ॥
आबद्धकवचावश्वारूढावालि्ंग्य सुस्सल: ।
बालौ युवामिति वद्न्धूर्तोत्याजयदायुधम् ॥ ४७८ ॥
आदिश्य मण्डपेन्यस्मिन्वद्धयोश्च स्थितिं तयोः ।
प्राप्तराज्यस्ततो राजा विवेशास्थानमण्डपम् ।॥ ४७९ ॥
त्र्यहोनांश्चतुरो भासान्भुक्तराज्यं चवन्ध तम् ।
सितस्य सोष्ब् राधस्य अितयेहनि ॥ ४८० ॥
तेन सिंहसने क्रान्ते भास्वतेव नमस्तले ।
क्षणादेवाखिलो लोक: क्षोभमब्धिरिवात्यजत् ॥ ४८१ ॥
विकाशस्त्र: सन्द्रोहावेक्षणक्ष्योभत: सदा ।
व्याधलटोके व्यात्तवक्रो सगराज इवाभवत् ॥ ४८२ ॥
भ्राठृदधद्ां कुखच्छेदमन्विष्यान्विष्य ऊुवेता ।
न तेन नीतिनिष्ठेन दिदावोप्यवशोषिताः ॥ ४८३ ॥
जनस्य वीक्ष्य दौजैन्यमधृष्टाकारतां वहन् ।
स कार्यापेक्चयाप्यासीन्न काप्यादितमार्दैवः ॥ ४८४ ॥
वस्तुतस्त्वादरहदयः कूर दमयितुं जनम् 1
अचास्तवं वद्धीमत्वाद्धित्तिव्याख इवादधे ॥ ४८५ ॥
काटवित्समयल्यागी भ्रगव्भः प्रतिभानवान् ।
इङ्गितक्ो दीधैदष्टिः स एवान्यो न कोप्यभूत् ॥ ४८६ ॥
अधिकः कोपि कोप्यूनः कोपि तस्य समो गुणः ।
दोषोथ वा पूर्वजस्य स्वभावेक्येप्यदद्यत ॥ ४८७ ॥
अन्वकारिः समानेपि कोपे तत्पूर्वैजन्मनः ।
कोपेन विषमालर्क तदीयेन तु सारघम् ॥ ४८८ ॥
न वभूव स वेषादो सासूयोजुचितं पुनः ।
स्थितिभेदभयात्सेहे नोत्सेकमञुजीविनाम् ॥ ४८९ ॥
नैच्छत्स उन्द्युद्धादिसंधानैमानिनां वधम् ।
तस्िन्धरमाद्ान्निव्यूढे त्वदीयत छृपाङुलः ॥ ४९० ॥
वाक्पारुष्यं उछपस्यासीदायस्यातङ्कदुःसहम् ।
तस्य तु प्रणयपरायं दिसाद्यावाधवजितम् ॥ ४९१ ॥
तस्यार्थग्रूध्नोरुत्पादो भूयानास्ते स्म संपदाम् ।
त्यागो विषयकालादिनैयत्या तु मितोभवत् ॥ ४९२ ॥
नब्श्वावकर्माश्वबाहुल्यप्रिये तस्मिन्दरिद्रताम् ।
तत्यज्जुः कारवो वाजिविक्रेतारश्च दैशिका: ॥ ४९२ ॥
दुःसहव्यसनोप्तत्तौ जिगीषोः प्रशमैषिण: ।
तस्यासीद परित्याज्यं न किचिंद्धसुवार्षिण: ॥ ४९४७ ॥
तस्येन्द्रद्वादशी भूरिपरार्ध्योशुकदायिन: ।
यथा न्रुपेस्य शुशुभे तथा नान्यस्य कस्यचित् ॥ ७९५ ॥
यथा प्रागुश्चलो राजा सुप्रापः प्रियसेवक: ।
स तथा सेवकैरासीद्भूम्ना दुर्लभदर्शन: ॥ ७९६ ॥
नोच्चलादपरस्याह्यसनं हयवाहने |
नान्यस्य न्रुपाद्दासक्ष्यं तत्र च पप्रथे ॥ ९९७ ॥
शममुत्पन्नमुत्पन्नं निन्ये दुर्भिक्षमुचल: ।
राज्ये सुस्सलदेवस्य न तस्स्वप्रेप्यद्रुश्यत॥ ७९८ ॥
किमन्यदखिलै: सोभुदग्रजादधिको गुणैः ।
त्यक्त्वात्यागार्थनैस्प्रुह्यसुप्रापत्वानि केवलम् ॥ ४९९ ॥
औश्चले: पालको गर्गो यं राज्ये कर्तुमैहत ।
सहस्रमङलस्तेन निरवास्यत सक्रुधा ॥ ५०० ॥
तस्मिन्भद्रावकाशस्थे प्रासनामा तदात्मजः ।
काञ्चनोत्कोचदश्चके डामरै: सह चाक्रिकम् ॥ ५०१ ॥
असंत्यजन्नुच्चलजं पितृव्येणार्थितं शिशुम्।
प्रसङ्गे तत्र गर्गोपि प्रातिकूल्यमदर्शयत् ॥ ५०२ ॥
प्रहितानां नरेन्द्रेण त्रुणानामिव शस्त्रिणाम् ।
गर्गदावाग्निदग्धानां निःसंख्यानामभूरक्षयः ॥ ५०३ ॥
गर्गस्यालोपि विजयः स देवसरसोद्धवः। |
अन्वारूढेन तत्रापि सजपालेन वेष्टितः ।
चरणौ शरणीचक्रे राज्ञो दत्त्वोच्चलात्मजम् ॥ ५१६ ॥
अन्तिकस्थं नृपे कर्णकोष्टजं मल्लकोष्टकम् ।
विरुद्धं रुद्धवत्याशु गर्गो विश्वासमाययौ ॥ ५१७ ॥
गृहीतप्रणतिस्तस्य नष्टेषु विजयादिषु ।
शमितोपप्लवो राजा विवेश नगरं शनैः ॥ ५१८ ॥
गत्वाथ लोहरे न्यस्य बद्धा सहणलोठनौ ।
स कहसोमपालाद्यै रेमे संसेवितो नृपः ॥ ५१९ ॥
भूयः प्रविष्टः कश्मीरान्सेव्यः सर्वातिशायिभिः ।
गर्ने प्रसादैरनयत्प्रवृद्धिमधिकाधिकैः ॥ ५२० ॥
ग्रीष्मार्कप्रतिमे तस्मिन्ह्लादिनावनुचक्रतुः ।
महादेवी कुमारश्च तुमच्छायावनानिलौ ॥ ५२१ ॥
डामरौ देवसरसोद्भवौ विजयगोत्रिणौ ।
४५
बृहट्टिकस्तथा सूक्ष्मटिको वेलां प्रचऋतुः ॥ ५२२ ॥
सानाध्यकाङ्क्षण पार्थिवस्य प्रविशतः पुरः ।
लोकपुण्ये तस्थतुस्तौ ऋन्दद्भिः स्वानुगैः समम् ॥ ५२३ ॥
विजये गर्गसंबन्धात्सदाक्षिण्यो महीपतिः ।
सदाचारं परित्यज्य वेत्रिभिस्तावताडयत् ॥ ५२४ ॥
तौ मानिनश्च तद्धृत्याः कृटशस्त्रास्ततो व्यधुः ।
साहसं सुमहत्सैन्ये प्रहरन्तो महीपतेः ॥ ५२५ ॥
श्वपाको भोगदेवाख्यः कृपाण्या प्राहरन्नृपम् ।
धीरो गजकनामा च करवालेन पृष्ठतः ॥ ५२६ ॥
सावशेषतया भूपस्यायुषो मोघतां ययुः ।
द्विषत्प्रहृतयो वाहतुरगी तु व्यपद्यत ॥ ५२७ ॥
राजतरङ्गिणी
नृपस्यान्तरयन्वैरिप्रहृतिं वाणवंशजः ।
निहतस्तत्र शृङ्गारसीहः सादी शसस्यकः ॥ ५२८ ॥
सैनिकैस्तैर्वृहट्टिकाभोगदेवादयो हताः ।
सूक्ष्मटिक्कस्तु निस्तीण हेतुर्भाविनि विप्लवे ॥ ५२९ ।
शूले व्यापादिता गजकादयो द्रोहसंश्रिताः ।
संदेहितासुरित्यासीद्वाजा गर्गानुकूल्यभाक् ॥ ५३० ॥
न भवेत्पविपातेपि प्रमयः समयं विना ।
प्रसूनमध्यसून्हन्ति जन्तोः प्राप्तावधेः पुनः ॥ ५३१ ॥
ज्वालाभिरौर्वदहनस्य पयोधिमध्ये
न म्लानतामपि हि यानि मुहुः स्पृशन्ति ।
तान्येव यान्ति विलयं किल मौक्तिकानि
कान्ताकुचेषु युवभावभुवोष्मणापि ॥ ५३२ ॥
प्राक्सेवामाप विस्मृत्य परोत्सेकासहिष्णुना ।
मण्डलात्सजपालाद्या निरवास्यन्त भूभुजा ॥ ५३३ ॥
संबन्धी काकवंश्यानां यशोराजाभिधस्ततः ।
सहस्रमङ्गलाभ्यर्ण राज्ञा निर्वासितो ययौ ॥ ५३४ ॥
तमन्यांश्च विनिर्यातान्देशागृह्णन्समृद्धिमान् ।
ऐच्छल्लुब्धप्रतिष्ठः स राज्ञः प्रत्यभियोगिताम् ॥ ५३५ ॥
तत्पुत्रः कान्दमार्गेण विविक्षुः क्षमापसैनिकैः ।
यशोराजे क्षते प्रासः प्रत्यावृत्त्य ययौ भयात् ॥ ५३६ ॥
अथान्येष्वपि भृत्येषु राशा निर्वासितेषु सः ।
मीलितेषु प्रथां यावद्यथाव दुपलब्धवान् ॥ ५३७ ॥
उपरागे नवे सजे पार्वतीयास्त्रयो नृपाः ।
चाम्पेयो जासटो वज्रधरो वल्लापुराधिपः ॥ ५३८ ॥
राजा सहजपालश्च वर्तुलानामधीश्वरः ।
युवराजौ त्रिगर्तौवींवल्लापुरनरेन्द्रयोः ॥ ५३९ ॥
बल्ह आनन्दराजश्च पञ्च संघटिताः क्वचित् ।
प्रस्थानार्थं कृतपणाः कुरुक्षेत्रमुपागताः ॥ ५४० ॥
आसमत्याहृतं तावद्भ्येत्य नरवर्मणः ।
प्रापुर्भिक्षाचरं तेन दत्तपाथेयकाञ्चनम् ॥ ५४१ ॥
कुलकम् ॥
स जासटेन संबन्धिस्नेहाद्विहितसत्कृतिः ।
नीतोन्यैश्च प्रथां भूपैर्वल्लापुरमथाययौ ॥ ५४२ ॥
देशाद्विनिर्गतैर्बिम्बप्रमुखैर्वर्धितप्रथे ।
तस्मिन्प्राप्ते सहस्रस्य प्रतिष्ठा लघुतामगात् ॥ ५४३ ॥
पौत्रोयं हर्षदेवस्य क एते राज्य इत्यथ ।
उक्त्वा त्यक्त्वा सहस्रादींस्तमेवाशिश्रियञ्जनाः ॥ ५४४ ॥
कृतज्ञभावमुत्सृज्य संबन्धिस्नेहमोहितः ।
दर्यको राजपुत्रस्तं राशानिर्वासितोप्यगात् ॥ ५४५ ॥
पुत्र: कुमारपालस्य तत्पितुर्मातुलस्य सः ।
वृद्धि सुस्सलदेवेन पुरा निन्ये हि पुत्रवत् ॥ ५४६ ॥
प्रेरितो युवराजेन जासटेन च कन्यकाम् ।
वल्लापुरेशः प्रददौ भिक्षवेथ स पद्मकः ॥ ५४७ ॥
तद्देशठकुरो भूपान्संघटय्याखिलांस्ततः ।
तमैच्छद्गयपालाख्यः कर्तुं पैतामहे पदे ॥ ५४८ ॥
तां वार्ता श्रुतवान्राजा यावदासीत्समाकुलः |
गयपालो हतस्तावद्गोत्रजैश्छद्मना बली ॥ ५४९ ॥
पद्मके तान्प्रतिगते योद्धुं प्रधनमध्यगः ।
भिक्षाचरचमूधुर्यो दर्यकोपि व्यपद्यत ॥ ५५० ॥
४७ राजतरङ्गिणी
तेन प्रधाननाशेन ततो भिक्षाचरो ययौ ।
अकिंचित्करतां मेघ इवावग्रहवारितः ॥ ५५१ ॥
आसमत्यां प्रयातायां क्षीणे पाथेयकाञ्चने ।
श्वशुरोपि ययौ तस्य शनैर्मन्दोपचारिताम् ॥ ५५२ ॥
चतुष्पञ्चानि वर्षाणि तिष्ठञ्जासटमन्दिरे ।
ग्रासाच्छादनमात्रं स ततः क्लेशात्समासदत् ॥ ५५३ ॥
ठक्कुरो देङ्गपालोथ चन्द्रभागातटाश्रयः ।
दत्त्वा सुतां बप्पिकाख्यां तं निनाय निजान्तिकम् ॥५५४॥
प्राप्तसौख्यो वसंस्तत्र कंचित्कालं भयोज्झितः ।
स राजबीजी दैन्येन शैशवेन च तत्यजे ॥ ५५५ ।
तदन्तरे साहसिकः प्रासः साहसिरुन्मदः ।
गतागतानि कुर्वाणः संरम्भमनयन्नृपम् ॥ ५५६ ॥
स सिद्धपथमार्गेण विविक्षुर्विप्लवोन्मुखः ।
स्वैरेव भृत्यैर्भूभर्तुर्वद्धा पापैः समर्पितः ॥ ५५७ ॥
तत्रोत्पिञ्जे परं सत्त्वं सज्जपालस्य पप्रथे ।
खिन्नोपि द्रोहविमुखो यत्स देशान्तरं ययौ ॥ ५५८ ॥
तस्मिञ्शूरे कुलीने च किं वाच्यं स दिगन्तरे ।
शौर्येणैव यशोराजः पप्रथे यत्तदद्भुतम् ॥ ५५९ ॥
अथ राजा निवार्याद्यान्सहेलादीन्महत्तमान् ।
सर्वाधिकारे विद्धे कायस्थं गौरकाभिधम् ॥ ५६० ॥
स तापसस्य संबन्धी कस्यचिद्विजयेश्वरे |
सेवया लोहरस्थस्य तस्य वाल्लुभ्यमाययौ ॥ ५६१ ॥
शमिते पूर्वकायस्थवर्गे तेन ततः क्रमात् ।
नीतः सर्वाधिकारित्वं सोन्यामेव स्थिति व्यधात् ॥ ५६२ ॥
अशेषकर्मस्थानेभ्यो वृत्ति राजोपजीविनाम् ।
निर्वादकोशभरणं तेनाकार्यनिशं प्रभोः ॥ ५६३ ॥
म्रदिम्ना पाप्मिनस्तस्य नाशायि क्रूरता जनैः ।
मधुरिम्णा विषस्येव शक्तिः प्राणापहारिणी ॥ ५६४ ॥
न्यधात्कृपणवित्तं स पूर्वसंचितनाशकृत् ।
विशुद्ध नृपतेः कोशे हिमे हिममिवाम्बुदः ॥ ५६५ ॥
कोश: कृपणवित्तेन प्रविष्टेन हि दूषितः ।
भुज्यते भूमिपालानां तस्करैरथवारिभिः ॥ ५६६ ॥
लोभाभ्यासेन भूयोपि संचिन्वन्कोशमन्वहम् ।
आस्ते स्म लोहरगिरौ प्रहिण्वन्सर्वसंपदः ॥ ५६७ ॥
गौरकाश्रयिभिर्वट्टपञ्जकाद्यैर्नियोगिभिः ।
विधीयते स्म निःसारा महोत्पातैरिव क्षितिः ॥ ५६८ ॥
उच्चलक्ष्मापतौ शान्ते मूर्धारूढशिलोपमे ।
अबाधन्त पुनर्लोकं व्याधा इव नियोगिनः ॥ ५६९ ॥
प्रशस्तकलशस्यान्ते तद्भ्रातृतनयः परम् ।
कायस्थः कनको नाम श्लाघ्यामकृत संपदम् ॥ ५७० ॥
नानादिगन्तरायातो दुर्भिक्षपतितो जनः ।
येनाविच्छिन्नसत्रेण शान्तव्यापद्व्यधीयत ॥ ५७१ ॥
संजातमुच्चलस्यान्ते येषां तत्त्वपरीक्षणम् ।
त एव चक्रिरे राज्ञा प्रमत्तेनाधिकारिणः ॥ ५७२ ॥
द्वारे तिलकसिंहः स तादृक्तेन व्यधीयत ।
राजस्थाने च जनकः काणस्तस्य सहोदरः ॥ ५७३ ॥
प्रतापैर्नृपतेस्तीक्ष्णैः करमाक्रान्तमण्डलः ।
जिताद्वाराधिपः सोपि स्वीचकारोरशाधिपात् ॥ ५७४ ॥
१ निवार्य इत्युचितम् । ४९ ५० राजतरङ्गिणी
काकवंश्यस्तु तिलकः क्ष्माभुजा दत्तकम्पनः ।
निन्ये प्रकम्पमहितान्प्रकम्पन इव द्रुमान् ॥ ५७५ ॥
ग्राम्यशस्त्रभृता शेडराजस्थानाधिकारिणा ।
नृपप्रतापैरहिताः सजकेनापि निर्जिताः ॥ ५७६ ॥
काकवंशाश्रयात्प्राप्तराजद्वारेण धीमता ।
अट्टमेलकभृत्येनाप्यवापीष्टेन मत्रिता ॥ ५७७ ॥
एवं स्वाहंक्रियात्यक्तगुणापेक्षेण मत्रिणः |
कुर्वतोच्चावचांस्तेन कश्चित्कालोत्यवाह्यत ॥ ५७८ ॥
वितस्तापुलिने सोथ कर्तुं प्रारभतोन्नतम् ।
स्वस्य श्वश्र्वाञ्च पत्न्याश्च नाम्ना सुरगृहत्रयम् ॥ ५७९ ॥
उत्पातवहिना दग्धो निःसंख्यधनदायिना ।
तेन दिद्दाविहारोपि नूतनत्वमनीयत ॥ ५८० ॥
पुरीमट्टिलिकां जातु स प्रयातोऽन्तिकस्थितैः ।
आप्तैः प्रर्यत कल्हाद्यैर्गच्छेदाय भूपतिः ॥ ५८१ ॥
गार्गिः कल्याणचन्द्राख्यस्तानतिक्रम्य हि स्फुरन् ।
मृगयादिक्षणे तेषामसूयामुदपादयत् ॥ ५८२ |
सर्वाभ्यधिकसामर्थ्य तं निग्राह्यं निवेद्य ते ।
नित्योपजपनैर्गर्गे विक्रियामनयन्नृपम् ॥ ५८३ ॥
बद्धा त्वां लोहरे भूभृदिच्छति क्षेप्नुमित्यथ ।
गर्ग: शशङ्के भृत्येन राज्ञा चैकेन बोधितः ॥ ५८४ ॥
ततः स ससुतस्तत्र पलाय्य स्वभुवं ययौ ।
दिनैर्भूपोपि संप्राप्तः प्रविवेश स्वमण्डलम् ॥ ५८५ ॥
अन्योन्यशङ्कया भेदं यातयो राजगर्गयोः ।
चाक्रिकैः कृतसंचारैर्वैरं प्रौढिमनीयत ॥ ५८६ ॥
स्यालंं गर्गस्य विजयं स्नेहशेषवश्ंवद:।
समीपात्सत्यजभ्राजा पश्चात्तापेन पस्पृशे ॥ ५८७ ॥ `
कारायां गर्गशत्रुर्यस्तेन पूर्वें न्यधीयत ।
स मल्लकोष्टकस्तस्मिन्कालेमुच्यत बन्धनात् ॥ ५८८ ॥
निबद्धयौनसंबन्धं डामरैरपरैः समम् ।
तं कारयित्वा सामर्षो निनाय बलितां नृपः ॥ ५८९ ॥
शनैर्युद्धाय निर्याते राजसैन्येथ पूर्ववत् ।
गर्गेण कदनं चक्रे योधानाममरेश्वरे ॥ ५९० ॥
तत्र सर्वातिशायिन्या वीरवृत्या नृपाश्रित: ।
शमालाडामर: प्राप प्रथां पृथ्वीहरः परम् ॥ ५९१ ॥
रणे द्वारपतेर्गर्गनिर्जितस्य पलायने ।
शौर्यं तिलकसिंहस्य प्राप सर्वॉपहास्यताम् ॥ ५९२ ॥
हतशेषाः क्षताः शस्त्रवस्त्रादि त्याजिता भटाः ।
तदीया गर्गचन्द्रेण कारूण्यात्केपि रक्षिता:॥ ५९३ ॥
वह्निसात्क्रियमाणेषु वीरदेहेषु सर्वत: ।
राजसैन्ये चिताग्नीनां गणना कापि नाभवत् ॥ ५९४ ॥
कृष्ट्सैन्येन राज्ञाथ गर्गो निर्द॑ग्धमन्दिरः ।
संत्यज्य लहरं प्रायाद्गिरिं धुडावनाभिधम् ॥ ५९५ ॥
गिरिमूलोप्रविष्ट्स्य भूपतेः सैनिकैः समम् ।
तेषु तेष्वकरोन्नित्यं गिरिमार्गेषु संगरम् ॥ ५९ द ॥
कूटयुद्दैर्नृपानीकं प्रतिरात्र्युपतापयन् ।
रणे त्रैलोक्यराजादिप्रमुखांस्तन्त्रिणोवधीत् ॥ ५९.७ ॥
फाल्गुने हिमसंभारभीमे परिमितानुग: ।
धीरो राज्ञ्यपि रिपौ न धैर्येण व्ययुज्यत ॥ ५९८ ॥
धैर्यवान्काकवंश्यस्तु तिलक: कम्पनापतिः ।
परं शिखरिन्ङ्गस्थं शक्तोभूत्तं प्रधावितुम् ॥ ५९९ ॥
पीडितस्तेन संप्रेष्य स्वभार्यां तजयान्तिकम् ।
निन्येवुकूलतां भूपं प्रसादाच्छादितक्रुधम् ॥ ६०० ॥
गूढमन्युर्नृप: संधिं बद्द्वा प्रचलितस्तत:।
तं मल्लकोष्ट्कं वृद्धिं निनाय न पुनः शमम् ॥ ६०१ ॥
सेहेथ लहरे द्वित्रान्मासानविशदे नृपे ।
स मल्लकोष्टासह्यस्पर्धां नीचविमाननाम् ॥ & ०२ ॥
तन्मध्ये नृपतिर्गूढं विभेदं तद्बलं नयन् ।
तदीयानकरोद्भृत्यान्कर्णादीन्स्वहितावहान् ॥ ६०३ ॥
स खिन्नो नीचदायादसमशीर्षिकयाथ तै: ।
प्रेरितः पार्थिवाभ्यर्णं सदारतनयोविश्त् ॥ ६०४ ॥
खातुं पवृत्तः पार्भ्वस्थं स्नानद्रोण्युपरिस्थित: ।
अथैकदा तमाक्षिप्तश्स्त्रमत्याजयन्नृप: ॥ ६०५ ॥
कुर्यादास्थामवष्ट्म्भे कोन्यः पौरुषगर्वितः ।
आक्षेपसमये सोपि यत्क्लैब्यं भीरुवद्ययौ ॥ ६०६ ॥
उत्खातरोपितनृप: क्व नु सोभिमानः
कार्पण्यभागितरलोकसमा क्व वृत्तिः ।
यद्वावशं नटयति प्रकटं विधातु-
रिच्छैव यन्त्रगुणपङ्क्तिरिवात्र जन्तुम् ॥ ६०७ ॥
अशकन्युधि ये द्र्ष्टुमपि तं नास्य ते शठा: ।
केपि राजप्रिया बाहू ग्रन्थिबद्धौ तदा व्यधुः ॥ ६०८ ॥
श्रीसंग्राममराभ्यणेमन्द्रिस्था नृपे स्वयम् 1
संग्रामे प्राङ्गनं युद्धात्कल्याणाया व्यरंसिषुः ॥ ६०९ ॥
जीवन्तं पितरं श्रुत्वा विदेहो गर्गनन्दनः ।
सान्त्व्यमानः स्वयं राज्ञा कृच्छाच्छस्त्रं समार्पयत् ॥ ६१०॥
गर्गः सदारतनयो राजौकस्येव भूभुजा ।
उपाचर्यत् दाक्षिण्याद्वध्दो भोगौर्निजोचितैः ॥ ६११ ॥
गार्गिः पलाय्य यातोपि चतुष्कं निजमन्दिरात् ।
अवर्णभाजा कर्णेन द्रुष्ट्वा राज्ञः समर्पितः ॥ ६१२ ॥
रूढच्छन्नप्रकोपस्य प्रसादस्य महीभुजः ।
अन्तःशुद्धिविहीनस्य व्रणस्येव न निश्चयः ॥ ६१३ ॥
दरद्राजे मणिधरे दिद्यक्षावागते नृपः ।
तत्संगमाय निर्यातो गर्गे भृत्यैरधातयत् ॥ ६२४ ॥
द्वित्रान्मासान्सोनुभूतकारागारस्थितिर्निशि ।
सत्रा त्रिभिः सुतैः कण्ठबद्धरज्जुर्न्यपात्यत ॥ ६१५ ॥
निष्ठां बिम्बमुखान्निन्ये यथैव स नृपानुगैः।
तथैव कण्ठबद्धाश्मा सपुत्रोक्षिप्यपात्यत ॥ ६१६ ॥
तं चतुर्नवते वर्षे हत्वा भाद्रपदे नृपः ।
खुखेच्छुः प्रत्युत प्राप दुःखमुद्भूतविप्लवः ॥ ६१७ ॥
कल्हे कालिंजराधीशे महादेव्याश्च मातरि ।
मल्लाभिधायां शान्तायां स ततोभूत्सुदुःखितः ॥ ६१८ ॥
तन्मघ्ये नागपालाख्यः सोमपालस्य सोदरः ।
तेन प्रतापपालाख्ये हते द्वैमातुरेग्रजे ॥ ६१९. ॥
शंकितस्तन्निहन्तारं हत्वामात्यं पलायितः |
त्यक्तस्वदेशः शरणं ययौ सुस्मलभूभुजम् ||६२०||
युग्मम् ||
क्रुद्धः स कारणात्तस्मात्प्रणयं वशवर्तिनः ।
अगृह्णन्सोमपलस्य निश्चिकायभिषेणम् ॥ ६२१ ॥
निश्चित्य सर्वोपायानामसाध्यं विधुरं नृपम् ।
स भिक्षाचरमानिन्ये तस्य वल्लापुराद्रिपुम् ॥ ६२२ ॥
निशम्यानितदायादं तं प्रकोपाकुलो नृप्ः ।
दत्तास्कन्दोविशत्तिव्रतेजा राजपुरीं ततः ॥ ६२३ ॥
दत्त्वा राज्ये नागपालं सोमपाले पलायिते ।
सप्त मासान्स तत्रासीत्तांस्तान्संत्रासत्रिपृन् ॥ ६२४ ॥
राज्ञां वज्रधरादीनां राजा वज्रधरो ।
सेवावसरदानेन भरसाद विवशोभवत् ॥ ६२५ ॥
भ्रमतां चन्द्रभागादिसरित्तीरेषु स्वतः ।
तत्सैन्यानां मुखमपि द्रं दोक वैरिणः ॥ ६२६ ॥
अग्रगाम्यभवत्तस्य तिकः कम्पनापतिः ।
पृथ्वीहदरो डामरश्च मार्भरक्चणदीक्षितः ॥ ६२७ ॥
धार्मिको शुपति््रह्यपुरी देवयुहांश्च सः ।
मण्डलं द्विषतो रक्षन्धपेदे मोकिकं एम् ॥ ६२८ ॥
तस्येन्द्रविभवस्यान्यत्सामभ्यं वण्यते कियत् ।
आययावश्वधासोपि सैन्ये यस्य स्वमण्डटात् ॥ ६२९ ॥
तत्र भरसङ्ध तेजापीभवन्सुजनव्धनः ।
दूरस्थस्यानयद्रूटि भोरकस्योपरि करुधम् ॥ ६२० ॥
१ मण्डले इत्युचितम् । २ तस्य इत्युचितम् ।
राष्ट्रगुप्तस्यै स्वयं राज्ञा स्थापितः स स्वमण्डले ।
अज्ञायि पैशुनाशुद्धबुद्धिता निखिलार्थह्रुत् ॥ ६२१ ॥
तत्संबन्धेन जनकं स निन्दन्नगराधिपम् ।
मनस्तिलकसिंहस्य तद्धातुरुदबेजयत् ॥ ६३२ ॥
ह्त्वाधिकारं त्वस्याथ क्रुद्धः पणौत्ससंभवम् ।
अनन्ताधिपमानन्दामिधं द्वाराधिपं व्यधात् ॥ ६२३३ ॥
सोमपालादयः श्लाध्यास्तदा प्रकृतयोभवन् ।
राज्ञास्तथास्थितस्यापि न याः सविधमाययुः ॥ ६२४ ॥
स पश्चनवते वर्षे वैशाखेथ स्वमण्डलम् ।
प्राविशन्नागलोपि राज्यभ्रष्टस्तमन्वगात् ॥ ६२३५ ॥
दुःसहातङ्कदूतेन खोभेन क्षोभतस्ततः ।
अदण्ड्यञ्च वास्तव्याननयञ्चाल्पतां व्ययम् ॥ ६२६ ॥
निवार्य गोरकं कर्यात्क्रर्यिण्स्तत्स्तमाश्रितान् ।
तस्य दण्डयतः सर्वे विरागं मच्रिणो ययुः ॥ ६२७ ॥
अकाण्डे व्यवहारेषु स विपयौसितेष्वभूत् ।
अवसन्नधनो गाढमभोढ्यान्नवमन्रिणाम् ॥ ६३८ ॥
सौवर्णीरिटेकाः कृत्वा धादिणोष्धोद रान्तरे ।
काञ्चनाद्विषरतीकादान्स्वर्णराधीनढौकयत् ॥ ६३९ ॥
अथ दण्डयितुं गर्गभ्रत्यान्दैण्डाधिकारिणाम् ।
छृहरेकत गर्गस्य मन्निणं गज्ञकाभिधम् ॥ ६४० ॥
तं दण्डभीतैगर्गस्य सेवकैराश्रितस्ततः ।
चिश्वस्तमवधीत्कुष्यजञ्छद्यना मह्छकोष्टकः ॥ ६४७१ ॥
लहरे विप्लुते राजा दैमातुरमथाग्रजम् ।
मल्लकोष्टस्यार्जुनाख्यं बबन्ध सविधस्थितम् ॥ ६४२ ॥
१ प्रविशन् इच्युचितम् । २ क्षोभितः इव्युचितम् । ३ दण्डाधिकारिणम् इव्युितम्।
~ ~~ |
हस्तं च सड्डचन्द्रस्य पुंत्रं गोत्रिणमप्यसौ ।
बध्द्वा व्यधाद्विद्दकाख्यं तस्य तद्भातरं हितम् ॥ ६४३ ॥
पूर्ववैरं स्मरन्सूर्यं सपुत्रं तं परांस्तथा ।
बबन्धानन्द चन्द्रादीन्नीत्युल्लङ्घनमाचरन् ॥ ६४४७ ॥
निर्गते लहरे मल्लकोष्टके विद्रुते ततः ।
आरोप्यार्जुन्कोष्टं तं शूले कोपाद्यपादयत् ॥ ६४५ ॥
निवेश्य सैन्यं तत्राथ प्रविष्टस्य पुरं ययुः ।
डामर निखिलास्तस्य वैरं विश्वस्तघातिनः ॥ ६४६ ॥
क्रुध्यन्पृथ्वीहरायपि कृतसेवाय मन्त्रिभिः ।
आदिष्टैः कम्पनेशाद्यैरवस्कन्दमदापयत् ॥ ६४७ ॥
कथंचित्स तु निस्तीणों जयन्तीविषयौकसः ।
बन्धोः क्षीराभिधानस्य श्रविवेदयोपवेशनम् ॥ ६४८ ॥
दिनेऽवन्तिपुरादीनां पुराणामन्तरेण तम् ।
जन्तं विधुरं केचिन्नाराकन्वाधितुं द्विषः ॥ ६४९ ॥
तद्धुयैविधानं तत्परजासंहारकार्यभूत् ।
भमादा्धूपतेः कुद्धवेताखोत्थापनोपमम् ॥ ६५० ॥
क्षीरोथ तीश्ष्णधी्वृद्धः सह पृथ्वीहरेण सः ।
अढौकयच्छ्मांगासान्तरेष्टादश डामरान् ॥ ६५१ ॥
अभेचसंघांस्ता्चेतं निर्यातो विजयेश्वरम् ।
न्ययुङ्क भृश्रत्सभ्रान्तस्तिकं कमस्पनापतिम् ॥ ६५२ ॥
संग्रामः खलण्डदराः कुर्वन् ल तानतुखुविक्रमः ।
विद्रावयामास रथैः पुरोवायुरिवाम्बुदान् ॥ ६५३ ॥
समानावसरे तस्य जित्वायातस्य डामरान् ।
अवे त्युत चरपो न भ्रादादवमानरत् ॥ ६५४ ॥
स भग्नमानो नगरं प्रविष्टे नृपतौ ततः ।
खिन्नः स्ववेश्मन्यवसत्स्वामिकार्ये निरुद्यमः ॥ ६५५ ॥
संप्राप्ताः समशीर्षिकां विसदृशैस्तुल्यैर्निरुद्धोदया
वैरे विद्विषतां कृता धुरि पदं संधौ बहिः स्थापिताः ।
कार्यान्तेऽद्भुतकर्मकौशलकृतावशा विरागस्पृशः
सर्पाकीर्णमिवाशु वेश्म गृहिणो भृत्यास्त्यजन्ति प्रभुम् ६५६
व्यक्तकार्यानुसंधाने तस्मिन्सर्वत्र डामराः ।
संभृति विक्रियां निन्युः कृषि क्षयघना इव ॥ ६५७ ॥
आतङ्कोद्वेजितैर्विप्रैः कृतप्रायैः पुरे पुरे ।
वहौ हुताग्निभिघौरा कुकीर्तिरुदपद्यत ॥ ६५८ ॥
उपसर्गेण तुरगाः करभाश्च क्षयं गताः ।
न्यवेदयन्मण्डलस्य प्रत्यासन्नमहाभयम् ॥ ६५९ ॥
प्रत्यासन्नाशुभा कम्पं भयेन जनता दधे |
आसन्नवज्रपतना वातेनेव द्रुमावलिः ॥ ६६० ॥
अथ षण्णवताब्दस्य प्रारम्भे डामरावलिः ।
ऊष्मस्पृष्टा हिमानीव बभूवापतनोन्मुखी ॥ ६६१ ॥
प्रथमं देवसरसाद्विप्लवप्रसरस्ततः ।
मुख्यं व्यथावहो गण्ड इव पार्क व्यदर्शयत् ॥ ६६२ ॥
एककार्यत्वमानीय टिक्कादीन्गोत्रजान्बली ।
स्थामस्थं विजयोभ्येत्य राजानीकमवेष्टयत् ॥ ६६३ ॥
तत्र कायस्थपुत्रोपि स्थामस्थानीकनायकः ।
संरम्भ नागवट्टाख्यः सेहे तस्य चिरं युधि ॥ ६६४ ॥
कथंचिदथ भूपेन प्रार्थितः कम्पनापतिः ।
निर्ययौ स्वामिदौरात्म्यासंस्मृतिश्लथसौष्ठवः ॥ ६६५ ॥
१ हुतात्मभिः इत्युचितम् । ८ ५७ 22 ५८ राजतरङ्गिणी
विजयेन समं तस्य बद्धमूलेन संयुगे ।
संदेहं प्राणवृत्तिश्च जयश्रीश्चासकृद्ययौ ॥ ६६६ ॥
प्रवृद्धि मल्लकोष्टेपि प्रयाते लहरान्तरे ।
वैशाखे निर्ययौ राजा ग्रामं थल्योरकाभिधम् ॥ ६६७ ॥
सैनिकाः शत्रुभिस्तस्य भ्रामितास्तत्र रात्रिषु |
अरतिं निन्थिरे घोरैः स्वप्नैरिव मुमूर्षवः ॥ ६६८ ॥
बाहुमात्रसहायेन सर्वशक्तिमतां वरः ।
येन हर्षनरेन्द्रोपि विधुरेणोदपाठ्यत ॥ ६६९ ॥
भूरीन्याराञ्जितवतो विक्रमेण महीमिमाम् ।
साहसानां न संख्यास्ति जामद्भ्यस्य यस्य वा ॥ ६७० ॥
स संकुचितविक्रान्तिः कालस्य बलवत्तया ।
तत्र भग्नबलोऽकस्माद्ययुज्यत जयश्रिया ॥ ६७१ ॥
ततः पलायिते तस्मिन्नकस्मादेत्य सज्जकम् ।
हाडिग्रामस्थितो वीरं भङ्गं पृथ्वीहरोनयत् ॥ ६७२ ॥
पलायितस्यानुसरंस्तस्य पृष्ठं स निष्ठुरः ।
प्रतापी नगराभ्यर्णे दग्ध्वा नागमठं ययौ ॥ ६७३ ॥
स चान्ये च ततः क्रूरा डामराः सर्वतोनयन् ।
राज्ञो राजाश्रितानां च चरकेभ्यस्तुरंगमान् ॥ ६७४ ॥
निस्त्रिंशतां तीव्रकोपस्ततो भूपः समाश्रयन् ।
अभाग्यभागिनां योग्यामाललम्बे कुपद्धतिम् ॥ ६७५ ॥
नीवीं पृथ्वीहरस्याथ हत्वा डामरमन्तिकम् ।
पृष्ठन्यस्तार्धं संभोज्यमिव रात्रौ व्यसर्जयत् ॥ ६७६ ॥
विसृज्य भ्रातरं हम्बं विद्दकस्य तथैव सः |
अन्येषां प्राहिणोत्पार्श्व भ्रातृन्पुत्रांश्च विद्भुतः ॥ ६७७ ॥
अष्टमस्तरङ्गः ।
मातरं जयकाव्यस्य सिफिन्नाग्रामवासिनः ।
विच्छिन्नकर्णघ्राणां च कृत्वाभ्यर्ण व्यसर्जयत् ॥ ६७८ ॥
सपुत्रं सूर्यकं शूलेधिरोप्य नगरेपरान् ।
भूरीन्वध्यानवध्यांश्च क्रोधाकान्तो न्यपातयत् ॥ ६७९ ॥
कालस्येवोल्बणस्याथ तस्य सर्वेपि शङ्किताः ।
आभ्यन्तराञ्च बाह्याश्च विरागं प्रतिपेदिरे ॥ ६८० ॥
येनैवानीतिमार्गेण हारितं हर्षभूभुजा ।
निन्दन्नप्यादधे तं स राज्ये व्यवहरन्स्वयम् ॥ ६८१ ॥
प्रविष्टानां युद्धे गहनकविकर्मप्रणयिनां
प्रसक्तानां द्यूते नरपतिधुरायां विहरताम् ।
तटस्थत्वे वक्तुं स्खलितमसकृत्सोर्हति परं
प्रयोगे वैकल्यं स्वयमविकलो यो न भजते ॥ ६८२ ॥
तीव्रप्रयत्नो नृपतिस्तत्रापि विहितोद्यमः ।
निनाय मल्लकोष्टादीन्किचिन्मन्दप्रतापताम् ॥ ६८३ ॥
अथानिनाय विजयो विषलाटाध्वना शनैः ।
नप्तारं हर्षदेवस्य तं भिक्षाचरमन्तिकम् ॥ ६८४ ॥
विविक्षन्देवसरसं कम्पनापतिना ततः ।
विद्राव्यमाणः श्वभ्राग्रात्प्रधावन्सोपतत्क्षितौ ॥ ६८५ ॥
परिज्ञाय हतस्याथ स तस्य विजयी शिरः ।
विससर्जान्तिकं राज्ञः फलं जयतरोरिव ॥ ६८६ ॥
तदप्यत्यद्भुतं कर्म भजन्भूभृत्कृतघ्नताम् ।
न तस्य तुष्टस्तुष्टाव न चकार च सत्क्रियाम् ॥ ६८७ ।।
अवजानञ्जघानामुं शुभ्राख्यः कम्पनापतिः ।
तत्र कस्मात्तवोत्सेक इति तं संदिदेश च ॥ ६८८ ॥
राजतरङ्गिणी
सर्वप्रकारं तिलकः कृतघ्नं नृपतिं विदन् ।
अथ जातविरागः स द्रोहौन्मुख्यं समादधे ॥ ६८९ ॥
सतां स्यादनुपालभ्यो भजेद्वैमुख्यमेव चेत् ।
द्रोहेच्छया स तु तया ययावग्राह्यनामताम् ॥ ६९० ॥
नेयाशयित्वमथवोचितकृत्यकृत्त्वं
नीतिप्रियाः प्रतिपदं समुदाहरन्तु |
मानोन्नतास्तु विहितस्तुतयः कृतशै-
स्त्यक्त्वाप्यसून्परहितं घटयन्ति सन्तः ॥ ६९१ ॥
पटं वह्निस्पर्शज्वलितमहिदष्टां त्वचमरे:
श्रुतिं यातं मत्रं पतननिरतां जीर्णवसतिम् ।
असेवाशं भूपं व्यसनविमुखं स्निग्धमजह-
न धीरोप्युत्थानोपहतमहिमा शर्म लभते ॥ ६९२ ॥
इत्युपायं परित्यज्य न्याय्यं ये प्रभवे क्रुधि ।
द्रोग्धारः कथितास्तेभ्यः केन्ये पापीयसां धुरि ॥ ६९३ ॥
जन्मन्येकोपकारित्वं पित्रोः सर्वत्र च प्रभोः ।
अधिकाः पितृघातिभ्यः पापिन: स्वप्रभुद्रुहः ॥ ६९४ ॥
निहते विजये शान्तप्रभावेष्वपरेष्वपि ।
नाज्ञायि कस्यचित्स्वास्थ्यं तत्त्वज्ञेनान्तरात्मनः ॥ ६९५ ॥
कंचित्क्षणं सोपसृतः प्रत्युतोग्रोपतापकृत् ।
विप्लवप्रसरो ज्ञातः सर्वैर्हुड इवोन्मदः ॥ ६९६ ॥
आनिनीषुस्ततो मैल्लकोटं भिक्षाचरं पुनः ।
विषलाटां तस्य पार्श्व निजं सैन्यं व्यसर्जयत् ॥ ६९७ ॥
१ जन्मन्येवोपकारित्वं इत्युचितम् | २ अन्तरात्मना इत्युचितम् | ३ मल्लकोष्टो
इति स्यात् ।अष्टमस्तरङग: | ६१
कम्पनेशस्तमायान्तं द्रोग्धाप्यावेदयंस्ततः ।
राज्ञा न्यषोधि तद्रोषादेवं च समदिश्यत ॥ ६९८ ॥
एनं वर्त्मन्यनुद्धाते त्यज हन्यामहं ततः ।
पुरोगतं मृगव्यान्त: शृगालमिव वाजिभिः ॥ ६९९ ॥
द्वैराज्यकार्यमर्मज्ञभावेपि विधिचोदितः ।
कर्तव्ये तत्र शाठयं स नृपति: प्रत्यपद्यत ॥ ७०० ॥
मर्मराजमुखादेवं लब्ध्वा द्रोग्धाथ डामरान् । तिलकोकारच्छैलमार्गैर्भिक्षाचरानुगान् 1 ७०१ ॥
स्थाने स्थाने ततः प्राप ततः कर्णोपकर्णिका।
जनानां या ख्यातिदहेतुभिक्षो राज्ञस्तु भीतिदा ॥ ७०२ ॥
नासंस्कृतं वक्ति शिला भिनत्त्येकेषुणा दश ।
अश्रान्तो योजनशतं यात्यायाति च संचरन् ॥ ७०२ ॥
इत्यादि तादृङ्माहात्म्यभिक्षुस्तुत्यानयज्जन:
निखिलन्पलितश्वेतलम्वकूर्चोपि कौतुकम ॥ ७०४ ॥
मविष्यन्निव साम्राज्यस्यैक एकोर्धभागभाक
वार्तामव्यवहर्तापि भिक्षोरूचेन्वियेष च ॥ ७०५ ॥
सरित्स्त्रानगृहे स्नान्तो वृद्धा: क्षीणनियोगिन: ।
राजवेश्मन्यगणिता नाममात्रं चृपात्मजाः ॥ ७०६ ॥
स्वभावदुर्जनाः केचिद्योधाश्चोच्चाश्वकाङ्क्षिण: ।
कारयन्तोप्युपाध्यायाः शिष्यान्स्फिक्कषणं नखैः ॥ ७०७ ॥
वृद्धा:सुरौकोनर्तक्यो देवप्रासाद्पालकाः ।
वणिजो भुक्तनिक्षेपाः पुस्तकश्रुतितत्त्परा: ॥ ७०८ ॥
प्रायोपवेशकुशला: पारिषद्यद्विजातय: ।
शास्त्रिण: कार्षकप्राया नगरोपान्तडामराः ॥ ७०९ ॥
सुखयन्तः स्वमन्यांश्च किमप्युत्पिञ्जवार्तया ।
एते प्रायेण देशेस्मिन्पार्थिवोपप्लवप्रिया: ॥ ७१० ॥
कुलकम्।
प्रवर्धमानया भिक्षाचरागमनवार्तया।
वेपमानोभवल्लोको ययौ चिन्तां च भूपतिः ॥ ७११ ॥
पृथ्वीहरस्तरुच्छन्ने गिरिकच्छे वसन्नथ ।
राजानीकं बभञ्जाजौ निर्गात्यातुलविक्रम: ॥ ७१२ ॥
अनन्तकाकयोर्वंश्यावानन्दद्वारनायकौ |1
चक्रे तिलकसिंहं च मन्त्रिणस्त्रीन्पलायिन: ॥ ७१३ ॥
निहते विजये ज्येष्ठे शुक्लषष्टयां पराभवम् ।
तमाषाढस्य नृपति: प्राप्याभूद्धिवशः पुनः ॥ ७१४ ॥
उट्टीकितैर्गवां वृक्षमूर्धारोहेण भोगिनाम् ।
पिपीलककुलस्याण्डोपसंक्रान्त्येव वर्षणम् ॥ ७१५ ॥
प्रत्यासन्नं स राजाथ दुर्निमित्तैरूपद्रवम् 1
विचिन्त्यायातमुचितं कतैव्यं प्रत्यपद्यत ॥ ७१६ ॥
तृतीयेह्रि शुचे शुक्ले ततः प्रास्थापयत्सुतम् ।
देवीमन्यत्कुटुम्बं च स कोटं लोहरं पटुः ॥ ७१७ ॥
ताननुव्रजतस्तस्य सेतुभङ्गात्परिच्युताः।
लोष्टद्विजानयो विप्रा वितस्तायां विषेदिरे ॥ ७१८ ॥
स तेन दुर्निमित्तेन खिन्नो हुष्कयुरान्तिकम् ।
अनुगम्याथ तान्द्वित्रैर्दिर्भूयोविशत्पुरम्॥ ७१९. ॥
विना पुत्रेण्ण देव्या च स ततः प्रत्यपद्यत ।
प्रतापेन च लक्ष्म्या च परित्यक्त इवान्यताम् ॥ ७२० ॥
¶ द्विजातयो हति स्याद् ।
</poem> </poem>
</poem>
स मस्त्रो व्यापदि शुभः प्रत्यभात्तस्य तद्वशात् ।
अभ्यन्तरप्रकोपेपि सर्वाभ्युदयभागभूत् ॥ ७२१ ॥ `
स्वयमुत्थापितानर्थः सोपि हर्षनरेन्द्रवत् ।
अद्यापि सान्वयो नीत्या तया साम्राज्यभोगभाक् ॥७२२॥
श्रावणे लाहरैर्योधैरानीय बलशालिनाम् ।
भिक्षुर्मडवराज्यानां डामसाणामथार्प्यत ॥ ७२३ ॥
तेपि जन्या इव वरं श्वशुरालयसंनिभम् ।
प्रावेशयंस्तं लहरमनुयान्त: ससैनिकाः ॥ ७२४ ॥
सभाजयित्वा तान्मल्लकोष्टमुख्या निजां भुवम् ।
व्यसर्जयन्कम्पनेशप्रमाथाय पृथुश्रिय: ॥ ७२५ ॥
सर्वतः परचक्रेथ पर्यापतति पार्थिवः ।
संग्रहीतुं प्रववृते पदातीनतुलव्यय: ॥ ७२६ ॥
तस्मिन्दुर्व्यसने राज्ञि वसुवर्षिणि सर्वत: ।
अकारि शस्त्रग्रहणं शिल्पिशाकटिकैरपि ॥ ७२७ ॥
नगरे सैन्यपतयः प्रतिमार्गमकारयन् ।
तुरगान्न्यस्तसंनाहान्व्यायामसमरोन्मुखा: ॥ ७२८ ॥
मयग्रामस्थिते भिक्षावमरेश्वरवासिभिः
राजसैन्यै: समं युद्धमगृह्नन्नेत्य लाहरा:॥ ७२९ ॥
तैर्हिरण्यपुरोपान्ते प्रवन्धारव्धसंगरै: ।
श्रीविनायकदेवाद्या राजसेनाधिपा हता: ॥ ७३० ॥
आद्य एव रणे यातां राजानीकाद्विरोधिन: 1
लव्ध्वा वराश्वामायाताममन्यन्त नृपश्रियम् ॥ ७३१ ॥
राजधान्यन्तिके क्षिप्तिकास्त्र्याया: सरितस्तटे ।
पृथ्वीहरश्चकाराजावशेषसुभटक्षयम ॥ ७३२ ॥
राजतरङ्गिणी
तिलके विजयेशस्थेप्यगृहन्नेत्य डामराः ।
महत्सरित्तटे युद्धं खड्गवीहोलडौकसः ॥ ७३३ ॥
ते रुद्धनगरा दाहं क्वापि क्वापि च लुण्ठनम् ।
वास्तव्यानां विदधिरे विनदन्तो दिवानिशम् ॥ ७३४ ॥
निर्यत्स तूर्यपृतनाः प्रविशच्छ स्त्रविक्षताः ।
ऋन्दद्धतार्तनिवहाः प्रधावद्भग्नसैनिकाः ॥ ७३५ ॥
प्रसरत्प्रेक्षिनिवहा वहदाशुगभारिकाः ।
संचार्यमाणसंनाहाः कृष्यमाणतुरंगमाः ॥ ७३६ ॥
आसन्नशान्तसंमर्दप्रसरत्यांसवोनिशम् ।
दिने दिने राजपथा उपलवविटङ्खलाः ॥ ७३७ ॥
प्रतिप्रत्यूषमायात्सु सर्वारम्भेण वैरिषु ।
अद्य ध्रुवं जितो राजेत्यज्ञाथि प्रतिवासरम् ॥ ७३८ ॥
धीरः कः सुस्सलादन्यो न यः प्रत्यभियोगिनाम् ।
कृच्छ्रेणापि स्वराष्ट्रेण ऋष्टुं धैर्यादपार्यत ॥ ७३९ ॥
व्रणपट्टाञ्चनं शल्योद्धारं पथ्यधनार्पणम् ।
शस्त्रक्षतानां सततं कारयन्स व्यलोक्यत ॥ ७४० ॥
प्रवासवेतनप्रीतिदायभैषज्यदत्तिभिः ।
शस्त्रिलोक़े नरपतेर्निःसंख्योभूद्धनव्ययः ॥ ७४१ ॥
युद्ध एव विपन्नानां क्षतानां च स्ववेश्मसु ।
नित्यं नरतुरंगाणां सहस्राणि क्षयं ययुः ॥ ७४२ ॥
तुरंगबहलैर्हन्यमाना नृपवलैस्ततः ।
लाहरा मल्लकोष्टाद्या मन्दोद्रेकत्वमाययुः ॥ ७४३ ॥
भिन्नैराभ्यन्तरैरेव दत्तमन्त्राः सुरेश्वरीम् ।
ते निन्युर्भिक्षुमल्पेन तन्मार्गेण युयुत्सवः ॥ ७४४ ॥
सेतुना स्वल्पपार्थेन धन्विप्रायैः सरोन्तरे 4
अवापि वैर्जयोमोचि वाजिभ्यश्च अयं रणे ॥ ७४५ ॥
द्रोग्धाथ कम्पनेशः स निवसन्विजयेश्वरे |
बलितां ड्रामरात्रिन्ये मन्द्रोद्रेकं स्फुरवणे ॥ ७४६ ॥
लवन्यलोको मा शासीदशक्ति मेथ गच्छतः ।
पृष्ठे निपत्य मा कार्षीद्व्यथां चेति विचिन्तयन् ॥ ७४७ ॥
स प्रभावं दर्शयितुं प्राप्तस्य विजयेश्वरम् ।
अजराजस्य सेनायां व्यावृत्य प्रस्थितोभवत् ॥ ७४८ ॥
सार्धं शतद्वयीं तस्य योधानां हृतवानपि ।
संत्यज्य विजयक्षेत्रं द्रोहकृन्नगरं ययौ ।। ७४९ ॥
पथि नान्वसरन्भीत्या भयात्तं डामराः क्वचित् ।
नदन्तोद्रिशिरोरूढा मार्गान्सर्वाश्च तत्यजुः ॥ ७५० ॥
त्यक्त्वा मडवराज्यं स प्रविष्टो व्यसनातुरम् ।
पूर्वचेष्टां स्मरन्भूपं जहास कृतसत्क्रियम् ॥ ७५१ ॥
इतरामात्यवत्स्थामस्थितोथ न निजोचितम् |
रणे प्रादर्शयत्किंचित्साक्षिभूत इव स्थितः ॥ ७५२ ॥
ततो मडवराज्यात्ते समस्ता एव डामराः ।
अभ्येत्य प्रत्यपद्यन्त तां महासरितस्तटीम् ॥ ७५३ ॥
उपायाः सामभेदाद्या रिपुचके प्रयोजिताः |
राज्ञो विफलतां जम्मुर्बहिरातैः प्रकाशिताः ॥ ७५४ ॥
फ्रान्ततत्तन्महीपालमण्डलस्यापि भूपतेः ।
फलं दोर्विक्रमस्याग्र्यमासीनगररक्षणम् ॥ ७५५ ।।
अमरेशे द्वारपतिः सार्धं तस्थौ नृपात्मजैः ।
राजानवाटिकोपान्ते राजस्थानीयमत्रिणः ॥ ७५६ ॥
९ ६६ राजतरङ्गिणी
दूरद्वीपान्तरगता इव स्वीचक्रिरे नृपात् ।
ते प्रवासघनं भूरि न चायुध्यन्त कुत्रचित् ॥ ७५७ ॥
कटका विद्विषां सर्वे पर्यायेण जयाजयौ ।
लेभिरे विजयादन्यन्न तु पृथ्वीहरः क्वचित् ॥ ७५८ ॥
मधुमत्तेन तेनाजौ वेतालेनैव वल्गता ।
प्रायो वरावराः सर्वे ग्रस्ता नृपचमूभटाः ॥ ७५९ ॥
उदयस्येच्छटिकुलोद्भूतस्यैकस्य पप्रथे ।
युवदेश्यस्यापि शौर्यमेस्तु तदाहवे ॥ ७६० ॥
पृथ्वीहरस्यापजह्वे द्वन्द्वयुद्धाभिमानिना ।
प्रहृत्य कृष्टकून कराद्येनासिवल्लरी ॥ ७६१ ॥
युद्धे पुरोपकण्ठेषु वर्तमाने शराहताः ।
स्त्रीबालाद्या अपि वधं प्रमादात्प्रतिपेदिरे ॥ ७६२ ॥
एवं जनक्षये घोरे वर्धमाने किमप्यभूत् ।
अनुत्साहान्नृपो गेहादपि निर्गन्तुमक्षमः ॥ ७६३ ॥
तस्मिन्निरुद्धसंचारे सोमपालस्तदन्तरे ।
अलुण्ठयञ्चाटलिकां लब्धरन्ध्रो ददाह च ॥ ७६४ ॥
सिंहे गजाहवव्यग्रे तद्गुहाग्रपरिग्रहे ।
समयो ग्रामगोमायोः पौरुषस्यापरोस्तु कः ॥ ७६५ ॥
राष्ट्रद्वयोमर्देन राजा निःसहशेन सः ।
तेन त्रपाविधेयोभूत्स्वमपि द्रष्टुमक्षमः ॥ ७६६ ॥
सर्वानौचित्यबहलः सर्वव्यसनदुःसहः ।
सर्वदुःखमयः कालस्तस्यावर्तत कोपि सः ॥ ७६७ ॥
तथाप्यस्खलिते तस्मिन्हितव्याजाद्धितापहः ।
राजानवाटिकाविप्रैः प्रायश्चक्रे विरागिभिः ॥ ७६८ ॥
प्रार्थयन्ते स्म ते युद्धे तटस्थास्तव मन्त्रिणः |
गृहीत्वा नीविरेतेभ्यो लोहराद्रौ विसृज्यताम् ॥ ७६९ ॥
न चेड्याप्य इवैतस्मिन्व्यसने स्थायितां गते ।
को दध्यान्न परैनीतं प्रत्यासन्नं शरत्फलम् ॥ ७७० ॥
न प्रत्यक्षैत्सीत्ताटस्थ्यं यत्कालापेक्षया नृपः ।
स्तै शङ्कां निखिला मत्रिणो दधुः ॥ ७७१ ॥
शक्तिस्तृणं कुजयितुं न यस्यं स तदार्थिभिः ।
विसूत्रव्यवहारत्वं निन्ये राजा शठद्विजैः ॥ ७७२ ॥
कर्मस्थानोपजीव्युग्रपारिषद्यादिसंकुला |
तत्पावत्प्रययौ वृद्धिमन्या सेनेव वैरिणाम् ॥ ७७३ ॥
तत्सान्त्वनक्षणे तैस्तैः प्रमादैरुत्थितैरगात् ।
देशो व्याकुलतां कृच्छ्रं लुण्ठिश्चाघटतोत्कटा ॥ ७७४ ॥
अदृष्टपार्थिवास्थानैः शरैरव्यवहारिभिः ।
ऊचे तैः सान्त्वयत्राजा दुःस्थितस्तत्तदप्रियम् ॥ ७७५ ।।
लवन्यविप्लवाद्राशः सोधिको विप्लवोभवत् ।
६७
गलरोगः पादरोगादिव तीव्रव्यथावहः ॥ ७७६ ॥
काञ्चनोत्कोचदानेन तन्मध्येधिकचक्रिकाम् |
कांचित्स्वीकृत्य स प्रायं कथंचिद्विन्यवीवरत् ॥ ७७७ ॥
विजयो वर्णसोमादिशस्त्रिवंश्यो हठात्पुरम् ।
प्रविशन्भिक्षुसेनानीरश्वारोहैरहन्यत ॥ ७७८ ॥
तेनातिरभसात्स्थानं भित्त्वा प्रविशता पुरम् ।
प्रायशः कृत एवाभूत्तदा राज्यविपर्ययः ॥ ७७९ ॥
१ चेद्याप्य इति स्यात् । २ दद्यान्नः इत्युचितम् | ३ येषां इति स्यात् । राजतरङ्गिणी
ईषन्मन्दप्रतापेन नवेन्येष्वपि भूपतेः ।
पृथ्वीहरेण संघित्सा भेदेच्छोः संप्रकाशिता ॥ ७८० ॥
तस्मिन्धुर्ये जिगीषूणां संघित्सौ भूभुजा समम् ।
द्वयेपि सैनिकाः शान्तं तममन्यन्त विप्लवम् ॥ ७८१ ॥
राशा नागमठोपान्तमानेतुं प्रहितांस्ततः ।
त्रीनमास्यान्स विश्वस्तानागच्छञ्छद्मनावधीत् ॥ ७८२ ॥
धात्रेयो मम्मको गुङ्गो द्विजो रामश्च वारिकः ।
तेषां तिलकसिंहस्य पार्श्वे भृत्यास्त्रयो हताः ॥ ७८३ ॥
नीविर्दत्तो गौरकस्तु हतो भूतपतिं स्मरन् ।
इष्टे त्वाकन्दिनि परैः प्रहृतं करुणोज्झितैः ॥ ७८४ ॥
तद्वैशसं श्रुतवतो देश: सर्वो विरागकृत् ।
राजधान्यन्तरे राज्ञो दुरुक्तिमुखरोभवत् ॥ ७८५ ॥
इषे शुक्लचतुर्दश्यां तद्विपर्यस्तमण्डलम् ।
अतिवाहयितुं कष्टं दिनमासीन्महीपतेः ॥ ७८६ ॥
अथ संजातवैक्लव्यो नेदमस्तीति चिन्तयन् ।
किं कृत्यमित्यसदृशानपि पप्रच्छ भूषतिः ॥ ७८७ ॥
विषमे वर्तमानस्य तस्य कश्चित्सं नाभवत् ।
अन्तर्जहास यो नान्तन तुतोष वा ॥ ७८८ ॥
तमपि व्यसनापातं तस्य सोढवतस्ततः ।
अभजन्त क्रमाद्भृत्याः प्रतिपक्षसमाश्रयम् ॥ ७८९ ॥
कम्पनेशस्य बिम्बाख्यो भ्राता द्वैमातुरो हि तान् ।
समाश्रयद्वारकार्य तद्दत्तं प्रत्यपद्यत ॥ ७९० ॥
गूढं जनकसिंहेन दूतान्प्रेषयतानिशम् ।
भिक्षवे भ्रातृतनया वाग्दत्ता निरवर्त्यत ॥ ७९१ ॥
१ लवंन्येष्वपि इति स्यात् । अष्टमस्तरङ्गः ।
असिवाजितनुत्रादि हृत्वा भिक्षाचरान्तिकम् |
अश्ववारा व्यभाव्यन्त प्रयान्तः प्रतिवासरम् ॥ ७९२ ॥
किमन्ययक्तमेवाद्वि येवसन्पार्थिवान्तिके ।
अलक्ष्यन्ताग्रतो भिक्षोस्ते निशायां गतत्रपाः ॥ ७९३ ॥
इतो याति ततश्चैति लोको व्यक्तमतत्रितः ।
इति राजनि कुण्ठाने कोप्यजृम्भत विप्लवः ॥ ७९४ ॥
डामरैः शरदुत्पत्तौ नीतायां सर्वतस्ततः ।
कांदिशीकोभवल्लोकः कृत्स्नो धनजनोज्झितः ॥ ७९५ ॥
प्रयाते सुस्सलनृपे स्वर्णपूर्णामिमां महीम् ।
भिक्षुः कुर्यादिति मृषा लोकस्यासीद्विनिश्चयः ॥ ७९६ ॥
व दृष्टा त्यागिता भिक्षोः कुतो वा तस्य संपदः ।
पराममर्ष नैवेति गतानुगतिको जनः ॥ ७९७ ॥
संदृश्यते परिवृता चिरमम्बरेण
रेखा स्वयं न खलु या शशिनो नवस्य ।
तस्यां जनः प्रकुरुते नतिमम्बरार्थी
धिग्लुब्धतामपसरत्सद्सद्विचाराम् ॥ ७९८ ॥
विजये राजवर्ग्याणां भुनग्रीव इवाभवत् ।
भिक्षुपक्षजये लोको हृष्यन्नासीद्विशृङ्खलः ॥ ७९९ ॥
द्विजकौलेयकन्यायो राजडामरसंघयोः ।
ततोन्योन्यभयभ्रश्यद्वैरयोरुदजृम्भत || ८०० ||
राजाभ्यन्तरभेदेन राज्ञः स्थैर्येण चारयः |
ऐच्छन्पलायितुं भीता अज्ञातान्योन्यनिश्चयाः ॥ ८०१
बान्धवानाप दुधुक्षूनविश्वस्तो विदन्नृपः ।
स्थितौ पलायने वापि श्रद्धे न स्वजीवितम् ॥ ८०२ ॥
№º राजतरङ्गिणी
तं महाव्यसने वासः स्वर्णरत्नादिवर्षिणम् ।
नाभ्यनन्दन्गृहीतार्था निनिन्दुः शस्त्रिणः परम् ॥ ८०३ ॥
नष्टोयं नैष अवितेत्यभीतेर्जल्पतो जनात् ।
वचो रोगी भिषक्त्यक्त इव शृण्वन्स विव्यथे ॥ ८०४ ॥
अप्यग्रोपस्थितं किंचित्तदादेशेन ढौकयन् ।
सविलासं सगर्वे च तमैक्षिष्टानुगव्रजः ॥ ८०५ ॥
सोन्य एवाभवत्तस्मिन्क्षणे साहसिकोप्यहो ।
स्वगृहादपि निर्गन्तुं नाशकद्यद्भयाकुलः ॥ ८०६ ॥
यावदैच्छन्संघभेदाञ्चलितुं डामरव्रजाः ।
स्वैरेव शस्त्रिभिस्तावन्निन्ये भूभृद्धिसूत्रताम् ॥ ८०७ ॥
ते कृष्टशस्त्रा द्वाराणि रुन्धन्तो नृपमन्दिरे ।
प्रवासवित्ते लब्धव्ये प्रायं चक्रुः पदे पदे ॥ ८०८ ॥
ददखनं धनेशश्रीर्देयादप्यधिकं नृपः ।
तेषामभिमतो नाभूदवमानाभिलाषिणाम् ॥ ८०९ ॥
मर्तु चिचलिषुस्तीर्थमृणिकैरिव सामयः ।
स
निखिलैर्देयं दापितोथ गतत्रपैः ॥ ८१० ॥
स्थानपालैरपि प्रायकृद्भिराक्रम्य दापितः ।
धनं सुवर्णभाण्डादि चूर्णकृत्य विश्टङ्खलैः ॥ ८११ ॥
सवृद्धबालं नगरं ततः क्षुभ्यत्क्षणे क्षणे ।
सोभूदब्धिमिवोद्वृत्तं न संस्थापयितुं क्षमः ॥ ८१२ ॥
एकदा प्रातरेवान्यै रुद्धद्वारः स शस्त्रिभिः ।
सर्वतः क्षोभमागच्छन्नगरं स व्यलोकयत् ॥ ८१३ ॥
ततः क्षोभं शमयितुं जनकं नगराधिपम् ।
पुरभ्रमार्थमादिश्य चलितुं क्षणमैक्षत ॥ ८१४ ॥
कथंचिद्दानमानाभ्यां तानावर्ज्यापि शस्त्रिणः ।
सावरोधः स संनद्धो राजधान्या विनिर्ययौ ॥ ८१५ ॥
अङ्गनात्तुरगारूढो बहिर्यावन्न निर्ययौ ।
राजधान्यन्तरे लुण्ठिस्तावत्प्रारम्भि तस्करैः ॥ ८१६ ॥
अरुदन्केपि केप्युच्चैरनदन्केप्यलुण्ठयन् ।
तद्भृत्यान्राज्यमुत्सृज्य तस्मिन्त्रजति शस्त्रिणः ॥ ८१७ ॥
विश्टङ्खलत्रपाकोपशङ्काभिः शस्त्रिणां नृपः ।
सहस्रैः पञ्चपैरासी जन्ननुगतोध्वनि ॥ ८१८ ॥
वर्षे षण्नवते कृष्णषष्ठ्यां मार्गे विनिर्गतः ।
याममात्रावशेषेहि सभृत्यो द्रोहविह्वलः ॥ ८१९ ॥
निजैर्हरद्भिरश्वादि त्यज्यमानः पदे पदे ।
स प्रतापपुरं प्राप क्षपायामल्पसैनिकः ॥ ८२० ॥
तिलकस्य पुरो गत्वा प्राप्तस्याग्रं च विश्वसन् |
तत्र बन्धोरिवासॄणि चिरं दुःखोल्वणोमुचत् ॥ ८२१ ॥
द्रोहं न कुर्यादेवं मे चिन्तयित्वेति सत्वरम् ।
वेश्म हुष्कपुरेन्येद्युस्तस्य च प्राविशत्स्वयम् ॥ ८२२ ॥
तद्गौरवेण स्नानादि कृत्वैच्छत्सैन्यसंग्रहम् ।
प्रविश्य क्रमराज्यं स कर्तुं भूयो जनोत्सुकः ॥ ८२३ ॥
गूढं युयुत्सूकल्याणवाडादीनथ डामरान् ।
आनीय स पुरस्तस्य धैर्यभ्रंशमकारयत् ॥ ८२४ ॥
गृहात्तेन तया युक्त्या निष्कृष्टः स ततो ययौ ।
स्वीकुर्वन्स्वर्णदानेन दस्यून्मार्गविरोधिनः ॥ ८२५ ॥
प्रयान्तं तत एवौज्झीत्तिलकस्तत्सहोदरः ।
प्रयाणमेकमानन्दो दाक्षिण्यादन्वगात्तु तम् ॥ ८२६॥
१ भूयोर्जनोत्सुकः इति स्यात् ।
७१
भृत्यत्यक्त: स दानेन विक्रमेण च तस्करान् 1
अगान्मार्गेण शमयन्नायु:शेषेण रक्षित: ॥ ८२७ ॥
त्राणं सिंहनखा द्रमाद्रिगहनास्यारदरण्यस्व ये
तेषां बालगलश्रयदपि भवेत्कालातिवाहः क्रमात् ।
ये दन्ताः करिणां रणप्रहरणं तेप्याश्रुयुर्दिव्यतां
क्रीडायां करताडनानि न द्रुढा शौर्यस्य रूढिः कचित् ८२८
जन्तूनां विक्रमत्यागयश:प्रज्ञादयो गुणाः 1
भवे चित्नस्त्रभावेस्मिन्न भवेयुरभङ्कुरा: ॥ ८२९ ॥
भास्वानप्यौग्य्रम्रृदुतां भिन्नोवस्थां दिने दिने ।
तां तामायाति जन्तूनां कः प्रभावेषु निश्चयः ॥ ८३० ॥
अशक्नुवन्नट्टलिकामरिप्लुष्टां निरीक्षितुम् ।
मन्युनि:शब्दसैन्योद्रिमारोह स लोहरम् ॥ ८३२१ ॥
स्वं कलत्रमप द्रष्टुं तत्रातित्रपयाक्षम:
शयनीयविमुक्ताङ्गस्तप्यते स्म दिवानिशम् ४ ८३२ 4
दत्तदीपादनिर्गच्छन्तर्गेहाद्दिनेष्वपि 1
दक्षिण्याद्दर्शनं प्रादाद्भृत्यानां भोजनक्षणे ॥ ८३२ ॥
विलेपनानि नास्प्राक्षीन्नारुरोह तुरंगमान् ।
गीतन्रृत्तादि नैक्षिष्ट सुखगोष्ठीने चादधे ॥ ८३४ ॥
ताम्यंस्तारस्थ्यमौखर्यतैक्ष्ण्यद्रोहादि दर्शितम् ।
एकेनैकेन च स्मृत्वी स्मृत्वा देव्यै न्यवेदयत् ॥ ८३५ ॥
अन्वगात्स्वां भुवं त्यक्त्वा मामेतेन्वगुरित्यपि ।
निन्ये बृद्धिं परार्ध्यश्री: स दाक्षिण्याद्धनार्पणै: ॥ ८३६ ॥
कश्मिरेषु गते तस्मिंस्तदैवाखिलमन्त्रिण: ।
पु्राणिराजधान्यर्ग्रे ससैन्याः समगंसत ॥ ८२७ ॥
मल्यश्वारोदसामन्ततत्रिपौरादिसंमतः ।
तेषां जनकसिंहोभूदग्रणीर्नगराधिप: ॥ ८३८ ॥
स भिक्षोर्मल्लकोष्टाध्योराप्तै: कृतगतागतैः ।
विस्वसाय सुतभ्रातृसुतौ नीविं प्रदापितः ॥ ८३९ ॥
प्रावर्त॑त भयभ्रश्यत्स्त्रीबालाध्यावृते पुरे ।
अराजकाथ रजनी सर्वभूतभयावहा ॥ ८७० ॥
निहताः केपि मुषिताः केपि केप्यरिभिः पुरे ।
दग्धागारा व्यधीयन्त दुर्बला राजवर्जिते ॥ ८४२ ॥
सैन्यैरन्येध्युरुन्नादैर्निरुद्धाखिलदिक्पथ: ।
सिन्दूरारुणपुड्राश्वसादिमण्डमलमध्यग: ॥ ८४२ ॥
विकोशशस्त्रकदलीषण्डदुर्लक्ष्यविग्रह: ।
मृगेन्द्र इव लोकस्य भयकौतूहलावह: ॥ ८४३ ॥
वीरपट्टान्चलश्लिष्टैर्योवनोद्रेचितै: कचः ।
अवद्धै: शोभितः पृष्ठे जयश्चीवन्धशृङ्खलै: ॥ ८४४ ॥
कुण्डलध्योतिना स्त्रिग्धधवलायतदृष्टिना ।
प्रत्यग्रश्मश्रुणा चारु चन्दनोेल्लेखशोभिना ॥ ८४५ ॥
तास्राधरेण वक्रेण श्रीसांनिध्याधिकत्विषा ।
पक्षपाति विपक्षणामपि संपादयन्मनः ॥ ८४६ ॥
असेर्विकोशस्यान्तःस्थां श्रियमश्वेन व्ल्गता ।
केसरच्छरया `ˆ“ -"चामरेणेव वीजयन् ॥ ८४७ ॥
पदे पदे निवृत्ताश्वः सामन्तैरुपपादिताम् ।
स्वीकर्वन्नर्हणां भिक्षु: प्राविशन्नगरं ततः ॥ ८४८ ॥
कुलकम् ॥
तस्यार्भकस्य धाजीव पृष्ठस्थो मह्कोष्टकः ।
प्रययावप्रगल्भस्य सर्वकार्योपदेष्टृताम् ॥ ८४९ ॥
१०५
राजतरङ्गिणी
अयं पितुः प्रियस्तेभूत्त्वमस्याङ्के विवर्धितः ।
राज्यस्यायं मूलमिति प्रत्येकं समदर्शयत् ॥ ८५० ॥
गृहं जनकसिंहस्य प्राकन्यावाप्तयेविशत् ।
राजलक्ष्मी स संप्राप्तुं राजधानीं ततः परम् ॥ ८५१ ॥
दूरनष्टे कुले तेन पुनरुद्रेचिते ययौ ।
बद्धास्थो गर्भगेपत्ये स्त्रीजनोनवहास्यताम् ॥ ८५२ ॥
दृष्टेन तादृशा भिक्षोरितिवृत्तेन शत्रुषु ।
चित्रस्थेष्वपि साशङ्का नोपहास्या जिगीषवः ॥ ८५३ ॥
प्रावर्तन्त धनाधीशश्रियः सुस्सलभूपतेः ।
कोषेण नीतशेषेण विलासा नवभूपतेः ॥ ८५४ ॥
चाजिवर्मासिभूयिष्ठां राजलक्ष्मी विभेजिरे |
राजडामरलुण्ठाकमन्त्रिणो यन्त्रणोज्झिताः ॥ ८५५ ॥
पुरे स्वर्ग इवास्वादं भोगानामुपलेभिरे |
दस्यवो ग्रामभोगार्हाः पिशाचा इव गहराः ॥ ८५६ ॥
आस्थाने न बभौ भूभृद्धामीणैः सर्वतो वसन् ।
प्रलम्बकम्बलप्रायविलासावरणैः समम् ॥ ८५७ ॥
भिक्षाचरस्यासंभाव्यप्रादुर्भावतया प्रथाम् ।
डामरा अवतारोयमित्यन्यां निन्थिरे प्रथाम् ॥ ८५८ ॥
राज्यस्यानन्यदृष्ट्रस्य कर्तव्येषु मुमोह सः ।
अदृष्टकमेव भिषग्भैषज्यस्य पदे पदे ॥ ८५९ ॥
शनैर्जनकसिंहेन कृतभ्रातृसुतार्पणम् ।
कम्पनाधिपतिर्दत्तकन्योपि तमशिश्रियत् ।। ८६० ।।
जुङ्गो राजपुरीयस्य राज्ञः कटकवारिकः ।
पादाग्राधिकृतोद्वाक्षीत्स्वार्थमर्थ न तु प्रभोः ॥ ८६१ ॥
अष्टमस्तरङ्गः ।
सर्वाधिकारिणं राजलक्ष्मीर्विम्बमशिश्रियत् ।
राजशब्दस्यैव पात्रमभूद्भिक्षाचरः परम् ॥ ८६२ ॥
वेश्यायत्तीकृतैश्चर्यः : प्राकृताचारभागपि ।
७५
अन्तरङ्गः सदसतां किंचिद्विम्बस्तदाभवत् ॥ ८६३ ॥
द्वैमातुरो दर्यकस्य भ्राता साश्चर्यशौर्यभूः |
नृपान्तरङ्गज्येष्ठत्वं ज्येष्ठपालो प्यशिश्रियत् ॥ ८६४ ॥
मत्रिणो भूतविश्शाद्यास्तस्य पैतामहा अपि ।
लक्ष्मीसरोजिनीभृङ्गा बहवोन्ये जजृम्भिरे ॥ ८६५ ॥
मुग्धे राशि प्रमत्तेषु मत्रिषूत्रेषु दस्युषु ।
उत्थानोपहतं राज्यं नवत्वेपि बभूव तत् ॥ ८६६ ॥
स्त्रीभिर्नवनवाभिश्च भोज्यैः प्राज्यैश्च रञ्जितः ।
भिक्षुर्नैशिष्ट कर्तव्यं सुखानुभवमोहितः ॥ ८६७ ॥
स सुखानुभवप्रावृग्निद्रान्धो विजयोद्यमे |
स्वैः प्रेरितः सभामध्ये स्वप्तुमैच्छन्मदालसः || ८६८ ।।
दर्पेण सचिवे वाचं कथयत्यनुकम्पिकाम् ।
न स चुक्रोध मुग्धस्तु पितरीवान्वरज्यत || ८६९ ॥
निष्प्रतिष्ठैः सेव्यमानो वेश्योच्छिट्टैरशिष्टवत् ।
अट्टचेटोचिताश्चेष्टा वि: प्रैर्यत सेवितुम् ॥ ८७० ॥
पानीयरेखाप्रतिमस्थैर्यस्याखिलवस्तुषु ।
तस्याप्रमाणवचसः सेवां प्रणयिनो जहुः ॥ ८७१ ॥
यदूचुः सचिवास्तत्तानन्ववोचन्न भूभृतः ।
वचः सुषिरगर्भस्य तस्य किंचित्समुद्ययौ ॥ ८७२ ॥
सचिवैः स्वगृहानीत्वा दत्तभोज्यः स मुग्धधीः ।
धनी विपन्नपितृक इव प्रमुषितो विः ॥ ८७३ ॥
१. अन्तरज्ञः इत्युचितम् । ७६ राजतरङ्गिणी
आहारमुष्टि बिम्बस्य गृहे बिम्बनितम्बिनी ।
तस्याश्वस्येव वडवा रागिणोग्रगताहरत् ॥ ८७४ ॥
वञ्चयित्वा दृशौ पत्युदर्शितैः स्मेरया तया ।
कुचकक्षकटाक्षैः स लुप्तधैर्यो व्यधीयत ॥ ८७५ ॥
पृथ्वीहरो मल्लुकोष्टश्चान्योन्योद्भूतमत्सरौ ।
क्षोभं व्यधत्तां संरब्धौ राजधान्याः क्षणे क्षणे ॥ ८७६ ॥
स्वयं राज्ञा सुतोद्वाहं गृहान्गत्वापि कारितौ ।
तावन्योन्यमुपेक्षेतां न मन्युं विक्रमोन्मदौ ॥ ८७७ ॥
अथ पृथ्वीहरगृहात्कृतोद्वाहः स्वयं नृपः ।
जातामर्षेण सुस्पष्टं मल्लकोष्टेन तत्यजे ॥ ८७८ ॥
द्रुह्यञ्जनककाणोपि संबन्धापेक्षयोज्झितः ।
विरागमोजानन्दादीन्निन्ये ब्राह्मणमत्रिणः ॥ ८७९ ॥
तटस्थो द्रोग्धदुर्बुद्धिप्रायभृत्यविधेयधीः ।
विसूत्रव्यवहारत्वं निन्द्यत्वं च ययौ नृपः ॥ ८८० ॥
डामरस्वामिके लोके प्राभवत्को न विप्लवः ।
ब्राह्मण्यो घर्षणं यत्र श्वपाकेभ्योपि लेभिरे ॥ ८८१ ॥
अराजकेथवा भूरिराजके मण्डले तदा ।
समस्तव्यवहाराणां स्फुटं तुत्रोट पद्धतिः ॥ ८८२ ॥
दीन्नारा भैक्षवे राज्ये निष्प्रचाराः पुरातनाः ।
तच्छतेन तु नव्यानामशीतेरभवत्क्रयः ॥ ८८३ ॥
राजपुर्यध्वना बिम्बं ससैन्यमथ पार्थिवः ।
लोहरं प्राहिणोत्कर्तु सुस्सलास्कन्दमुन्मदः ॥ ८८४ ॥
तुरुष्कसैन्यमानिन्ये सोमपालेन सोन्वितः ।
साहायकाय सल्लारे विस्मये मित्रतां गते ॥ ८८५ ॥
संदर्य पाशमेतेन बढी द्रक्ष्यामि सुस्सलम् ।
इत्येक एकोश्वारोहस्तुरुष्कैः समकथ्यत ॥ ८८६ ॥
काश्मीरकखशम्लेच्छयोधव्यतिकरोभवत् ।
न केषां नाम संभाव्यो विश्वोत्पाटनपाटवः ॥ ८८७ ॥
भिक्षाचरः प्रयाते तु बिम्बे विगलिताङ्कुशः |
न कासामव्यवस्थानां मूढः स्थानमजायत ॥ ८८८ ॥
स निमत्र्य निजं नीतो गृहं बिम्बावरुद्धया ।
भोगसंभोगदानेन धर्षण्या पर्यतोष्यत ॥ ८८९ ॥
कार्यापेक्षापि तस्यासीन्न मन्त्रिस्त्रीसमागमे ।
कौलीनभीतेरासन्ननिपातस्य कथैव का ॥ ८९० ।।
आद्यूनानुगुणं भोज्यं कुम्भकांस्यादिवादनम् ।
तत्र प्राकृतकामीव न स जिह्वाय शीलयन् ॥ ८९९ ॥
शनैः शनैस्ततो नष्टावष्टम्भस्य महीपतेः ।
काले भोज्यमपि प्राप्यं नासीद्गलितसंपदः ॥ ८९२ ॥
तादृक्प्रलोभक्रौर्यादिक्रान्तो यः प्रागगर्ह्यत ।
स सुस्सलोथ लोकानामभिनन्द्यत्वमाययौ ॥ ८९३ ॥
धनमानादिनाशं या विरक्तास्तस्य चक्रिरे ।
काङ्क्षन्ति स्म घनोत्कण्ठास्ता एवागमनं प्रजाः ॥ ८९४ ॥
प्रत्यक्षदर्शिनोद्यापि साश्चर्या वयमस्य यत् ।
ताः प्रजाः कोपिताः केन केन भूयः प्रसादिताः ॥ ८९५ ॥
क्षणाद्वैमुख्यमायान्ति सांमुख्यं यान्ति च क्षणात् ।
न हेतुं कंचिदीक्षन्ते पशुप्रायाः पृथग्जनाः ॥ ८९६ ॥
ते मल्लकोष्टजनकादयो दूतैर्विसर्जितैः ।
व्यक्तराज्यं पुनर्भूपं जयोद्यममजिग्रहन् ॥ ८९७ ॥
१ बढाऋक्ष्यामि इति स्यात् । ७८ राजतरङ्गिणी
अक्षोसुवाग्रहारेथ लोकैष्टिकस्य लुण्ठिते ।
तत्रत्या ब्राह्मणाः प्रायं नृपमुद्दिश्य चक्रिरे ॥ ८९८ ॥
तैश्चान्यैश्चाग्रहारैश्च संश्रितैर्विजयेश्वरे ।
राजानवाटिकाप्रायो नगरेपि न्यविक्षत ॥ ८९९ ॥
ओजनन्दादिभिर्मुख्यद्विजैरुत्तेजितास्ततः
।
।
गोकुलेपि व्यधुः प्रायं त्रिदशालयपर्पदः ॥ ९०० ॥
युग्यार्पितैः सितच्छन्त्रवस्त्रचामरशोभिभिः ।
विबुधप्रतिमावृन्दैः सर्वतछादिताङ्गनः ॥ ९०१ ॥
काहलाकांस्यतालादिवाद्यक्षोभितदिङ्मुखः
अदृष्टपूर्वी दहशे पारिषद्यसमागमः ॥ ९०२ ॥
ते सान्त्व्यमाना भूभर्तुर्दूतैरुत्सेकवादिनः ।
न विना लाम्बकूर्चे नो गतिरित्यब्रुवन्वचः ॥ ९०३ ॥
ते हेलया लम्बकूर्चाख्यया सुस्सलभूपतिम् ।
तं निर्दिशन्तोमन्यन्त क्रीडापुत्रकसंनिभम् ॥ ९०४ ॥
प्रायं प्रेक्षितुमायातैः पौरैः सह दिने दिने ।
अमत्रयत कां कां न व्यवस्थां पर्षदां गणः ॥ ९०५ ।।
नृपापातभयात्क्षोभं मुहुर्मुहुरुपागतैः ।
पारिषद्यैश्च पौरैश्च योद्धुमास्थीयतोद्धतम् ॥ ९०६ ॥
वश्यं जनकसिंहस्य नगरं तन्मतेन तत् ।
सजं सुस्सलदेवस्य कृत्स्त्रमानयनेभवत् ॥ ९०७ ।।
प्रायाद्वारयितुं पूर्वमग्रहारद्विजान्नृपः ।
प्रययौ विजयक्षेत्रं तत्रासीच्च हतोद्यमः ॥ ९०८ ॥
तन्मध्ये निखिलांस्तत्र डामरांस्तिलकोब्रवीत् ।
व्यापादयेति तं तच्च सत्त्वैकाग्रो न सोग्रहीत् ॥ ९०९ ॥
राज्ञ एव मुखाद्बुद्धा लवन्यास्तद्विशश्वसुः ।
तस्मिन्पृथ्वीहरमुखास्तत्रसुस्तिलकात्पुनः ॥ ९१० ।।
भागिनेयं प्रयागस्य क्षत्तारं लक्ष्मकाभिधम् ।
बन्दुमैच्छन्नृपोस्निग्धं प्रययौ स तु सुस्सलम् ॥ ९११ ॥
ततः प्रविश्य नगरं संनिपत्याखिलं जनम् ।
अकारणविरक्तानां पौराणां प्रददौ सभाम् ॥ ९१२ ॥
युक्तमप्युक्तवांस्तत्र हतोक्तिः शठबुद्धिभिः |
पौरैः स चक्रे नास्त्येव भेषजं विप्लवस्पृशाम् ॥ ९१३ ॥
अत्रान्तरे सोमपालबिम्बाद्या लहरे स्थिताः ।
योद्धुं सुस्सलभूपं ते सर्वे पर्णोत्समाययुः ॥ ९१४ ॥
तं च पद्मरथो नाम राजा कालिंजरेश्वरः ।
७९
मैत्री संस्मृत्य कह्लाद्यैराययौ तत्कुलोद्भवः ॥ ९१५ ॥
सोथ शुक्लत्रयोदश्यां वैशाखे बलिभिः समम् ।
तैर्मानी सुस्सलो राजा संग्रामं प्रत्यपद्यत ॥ ९१६ ॥
प्रेक्षकैर्वर्ण्यतेद्यापि स पर्णोत्सान्तिके रणः ।
तस्याद्भुतोवमानाझिक्षालनप्रथमक्षणः ॥ ९१७ ॥
कुतोप्येत्य निजस्फारस्ततः प्रभृति भूपतिम् ।
तमशून्यं पुनश्चक्रे मृगेन्द्र इव काननम् ॥ ९१८ ॥
भयस्खलितपाशानां कालपाशैः समागमम् ।
स चकार तुरुष्काणां क्षणात्पुष्कलविक्रमः ॥ ९१९ ॥
मातुलं सोमपालस्य निन्ये कवलतां बली |
रणे तत्कोपवेतालो वितोलासरितस्तटे ॥ ९२० ॥
किमन्यदल्पसैन्यः स बहूनपि स तान्व्यधात् ।
हतविद्रुतविध्वस्तयथात्मपरिपन्थिनः ।। ९२१ ॥
१. संनिपात्य इत्युचितम् । ८० राजतरङ्गिणी
काश्मीरकाणामौचित्यं किं नाभूत्स्वामिनो ददुः ।
एकस्य ये रणं नष्टाः कुकीर्तिमपरस्य च ॥ ९२२ ॥
तुरुष्कैः सह यातेथ सोमपाले गतत्रपाः ।
बिम्ब काश्मीरकास्त्यक्त्वा राजान्तिकमशिश्रियन् ॥ ९२३ ॥
ह्यो धनूंषि शिरांस्यद्य नमयन्तोद्भुताशयाः |
कुलप्रभोः पुरः स्पष्टं न ते धृष्टा ललजिरे ॥ ९२४ ॥
आगच्छद्भिस्ततः पौरैडर्डामरैश्च समं नृपः ।
प्रतस्थे दिवसैर्द्वित्रैः कश्मीराभिमुखः पुनः ॥ ९२५ ॥
राजपुत्रः साहदेविः कहणो विशतः प्रभोः ।
डामरान्क्रमराज्यस्थान्संगृह्याग्रेसरोभवत् ॥ ९२६ ॥
य एव प्रथमं राजसैन्याद्भिक्षुमशिश्रियत् ।
स एव बिम्बो राजानं तमुत्सृज्य समाययौ ॥ ९२७ ॥
अन्ये जनकसिंहस्य संमता मत्रितत्रिणः ।
प्रत्युद्यान्तो व्यलोक्यन्त नृपति निरपत्रपाः ॥ ९२८ ।।
काण्डिलेत्राभिधग्रामजन्मा शस्त्री सुलक्षणः ।
भाङ्गिले कश्चिदभवच्छ्रन्ये क्रान्तोपवेशनः ॥ ९२९ ॥
भिक्षुर्वितीर्णमार्ग तं सुस्सलान्तिकगामिनः ।
लोकस्यात्रान्तरे जेतुं सह पृथ्वीहरो ययौ ॥ ९३० ॥
जितवांस्तं बबन्धेच्छां निहन्तुं सुस्सलोन्मुखम् ।
क्रोधाजनकसिंहं च वार्ता तां संविवेद सः ॥ ९३१ ॥
नगरस्थेन तेनाथ पौराश्वारोहतत्रिणः ।
संघटय्याखिलान्भिक्षोः प्रातिपक्ष्यमगृह्यत ॥ ९३२ ॥
जान॑स्तेनावृतं राज्यं ततो शिक्षाचरो नृपः ।
पृथ्वीहरेणानुयातो नगरं सहसाविशत् ॥ ९३३ ॥
सेतौ सदाशिवाग्रस्थे तत्सैन्यै: सह संगरम् ।
दृप्यञ्जनकसिंहोथ सान्त्व्यमानोपि सोग्रहीत् ॥ ९३४ ॥
दृष्टं जनकसिंहस्य योधानां वल्गतां मदात् ।
अविशङ्कय पराभूतिं मुहूर्तं सुभटायितम्॥ ९३५ ॥
अलकेन समं पृथ्वीहरस्तभ्द्रातृसूनुना ।
अन्येन सेतुना तीर्त्वा तस्य सैन्यमनाशय ॥ ९३६ ॥
तभ्यश्वारोहपपौरेषु विद्रुतेषु सबान्धवः ।
नक्तं जनकसिंंहोथ पलाय्य लहरं ययौ ॥१३७ ॥
भिक्षुपृथ्विहरौ प्रातस्तत्पृष्ठग्रहणोद्यतौ
तत्पश्चात्तेश्ववारयाद्या: पृष्टा भूयोप्यरिश्रियन् ॥ ९३८ ॥
क्षिघ्वा क्षिप्रं स्वकक्ष्यान्तर्विबुधप्रतिमा भयात् ।
ते पारिषद्यविप्राद्याः प्रायमृत्सृज्य विद्रुता: ॥ ९३९ ॥
शून्यानि सुरयुग्यानि रक्षन्तः केपि भिक्षुणा।
प्रायान्निवृत्ता वयमित्युक्तवन्तो न वाधिताः ॥ ९४० ॥
ह्यो जानके भैक्षवेऽद्य वल्गत्तुङग्तुरंगमान् ।
दृष्टवन्तो वयं सैन्ये सादिनोद्यापि साद्भुताः ॥ ९४१ ॥
भिक्षुराजप्रदीपेन द्योतितः क्षणभङिग्ना ।
पितृव्येनाधिकारेण स्यालस्तिलरकसिंहज: ॥ ९४२ ॥
गते जनकसिंहेथ प्रतिपक्षानुसारिणाम् ।
विधातुं वेश्मभङगादि लब्धं भिक्षुमहीभुजा ॥ ९४३ ॥
अत्रान्तरे हुष्कपुरे नीतेषु तिलकादिषु ।
भङ्गं सुल्हणसिम्वाद्यै: समेतानन्तसैनिकैः ॥ ९४४ ॥
अग्रायातैर्मल्लकोष्टजनकाद्यै: ससैनिकैः ।
अपरैरपि सामन्तैर्बलबाहुल्यशालिभि: ॥ ९४५ ॥
१ स्वकक्षान्तः इत्युचितम् ।
११
अन्वीयमानो दिवसैर्द्वित्रैराक्रान्तमण्डल: ।
विशल्लहरमार्गेण विपक्षालक्षितोपतत् ॥ ९४६ ॥
नगरापणवीथ्यन्तर्हयारोहमुखान्पुर: ।
द्रोहयोधानुपायातांस्तदैवोज्झितसाध्वस: ॥ ९४७ ॥
वेष्टितालम्बकूर्चैन वक्रेण भ्रुकुटीभृता ।
कोपकम्पिततारेण फुल्लनासापुटस्पृशा ॥ ९४८ ॥
कांश्चित्संतर्जयन्निन्दन्नन्यान्मग्रांस्तथापरान्
तीव्रातपश्यामवपुस्ताम्यत्काल इवोल्बण: ॥ ९४९ ॥
आशीर्घौषकृतां पुष्पवर्षिणां पुरवासिनाम् ।
पूर्वापकारिणां श्रेणीष्ववज्ञान्यस्तलोचनः ॥ ९५० ॥
स्कन्धमात्रोपरिन्यस्तं कवचं हेलया दधत् ।
केशानन्तशिरस्त्रान्तनि:सृतान्धूलिधूसरान् ॥ ९५१ ॥
पक्ष्ममालां च बिभ्राण: सकोशासिस्तुरंगिणाम् ।
आकृष्टखङगमालानामन्तर्वल्गत्तुरंगमः॥ ९५२ ॥
ससिंहनादैरुमैर्भेरीभांकारनिर्भरै: ।
बलैर्भरितदिक्कोश: सुस्सल: प्राविशत्पुरम् ॥ ९५३ ॥
कुलकम् ॥
षड्भिः सद्वादशादिनैर्मासैर्ज्यैष्ठे सितेहनि ।
स सप्तनवताब्दस्य तृतीये पुनराययौ ॥ ९५४ ॥
राजधानीमप्रविष्टो भिक्षुं पूर्वपलायितम् ।
अन्विष्यन्क्षित्पिकातीरे सलवन्यो व्यलोकयत् ॥ ९५५ ॥
सरित्पारं रिपौ प्राप्ते स सपृथ्वीहरो गतः ।
मार्गे लवन्यैर्मिलितैरन्यै: साकं न्यवर्तत ॥ ९५६ ॥
तं विद्राव्य रणे राजा बद्ध्वा प्रहृतिविक्षतम् ।
सिंहं प्रथ्वीहरज्ञातिं राजधानीमथाविशत् ॥ ९५७ ॥
उपभोगैः सपत्नस्य तत्कालनिसृतस्य सा ।
अङ्किता मानिनस्तस्य वेश्यवोद्वेगदाभवत् ॥ ९५८ ॥
भिक्षु: संत्यज्य कश्मीरान्सह पृथ्वीहरादिभिः |
ग्रामं पुष्पाणनाडाख्यं सोमपालाश्रयं ययौ ॥ ९५९ ॥
प्रस्थिते डामरान्सर्वान्राजा स्वीकृत्य तु व्यधात् ।
खेर्यां वट्टात्मजं मल्लं हर्षमिन्त्रं कम्पने ॥ ९६० ॥
पूर्वापकारं स्मरतो देशकालनपेक्षिण: ।
पूर्वविद्वेषिणस्तस्य न कृपामं पतिपेदिरे ॥ ९६१ ॥
भिक्षुसंपर्कजं गन्धमपि सोढुकमशक्नुवन् ।
भृत्येभ्य: खण्डश: कृत्वा द्वेषात्सिंहासनं ददौ ॥ ९६२ ॥
अनयोपार्जितां त्यत्कुमनीशा डामराः श्रियम् ।
समन्योश्च नृपाभ्दीता नात्यजन्विल्पवोद्यमम् ॥ ९६३ ॥
भिक्षुस्तु राज्यविभ्रष्टः सुहृदो विषये वसन् ।
उत्साहं सोमपालस्य दानमानैः पुनयेयौ ॥ ९६४ ॥
बिम्बः साहायकप्रार्थी विस्सयस्यान्तिकं गतः ।
तस्सिन्विरोधिभिर्बद्वै' रणे धीरस्तनुं जहौ ॥ ९६५ ॥
भिक्षाचरो बिम्बशून्यो भजन्दुर्नयपात्रताम् ।
अनैषीदवरुद्धात्वं तत्प्रियां तां गतत्रपः ॥ ९६६ ॥
निपत्य स्वल्पसैन्योपि ततः शूरपुरे बली ।
जित्वा पृथ्वीहरो वट्टात्मजं व्यद्रावयद्रणात् ॥ २८६७ ॥
तस्मिन्पलायिते भिक्षुं पुनरानीय सोविशत् ।
भुवं मडवराज्यानां दस्यूनां स्वचिकीर्षया ॥ ९६८ ॥
तत्रत्यैर्मङ्खजय्यादद्यैर्डामरै: स्वीकृतै: समम् ।
जगाम विजयक्षेत्रं विजेतुं कम्पनापतिम् ॥ ९६९ ॥
जितस्तेनाहवे हर्षमित्रो निहतसैनिकः ।
विजयेश्वरमुत्सृज्य भितोवन्तिपुरे ययौ ॥ ९७० ॥
विजयक्षेत्रजास्तत्तत्पुरग्राभ्दवा अपि ।
जना भयेन प्राविक्षन्नथ चक्रधरान्तिकम् ॥ ९७१ ॥
योषिच्छिशुव्रीहिधनोपेतैरपूर्यत ।
स्थानं तत्तेश्च राज्ञश्च योधैः सायुधवाजिभिः ॥ ९७२ ॥
अन्वारूढैरथ स्पष्टं लोकोल्लुण्ठनलालसै: ।
तैर्भैक्षवैरवेष्ट्यन्त कटकैरर्व्याप्तदित्कसटै: ॥ ९७३ ॥
तान्दारुमयवप्रौघद्वारगुप्ते सुरौकस: ।
अङ्गने तिष्ठतो हन्तुं बन्द्धुं वा नासशकन्द्विष: ॥ ९७४ ॥
तदन्तरास्थितं दग्धुं कर्पूराख्यमं स्ववैरिणम् ।
कश्चित्कतिस्थलीग्रामजन्मा निर्गुटडामर: ॥ ९७५ ॥
पापो जनकराजाख्यस्तत्राग्निमुददीदिपत् ।
मूढस्ताद्दगपर्यन्तजन्तुसंहारनिर्घृण: ॥ २७६ ॥
तमापतन्तं ज्वलितं ज्वलनं विक्ष्य सर्वतः ।
भूतग्रामस्य सुमहान्हाहाकार: समुद्यतौ ॥ ९७७ ॥
विशत्कृतान्तवाहरिभियेव छिन्नवन्धनैः ।
अश्वैरसूचीसंचारा भ्रमभ्दिर्जघ्निरे जना: ॥ ९७८ ॥
प्राच्छाद्यत वलज्ज्वालाकरलैर्धूमराशिभि: ।
व्योम पिङ्गकचदश्मश्रुज्वालैर्नक्तमंचरैरिव ॥ ९७९ ॥
निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो दधुः ।
संतापद्रुतहेमाभ्रसुवर्णलहरीभ्रमम् ॥ ९८० ॥
संतापविद्रुतव्योमचारिमैलिपरीच्युता:।
रक्तोष्णीषा इव भ्रेमुर्ज्वालाभङ्गा नभोङ्गने ॥ ९८१ ॥
दीर्घदारुग्रन्थिभङ्गजन्मा चटचटारवः |
तापप्रक्वाथ्यमानाभ्रगङ्गाघोष इवोद्ययौ ॥ ९८२ ॥
स्फुलिङ्गैः प्लोषवित्रस्तजन्तुजीवितसंनिभैः
अग्राहि
।
गहनव्योममार्गभ्रमणसंभ्रमः ॥ ९८३ ॥
।
शकुनै: शावसंचारशोकादाक्रन्दिभिर्नभः
मानुषैर्दह्यमानैश्च भूमिर्मुखरिताभवत् ॥ ९८४ ॥
भ्रातॄन्भर्तृन्पितॄन्पुत्रानालिङ्ग्याक्रन्दनिर्भराः ।
भीमीलितहशो नार्यो निरदह्यन्त वहिना ॥ ९८५ ॥
तदन्तरात्साहसिका ये केचिन्निरयासिषुः ।
बहिस्ते निहताः क्रूरैर्डामरैर्मृत्युचोदितैः ॥ ९८६ ।।
तावन्तो जन्तवस्तत्र व्यपद्यन्त तदा क्षणात् ।
स्विन्ना एव न ये दग्धास्तावतापि कृशानुना ।। ९८७ ।।
अन्तःशान्तेषु सर्वेषु बहिः शान्तेषु हन्तृषु ।
क्षणादेव प्रदेशः स निःशब्द: समजायत ॥ ९८८ ॥
वहेः कहकहाशब्दो ह्रस्वीभूतार्चिषः परम् ।
स्विद्यतश्च शवौघस्य श्रुतः सिमसिमाध्वनिः ॥ ९८९ ॥
विलीनासृग्वसामेदोनिःष्यन्दाः सरणीशतैः ।
प्रसस्रुर्वित्रगन्धश्च योजनानि बहून्यगात् ॥ ९९० ॥
एकः सुश्रवसः कोपाद्वितीयो दस्युविप्लवात् ।
ईडग्घुतवहाबाधो घोरचक्रधरे भवत् ॥ ९९९ ॥
भूतग्रामस्य संहारः संवर्त इव वहिना ।
तादृक्त्रिपुरदाहे वा खाण्डवे तत्र वाभवत् ॥ ९९२ ॥
पुण्येहि शुक्लद्वादश्यां नभसः कुकृतं महत् ।
तद्भिक्षुः कृतवान्राज्यलक्ष्म्या भाग्यैश्च तत्यजे ॥ ९९३ ॥
$ ८६ राजतरङ्गिणी
सकुटुम्बेषु दग्धेषु तदानीं गृहमेधिषु ।
पुरग्रामसहस्त्रेषु गृहाः शून्यत्वमाययुः ॥ ९९४ ॥
मङ्ग्राख्यो डामरश्चिन्वञ्शवान्नौनागरोद्भवः ।
प्रीतिं प्राप्तैस्तदीयार्थैः कापालिक इवाययौ ॥ ९९५ ॥
अवरूढोथ विजयक्षेत्रं भिक्षाचरस्ततः ।
लब्ध्वा नागेश्वरं पापं यातनाभिरमीमरत् ॥ ९९६ ॥
गर्छौ पैतामहे देशे किं नासीत्तस्य चेष्टितम् ।
पितृगुहः स तु वधः सर्वप्रीतिकरोभवत् ॥ ९९७ ॥
गृहिणी हर्षमित्रस्य पत्यौ त्यक्त्वा पलायिते ।
पृथ्वीहरेण संप्राप्ता विजयेशाङ्गनान्तरात् ॥ ९९८ ॥
निमित्तभूतमेतादृक्प्रजासंदारवैशसम् ।
स्वं निन्दन्सुस्सलो राजा ततो योद्धुं विनिर्ययौ ॥ ९९९ ॥
संवेगात्पाप्मनः शीघ्रं निरयक्लेशभुक्तये ।
प्राप्तो जनकराजेन वधोवन्तिपुरान्तिके ॥ १००० ॥
यत्कृते क्रियते कर्म लोकान्तरसुखान्तकम् ।
स मूढै: सुलभापाय: कायश्चित्रं न गण्यते ॥ १००१ ॥
कम्पनाधिपतिं सिम्बं कृत्वा डामरमण्डलम् ।
चकर्ष विजयक्षेत्रादन्यतोपि ततो नृपः ॥ १००२ ॥
शमालां प्रययौ पृथ्वीहरो मडवराज्यतः ।
विजित्य मल्लकोप्टेन त्याजितो निजमण्डलम् ॥ १००३ ॥
क्षिप्ताः केचिद्वितस्तायां केचिञ्चक्रधराङ्गने ।
अक्रियन्ताग्निसात्क्रष्टुमशक्या बहवः शवाः ॥ १००४ ॥
क्रमराज्येथ कल्याणवाड्यादीन्रल्हणोजयत् ।
आनन्दोनन्तजस्तत्र ततो द्वाराधिपोभवत् ॥ १००५ ॥
१ वैशसे इत्युचितम् । अष्टमस्तरङ्गः ।
शुले प्रमापितं सिंह नयन्पृथ्वीहरो बली ।
सार्धं जनकसिंहाद्यैरयुध्यत्क्षिप्तिकातटे ॥ १००६ ॥
तीर्थे प्रस्थाप्यमानेषु विपन्नास्थिष्विहास्त्यहः ।
भाद्रे मास्येकमबलाक्रन्दिताक्रान्तदिक्पथम् ॥ १००७ ॥
इतवीरावलाक्रान्तमुखरे नगरान्तरे ।
।
पृथ्वीहराहवे सर्वैर्दिवसैरन्वकारि तत् ॥ १००८
८७
युग्मम् ।
अथ यातो यशोराजश्यालः शूरो दिगन्तरात् ।
श्रीबको विद्धे राशा खेरीकार्याधिकारभाक् ॥ १००९ ॥
अप्रियं स लवन्यानां तेपि वा तस्य नाचरन् ।
कालं तु गूढसौहार्दैरन्योन्यस्य न्यवीवहन् ॥ १०१० ॥
पुनराश्वयुजे राजा शमालां निर्गतस्ततः ।
परैर्मनीमुषग्रामे युधि भङ्गमनीयत ॥ १०११ ॥
नित्याभ्यासेन युद्धानां लब्धोत्कर्षो न्यदर्शयत् ।
सर्ववीराग्रणीर्भिक्षुस्तत्पूर्व तत्र विक्रमम् ॥ १०१२ ॥
तुक्कद्विजादयो मुख्या भिक्षुपृथ्वीहरादिभिः ।
आसारापातविवशा निहताः सौस्सले बले ॥ १०१३ ॥
प्रधानवीरभूयिष्ठे सैन्यद्वन्द्वे न कोप्यभूत् ।
स वीरश्चरतः संख्ये भिक्षोरैक्षिष्ट यो मुखम् ॥ १०१४ ॥
पृथ्वीहरस्य भिक्षोश्च संग्रामे भूरिवार्षिके ।
कादम्बरीपताकाख्ये द्वे अश्वे पीतपाण्डुरे ॥ १०१५ ॥
आस्तामत्यद्भुते याभ्यामनेकतुरगक्षये ।
न विपन्न प्रतिभिर्नान्वभाव्यथवा क्लमः ॥ १०१६ ॥
१ ऋन्दमुखरे इति स्यात् । २ अथायातो इत्युचितम् । ८८ राजतरङ्गिणी
सैन्यानां संकटे त्राणमश्रान्तिरविकत्थनः ।
अभूत्क्लेशसहो वीरो नान्यो भिक्षाचरात्क्वचित् ॥ १०१७ ॥
योधानां सौस्सले सैन्ये विद्रद्वेषु न कश्चन ।
त्राणं बभूव तेनैते बहवो बहुधा हताः ॥ १०१८ ॥
नवेषु डामरानीकाः केचिद्भङ्गेषु सैनिकाः ।
भिक्षाचरगजेन्द्रेण कलभा इव पालिताः ॥ १०१९ ॥
नान्यस्योत्थानशीलत्वं दृष्टं पृथ्वीहरात्तदा ।
स्वयं यो भैक्षवे द्वारे जजागार प्रतिक्षपम् ॥ १०२० ॥
ततः प्रभृत्यभूगोता पुरः पञ्चाञ्च सर्वदा ।
विश्वेदेव इव श्राद्धे युद्धे भिक्षुर्महाभटः ॥ १०२१ ॥
आहवे साहसं कुर्वन्सर्वतः सोभ्यधान्निजान् ।
एवमस्खलितस्थैर्यमुपपत्तिमसंत्यजन् ॥ १०२२ ॥
न मे राज्याय यत्नोयं पर्याप्तं दुर्यशः पुनः ।
कृत्ये प्रसक्तं पूर्वेषां व्यवसायं व्यपोहितुम् ॥ १०२३ ॥
अनाथा इव नाथा विशां व्यापादनक्षणे ।
ज्ञात्वा नष्टं कुलं नाथवद्भ्यो नूनं स्पृहां दधुः ॥ १०२४ ॥
इति मत्वा सोढकष्टश्चेष्टे सुदृढनिश्चयः ।
दूयमानोस्मि दायाददुःखदायी दिने दिने ॥ १०२५ ।।
नास्त्येवाप्राप्तकालस्य विपत्तिरिति जानतः ।
कस्य साहसवैमुख्यमुत्पद्येत यशोर्थिनः ॥ १०२६ ॥
किं कार्यगतिकौटिल्यैरुक्तैस्तान्यथवा कथम् ।
न वदामः प्रतिज्ञाय स्वयमाषेध्वनि स्थितिम् ॥ १०२७ ॥
सोत्कर्षपौरुषाद्भिक्षोरशङ्किषत डामराः ।
ततो दायादविच्छेदं नास्याकृषत जातुचित् ॥ १०२८ ॥
१ डामरानीकात् इति स्यात् । अष्टमस्तरङ्गः ।
प्राग्राज्याधिगमाद्राज्ञामन्येषां राजबीजिनः ।
चिन्तयन्तो व्यवहृतिं व्युत्पद्यन्ते शनैः शनैः ॥ १०२९ ॥
पितुः पितामहस्याथ न दृष्टं तेन किंचन ।
अत एवाभजन्मोहं राज्यं संप्राप्तवान्पुरा ॥ १०३० ॥
तत्स भूयोपि चेदीक्षेत्कैव वार्ता विपाटने ।
सापेक्षं वीक्षितुं जाने न दैवेनाप्यशक्यत ॥ १०३१ ॥
जानँल्लवन्यकौटिल्यं प्रमादात्स हतेहिते ।
८९
प्राप्नुयां राज्यमित्याशां बडाहान्यत्यवाहयत् ॥ १०३२ ॥
दस्यूनां सुस्सलो राजा मेने तत्स्वहितं मतम् ।
जिगीषोर्नीतिविक्रान्त्योः प्रयुक्तो लिप्तरन्तरम् ।। १०३३ ॥
युद्धे स्वान्स स्मरन्वैरं नापासीत्तेन तेभजन् ।
नास्मिन्विश्वासमेतस्माद्धेतोर्नास्याभवजयः ॥ १०३४ ॥
इत्थं नानामतः पक्षप्रतिपक्षैरुपेक्षितम् ।
राष्ट्र निखिलमेवागात्सर्वतः शोचनीयताम् ॥ १०३५ ।।
यत्संबन्धाद्विटपिनिवर्निग्रहव्यग्रवन्य-
व्याघमंचानलंपरिभवः कोपि नन्वन्वभावि |
हा विघटनपर: सोपि माद्यन्नमीषां
लभ्यं श्रेयोविधिविधुरितैर्नान्यतो न स्वतोपि ॥ १०३६ ॥
द्वैराज्ये प्रभवत्येवमकाण्डापतितैर्हिमैः ।
विवशं सुस्सलक्ष्माभृदजयमैक्षवं वलम् ॥ १०३७ ॥
पुष्पाणनाडं भूयोपि भिक्षुपृथ्वीहरौ गतौ ।
वान्यैलवन्यैर्भूभर्तुर्नतिर्दत्तकरैः कृता ॥ १०३८ ॥
सिम्बोपि कम्पनाधीशो व्यधाद्विजितडामरः ।
सिर्वा मडवराज्योर्वी वीरः शमितविलवाम् ॥ १०३९ ॥
राजतरङ्गिणी
तावत्यापि विपक्षाणां शान्त्या शीतलतां गतः ।
पूर्ववैरं स्वपक्षाणां प्रादुश्चक्रे स भूपतिः ॥ १०४० ॥
जिघांसौ कथिते राजन्युल्हणेन पलायितः |
मल्लकोष्टः सोपि कोपाद्राशा राष्ट्रात्प्रवासितः ॥ १०४१ ॥
अनन्तात्मजमानन्दं बडा द्वाराधिकारिणम् ।
व्यधत्त सैन्धवं प्रजिनामानं राजबीजिनम् ॥ १०४२ ॥
गतोथ विजयक्षेत्रं सिम्बेन सहितोविशत् ।
नगरं तं च विश्वस्तं बड्वा कारागृहेक्षिपत् ॥ १०४३ ॥
अनुस्मृतिमहावात्याप्रेरितोमर्षपावकः ।
१०४५ ।
आचचाम क्षमावारि तस्य भृत्यान्दिधक्षतः ॥ १०४४ ॥
सिंहथक्कनसंहाभ्यामनुजाभ्यां सहावधीत् ।
शूलेधिरोप्य सिम्बं स रोषावेशविलुप्तधीः ॥
कम्पने श्रीवकं चक्रे सुद्धिं प्रजेः सहोदरम् ।
बवा जनकसिंहं च राजस्थाने न्ययोजयत् ॥ १०४६ ॥
आताश्च मत्रिणश्चासंस्तस्य वैदेशिकास्ततः ।
स्वदेशजस्तु सोभूयो लोहरस्थं तमन्वगात् ॥ १०४७ ॥
अथ सर्वेपि साशङ्कास्तं त्यक्त्वाशिनियन्त्रिपून् |
शतैकीयः कश्चिदासीद्वाजधान्यां नृपाश्रितः ॥ १०४८ ॥
तेनाप्रतिसमाधेयो भूयः शान्तेप्युपद्रवे ।
इत्थमुत्थापितोनर्थो न पुनर्यः शमं ययौ ॥ १०४९ ॥
एकाक्षेपेपरेपि स्युर्यत्र भृत्या विशङ्किताः ।
तत्रापराधे प्राज्ञस्य राज्ञोवज्ञैव शस्यते ॥ १०५० ॥
माघेथ मल्लकोष्टाद्यैराहूताः पुनराययुः ।
ते शूरपुरमार्गेण भिक्षुपृथ्वीहरादयः ॥ १०५९ ॥
वितस्तापरिखाक्षिप्ता भूरगम्या द्विषामियम् ।
इति प्रायान्नवमतठं त्यक्त्वा राजगृहं नृप: ॥ १०५२ ॥
वषेष्टानवते चैत्रे डामरेषु युयुत्सुषु ।
अभ्येत्य मल्लकोष्टेन प्रागेवाग्राहि संगरः ॥ १०५३ ॥
सोश्ववारौ: सह रणं चकार नगरान्तरे ।
नृपाबरोधै: सौधाग्रादालोकितमथाकुलै: ॥ १०५४ ॥
भिक्षुणा क्षिप्तिकार्तारे स्कन्धावारो न्यवध्यत ।
नृपोद्यानाध्रुमान्निन्युरिन्धनाय महानसे ।
दूर्वाङकुरन्मन्दुराभ्यो वाहभोज्याय डामर; ॥ १०५६ ॥
पृथ्विहस्तु संगृह्यन्दस्यून्मडवराज्यजन् ।
चकार वेजयक्षेत्रे यावत्कटकसंग्रहम् ॥ १०५७ ॥
तावत्प्रज्जिमुखान्मल्लकोष्टयूध्दाय भूपतिः ।
आदिश्यादादवस्कन्दं वैशाखे साहसोन्मुखः ॥ २०५८ ॥
अकस्मात्पतिते तस्मिन्ह्तावष्टम्भविक्षताः ।
प्रययुः सेतुमुल्लङघय जीवश्वस्ता: कथंचन ॥ १०५९ ॥
नगरं मल्लकोष्टाजिव्यग्र प्रज्जावथाविशत् ।
पृथ्वीहरानुजः सुर्ज्जि निर्जित्य मनुजेश्वरः ॥ १०६० ॥
परं पारं वितस्तायाः सेतुच्छेदादनाप्रुवन् ।
अर्वाचि तीरे स गृहान्दग्ध्वागात्क्षिप्तिकां ततः ॥ १०६१ ॥
लवन्यौर्नगरं प्राप्तं मत्वा सुस्सलभूपतिः ।
आययौ विजयक्षेत्रात्सैन्यमुत्थाप्य विहल: ॥ १०६२ ॥
अह्ं पूर्विकयारातिशङ्कातैच्च निजैर्बलै: ।
पीडीतस्तस्य गम्भीरासिन्धुसेतुरभज्यत ॥ १०६३ ॥
स कृष्णषष्ठयां ज्यैष्ठस्य तस्यासंख्यश्च ।
यथाग्रिना चक्रधरे तथा तत्राम्मसा मृत: ॥ १०६४ ॥
भुजमुद्यम्य शमयन्सैन्यानां संभ्रमं नृपः ।
त्रस्तैर्भ्रष्टैस्तथा पृष्ठे पतितः सरिदन्तरे ॥ १०६५ ॥
अनभ्यस्ताम्बुतरणैराश्लि ब्रुडितोसकृत् ।
तरदायुधविद्धाङ्गः स निस्तीर्ण: कथंचन ॥ १०६६ ॥
अनुत्तीर्णॅ बलं त्यक्त्वा पारे सामन्तसंकुलं ।
संत्यक्तानन्तसैन्योपि तीर्णॅनानुगतो ययौ ॥ १०६७ ॥
संत्यक्तानन्तसैन्योपि सोवष्टम्भमयो ययौ ।
प्रविश्य नगरं मल्लाकोष्टमुख्यान्रनणॅग्रहीत् १०६८५. ` `
विजयस्याथ जननी सिल्लाख्या स्वामिनोज्झन्म्
निनाय देवसरसं सैन्यं तद्विजयेश्वरात् ॥:
साथ पृथ्वीहरेणैत्य हता तत्रोपवेशने !
टीक्काश्च दत्तो भूपालसैन्यं विद्धावितं च क्त् ॥ ० ७० ॥
परं व्यायामविद्याविद्विद्रुते निखिले बके}!
द्विज: कल्याणराजाख्यः समरेभिमुखो इतः ॥
मन्त्रिडामरसामन्तसंकुलात्सौस्सलाद्वलात् ।
पृथ्वीहरेणागृ्ह्यन्त बद्धा वृन्दानि शस्त्रिणाम् ॥ 9 ।
ओजानन्दद्विजादिंश्च बद्धा शूले व्यपादयत् ॥ १४५
मन्त्रिणो जनकश्रीबकाद्या राजात्मजास्तथा । ।
तीर्त्वाद्रिं विषलाटायां शरणं प्रययुः खशान् [| ६६ श
इत्थं पृथ्वीहरो लब्धजय: संगृह्य डामरान् ।
जिगिषु्र्भिक्षुणा साकं नगरोपान्तमाययौ ॥ 2 ७५ ॐ
भूयोपि मानुषाश्वौघसंहर्ता सर्वतस्ततः ।
रण:प्रववृते प्रग्वत्पुरे रुद्धस्य भूपते:॥ १०७६ ॥ `
निर्निरोध: पथानेन नृपावसथ इत्यभूत् ।
सैन्ये मडवराज्यानां स्वयं पृथ्वीहरोग्रणी: ॥ १०७७ ॥
तत्तत्सामन्तकुलजैर्विरै: काश्मीरकैर्भटै: ।
समेतं डामरकुलं दुर्जयं सर्वतोभवत् ॥ १०७८ ॥
काश्मीरकाः शोभकाधा: काकवंश्या: सहस्त्रश: ।
प्रख्याता भैक्षवे पक्षे रत्राद्याश्चापरेस्फ़ुरन् ॥ १०७९ ॥
नदतः स्वबलाद्वाद्यतुमुलं श्रृण्वतोन्मिषत् ।
पृथ्वीहरेणागण्यन्त वाद्यभाण्डानि कौतुकात् ॥ १०८० ॥
दित्वा भूयैथतूर्यादि परिच्छेत्तुं स कोतुकी ।
श्वपाकदुन्दुभी माण्डातानि द्ादशादाकत् ॥ १०८१ ॥
तथा विनष्सेन्योपि विद्धिोगपात्मजैः ।
भितैः स्वदेराजैश्चारीन्ध्रतिजग्राद सुस्सलः ॥ २०८२ ॥
राजन्याविच्छटिकुलोधू ताबुदयधन्यकौ ।
चम्पावल्ापुराधीशाञ्ुदयत्रह्मजजटौ ॥ १०८३ ॥
तेजोमल्दणदं सानां घुौ इरिदडोकसः ।
क्ष्रिकाभिक्ञिकास्थाचसव्यराजादयस्तथा ॥ १०८४ ॥
विडारपुत्रा नीखाद्या. माङ्खुकान्वयसंभवाः ।
रामपालः सदजिको युवा तस्य च नन्दनः ॥ १०८५ ॥
नाना्वंद्याः परेप्युग्रसं्रामच्यग्रताज्ुषः ।
पुरोपरोधसंनद्धानख्न्धन्सर्वते रिपून ॥ २०८६ ॥
तनूजनिर्विंशेषेण रि्टणेन महीभुजः ।
रणाम्रेसरताच्राहि विजयाचेश्चकछवादिभिः ॥ १०८७ ॥
~ * क `,
राजतरङ्गिणी
स्वयमुद्यमिना राशा वर्मणेव निजौ भुजौ ।
सुज्जिप्रज्जी पाल्यमानावभूतां रणकर्मठौ ॥ १०८८ ॥
ताभ्यां साधारणीकुर्वन्राज्योत्पत्तिं महीपतिः ।
स महाव्यसने तस्मिन्सम्यगूढधुरोभवत् ॥ १०८९ ॥
तत्पक्षा भागिकशरद्भासिमुम्मुनिमुङ्गटाः ।
कलशाद्याश्च कुशला विपक्षक्षोभणेभवन् ॥ १०९० ॥
भूभर्तुष्टक्कविषये लवराजस्य नन्दनः ।
आसीत्कमलियश्चास्य संग्रामाग्रेसरः प्रभोः ॥ १०९१ ॥
प्रहारं बलिनस्तस्य चामरध्वजशोभिनः ।
प्रभिन्नस्येव नागस्य हयारोहा न सेहिरे ॥ १०९२ ॥
अनुजः सङ्गिकः पृथ्वीपालो भ्रातुः सुतोस्य च ।
पाञ्चालौ फाल्गुनस्येव पार्श्वरक्षित्वमाययुः ॥ १०९३ ॥
एतावद्भिर्मृत्यरत्तै राष्ट्रपि कुपितेजयत् ।
भूरिस्वर्णार्पणोपात्तैर्वाजिभिश्च महीपतिः ॥ १०९४ ॥
तत्र तत्राहवे सोपि बभ्रामासंभ्रमो नृपः ।
उत्सवे गृहमेधीव मण्डपे मण्डपे स्वयम् ॥ १०९५ ।।
तस्य हि व्यसनं त्रासहेतुः प्राभूदुपक्रमे ।
प्रवृद्धिं प्राप्तमभवद्धैर्यादाय्यथ धीमतः ॥ १०९६ ॥
क्लैब्यकृद्भयमापाते मध्यपाते न तादृशम् ।
करक्षिप्तं यथा शीतं मज्जने न तथा पयः ॥ १०९७ ॥
वैरिसैन्यतमो यत्र यत्र ज्योत्स्लेव निर्ययौ ।
सितासिता च भूभर्तुस्तत्र तत्रास्य वाहिनी ॥ १०९८ ॥
एकदा कृतसंकेतास्तुल्यमाहवमेलके ।
महासरितमुत्तीर्य डामरा नंगरेपतन् ॥ १०९९ ॥
असीमनगरस्थानविभक्तकटको नृपः ।
घरिमेयाश्ववारस्तान्विशतः स्वयमाद्रवत् ॥ ११०० ॥
नाभजड्डामरानीकस्तेन विद्वावितो धृतिम् ।
हेमन्तमरुता कीर्णपर्णराशिरिवेरितः ।। ११०१ ॥
आनन्दः काककुलजो लोष्टशाह्यनलादयः ।
अन्ये च डामरानीके ख्याता भूभृद्भदैर्हताः ॥ ११०२ ॥
लग्नाभिघातानानीतात्राज्ञः क्रूरस्य दृक्पथम् ।
बहून्निजप्रुश्चण्डाला इव राजोपजीविनः ॥ ११०३ ॥
भयानोपाद्रिमारूढाश्चापरे भैक्षवास्ततः ।
आसन्नमृत्यवोभूवन्कटकैवेंष्टिता द्विषाम् ॥ ११०४ ॥
यो मार्गो दुर्गमः पत्रिणोपि त्रातुं ततः स तान् ।
तत्र व्यापारयामास भिक्षुर्मानी तुरंगमान् ॥ ११०५ ॥
कथंचित्पत्रिणा विद्धग्रीवस्तस्याग्रहीन्मुहुः ।
पार्श्वे पृथ्वीहरो रूढिं द्वित्राश्चान्ये महाभटाः ॥ ११०६ ॥
वेलाद्रिभिरिवोत्तैः सिन्धौ तैर्द्विषतां बले ।
रुद्धे गोपाचलं त्यक्त्वा तेन्यानारुरुहुर्गिरीन् ॥ ११०७ ॥
अथोदतिष्ठ मेन राजानीकस्य वाहिनी ।
..
मल्लकोष्टस्य पत्यश्वक्षोभिताशेषदिकटा ॥ ११०८ ॥
अरिपृष्ठग्रहव्यग्रैस्तिष्ठन्स्वैर्वर्जितो बलैः ।
तदाक्षाय्यखिलैरेष हतो राजेत्यसंशयम् ॥ ११०९ ॥
आपातं सुस्सलो राजा यावत्तस्या विसोढवान् ।
तावत्सावरजः प्रजिराजगाम रणाङ्गनम् ॥ १११० ॥
आषाढबहुलाष्टम्यां स हयारोहमेलकः ।
निजशस्त्रध्वनिप्रत्तसाधुवादो महानभूत् ॥ ११११ ॥
अथोदतिष्ठद्वामेन इति स्यात् । राजतरङ्गिणी
ताभ्यां स शमितो युद्धे ससूनुः ससमीरणः ।
दावो नभोनमस्याभ्यामिव प्रापाम्बुवृष्टिभिः ॥ १११२ ॥
संग्रामबहले काले ताहगन्यो न कोप्यभूत् ।
यादृक्स दिवसो वीर्यशौटीर्यनिकषोपलः ॥ १११३ ॥
अनीकिनी लाहरी सा विलम्बेनाययाविति ।
तेषामुत्पाटनेच्छूनां नाभवद्धस्तमेलकः ॥ १११४ ॥
अन्योन्यस्य परिज्ञाता दिवसे तत्र संकटे ।
भिक्षोभूमिभृता शक्तिर्भूमिभर्तुश्च भिक्षुणा ॥ १११५ ॥
ततो मडवराज्यांस्तान्योद्धुं तत्रैव निर्दिशन् ।
क्षिप्तिकारोधसा युद्धमेत्य पृथ्वीहरोग्रहीत् ॥ १११६ ॥
दिगन्तरादथायातो यशोराजो महीभुजा ।
मण्डलेश्वरतां निन्ये रिपून्प्रति जिहीर्षुणा ॥ १११७ ॥
खेरीकार्ये पुरा तस्य लवन्या दृष्टविक्रमाः ।
रणेषु मुखमालोक्य शतशः प्रचकम्पिरे ॥ १११८ ॥
कुङ्कुमालेपनच्छन्त्रहयादिप्रतिपत्तिदः ।
सर्वेषामभिनन्द्यत्वं तं राजा स्वमिवानयत् ॥ १११९ ॥
दीर्घोपप्लवयाप्येन दुःस्थितः स्वास्थ्यलिप्सया ।
जनो बबन्ध तत्रास्थां नववैद्य इवातुरः ॥ ११२० ॥
ज्यायांसं पञ्चचन्द्राख्यं शेषाणां गर्गजन्मनाम् ।
नृपतिर्मल्लकोष्टस्य प्रातिपक्ष्ये न्ययोजयत् ॥ ११२१ ॥
शिशुश्छुड्डाख्यया मात्रा पालितः स शनैः शनैः ।
आश्रीयमाणोनुचरैः पित्र्यैः किंचित्प्रथां ययौ ॥ ११२२ ॥
यशोराजानुयातेन राशा जन्येषु निर्जिताः ।
केचित्तत्पक्षमभजन्भग्नाः केचिच्च डामराः ॥ ११२३ ॥
१ जिगीषुणा इति स्यात् । अष्टमस्तरङ्गः ।
स भिक्षुः प्रययौ पृथ्वीहरः स्वमुपवेशनम् ।
मल्लकोष्टोन्मुखो राजा निर्जगामामरेश्वरम् ॥ ११२४ ॥
अत्रान्तरे मल्लकोष्टो विसृज्य निशि तस्करान् ।
सदाशिवान्तिके शून्यां राजधानीमदाहयत् ॥ ११२५ ॥
पृथ्वीहरेण भूयोपि योद्धुमागच्छतासकृत् ।
प्रज्जिसुज्जिमुखा युद्धमकुर्वन्क्षिप्तिकातटे ॥ ११२६ ॥
वारं वारं लवन्यः स नगरे निर्दहन्गृहान् |
प्रायः शून्यत्वमनयद्वितस्तातीरमुत्तमम् ॥ ११२७ ॥
तत्र तत्र रणाकुर्वन्प्राणसंदेहदायिनः ।
?
आचक्रामाथ नृपतिर्लहरं बहलैर्बलैः ॥ ११२८ ॥
"सिन्धुं तरन्तो निःसेतुं इतिभङ्गाययुर्जले ।
मन्दिरं कन्दराजाद्यास्तदीयाः समवर्तिनः ॥ ११२९ ।।
दरद्देशं ययौ मल्लकोष्टो राज्ञा निराकृतः ।
सपुत्राप्यभजच्छुड्डा प्रारोहं लहरान्तरे ॥ ११३० ॥
आनिन्थिरे जय्यकेन लवन्येन नृपान्तिकम् ।
विषलाटान्तरात्तेथ जनकश्रीबकादयः ॥ ११३१ ॥
लहरारब्ध्यतिक्रान्तनिदाघः शरदागमे ।
शमालां निर्ययौ राजा यशोराजान्वितस्ततः ॥ ११३२ ॥
भग्नं पृथ्वीहरत्रासात्सैन्यं रक्षन्मनीमुषे ।
आजौ सजात्मजो डोम्बनामा राजसुतो हतः ॥ ११३३ ॥
युद्धं सुवर्णसानूरग्रामशूरपुरादिषु ।
कुर्वञ्शश्वन्नृपः प्राप पर्यायेण जयाजयौ ॥ ११३४ ॥
श्रीकल्याणपुरा नीते पृथ्वीहरादिभिः ।
श्रीबके नागवट्टाद्या युधि प्रापुः प्रमापणम् ॥ ११३५ ॥
१३ राजतरङ्गिणी
पौषे सुवर्णसानूरान्निहन्तुं मातुरन्तिकम् ।
टिक्कं स देवसरसं व्यसृजद्गर्गवल्लभाम् ॥ ११३६ ॥
स्वेन राज्ञश्च सैन्येन सहिता सा जिताहिता ।
अकस्मात्तत्र टिक्केन निपत्य निहता युधि ॥ ११३७ ॥
स स्त्रीवधं व्यधात्पापी द्वितीयमपि निर्घृणः ।
विशेष: कोथवा तिर्यङ्लेच्छतस्कररक्षसाम् ॥ ११३८ ॥
अबलां स्वामिनी हन्यमानां त्यक्त्वा पलायिताः ।
चित्रं पशूपमाः शस्त्रं स्वीचकुर्लाहराः पुनः ॥ ११३९ ॥
ईषत्प्रागागतं शय्यां भूय एवोल्बणं नृपः ।
ज्ञात्वा मडवराज्यं स प्रययौ विजयेश्वरम् ॥ ११४० ॥
मल्लराजतनूजानां निजा जिहैव दुर्जना ।
बभूव प्रभविष्णुत्वे व्यापदापातदूतिका ॥ ११४१ ॥
प्रायश्चाद्यतने काले भृत्यास्तितउवृत्तयः ।
दर्शयन्ति समुत्सार्य सारं दोषतुषग्रहम् ॥ ११४२ ॥
आबाल्यात्संस्तुतालीलवचः परुषभाषितैः ।
निर्गौरवैर्यशोराजो राशि तस्मिन्व्यरज्यत ॥ ११४३ ॥
स दुर्जातिर्महासैन्ययुतोवन्तिपुरस्थितः ।
अभजत्तत उत्थाय प्रतिपक्षसमाश्रयम् ॥ ११४४ ॥
वैरिपक्षगते तस्मिन्बलैः सर्वोत्तमैः समम् ।
विह्वलो विजयक्षेत्रात्पलायिष्ट महीपतिः ॥ ११४५ ॥
धिग्राज्यं यत्कृते सोपि सेहे प्राणानिरक्षिषुः ।
मुष्णद्भिश्चौरचण्डालप्रायैः परिभवं पथि ॥ ११४६ ॥
माघे पलाय्य नगरं प्रविष्टः स वथाभिधे ।
भृत्ये द्रोग्धर्यशङ्किष्ट स्वेषामपि तनूरुहाम् ॥ ११४७ ॥
काश्मीरिके जनेशेषे निराशे नितरां ततः ।
अङ्कन्यस्तोत्तमाङ्गोभूत्प्रजिपक्षे
क्षमापतिः ॥ ११४८ ॥
९९
मुद्रिता
रुद्रपालादिपूर्वराजात्मजप्रथा ।
प्रजिना विक्रमत्यागनयाद्रोहादिभिर्गुणैः ॥ ११४९ ॥
तेनैव वर्धितामुत्र देशे विशदकीर्तिना ।
कालदौरात्म्यलुठिता प्रतिष्ठा शस्त्रशास्त्रयोः ॥ ११५० ॥
अमत्र्यत संगम्य यशोराजस्तु भिक्षुणा ।
नेच्छन्ति डामरा राज्यं तव विक्रमशङ्किताः ॥ ११५१ ॥
उत्पाद्य पुनरुत्पिचं साधिष्ठानबला वयम् |
राज्यं स्वयं ग्रहीष्यामो यास्यामो वा दिगन्तरम् ॥ ११५२ ॥
इति तैर्मत्रिते छुड्डां हृतां श्रुत्वा दरत्पुरात् ।
आगत्य मल्लकोष्टोपि प्राविशत्स्वोपवेशनम् ॥ ११५३ ॥
वर्षोथ दुस्तर: ख्यात एकान्नशतसंख्यया |
सर्वभूतान्तकृल्लोके प्रावर्तत सुदारुणः ॥ ११५४ ॥
वसन्ते डामराः सर्वे प्राग्वन्मार्गैर्निजैर्निजैः ।
आगत्य भूयो भूपालं नगरस्थमवेष्टयन् ॥ ११५५ ॥
धीरः सुस्सलदेवोपि पुनरासीद्दिवानिशम् ।
निःसीमसमरस्तोमारम्भसंरम्भभाजनम् ॥ ११५६ ॥
दाहलुण्ठनसंग्रामकर्मशौण्डैः स डामरैः ।
प्राग्विप्लवेभ्योप्यधिको विप्लवः पर्यवर्धत ॥ ११५७ ॥
महासरित्पथे निर्निरोधे तस्थुर्विविक्षवः ।
नगरं ते यशोराजभिक्षुपृथ्वीहरादयः ॥ ११५८ ॥
ततः कतिषुचियुद्धाद्देषु यातेषु संगरे ।
निजेनैव यशोराजः परकीय भ्रमाद्धतः ॥ ११५९ ॥
राजतरङ्गिणी
कय्यात्मजेन हि समं विजयाख्येन सादिना |
सौस्सले न तु संग्रामे परावृत्ती : प्रदर्शयन् ॥ ११६० ॥
विप्रलब्धैः स वर्णाश्वकवचावेक्षणान्निजैः ।
शूलायुधिभिरुद्दामैः शूलाघातैरहन्यत ॥ ११६१ ॥
भिक्षो राज्यं समर्थोयं दातुं हर्तुं ततश्च नः ।
भीत्या तैर्डामरैरेव स घातित इति श्रुतिः ॥ ११६२ ॥
यथैव तेन विश्वस्तः स्वामी द्रोहेण वञ्चितः ।
तथैव प्राप विश्वस्तः क्षिप्रमेव वधं मृधे ॥ ११६३ ॥
पृथ्वीहरस्तत्र तत्र योधयित्वाथ डामरान् ।
क्षिप्तिकारोधसा भूयोभ्येत्य संग्राममग्रहीत् ॥ ११६४ ॥
तत्राधिष्ठानयोधानां भिक्षुपक्षोपजीविनाम् ।
पौरुषं स्वपरोत्कर्षपरिभावि व्यभाव्यत ॥ ११६५ ॥
वहिदानमहायोधसंहाराद्यैरुपद्रवैः ।
एकमेकमहस्तत्रानेहस्यासीद्भयावहम् ॥ ११६६ ॥
अतपत्तरणिस्तीक्ष्णमभीक्ष्णं भूरकम्पत ।
वबुद्रुमादीन्भञ्जन्तो महोत्पातप्रभञ्जनाः ॥ १९६७ ॥
पवनोत्थापितैः पांसुकूटैर्दभ्रे महोद्धतैः ।
व्योम्नि प्रोत्तम्भनस्तम्भभङ्गिर्निर्घातदारिते ॥ ११६८ ॥
ज्येष्ठस्य शुक्लैकादश्यां प्रवृत्तेथ महारणे ।
काष्टीले डामरा वह्निमेकस्मिन्प्रददुर्गृहे ॥ ११६९ ॥
सोझिर्वा मारुतोद्धृतः प्रसरन्वैद्युतोथ वा ।
जज्वालैकपदे कृत्स्नं नगरं निरवग्रहः ॥ ११७० ॥
दृष्टस्तदानीमेतावद्गजव्यूह इवापतत् ।
माक्षिकस्वामिनो धूमो बृहत्सेतौ यदुत्थितः ॥ ११७१ ॥
अथेन्द्र देवीभवनविहारं सहसागमत् ।
ततो नगरमुज्वालं क्षणात्सर्वमदृश्यत ॥ ११७२ ॥
न भूमिर्न दिशो न द्यौर्धूमध्वान्ते व्यभाव्यत ।
हुड्डुक्कामुखचर्माभो दृश्यादृश्योभवद्रविः ॥ ११७३ ॥
धूमान्धकारसंछन्नास्ततः प्रज्वलताग्निना ।
अपुनदर्शनायेव मुहुराविष्कृता गृहाः ॥ ११७४ ॥
वितस्तादृश्यतोज्ज्वालवेश्माश्लिष्टतटद्वया ।
रक्तातोभयधारेव कृतान्तस्यासिवल्लरी ॥ ११७५ ॥
ब्रह्माण्डोर्ध्वकवाटान्तसंस्पर्शात्पतितोन्नतैः
।
ज्वालाकलापैः संवृद्धैर्हेच्छवनायितम् ॥ १९७६ ॥
उच्चावचैर्युतो ज्वालामाद्रिसंनिभः |
वह्निर्धूमच्छलान्मूर्ध्नि बभाराम्बुधरावलिम् ॥ ११७७ ॥
आविर्भवन्तो ज्वालाभ्यो गृहाश्चकुर्मुहुर्मुहुः ।
अदग्धायत इत्याशां विमुग्धगृहमेधिनाम् ॥ ११७८ ॥
ज्वलितैस्तापितजला वितस्ता पतितैगृहैः ।
और्वोष्मवेदनाक्लेशं विवेद सरितां प्रभोः ॥ ११७९ ॥
दीप्तपक्षैः खगैः साकं ज्वलिता बालपल्लवाः ।
उद्यानद्रुमपण्डानां व्योमोड्डयनमादधुः ॥ ११८० ॥
सुधासिताः सुरगृहा ज्वालासंवलिता व्यधुः ।
क्षयसंध्याम्बुदालिष्टहिमाद्रिशिखरभ्रमम् ॥ ११८१ ॥
मञ्जनावासनौसेतुकदम्बैः प्लोषशङ्कया ।
अपास्तैर्नगरस्यान्तर्ययुर्नयोपि शून्यताम् ॥ ११८२ ॥
किमन्यन्मठदेवौकोगृहाट्टादिविवर्जितम्
।
नगरं क्षणमात्रेण दग्धारण्यमजायत ॥ ११८३ ॥
लोोष्टावरोषे नगरे धूमस्यामो निरास्पदः ।
उचरेकेच्को बहदुद्धो दष्टो दग्धद्रुमोपमः ॥ ११८४ ॥
सोन्येषु ज्वलितावास्तत्राणय चलितेस्बथ ।
शतमात्रेण योधानां युतो भूभुदश्जायंत ॥ ११८५ ॥
पारं गन्तुं वितस्तायारिछन्नसेतुनं तमक्षमम् ।
लन्धरन्धा द्विषोनन्ता निहन्तु पयबारयन् ॥ ११८६ ॥
पुरं दग्धंं समुत्पन्नं प्रजा नष्टाञ्च चिन्तयन् ।
आसन्नं मरणं राजा निर्विण्णो बह्वमन्यत ॥ ११८७ ॥
प्रस्थासरुमथ तं पत्यड्छुखमाशङ्खय विदुतम् ।
संञितक्न्यैः कमलियः क्र देवेत्यब्रबिद्वचः ॥ ११८८ ||
संरम्भसितबिद्योतिचनोल्लोखमाननम् ।
परिवत्य् निरुद्धाश्वो धीरः स समभाषत ॥ ११८९ ॥
तदद्य करवै भूमेः कृते हम्मीरसंगरे ।
चकार राजा भिज्ज्जो यत्सोभिमानी पितामहः ॥ ११९० ॥
कुक्क्स्त्योप्येष दायादो यद्धातास्माकमस्मि वा ।
स हर्षर्देवोपद्यन्नः कार्यरोषं पलायितः ॥ ११९१ ॥
को नाम मानिनां पङै प्रभविष्टोऽन्ते निजां भुवम् ।
असिक्तां स्वाङ्करक्तां"“-व्याघ्ः क्रुत्तिमिवोज्छति ॥ ११९२ ॥
इत्युक्त्वोदचन्य ्चयन्वल्गासुत््षि्ताग्रमुखं दयम् ।
संपुमिच्छुः पाणिभ्यां कपाणमुदनामयत् ॥ ११९२३ ॥
ततो निर्यह्य वस्गायां वाजिनं खवराजजः 1
ऊचे भृत्येषु सस्स्वत्रे पवेशाह न भूभुजः ॥ ११९४ ॥
प्रहारविङ्कवस्तिष्ठन्गरहादेकोभ्युपाययो ।
सेकटे तत्र भूमतुः परथ्वीपारोऽन्तिकं परम् ॥ ११९५ ॥
अष्टमस्तरङ्गः ।
कौलपुत्र्यं स्तुवंस्तस्य वात्सल्यादेष भूपतिः ।
स्वस्यात्तनिष्क्रियां मेने सेवाविष्कृत्युपक्रियाम् ॥ ११९६ ॥
अथ स्थितास्त्रिभिर्व्यूहै रहितास्तेकिरञ्शरान् ।
हन्तुं वामेन ते योधाः सर्वे वाहनदुर्मदाः ॥ ११९७ ॥
स प्रेरयंश्च तुरगं दैवात्तस्य च तादृशः ।
सहस्राण्यपि भूरीणि व्यधीयन्त विरोधिनाम् ॥ ११९८ ॥
अल्पसैन्यो द्विषत्खड्गमण्डलप्रतिबिम्बितः ।
नृपः साहायकायातविश्वरूप इवाबभौ ॥ ११९९ ॥
कलविङ्कानिव श्येनः कुरङ्गानिव केसरी |
एको व्यद्रावयद्भूरीनरीन्सुस्सलभूपतिः ॥ १२०० ।।
निपत्य पत्तीनुन्धानान्खुराग्राण्याप वाजिनाम् ।
प्राहरंस्ते हयारोहा व्यूहव्याहतरंहसः ॥ १२०१ ॥
बिम्बितज्वलनज्वालाः सर्व एव महाभटाः ।
हन्तव्याश्च हताश्चासन्नस्रस्रोतोरुणा इव ॥ १२०२ ॥
स द्विषां कदनं कृत्वा दिनस्यान्ते न्यवर्तते ।
बाप्पायमाणस्तोकाशं हव्याशेनोज्झितं पुरम् ॥ १२०३ ॥
तादृशेप्यजिते तस्मिञ्जयाशागौरवं द्विषः ।
स चौज्झीद्रमणीयस्य विनाशाज्जीवितादरम् ॥ १२०४ ॥
जाग्रत्स्वपंश्चलंस्तिष्ठन्स्त्रानश्नन्नथ सोरिभिः ।
निर्गच्छन्नित्यमाहूतो न कैरुद्वाष्पमीक्षितः ॥ १२०५ ॥
वह्निनिर्दग्धसर्वान्नसंभारे मण्डलेखिले ।
दुःसहः सहसैवाथ घोरो दुर्भिक्ष आययौ ॥ १२०६ ॥
दीर्घविप्लवसंक्षीणसंचया डामरैर्बहिः ।
उत्तब्धोत्पत्तयो रुद्धसंचारा दग्धमन्दिराः ॥ १२०७ ॥
राजतरङ्गिणी
अनानुवन्तो विधुरे राशि राजकुलाद्धनम् ।
दुर्भिक्षे तत्र सामन्ता अपि क्षिप्रं प्रपेदिरे ॥ १२०८ ॥
वहिनिट्यूतशेषाणि वेश्मान्यन्नाभिलाषिभिः ।
बुभुक्षार्तैर्जनैर्दत्तो ददाहाग्निर्दिने दिने ॥ १२०९ ॥
सरितां सेतवो वारिसंसेकोच्छ्रनविग्रहैः ।
दुर्गन्धाः कुणपै रुद्धघ्राणैस्तीर्णास्तदा जनैः ॥ १२१० ॥
निर्मासनरकङ्कालकपालशकलाकुला |
उवाह सर्वतः श्वेता क्षितिः कापालिकव्रतम् ॥ १२११ ॥
कृच्छ्रसंचारिणोकशुश्यामक्षामोच्चविग्रहाः ।
व्यभाव्यन्त बुभुक्षार्ता दग्धस्थाणुनिभा जनाः ॥ १२१२ ॥
अथ प्रबन्धयुद्धेन दिनैः कापीषुणा क्षतः ।
पृथ्वीहरो मृत इति श्रुतिर्मिथ्यैव पप्रथे ॥ १२१३ ॥
गाढप्रहारविवशे तस्मिन्प्रच्छादिते जनैः ।
तां चार्ता श्रुतवान्राजा ननन्दायुद्ध चोद्धतम् ॥ १२१४ ॥
धीरेव पुंश्चली व्याजौत्सुक्यसंदर्शनेन तम् ।
जयश्रीर्लोभयन्त्यासीन्न तु भेजे समुत्सुकम् ॥ १२१५ ॥
एकान्तवामहृदयो विधिरानुकूल्यं
मिथ्या प्रदर्य विशिष्ट्यनुबन्धि दुःखम् ।
अन्धीकरोति भृशमभ्रमगं ज्वलन्तं
भास्वन्महौषधिभिदे प्रकटय्य वज्रम् ॥ १२१६ ॥
दीर्घदुःखानुभूत्यन्ते यदीयागमनोत्सवम् ।
तपः फलमिव क्ष्माभृत्काङ्क्षनासीन्मनोरथैः ॥ १२१७ ॥
वात्सल्येनान्वितं प्रेम गौरवेण प्रियं वचः ।
औचित्येन च दाक्षिण्यं सापत्यमिव या दधे ॥ १२१८ ॥
अष्टमस्तरङ्गः ।
तस्योपकरणीभूतविभूतिगृहिणी प्रिया ।
तस्मिन्काले महादेवी विपेदे मेघमञ्जरी ॥ १२१९ ॥
विनोदशून्यनिर्विण्णंलोकयात्रं जगद्विदन् |
प्राणै राज्येन वा कृत्यं न स किंचिन्निरैक्षत ॥ १२२० ॥
सा भर्तुर्व्यसनोदन्तैः कृशा काश्मीरसंमुखी ।
औत्सुक्याद्दत्तयात्रासीच्छान्ता फुल्लपुरान्तिके ॥ १२२१ ॥
पूर्व तद्दर्शनाशाया दुर्वार्तायास्ततोतिथिः ।
भवन्नतोधिकं राजा दुःखावेगेन पस्पृशे ॥ १२२२ ॥
राशीमज्ञातपारुण्यतयादूषितअक्तयः ।
अनुसस्स्रुश्चतस्रस्ताः परिवारवरस्त्रियः ॥ १२२३ ॥
अप्रत्यक्षे क्षयेप्यस्या भक्त्युद्रितत्वमत्यजन् ।
तेजो नामाभवत्सूदो वन्द्यो भृत्यान्तरेधिकम् ॥ १२२४ ॥
स ह्यसंनिहितोन्यस्मिन्नहायातो निजं शिरः |
तश्चितोपान्तरूढेन भङ्क्त्वा ग्राव्णाविशन्नदीम् ॥ १२२५ ॥
आहवाह्वानसंरम्भैः शोकविस्मृतिकारिणः ।
राज्ञो द्विषः कार्यवशादुपकारित्वमाययुः ॥ १२२६ ॥
स राज्यमथ निक्षेनुकामो निर्विण्णमानसः ।
व्युत्क्रान्तशैशवं पुत्रमानिन्ये लोहराचलात् ॥ १२२७॥
मण्डलेश्वरतां प्रजेर्भ्रातृव्यं भागिकाभिधम् ।
नीत्वा च गुप्तिमकरोल्लोहरे कोषदेशयोः ॥ १२२८ ॥
बराहमूलं संप्राप्तमग्रायातः प्रियं सुतम् ।
आश्लिष्य विषयो राजा बभूवानन्दशोकयोः ॥ १२२९ ॥
राजसू नुस्त्रभिर्वर्षैः प्रत्यायातः स्वमण्डलम् ।
स पश्यन्पितरं चान्तरसुस्थितमतप्यत ॥ १२३० ॥
१४ १०६ राजतरङ्गिणी
खेदनम्राननो लोटावशेषं सोविशत्पुरम् ।
अम्बुलम्बोम्बुदो दावनिर्दग्धमिव काननम् ॥ १२३१ ॥
राज्येभ्यषिञ्चदाषाढस्याद्येहि जनकोथ तम् ।
अवादीद्राज्यतत्रं च कृत्स्नमुक्त्वा स्रुगद्गदः ॥ १२३२ ॥
श्रान्ताः पितृपितृव्यास्ते न यां वोढुमशक्नुवन् ।
धुरमुद्रह तां वीर त्वयि भारोयमर्पितः ॥ १२३३ ॥
साम्राज्यप्रक्रियामात्रपात्रं पुत्रं नृपो व्यधात् ।
न त्वार्पिपधीकारं तस्मिन्दैवविमोहितः ॥ १२३४ ॥
अभिषेकविधावेव राजसूनोः शभं ययुः ।
पुरोपरोधावग्राहव्याधिचौराद्युपद्रवाः ॥ १२३५ ॥
संपन्नसस्या च तथा देवी संववृते मही ।
दुर्भिक्षं श्रावणे मासि यथावत्प्रशमं ययौ ॥ १२३६ ॥
अत्रान्तरे सिंहदेवो रणे कुर्वन्नरिक्षयम् ।
कर्णेजपैर्जनयितुग्धायमिति सूचितः ॥ १२३७ ॥
कोपादविमृषंस्तत्त्वं स बन्दुं तं व्यसर्जयत् ।
कय्यात्मजं राजसूनुस्तत्तु प्रागेव बुद्धवान् ॥ १२३८ ॥
कोपस्मितोत्कटस्याग्रे स तस्याप्रतिभोभवत् ।
निनाय रक्षामात्रेण पार्थिवाशाममोघताम् ॥ १२३९ ॥
अभुक्तवान्मनस्तापात्प्रत्ययोत्पत्तये पितुः ।
साकं तेन सुतोन्येचुर्गन्तुं प्रावर्ततान्तिकम् ॥ १२४० ॥
आक्षेमं शङ्कितोशक्य इति मत्वा स मन्त्रिभिः ।
मार्गात्र्यवर्तयत तं पिता मिथ्या प्रसादयन् ॥ १२४१ ॥
अन्तस्तु निश्चिकायेति प्रविश्यातर्कितागमः ।
बछैनं स्थापयिष्यामि कारायामिति सोनिशम् ॥ १२४२ ॥
अष्टमस्तरङ्गः ।
धिग्राज्यं यत्कृते पुत्राः पितरश्चेतरेतरम् ।
शङ्कमाना न कुत्रापि सुखं रात्रिषु शेरते ॥ १२४३ ॥
पुत्रपत्नीसुहृद्धृत्या येषां शङ्कानिकेतनम् ।
वित्रम्भभूर्भूपतीनां कस्तेषामिति वेत्ति कः ॥ १२४४ ॥
साह्याभिधानप्रख्यातकुग्रामोपान्तवासिनः ।
खलपालस्य तनयः स्थानकाख्यस्य कस्यचित् ॥ १२४५ ॥
शैशवे पाशुपाल्येन वर्धितो डामरोद्भवैः ।
गृहीतशस्त्रं तन्नित्यं क्रमाट्टिकस्य लब्धवान् ॥ १२४६ ॥
प्रथमाव्दात्प्रभृत्यात्तदूत्यो भूभर्तुराप्तताम् ।
प्रययावुत्पलो नाम वैरिविच्छेदमिच्छतः ॥ १२४७ ॥
स हि भिक्षाचरं टिक्कमथ व्यापादयेत्यमुम् ।
जगादाङ्गीकृतैश्वर्यदानष्टिकोपवेशने ॥ १२४८ ॥
कृतप्रतिश्रवं तस्मिन्नर्थे तं च महर्द्धिभिः ।
दानैरुपाचरद्गञ्जपतिनाम्नाप्ययोजयत् ॥ १२४९ ॥
भोगलोभप्रभुद्रोहचिन्तादोलायमानधीः ।
स कार्य परिहार्य वा न कृत्यं निश्चिकाय तत् ॥ १२५० ॥
प्रासोष्टापत्यमत्रान्तस्तद्वधूः कार्यतो नृपः ।
ततश्च प्राहिणोत्तस्यै पितेव प्रसवोचितम् ॥ १२५१ ॥
सा तस्यात्युपचारस्य कारणं परिशङ्किता ।
पति पप्रच्छ निर्बन्धात्सोपि तस्यै व्यवर्णयत् ॥ १२५२ ॥
न कार्य: स्वामिनो द्रोहः कृते वास्मिन्स सुस्सलः ।
त्वामेव शनकैर्हन्याद्रोग्धायमिति चिन्तयन् ॥ १२५३ ।।
वरं स एव विश्वास्य व्यापाद्यस्तत्र चेदधः ।
भवेत्ते स्वामिपुत्रादिकुटुम्बं स्याद्विभूतिभाक् ॥ १२५४ ॥
राजतरङ्गिणी
भार्ययेति प्रेर्यमाणः स निश्चयविपर्यये ।
टिक्कं विहितवृत्तान्तं कृत्वा बद्धोद्यमः कृतः ॥ १२५५ ॥
गतागतानि कुर्वाणे दुध्रुझावथ पार्थिवः ।
स पुत्र इव विश्वास ययौ दैवविमोहितः ॥ १२५६ ॥
विपर्यस्ता मतिः पुत्रे विश्वासो वैरिसंश्रिते ।
जायते क्षीणभाग्यानां को नाम न विपर्ययः ॥ १२५७ ॥
वैधेयैः स्वार्थलोशान्धैर्यद्वानर्थसमागमः ।
सरघोपद्रवः क्षौद्रलुब्धैरिव न चिन्त्यते ॥ १२५८ ॥
तं पीडितं प्रजिना च राज्ञा चावनतिं ततः ।
उत्पलोकारयट्टिकं नीवीं चादापयत्सुतम् ॥ १२५९ ॥
राजाथ देवसरसं जितं संत्यज्य कार्तिके ।
वाष्ट्रकाख्यमगाड्रामं खेरीविषयवर्तिनम् ॥ १२६० ॥
स कल्याणपुराभ्यर्णे रणैस्तैस्तैर्विलक्षताम् ।
भिक्षुकोष्टेश्वरमुखानपि निन्ये महाभटान् ॥ १२६१ ॥
मध्याद्भिक्षाचरादीनां सुजि काककुलोद्भवम् ।
जीवग्राहं महावीरं युधि जग्राह शोभकम् ॥ १२६२ ॥
भवकीयस्य कृत्वादौ विजयस्य पराभवम् ।
भूभुजा तद्गृहा दग्धाः कल्याणपुरवर्तिनः ॥ १२६३ ॥
दग्धे वडौसके भिक्षाचरो नष्टाश्रयो व्यधात् ।
त्यक्त्वा तां मां शमालायां ग्रामे काकरुहे स्थितिम् ॥ १२६४
अनुजो भवकीयस्य विजयस्य भयानृपम् ।
संश्रितस्तेन तूग्रेण बडा कारागृहेर्पितः ॥ १२६५ ॥
भूरिसैन्यानुगं शूरपुरे विन्यस्य रिल्हणम् ।
आस्कन्दाशङ्किनीं राजा चक्रे राजपुरीमपि ॥ १२६६ ॥
१ सुज्जिः इत्युचितम् । अष्टमस्तरङ्गः ।
इत्थमुद्दण्डया वृत्त्या खण्डितोञ्चण्डडामरः ।
स्तोकावशेषं सोपश्यत्कर्तव्यमरिनिर्जयम् ॥ १२६७ ॥
भिक्षाचरो लवन्याश्च शक्तिक्षयमुपागताः ।
विदेशगमनं भीता रिपौ बलिनि मेनिरे ॥ १२६८ ॥
किमप्यभाग्यावतारैर्भिक्षुपक्षजुषां यतः ।
जीवतामप्यनुल्लासान्निर्जीवत्वमिवाययौ ॥ १२६९ ॥
स सोमपालकौटिल्यं स्मरन्कुर्या हिमात्यये ।
श्मशानोर्वी राजपुरीमिति ध्यायन्यवर्तत ॥ १२७० ॥
शान्तप्रायस्वदेशोर्वीविप्लवस्य महीपतेः ।
तस्यार्णवान्तक्रमणप्रतीतिः समभाव्यत ॥ १२७१ ॥
शतैकीयो योवशिष्टो विप्लवक्षयिते जने ।
वर्षे वर्ष स तद्राज्ये युगदीर्घ त्वमन्यत ॥ १२७२ ॥
असुखत्रासदारिद्र्यप्रियनाशादि वैशसैः ।
स राज्यकालः सर्वस्य परितापावहो ह्यभूत् ॥ १२७३ ॥
नरः पौरुषनैष्टुर्यशठत्वेन करोति किम् ।
विधातृवृत्तिवैचित्र्यपराधीनासु सिद्धिषु ॥ १२७४ ॥
पुरोभूतं कंचित्परिहरति राशि तम इव
व्यतीते कस्मिंश्चिद्धरिरिव विवृत्यास्यति दृशम् ।
समुल्लङ्ख्यासन्नं वचन नृपतिं दर्दुर इव
क्रमेत्स्रष्टुर्दृष्टः स्फुटमिति गतीनामनियमः ॥ १२७५ ॥
विश्वासनिहतान्निन्दन्नुञ्चलादीन्पुरावसत् ।
नित्यं विकोशशस्त्रो यः पुराविद्भयो निशम्य च ॥१२७६॥
विदूरथादिवृत्तान्तं नादात्केलिक्षणे ब्रुवन् ।
स्त्रीषु संभुज्यमानासु विश्वासविशदां दृशम् ॥ १२७७ ॥
राजतरङ्गिणी
स बन्धाविव निर्बंन्धाद्विशश्वास यदुत्पले |
तत्र संभाव्यते केन दैवादन्यो विमोहकृत् ॥ १२७८ ॥
टिक्कादयो भूमिपतेः सुज्जेर्वान्यतमे हते ।
त्वां तुल्यकार्यकर्तारं विद्म इत्यूचुरुत्पलम् ॥ १२७९ ॥
सुजिर्न व्यश्वसीत्तस्मिन्स जिघांसुस्तु भूभुजम् ।
तत्र तत्राभवत्सज्जः प्रसङ्गं नासदत्पुनः ॥ १२८० ॥
प्रतिश्रुतविलम्बेन समन्योरथ भूपतेः ।
।
प्रत्ययोत्पत्तये देवसरसान्नीविमात्मजम् ॥ १२८१ ॥
व्याघ्रप्रशस्तराजास्तीक्ष्णांश्चात्मसरान्परान्
आदाय कार्यमेतैमें सिध्येदित्युक्तवान्नृपम् ॥ १२८२ ॥
उञ्चित्योञ्चित्य सेनाभ्यो गृहीतैः साहसक्षमैः ।
शतैः समं त्रिचतुरैः पत्तीनामेकदाययौ ॥ १२८३ ॥
समयान्वेषिणो हन्तुस्तस्यासन्नस्य सर्वदा ।
प्रियाहारादिदानेन हन्तान्तःप्रीतिकार्यभूत् ॥ १२८४ ॥
तुरंगं मन्दुराचक्रवर्त्याख्यं नगरस्थितम् ।
अस्वस्थमुल्लाघयितुं तुरगव्यसनी नृपः ॥ १२८५ ॥
स लक्ष्मकप्रतीहारकरदात्मजमुखान्निजान् ।
पार्श्वाद्विसृष्टवानासीत्क्षणे तस्मिन्मितानुगः ॥ १२८६ ॥
शृङ्गारो लक्ष्मकापत्यं निशम्याप्तैर्निवेदितम् ।
व्यधाच्छ्रतिपथे राशस्तदुत्पलचिकीर्षितम् ॥ १२८७ ॥
विरुद्धे बन्धुधीदृष्टहिंसारम्भेपि संभवेत् ।
आसन्नजीवितान्तस्य जन्तोः सूनापशोरिव ॥ १२८८ ॥
स शापो गान्धार्यास्तदपि सरुषो भाषितमृषे-
स्त उत्पाताश्चक्षुः स्वमपि तदभौमं प्रकटयन् ।
१ अन्यतरे इत्युचितम् । १११. अष्टमस्तरङ्गः ।
कुलान्ते तत्राणाक्षममकृत वैकुण्ठमपि त-
द्विदन्नप्यन्यत्वं क इव भवितव्यस्य कुरुताम् ॥ १२८९ ॥
मिथ्यैतदित्यधिक्षिप्य क्षितिपालः प्रदर्शयन् ।
तमङ्गुल्योत्पलादीस्तानग्रस्थानेवमब्रवीत् ॥ १२९० ॥
द्रोग्धुः सुतोभवद्योगादनिच्छन्स्वास्थ्यमेष मे ।
त्वां दुष्टमुत्पलाचष्टे स्वेनान्यैर्वाथ चोदितः ॥ १२९१ ॥
ते छादयन्तः स्मेरास्या धाटन भयवैकृतम् ।
वक्ति देवो यदस्माभिर्वाच्यमित्येवमूचिरे ॥ १२९२ ॥
निर्यातेष्वथ तेष्वीषत्साशङ्क इव निश्चलान् ।
द्वास्थेनाकारयद्वित्रानन्तिके मुख्यशस्त्रिणः ॥ १२९३ ॥
उन्मनाश्च किमप्यासीद्विनिःश्वस्य स चिन्तयन् ।
सानुश्च न रतिं लेभे नृत्तगीतादिदर्शने ॥ १२९४ ॥
मेने वैदेशिकप्रायानाप्तानपि धृतभ्रमः ।
पुण्यक्षये पिपतिषुर्वैमानिक इवाम्बरात् ॥ १२९५ ॥
राजान्तरङ्गाः साशङ्काः प्रभौठ्येन मोहिते ।
पूत्कारमैच्छन्दातारमन्यं केचिव अतनाः ॥ १२९६ ॥
अयमेव स कालस्य बलात्कवलनग्रहः !
विदन्तोपि यदायान्ति जन्तवः कृत्यमूढताम् ॥ १२९७ ॥
सर्वान्तरक्षणेष्वस्तचक्षुषो दिवसद्वयम् ।
उत्पलाद्याश्च साशङ्काः कथमप्यत्यवाहयन् ॥ १२९८ ॥
रहःक्षणप्रार्थिनस्तांस्तृतीयेह्रयब्रवीन्नृपः ।
स्नात्वा प्रत्यूषे तद्द्यं भोक्तुं यात मुहुर्गृहम् ॥ १२९९ ॥
देवतार्चनपर्यन्तमवसायाह्निकं विधिम् ।
आजुहावोत्पलं दूतैर्मध्याह्नेथ रहःस्थितः ॥ १३०० ॥
कार्यसिद्धिं श्रद्दधानो वैजन्याद्राजसमनः |
राशोभ्यर्ण स साशङ्कद्वास्थरुद्धानुगोविशत् ॥ १३०१ ॥
प्रवेशद्वारि रुद्धं व्याघ्रं तदनुजं नृपः ।
शेषाणामपि भृत्यानामादिदेश बहिःस्थितिम् ॥ १३०२ ॥
विलम्बमानेष्वाप्तेषु केषुचित्सरुषो वचः ।
सत्यं तस्योद्ययावास्तां सोत्र द्रोग्धा य इत्यपि ॥ १३०३ ॥
ताम्बूलदायकः प्रौढवयास्तेनावशेषितः ।
सांधिविग्रहिको विद्वान्राहिलाश्चान्तिके परम् ॥ १३०४ ॥
दूतौ टिक्कस्याघदेवतिष्टवैश्याभिधावुभौ ।
तत्र प्रसङ्गादासाहामनातोत्पलसंविदौ ॥ १३०५ ॥
वाडौत्सः सुखराजाख्यो डामरो भिक्षुसंमतः ।
प्रयास्यति प्रभोर्दृष्ट्वा पादौ तत्कार्यसिद्धये ॥ १३०६ ॥
१९२.
इत्युक्तवांस्तेष्वहःसु तं नृपं नातिदूरगम् ।
ससैन्यं डामरं चक्रे स्व
त्राणार्थमुत्पलः ॥ १३०७ ॥
तथाचैनं तस्थिवांसं कृत्यमस्त्यमुनेति च ।
उक्त्वा प्रशस्तराजं तं
प्रविष्टो निर्जनं बाह्यमाकलय्य स मण्डपम् ।
अलक्ष्यमाणव्यापारो
प्रवेश द्रुतम् ॥ १३०८ ॥
मर्गलितं व्यधात् ॥ १३०९ ॥
स्नानाईकेशं शीतालुक्या प्रावारवेष्टितम् ।
कृत्वा कृत्स्नं वपुः
कं विष्टरोपरि ॥ १३१० ॥
आसीनं वीक्ष्य नृपति सङ्गो नेदृशो भवेत् ।
विज्ञप्तिं कुरु भूसंर्तुरित्यूचे व्याघ्र उत्पलम् ॥ १३११॥
स तया संज्ञया व्यग्रः पाद्मणतिकैतवात् ।
राज्ञोग्रमेत्य तच्छस्त्रीं विष्टरस्थामपाहरत् ॥ १३१२ ॥
अष्टमस्तरङ्गः ।
विकोशां चाकरोत्पश्यंस्तां तथोद्भ्रान्तलोचनः ।
प्राह स्म हा धिक्किं द्रोह इति यावद्वचो नृपः ॥ १३१३ ॥
प्राहरत्प्रथमं तावत्सव्ये पार्श्वे तयैव सः ।
तस्य प्रशस्तराजेन मूर्धनि प्रहृतं ततः ॥ १३१४ ॥
व्याघेणाथ क्षतं वक्षस्ताभ्यामेवासकृत्तदा ।
प्रहृतं तत्र स पुनः प्राहरन्न द्विरुत्पलः ॥ १३१५ ॥
पूर्वयैव प्रहृत्या हि च्छिन्नपार्श्वास्थिमालया ।
मेने कृष्टात्रतत्रीकं स तं प्रोषितजीवितम् ॥ १३१६ ॥
गत्वा तमोरिं पूत्कर्तुमिच्छन्व्याघ्रेण राहिलः ।
पृष्ठे कृताहतिद्वित्रा नालिका नोज्झितोसुभिः ॥ १३१७ ॥
ताम्बूलदायकस्त्यक्त्वा कैङ्कालाद्यजको व्रजन् ।
दीनो निजेभ्यः कारुण्यादुत्पलेनैव रक्षितः ॥ १३१८ ॥
अन्तः समुत्थिते क्षोभे बाह्यमण्डपवर्तिभिः ।
टिक्ककाद्यैः कृता लुण्ठिहगृहयैरुदायुधैः ॥ १३१९ ॥
उत्पलो निहतो राज्ञेत्यवेत्य कटकस्थितैः ।
बहिःस्थान्हन्यमानान्स्वान्समाश्वासयितुं ततः ॥ १३२० ॥
रक्तार्द्रशस्त्रं संदर्य तमोरेर्वपुरुत्पलः ।
ऊचे मया हतो राजा नं त्याज्यातश्चमूरिति ॥ १३२१ ॥
तच्छ्रुत्वा दुःश्रवं राजभृत्याः क्वापि भयाद्ययुः ।
द्रोहानुगास्त्वङ्गनान्तर्लब्धोल्लासा व्यधुः स्थितिम्॥१३२२॥
निर्यान्तो मण्डपातीक्ष्णा निजघ्नुर्नागकाभिधम् ।
द्वारात्प्रविष्टं निष्कृष्टकृपाणीकं नृपानुगम् ॥ १३२३ ॥
भूपालशक्यापालस्य त्रैलोक्याख्यस्य सेवकः ।
निन्दन्द्रोहं टिक्ककाद्यैर्द्वास्थश्चैको व्यपादितः ॥ १३२४ ॥
करङ्काद्यज्जको इति स्यात् । ११४ राजतरङ्गिणी
उत्कृष्टं नष्टसत्त्वानां मध्ये राजानुजीविनाम् ।
सखेटकासि धावन्तं भावुकान्वयभूषणम् ॥ १३२५ ॥
दृष्ट्वा सहजपालाख्यं पार्श्वद्वारेण निर्ययुः ।
तीक्ष्णाः स त्वपतद्भूमौ तद्भृत्यप्रहृतिक्षतः ॥ १३२६ ॥
जाते कुकीर्तिकालुष्यपात्रे राजात्मजब्रजे ।
वैलक्ष्यक्षालनं सिद्धं तस्य स्वक्षतजैः परम् ॥ १३२७ ॥
हैतदैशिकसंवादिदेहो राजात्मज़भ्रमात् ।
विद्वान्द्विजन्मा नोनाख्यस्तीक्ष्णपक्षैः पुरो गतः ॥ १३२८॥
अक्षतान्व्रजतो वीक्ष्य तीक्ष्णान्यामान्तरोन्मुखान् ।
चित्रार्पिता इव क्रोधान्नाधावन्केपि शस्त्रिणः ॥ १३२९ ॥
राजवंश्या महीपालप्रीतिपात्रपथा ययुः ।
स्थगयन्तोङ्गनं स्थूलकाया जनविवर्जितम् ॥ १३३० ॥
तांस्तान्कापुरुषान्हर्षदेवोदन्तात्प्रभृत्यलम् ।
स्मृत्वा च कीर्तयित्वा च कृतभारग्रहा इव ॥ १३३१ ॥
जातदुष्कृतसंस्पर्शा: खेदात्कर्तुं न शक्नुमः ।
पापात्पापीयसां येषां नामग्रहणसाहसम् ॥ १३३२ ॥
अङ्गनान्मण्डपारूढिं मन्वानाः पौरुषं महत् ।
पापिन: केपि तन्मुख्या ददृशुः स्वामिनं हृतम् ॥ १३३३॥
अधरेणास्रसंस्कारलेशावेशप्रकम्पिना |
वदन्तं दन्तदृष्टेन स्वान्तस्यान्तेनुतप्तताम् ॥ १३३४ ॥
वञ्चितः कथमेषोहमिति नामेति चिन्तया ।
निःस्पन्दे जीवितान्तेपि तथैव दधतं दृशौ ॥ १३३५ ॥
श्यामायमानं बाष्पेण व्रणवत्रैरुदञ्चता ।
अन्तःप्रशान्तामर्षाग्निशेषधूमलतात्विषा ॥ १३३६ ॥
१ हतो इति स्यात् । अष्टमस्तरङ्गः ।
आननस्यास्फुटीभूतचन्दनोल्लेखकुङ्कुमम् ।
सक्तया लिखितस्येव घनक्षतजलाक्षया ॥ १३३७ ॥
आश्यानास्रजटीभूतकेशं ननं भुवि च्युतम् ।
पर्यस्तपाणिचरणं स्कन्धाग्रालम्बिकंधरम् ॥ १३३८ ॥
कुलकम् ॥
तं वीक्ष्य नोचितं किंचिदाचेरुस्ते नराधमाः ।
वैजन्यस्य फलं भुङ्क्त्यावेगादधिचिक्षिपुः ॥ १३३९ ॥
बवा तुरङ्गे युग्ये वा न तैर्नीतश्चिताग्निसात् ॥
कर्तुं न वा पारितः स प्राणत्राणाय धावितैः ॥ १३४० ॥
आस्तां विलम्बसाध्यं वा कताष्ट्रदारूसात् ।
सज्जाग्नि चाग्निसाद्गहमपि कश्चिञ्च नाकरोत् ॥ १३४१ ॥
राजवाजिनमेकैकं तेध्यारुह्य पलायिताः ।
निर्लुण्ठितस्तु कटको व्रजन्ग्रामेषु डामरैः ॥ १३४२ ॥
न पुत्रः पितरं पुत्रं पिता वा प्रत्यपालयत् ।
मृतं हतं लुण्ठितं प्रचलन्सहिमेध्वनि ॥ १३४३ ॥
न कोपि शस्त्रभृत्सोभूत्स्मृत्वा मानोन्नतिं पथि ।
परैराक्षिप्यमाणो यः शस्त्रं वस्त्रं च नात्यजत् ॥ १३४४ ॥
लवराजयशोराजद्विजौ व्यायामवेदिनौ ।
कान्दश्च राजा निहता वीरवृत्त्या त्रयः परम् ॥ १३४५ ॥
अदूरादुत्पलाद्यास्तु कटकं वीक्ष्य विद्रुतम् ।
प्रविष्टावाष्टुवं छित्त्वा शिरो निन्युर्महीपतेः ॥ १३४६ ॥
गतेषु देवसरसं तेषु छिन्नशिरा नृपः ।
हतचौर इव प्राप ग्राम्याणां प्रेक्षणीयताम् ॥ १३४७ ॥
एवं द्रोहस्तृतीयाव्दामावास्यायां स फाल्गुने ।
पञ्चपञ्चाशतं वर्षानायुषोतीतवान्हतः ॥ १३४८ ॥
राजतरङ्गिणी
विलासशयनस्थस्य सिंहदेवस्य सा श्रुतौ ।
प्रेमाख्येनैत्य दुर्वार्ता धात्रीयेण व्यधीयत ॥ १३४९ ॥
संभाव्यते योनुभावः सशस्त्रस्याप्रियश्रुतौ ।
हृतशस्त्रोपि तं प्राप स तदा पितृवत्सलः ॥ १३५० ॥
मोहलुप्तस्मृतिः स्मृत्वा चिरादुद्गतचेतनः ।
तत्तद्दुःखाहतधृतिर्विललाप स्फुटास्फुटम् ॥ १३५१ ॥
मदर्थं कुर्वता राज्यं प्रयत्नादपकण्टकम् ।
अधमे किं महाराज त्वयात्मा परिभावितः ॥ १३५२ ॥
अहेतेः पश्यतः शत्रूनन्ते वैरविशुद्धये ।
अपि ते मानिनोगच्छंस्तात संभावनाभुवम् ॥ १३५३ ॥
त्वया निषेधिते वैरे पिता भ्राता च ते दिवि ।
निर्मन्युः संप्रति त्वं तु वर्तसे मन्युदुःस्थितः ॥ १३५४ ॥
अनरण्यकृपद्रोणजामदम्यादिषु स्पृहाम् ।
कुल्यक्षालितवैरेषु मा कार्षीः कांचन क्षणम् ॥ १३५५ ॥
शोच्यस्त्वदाश्रयो मन्युरहं शोधयिता नृप ।
दूये न तत्र यातं यत्रैलोक्यमभियोज्यताम् ॥ १३५६ ॥
वात्सल्योत्पुलकस्मेरं स्निग्धोक्तिमधुरं मुखम् ।
मद्दर्शने यदासीत्ते तन्मे पुर इवाधुना ॥ १३५७ ॥
इति चान्यच्च विलपन्गाम्भीर्यालक्ष्यवैकृतः ।
हीशोकभयमूकान्स ददर्शाप्तान्पितुः पुरः ॥ १३५८ ॥
अशिक्षयत यन्मन्युर्दाक्षिण्यं निरुरोध तत् ।
तथाप्येवं स तानूचे किंचिदाक्षेपकर्कशम् ॥ १३५९ ॥
कोशैः सद्वंशतां वीक्ष्य कुरुतः सत्क्रियां गताः ।
धिग्भवन्तश्च शस्त्रं च तातस्यान्ते विपर्ययम् ॥ १३६० ॥
अष्टमस्तरङ्गः ।
यन्मत्पितृव्ये निहते कृतमुच्छिष्टजीविभिः ।
मान्यानां भवतां सिद्धं हा धिक्तदपि नाधुना ॥ १३६१ ॥
इत्युपालम्भमानस्तान्द्वित्रैरन्तिकमागतैः ।
स्वकैरमात्यैः कर्तव्यश्रुतयेवहितः कृतः ॥ १३६२ ॥
प्रस्थानं लोहरे केचिदूचुः संत्यज्य मण्डलम् ।
त्वरां च तत्र राज्यन्ते वदन्तो भैक्षवं भयम् ॥ १३६३ ॥
गर्गात्मजं पञ्चचन्द्रमालम्ब्य लहरस्थितम् ।
द्वैराज्याचरणायान्ये धीरप्राया बभाषिरे ॥ १३६४ ॥
नहि स्वगृहवद्भिक्षोर्विविक्षोर्नगरान्तरम् ।
अज्ञायि प्रत्यवस्थानं केनाप्यसति सुस्सले ॥ १३६५ ॥
आत्मन्यसंभावनया तादृशां मत्रिणां नृपः ।
॥ १३६७ ॥
सान्तः खेदं श्वो विधेयं द्रक्ष्यथेत्यब्रवीद्वचः ॥ १३६६ ॥
कालापेक्षापरित्यक्तपितृव्यापत्तिदुःस्थितः ।
स कोशादिष्वथादिक्षदक्षिणस्त्राणदीक्षितान्
इतश्चेतश्च बम्भ्रम्यमाणैः प्रोद्यत्तस्वरम् ।
अन्योन्याख्यायिभिर्लोकैः पुरं मुखरतामगात् ॥ १३६८ ॥
मत्तवेतालमालेव कालरात्र्याकुलेव च ।
बभूव सा यामवती सर्वभूतभयावहा ॥ १३६९ ॥
दीपैर्निर्वातनिष्कम्पैश्चिन्तास्पन्दैश्च मन्त्रिभिः ।
तिष्ठन्परिवृतो राजा त्वन्तरेवमचिन्तयत् ॥ १३७० ॥
निर्द्वारे सतमस्युग्रमारुते शून्यवेश्मनि ।
तातोपि निहतः शून्ये मयि जीवत्यनाथवत् ॥ १३७१ ॥
कष्टमेतादृशासह्यवैशसक्षालनावधि ।
कथं गोष्ठीषु शक्ष्यामि द्रष्टुं मानवतां मुखम् ॥ १३७२ ॥
विरोधिवशवर्तिभ्यो देशेभ्यः सैन्यनायकः ।
स हिमैरेव दुर्लङ्घ्यैः कथमेष्यति वर्त्मभिः ॥ १३७३ ॥
इत्थं विमृषतस्तस्य तत्तत्तीव्राभिषङ्गिणः ।
ययौ भीतिमतो भीमा कथंचित्सा निशीथिनी ॥ १३७४ ॥
प्रातश्चतुष्किकां पौरसमाश्वासाय निर्गतः ।
नष्टं कटकमन्वेष्टुं सोश्वारूढान्व्यसर्जयत् ॥ १३७५ ॥
मार्गानसूचीसंचारैस्तुषारौर्विवरोज्झितान्
।
आश्लिष्टवसुधामेघाः कर्तुं प्रारेभिरे ततः ॥ १३७६ ॥
नामाप्यलब्ध्वा सैन्यस्य मोघसैन्येषु दूरतः ।
निवृत्तेषु नियुक्तेषु विमृष्य नृपतिः क्षणम् ॥ १३७७ ॥
यद्यद्येनाहृतं तत्तत्परित्यक्तं मयाधुना ।
दत्तं चारीञ्चितवतामभयं सागसामपि ॥ १३७८ ॥
इत्याशां भ्रमयामास पटहोद्घोषणैः पुरे ।
साशीर्घोषास्ततः पौरास्तत्रारज्यन्त सर्वतः ॥ १३७९ ॥
तिलकम् ॥
अनन्तरनृपाचारवैधम्यकारकल्पया ।
तया सोनघया वृत्त्या फलं सद्योनुभावितः ॥ १३८० ॥
शतादप्यूनसंख्यैर्यः स्थितवाननुगैः समम् ।
अनुरागहृतैर्लोकैस्तत्कालं पर्यवार्यत ॥ १३८१ ॥
प्रियोक्त्यावेदनं प्रीतिदायोपायः प्रभोः पुरः ।
भजल्लोकस्याग्र्यमन्त्रिपदवीं लक्ष्मकोग्रहीत् ॥ १३८२ ||
राज्यं शय्यां नयत्येवं प्राज्ञे राशि नयक्रमैः ।
याति मध्यंदिने भिक्षुर्विविक्षुः पुरमाययौ ॥ १३८३ ॥
तस्य डामरपौराश्ववारलुण्ठाकसंकुलः ।
अदृष्टपूर्वी दहशे सैरष्टाग्रतिकरस्तदा ॥ १३८४ ॥
हतं श्रुत्वा रिपुं राज्योत्सुकः स नगरं व्रजन् ।
राजा काकात्मजेनेति तिलकेनाभ्यधीयत ॥ १३८५ ॥
हतः समस्तविद्वेष्यः स दैवाद्यदि सुस्सलः ।
कथं प्रकृतयो जघुर्गुणवन्तं तदात्मजम् ॥ १३८६ ॥
पुरप्रवेशे का राजंस्तस्मादेकमहस्त्वरा ।
एहि पद्मपुरं यामो मार्गे रोद्धुं विरोधिनाम् ॥ १३८७ ॥
आगच्छन्तो नष्टसैन्याः सुज्जिमुख्या महाभटाः ।
निहता यदि वा रुद्धास्तत्र सायुधवाहनाः ॥ १३८८ ॥
प्रविष्टोसि ततो न्यस्तशस्त्रो द्वित्रैर्दिनैध्रुवम् ।
नगरं नगरौकोभिः स्वयमभ्यर्थितागमः ॥ १३८९ ॥
युग्मम् ॥
अलमेतैर्जरन्मत्रैर्वदन्त इति चक्रिरे ।
स च कोष्टेश्वराद्याश्च स्मेरास्तस्यावधीरणाम् ॥ १३९० ॥
राज्यं विद्भिः संप्राप्तांस्तांस्ताञ्शासनपट्टकान् ।
द्रुतमर्थयमानैश्च विलम्बं कारितो निजैः ॥ १३९१ ॥
अतो बहुहिमापातविवशाशेषसैनिकः ।
आसदन्नगरोपान्तं समयेन स तावता ॥ १३९२ ॥
एतस्मिन्नन्तरे लब्धे निःसैन्यस्य ससैनिकः ।
गर्गात्मजः पञ्चचन्द्रो नृपतेः पार्श्वमाययौ ॥ १३९३ ॥
हतस्वामिपरित्यागमन्युक्षालनकाङ्क्षिभिः ।
राजपुत्रैः समं सोथ वीरो योद्धुं विनिर्ययौ ॥ १३९४ ॥
असंभावनसंग्रामान्वीक्ष्य तान्भिक्षुसैनिकाः ।
यावत्प्रारेभिरे योद्धुं तावत्किमपि सर्वतः ॥ १३९५ ॥
१ संप्राप्तं इत्युचितम् । १२० राजतरङ्गिणी
क्षणेनैव ययुर्भङ्गं तांस्तान्वीक्ष्य हतान्निजान् ।
न संस्तम्भयितुं शेकुः स्वचमूञ्च पलायिनीः ॥ १३९६ ॥
सेनानाथाश्च ये मुख्या भिक्षुपृथ्वीहरादयः ।
अदृष्टपूर्व संत्रासं तेप्यशस्त्रिवदाययुः ॥ १३९७ ॥
विद्रवन्तोनुयाताः स्युस्ते चेद्दूरं नृपानुगैः ।
तन्नूनमवशिष्येत क्षणादेव न किंचन ॥ १३९८ ॥
वैमुख्यं तेषु यातेषु चिरात्सांमुख्यमाययौ ।
नवभूभृत्प्रभावेण नगरे विधुरे विधिः ॥ १३९९ ॥
अन्यथा कलितो लोकैरन्यथा दैवयोगतः ।
इत्थं राज्ञोईयोरासीद्विजयावजयक्रमः १४०० ॥
कंचिन्निपातयति बद्धपदं क्षणेन
कंचित्परं पिपतिषु नयति प्ररूढिम् ।
संकल्पनिर्विषयचित्रतरानुभाव
ओघोम्भसामिव तटं पुरुषं विधाता ॥ १४०१ ॥
अथ तत्तद्भयस्थानशान्तः सुजिर्दिनात्यये ।
दावव्याप्ताद्रिनिष्क्रान्तो निःसहोहिरिवाययौ ॥ १४०२ ॥
मेधाचक्रपुरग्रामस्थितः श्रुत्वा हतं नृपम् ।
स हि संमत्र्य रात्र्यन्तर्नोत्तस्थाववसत्परम् ॥ १४०३ ॥
रिल्हणादीन्स्थिताञ्शूरपुरादौ सैन्यनायकान् ।
प्रतीक्षमाणस्तैः साकं निर्वाधं नगरेविशत् ॥ १४०४ ॥
तमिस्रायां प्रत्यभिशाकृते तेषामनश्वरान् ।
स्वावासपृष्ठे ज्वलतो दीपानास्थापयत्ततः ॥ १४०५ ॥
वैमत्यात्ते तु पत्तीनां विद्रुतानां पृथक् पृथक् ।
निशि क्वापि परिभ्रष्ट न तत्कटकमाययुः ॥ १४०६ ॥
प्रत्यूषे प्रचलंस्तैस्तैः पृष्ठलग्नैः स डामरैः ।
न मुहूर्तमपि त्यक्तः प्रहरद्भिरितस्ततः ॥ १४०७ ॥
वृद्धस्त्रीवालभूयिष्ठान्सहप्रस्थायिनो जनान् ।
ययौ रक्षन्पुरः कृत्वा पशुपालः पशूनिव ॥ १४०८ ॥
पञ्चशत्या हयारोहै: सह व्यावृत्य तिष्ठता ।
कंचित्क्षणं तेन रक्षा तेषां कर्तुमशक्यत ॥ १४०९ ॥
द्राक्षापण्डद्रुमव्यूहसंबाधेध्वन्यसाध्वसैः ।
बाध्यमानोरिभिर्लोकं सोत्याक्षीत्तु पदे पदे ॥ १४१० ॥
हतस्य स्वामिनः स्वामिसूनोश्च व्यसनस्थितेः ।
आनृण्यकाङ्क्षिणा तेन तत्र ह्यात्मैव रक्षितः ॥ १४११ ॥
येषां प्राणपरित्यागे निश्चयं बनतामपि ।
न योग्यकालापेक्षास्ति किं तैर्हिस्रपशूपमैः ॥ १४१२ ॥
हन्तुं तन्नष्ट॒मायान्तं रुद्ध्वा पद्मपुरान्तिकम् ।
अवसण्डामराः क्रूराः खडूवीविषयौकसः ॥ १४१३ ॥
खेरीतलालशाग्रामादुत्थाय पृथुसैनिकः ।
व्रज॑स्तेनाययौ तत्र प्रसङ्गे श्रीवकः पथा ॥ १४१४ ॥
तमनष्टानुगं सुजिरसाविति विशङ्किताः ।
निपत्य ते विधिरे हतलुण्ठितसैनिकम् ॥ १४१५ ॥
मेरुश्च सज्जनश्चाश्ववारौ तत्राहवे हतौ ।
क्षतो बट्टात्मजो मल्लो दिवसैर्यो व्यपद्यत ॥ १४१६ ॥
उद्दीपविहतश्वभ्रवहत्सलिलसंकटम् ।
उदीपपूरवालाख्यं स्थानं तत्र क्षणेभवत् ॥ १४१७ ॥
युवा युद्ध्वा प्रचलतस्तत्र पद्मपुराद्वहिः ।
रुद्धसैन्यस्य विशिखः श्रीवकस्याविशद्गलम् ॥ १४१८ ॥
१६ १२१ १२२ रांजतरङ्गिणी
प्रहारविवशो नासौ सुजिर्ज्ञात्वेति डामरैः ।
॥ १४२० ॥
स निर्लुण्ठ्य परित्यक्तः पूर्वमैत्र्यनुरोधतः ॥ १४१९ ॥
लुण्ठितश्रीबकानीककोशभारग्रहानतैः ।
तैः कैश्चिञ्चलितैरासीत्सुजेर्मार्गानुपद्रवः
प्रस्थिते पथिकेकस्माद्यत्रेषूत्सादयन्वने ।
आयुःशेषो मृगेन्द्रस्य विद्ध्यादध्वशोधनम् ॥ १४२१ ॥
निःशब्दसैन्यो निर्यातः सुजि: पद्मपुरान्तरे ।
उदीपश्वभ्रसविधं संप्राप्तोज्ञायि डामरैः ॥ १४२२ ॥
पदातिकोशशस्त्रादि मुष्णतः सोनवेक्ष्य तान् ।
तीर्त्वा श्वभ्रं वाजिगम्यां साश्ववारो भुवं ययौ ॥ १४२३ ॥
ततः पुरं प्रशान्तारिभयं दूराद्विरोधिनः ।
भ्रूभङ्गतर्जनीकम्परूक्षालापैरतर्जयत् ॥ १४२४ ॥
संत्रस्तै छन्त्रमात्रं तैस्त्यक्तमादाय च द्रुतम् ।
प्रविश्य नगरं सास्रुर्नृपतेः पार्श्वमाययौ ॥ १४२५ ॥
ज्यायसि भ्रातरीवाग्रं तस्मिन्प्राप्ते जहौ नृपः ।
दुःखोष्णैरस्रुभिः सार्धं वैरिव्यापातसाध्वसम् ॥ १४२६ ॥
महत्तमोनन्तसूनुरानन्दस्तत्र वासरे।
लोचनोड्डारकग्रामे डामरैः प्रचलन्हतः ॥ १४२७ ॥
तत्तन्मङ्गल्यदण्डादिदुःसहायासकारणात् ।
स विपत्पतितो नाभूत्कस्यापि करुणावहः ॥ १४२८ ॥
भासाभिधः सुजिभृत्यो लोकपुण्यात्पलायितः ।
श्रान्तोवन्तिपुरेविक्षदवन्तिस्वामिनोङ्गनम् ॥ १४२९ ॥
कम्पनोग्राहकः क्षेमानन्दः स च तदन्तरे ।
अमर्षणैरवेष्ट्येत डामरैर्होलडोद्भवैः ॥ १४३० ॥
इन्दुराजोपि सेनानी: कुलराजकुलोद्भवः ।
टिक्कं तद्वेष्टितो ध्यानोड्डारं व्याजादशिश्रियत् ॥ १४३१ ॥
पिञ्चदेवादयोन्यपि बहवः सैन्यनायकाः ।
अत्यजन्क्रमराज्यान्तर्डामरैः कृतवेष्टनाः ॥ १४३२ ॥
पाते वनस्पतेः शावा इव तन्नीडविच्युताः ।
इत्थं हताः क्षताश्चासंस्तत्र तत्र नृपानुगाः ॥ १४३३ ॥
निष्पादत्रा हिमप्लष्टचरणा नग्नविग्रहाः ।
क्षुत्क्षामा बहवोभूवन्मार्गेषु गलितासवः ॥ १४३४ ॥
न व्यलोक्यत मार्गेषु तदा नगरगामिषु ।
पलालच्छन्नदेहेभ्यो मानुषेभ्यः परः क्वचित् ॥ १४३५ ॥
घासं विलासवासत्वं तेपि चित्ररथादयः ।
निन्युर्यैरचिरेणैव महामात्यैर्भविष्यते ॥ १४३६ ॥
द्वितीयेपि दिने रुद्धसंचाराः पत्रिणामपि ।
तुषारवर्षिणो मेघा न मुहूर्ते व्यरंसिषुः ॥ १४३७ ॥
वनपूर्वाभिधग्रामस्थितस्य कटकान्निजान् ।
भिक्षोनिक्षिप्य धन्योथ सिंहदेवमशिश्रियत् ॥ १४३८ ॥
निशम्य कृतसत्कारं नृपं तदनुयायिनम् ।
सर्वेपि भैक्षवास्तस्थुः सैनिका नगरोन्मुखाः ॥ १४३९ ॥
मन्दप्रतापे दायादे संप्राप्तावसरास्ततः ।
राश्यश्चतस्रो राजानमनुमर्तु विनिर्ययुः ॥ १४४० ॥
परापातभयाच्छीतापाताञ्च विवरैर्जनैः ।
न ता नेतुमशक्यन्त दूरस्थं पितृकाननम् ॥ १४४१ ॥
चक्रिरे स्कन्दभवनोपान्ते देहांश्चिताग्निसात् ।
ते सत्वरं ततस्तासामदूरे राजसझनः ॥ ११४२ ॥
राजतरङ्गिणी
राशी चम्पोद्भवा देवलेखा तरललेखया ।
स्वस्रा सहाविशद्वह्नि रूपोल्लेखावधिविधेः ॥ १४४३ ॥
गुणोज्ज्वला जजला सा मृता वल्लापुरोद्भवा ।
गग्गात्मजा राजलक्ष्मीरपि वह्नौ व्यलीयत ॥ १४४४ ॥
मत्वा हिमव्यपायान्तं राज्यरोधं निजप्रभोः ।
डामरा नवभूभर्तुर्हिमराजाभिधां व्यधुः ॥ १४४५ ॥
ददर्श सौस्सलं मुण्डमथ भिक्षुरुपागतम् ।
गाढामर्षाग्निसंदीसैक्पातैर्निर्दहन्निव ॥ १४४६ ॥
कोष्टेश्वरज्येष्ठपालादयस्तत्सत्क्रियोद्यताः ।
असहासन्नतां वैराद्भजता तेन वारिताः ॥ १४४७ ॥
नगरं हिमवृष्ट्यन्ते स यियासुर्युयुत्सया ।
ताटस्थ्येनाहिताकृष्टान्भृत्याञ्ञ्ज्ञात्वाब्रवीद्वचः ॥ १४४८ ॥
प्रसह्य प्राप्नुयां राज्यमिति पृथ्वीहरे सति ।
हते तु तस्मिन्दायादे विपन्नां स्यां पतिर्भुवः ॥ १४४९ ॥
इत्यचिन्तयमेतत्तु दैवात्संजातमन्यथा ।
राज्यस्याशापि विरता हते प्रत्युत यद्रिपौ ॥ १४५० ॥
किं राज्येनाथ वा कृत्यं भोगमात्रोपयोगिना ।
जिगीषोरुचितं कस्य ममेवान्यस्य सेत्स्यति ॥ १४५१ ॥
मुण्डं न्यपातयद्भूमौ यः पूर्वेषां पुरा मम ।
सिंहद्वारे मदीयेद्य तन्मुण्डं वर्तते लुठत् ॥ १४५२ ॥
दशमासान्मदाद्यानां सुखच्छेदं व्यधत्त यः ।
तत्तद्दुःखं स तु मां शाब्दानुभावितः ॥ १४५३ ॥
एवं निर्व्यूढकर्तव्यक्य नेप्याम्यवन्ध्यताम् ।
उपशान्तमनस्तापः सुस्थित्या शेषमायुषः ॥ १४५४ ॥
अष्टमस्तरङ्गः ।
इत्याद्युक्त्वा गतष्टिक्काभ्यर्णे तं प्रणतं व्यधात् ।
प्रीत्या सहेमघाटकश्वेतच्छन्त्रादिभाजनम् ॥ १४५५ ॥
तद्विस्रम्भेण राज्याशापिशाच्योदितया पुनः ।
गृहीतोभ्येत्य शीतार्तस्तस्थावन्तर्विचिन्तयन् ॥ १४५६ ॥
अत्यन्तानुचितं चान्यल्लवन्यैः संविधित्सुभिः ।
रक्षितं रक्षिणो न्यस्य हतक्ष्माभृत्कलेवरम् ॥ १४५७ ॥
विपक्षाश्रयणेप्यस्मिन्स्वामिनोन्ते किमीदृशी ।
दशा शरीरस्येत्यन्तः कृतज्ञत्वेन चिन्तयन् ॥ १४५८ ॥
दिदृक्षाव्याजतः सजकाख्यो नगरशस्त्रभृत् ।
आयातो वाष्टुकां गोतॄन्यु द्धैर्जित्वाग्निसायधात् ॥ १४५९॥
तिलकम् ॥
॥ १४६० ॥
स चतुर्नवताद्वर्षादारभ्यासादितच्छलैः ।
भूतैरधिष्ठितस्तिष्ठन्प्रजासंहारकार्यकृत्
देवताधिष्ठिताविष्टदेहिवाक्यादिति
भावितद्वधसंवादजनितप्रत्ययोद्ययौ ॥ १४६१ ॥
तदीयानन्यथात्वेन च्छेत्ता भ्रामयिता च यः ।
श्रुतिः ।
तन्मुण्डस्यास्य स पुमांल्लव्धः सुप्तो मृतस्तथा ॥ १४६२ ॥
तिलकम् ॥
भिक्षुः कापुरुषाचारहतौचित्यो व्यसर्जयत् ।
प्राचण्ड्याख्यातये मुण्डमथ राजपुरी रिपोः ॥ १४६३ ॥
उच्चलात्मजया तत्र देव्या सौभाग्यलेखया ।
नेतृन्पितृव्यमुण्डस्य जिघांसन्त्या निजानुगैः ॥ १४६४ ॥
राजपुर्यामाकुलत्वं नीतायामाससाद तत् ।
तद्भर्तुः सोमपालस्य दूरस्थस्थान्तिकं चिरात् ॥ १४६५ ॥
युग्मम् ॥ १२६ राजतरङ्गिणी
आदीनास्यमधुक्षैन्यग्राम्यधर्मादिकर्मसु ।
तिरश्च इव शोच्यस्य नेयबुद्धेः स्वशप्रभोः ॥ १४६६ ॥
सभ्यैरुच्चावचं तत्र कर्तव्यं परिचिन्तितम् ।
स्वोचितं व्यञ्जितौचित्यानौचित्यं निरवग्रहैः ॥ १४६७ ॥
नागपालस्तु सौभ्रात्रं लब्ध्वा भ्रातुः स्थितोन्तिके ।
सेहे मुण्डावशेषस्य नोपकर्तुर्विमाननाम् ॥ १४६८ ॥
सुदीर्घदर्शिनोप्यन्ते कश्मीरेभ्यः पराभवम् ।
विशङ्कयोचुः सर्वथेदं सत्कार्य वः शिरः प्रभोः ॥१४६९ ॥
क्रियते ये तु नियतेरन्यथात्वं सनाथताम् ।
विनिहस्य हरेर्दृष्टाः कुर्वन्तो यत्र जम्बुकाः ॥ १४७० ॥
तद्गोपालपुरे कालागुरुचन्दनदारुभिः ।
काष्ठैर्निष्ठां शिरो निन्ये वीतिहोत्रेथ शत्रुभिः ॥ १४७१ ॥
यथा प्रातिभ्रंशा धरणिपतिभावस्य विविधा
यथा हासोल्लासा अपि समरसीमासु बहुशः ।
यथा तत्तद्दीर्घव्यसनविनिपातानुभवनं
तथा दृष्टस्तस्य प्रमयसमयोप्यद्भुततरः ॥ १४७२ ॥
कस्यापरस्य तस्येव लेभिरे वह्निसत्क्रियाम् ।
एकत्रेतरगात्राणि मुण्डमन्यत्र मण्डले ॥ १४७३ ॥
टिक्कादयोथ नगरं यान्तोवन्तिपुरध्वना ।
तत्र हन्तुं व्यलम्बन्त भासादीन्पूर्ववेष्टितान् ॥ १४७४ ॥
युद्धायुद्दीपनग्रावप्रहारच्छेदकारिभिः ।
न ते जेतुमशक्यन्त तैः प्रयत्नपरैरपि ॥ १४७५ ॥
स्थितैर्महाश्मप्राकारगुप्ते सुरगृहाङ्गने ।
तैर्हन्यमानास्ते स्थातुं गन्तुं वा नाभवन्क्षमाः ॥ १४७६ ॥
१२७
एवं प्राप्तविलम्बेषु तेषु लब्धान्तरः सुधीः ।
स्वीचकार प्रदानेन खडूवीडामरान्नृपः ॥ १४७७ ॥
गृहीतनीविना तेषां सुजिः प्रायोजि सत्वरम् ।
तेन भासादिमोक्षाय पञ्चचन्द्रादिभिः समम् ॥ १४७८ ॥
प्रापावन्तिपुरं यावन्न स तावत्तद्ग्रगान् ।
कय्यात्मजादीनालोक्य भङ्गं टिक्कादयो ययुः ॥ १४७९ ॥
देवागाराद्विनिर्याता भासाद्यास्ते च विद्विषाम् ।
भग्नानामनुगान्हत्वा सुजेरन्तिकमाययुः ॥ १४८० ॥
लब्धप्रतापे नगरं प्रविष्टे कम्पनापतौ ।
॥ १४८२ ॥
आययाविन्दुराजोपि टिक्कं संत्यज्य सानुगः ॥ १४८१ ॥
चक्रे चित्ररथश्रीवभासादीनपि भूपतिः ।
पादाग्रद्वारखेर्यादिकर्मस्थानाधिकारिणः
यथा पूर्वमधीकारानजहत्सुज्जिरप्यभूत् ।
प्रतीहारमुखप्रेक्षी का कथेतरमत्रिणाम् ॥ १४८३ ॥
प्रतीहारोपि निःसीमडामरग्रामसंमतः ।
तद्भेदचक्रिकां कुर्वन्नगाद्राज्ञः प्रतीक्ष्यताम् ॥ १४८४ ॥
स नासीदसुहृद्व चूहे कोपि तत्प्रेरणेन यः ।
नाशिश्रियन्नृपं नो वा बभूवाश्रयणोन्मुखः ॥ १४८५ ॥
• निहुतेशित्वसदृशस्फूर्तिर्घृत महीपतिः ।
आहारमप्यनासाद्य तन्मतं न न्यषेवत ॥ १४८६ ॥
इत्थं नगरमात्रान्तर्लब्धपादप्रसारिकः ।
सोवर्तिष्ट समासन्नफलं कन्दलयन्नयम् ॥ १४८७ ॥
संघटय्याखिलान्भिक्षुर्डामरान्विजयेश्वरे
।
अथातिष्ठदधिष्ठानं जिघृक्षुः शिशिरात्यये ॥ १४८८ ॥
राजतरङ्गिणी
अदृष्टपूर्व स्वचमूचकैक्यं वीक्ष्य डामराः ।
भिक्षोर्हस्तगतं राज्यं मत्वाशङ्किषताथ ते ॥ १४८९ ॥
एकैकस्येष धीशौर्यमिन्त्रामिन्त्रादि दृष्टवान् ।
नोत्तिष्ठेत्प्राप्तराज्यः किमास्कन्देषु गृहान्तरात् ॥ १४९० ॥
इति संमत्र्य ते राज्यं सोमपालाय दित्सवः ।
दूतान्निगूढं प्राहिण्वन्सोपि दूतं व्यसर्जयत् ॥ १४९१ ।।
आकारचारवैक्कुव्यैः पशुतुल्यस्य तस्य तैः ।
राज्यभोगा अभङ्गा नो भविष्यन्तीत्यचिन्त्यत ॥ १४९२ ॥
भोगलोभोजितौचित्यदस्युसंघचिकीर्षितम्
।
देशेत्र पापात्पापीये दैवान्न समपादि तत् ॥ १४९३ ॥
दास्येप्ययोग्यो यो राज्ये स इत्यास्तां त्रपान्यतः ।
शक्येत पातुं देशोयं किमीषदपि तादृशा ॥ १४९४ ॥
शालीन्पलालपुरुषोवति यः कृशानु-
दग्धाननश्चटकपेटकभीतिदानैः ।
त्रातुं स काननतरून्विहितो विद्ध्या-
त्किं तत्र भञ्जनकृतां वनकुञ्जराणाम् ॥ १४९५ ॥
भिक्षोर्नेदिष्ठतां दिष्टवृद्धिव्याजात्ततो भजन् ।
तद्दूतो डामरान्गूढं नीविदानोद्यतान्व्यधात् ॥ १४९६ ॥
वैशाखेथ कृतारम्भस्तदा संभावितत्वरः ।
निर्गत्य नगरात्सुजिर्गम्भीरातीरमाययौ ॥ १४९७॥
तस्याभियोगः श्लाघ्योभूयोद्धुं यत्समवायिनः ।
एकाकी तावतो वीरानूरीकृत्य स निर्ययौ ॥ १४९८ ॥
अन्तःपाते साहसानां नाद्भुतं तद्विधेर्वशात् ।
जीयते लक्षमेकेन लक्षेणैकोथवा युधि ॥ १४९९ ॥
१२९
पारं तरीतुं निःसेतोः सरितोपारयन्नसौ ।
परस्मिन्नहितानपश्यच्छरवर्षिणः ॥ १५०० ॥
द्वित्रा निशाः स ते चासंस्तस्याः सिन्धोस्तटद्वये ।
पारे
रुद्धाः संनाहिनोन्योन्यरन्ध्रावेक्षणदीक्षिताः ॥ १५०१ ॥
अथावन्तिपुरानौभिरानीताभिरबन्धयत् ।
सेतुं साश्वोतरत्सुजिरारुह्य तरणीं स्वयम् ॥ १५०२ ।।
तरन्तमेव तं दृष्ट्वा योधैः कतिपयैः समम् ।
द्विषञ्चमूर्मरुल्लोला द्रुमालीवाभवच्चला ॥ १५०३ ॥
दृष्टं मुहूर्तादेतावदारूढः स च यत्तटम् ।
बद्धश्च सेतुस्तीर्णाश्च योधा भग्नाश्च विद्विषः ॥ १५०४ ॥
न खड्गी न हयारोहो नापि शूली न चापभृत् ।
व्यावृत्य प्रेक्षितुं कश्चिदशकद्विद्रुताद्वलात् ॥ १५०५ ।।
निबद्धबधशैथिल्याल्लोलपल्ययने हये ।
कोष्टेश्वरस्याश्ववारा व्यलम्बन्तान्तरे क्षणम् ॥ १५०६ ।।
निर्यन्त्र्य तेपि पर्याणं सुजौ पश्चात्प्रधाविते ।
वातोद्धृतं रजश्चक्रमिव क्षिप्रं तिरोदधुः ॥ १५०७ ॥
हतलुण्ठितविध्वस्तध्वजिनीका विरोधिनः ।
ध्यानोड्डारादिषु ग्रामेष्वमिलन्खण्डशो गताः ॥ १५०८ ॥
विजयेशाग्रगं तीर्त्वा वितस्तासेतुमागतः ।
भासोपि दस्यून्विद्धे पलायनपरायणान् ॥ १५०९ ॥
उषित्वा विजयक्षेत्रे तदान्येधुरुपागते ।
कम्पनेशे ययुस्त्यक्त्वा ध्यानोड्डारं विरोधिनः ॥ १५१० ॥
तत्र स्थित्वा दिनैः कैश्चित्स देवसरसोन्मुखः ।
शिश्रिये भेदनिर्यातैरेत्य टिक्कस्य गोत्रिभिः ॥ १५११ ॥
राजतरङ्गिणी
जयराजयशोराजौ तन्मुख्यौ भोजकात्मजौ ।
प्रविश्य देवसरसं व्यधाहिक्कोपवेशने ॥ १५१२ ॥
ययुर्विनष्टसंघातास्तस्मिन्पश्चात्प्रधाविते ।
भिक्ष्वादयः शूरपुरं स्वोर्वी कोष्टेश्वरादयः ॥ १५१३ ॥
गर्छौ महाभये सोमपालदूतः पलायितः ।
दास्याः सुतेन प्रहितः कुत्रास्मीति प्रभोर्व्यधात् ॥ १५१४ ॥
स हि तादृयहारम्भक्षोभसाध्योन्नतीच्छुताम् ।
तस्य सिंहीस्पृहाक्रान्तगोमायुवदमन्यत ॥ १५१५ ॥
प्रमादात्स्वामिनो राज्यं चिरं नष्टं मितैर्दिनैः ।
सुजि: प्रसाध्य प्रददावेवं स स्वामिसूनवे ॥ १५१६ ॥
शमालादीनपि व्यूढान्दानोपायेन डामरान् ।
पौरांश्च भिक्ष्वाश्रयिणो राजा भेत्तुं प्रचक्रमे ॥ १५१७ ॥
राज्ञः परीक्ष्य सामर्थ्यमथ कुर्मो यथोचितम् ।
इति सर्वाभिसारेण ते संमत्र्य रणं ददुः ॥ १५१८ ॥
रजोजवनिकालक्ष्यभटौघनटताण्डवः ।
दामोदरेभूत्संग्रामः स वीरग्रामघस्मरः ॥ १५१९ ॥
कोष्टेश्वरवशं यातं रक्षता पितरं क्षतम् ।
लब्धाः सहजपालेन लाघाः प्रकृतिभिः समम् ॥ १५२० ॥
श्रमस्तत्राविशेषोभूद्राशो भिक्षाचरस्य च ।
भिक्षुस्त्वनन्यसंवेद्यं विवेदात्मपराजयम् ॥ १५२१ ॥
ततः प्रभृति यः प्रातः स न सायमदृश्यत ।
योद्य वा न परेधुः स सैनिको भैक्षवे बले ॥ १५२२ ॥
एवं त्यक्त्वा परान्पौरडामरेषु नृपान्तिकम् ।
प्रयात्सु लाभसत्कारानुचितान्प्राप्नुवत्सु च ॥ १५२३ ॥
काप्यहंपूर्विकोत्तस्थौ मनुजेश्वरकोष्टयोः ।
प्रयातुं पार्थिवाभ्यर्ण लाभसौख्याभिलाषिणोः ॥ १५२४ ॥
ज्ञात्वाथ तत्काकरुहाद्गृहीतस्वपरिच्छदः ।
देशान्तरोन्मुखो भिक्षुराषाढे मास्यवाचलत् ॥ १५२५ ॥
अनुयाद्भिः स दाक्षिण्यशेषाद्विहित सान्त्वनैः ।
तदाद्यैर्डामरैः क्रुध्यन्न निरोद्धुमपार्यत ॥ १५२६ ॥
अकरोत्स्वैरिणीसूनुतया शीलबहिष्कृतः ।
अतिरूपेषु दारेषु तस्य कोष्टेश्वरः स्पृहाम् ॥ १५२७ ॥
सां हरेः फणारत्नमहेर्ज्वालां हविर्भुजः ।
बालां च तस्य संस्प्रष्टुं कोप्रशान्तस्य शक्नुयात् ॥ १५२८ ॥
समं सौस्सलिना बद्धसंधिराश्रयकाङ्क्षिणः ।
सोमपालः स्वविषये नादात्तस्य प्रतिश्रयम् ॥ १५२९ ॥
उद्विजेतः प्राणहरैः प्रयतैस्तस्य सर्वतः |
तद्देशदुर्गममहीसीमान्तं सुल्हरीं ययौ ॥ १५३० ॥
त्रिगर्तेषु दया शीलं चम्पायां मद्रमण्डले |
त्यागो दार्वाभिसारेषु मैत्री नामर्त्यधर्मिणाम् ॥ १५३१ ॥
पीडयेत्त्यक्तभीर्भूभृद्दूरस्थे त्वयि डामरान् ।
त्वामेवाभ्यर्थ्य राजानं ततः कुर्युः क्रमेण ते ॥ १५३२ ॥
क्ष्मां तद्रजामोर्थयितुं सांप्रतं नरवर्मणः ।
मत्रिभिर्युक्तमित्युक्तमाप मत्रं न चाग्रहीत् ॥ १५३३ ॥
वसाल्पपरिवारोस्मद्गृह इत्यप्यगृह्णतः ।
श्वशुरप्रार्थनां तस्य भृत्याः पार्श्वादवाचलम् ॥ १५३४ ॥
प्रावर्तताथ नगरे विशद्भिविभवोज्ज्वलैः ।
सुलग्नसुलभे काले वरयात्रेव डामरैः ॥ १५३५ ॥
राजतरङ्गिणी
वीक्ष्याश्वच्छन्त्रतुरगैरेकैकं पार्थिवाधिकम् ।
सुस्सलक्ष्मापतेधैर्यमैष्टुर्य तुष्टुवुर्जनाः ॥ १५३६ ॥
औदार्याकारतारुण्यवेषसौन्दर्यमन्दिरम् ।
कोष्टेश्वरोधिकं स्त्रीणां प्रययौ प्रेक्षणीयताम् ॥ १५३७ ॥
प्रशान्तविप्लवे देशे ययाबुत्सववाद्यताम् ।
विशद्धरिलवन्यौघतूर्यघोषो दिवानिशम् ॥ १५३८ ॥
क्षीराद्या लक्ष्मकेणापि सर्वे मडवराज्यतः ।
आनीताः पार्थिवाभ्यर्ण सैन्यार्णवभयंकराः ॥ १५३९ ॥
अपि भूपालवाल्लभ्यादभूद्राजोपजीविनाम् ।
प्रतीहारगृहद्वारप्रवेशो बहुमानकृत् ॥ १५४० ॥
लवन्यलुण्ठितग्रामतया दुर्भिक्षदुःसहः ।
व्ययोत्तरङ्गः कालोभूत्स राज्ञो धनदश्रियः ॥ १५४१ ॥
डामरेभ्यो नृपः पारात्संगृह्णन्कृतवेतनः ।
निनायाभ्यन्तरं वृद्धिं बाह्यं चापचयं जनम् ॥ १५४२
तिष्यवैश्यार्घदेवाद्या ज्ञातयो जनकद्रुहाम् ।
राजद्रोहोचितां राज्ञा विपत्तिमनुभाविताः ॥ १५४३ ॥
मासैश्चतुर्भिः स पितृप्रमयाहादनन्तरम् ।
अनन्यशासनं राष्ट्रं स्वमेव समपादयत् ॥ १५४४ ॥
निवासनगरं पौराः सर्वसामर्थ्यवर्जिताः ।
अनन्तै राष्ट्रमाकीर्ण डामरैः पार्थिवोपमैः ॥ १५४५ ॥
बद्धमूलो नातिदूरे सर्वभारसहो रिपुः ।
सबाह्याभ्यन्तरा मन्त्रिसामन्ता वैरिसंश्रिताः ॥ १५४६ ॥
सत्तोपदेशवृद्धस्य नैकस्यापि नृपास्पदे ।
अधर्मबहुलाः सर्वे भृत्या द्रोहकवृत्तयः ॥ १५४७ ॥
राज्यारम्भे बभूवेयं या सामन्यस्य भूपतेः ।
सा स्मर्तव्यान्तरा ज्ञातुं प्रत्युदन्तं विवेत्तृभिः ॥ १५४८ ॥
प्राप्तप्रसङ्गात्तदिदं गुणग्रामोपवर्णनम् ।
वक्ष्यमाणं सुबहुशोप्यत्र लेशात्प्रदर्यते ॥ १५४९ ॥
पूर्वापरानुसंधानबन्ध्यैर्दृष्टान्तवत्कथाः ।
१३३
नाबुवातिगभीराणां शक्या रसयितुं गुणाः ॥ १५५० ॥
प्रत्यक्षस्य गुणात्राज्ञो विचिन्वन्तो यथास्थितान् ।
अनीर्ष्यस्य भविष्यामो विवेकस्यानृणा वयम् ॥ १५५१ ॥
स्थितस्य तत्त्वविज्ञाने नान्यस्य हि पटुर्जनः ।
अमानुष्यानुभावस्य राज्ञः किं पुनरीदृशः ॥ १५५२ ॥
हितानां दाराणां सदशसुखदुःखस्य सुहृदः
कवेः सोल्लेखस्य प्रियसकललोकस्य नृपतेः ।
स्थितानां कोप्यत्र व्यवहितविवेकः स्वकुकृतै-
रसामान्यं ज्ञातुं सुभगमनुभावं न कुशलः ॥ १५५३ ॥
भवेत्प्राप्तप्रसरणा परिणामेथवा मतिः ।
कथं सर्वस्याद्भुतायां निष्ठायां गुणदोषयोः ॥ १५५४ ॥
सन्त्येवास्यापि विषमाः स्वभावा दोषतां जनः ।
येषां विपाकभव्यत्वमजानन्गणयत्ययम् ॥ १५५५ ॥
विकासः केषांचिन्नयनविषमैर्विद्युदुदयैः
परेषामुद्भुतिः श्रवणकटुभिर्दीर्घरसितैः ।
न चेष्टा काप्यन्योपकृतिपरिहीना जलमुचो
जडो वर्षादन्यं गणयति गुणं नास्य तु जनः ॥ १५५६ ॥
गुणाल्लोकोत्तराञ्ञ्शृण्वन्नस्यानुभवगोचरान्
।
भविता पूर्वभूपालकृत्ये सप्रत्ययो जनः ॥ १५५७ ॥
राजतरङ्गिणी
अनुञ्चलन्नपि स्थानानून चकार सः ।
विलोलांल्लीमकम्पेन दिङ्नाग इव भूधरान् ॥ १५५८ ॥
विरुदद्वाहिनीवृन्दा गूढं यद्भयसंभवम् ।
वहन्ति तापं भूपाला और्वाग्निमिव सिन्धवः ॥ १५५९ ॥
भूमिभृद्भास्वतस्तस्य तेजसाप्यायितो गतः ।
पूर्वराजयशश्चन्द्रो भुवनेषु प्रकाशताम् ॥ १५६० ॥
यो यस्तं पश्यति स्वात्मसंमुखं स स सर्वतः ।
जानात्यवक्रोल्लिखितं देवबिम्बमिवेश्वरम् ॥ १५६१ ॥
स्थिरप्रसादो दत्ते यत्तदादत्ते न स क्वचित् ।
भयं पुनः प्रणमतां दत्तं हरति विद्विषाम् ॥ १५६२ ॥
कृष्टासेः प्रतिबिम्बं स्वं हित्वा नान्योस्य संमुखः ।
नापरः प्रतिशब्दाञ्च गर्जतः प्रतिगर्जति ॥ १५६३ ॥
तस्य नातिशितं कोपे प्रसादे निशितं पुनः ।
धत्ते तीक्ष्णैकधारस्य तरवारेस्तुलां वचः ॥ १५६४ ॥
तस्याकुजन्मनो नित्याम्लानलक्ष्मीविकासिनः ।
प्रभवन्त्याश्रिताः कल्पशाखिनः पल्लवा इव ॥ १५६५ ॥
राशि गाम्भीर्यदुर्लक्ष्यमाहात्म्यप्रभविष्णुताम् ।
विवेद मत्रिणां लोकः सिषेवे तांश्च सर्वतः ॥ १५६६ ॥
प्ररूढस्तु प्रतीहारो न विषेहेन्यमन्त्रिणाम् ।
पार्श्वद्रुमाणामेषाख्यौषधिस्तम्भ इवोद्गतिम् ॥ १५६७ ॥
तस्योत्पाटयतः सर्वास्तुणानीवावहेलया ।
स्फूर्जञ्जनकसिंहोभूदशक्योन्मूलनः परम् ॥ १५६८ ॥
आबाल्यात्संस्तुतो राज्ञः स कृत्स्नव्यवहारवित् ।
अधृष्यस्तरुणीभूततनयो ह्यास्त सर्वतः ॥ १५६९ ॥
अद्वैधं यौनसंबन्धादिच्छतस्तत्सुतो मदात् ।
छुड्डाभिधस्तस्य ततः कृतावशोतनोत्रपाम् ॥ १५७० ॥
रन्ध्रान्वेषी स तद्रोषादुपजापैः क्षणे क्षणे ।
ससूनौ जनके यत्नानृपो द्वेषमजिग्रहत् ॥ १५७१ ॥
राज्ञस्तुल्यवयःस्थौ हि जननीगाढसंस्तवात् ।
राज्यकाले हि सोत्सेकावास्तां तदवकाशदौ ॥ १५७२ ॥
तुरंगयोग्योपस्कारस्नानाहारादि राजवत् ।
अकालज्ञावकुरुतां राजधान्यन्तरेव तौ ॥ १५७३ ॥
सह स्ववृद्धैः समशीर्षिका प्रभो -
र्न युज्यते प्राप्तसमुन्नतेः क्वचित् ।
श्रितोन्नतेर्दर्दुरवृन्दलङ्घनं
सरोजषण्डस्य महाविडम्बना ॥ १५७४ ॥
तद्भित्तिलाभसंरूढपैशुनालेख्यकल्पनाः ।
तद्वर्गेप्यखिले चक्रुस्तद्विषः कलुषं नृपम् ॥ १५७५ ॥
अथ राजा विजयिनं सत्कर्तु कम्पनापतिम् ।
कृतज्ञः श्रावणे मासि जगाम विजयेश्वरम् ॥ १५७६ ॥
अत्रान्तरे पिञ्चदेवादागच्छन्गिरिगहरे ।
प्राप शूरपुरगङ्गाधीश्वरादुत्पलो वधम् ॥ १५७७ ॥
पुष्पाणनाडादुत्पिञ्जकृतये पुनरागतः ।
द्वङ्गाधिपेनागुटिकान्वेषिणा स ह्यवाप्यत ॥ १५७८ ॥
क्षितौ निपतितः पार्श्वप्राप्तमेकं द्विषद्भटम् ।
मुमूर्षुर्विशिखाविद्धजानुमर्माणि सोवधीत् ॥ १५७९ ॥
प्रत्यावृत्तस्य सत्कृत्य कम्पनेशं महीपतेः ।
द्वार्यवन्तिपुरस्थस्य द्रङ्गेशोरिशिरो व्यधात् ॥ १५८० ।।
राजतरङ्गिणी
स दृढद्राढिकामुष्टिरसुहृन्मुण्डमुद्गरः ।
चक्रे तस्य दृढामर्षशोकशविपाटनम् ॥ १५८१ ॥
आद्यायामेव यात्रायां जातारातिक्षयो जनैः ।
स निःशेषयिताशेषकण्टकानामगण्यत । १५८२ |
तस्मिन्प्रविष्टे नगरं विद्रुताः केपि सागसः |
प्रापुर्जनकसिंहाद्याः केपि कारागृहस्थितिम् ।। १५८३ ।।
कैश्चित्पलायितैः शङ्कां ग्राहिताः पृथिवीपतेः ।
ततः कोष्टेश्वरमुखाः प्रातिलोम्यं प्रपेदिरे ॥ १५८४ ॥
शमालां निर्गतः श्रीमान्कार्तिकेऽथ कृती नृपः ।
तत्र तत्रासुहृड्रामं संग्रामोग्रमबाधत ॥ १५८५ ॥
यत्र सुस्सलभूपाद्याः प्रापुर्भशप्रतापताम् ।
तं हाडिग्राम मदहत्सुजिरुजितविक्रमः ॥ १५८६ ॥
महीभुजा पीड्यमानैराहूतः कोष्टकादिभिः ।
अथ भिक्षाचरो राज्यगृभुर्भूयोप्युपाययौ ॥ १५८७ ॥
एकेनाह्वा योजनानि प्रोल्लङ्घ्य दश पञ्च च ।
शिलिकाकोष्टनामानं गिरिग्राममवाप सः ॥ १५८८ ॥
क्षुत्पिपासाक्लमारातिभीतिमार्गभ्रमोद्भवम्
।
क्लेशं नाजीगणन्मानी धावितः स जिगीषया ॥ १५८९ ॥
कार्यमायाति वैमुख्यं जिगीषोर्विधुरे विधौ ।
प्रस्थितस्य पुरोवाते रथस्येव ध्वजांशुकम् ॥ १५९० ॥
आरम्भमात्रमपि कस्यचिदेव सिद्ध्यै
कश्चित्प्रयत्नपरमोप्यफलप्रयासः ।
मन्थाद्रिणामृतमवाप्युद्धेर्मुहूर्ता
सक्किं चिराद्विद्धता न हिमाद्विजेन ॥ १५९१ ॥
१८ १३७
भ्रष्टा सरित्स्ववसतेर्जलधिप्रवेशे
वेलोर्मिवेल्लनवशेन विवर्तमाना ।
मिथ्यैव यच्छति धियं पुनरुद्गतेति
नोत्थानमस्ति तु विधिव्यपरोपितानाम् ॥ १५९२ ॥
तस्य तावन्महायत्नकठोरस्योदयक्षणे ।
सिद्धेर्विबन्धो विधिना विधुरेण व्यधीयत ॥ १५९३ ॥
आयातं तमबुद्धा तु तस्मिन्नेव क्षणेधयत् ।
पृथ्वीहरानुजः प्राप्तभङ्गः कृत्ताङ्गुलिर्नृपम् ॥ १५९४ ॥
कोष्टेश्वरः स चावेत्य संप्राप्तं तमतिष्ठताम् ।
कृत्याक्षमौ हतः सर्पाविव मत्रनियत्रितौ ॥ १५९५ ॥
ताभ्यां स्थानेथ सोन्यस्मिंस्त्याजितोध्वपरिश्रमम् ।
कार्कोटद्वङ्गमार्गेण निर्गतः सुहरीं ययौ ॥ १५९६ ॥
आसीच्च तत्र प्रोच्चण्डदर्पकण्डूलदोर्द्रुमः ।
उष्मायमाणः कश्मीराक्रान्तिसंततचिन्तया ॥ १५९७ ॥
उदीपसलिलस्येव तस्य रन्ध्रगवेषिणः ।
पुरं प्रविष्टो राजापि प्रतीकारमचिन्तयत् ॥ १५९८ ॥
अद्वितीयस्त्वमात्येषु प्रतीहारो मदोग्रताम् ।
सुज्जेरसहमानोभूच्छलान्वेषणतत्परः ॥ १५९९ ॥
आययावथ विस्रम्भावष्टम्भं वल्गतः प्रभोः ।
धन्याग्रजः पूतमूर्तिर्जाह्नवीजलमज्जनात् ॥ १६०० ॥
तदाद्याः संस्तुता राशश्चिरसंभावितास्ततः ।
अनानुवन्तोधीकारान्पर्यतप्यन्त चिन्तया ॥ १६०१ ॥
कुर्वाणे कार्यतस्तस्मिन्भरं पित्र्येषु मत्रि 1
कालप्रतीक्षाक्षमतां मुहुस्ते गहनाशयाः ॥ १६०२ ॥
4 राजतरङ्गिणी
प्रतीहारस्तु दुर्लक्ष्यसुजिनिर्लोठनोद्यतः ।
अप्रियानपि तान्प्रीत्या जग्राहोग्रोपयोगिनः ॥ १६०३ ॥
व्यतीतेष्वथ मासेषु केषुचिद्दैवयोगतः ।
अकस्मादभवद्भूभृत्स्फीतलूतामयातुरः ॥ १६०४ ॥
विस्फोटशोफातीसारवहिमान्द्याधुपद्रवैः
।
संदिग्धाभ्युदये तस्मिन्देशः पर्याकुलोभवत् ॥ १६०५ ॥
इत्थं स्थितः कुलस्यैकभर्तुः स्वामी बली रिपुः ।
तत्पक्षा डामरा राष्ट्रं दुष्टमेव व्यचिन्तयन् ॥ १६०६ ॥
आयत्यां च तदात्वे च हितकृत्यं विचारयन् ।
राज्ञः श्रीगुणलेखाया जातमेकं सुतं शिशुम् ॥ १६०७ ॥
पष्चाब्ददेश्यं पर्माण्डि सुजिर्भूमिपति तदा ।
चिकीषुर्मत्रयामास मातुलेनास्य गार्गिणा ॥ १६०८ ॥
इत्थंभूतस्य दुधुक्षुः ससूनुः सुजिरद्य ते ।
पञ्चचन्द्रादिभिः सार्धं युक्त्या मन्त्रयतेनिशम् ॥ १६०९ ॥
लब्धरन्ध्रः प्रतीहारो धन्याद्याश्च तदीरिताः ।
इत्यवोचंस्ततो भूपं स तथेत्यग्रहीञ्च तत् ॥ १६१० ॥
पूर्वप्रजात्रज इवाद्भुतवस्तुतत्व-
व्यावर्णनेन कुतुकं जनयन्ति तज्ज्ञाः ।
बाला इवाल्पमतिहार्यधियश्च सन्ति
प्रायो नृपा नियमशून्यमनोनुभावाः ॥ १६११ ॥
शौचस्थाने कृतवसतिभिः स्त्रीव्यवायालये वा
निःशस्त्रो यच्छलनकुशलैर्मानसं संप्रविश्य |
नीतो भूतैरिव विवशतां निर्भरं गर्भचेरै-
र्भद्रं भूपात्कथमिव ततः स्यादवष्टब्धचेष्टात् ॥ १६१२ ॥
अष्टमस्तरङ्गः ।
निर्हेतु प्रहसन्विटः प्रविशति क्षोणीपतेरन्तिकं
प्रीत्युत्फुल्लदृगेष किं किमिति तं पृच्छत्यनच्छाशयम् ।
ब्रूते किंचिदसौ कचानथ कषन्सर्वकषं मानिनां
मानप्राणगुणेषु यत्सरभसं दम्भोलिपातायते ॥ १६१३ ॥
सविभ्रमगतागतः किमपि भाषमाणः श्रुतौ
प्रभोर्वलितलोचनं जगदवज्ञयालोकयन् ।
निजस्य मुखविक्रियाप्रणयताडनाद्यैविंद-
ननुग्रहमिवाहितं नृपतिवल्लभो दुःसहः ॥ १६१४ ॥
अपि जातु स दृश्येत निःसंक्षोभमतिर्नृपः ।
यो यत्रपुत्रक इव व्यक्तं धूर्तेर्न नर्त्यते ॥ १६१५ ॥
यतो भृत्यान्तराज्ञानाजातः सर्वस्वसंक्षयः ।
तत्प्रजादुष्कृतै राज्ञां हा धिङ्गाद्यापि शाम्यति ॥ १६१६ ॥
सुजिरारोग्यमन्वेष्टुमागच्छन्पूर्ववत्प्रभोः ।
विन्यस्तरक्षिणः पश्यन्नविश्वासमखिद्यत ॥ १६१७ ॥
दाक्षिण्यं वामतां यातमाशये प्रतिविम्बितम् ।
दर्पणस्येव राज्ञः स विभाव्याभूत्पराङ्मुखः ॥ १६१८ ॥
तस्मिन्राजगृहे खेदान्मन्दीकृतगतागते ।
नृपतेस्तद्द्वतां प्रीति निःशेषां जहिरे खलाः ॥ १६१९ ॥
भृत्यः सुजेश्चित्ररथोप्यास्थानद्विजभूः शठः ।
प्रातिलोम्यावहैर्भर्तुर्मत्रैरासीच्छ्रियोन्तकृत् ॥ १६२० ॥
नीरोगे राशि दृष्टः स दिष्टवृद्ध्यै नृपास्पदे ।
वसुवर्षी विनिर्याय प्रार्थनार्थी गृहान्ययौ ॥ १६२१ ॥
न तं प्रासादयद्राजा विशालबलवाहनः ।
आक्रम्यासौ कथं नः स्यादित्युपायं त्वचिन्तयत् ॥ १६२२ ॥
राजतरङ्गिणी
त्यज्येत हृतकार्योसौ निराशैरनुजीविभिः ।
मत्वेति तदधीकारानन्येभ्यस्तूर्णमार्पयत् ॥ १६२३ ॥
राजस्थानात्स्रजं धन्यमुदयं कम्पनादपि ।
अजिग्रहन्नरपतिः खेरीकार्य च रिहणम् ॥ १६२४ ॥
हताधिकारे प्रव्यक्तवैकृते नृपतौ ततः ।
अल्पावशेषानुचरः सुजिरासीद्विशङ्कितः ॥ १६२५ ॥
विमानितः पुराद्गङ्गायात्रामुद्दिश्य मानवान् ।
सोथ सुस्सलभूभर्तुरस्थीन्यादाय निर्ययौ ॥ १६२६ ॥
औत्सुक्यात्प्रार्थनाकाङ्क्षी राजधान्यन्तिकेन सः ।
निर्गच्छत्राजपुरुषैर्न राज्ञा वान्वरुध्यत ॥ १६२७ ॥
तन्निर्वासनगर्वस्य स्थापनायानुयात्रिके ।
प्रतीहारस्तस्य गुप्यै कोशादेः स्वात्मजं व्यधात् ॥ १६२८ ॥
निग्रहानुग्रहावस्सदायत्ताविति रक्षिणम् ।
पुत्रं प्रादाल्लक्ष्मकोष इति ध्यायन्स विव्यथे ॥ १६२९ ॥
निवृत्तो लक्ष्मको द्वारात्पर्णोत्सं शनकैर्गतः ।
अवारोपयदद्रोहो भागिकं लोहराचलात् ॥ १६३० ॥
प्रतीहारविसृष्टाय धात्रेयाय महीभुजः ।
प्रेमाभिधाय तत्कोट्टाधीकारं च समापर्यत् ॥ १६३१ ॥
उत्खाय लोहरत्यागाच्छङ्काशङ्कं महीपतेः ।
स ग्रीष्मविषमं कालं राजपुर्यामलङ्घयत् ॥ १६३२ ॥
अमात्यकन्दुकव्रातपातनोत्पातनक्षमः ।
आयत्तडामरः प्राप प्रथां कामपि लक्ष्मकः ॥ १६३३ ॥
द्वारेथाकारयत्सुजिप्रतिमल्लविधित्सया
।
कृष्यमाणो राजवंशपौरुषं राजमङ्गलम् ॥ १६३४ ॥
अनन्यदेशज: सुज्जिः शूरो मत्कोशपोषितः ।
कीर्तिमेष हरेद्दध्यावितीर्ण्याकलुषो हि सः ॥ १६३५ ॥
खड्डग्राहिसहायः स क्षुण्णः पर्यटितुं पथि ।
निःसुखश्चोपहास्यश्च तेन कार्यार्पणात्कृतः ॥ १६३६ ॥
कर्तुं पदव्यां योग्यानामयोग्यान्प्रभवेन्न कः ।
तेषां गुणैस्तान्संयोक्तुं न शक्यं कारणैरपि ॥ १६३७ ॥
पदे श्रीखण्डस्यानुचितमुचिते वर्ष्माणि निजे
वृषाङ्कः प्रक्षेप्तुं प्रभवति चिताभस्म रभसात् ।
न तत्स्वेच्छायत्तन्त्रिजगदुदयापायघटनो-
प्यसौ तद्द्वन्धेन स्फुटमिह पटुः संघटयितुम् ॥ १६३८ ॥
तस्मिन्सुजिप्रतिस्पर्धामप्रौढे वोदुमक्षमे ।
दूतानसृजदानेतुं सजपालं दिगन्तरात् ॥ १६३९ ॥
निर्वीरे मण्डले द्वेष्योप्यवापत्कार्यगौरवात् ।
कोटेश्वरो नरपतेर्नितरामन्तरङ्गताम् ॥ १६४० ॥
प्रीतिदायैस्तोष्यमाणस्तैस्तैस्तुष्टेन भूभुजा ।
विस्रब्धो नगरे तस्थौ सोपि लूतामयातुरः ॥ १६४१ ॥
एवं दमकदम्बैक्यं राशि कुर्वति कार्यतः ।
चालकैः सोमपालाद्यैः सुजिर्निन्येथ वैकृतम् ॥ १६४२ ॥
प्रतिज्ञाय लतामात्रसाध्यं कश्मीरनिर्जयम् ।
सोमपालाय तद्राज्यं सोङ्गीचकेवमानितः ॥ १६४३ ॥
प्रतिशुश्राव तस्मै च भागिनेयीं स कन्यकाम् |
धीमानत्रान्तरे सामदाने प्रयुयुजे नृपः ॥ १६४४ ॥
द्वौ तावल्पाशयौ राजकन्ययोः स्वीक्रियां तदा ।
रभसाद्यावकुर्वाणावदातामन्तरं विषाम् ॥ १६४५ ॥
उपसिंह शनैश्च निरीक्षितैः ।
प्रेरितः सोमपालोथ सुजेर्मन्दादरोभवत् ॥ १६४६ ॥
स्वयमेत्य प्रतीहारस्तत्र राजपुरीपतिम् ।
सीमान्तभुवमानिन्ये कन्यकोद्वाहसिद्धये ॥ १६४७ ॥
जातां कहनिकाख्यायां महादेव्यां महीपतेः ।
उपयेमे नृपसुतां सोमोम्बापुत्रिकाभिधाम् ॥ १६४८ ॥
याते तस्मिन्कृतोद्वाहे नागलेखाभिधां सुधीः ।
तत्स्वस्त्रेयीं प्रतीहारो भूभुजे प्रत्यपादयत् ॥ १६४९ ॥
इत्थं राष्ट्रद्वये बद्धसंधौ निरवकाशताम् ।
प्राप्तः प्रतस्थे हेमन्ते सुजिस्त्रिपथगोन्मुखः ॥ १६५० ॥
जालंधरे संघटितो ज्येष्ठपालो निनाय तम् ।
गाढावमाननिर्नष्टसौष्ठवं भिक्षुपक्षताम् ॥ १६५१ ॥
त्वयि भिक्षाचरे चैकसैन्यनायकतां गते ।
नोपेन्द्रो वा महेन्द्रो वा समर्थौ प्रत्यवस्थितौ ॥ १६५२ ॥
राज्यप्रदस्य ते यश्च चक्रे राजा विमाननाम् ।
तस्थुषो यश्च विषये प्रतिकुर्मस्तयोर्द्वयोः ॥ १६५३ ॥
इति संप्रेरितस्तेन देङ्गपालान्तिकस्थितेः ।
यियासुः सोन्तिकं भिक्षोर्भागिकेन न्यषिध्यत ॥ १६५४ ॥
अनिक्षिप्तवतोस्थीनि स्वामिनो जाह्नवीजले ।
न युक्तमेतत्ते कृत्यमित्यावेगादशाधि च ॥ १६५५ ।।
स्नात्वा धुनद्यामेष्यामि पार्श्वे व इति निश्चयम् ।
स पीतकोशः कृत्वास्य ययौ प्रस्तुतसिद्धये ॥ १६५६ ॥
प्रतीहारकरन्यस्तसर्वभारस्तु भूपतिः ।
मन्दाक्रान्तितया राज्यमसुस्थितममन्यत ॥ १६५७
. अष्टंमस्तरङ्गः ।
यो यो हि व्यग्रहीत्तं तं संधाय सविधस्थितः ।
तमन्वहं प्रतीहारः सानुग्रहमिवैक्षत ॥ १६५८ ॥
प्रगल्भमाने शास्त्येवमुदयः कम्पनापतिः ।
अवधीच्छद्मना दृप्तं प्रकटं कालियात्मजम् ॥ १६५९ ॥
अविश्वासोल्बणान्सर्वलवन्यानथ लक्ष्मकः ।
निर्मर्यादान्कम्पनेशमीषत्सान्त्वमजिग्रहत् ॥ १६६० ॥
स्नात्वाभ्येष्यति गङ्गायां यावत्सुजिर्विसूत्रताम् ।
तावत्कथं मया नेयाः कश्मीरा इति चिन्तयन् ॥ १६६१ ॥
तावन्मात्रान्तरव्याप्त्या राज्ञो विज्ञाय डामरान् ।
भिन्नान्भिक्षाचरोविक्षद्विषलाटां हिमागमे ॥ १६६२ ॥
मण्डलस्यान्तरे तस्य विविक्षो रुद्धडामरः ।
प्रतीहारो हिमर्तुश्च निषेद्धा समपद्यत ॥ १६६३ ॥
स टिक्केन पितृद्रोहादेकान्तद्वेषिणा रिपोः ।
आनीतः संमतैर्दत्ताप्यायः सर्वैश्च डामरैः ॥ १६६४ ॥
प्रतीक्षमाणो राज्याप्तिहेतुं सुजिसमागमम् ।
निर्भयष्टिक्कजामातुर्भागिकस्य खशप्रभोः ॥ १६६५ ॥
बाणशालाभिधे दुर्गे वसन्नल्पोच्छ्रितावपि ।
दूतैर्विभेदमनयत्सर्वडामरमण्डलम् ॥ १६६६ ॥
प्रमोदं सुहृदां त्रासं द्विषां च विसृजन्पुरः ।
व्यावर्तताथ गङ्गायाः सुजिर्विहितमजनः ॥ १६६७ ॥
पूर्वविप्रकृते भिक्षावस्मिंश्चाभेदमागते ।
यथामुष्य महीभर्तुस्तथास्माकं भयं भवेत् ॥ १६६८ ॥
ध्यात्वेति सिंहदेवेन प्रार्थितो व्याजमाददे ।
सुजिस्वीकरणोद्योगे सोमपालो भयाकुलः ॥ १६६९ ॥
सुजिर्जालंधरं प्राप्तः प्रातर्भिक्षाचरान्तिकम् ।
यावद्यास्यति तं सायं तद्दृतस्तावदासदत् ॥ १६७० ॥
प्रेरितो ज्येष्ठपालेन निषिद्धो भागिकेन च ।
विरराम स तस्योक्त्या विपक्षाश्रयणग्रहात् ॥ १६७१ ॥
ऋणं देशान्तरोपात्तं तव भूपोपनेष्यति ।
स्वं च दास्यत्यधीकारं मन्मुखप्रहितार्थनः ॥ १६७२ ॥
इति दूतमुखेनोक्तः सोमपालेन चान्वहम् ।
विपक्षौत्सुक्यमुत्सार्य तद्देशाभिमुखो ययौ ॥ १६७३ ॥
उदयः कम्पनाधीशो वैशाखे तीर्णसंकटः ।
खशान्वितेन संग्रामं प्रत्यपद्यत भिक्षुणा ॥ १६७४ ॥
प्राक्तस्थुष्यल्पपृतने जाते पृथुबले ततः ।
तस्मिन्कोट्टान्तरं भिक्षुः प्राविशत्प्राप्तवेष्टनः ॥ १६७५ ॥
राजाथ विजयक्षेत्रं निर्यातः प्रत्यपूरयत् ।
कम्पनेशस्य कटकं तास्ताः संप्रेषयंश्चमूः ॥ १६७६ ॥
यत्रोपलशरासारविविधायुधवर्षिणी ।
दुर्गस्थितैर्नृपचमूः प्रत्ययोध्यश्मवर्षिभिः ॥ १६७७ ॥
पतत्स्वरमसु भिक्षोश्च नामलक्ष्मसु पत्रिषु ।
ग्रहीतुं दुर्गजान्राजसेना दीर्घापि नाशकत् ॥ १६७८ ॥
दिनैरभ्यधिके मासमात्रे यातेग्रहीत्ततः ।
विदार्य मूलं दुर्गस्य धान्यं खाताम्बु संभृतम् ॥ १६७९ ॥
दुर्गभाजो बलासाध्या राज्ञ्युपायपरे धियम् ।
जाततद्वैरिबाधेच्छां धनलुब्धामदर्शयन् ॥ १६८० ॥
विससर्ज प्रतीहारमथ तद्वस्तुसिद्धये ।
राजा डामरसामन्तमन्त्रिराजात्मजैः समम् ॥ १६८१ ॥
कोष्टेश्वरत्रिल्लकाद्याः कृच्छ्रस्थस्य विमोक्षणम् |
करिष्यामो वयं भिक्षोरिति बुद्ध्या तमन्वयुः ॥ १६८२ ॥
पश्यन्संकटशैलाग्रादधः कोट्टं मितोन्नति ।
१४५
जितं मेने प्रतीहारो वीक्ष्यानन्ताः स्ववाहिनीः ॥ १६८३ ॥
पूर्वस्थितैः प्रतीहारानुगैश्चान्यत्र वासरे ।
अयोधि सर्वसैन्यस्य बलात्कोट्टं जिघृक्षुभिः ॥ १६८४ ॥
ते तावन्तोप्यश्मवृष्ट्या तथा तैः प्रतिचक्रिरे ।
नास्तीदं विक्रमेणेति यथागृह्णन्विनिश्चयम् ॥ १६८५ ॥
वीरदेहद्रुमाग्रेभ्यो न्यपतन्नश्मभिर्हताः ।
निर्यदत्रौघसरघाः शीर्षभ्रमरगोलकाः ॥ १६८६ ॥
कोष्टेश्वरस्य मूढत्वं निर्व्यूढं तत्र किंचन ।
स्वस्य भिक्षोलवन्यानामन्येषां च विनाशकृत् ॥ १६८७ ॥
नास्त्यत्र मत्समो वीर इत्येतावत्प्रसिद्धये ।
स ह्ययुद्धोद्धतं भिक्षोर्यत्प्राणक्षयकार्यभूत् ॥ १६८८ ॥
दुध्रुक्षूणां खशानां च संकटे धैर्यमाद्धे ।
कोष्टेश्वरोमि चाभिन्नौ तद्वश्या डामराः परे ॥ १६८९ ॥
यदेतद्दृश्यते भूरि सैन्यमस्मद्धिताय तत् ।
पर्यवस्येदिति वदन्समभाव्यन्यथा च तत् ॥ १६९० ॥
वित्रम्भभूरमुष्यारिर्यत्र कोष्ठेश्वरोप्यसौ ।
अन्येषु तत्र केवास्थेत्यथ ते निश्चयं दधुः ॥ १६९१ ॥
भूभृत्पिद्रुहः कार्यवशेन स्वौपवेशने ।
‘अङ्गीकृताधिकारस्तु धीमांष्टिकस्य लक्ष्मकः ॥ १६९२ ॥
खशाधीशं महाग्रामस्वर्णादित्यागसंश्रयात् ।
स्वीकृत्य भिक्षुदुध्रुक्षुबद्धकक्ष्यमकारयत् ॥ १६९३ ॥
१ भिक्षुदुभुक्षाबद्ध इति स्यात् । १९ राजतरङ्गिणी
आनन्दाख्यः खशाधीशस्यालः कृतगतागतः ।
नीत्वा टिक्कं प्रतीहाराभ्यर्ण भूयोप्यरोपयत् ॥ १६९४ ॥
प्रतीहारस्य टिक्केन सहैक्यं वीक्ष्य डामरैः ।
निःसंशयं हतोज्ञायि भिक्षुः कोष्टेश्वरादिभिः ॥ १६९५ ॥
संरब्धास्तद्विमोक्षाय प्राहिण्वंस्ते खशान्तिकम् ।
दूतानूरीकृतस्वर्णदाना भूरिधनैः समम् ॥ १६९६ ॥
खशस्तु दध्यावुत्कोचं गृहीत्वास्माभिरुज्झितः ।
जानाति रक्षितान्प्राणान्भिक्षुः कोष्टेश्वरादिभिः ॥ १६९७ ॥
समन्युः प्राप्तराज्योथ देङ्गपालोथ दूरगः ।
हन्यान्मां जयसिंहस्तद्रक्ष्यः पक्षः प्रयत्नतः ॥ १६९८ ॥
मत्वेति तेन प्रत्युक्ता भिक्षं शौचस्थितं गृहात् ।
विपाट्यान्तः फलहकं निर्गच्छेत्यूचिरेपि ते ॥ १६९९ ॥
स त्वमेध्योपलिप्ताङ्ग: श्वेवावस्करवर्त्मना ।
यात इत्ययशो लोके ध्यायन्मानी न निर्ययौ ॥ १७०० ॥
कोष्टेश्वरो व्यक्तकृत्यः सैन्यक्षोभेच्छया क्षिपन् ।
रूक्षं कालविदा प्राह्णे प्रतीहारेण सान्त्वितः ॥ १७०१ ॥
नीवौ खशाद्यैर्दत्तायामाप्रत्यूषादगृहात ।
व्यवसाय: प्रतीहारमुख्यैर्भिक्षुप्रमापणे ॥ १७०२ ॥
गच्छद्भिरागच्छद्भिश्च राजा दूतैः प्रतिक्षणम् ।
अन्विष्यन्विजयक्षेत्रे वार्ता पर्याकुलोभवत् ॥ १७०३ ॥
तावद्भिराहवैस्तैस्तैः साहसे दश वत्सरान् ।
कृतयत्नस्य साध्योभून यो वृद्धमहीभुजः ॥ १७०४ ॥
डिम्बो राजानुगा डिम्बास्तस्य भिक्षोः प्रमापणम् ।
साध्यमेते हि मन्यन्ते हन्त किं केन संगतम् ॥ १७०५ ॥
विहस्य नीयते वित्तं खरौरेत्य क्षणादमी ।
भग्ना नूनं प्रयास्यन्ति मुषिताश्चाखिलाः परैः ॥ १७०६ ॥
पृथग्भूतः कोष्टकोयं त्रिल्लकस्यैव बान्धवः ।
एते भिक्षाचरोच्छिष्टपुष्टा आभ्यन्तरा अपि ॥ १७०७ ॥
को नूतनोत्र संप्राप्तो यो राज्ञः साधयेद्धितम् ।
सामग्री नूनमायाता सेयमस्यैव सिद्धये ॥ १७०८ ॥
इत्यूचुः शिविरे यावज्जनास्तावद्वेष्ट्यत ।
१४७
कटकैर्मत्रिणां दुर्ग विकोशायुधवाहिभिः ॥ १७०९ ॥
एकाकी चिरसंक्लिष्टो हन्तव्यस्तत्कृतेखिलैः ।
हा धिक्परिकरो बद्धो निर्लज्जैः सर्वशस्त्रिभिः ॥ १७१० ॥
त एवेत्यूचुरासीच्च कचच्छस्रोर्मिनिर्मलः ।
स्फुरद्योधाक्षिशफरो निःशब्दः सैन्यसागरः ॥ १७११ ॥
व्योम्नोड्डीयेत वा सैन्यं लङ्घयेद्वा मृगप्लुतैः ।
दुष्टाभ्रवृष्टिरिव वा निखिलांस्ताडयेत्समम् ॥ १७१२ ॥
साश्चर्यशौर्यः पर्यन्ते स्वीकुर्वन्भिक्षुरायुधम् ।
संभ्रान्तश्चकितश्चासीदित्यन्तश्चिन्तयञ्जनः ॥ १७१३ ॥
एतावन्मत्रिणां सिद्धमथ प्रत्यूहसंभवः ।
तच्छान्तिः कार्यसिद्धिश्च प्रतापैर्नृपतेरभूत् ॥ १७१४ ॥
सैन्ये भिक्षाचरापातं पश्यत्यूर्ध्वार्पितेक्षणे ।
कोट्टान्निष्कृष्टशस्त्रीकः पुमानेको विनिययौ ॥ १७१५ ॥
रुदतीभिः परीतस्य नारीभिस्तस्य चिक्षिपुः ।
पृष्ठे केपि वपुर्लोलकौसुम्भाधरवाससः ॥ १७१६ ॥
बद्धः पलायमानोत्र सोयं भिक्षुरिति ब्रुवन् ।
उन्मुखः स जनोश्रौषीट्टिकं तमथ निर्गतम् ॥ १७१७ ॥
राजतरङ्गिणी
स हि भिक्षोः कृतद्रोहतुमुले प्रस्तुतो वधम् ।
तस्माद्राजानुगेभ्यो वा स्वस्याशय विनिर्ययौ ॥ १७१८ ॥
अद्रोहोस्मीति लोकस्य प्रत्ययाय चकर्ष च ।
कृपाणीमुदरं हन्तुं रक्ष्यमाणो निजानुगैः ॥ १७१९ ॥
सानुगस्त्यक्तमार्गा स विलङ्घय नृपवाहिनीम् ।
अद्रिप्रस्रवणोपान्ते नातिदूरेभ्युपाविशत् ॥ १७२० ॥
उच्छुसंश्चिरसंप्राप्तैरम्भोभिर्दुर्गनिर्गतः ।
मायां प्रयोक्तुं प्रारेभे प्रेरितः सोन्यडामरैः ॥ १७२१ ॥
संजातं लम्बमानार्कमहस्तद्रक्ष्यतां क्षणम् ।
भिक्षुः क्षपायामास्कन्दमपनेष्यन्ति डामराः ॥ १७२२ ॥
इति तद्वाचिकात्तीक्ष्णान्नीविभिर्मन्त्रिणां समम् ।
खरौस्त्यजद्भिर्द्विषतो न्यरुध्यन्तारुरुक्षवः ॥ १७२३ ॥
ततः किलकिलारावमुखरैः करतालिकाः ।
यौघैर्ददद्भिः सचिवा व्यगृह्यन्ताकुलाशयाः ॥ १७२४ ॥
मुक्ताः स्वामिद्रुहः कृच्छ्रगता राज्यं प्रसाधितुम् ।
द्विषतो मन्त्रिभिः स्वार्थो दत्त्वार्थान्को नु साधितः ॥ १७२५॥
राजकार्ये च भानौ च लम्बमानेथ लक्ष्मकः ।
किमेतदिति तं नीवि खशस्यालमभाषत ॥ १७२६ ॥
सोभ्यधात्कुम्भदास्यापि रोद्धुं शक्यं चिकीर्षितम् ।
खशानां प्रत्यवस्थाता कथं तत्रास्य संनिधिः ॥ १७२७ ॥
स हन्तुं वैपरीत्यं तं खशानां त्वं व्रजेत्यथ ।
उक्त्वा व्यसृजदानन्दं जहसे चान्यमन्त्रिभिः ॥ १७२८ ॥
सुदूरदर्शिना राज्ञा विषलाटाध्वपाततः ।
देङ्गपालगृहा......दारम्भः समभाव्यत ॥ १७२९ ॥
अतः प्रधानकोट्टेशस्यालः स समगृह्यत ।
प्रागेवार्थैरेतदर्थ ग्रनता दीर्घवागुराम् ॥ १७३० ॥
संक्षोभावसरे क्षत्ता ततो निःसंभ्रमोभवत् ।
शिक्षितं पक्षिणमिव त्यक्तं प्राप्यं विवेद तम् ॥ १७३१ ॥
स तानूचे न हास्यं मे नष्टे कार्येत्र साहसम् ।
सर्वनाशे हतेमुष्मिन्स्खशस्यालेपि किं भवेत् ॥ १७३२ ॥
अकुण्ठ्या भाग्यशक्त्या राज्ञः स्यालः खशस्य सः ।
सर्वान्नियन्त्र्य दुर्गाग्रात्तीक्ष्णादीनाजुहाव तान् ॥ १७३३ ॥
दस्यूनामसवः कण्ठे संदेहं मन्त्रिणां धियः ।
स्वस्त्रीणां प्रीतयः काष्ठां तीक्ष्णाश्चारुरुहुर्गिरिम् ॥ १७३४ ॥
स चर्मकौपीनपटीबद्धस्तत्स्वाभिधाङ्कितैः ।
इषुभि: स्वामिवत्स्वस्य ख्यापनं सर्वतो युधि ॥ १७३५ ॥
स ताम्बूलादरः सक्तिः सा केशश्मश्रुयोजने |
याभूदनुमुमूर्षूणां भिक्षुराजोपजीविनाम् ॥ १७३६ ॥
निश्चितान्ते ततस्तस्मिन्स तेषामन्ववर्तत ।
कोष्टेश्वरादिशिविरं तूर्ण शरणमीयुषाम् ॥ १७३७ ॥
तिलकम् ॥
एकैकशो लक्ष्मकेण युक्ताः स्वैः प्रेरितैर्भटैः ।
टिक्कः स्वं वीक्ष्य वलितं निचकर्ताङ्गुलिं भयात् ॥ १७३८ ॥
खरौरस्मिन्नवसरे स पलायनशङ्किभिः ।
रक्ष्यमाणस्तेष्वहःसु मनस्तापादभुक्तवान् ॥ १७३९॥
वीरस्ताम्यन्चिलम्बेन तीक्ष्णानामाहवोत्सुकः ।
तस्थौ भिक्षाचर: स्वान्तमक्षवत्या विनोदयन् ॥ १७४० ॥
१. बन्धः इत्युचितम् । १५० राजतरङ्गिणी
हर्म्यप्राङ्गनमायाते तीक्ष्णलोके युयुत्सया ।
उत्तिष्ठता तेन दायः स्तोकशेषः समाप्यत ॥ १७४१ ॥
दीव्यतः कान्तया साकं कामिनः सुहृदागमे ।
प्रत्युत्थास्नोरिव क्षोभो नान्तस्तस्य व्यजृम्भत ॥ १७४२ ॥
किमद्यापि वधेन स्याहूनामिति चिन्तयन् ।
स विहाय शरावापं सासिधेनुर्विनिर्ययौ ॥ १७४३ ॥
सुदीर्घचिन्तागलितायामश्यामलिभिः कचैः ।
चञ्चञ्चित्रपताकाङ्कमिव वीरपटाञ्चलैः ॥ १७४४ ॥
गण्डताण्डविनाच्छिद्रशङ्खताडङ्करोचिषा
।
चन्दनोल्लेखकान्त्या च द्योतिताहंक्रियास्मितम् ॥ १७४५ ॥
वितीर्ण चित्रचार्यन्ते विपर्यस्ततम् ।
द्योतयन्तमिवालातैः शस्त्रीनेत्राधरांशुकैः ॥ १७४६ ॥
कौसुम्भाधरवासोग्रबद्धधौताधराञ्चलैः ।
लोलैर्वीरहरिं बद्धसटाटोपमिवांसयोः ॥ १७४७ ॥
हङ्मनः पाणिपादैक्यचारुप्रचुरचारिभिः ।
चरन्तं मण्डलैचित्रैर्लघुचित्रस्थिरमैः ॥ १७४८ ॥
औचित्यस्योचितां चर्यामलंकारमहंकृतेः ।
अभिमानविभूतीनां नित्योत्सेकमनत्ययम् ॥ १७४९ ॥
अलक्षितक्षिप्रपातं स सर्वोप्युन्मुखो जनः ।
विचरन्तं तमैक्षिष्ट भिक्षुमने विरोधिनाम् ॥ १७५० ॥
कुलकम् ॥
राजबीजी मधोर्नप्ता तं प्रवीरः कुमारियः ।
भ्रातापि ज्येष्ठपालस्य निर्यातो रक्तिकोन्वगात् ॥ १७५१ ॥
हर्यैर्निम्नोन्नतैस्तैस्तैर्विशतः परिपन्धिनः ।
रुरोधैकः शरासारैर्गार्गिको भिक्षुसंश्रितः ॥ १७५२ ॥
ते धावन्तो व्यभाव्यन्त शरैस्तच्चापनिर्गतैः ।
वर्षोपलैः पुरोवातप्रेरितैरिव दन्तिनः ॥ १७५३ ॥
स रोद्धा प्रतियोधानां पापैः क्षिप्ताश्मभिः खरौः ।
क्षताङ्गो भग्नचापश्च चिरेण विमुखीकृतः ॥ १७५४ ॥
तस्मिन्प्रचलिते मार्गेः प्रविश्योञ्चावचैर्भटाः ।
ते च भिक्षाचरादीनां सर्वे गोचरमाययुः ॥ १७५५ ॥
भिक्षोरेकं क्षणालक्ष्यधैर्य पार्श्वधृतायुधम् ।
अधावत्तूर्णमादाय शूलमेको बृहद्भः ॥ १७५६ ॥
तस्य प्रहरतः शूलं भिक्षुराश्रितवत्सलः ।
क्षिप्त्वाप हस्तेनावेगात्केशाञ्जग्राह धावितः ॥ १७५७ ॥
प्रजहार कृपाण्या च निर्यत्प्राणे पतिष्यति ।
तस्मिन्प्रहरतो भूयस्तौ कुमारियरक्तिकौ ॥ १७५८ ॥
निविभागैर्हते तस्मिन्विविधायुधवाहिभिः ।
विरोधियोधैः संनद्धैत्रयो युयुधिरेथ ते ॥ १७५९ ॥
अजायन्त विविक्ताश्च शस्त्रसंत्रासिताहिताः ।
कोटराजगरापास्तसरघौघा इव द्रुमाः ॥ १७६० ॥
अशक्नुवन्तस्तान्हन्तुं खड्गशूलादिभिर्द्विषः ।
अपसृत्य शरासारैस्ततो दूरादवाकिरन् ॥ १७६१ ॥
भिक्षाचरमृगेन्द्रस्य भञ्जतः शरपञ्जरान् ।
ततो हर्म्यात्खशैर्मुक्ताः पुष्टाः पाषाणवृष्टयः ॥ १७६२ ॥
धावतस्तस्य घोराश्मवृष्टिकुण्ठितवर्ष्मणः ।
निममज्ज यकृत्पिण्डं भञ्जन् पार्श्वे शिलीमुखः ॥ १७६ ॥ ॥
क्रान्त्वा त्रीणि पदान्याशु स पपात दिशन्क्षितेः ।
ततश्चिरप्ररूढं तु कम्पं विद्विषतां हरन् ॥ १७६४ ॥
राजतरत्रिणी
कुमारियोऽपि बाणेन विद्धवडणवर्त्मना ।
व्रणितोप्यपतगर्तुः पादोपान्तोपजीवितः ॥ १७६५ ॥
रक्तिकस्तु शरेणैव विद्धो मर्मणि विह्वलः ।
सजीवितोपि निर्जीव इव भूमावुपाविशत् ॥ १७६६ ॥
महाकुलीनैः सहितो हतो भिक्षुरशोभत ।
वज्रावभग्नः शिखरी पुष्पितैरिव पादपैः ॥ १७६७ ॥
इयतो राजचक्रस्य मध्ये हेर्षनृपात्मनः ।
नावमानस्य मानस्य त्वभूद्भिक्षोः परं पदम् ॥ १७६८ ॥
विधाता नित्यविधुरस्तेजोधैर्याभिमानितः ।
अकुण्ठेन ध्रुवं चक्रे गृहीतात्मपराजयः ॥ १७६९ ॥
को वराको महर्धीनां सोग्रे पूर्वमहीभृताम् ।
उदात्तेनात्तकृत्येन ते त्वस्याग्रे न किंचन ॥ १७७० ॥
आहोपुरुषिकाग्रस्तैरारोहद्भिर्द्विषद्भदैः ।
तदवस्थस्तदात्तोपि शख्यायुद्ध कुमारियः ॥ १७७१ ॥
स्फुरन्योद्धव्यमित्येव स प्रहारावशस्तथा ।
विज्ञाततत्त्वैररिभिर्वितत्य बहुशो हतः ॥ १७७२ ॥
विपन्नेस्मिन्नलं मूढाः ग्रैहारैरिति निन्दिताः ।
खरौः प्रजहुर्बड्डशो हते भिक्षौ द्विषद्भटाः ॥ १७७३ ॥
अविधेयायुधस्तीव्रव्रणवेदनयाधमैः ।
कैश्चिनिर्जीवितप्रायो रक्तिकः शस्त्रिभिर्हतः ॥ १७७४ ॥
वयसस्त्रिंशतिं वर्षान्नव मासांश्च भुक्तवान् ।
स षष्ठाब्दासितज्येष्ठदशम्यां नृपतिर्हतः ॥ १७७५ ॥
१ हर्षनृपात्परः इति स्यात् । २ उदात्तेन तु कृत्येन इति स्यात् । ३ प्रहारैरतिनि- न्दिता इत्युचितम् । अष्टमस्तरङ्गः ।
निदानं विप्लवे दीर्घे सर्वनाशेपि कारणम् ।
येषां बभूव तेप्येवं तुष्टुवुः सत्त्वविस्मिताः ॥ १७७६ ॥
नेत्रस्पन्दं भ्रुवोः कम्पं स्मेरास्यत्वं च नामुचत् ।
सजीवमिव तन्मुण्डं कियतीरपि नालिकाः ॥ १७७७ ॥
एकं व्योन्यविशञ्चित्रभानुं भूमौ पुनः परम् ।
तद्देहमप्सरःसङ्गं धाराम्वु च विदजडम् ॥ १७७८ ॥
सचिवा विजयक्षेत्रस्थितस्याग्रे महीपतेः ।
तेषां त्रयाणां मुण्डानि ततोन्येधुरुपाहरन् ॥ १७७९ ॥
श्रीसुधारत्नदन्त्यश्वशशाङ्कादिप्रकाशने ।
दृष्टचित्रस्वभावोब्धिर्यथायं पार्थिवस्तथा ॥ १७८० ॥
तत्र तत्राद्भुतं भावं दर्शयन्भुवनाद्भुतम् ।
परिच्छेद्यानुभावत्वं न केषामपि गच्छति ॥ १७८१ ॥
नादृप्यन्निहतोसाध्यः पितु योप्यभूदिति ।
न जहर्ष विनष्टोयं राजकण्टक इत्यपि ॥ १७८२ ॥
नाकुप्यत्स पितुर्मुण्डमेष भ्रमितवानिति ।
वीक्ष्य भिक्षोः शिरोव्याजभावादायस्त्वचिन्तयत् ॥१७८३ ॥
युग्मम् ॥
आकारस्यास्य संभाव्यं सत्त्वं न द्वेषवैकृतम् |
वैशद्यं स्फटिकस्येव नार्कालोकोपतप्तताम् ॥ १७८४ ॥
उत्कर्षात्प्रभृति व्यक्तममुं यावन्महीभुजम् ।
हा धिक्सुमृत्युना दृष्टं नेह देहविसर्जनम् ॥ १७८५ ॥
प्रसादवित्ता येण्यासन्पूर्वमस्योर्वराभुजः ।
तटस्था इव वीक्षन्ते तेद्य मुण्डावशेषताम् ॥ १७८६ ॥
इति क्षितीशोसामान्यसौजन्योन्तर्विचारयन् ।
आदिदेश रिपोः शीघ्रं तादृशस्यान्तसत्क्रियाम् ॥ १७८७ ॥
२० १५४ राजतराङ्गणी
निद्राच्छेदे च निशिध्यायंस्तस्योदयात्ययौ ।
भवस्वभाववैचित्र्यं मुहुर्मुहुरचिन्तयत् ॥ १७८८ ॥
अपि वर्षसहस्रेण देशे दायाददुः स्थितिः ।
नूनं न भविता भूय इति लोकोप्यमन्यत ॥ १७८९ ॥
दग्ध्वा तृणं तनु धनं प्रतनोति शष्पं
वृष्टिं सृजत्युपचितोष्मदिनं प्रदर्य ।
वैचित्र्यसंस्पृशि विधेर्नियमेन कृत्ये
न प्रत्ययः वचन चञ्चलनिश्चयस्य ॥ १७९० ॥
कृत्यं निर्वर्त्य विश्रान्त्यै धीरस्याबनतो मनः ।
विधिर्विधत्ते दीर्घान्यकार्यभारसमर्पणम् ॥ १७९१ ॥
आंरोढुं प्रथमस्य दीर्घमैदनप्रत्तक्कमस्याङ्क्षिणा
नो संत्यज्यत एव पादकटको यावद्वितीयोखिलः ।
वाहस्यासनरक्षिणः कलयतो भारावतारात्सुखा-
न्यारोहेण परेण तावदसहाधिष्ठीयते पृष्ठभूः ॥ १७९२ ॥
एवमेव क्षपामात्रं राज्ये निःशत्रुतां गते ।
शोकमूको नृपस्याग्रं प्राविशल्लेखहारकः ॥ १७९३ ॥
पृष्टः सभ्यैः स संभ्रान्तैर्यस्मिन्नेवाहि भूपतेः ।
यातो भिक्षाचरः शान्तिमरातिर्दत्तदुःस्थितिः ॥ १७९४ ॥
भ्रातरौ लोहरगिरौ बद्धौ द्वैमातुरौ पुरा ।
न्यस्तौ सुस्सलभूपेन यौ तौ सल्हणलोठनौ ॥ १७९५ ॥
ज्येष्ठे मृते कोट्टभृत्यैः कनिष्ठं लोठनं हठात् ।
तमिहाद्य त्रियामायामभिषिक्तमभाषत ॥ १७९६ ॥
सुतभ्रातृसुतैमै राज्याः सह पञ्चभिः ।
निर्यातं बन्धनादूचे कोशेषु स तमीश्वरम् ॥ १७९७ ॥
१ आरोदुः इत्युचितम् । २ दीर्घदमन इति स्यात् । अष्टमस्तरङ्गः ।
दूयेत मुह्येदाक्रन्देत्प्रसारितभुजः पतेत् ।
स्वप्याद्विसूत्रो निःस्पन्दहक्कं गच्छेद ध्रुवम् ॥ १७९८ ॥
दीर्घदौस्थ्यशमक्षिप्रमृदूकृतमना नृपः ।
असौ तत्कालनिपतद्दुर्वार्तावज्रचूर्णितः ॥ १७९९ ॥
इति संभाव्य दिक्पालैरपि साकृतमीक्षितः ।
नाकाराचारचेष्टाभिः प्रागवस्थां जहौ नृपः ॥ १८०० ॥
नानन्याभिभूतेन सर्वतोसह्यवर्तिना ।
तादृशा वैशसेनान्यः सृष्टपूर्वो हि भूपतिः ॥ १८०१ ॥
पित्रास्य यद्वलान्नष्टं राज्यं भूयः प्रसाधितम् ।
अनेनापि हतारांति विहितं पैतृकं पदम् ॥ १८०२ ॥
निन्ये जनर्गकोशौ तौ नष्टनामापि दारकः ।
दायादशेषो यत्रैको निर्धनो वीतबान्धवः ॥ १८०३ ॥
धनमानान्तकृदूरिवर्षान्व्यसनमाद्धे ।
उपप्लवप्रिये देशे तत्रैकस्मिन्हतेहिते ॥ १८०४ ॥
मित्रदुर्गार्थसंपन्नाः प्रोद्भूताः षड्डिरोधिनः ।
भिन्नप्रकृतिकं कोशशून्यमेतञ्च मण्डलम् ॥ १८०५ ॥
ताइङिकषनिस्तीर्णमाहात्म्यस्य महीपतेः ।
धैर्येण स्पर्धितुं जाने राघवोपि सलाघवः ॥ १८०६ ॥
प्राक्पोषितं हि साम्राज्यदाने निर्वासने च तम् ।
तुल्यानुभावमस्मार्षीत्पितैवं गणयन्गुणान् ॥ १८०७॥
आहूतस्याभिषेकाय विसृष्टस्य वनाय वा ।
न मया लक्षितस्तस्य स्वल्पोप्याकारविप्लवः ॥ १८०८ ॥
कान्तेषु काननान्तेषु सकान्तं सानुजं च तम् ।
भूयः श्रियं प्रतिश्रुत्य स्थातुं सावधि सोभ्यधात् ॥१८०९ ॥
राजतरङ्गिणी
एकक्षणानुभूतेस्मिन्संघट्टे सुखदुःखयोः ।
ईडक्तत्तद्दशाभेदादनयोरन्तरं महत् ॥ १८१० ॥
नियतं निरुपादानां शक्ति दर्शयितुं जने ।
नानोपकरणग्रामं संनद्धोस्याच्छिनद्विधिः ॥ १८११ ॥
अत्यद्भुतानि कृत्यानि वक्ष्यमाणानि भूपतेः ।
कोमुष्य बहु मन्येत सामग्र्ये सति संपदाम् ॥ १८१२ ॥
धैर्याब्धिना कार्यशेषं ज्ञातुं राज्ञा सविस्तरम् ।
पृष्टोथ कोट्टवृत्तान्तमाचख्यौ लेखहारकः ॥ १८१३ ॥
उत्सृज्य भागिके कोट्टं प्रयाते मण्डलेश्वरः ।
लुप्तोद्योगोभवद्गुप्तौ प्रेमा संपत्प्रमत्तधीः ॥ १८१४ ॥
मण्डनाभ्यवहारस्त्रीभोगैकाग्रो मदोग्रया |
स वृत्त्या भयवैमुख्याधात्र्याभव्यं व्यवाहरल १८२५ ।।
कुल्यानुकम्पिना दृष्ट्युत्पाटनादेः स वारितः ।
देवेन नादाद्वद्धानां कांचिद्रक्षाक्षमां क्रियाम् ॥ १८१६ ॥
मायाव्युदयनो नाम कायस्थः स्थूलवाञ्छितः ।
माञिकश्च प्रतीहारो बद्धमूलस्य मत्रिणः ॥ १८१७ ॥
पुत्रो भीमाकरस्येन्द्राकरश्चात्रान्तरे समम् ।
दुधुक्षवस्तत्र तत्र वधं प्रेम्णो व्यचिन्तयन् ॥ १८१८ ॥
अलब्धो हन्तुमप्राप्तावसरैस्तैः कदाचन ।
कोट्टादट्टालिकां कार्यवशादवरुरोह सः ॥ १८१९ ॥
कश्मीरेभ्यो नृपेणाल्पावशेषप्राणवृत्तिना ।
शैषि शासनमेतादृगिति प्रत्ययसिद्धये ॥ १८२० ॥
कोट्टौकसामशेषाणां गूढलेखान्विधाय ते ।
निबद्धसंविदः पूर्वमभिषेच्यस्य भार्यया ॥ १८२१ ॥
दृष्ट्या दुर्गान्निर्निगडं कृत्वा च निशि लोठनम् ।
सिंहराजस्वामिविष्णुप्रासादाग्रेभ्यषेचयन् ॥ १८२२ ॥
शारदाख्या वधूरेका कापि सुस्सलभूपतेः ।
तत्र स्थिताभवत्क्षुद्रा तेषामनुमतप्रदा ॥ १८२३ ॥
तदर्पितैरयोयत्रभञ्जनैरर्गलानि ते ।
१५७
कोशान्निवार्य पर्याप्तं कोशरत्नादि जहिरे ॥ १८२४ ॥
सभृत्यैः सप्तभिस्तत्तत्साहसं सुमहत्कृतम् ।
दानेन त्याजितायामा चण्डालैः प्रतिकूलता ॥ १८२५ ॥
भेरीतूर्यादिनिर्घोषैर्निर्निद्राः कोट्टवासिनः ।
कृतराजोचिताकल्पमपश्यन्नथ
अदृष्टपूर्वतादृक्षोदात्तवेषः स विस्मयम् ।
लोठनम् ॥ १८२६ ॥
जिन्ये जन नृपामात्ययोगो दीपैः प्रकाशितः ॥ १८२७ ॥
प्रेम्णः पार्श्वस्थितस्ताभ्यामानयेद्दारकोन्तिकम् ।
ससैन्यौ स्वभुवश्चर्मपासिकाख्यौ च ठक्कुरौ ॥ १८२८ ॥
तदास्थयाहितास्कन्द भङ्गस्तेषामशेषतः ।
रात्रिशेषश्च चन्द्रांशुस्पर्शपाण्डुरशीर्यत ॥ १८२९ ॥
प्रातः प्रेमाथ दुर्वार्ताश्रवणेनोष्णदारुणः ।
संताप्यमानञ्चोष्णांशुकरै रोद्धुमुपाययौ ॥ १८३० ॥
तं प्रतोलीतलप्राप्तं निर्यातैर्वैरिसैनिकैः ।
पराङ्मुखीकृतं वीक्ष्य चलितोस्म्यन्तिकं प्रभोः ॥ १८३१ ॥
श्रुत्वेति भूभृत्त्वरया लुल्लं लोहरमत्रिणम् |
विससर्जोदयद्वारपतिमानन्दवर्धनम् ॥ १८३२ ॥
भूमिठौ तौ हि कोट्टस्य विवेदानन्यदेशजौ ।
सोल्पाचत्वादिरन्ध्राणां लक्षणाद्रहणक्षमौ ॥ १८३३ ॥
माययौ इति स्यात् । १५८ ( राजतरङ्गिणी
प्रविष्टश्च पुरं दृष्टां प्रीतिदायार्थिभिः शिरः ।
भ्राम्यमाणं भटैमिझोराक्षिप्यैतानदाहयत् ॥ १८३४ ॥
राजादेशादसंरुद्धैः स्त्रीभूयिष्ठैरसौ जनैः ।
१८३७ ॥
नप्ता पैतामहे देशे दह्यमानोन्वशोच्यत ॥ १८३५ ॥
काले ग्रीष्मोदयोद्रिकभानौ स्वविषये नृपः ।
सिद्धिमश्रद्दधानोपि प्रहिणोति स्म रिल्हणम् ॥ १८३६ ॥
स शौर्यस्वामिभक्त्यर्थनैःस्पृह्यादिगुणोज्ज्वलः ।
तेन ह्यमोघप्रारम्भः समभावि जिगीषुणा ॥
भवितव्यतया दत्तव्यामोहः प्रेरितोथवा ।
शठामात्यैरभूद्भूभृत्स व्यक्तायुक्तमत्रितः ॥ १८३८
हीनोर्थदुर्गामात्यैर्यन्निर्वैक्लव्यस्य वैरिणः ।
अनुमेने कृतारब्धीन्भृत्यान्ग्रीष्मोल्बणे क्षणे ॥ १८३९ ॥
उदयः कम्पनाधीशो राज्ञोग्रे पर्यशिष्यत ।
सर्वामात्याः प्रतीहारमन्वगच्छन्पुनः परे ॥ १८४० ॥
राजात्मजहयारोहडामरामात्यमिश्रया
।
दैर्ध्य तत्सेनयावापि सर्वसामग्र्युग्रया ॥ १८४९ ॥
संवेष्टयन्नट्टलिकानिविष्टकटको दिशः ।
संग्रहीतुं प्रववृते सर्वोपायविरोधिनः ॥ १८४२ ॥
लुल्लादयः फुल्लपुरे कोट्टोपान्ताश्रये स्थिताः ।
भयभेदाहवव्यग्रान्प्रकम्पमनयत्रिपून् ॥ १८४३ ॥
सुस्सलक्ष्मापतिर्बद्धे लोठने तत्सुतामदात् ।
यस्मै प्राक्पद्मलेखाख्यां बहुस्थलधराभुजे ॥ १८४४ ॥
साहायकाय प्राप्तस्य तस्य सैन्यैर्द्विषञ्चमूः ।
शूराभिधस्य युद्धेषु प्रत्यग्राहिं प्रतिक्षणम् ॥ १८४९ ॥
तेषूपरुद्धराष्ट्रेषु भयदोलायमानधीः ।
अङ्गीचक्रे नरपतेर्नति दण्डं च लोठनः ॥ १८४६ ॥
एतावत्सिद्धमफलारब्धीनामत्र दुःसहे ।
काले व्यावृत्तिरस्माकमुचितास्मिन्न लाघवः ॥ १८४७ ॥
शारदारम्भसुभगे कमात्काले बलोर्जिताः ।
अथारब्धि विधास्यामः सर्वारम्भेण शोभनाम् ॥ १८४८ ॥
प्रत्यन्वहं लक्ष्मण प्रहितं नादधे नृपः ।
अन्ये च मत्रिणो मत्रं शाठ्यादभ्यर्णवर्तिनः ॥ १८४९ ॥
तिलकम् ॥
सर्वाधिकार्युदयनः प्रतिश्रुत्य धनं बहु ।
साहायकार्थमानिन्ये सोमपालमपि प्रभोः ॥ १८५० ॥
अपाङ्केयः स संबन्धबद्धोपि धनलुब्धधीः ।
द्रुह्यति स्म महाव्यापन्निमझाय महीभुजे ॥ १८५१ ।।
बहुर्थदो लोठनश्चेत्कि मे संबन्ध्यपेक्षया ।
अन्यथा भवतामस्मीत्यन्यान्वक्ष्यामि कैतवात् ।। १८५२ ।।
दम्भमित्यभिसंधाय सोमपालोभ्युपाययौ ।
समर्थने हेतुरासीत्सुजेर्व्याजे कियानपि ॥ १८५३ ।।
युग्मम् ॥
स हि भिक्षाचरौन्मुख्यान्निवार्यानायितो यदा ।
सोमपालमुखेनोर्वीभुजा राजविसर्जितः ॥ १८५४ ॥
दूतः प्रार्थयमानस्यार्थान्प्राक्प्रतिश्रुतान् ।
ऋणिकस्योत्तमर्णेभ्यः प्रदातुमनुवघ्नतः ॥ १८५५ ॥
तदा भिक्षाचरं जानन्हतकल्पमनेन नः ।
व्यसनप्रशमे कोर्थ इत्यवशां प्रकाशयन् ॥ १८५६ ॥
१ इत्यन्वहं इति स्यात् । राजतरङ्गिणी
मदन न ददौ किंचित्सोथ भिक्षाचरं हतम् ।
श्रुत्वा निरुपयोगं स्वं राज्ञो ज्ञात्वा सशोकताम् ॥ १८५७ ॥
यावदेकाहमभजल्लोहरव्यसने भयम् ।
तावन्निशम्य संप्राप्तोत्सेको भूयोपि मन्युभाक् ॥ १८५८ ॥
लोठनं बद्धसंधिं वः करिष्यामीति भूभुजः ।
उक्त्वा दूतं लोठनेन दापयिष्यामि काञ्चनम् ॥ १८५९ ॥
युष्मभ्यं कथयित्वेति सोमपालं चिकीर्षितम् ।
वलितामबलत्वं च सर्वेषां स्वार्थसिद्धये ॥ १८६० ॥
समं सोमेन तत्सैन्यमन्यप्रस्थित्यलक्षितैः ।
मितैरनुगतो भृत्यैघरमूलकमासदत् ॥ १८६१ ॥
कुलकम् ॥
यद्वानौचित्यदुष्पांसुवर्षदूषितकीर्तिना ।
भोगलुब्धतया तेन हता विततसत्त्वता ॥ १८६२ ॥
तुषारशर्कराशुक्लजलपानाददुर्जरम् ।
त्यक्तुं भोज्यं मृदु स्निग्धं काश्मीरं न शशाक सः ॥१८६३॥
सतुषं शुष्कसक्कादि बहिर्भोक्तुमपारयन् ।
यैस्तैरुपायैः कश्मीरान्प्रविविक्षुरतोभवत् ॥ १८६४ ॥
काश्मीरकाः कार्यशेषमष्टा ग्रीष्मशोषिताः ।
आकर्ण्य च तदापातमाकुलत्वमशिश्रियन् ॥ १८६५ ॥
भुञ्जानैर्मृष्टमांसानि पिबद्भिः पुष्पगन्धि च ।
प्रतीहाराग्रतो हारि माकं लघु शीतलम् ॥ १८६६ ॥
आनेष्यामो जवात्सुज्जिमाकृष्य श्मश्रुसंयुगे ।
इत्थं विकत्थनैस्तैस्तैराहोपुरुषिकाः कृताः ॥ १८६७ ॥
काश्मीरकैर्मितैर्युक्तं खरौः सैन्धवकैरपि ।
अभिषेणयितुं शेकुर्न तेप्युद्यमिनोपि तम् ॥ १८६८ ॥
भ्रातृव्याय च मुख्याय भूभुजां च करार्पणम् ।
विद्ध्यां जयसिंहाय वरमित्यभिमानिना ॥ १८६९ ॥
बहुर्थमर्थ्यमानेन लोठनेन तिरस्कृतः ।
सोमपालः प्रियं किंचिद्राजपक्षे न्यदर्शयत् ॥ १८७० ॥
मयि, श्वशुरसैन्यानां व्यग्राणां वैरविग्रहे ।
सुज्जेर्हिताय त्वं रन्ध्रमन्विष्यसि किमाश्रितः ॥ १८७१ ॥
इति निर्भत्सितस्तेन सुजिः स्वाहंकियोचितः ।
सर्वानुल्लङ्घ्य संनद्धो राजसैन्यग्रहेभवत् ॥ १८७२ ॥
जरढाषाढसंजातशीतज्वरमहाभयः ।
वरूथिनीमथोत्थाप्य विद्रौ निशि लक्ष्मकः ॥ १८७३ ॥
विसृष्टदूताः कटकं नष्टं वक्तुं प्रभोद्भुतम् ।
केचिदन्वसरन्सुद्धिं सैनिकास्ते जिघांसवः ॥ १८७४ ॥
पारेणैकेन भूपालसैन्यमन्येन वैरिणः ।
वर्त्मनः श्वभ्रदुर्गस्य तुल्यमेव प्रतस्थिरे ॥ १८७५ ॥
शारम्बरपथं वैरिवश्यं त्यक्त्वा यियासवः ।
स्वोर्वी कालेननाख्येन संकटेन तदन्तिके ॥ १८७६ ॥
तस्मिन्नहन्यस्खलिता वनिकावासनामनि ।
ग्रामे सैन्या न्यविक्षन्त लोकैरुञ्चावचैः समम् ॥ १८७७ ॥
युग्मम् ॥
अनुप्रस्थायिनोभ्यर्णग्रामकेष्वपि दुद्रुवुः ।
भुक्त्वा पीत्वाथ ते निन्युर्निशार्धमकुतोभयाः ॥ १८७८ ॥
अथापातं विद्विषद्भिः स्वस्य श्रावयितुं द्रुतम् ।
क्षोभभृत्सुज्जिरभ्येत्य तूर्यघोषमकारयत् ॥ १८७९ ॥
क्षणदाशेष पवाशु पलायांचक्रिरे ततः ।
तैस्तैः शैलपथैः सेना निरवष्टम्भनायकाः ॥ १८८० ॥
२१ १६२ राजतरङ्गिणी
चित्राम्बराणि मुष्णद्भिः प्राह्णेत्यज्यन्त मत्रिणः ।
भूप्रकम्पैर्गण्डशैला नानाधातुद्रवैरिव ॥ १८८१ ॥
लुण्ठ्यमानाश्चमूत्रातुं नाददे कश्चिदायुधम् ।
तदान्वयेन वा तेन स्वात्मनान्यस्तु रक्षितः ॥ १८८२ ॥
उत्त्य लघयन्तोऽद्रीन्केपि शोणाघरांशुकाः ।
रक्तस्फिजो गतौ प्रापुर्मर्कटा इव पाटवम् ॥ १८८३ ॥
केप्यम्बरपरित्यागविकचौरविग्रहाः ।
हरितालशिलाखण्डा इव वातेरिता ययुः ॥ १८८४ ॥
शूलवेणुवनाकीर्णैः शैलैरकृशविग्रहाः ।
केपि श्वासोत्थपूत्काराः करिपोता इवाव्रजन् ॥ १८८५ ॥
किं नामोदरणैर्मत्री स नासीत्तत्र कश्चन ।
तिरश्चेव विपर्यस्त धैर्येर्यैर्न पलायितम् ॥ १८८६ ॥
भृत्यस्कन्धाधिरूढोथ गच्छन्मूढः प्रधावितुम् ।
प्रतीहारो द्विषद्योघैद्रात्कैश्चियलोक्यत ॥ १८८७ ॥
निरंशुकः स सूर्याशुकचत्केयूरकुण्डलः ।
प्रतिज्ञायानुसत्रे तैः सर्वप्राणप्रधावितैः ॥ १८८८ ॥
अश्माहतेन भृत्येन त्यक्तः स्कन्धादृषत्क्षतः ।
स निःस्पन्दवपुस्तिष्ठ॑स्तैरग्राहि महाजवैः ॥ १८८९ ॥
नवबन्धनशोकार्तशारिकाकृशविग्रहः ।
स गग्गलिरिव व्यञ्जद्विषः संकुचितेक्षणः ॥ १८९० ॥
बद्धस्य मे मानधनप्रहर्तुर्वैशसान्तरम् ।
इतोधिकं ध्रुवं सुज्जिर्विदध्यादिति चिन्तयन् ॥ १८९१ ॥
स्कन्धेधिरोप्य निःशेषीकृतप्रावारभूषणः ।
नदद्भिः सोपहासं तैः सुजेर व्यनीयत ॥ १८९२ ॥
तिलकम् ॥ १६३ अष्टमस्तरङ्गः ।
प्रच्छाद्य सत्त्ववान्वक्रं सोशुकेनैष नोर्चितः ।
बृहद्राज इवेत्युक्त्वा तस्मै स्वान्यंशुकान्यदात् ॥ १८९३ ॥
प्रावारिताम्बरं कृत्वा हयारूढं च तं पुनः ।
धैर्येणायोजयत्स्निग्धैर्वचोभिः परिसान्त्वयन् ॥ १८९४ ॥
निर्लुण्ठिततुरंगासिकोशैः परिवृतः खशैः ।
ततो गृहीत्वा तं श्रीमान्सोमपालान्तिकं ययौ ॥ १८९५ ॥
इमा व्योमाङ्कनक्रीडत्तडित्तरलविभ्रमाः ।
भाग्यमेघानुयायिन्यः स्थायिन्यः कस्य संपदः ॥ १८९६ ॥
आराधनधिया स्वैरं यस्याग्रेभोजि भृत्यवत् ।
गात्राणि कुङ्कमालेपैरुपाचर्यन्त च स्वयम् ॥ १८९७ ॥
सोमपालादिभिः प्रः स मासैरेव पञ्चषैः ।
तेषामग्रे तथाभूतस्तिष्ठंल्लोकैर्व्यभाव्यत ॥ १८९८ ॥
लुल्लोपि पलितश्वेतोपान्तश्यामाननः परैः ।
वनौका इव बद्धोभूच्छोकमूको वनान्तरे ॥ १८९९ ॥
अर्पितं सुजिना सोमपालः स्वीकृत्य लक्ष्मकम् ।
जानन्गृहीतान्कश्मीरान्निजराष्ट्रं न्यवर्तत ॥ १९०० ॥
लोठनस्यान्तिकादेत्य स शूरैर्माञिकादिभिः ।
प्रतिश्रुतप्रभूतार्थैः प्रतीहारमयाच्यत ॥ १९०१ ॥
कश्मीरादिप्रतीहारशिक्षापक्षानुयायिभिः ।
तदा न कैरमन्यन्त संप्राप्या डामराण्डजैः ॥ १९०२ ॥
लुब्धेनापि प्रतीहारायत्तं राष्ट्रं जिघृक्षुणा ।
भूरि चादित्सुना वित्तं राज्ञोकारि न तेन तत् ॥ १९०३ ॥
भनमानेष्वमात्येषु प्राप्तेषु नगरं नृपः ।
हारिते च प्रतीहारे न धैर्यात्पर्यहीयत ॥ १९०४ ॥
राजतरङ्गिणी
यैः सैन्यसारैराज्यं पुरा भिक्षाचरोकरोत् ।
यैश्चाप्युत्कुपिते राष्ट्रे वृत्त्यावर्तिष्ट सुस्सलः ॥ १९०५ ॥
भूभृता संगृहीतानां शीतज्वररुजा ततः ।
तेषां दशसहस्राणि योधानां निधनं ययुः ॥ १९०६ ॥
विरराम तदा देशे न मुहूर्तमपि क्वचित् ।
बान्धवाक्रन्दतुमुलं प्रेतवाद्यमहर्निशम् ॥ १९०७ ॥
घोरघर्मघृणिधान्ताशेषव्यवहृतिस्थितिः ।
सोनुत्साहहतः कालो नष्टराज्य इवाभवत् ॥ १९०८ ॥
नानादिगन्तरायातैः प्राप्तैः काश्मीरकैरपि ।
लोहरेथ प्रवृद्धर्द्धि राजद्वारमजायत ॥ १९०९ ॥
काकतालीयसंप्राप्तलोकोत्तरनृपश्रियः ।
अकुण्ठा लोठनस्यासीत्स्फूर्तिर्वित्तपतेरिव ॥ १९१० ॥
तस्याकारपरिक्लेशवैशसाभिन्नवृत्तयः ।
भोगेष्वबाह्या भ्रातृव्यभृत्यपुत्रादयोभवन् ॥ १९११ ॥
नास्थानवर्षी स्थाने वा बद्धमुष्टिर्विभूतिमान् ।
स वयः पाकनिष्कर्मव्यवहारो व्यभाव्यत ॥ १९१२ ॥
छायानिरङ्कुशगतिः स्वयमातपस्तु
च्छायान्वितः शतश एव निजप्रसङ्गम् ।
दुःखं सुखेन पृथगेवमनन्तदुःख-
पीडानुबोधविधुरा तु सुखस्य वृत्तिः ॥ १९१३ ॥
तादृगभ्युदयावाप्तेर्मासे न्यूनेधिके गते ।
एकसूनोः सुतो दिल्हो लोठनस्य व्यपद्यत ॥ १९१४ ॥
तमेकपुत्रा शोचन्ती शोकशङ्कहताशया ।
ततः प्रषेदे प्रलयं मल्ला लोठनवल्लभा ॥ १९१५ ॥
अष्टमस्तरङ्गः ।
पत्यामभिन्नभावायां गुणज्येष्ठे तथात्मजे ।
विपन्ने स तया लक्ष्म्या न कृत्यं किंचिदैक्षत ॥ १९१६ ॥
निःस्नेहत्वस्य भूपालसुलभस्य विजृम्भितम् ।
मोहनी वा श्रियः शक्तिर्यदशासीत्पुनः सुखम् ॥ १९१७॥
अकारयन्निर्धनोपि तथा वृद्धस्य कालवित् ।
लक्षैः षट्त्रिंशता मोक्षं लक्ष्मकस्य क्षमापतिः ॥ १९१८ ॥
दिष्टवृद्धिपरिक्षिप्तपुष्पवृष्टौ जनैः पथि ।
तस्मिन्प्राप्ते न कोशासीद्वाज्ञा प्रत्याहृतां श्रियम् ॥ १९१९ ॥
स लक्ष्मीमहिमक्षिप्रविस्मृताभिभवप्रथः ।
प्रभवन्पुनरेवासीन्निग्रहानुग्रहक्षमः
धनप्रलोभनिर्नष्टसर्वावष्टम्भपाटवः ।
॥ १९२० ॥
सुन्जिः साचिव्यमव्याजं भेजे लोठनभूपतेः ॥ १९२१ ॥
दत्तवान्भागिकसुतामविश्वासमपाहरत् ।
स तस्याद्यप्रियापायदुःस्थितिव्यथया समम् ॥ १९२२ ॥
अभ्यर्थ्य पार्थिवं पद्मरथं चानीतवान्कृती |
तस्य सोमलदेव्याख्यामुद्राहाय तदात्मजाम् ॥ १९२३ ॥
एवं प्रधानसंबन्धैर्बद्ध मूलं विधाय तम् ।
सोव्याहतस्य साचिव्यग्रहस्यानृण्यमाययौ ॥ १९२४ ॥
अचिन्तयञ्च कश्मीरप्रवेशं डामरादिभिः ।
बहुशः प्रार्थ्यमानेन प्रेरितो नवभूभुजा ॥ १९२५ ॥
इत्थंभूतं कृतैक्यं च समं सीमान्तभूमिपैः ।
अथ च्छलयितुं शत्रुं नीतिं प्रायुत सौस्सलिः ॥ १९२६ ॥
तत्रोदयद्वारपतिस्तस्यारम्भे गभीरधीः ।
अलुप्तसत्त्वः स्तुत्यत्वं सारेतरविदामगात् ॥ १९२७ ॥
राजतरङ्गिणी
तत्रत्यः स हि निर्नष्टसर्वस्वोप्यर्थितोहितैः ।.
दानमानादिभिः स्वामिकृत्ये नित्योदितोभवत् ॥ १९२८ ॥
वनप्रस्थाभिधे स्थाने लोहरादूरगे स्थितः ।
अखिन्नोच्छिन्नसंग्रामैर्भेदं निन्ये द्विषद्वलम् ॥ १९२९ ॥
कटाक्षिताभिप्रायेस्मिन्मिथ्या तथ्येन वा दधुः ।
भयं लोठनभूपालान्माञिकेदारकादयः ॥ १९३० ॥
हन्तव्यांचाकिकानस्मान्सुजौ न्यस्ताशयो नृपः ।
वेत्ति तत्प्रेरणेनासौ तदाशङ्कषतेति ते ॥ १९३१ ॥
संजातं सहजाख्यायां राज्ञ्यां सुस्सलभूपतेः ।
कुर्मो मल्लार्जुनं भूपं लोहरेस्मिन्हिताय वः ॥ १९३२ ॥
तत्प्रेमाणमिवाकस्मादभिसंधत्त लोठनम् ।
संदिदेशाथ तान्धीमाञ्जयसिंहो महीपतिः ॥ १९३३ ॥
व्याजेन राज्ञा संदिष्टं तत्कोट्टं स्वीचिकीर्षुणा ।
प्रतिश्रुतमविश्वस्तैस्तस्मिंस्तैश्च तथैव तत् ॥ १९३४ ॥
मल्लार्जुनं लोठनोथ ज्ञात्वा प्रारब्ध चाक्रिकम् ।
तदाद्यान्भ्रातृसूनूंस्तांश्चाकिकानप्यबन्धयत् ॥ १९३५ ॥
अवरुद्धतनूजेन शङ्कां सौस्सलिना भजन् ।
परं विग्रहराजन प्रातिहार्यमजिग्रहत् ॥ १९३६ ॥
राजा व्याजात्पितृव्येण बद्धसंधिरुपायवित् ।
तत्वरे हारितं राज्यं तैस्तैः स्वीकर्तुमुद्यमैः ॥ १९३७ ॥
विसृज्य शूरं निष्कम्पराज्य: सुजेः परिश्रमात् ।
मासान्कांश्चिदसंक्षोभो वृत्त्यावर्तिष्ट लोठनः ॥ १९३८ ॥
सुजि: पद्मरथापत्यं प्राकन्यामानिनाय याम् ।
अनूढाया विवाहाय तस्या मातरमागताम् ॥ १९३९ ॥
आकर्ण्य तेजलादीनां प्रसङ्गेऽस्मिन्सगौरवाम् ।
सामात्यो दर्पितपुरं कृतप्रत्युद्गतो ययौ ॥ १९४० ॥
मात्रिकाद्यैरथ प्राप्तरन्धैर्निर्गत्य बन्धनात् ।
मल्लार्जुनः कोट्टराज्ये संहतैरभ्यषिच्यत ॥ १९४१ ॥
ठक्कुरैः प्राग्वदानीतैः प्रतोलीतलमागतान् ।
भृत्यांस्ते सिंहभूभर्तुः प्रविविक्षून्यवारयन् ॥ १९४२ ॥
षष्ठेब्दे लोठनः शुक्लत्रयोदश्यां स फाल्गुने ।
यथायुज्यत राज्येन तथैवाशु व्ययुज्यत ॥ १९४३ ॥
अनूढां कन्यकां मूढः संपदं चाव्ययीकृताम् ।
प्राप्तां परस्य भोग्यत्वं भाग्यहीनः शुशोच सः ॥ १९४४ ॥
अटित्वा टिल्लिकादिभ्यो देशेभ्यो नष्टशक्तिना।
तेन सुजिबलात्कोशशेषः कश्चिदवाप्यत ॥ १९४५ ॥
पूर्वाह्तान्सिहभूभृद्भृत्यायकृत्य माञिकः ।
निनायाप्रतिमल्लत्वं मल्लार्जुनमहीभुजम् ॥ १९४६ ॥
तेनातिव्ययिना नव्यवयसा भूभुजा कृतम् ।
मौक्तिकैः पूगविच्छेदे ताम्बूलार्पणमेकदा ॥ १९४७ ॥
वर्षतो विषयौत्सुक्याद्धाटकं कुट्टनादिषु ।
त्यागित्वं तस्य तत्त्वज्ञैः सदोषमुदघोप्यत ॥ १९४८ ॥
प्रजोपतापोपचितः कोशः सुस्सलभूपतेः ।
तेनातिव्ययिना स्वैरमनुरूपव्ययः कृतः ॥ १९४९ ॥
गणिकाचारणद्रोग्धृविटचेटादिपेटकम् ।
साधून्विधूय सोपुष्णाद्धर्मोष्णः कुमतिर्यतः ॥ १९५० ॥
सपत्नसादहितसाद्यदि वा वहिसाद्भवेत् ।
द्रविणं क्षोणिपालानां जनतोपद्रवार्जितम् ॥ १९५१ ॥
१६७ १६८ राजतरङ्गिणी
प्रजापीडनजं वित्तं जयापीडमहीभुजः ।
दास्याः पुत्रैरुत्पलाद्यैर्विलुप्तं नतुरन्तकैः ॥ १९५२ ॥
लोकसंक्लेशनोद्भूतः कोशः शंकरवर्मणः ।
प्रभाकरादिभिः स्वैरं जायाजारैरभुज्यत ॥ १९५३ ॥
अनङ्गवशगाः पङ्गोरङ्गना वृजिनार्जितम् ।
ददुः सुगन्धादित्याय धनं संभोगभागिने ॥ १९५४ ॥
राज्ञो यशस्करस्यार्थान्व्ययीचक्रेतिसंचितान् ।
अङ्गनानङ्गवैवश्यादालिङ्गितजनंगमा ॥ १९५५ ॥
पूर्वराजार्जितं पार्वगुप्तिः प्राप्य धनं मृतः ।
दाता जायौपपत्येन तुङ्गादीनामजायत ॥ १९५६ ॥
संग्रामराजः श्रीलेखामुखालमधुपैर्धनी ।
मुषितो व्यड्डहाद्यैर्निबिडोपार्जनस्पृहः ॥ १९५७ ॥
अप्रत्यवेक्षाक्षपितप्रजस्य जगदूर्जिता ।
अन्तेनन्तमहीभर्तुर्विभूतिर्भस्मसादभूत् ॥ १९५८ ॥
पुत्रेणापात्रसान्नार्या जारसात्तरसा कृतः ।
कुकलाकौशलोद्भूतः कोशः कलशभूपतेः ॥ १९५९ ॥
सह गेहै: समं स्त्रीभिः सत्रा पुत्रैरभूजनम् ।
अथान्तार्जनतर्षस्य हर्षदेवस्य वहिसात् ॥ १९६० ॥
चन्द्रापीडोञ्चलावन्तिवर्माद्यैर्धर्मनिष्ठुरैः ।
निष्ठा न्याय्यस्य कोशस्य नावाप्यनुचिता क्वचित् ॥ १९६१॥
चौरचाक्रिकसीमान्तभूभृद्धेश्याविटादयः ।
लुण्ठि प्रारेभिरे पुष्टां नवे मल्लार्जुनोदये ॥ १९६२ ॥
वञ्चयित्वाप्यरीन्भूभृत्ताम्यन्विघटितेप्सितः
।
अथ चित्ररथं तूर्णमास्कन्दाय व्यसर्जयत् ॥ १९६३ ॥
द्वारपादाग्रयोस्तुल्याधीकारेण प्रवर्धितः।
सोऽनन्तसामन्तयुतः पदं फुल्छपुरे व्यधात् ॥ १९६४ ॥
उत्सहिरे न वितता अपि दुर्गसमाश्रयात् ।
मह्छाैनचमूर्जन्ये जेतुं तदजुजीविनः ॥ १९६५ ॥
भेदाय कोड्मारूढस्तद्धृल्यो राजसंमतः ।
महानाग रात्रौ दतः संवधैनाभिधः ॥ १९६६ ॥
युद्धासाध्येपि तिष्ठन्तः कोटे मयविधेयताम् ।
कोष्ेश्वरेन्वगायाते तजामिजाः प्रपेदिरे ॥ १९६७ ॥
प्रतिश्चुतकरो बद्धसंधिः स व्यखजत्ततः ।
सभाजनाय जननीं तेषां मह्वाजजैनोन्तिकम् ॥ १९६८ ॥
सा वैधव्यविविक्तेन वेषेणेश्वर्यरोभिना ।
कोष्टेश्वरादीन्सोत्कण्ठांश्के चपठ्चेतसः ॥ १९६९ ॥
तस्यां गृदीतविखम्भं व्यावृत्तायां तदन्तिकात् ।
दवारेशाय ददान्ररीकृतं महठाजैनः करम् ॥ १९७० ॥
आकृष्टो राजजननीचक्षूरागेण कोष्टकः
दिदक्षाकपरात्कोटमारूरोह मिताञुगः ॥ १९७१ ॥
अ्थरूढेन सहितस्तेन चित्ररथस्ततः ।
संभ्रूतभराश्रतो भूमिभ्ुः सचिधमाययो ॥ १९७२ ॥
राजा तु संमनग्र्य ततः प्रायुङ्काहति्ाखिना ।
उदयद्धारपतिना नीति जेतुमरीन्पुनः ॥ १९७३ ॥
वीतास्कन्दो लोटनेपि गते पद्मरथान्तिकम् ।
लेभेभिनवभूपाः किचित्पादप्रसारिकाम् ॥ १९७४ ॥
उद्ढवान्सोमटाख्यां तां पद्मरथकन्यकाम् ।
उपयेमे धृतायामो नागपाखात्मजामपि ॥ १९७५ ॥
राजतरङ्गिणी
तस्मादहंक्रियामूढाल्लेभिरे गूढकैतवाः ।
भूभुजः सोमपालाद्या भृत्यभावेन वेतनम् ॥ १९७६ ॥
कविगायनजल्पाकयोधचारणचेष्टितैः ।
बहवो मुमुषुर्धूर्तास्तेपि तं राजबीजिनः ॥ १९७७ ॥
स बाल्यान्निष्परीपाकप्रज्ञो दृष्टो रटन् बहु ।
जज्ञे वाक्प्रौढिमात्रेण बालिशैः कुशलाशयः ॥ १९७८ ॥
केतोरिवाभद्र हेतोः प्रदीप्तं चदनं विना ।
अनिष्ठुराकृतेर्दृष्टं तस्यान्यत्र न सौष्ठवम् ॥ १९७९ ॥
अत्रान्तरे नृपः सुर्जि संजग्राहोग्रविक्रमम् ।
मा भून्मल्लार्जुनेनापि श्रितोसाविति चिन्तयन् ॥ १९८० ॥
निर्वासने प्रवेशे च प्रभुः सुजेस्ततोधिकम् ।
तात्कालिक प्रतीहारः शक्ति कांचिददर्शयत् ॥ १९८१ ॥
स कम्पनाद्यधीकारस्रजं राजविसर्जिताम् ।
वितरन्सुजये राजस्थानकार्यस्रजं विना ॥ १९८२ ॥
निस्तोषाय गृहायातसोमपालानुरोधतः ।
प्रसीदन्वामहस्तेन निजजूटस्रजं मदात् ॥ १९८३ ॥
आकृष्य प्रददौ तस्य तत्प्राप्तिपरितोषिणः ।
आप्यायमाईया दृष्ट्या यत्संपद्वीरुधो व्यधात् ॥ १९८४ ॥
चकलकम् ।।
भर्त्रे हिताय सौहार्दे विधूयोदयधन्ययोः ।
अभजद्रिल्हणः सुज्जेः प्रवेशे प्रतिलोमताम् ॥ १९८५ ॥
प्रत्युद्गमेन संमान्य सुद्धिं प्रावेशयन्नृपः ।
देशान्निरास्थद्धन्यादीन्मानसान्न तु तद्द्विरा ॥ १९८६ ॥
१ तिलकम् इत्युचितम् । अष्टमस्तरङ्गः ।
कृतागाः क्षमापतौ लब्धक्षणे तीक्ष्णैर्जिघांसति ।
कोष्टेश्वरः पलायिष्ट ज्ञातोदन्तस्तदन्तिकात् ॥ १९८७ ॥
आस्कन्दायागते राशि गृहीतमनुजेश्वरे ।
स्वपक्षभेदोपहतः सोथ देशान्तरं ययौ ॥ १९८८ ॥
लोठनस्तु निजग्राह कांश्चिदालम्ब्य ठक्कुरान् ।
बप्पनीलाभिधे स्थाने वसन्मल्लार्जुनं बलात् ॥ १९८९ ॥
तत्र दृष्टमसंभाव्यमेवास्य खलु पौरुषम् ।
परिभ्रष्टोपि यद्बद्धपदं तमजयत्संदा ॥ १९९० ॥
जहार तुरगांल्लुण्ठि चकाराढिलिकापणे ।
मार्गद्रङ्गादिभङ्गं च सर्वत्र सोकरोत् ॥ १९९१ ॥
राजराजाभिधानेन डामरेणार्थितस्ततः ।
१७१
कश्मीरराजसंप्राप्त्यै क्रमराज्यमगाहत ॥ १९९२ ॥
तदवेत्य समीपस्थे हते चित्ररथेन सः ।
तस्मिल्लवन्ये प्रययौ बप्पनीलभुवं पुनः ॥ १९९३ ॥
तस्मिन्नास्कन्दमसकृद्ददत्यट्टिलिकामपि ।
अवरोद्धुमशक्तोभूत्कोट्टे मल्लार्जुनो वसन् ॥ १९९४ ॥
भ्रातृव्येण पितृव्यस्य दापयित्वा धनं बहु ।
ततः कोष्टेश्वरो यात्रासज्जः संधिं न्यबन्धयत् ॥ १९९५ ॥
लोहरे विहितस्थैर्ये गृहीत्वा लोठनं ततः ।
कश्मीरोर्व्या पपातासौ विजिघृक्षुः क्षमाभुजा ॥ १९९६ ॥
गिरीनुल्लङ्घ्य काट विहितवान्पदम् ।
निपत्य मार्गेनुद्धाते यावदन्यैश्च डामरैः ॥ १९९७ ॥
नावाप योगं निर्गत्य क्षिप्रकारी क्षमापतिः ।
सर्वोद्योगेन तं तावदुत्थानोपहतं व्यधात् ॥ १९९८ ॥
१ तदा इत्युचितम् । राजतरङ्गिणी
अत्रान्तरे प्रतीहारः प्रापास्तमयपीडया ।
न संपत्स्वल्पपुण्यानामनपायित्वमायुषः ॥ १९९९ ॥
उत्सारणप्रियतया परिरुद्धसर्व-
द्वारे गृहे निरनुरोधतया वसन्तः ।
संपल्लघूकृतधियोप्रतिघप्रवृत्ते-
धिंग्जानते न रभसान्नियतेर्निपातम् ॥ २००० ॥
कुर्वाणोत्सारणं तस्य गृहजा सततं नृणाम् ।
नाशासीत्सुखसुप्तस्य पृष्ठे पतितमन्तकम् ॥ २००१ ॥
ज्वरितः स हि निष्ठ्यूतज्वरः स्वपिति विज्वरः ।
विदित्वेति न विज्ञातः स्वपन्नेव मृतस्तदा ॥ २००२ ॥
सलोठने कोष्टकेथ प्रयाते नृपतिः पुनः ।
न स मल्लार्जुनो नापि कोष्टको न स लोठनः ॥ २००३ ॥
छद्मनोदयनं पार्श्वस्थितं मल्लार्जुनोवधीत् ।
तस्मै चुक्रोध माध्यस्थ्ये स्थापितस्तेन कोष्टकः ॥ २००४ ॥
अनुनिन्ये न तं खिन्नं स संभृतबलस्ततः ।
अभिषेणयितुं क्रोधाद्धावत्सह लोठनम् ॥ २००५ ॥
कोष्टको मल्लकोष्टाद्यैर्मितैर्युक्तोपि सादिभिः ।
तीर्त्वा परोष्णीं तत्सेनां निर्ममाथाप्रमाथिनीम् ॥ २००६ ॥
हतेषु तेषु संग्रामे खश सैन्धवकादिषु ।
वधं प्राप्तः सिंहभूभृद्वेषान्न स नृपो हतः ॥ २००७ ॥
आरूढः कोट्टमूर्धानं मानमूर्भः परिच्युतः ।
भग्नप्रतापो भूयोऽपि समधत्त स कोष्टकम् ॥ २००८ ॥
विसृज्य लोठनं तिष्ठन्निर्वैरमगमत्पुनः ।
अनिर्वाहितदेयेन तेन द्वैधं स डामरः ॥ २००९ ॥
१ गृहिणी इति स्यात् । १७२ अष्टमस्तरंङ्गः ।
बवाधिकारिणः शुल्कं गृह्णताकारि राजवत् ।
तेन स्वनाम्ना भाण्डेषु द्रङ्गे सिन्दूरमुद्रणम् ॥ २०१० ॥
जतुसंहतयोः काचकलशीदलयोरिव ।
क्षणे क्षणे संधिभङ्गस्तयोः समुपद्यत ॥ २०११ ॥
निर्व्यूढिशून्यैर्वाग्रौक्ष्यैर्विरागं लोहरेश्वरः ।
निन्ये लवन्यं सोप्येनं स्पर्धाबन्धैरङ्कुशैः ॥ २०१२ ॥
डामरेण ततो दत्त्वास्कन्दं तत्कटकान्तरम् ।
परार्ध्यायुधधुर्याश्वहरणात्सु रं कृतम् ॥ २०१३ ॥
दत्त्वात्व •• रायत्यां विषमैर्हठपौरुषैः ।
....
१७३
एवं तं कोष्टको मूढः सुखोच्छेदं व्यधाद्विषाम् ॥ २०१४ ॥
तनयादानसंबन्धाच्छ्शुरं मुख्यमन्त्रिणम् ।
अत्रान्तरे नृपो हन्तुं माञिकं स व्यचिन्तयत् ॥ २०१५ ॥
आसीत्कठोरतारुण्यतरङ्गितमनोभवः ।
सुव्यक्तं स हि तन्मातुरौपपत्येन संमतः ॥ २०१६ ॥
आहारावसरे तीक्ष्णाः कृतसंज्ञाः क्षमाभुजा ।
दत्तप्रहरणाः प्राणैर्भुञ्जानं तं व्ययोजयन् ॥ २०१७ ॥
धुन्चन्नसिपटं बद्धवीरपट्टो रटन्बहु ।
निर्लुण्ठयन्स तत्सेनां तां तामारभटीं व्यधात् ॥ २०१८ ॥
अवाशिष्यत न द्रोहमध्यादिन्दारकोप्यहो ।
राज्ञा विशमितस्तेन रसदानेन स स्वयम् ॥ २०१९ ॥
दैवेनोत्सारितारातिस्ततः सिंहमहीपतिः ।
संदधे कोष्टकं सुजि प्राहिणोद्विजयाय च ॥ २०२० ॥
मार्गस्य याममात्रेण गम्यस्यान्तिकमाप सः ।
यावत्तुरंगहरणात्कोष्टकेनाकुलीकृतः ॥ २०२१ ॥
राजतरङ्गिणी
अन्तर्भेदाकुलस्तावत्प्रत्यवस्थातुमक्षमः ।
गृहीतकोशः संत्यज्य कोट्टं मल्लार्जुनो ययौ ॥ २०२२ ॥
राज्यभ्रष्टः स निर्लुण्ठ्यमानो मार्गेषु तस्करैः ।
अवनाहोन्मुखो रक्षन्कोशशेषं कथंचन ॥ २०२३ ॥
भ्रष्टमष्टादशशरद्देश्यश्चाष्टमवत्सरे ।
राज्यात्तेन द्वितीयस्यां वैशाखस्यासितेहनि ॥ २०२४ ॥
दाता शिखामृतरुचेरमृतं विलब्ध-
कार्पण्यकृत्समिति लूनशिराः कृतश्च ।
ईशेन यत्र तदकार्युपकर्तुरस्तु
तत्रापरः क इव संनिहितद्विजिह्वः ॥ २०२५ ॥
मुक्ता इमा इति जलं नलिनेषु लीनं
ज्ञातृत्वमेतदिति जाड्यमिनेषु लग्नम् ।
यज्ज्ञायते किमपि हन्त विमोहनी सा
शक्तिः श्रियः स्फुरति कापि तदाश्रयायाः ॥ २०२६ ॥
घ्नन्त्यद्भुतप्रहरणा विपिनेषु केपि
घ्राणेन केचन दृशाथ रसज्ञयान्ये ।
ते केपि सन्ति तु नरेन्द्रगृहेषु हिंस्रा
वाचैव ये विरचयन्ति किलोपघातम् ॥ २०२७ ॥
ज्योतीरसाश्मन इवाश्रितमीश्वरस्य
निर्दग्धुमिन्धनमिवाग्रगतं न शक्ताः ।
पश्चाद्भवेद्यदि स तत्प्रसृतावकाशाः
कुर्युः खला रविकरा इव भस्मशेषम् ॥ २०२८ ।।
कापिलं हर्षट कोट्टं नीतवान्मण्डलेशिताम् ।
उदयैः कोट्टभृत्यानां संग्रहं कम्पनाधिपः ॥ २०२९ ॥
१ शरद्देश्येनाष्टम इत्युचितम् । अष्टमस्तरङ्गः ।
कुर्वञ्शय्यां पुनर्नेतुं मण्डलं तयलम्बत |
दिनानि कतिचित्तत्र यावत्प्रकृतिदुर्जनैः ॥ २०३० ॥
विटैरसूयाविषमैः प्रसादावसरो नृपः ।
तावत्कलुषतां तस्मिन्नुपजापैरनीयत ॥ २०३१ ॥
चक्कलकम् ॥
१७५
राजा भवन्परः कोस्तु सुविचारहढक्रियः ।
एषोपि शिशुवद्भूभृद्यत्र धूर्तैः प्रर्त्यते ॥ २०३२ ॥
शैशवे बालिशप्रायैः संस्तुतैर्जाड्यमर्पितम् ।
प्रौढावपि न वा यायाद्राज्ञः कार्ण्य मणेरिव ॥ २०३३ ॥
भृत्यान्तरापरिज्ञानमात्रेण जगतीभुजाम् ।
निरागसो वज्रपातः कष्टं राष्ट्रस्य जायते ॥ २०३४ ॥
कृत्येव्यवसितेसाध्ये हास्यः स्याल्लक्ष्मकादिवत् ।
सुजि: प्रायोजि राजातैर्निर्जेतुमिति लोहरम् ॥ २०३५ ॥
निर्व्यूढाद्भुतकार्येथ तस्मिन्ब्रह्मास्त्रतुल्यया ।
अमोघया प्रजहस्ते पापाः पैशुन्यविद्यया ॥ २०३६ ॥
गाम्भीर्यालक्ष्यविकृतैः प्रीत्यालापैर्महीपतेः ।
प्रत्यायातः कलुषतां नाशासीत्कम्पनापतिः ॥ २०३७ ॥
प्रकृत्या तस्य निहतया शङ्कास्य तादृशम् ।
प्रियं कृतवतश्च स्यादविश्वासोथवा कथम् ॥ २०३८ ॥
प्रीतिरासीन नृपतेस्तत्कृत्यैरुचितैरपि ।
अप्रियप्रमदालापैर्विरक्तस्येव कामिनः ॥ २०३९ ॥
जित्वा राष्ट्रद्वयं प्रादां हारितं नृपतेरिति ।
बहुमानेन दर्पाच्च स्वच्छन्दं स व्यवाहरत् ॥ २०४० ॥
१ विकृतेः इत्युचितम् । ९७६ राजतरङ्गिणी
पौरानगारहरणाद्यपकारैर्निरङ्कुशाः ।
तद्वन्धवो बाधमाना विरागमनयजनम् ॥ २०४१ ॥
निजागःस्मरणात्कोष्ठेश्वरो न व्यश्वसीन्नृपे ।
न पितृव्येपि भूपालकोपाविष्कृतविक्रिये ॥ २०४२ ॥
कोशं प्रजोपतापेन संचिन्वन्सुजिना समम् ।
संबन्धकृञ्चित्ररथो नाभूद्भिमतः प्रभोः ॥ २०४३ ॥
धन्योदयौ नृपः सुजिदाक्षिण्यालक्ष्यसौहृदः ।
अपुष्णा द्रविणैर्मूढं राजपुर्यो कृतस्थिती ॥ २०४४ ॥
तौ चावालगतौ शीतज्वरनष्टपरिच्छदौ ।
मल्लार्जुनस्य साम्राज्यभ्रंशेपि विपुलश्रियः ॥ २०४५ ॥
सुज्जिद्वेषात्पुरा दूतैराहूतो लक्ष्मकेण यः ।
आगच्छत्सञ्जपालः स प्राप राजपुरीं तदा ॥ २०४६ ॥
सुज्जिचित्ररथाभ्यां तं रुद्धचेष्टेन भूभुजा ।
अविसृष्टप्रवेशाज्ञं दूतैर्मल्लार्जुनोभजत् ॥ २०४७ ॥
तन्निमित्तं स केनापि सामन्तेन सहाध्वनि ।
संजातकलहे शस्त्रक्षतो लक्ष्म्या व्ययुज्यत ॥ २०४८ ॥
तथाभूतमपि स्वर्ण भूर्युरीकृत्य नाशकत् ।
यत्तं मल्लार्जुनो नेतुं कार्यक्षैस्तदपूज्यत ॥ २०४९ ॥
सोस्वतत्रेण राज्ञा च सौजन्याद्रिल्हणेन च ।
दूतैः प्रच्छन्नमाहूतो रभसादाययौ ततः ॥ २०५० ॥
न न्यघ्न त्र चेद्धन्युर्माममुत्रेति चिन्तयन् ।
अमित्रविषमे मार्गे पुरं साहसिकोविशत् ॥ २०५१ ॥
स कन्यकुलगौडादिमण्डलेषु महीभुजाम् ।
स्पर्धया लब्धसत्कारो भूपतेर्मत्रियन्त्रिताम् ॥ २०५२ ॥
अनवाप्य निजे देशे सत्क्रियां दुःखितोभवत् ।
राजधा॑न्यन्तिकैः पौरैः प्रस्नुतानु aamirar ॥ २०५३ ॥
भूपालोगणयित्वाथ मत्रिणो दत्तदर्शनः ।
भेजे स्वहस्तताम्बूलदानप्रक्रिययैव तम् ॥ २०५४ ॥
निष्किचनोपि सत्ख्यातिमात्रेणानुगतो जनैः ।
यातायातं नृपगृहे कुर्वञ्शनकम्पयत् ॥ २०५५ ॥
व्याहारव्यवहारादि व्यालोक्यालौकिकाकृतेः ।
पुरुषान्तरवित्सुज्जिस्तस्य स्वैरमवेपत ॥ २०५६ ॥
दध्यौ सोथ ध्रुवं राष्ट्रखर्वसर्वकषक्रियम् ।
नैवमेवाद्भुतं भूतमेतादृक्शान्तिमेष्यति ॥ २०५७ ॥
तांस्तान्देशान्तरे वीरानुत्सिक्तान्दृष्टवान्स च ।
तं पर्यालोच्य विश्रान्ति सोत्सेकानाममन्यत । २०५८ ।।
भवितव्यतया दर्पेणाथ नीतः स्वतन्त्रताम् |
परिवादावहं सुजिस्ततो यत्तद्व्यवाहरत् ॥ २०५९ ॥
स्वानुगैर्लुण्ठितं रूक्षमाचक्षाणं रुपा द्विजम् ।
प्रासैर्मडवराज्यस्थः स सृगालमिवावधीत् ।। २०६० ॥
बाह्ये कुकर्मणा तेन विलाव्य जनमागतम् |
तं प्रत्युग्रक्रियं लोको विरागं नगरेप्यगात् ॥ २०६१ ॥
अत्रान्तरे बन्धुमेकं व्यधुः कमलियादयः ।
अगण्यप्रायमुत्सेकादुत्तमप्रक्रियास्पदम्
मयि सत्यपरोपि स्यात्किमनुग्राहकः स्मयात् ।
अकारि चारणप्रायस्तादृक्कोपीति सुजिना ॥ २०६३ ॥
संजातयौनसंबन्धबन्धः कमलियादिभिः ।
॥ २०६२ ॥
अथास्याक्षिगतोत्यर्थं सामर्थ्याद्रिल्हणोप्यभूत् ॥ २०६४ ॥
१ राजधान्यन्तिके इति स्यात् । २ विलोकितः इति स्यात् ।
२३ १७७ १७८ राजतरङ्गिणी
अल्पेन हेतुनोद्भूतं द्वैतं तेषां च तस्य च ।
खलपैशुनसेकैस्तत्प्रापाशु शतशाखताम् ॥ २०६५ ॥
प्रकृत्योत्सिक्तमुत्सेकावहैः समुददीपिपत् ।
दुर्मत्रैर्विग्रहश्चाग्रे साहदेविस्तमुल्हणः ॥ २०६६ ॥
असमानां सहास्माभिः क्षमते समशीर्षिकाम् ।
कृतघ्नोयमिति स्वैरं मन्युं राज्ञ्यपि सोग्रहीत् ॥ २०६७ ॥
बिभ्यत्तु भूपतिस्तस्माद्रिल्हणं वाह्यभृत्यवत् ।
मत्रस्वैरकथाद्येषु विस्रम्भेषु व्यवर्जयत् ॥ २०६८ ॥
स तु धूर्तत्व दुर्लक्ष्यतादृक्षस्वामिवैकृतः ।
स्वेषां धैर्य परेषां तु संत्रासं माययातनोत् ॥ २०६९ ॥
समग्रशक्तिराकाङ्क्षयसंस्तवः पक्षयोईयोः ।
तस्य तु प्रययौ सजपालो दानेन मित्रताम् ॥ २०७० ॥
संनद्धयोः प्रविशतोरन्योन्यस्पर्धया तयोः ।
क्षणे क्षणे राजधानी ययौ संभ्रमलोलताम् ॥ २०७१ ॥
सुज्जिः स भूपानाक्षेतुं प्रतिपक्षान्युयुत्सया |
महीमानोत्सवास्थाने संक्षोभमुदपादयत् ॥ २०७२ ॥
कृकाटिकान्यस्तहस्तो द्वाःस्थेनावेदितो हि सः ।
तं निर्भर्त्स्य शिलाक्षेपं क्रोधरूक्ष्माक्षरोकरोत् ॥ २०७३ ॥
लिखितैरिव तान्सर्वैः सोढुं रक्षणमीशितुः ।
मिथ्या तथ्यमिवोदीर्य संग्रश्नद्भिः समर्थताम् ॥ २०७४ ॥
उपावेशयदभ्यर्णे भूपतिः परिसान्त्व्य तम् ।
सत्यस्मिन्नास्ति नः किंचिदित्यन्तस्तु व्यचिन्तयत् ॥२०७५॥
चक्रे मडवराज्यस्थैरथ प्रायो द्विजातिभिः ।
न सुज्जेः कम्पनेशत्वमिच्छाम इति वादिभिः ॥ २०७६ ॥
अष्टमस्तरङ्गः ।
अन्विष्य विद्विषः शङ्कां मत्रविन्निशि रिल्हणः ।
संनद्धसैन्यमानिन्ये पञ्चचन्द्रं तदप्रियम् ॥ २०७७ ॥
शशङ्के सजपालाच्च तस्माच्च बहुसैनिकात् ।
सुजिरन्यानगणयन्नबुद्धास्य च तद्रिपुः ॥ २०७८ ॥
आस्कन्दभीत्या निर्गत्य हयारोहै: समं गृहात् ।
व्यूढानीको निरुद्धातो जजागाराथ सोध्वनि ॥ २०७९ ॥
भूपतिप्रातिलोम्येन वर्तमानस्तदाभवत् ।
कोष्टेश्वरोपि संनद्धः सुजिना बद्धसौहृदः ॥ २०८० ॥
स्थितमप्रातिलोम्येन सोवधीन्मनुजेश्वरम् ।
इति द्वेष्योपि नितरां द्वेष्यतां नृपतेरगात् ॥ २०८१ ॥
तथा स्थिते निशीथिन्यामाचख्युस्तस्य विद्विषः ।
दुभुक्षाहेतुतां राज्ञः स्वगुप्त्यै तेन या कृता ॥ २०८२ ॥
अतथ्यं तथ्यवद्वस्तु तथ्यं वातथ्यवन्नृपः ।
यः पश्येन्मूढवत्सोर्थैस्त्यतोनर्यैः कदर्थ्यते ॥ २०८३ ॥
रत्नज्योतिर्हुतवहधिया त्यज्यते दृष्टिपातः
श्यावाक्षाणामितरविषयः ः स्वस्य संभाव्यते च ।
वस्त्वेकैकं यदिह न मृषा तन्मृषा यन्मृषा त-
त्तथ्येनेत्थं किमिव न जनैर्दृश्यते तत्त्वशून्यैः ॥ २०८४ ॥
राजाथ तद्वधादन्यदजानन्दौस्थ्यभेषजम् ।
न्ययुङ्क तस्य तीक्ष्णत्वे सज्जपालं महौजसः ॥ २०८५ ॥
स कापुरुषवद्वीरः प्रहर्तुं छद्मनाक्षमः ।
काङ्क्षनाक्षिप्य तं हन्तुं तत्र तत्रैक्षत क्षणम् ॥ २०८६ ॥
मायाप्रयोगानन्योन्यमुद्दिश्य स्पृशतोर्द्वयोः ।
क्षणे क्षणेभजद्राष्ट्रं त्रासोल्लासविलोलताम् ॥ २०८७ ॥
राजतरङ्गिणी
प्रत्याशयोदयं रात्रौ सुजौ जाग्रति पूर्ववत् ।
अव्यग्रयामिकग्रामं राजधामाप्यजायत । २०८८ ॥
राष्ट्रान्निर्वासने रिल्हणस्य सुजेरभीप्सिते ।
पार्थिवोप्यनुमन्ताभूदनीशः प्रत्यवस्थितौ ॥ २०८९ ॥
स निर्यियासुरामत्र्य तत्वेदात्क्षुभिताः प्रजाः ।
संदर्य द्वारपतिना राज्ञो युक्त्या समर्थितः ॥ २०९० ॥
संमत्र्य नृपति मैत्रीप्रार्थिना सुजिना समम् ।
पीत्वा कोशं सजपालः प्राप्तो राज्ञो व्यजिज्ञपत् ॥ २०९१ ॥
प्रेरणादुल्हणादीनां स्वोत्सेकाञ्चैष वर्तते ।
राजन्सुजेरभिप्रायः स्पर्धिनोन्याननिच्छतः ॥ २०९२ ॥
निहस्योपकर्तुश्च मते स्याद्यदि मे नृपः ।
निर्वास्य रिल्हणं चित्ररथं बवा महाधनम् ॥ २०९३ ॥
लोहरारब्धिनिर्नष्टानश्वान्कोशं च भूपतेः ।
नयेयं संभृतो हन्यां दुर्वृत्तमपि कोष्टकम् ॥ २०९४ ॥
कार्योपरोधान्निर्बन्धः संबन्धेष्वेव नास्ति मे ।
दाक्षिण्यं स्वामिनः कृत्ये यस्य प्राणास्तृणोपमाः ॥ २०९५॥
मध्येथ प्रतिराजादिनिर्जयस्वीकृतोद्यमे ।
युवा विश्रान्तचित्तोयं नृपश्रीभोगभाग्भवेत् ॥ २०९६ ॥
साहायकाय द्वारेशमुल्हणं रिल्हणाश्रये ।
कार्यव्राते च मामीशमाकारयितुमिच्छति ॥ २०९७ ॥
ब्रूते च मामुल्हणं च त्वं चाहं चाविभेदिनः ।
मिलिता यत्र तत्रास्ति गण्यः को नु नृपास्पदे ॥ २०९८ ॥
१ मय्येव इति स्यात् । अष्टमस्तरङ्गः ।
इहस्था नवदायादमेकमानीय कंचन |
निदध्मोस्य पदे राज्ञो नानुतिष्ठेदिदं यदि ॥ २०९९ ॥
गुणान्प्रसरणत्रासाद्वन्धायेव गिरां सृजन् ।
द्विजांशुभनया राजाथ विनिःश्वस्याब्रवीद्वचः ॥ २१०० ॥
यथाह स तथैवैतन्न द्रोहो नासमर्थता ।
नौदासीन्यमथैतस्मिन्संभाव्यमभिमानिनि ॥ २१०१ ॥
निष्प्रतिद्वन्द्वभावोस्य दुरुच्छेदो भवेदिति ।
इयमप्यन्यतस्ताव दस्त्वपायधियः कथा ॥ २१०२ ॥
किं तु दूये य आकोपप्राथम्यात्तथ्यतोपि वा ।
निद्रहस्य वधो ध्यातो योस्यासौ कार्य एव तत् ॥ २१०३ ॥
अर्थोयमल्पसत्त्वानामस्माभिर्हि मत्रितः ।
नूनं तेनोपलभ्येत तानावर्जयता धनैः ॥ २१०४ ॥
पुण्यैरपरिहार्यैः स्वैर्जाड्यैर्वा मादृशाममी ।
जानतामपि जायन्ते निर्गुणा भोगभागिनः ॥ २१०५ ॥
बालिशान्गृह्णतां प्रायश्चित्तमेतन्महीभुजाम् ।
तन्मौर्यस्य फलं मूढैरेतैर्यदनुभूयते ॥ २१०६ ॥
दुर्गमो भूमिभृन्मार्गो विढैर्हट्टवृषैरिव ।
900000..
१८१.
॥ २१०७ ॥
तन्वाना व्रतवैमुख्यं रसनालौल्यशालिनः ।
परपिण्डोपहर्तारः खलाः कौलेयका अपि ॥ २१०८ ॥
इत्थं खलोपतापेन प्रयुक्तं तद्भयात्पुनः ।
असंहार्य कुकर्मेंदं पश्चात्तापाय नो भवेत् ॥ २१०९ ॥
इत्युदीर्य नृपः सुजेः सजो व्यापादसिद्धये ।
तमजागारयच्छश्वज्जागरं चाग्रहीत्स्वयम् ॥ २११० ॥
बिभ्रन्मस्रुतेः शङ्कां जिघांसुः सुजिरित्यपि |
तथ्यं भृत्यवचो जानंस्तस्थौ दौस्थ्येन पार्थिवः ॥ २१११ ॥
गत्वा स्वयं गृहान्यौनसंबन्धं कुरुतां युवाम् ।
इत्युक्त्वा रिल्हणेनाथ स सुद्धिं समयोजयत् ॥ २११२ ॥
विश्वास्यापि तथा हन्तुं तं प्रसङ्गमनाप्नुवन् ।
उदताम्यद्दिवारात्रं तल्पोपर्यवशं. लुठन् ॥ २११३ ॥
सज्जपाले गृहाद्वन्धुनाशदुःखिन्यनागते ।
आशङ्कय साहसासिद्धिमधिकं पर्यतप्यत ॥ २११४ ॥
निपत्य वीरशयने सुस्सलक्ष्मापसत्क्रियाम् ।
भ्रातरो यस्य कल्याणराजाद्या व्यस्मरन्युधि ॥ २११५ ॥
सेनानी: कुलराजः स ख्यातो व्यायामविद्यया ।
प्राणैरानृण्यमिच्छंस्तमपृच्छच्छोककारणम् ॥ २११६ ॥
युग्मम् ॥
स संस्थापयितुं हन्तुं वाप्यशक्यं न्यवेदयत् ।
तस्याप्रतिसमाधेयं कम्पनाधीश्वराद्भयम् ॥ २११७ ॥
कियदेतन्निजप्राणमात्रलभ्यं महीभुजाम् ।
इत्याभाष्य स जग्राह साहसाध्यवसायताम् ॥ २११८ ॥
दिनद्वयमनायातो गृहेभ्यः कम्पनापतिः ।
न प्रातिभाव्यमभजत्तस्य मृत्योः श्रियोथवा ॥ २११९ ॥
वित्रम्भभृत्यः शृङ्गारनामा चाप्यब्रवीत्प्रभोः ।
तं दृष्टवस्तृतीयेह्नि शयनेवगणं स्थितम् ॥ २१२० ॥
शोभोपयोगिनो भर्तुर्नित्यं सततसेवकाः ।
कर्तुं साहससाचिव्यं विदूरेण तु पार्यते ॥ २१२१ ॥
करे पिनाको मकराङ्कशत्रोः
शोभाविशेषाय सदानुषक्तः ।
पुराहवे कार्मुककर्म तस्य
तत्कालमाप्तेन तु मन्दरेण ॥ २१२२ ॥
ताम्बूलहारकव्याजात्ततो राजा व्यसर्जयत् ।
कुलराजं तमव्याजधैर्यासंलक्ष्यविक्रियम् ॥ २१२३ ॥
ध्रुवं मृत्युः पुनर्नाहमागन्ता तत्ततोस्य कः ।
आरभोत स निन्ये न ताम्बूलं स्वर्णभाजने ॥ २१२४ ॥
व्यसनप्रशमं राशः स्वदेहत्यागतोनुगाः ।
एवं कर्तुं यतन्तेन्ये निर्व्यूढौ स्खलिताः पुनः ॥ २१२५ ॥
सगणो वागणो वास्तु निहतो नियतं मया ।
जानात्वतः परं देव इत्युदीर्य विनिर्ययौ ॥ २१२६ ॥
गतस्य साहसासिद्धौ शक्यं शङ्कयं पलायनम् ।
.................... ....….
१८३
.…......
१ पृष्ट्वा इति स्यात् ।
॥ २१२७ ॥
व्रजन्स्वामिहितं कृत्वा पुनः पश्चान्निनाय सः ।
शस्त्रिणौ द्वौ मिषाच्छख्यौ बन्धस्थाने परामृषन् ॥२१२८॥
स्वयं गृहीत्वा ताम्बूलं राज्ञा प्रहित इत्यथ ।
द्वाःस्थेनावेदितः सुजेः पार्श्व रुद्धानुगोविशत् ॥ २१२९ ॥
ददर्शोच्चावचैस्तं च मितैः परिजनैर्युतम् ।
यूथनाथमिवात्यल्पैर्द्विपैररहितान्तिकम् ॥ २१३० ॥
गृहीतवन्दितस्वामिताम्बूल: सस्मितं स तम् ।
कृत्यादि नृपतेः सत्कृत्य व्यसृजत्क्षणात् ॥ २१३१ ॥
जनप्रवेशाशङ्की स त्वरमाणस्तमब्रवीत् ।
कृतागाः कोपि कैवर्तशस्त्रभृन्मत्समाश्रितः ॥ २१३२ ॥
तस्याक्षेपपरान्भृत्यान्स्वान्निवार्याधुना तव ।
संमान्या वयमित्यग्रे लक्षयन्प्रकृतिक्षणम् ॥ २१३३ ॥
सोत्सेकामिव तां वाचं स दर्पावधीरयन् ।
तस्य रूक्षाक्षरं नाहं कुर्यामित्यब्रवीद्वचः ॥ २१३४ ॥
स रोषादिव निर्गच्छन्मान्योसाविति वादिभिः ।
तं सान्त्वयित्वा तद्भृत्यै रुवा व्यावर्तितः पुनः ॥ २१३५ ॥
तेनावादि ततः कर्तुं विज्ञप्तिं वस्तुनोमुतः ।
सज्जयोरादिश द्वारप्रवेशं भृत्ययोर्मम ॥ २१३६ ॥
अवशेनेव तेनाथ वीक्ष्य तौ संप्रवेशितौ ।
सहायलाभाद्दुभ्रुक्षुः प्रजिहीर्षुरवर्तत ॥ २१३७ ॥
याताद्य कुर्या प्रातर्वो विधेयमिति तान्वदन् ।
दत्तपृष्ठो विशिश्वसुस्तल्पे सुजिर्जहौ वपुः ॥ २१३८ ॥
गत्वाथ किंचिद्यावृत्तो निष्कृष्टक्षुरिको जवात् ।
प्राहरत्कुलराजोस्य वामे पार्श्वे कृतत्वरः ॥ २१३९ ॥
तस्य धिक्कुर्वतो द्रोहमधावत्क्षुरिकां प्रति ।
यावत्पाणिः प्रहरणं तावत्सर्वेपि ते व्यधुः ॥ २१४० ॥
विमर्षः पश्यतां यावदाशङ्कये तत्र नोद्ययौ ।
स तावदेव सुचिरापेतश्वास इवाभवत् ॥ २१४१ ॥
भयत्यक्ताभिमानेषु विद्रुतेष्वनुजीविषु ।
चकर्ष शस्त्रं तत्रैकः पञ्चदेवः परं तदा ॥ २१४२ ॥
प्रहरंस्तैस्त्रिभिस्तुल्यप्रतिप्रहृतिभिः क्षतः ।
भ्राम्यन्स्रुतासृक्तस्मात्स मण्डपान्निरवास्यत ॥ २१४३ ॥
स्थितान्दत्तार्गले धाम्नि रुद्धद्धारतमोरयः ।
जिघांसवः सुजिभृत्यास्ततस्तान्पर्यवारयन् ॥ २१४४ ॥
तमोरिप्रतिकुर्वाणा भज्यमानेरिभिर्व्यधुः ।
ते द्वारे तूलशय्यां तां प्रोत्सार्य शवमुद्धृतम् ॥ २१४५ ॥
खड्गे पुशूलपरशुक्षुरिकाश्माभिवर्षिणः ।
तान्स संभ्रमयन्मार्गैरनेकैस्ते विविक्षवः ॥ २१४६ ॥
नैराश्यहेतोर्विशतां तेषां संकटवर्तिभिः ।
पृष्ठाच्छित्वा शिरः सुजेरङ्गनेक्षिप्यताथ तैः ॥ २१४७ ॥
अननिःसरणाभीक्ष्णशुक्लेक्षणपुटश्रुति ।
उत्तरौष्ठकचच्छन्नसन्नघ्राणपुटद्वयम् ॥ २१४८ ॥
अक्ष्णोर्वम्भ्रम्यमाणस्य लोकस्य प्रतिबिम्बकैः ।
संभाव्य मानसंस्पन्दस्तोकप्रव्यक्ततारकम् ॥ २१४९ ॥
स्थपुटस्याक्रमच्छेदाद्गलमांसस्य संधिषु ।
हरिद्रारिवाश्यान मेदोग्रन्थिभिरुल्वणम् ॥ २१५० ॥
धूलिध्वस्तकचश्मश्रु तदेतदिति निश्चयम् ।
परं भालतलस्थेन ददत्कुङ्कुमविन्दुना ॥ २१५१ ॥
तद्वीक्ष्य तिर्यक्पतनव्यक्तसंध्यन्तरद्विजम् ।
उच्चलत्तुमुलाकन्दा भृत्याः क्वापि विदुद्रुवुः ॥ २१५२ ॥
कुलकम् ॥
तीक्ष्णान्प्रयुज्य क्षमापस्तु तिष्ठन्व्याकुलधीस्तदा ।
बहिर्वीक्ष्य जनक्षोभं साहसं निश्चिकाय तम् ॥ २१५३ ॥
सुजौ हते क्षते वापि कार्यमेतदिति द्रुतम् ।
संनह्य सैन्यस्यादिक्षत्स तन्मन्दिरवेष्टनम् ॥ २१५४ ॥
मिथ्यैव सुजिर्निस्तीर्ण इति श्रुतवता जनात् ।
स्वयमग्राहि भूपेन ततः समरसंभ्रमः ॥ २१५५ ॥
२४ ९८६ राजतरङ्गिणी
निःसंशयं हतं ज्ञात्वा सुजि राजोपजीविनः ।
तत्र स्थितं शिवरथं सर्वद्वेष्यमवन्धयन् ॥ २१५६ ॥
हिल्लात्मजन्मनः सुजिभ्रातृस्यालस्य कौशलम् ।
कलहस्याद्य निर्वर्ण्य वाणीयं पुण्यभागिनी ॥ २१५७ ॥
आक्षिप्यमाणैर्भिक्ष्वाद्यैरन्ते वीरोचितं कृतम् ।
तेन त्वसंशयस्थेन सदाचारान्न विच्युतम् ॥ २१५८ ।।
राजौकस्येव तां वार्ता श्रुत्वा स ह्यपलायितः ।
हृतस्य स्वामिनोभ्यर्ण जिहासुर्जीवितं ययौ ॥ २१५९ ॥
द्वारं पदप्रहृतिभिर्भञ्जन्तं राजसैनिकाः ।
अपसार्य कथंचित्तं तीक्ष्णाः कृच्छ्रादरक्षिषुः ॥ २१६० ॥
प्रविष्टेस्मिन्ननिर्व्यूढपीडिते मण्डपान्तरम् ।
लब्धप्राणा नृपाभ्यर्णे कुलराजादयो ययुः ॥ २१६१ ॥
हठप्रविष्टो हतवान्स तत्रैकं महाभटम् ।
शरैरेव हतो दूरात्कथंचित्परिपन्थिभिः ॥ २१६२ ॥
आयातं क्षुभिते देशे सजपालं महीपतिः ।
रिल्हणं चोल्हणं हन्तुं प्राहिणोद्विहितत्वरः ॥ २१६३ ॥
यातो मार्गात्पलाय्यायं परिशङ्कयेति रिल्हणः ।
क्षिप्तिकातटपर्यन्तमटित्वा यावदाययौ ॥ २१६४ ॥
पूर्वायातः सजपालो गृहद्वाराद्विनिर्यतः ।
उल्हणस्य पथो रुन्धन्सुबहून्प्रहरणे ॥ २१६५ ॥
तावदेकस्य खगेन निकृत्ते दोष्णि दक्षिणे ।
त्वयात्रशेषे च्छिन्नास्थिस्नायुग्रन्थिरजायत ॥ २१६६ ॥
तिलकम् ॥
अगण्यप्रायतां प्राप्ते वंशे यत्कौशलादसौ ।
दिगन्तरेषु स्वस्मिंश्च देशे प्राप प्रथां पुनः ॥ २१६७ ॥
फलकाले समासने शौर्यप्रतिभुवाभजत् ।
स तेन दोष्णा वैकल्यं धिगिच्छां विधुरां विधेः ॥ २१६८ ॥
स प्राग्वदुद्यावाप्तौ भवेदविकलो यदि ।
फलेन तस्य जानीयादिच्छां लोकोयमद्भुताम् ॥ २१६९ ॥
पीतामृतस्य क्षतविग्रहत्वं
१८७
न प्राभविष्यद्यदि नाम राहोः ।
अज्ञास्यदिच्छां तदमुष्य लोकः
सामर्थ्यभाजः सुचिरप्ररूढाम् ॥ २१७० ॥
दृष्टः शीलाभिधो वृद्धः पितृव्यः साहदेविना ।
सस्पृहं निहतः संख्ये साधुर्जातव्रणार्तिना ॥ २१७१ ॥
तस्यार्त्या विशतो वेश्म जजलाख्योग्रगो हतः ।
मान्योनुगो भटो द्वौ च यामिकश्च जनंगमः ॥ २१७२ ॥
बालं तनयमालोक्य निषण्णस्याङ्गनस्थितेः ।
तस्यानिर्गच्छतो गेहे रिल्हणोनिमदापयत् ॥ २१७३ ॥
आनीयमानो धूमान्धो बना मुख्यैः स सैनिकैः ।
गृहद्वारे हतः कैश्चित्प्राकृतैर्वणविक्लवः ॥ २१७४ ॥
तस्य प्रधानप्रकृतिक्षयहेतोर्महीपतिः ।
मुण्डमप्यवलोक्यासीदशान्तक्रोधविक्रियः ॥ २१७५ ॥
व्यापाद्यमानाः साकोपं भूपतिप्रेरितैर्भटैः ।
उच्चावचाः सुजिभृत्याः कृत्यं सत्त्वोचितं व्यधुः ॥ २१७६ ॥
अनुजो लक्ष्मकः सुजेर्बवानीतः स विक्रियाम् ।
नृपं वीक्ष्यायैः कैश्चिद्राजधान्यङ्गने हतः ॥ २१७७ ॥
भ्राता पितृव्यजस्तस्य सङ्गटाख्यो नृपाङ्गने ।
खुटनट इव प्राणानौचित्येनामुचकृती ॥ २१७८ ॥
राजतरङ्गिणी
प्रविष्टः शरणं बाणवंश्यैः पापैः प्रमापितः ।
उन्मत्तो मुम्मुनिस्तस्य भ्राता कैश्चित्स्वमन्दिरे ॥ २१७९ ॥
सुजिस्यालस्तु शृङ्गारवृत्त्याभङ्गुरया हतः ।
महाकुलीनो विचरन्नौचित्येन च चित्रियः ॥ २१८० ॥
सङ्गिकाख्यः प्रतीहारो व्रणितः शनकैर्हतः ।
अन्येपि संश्रिताः सुज्जेस्तत्र तत्र प्रमिम्यिरे ॥ २१८१ ॥
जात्यवाजिजवप्राप्तप्राणाः कोटेश्वरान्तिकम् ।
आसाद्य वीरपालाद्या द्वित्रा मृत्युभयं जहुः ॥ २१८२ ॥
व्रजञ्शरदि यो दुष्टोत्थानरुद्धतुरंगमः ।
प्रपेदे सङ्गटभ्राता बन्धनं सुभटामठे ॥ २१८३ ॥
सूनुश्च सजल: सुजेः श्वेतिकश्चाग्रजात्मजः ।
उल्हणस्य तनूजश्च कारागारं प्रपेदिरे ॥ २१८४ ॥
इत्थं राजन्यमाये च प्राप्ते पिशुनवश्यताम् ।
नवमेब्दे शुचेः शुक्लपञ्चम्यां विप्लवोभवत् ॥ २१८५ ॥
कार्ये कापि विपर्यस्तसत्त्वं संस्मृत्य मन्त्रिणम् ।
तमद्यापि नृपस्तारम्भृत्योपेतोनुतप्यते ॥ २१८६ ॥
वेतालोत्थापनाच्छुभ्रलङ्घनाद्विषचर्वणात् ।
व्यालाश्लेषाच विषमं सत्यं राजोपसेवनम् ॥ २१८७ ॥
अनात्मायत्तनिस्तीर्णगुणानां चक्रवर्तिनाम् ।
शकटानामिवाग्रस्थो विश्वस्तः को न भज्यते ॥ २१८८ ॥
अयुक्तं नृपतिः सुजिवधं मेने प्रजाः पुनः ।
युक्तं ज्ञात्वा तमुद्रितशक्तितां विविदुः प्र॒जाः ॥ २१८९ ॥
भेजे राजा सजपालं कम्पनाधिपतिं ददत् ।
कुलराजे च नगराधीकारित्वं समार्पयत् ॥ २१९० ॥
१ क्वाप्यविपर्यस्त इति स्यात् । २ प्रभोः इति स्यात् । अष्टमस्तरङ्गः ।
त्यक्त्वा मल्लार्जुनं धन्योदयौ नगरमागतौ ।
प्राग्वत्पुनर्जजृम्भाते प्रियौ विश्वंभराभुजः ॥ २१९१ ॥
इतराश्रयविच्छेदा वीतपारिप्लवस्थितिः ।
श्रीः सर्वाकारमकरोत्स्थिरं चित्ररथे पदम् ॥ २१९२ ॥
अद्भुतैश्वर्यधुर्योपि राष्ट्र दण्डेन पीडयन् ।
शमं नेतुमशक्योभूत्स भूपस्याप्यनङ्कुशः ॥ २१९३ ॥
गन्धर्वानाभिधे ग्रामे टिक्कं हत्वा व्यसर्जयत् ।
पारेविशोकं कोट्टेशस्तच्छिरः पार्थिवान्तिकम् ॥ २१९४ ॥
निसर्गद्वेषिणा प्राप्तप्रतापे नितरां नृपे ।
तदानीं तप्यमानेन दूतेनाप्यायितोसकृत् ॥ २१९५ ॥
कोष्टेश्वरेण रभसादल्पैः परिजनैर्युतः ।
निशि लोठनदेवः स हाडिग्रामं ततोविशत् ॥ २१९६ ॥
महाकथितकन्थोन्यैः संरब्धे राशि सर्वतः ।
बद्धसंधिलवन्यस्तं विससर्ज यथागतम् ॥ २१९७ ॥
उच्चलादिवदादातुं राज्यं स रभसं भजन् ।
निर्व्यूढिशून्यदायगान्मूढो लोकस्य हास्यताम् ॥ २१९८ ॥
तीक्ष्णप्रयुक्तिभिः सैन्यभेदैरन्यैश्च कोष्टकम् ।
उपायैर्नृपतिस्तैस्तैस्ततो हन्तुं व्यचिन्तयत् ॥ २१९९ ॥
प्रतिद्वन्द्वीव तीक्ष्णानां पाटिताक्षः क्षमाभुजाम् ।
न संप्रसादयत्क्रुद्धः प्रतियोद्धुं त्वचिन्तयत् ॥ २२०० ॥
स्वैः स्वैः प्रदेशैरादिश्य प्रवेष्टुं पृतनापतीन् ।
स्वयमुच्चावचैः सैन्यैरवचस्कन्द तं पुनः ॥ २२०१ ॥
स भूपं रभसायातं ज्ञात्वाल्पपृतनं बली ।
प्राप्तश्छलयितुं तस्थौ प्रतापैः परिहारितः ॥ २२०२ ॥
लग्ने रणे चित्ररथः पृथुसैन्योपि दैवतः ।
तस्य सैन्येकदेशेन निन्ये जयविपर्ययम् ॥ २२०२ ॥
भङ्गना मङ्गलोंकारकल्पेन किल तेन सः ।
ततः प्रभ्रत्यभूद्भ्रश्यदवष्टम्भो दिने दिने ॥ २२०४ ॥
रिल्हणादीन्योधयित्वा व्यूढव्यस्ताखिखाजुगः ।
वन्यो न्यपतत्सायं कम्पनाधिपतेर्वैटी ॥ २२०५ ॥
ऊनैः हाताद्पि भटेयतो विद्धुतसेनिकः ।
सह तत्सेन्यरोषं ख गजक्षोभमिवाचखः ॥ २२०६ ॥
किं वाच्यः स नरव्याघ्रः प्रवृद्धि याति संगरे ।
निजवर्मतजु्ादि यस्य माति न वष्मणि ॥ २२०७ ॥
मन्दीङतारिसंरम्भमवष्ठम्भेन तादद्या ।
तं त्रद्ठकाद्यः प्रापुरवन्याः सेन्यशािनः ॥ २२०८ ॥
तैः सजातीयदाक्षिण्यात्तरस्थेरपि संकटे ।
तस्येषदुपयोगोभूत्स्ववीयौपास्तविद्धिषः ॥ २२०९ ॥
काटे संनहनं रािजागरः सामतो बलः ।
समये श्रहणत्यागतत्तदयुकिविकट्पनम् ॥ २२१० ॥
रब्धभूम्यपरित्यागो जिगीषोरीदरोणेः ।
चखेयुरर्योप्यस्य का वैयाक्रमणे स्तुतिः ॥ २२११ ॥
अविश्वसन्भिन्नथरत्यस्तादक्संरम्भपीडितः
पलायनोन्मुखः दोटात्कोष्टकोथ व्यगाहत ॥ २२१२ ॥
भागेष्वकाटग्राखेयपातर्देषु वाजिनाम् ।
गन्तुं तस्योयमं जघुः प्ृरृष्ठलघ्ना विरोधिनः ॥ २२१३ ॥
अवमानोपतक्षोथ परिमेयपरिच्छद्ः ।
स ययो जाहवी स्नातुं राज्ञा राषट्रादपाङ्तः ॥ २२१४ ॥
सोमपालोथ भूपालनाम्ना पुत्रेण खेदितः ।
दीर्घद्वैराज्यदुःखार्तः शरणं नृपतिं ययौ ॥ २२१५ ॥
पुत्रौ दत्तवतो नीवीं नागपालस्य तस्य च ।
अभयं प्रतिशुश्राव भूभृदाश्रितवत्सलः ॥ २२१६ ॥
बृहद्राजस्य जिझोयं दौःस्थ्यहेतुरभूदिति ।
स तदापदि नास्मार्षीदव्याजौदार्यधुर्यधीः ॥ २२१७ ॥
साहायकाय स्वं सैन्यं दत्तवांस्तं महीपतिः ।
भूयः प्रतिष्ठामनयद्दपप्रशमनाद्विषाम् ॥ २२१८ ॥
स्नात्वा धुनद्यां व्यावृत्तः कोष्टकोत्रान्तरे पुनः ।
मल्लार्जुनं गृहीत्वाभूद्वैराज्योत्थापनोद्यतः ॥ २२१९ ॥
अर्कोपरागे प्राप्तः स कुरुक्षेत्रमवाप तम् ।
लवन्यं कार्यतस्त्यतपूर्ववैरो नृपात्मजः || २२२० ॥
आहूतो लोठनः पूर्वमायातस्तेन डामरम् ।
निशम्य तं संघटितं खिन्नः प्रायाद्यथागतम् ॥ २२२१ ॥
विजयेशाग्रतः पीतकोशोपि नृपतिद्विषः ।
प्रविविक्षूनुपैक्षिष्ट सोमपालो दुराशयः ॥ २२२२ ॥
आराधनाय भूभर्तुस्तत्पुत्रः कोष्टकं पुनः ।
प्राप्तं स्वविषयैस्तैस्तैष्ठकुरैर्निरलुण्ठयत् ॥ २२२३ ॥
अत्रान्तरे चित्ररथं संवृद्धायासदुर्ब्रहम् ।
अनिच्छन्तोवन्तिपुरे प्रायं चक्रुर्द्विजातयः ॥ २२२४ ॥
उपेक्ष्यमाणास्ते दर्पात्तेनागणितभूभुजा ।
ज्वलिते ज्वलने देहान्बहवो जुहुवुः शुचा ॥ २२२५ ॥
चरके धर्मधेनूनामुत्तब्धेपि तदाश्रितैः ।
वह्नि गोपालकोप्येकः कारुण्यप्रवणोविशत् ॥ २२२६ ॥
१ स्वविषये इत्युचितम् । १९२ राजतरङ्गिणी
भट्टस्योद्भटवंशस्य पृथ्वीराजस्य नन्दनः ।
युवा विजयराजाख्यः सानुजो गाढदुर्गतः ॥ २२२७ ॥
देशान्तरं जिगमिषुर्विषमं वीक्ष्य तत्र तत् ।
व्याजहारानुजन्मानं कारुण्यास्रुकणान्किरन् ॥ २२२८ ॥
उपेक्ष्यमाणा दाक्षिण्यस्तम्भितेन महीभुजा ।
विशः सचिवपाशेन विवशाः पश्य नाशिताः ॥ २२२९ ॥
छन्दानुवृत्त्यामात्यानां यत्र क्ष्माभृदुपेक्षते ।
कस्तत्रान्यस्तु दीनानामापच्छमयिता विशाम् ॥ २२३० ॥
यद्वा न्यायोयमन्योन्यस्पर्धया यदुपप्लुतम् ।
शमिता दण्डयेच्छाम्यं शमितारं परोथवा ॥ २२३१ ॥
विशृङ्खलं नयेच्छय्यां दार्ढ्यसारं विघट्टनैः ।
कदाचिल्लोहमश्मानमश्मा लोहं कदाचन ॥ २२३२ ॥
दोषेणैकेन न द्वेष्यो राजा सर्वगुणोज्वलः ।
वधाञ्चित्ररथस्यान्यद्विधेयं नावभाति मे ॥ २२३३ ॥
धर्मः सर्वोपकार्येकक्षुद्रक्षपणमुच्यते ।
जघानाजगरं सोपि जन्तूनामन्तकं जिनः ॥ २२३४ ॥
दुर्वृत्तदमनेस्माभिः कृते तेजस्विनो जनात् ।
भूयोप्यधिकृतो बिभ्यन्न कश्चित्पीडयेत्प्रजाः ॥ २२३५ ॥
कायस्यास्य परित्यागादनन्ता जन्तवो यदि ।
सुखिनः स्युरसौ भ्रातर्वणिज्या ज्यायसी न किम्॥२२३६॥
संशुश्रुवांसं स तथेत्यथ तं कोशपीथिनम् ।
विधायानुससारैत्य हन्तुं चित्ररथं तदा ॥ २२३७ ॥
कालेऽस्मिन्धर्मदौर्बल्यकलुषेपि कलेः किल ।
प्रभावो भूमिदेवानां द्योततेद्याप्यभङ्गुरः ॥ २२३८ ।
ब्राह्मणैरपरिक्षीणपूर्णपुण्यो न कश्चन ।
धैर्यमारभते भ्रष्टदुष्टोत्पाटनपाटवैः ॥ २२३९ ॥
द्विजानुद्वेजयन्सुजिर्द्विजादेवासदद्वधम्
।
विप्रेणैव हतश्चित्ररथो विप्रावमानकृत् ॥ २२४० ॥
द्विजोत्थापितया क्रान्तचित्तोसौ कृत्यया ध्रुवम् ।
दध्यौ तस्य वधं प्राणान्विना कारण मुत्सृजन् ॥ २२४१ ॥
कृशानुसादकृषत विप्रा देहान्यदैव ते ।
तद्वेषस्तुल्यसंघर्षे तदैवासीद्धतानुगः ॥ २२४२ ॥
अनासादयतश्चित्ररथं पृथुवलान्वितम् ।
१९३
गणरात्रमभूद्धन्तुर्दिवारात्रं प्रजागरः ॥ २२४३ ॥
स ह्यपर्यन्तसामन्तसीमन्तितपथो व्रजन् ।
अभूददृश्यो दृश्यश्च जनसंवाघमध्यगः ॥ २२४४ ॥
तेन साश्चर्यनैश्चल्यनिष्टुरेणैकदा जवात् ।
सोनुसत्रे व्यतिक्रान्तनिःश्रेणिर्नृपवेश्मनि ॥ २२४५ ॥
विलम्बितस्य स्तम्बाये कृपाण्या मूर्यथास्य सः ।
सामन्तमध्यगस्यैव प्राहरत्तीव्रसाहसः ॥ २२४६ ॥
मुमूर्षोरिव तत्रास्य वैहल्यगलितस्मृतेः ।
उद्भ्रान्तचक्षुषो वर्चव्यवनं समपद्यत ॥ २२४७ ॥
प्रमापितोयं राज्ञेति ज्ञात्वा सत्त्वबहिष्कृताः ।
वित्रस्तास्तं तथाभूतमत्यजन्ननुजीविनः ॥ २२४८ ॥
तं वीतजीवितं ज्ञात्वा न तीक्ष्णः प्राहरत्पुनः ।
प्राप्तं द्वितीयनिःश्रेण्या भ्रातरं निषिषेध च ॥ २२४९ ॥
न पलायिष्ट निर्विघ्नसर्वमार्गोपि घातितः ।
राशा चित्ररथः शश्वदित्युच्चैः प्रोच्चकार सः ॥ २२५० ॥
१ स्तम्भाग्रे इति स्यात् । २५ राजतरङ्गिणी
प्रष्टं भृष्टमांसादिराज्यभोगपुरःसरैः ।
सर्वैः कापुरुषैत्रासादथ चित्ररथानुमैः ॥ २२५१ ॥
ज्यायाल्लोठरथस्तस्य भ्राता भीत्या पलायितः ।
शरणं नर्तकीमेकां ययौ वार्पितस्तनः ॥ २२५२ ॥
ताइक्प्रवेशितश्चित्ररथोभ्यर्ण महीभुजा ।
मा भैषी: प्राहरत्कस्त्वामित्युक्त्वाश्वासितः स्वयम् ॥ २२५३॥
नृपाज्ञया को निहन्ता द्वारेशस्येति वादिभिः ।
तीक्ष्णोन्विष्टो भटैः सोहमित्युक्त्वा स्वं न्यदर्शयत् ॥ २२५४ ॥
धीरो योधान्स्वधैर्यात्तु लङ्कनं लाध्यविक्रमः ।
त्रिंशद्विशान्स हत्वाथ प्रहृत्य च रणे हृतः ॥ २२५५ ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ २२५६ ॥
लब्धा लिखिततत्कृत्यकारणात्पत्रिका करात् ।
तस्यान्तसमयाशंसा श्लोकेनानेन पावनी ॥ २२५७ ॥
अरुच्युन्माददीनत्वयुतश्चित्ररथस्ततः ।
रूढव्रणोपि लालाटसंधिवेधादजायत ॥ २२५८ ॥
स मासान्पञ्चषान्याप्य निराप्यायकृशाकृतिः ।
विवेष्टमानोवर्तिष्ट शयनीयतलेन्वहम् ॥ २२५९ ॥
मल्लार्जुनं पुरस्कृत्य कोष्टको विप्लवोन्मुखः ।
तन्मध्ये तरुसंबाधं गिरिदुर्गमगाहत ॥ २२६० ॥
मा मामभ्रमयं भ्राम्यन्स्वयूथ्यग्रसनोद्यमात् ।
अविस्मृतापदं लोकं पुनर्वैराज्यशङ्कितम् ॥ २२६१ ॥
अकाण्डाम्बुदजाड्येन पीडिताङ्ग इवाभजत् ।
परचक्रोदयेनाशु लोकः शिथिलशक्तिताम् ॥ २२६२ ॥
१ प्रणष्टं इति स्यात् । ३ लङ्घयन् इति स्यात् । १९५ अष्टमस्तरङ्गः ।
तरुदुर्ग तदकृशक्रोशव्याप्यथं सर्वतः ।
व्याप्तोपान्तवनग्रामैः सचिवैः स न्यरोधयत् ॥ २२६३ ॥
सज्जपाले यवनकैः स्कन्धावारं निबध्नति ।
अनुचक्रुर्द्विषोस्पन्दान्निवातस्तिमितांस्तरून् ॥ २२६४ ॥
धन्योपि शिलकाकोष्टपर्यस्त कटकोभवत् ।
गन्धद्वेषी गजरिपुः सिन्धुरस्येव वैरिणः ॥ २२६५ ॥
आवासितबलो राज्ञा गोवासे रिल्हणोकरोत् ।
अटवीं पर्यटन्यूकानिवार्कों बुडितानरीन् ॥ २२६६ ॥
तीव्रशक्तेर्नृपस्यैवमारम्भैः स्तम्भितोभजत् ।
कोष्टेश्वरस्त्रिचतुरान्मासान्संचारशून्यताम् ॥ २२६७ ॥
क्लिष्टो देशान्तरे राष्ट्रानन्तरैर्यकृतो नृपैः ।
भिन्नस्ववर्गो भूभर्तृभृत्यव्यर्थीकृतोद्यमः ॥ २२६८ ॥
बालिशत्वादकुशलो ज्ञातुं वृत्ति महीभुजाम् ।
स विस्मृतागाः संघातुमैच्छच्छिन्नपदो नृपम् ॥ २२६९ ॥
उज्जिहीर्षोः प्रभोर्मन्युं वाच्यं तद्वष्वनाद्विदन् ।
भक्त्येकाग्रः सज्जपालस्तस्येच्छां तामपूरयत् ॥ २२७० ॥
तथान्तपि रिपुं राज्ञः संधिसुर्व्यग्रहीन्न सः ।
पृथ्वीहरप्रसूतानां निहत्वं न कौतुकम् ॥ २२७१ ॥
तेन ग्रहिण्वता राजवैरिणं स्वकराङ्गुलिम् ।
छिन्दतापि महीभर्तुर्मन्यु छेत्तुं न पारितः ॥ २२७२ ॥
कण्ठबद्धशिरःशाटः शीर्षेणोपानहं वहन् ।
भुक्तवेलोपि भूपालं कर्तुं नाशकदक्रुधम् ॥ २२७३ ॥
अस्वीकृतद्वित्रभूभृल्लाञ्छनः स हि राजवत् ।
तत्तत्प्रत्युक्तभूपाज्ञः सर्व गर्वाद्यवाहरत् ॥ २२७४ ॥
शुश्राव बद्धं तन्मध्ये यातं मल्लार्जुनं नृपः ।
अनुबध्नाति भव्यानामुदयेभ्युदयान्तरम् ॥ २२७५ ॥
नीयमानः स हि स्कन्धमधिरोप्यानुजीविभिः ।
अजामिकतया मार्गोल्लङ्घनाय स निःसहः ॥ २२७६ ॥
ततस्ततो भयस्थानान्निस्तीर्णो लोहराश्रितम् ।
सावर्णिकाभिधं ग्रामं प्राप्तो विन्यस्तरक्षिणा ॥ २२७७ ॥
निरुद्धो जग्गिकाख्येन ठक्कुरेण महीपतिः ।
प्रियंकरं तं च भृत्यं शुश्रावान्तिकमागतम् ॥ २२७८ ॥
बद्धप्रायोरिणा दुर्गान्निर्गतः स कथंचन |
बद्धस्तेन पुनः शक्तिः कस्य भाव्यर्थलङ्घने ॥ २२७९ ॥
गङ्गा धुमार्गलुठिता जठरात्कथंचि
देकस्य संहृतवतो निसृता महर्षेः ।
ग्रस्तापरेण कृतसागरगर्तपूर्ति::
शक्तो न कोपि भवितव्यविलङ्घनायाम् ॥ २२८० ॥
जग्गिके बद्धसंप्राप्तिपर्यन्तोपान्तरक्षिणि ।
राज्ञोदयद्वारपतिः प्रायोजि प्राज्यबुद्धिना ॥ २२८१ ॥
तं विना धैर्यगाम्भीर्यशौर्यधुर्य महाधियम् ।
संकटे नह्यवष्टम्भो राज्ञाज्ञाय्यन्यमत्रिणाम् ॥ २२८२ ॥
स ह्यतिक्रम्य सावाधान्मार्गानुभयवैतनैः ।
तमोरिस्थितमद्राक्षीत्तं क्षमापतिविद्विषम् ॥ २२८३ ॥
निष्ठाशून्येन धैर्येण शौर्यसंभावनावहः ।
स्तुवन्स तं बहिःप्राप्तं तत्तदुक्त्वाब्रवीत्पुनः ॥ २२८४ ॥
सर्वतो ज्यायसीं भर्तृभक्तिं यो बहु मन्यते ।
भवान्धुर्यो मतिमतामहृतो लोभनान्तरैः ॥ २२८५ ॥
कृता रक्षामणिसमं सहायं त्वादृशं विना ।
हानि दुर्नरेन्द्रस्य बाल्ये राज्ये बहुच्छलैः ॥ २२८६ ॥
दुष्प्रेक्ष्याणां भवत्येव नियमाद्राजभास्वताम् ।
भाग्यान्तहेमन्तदिने जननेत्रविलङ्घयता ॥ २२८७ ॥
शोभते रुधिराताम्रमण्डलाग्रो यथोदये ।
तथा योस्तमये भास्वानिव वन्द्यः स भूपतिः ॥ २२८८ ॥
धन्योवतारो यस्यासीत्क्षुभ्यत्पौराङ्गनाजनः ।
उदयेस्तमयेप्यु रागव्यग्राप्सरोगणः ॥ २२८९ ॥
पदे प्रयोगं लब्ध्वार्थ किंचित्कृत्वा कुलीनवत् ।
अहं कविरिव प्रौढैः प्राप्तो निर्व्यूढिमूढताम् ॥ २२९० ॥
सत्यंकारोधुना भूत्वा विधत्तां स्वान्तसुस्थितिम् ।
साध्यत्वानतिवृत्तेन वरेणैकेन मे भवान् ॥ २२९१ ॥
इत्युक्त्वा प्रत्ययोत्पत्त्यै संस्प्रष्टुं स्फाटिकं ततः ।
स पीठं पुरतो द्वारपतेर्लिङ्गमुपानयत् ॥ २२९२ ॥
अच्छलाहवसंमर्दप्रासशूलेषुवर्षिणः ।
योधान्योद्धुं वरं सायं मानवान्नूनमिच्छति ॥ २२९३ ॥
इति संभाव्य संस्पृष्टशिवलिङ्गः स वाञ्छितम् ।
वरं तस्योररीचक्रे स च भूयो जगाद तम् ॥ २२९४ ॥
अकृष्टदृष्टिरहतः क्ष्माभुजोन्तिकमक्षतः ।
यथेहगेव प्राप्नोषि तथा त्वामर्थयेधुना ॥ २२९५ ॥
कार्पण्योपहतं तस्य वचः श्रुत्वा त्रपाजडाः ।
सर्वेप्युर्वीमुखास्तस्थुर्वृष्ट्यार्द्राः पल्लवा इव ॥ २२९६ ॥
अन्तक्षणस्ततो भिक्षोः स्मर्यमाणः स चेतसाम् ।
विकासहेतुतां प्राप स्वस्थस्य मनसः पुनः ॥ २२९७ ॥
१. अप्रौढः इति स्यात् । २. प्राप्नोमि इति स्यात् । राजतरङ्गिणी
मनुष्यवाह्यमारूढः पत्रं निन्ये स नित्रपः ।
तेन स्वपालिताल्लोकानपि पश्यन्नविक्रियम् ॥ २२९८ ॥
अहीनाहारनिद्रादिवैवश्यः पशुवत्पथि ।
कृष्यमाणः स केनापि न विकल्पेन पस्पृशे ॥ २२९९ ॥
पश्यन्नानीयमानं तं गोष्तृभिस्तादृशं जनः ।
दयार्द्रहृदयश्चासीन्नाभ्यनन्दच्च भूभुजम् ॥ २३०० ॥
उवाच चानुकम्प्येस्मिञ्जन्मज्येष्ठस्य भूपतेः ।
नैतावद्भाति नैर्घृण्यमनुजे पितृवर्जिते ॥ २३०१ ॥
आसेचनकमेतस्य मेचकाजदृशो वपुः ।
क्लेशगर्ह्यमनिस्त्रिंशचेताः कः कर्तुमर्हति ॥ २३०२ ॥
पूर्वापरानुसंधानवन्ध्यस्तं दृष्टवांस्तदा ।
विस्मृतागा नृपं तत्तदित्युपालभताध्वनि ॥ २३०३ ॥
गणना काथ वा बालबालिशादौ विधीयते ।
न चित्तवृत्तेरैकाग्र्यं महतामपि सर्वदा ॥ २३०४ ॥
श्रोतॄणां द्यूतपाञ्चालीकेशकृष्ट्यादि शृण्वताम् ।
पाण्डवेभ्योधिकः क्रोधो धार्तराष्ट्र जायते ॥ २३०५ ॥
कुरूणां क्षतजापाने भग्नोरोर्मूर्घताडने ।
श्रुते पाण्डवविद्वेषस्तेषामेव च दृश्यते ॥ २३०६ ॥
परावरज्ञः कार्याणां न कश्चिन्मध्यमं विना ।
तटस्थेनुभवाभेदस्तत्र तत्र कथं भवेत् ॥ २३०७ ॥
स पौरान्रोदयन्नङ्केच्छिन्नाङ्गुल्यकमुद्वहन् ।
युग्याधिरूढो मृत्पात्रं सायं नगरमासदत् ॥ २३०८ ॥
न्यधत्ताश्वयुजा शुक्लपञ्चदश्यां महीपतिः ।
एकादशेब्दे तं रक्षियुतं नवमठान्तरे ॥ २३०९ ॥
व्यक्ताहारस्य च निशाः पञ्चषास्तस्य ताम्यतः ।
पार्श्व जगाम कारुण्याञ्चरणस्पर्शनार्थिनः ॥ २३१० ॥
अवादीदर्शितं तस्मै प्रतिशुश्रुवुषेभयम् ।
द्रोहावेकान्ततो वध्यौ स चित्ररथकोष्टकौ ॥ २३११ ॥
राजा निर्जग्मुषः स्वोर्वी कोष्टकस्याथ बन्धनम् ।
विधित्सुः पञ्चषानाप्तान्रिल्हणादीनचूचुदत् ।। २३१२ ॥
सर्वेषु गलितौजःसु स्वयं राज्युद्यमस्पृशि |
अथ तं रिहणो दो झषं ग्राह इवाग्रहीत् ॥ २३१३ ॥
हृतशस्त्रः स बलिनस्तस्य दोषपञ्जरान्तरे |
तस्थावचेष्टो निद्रान्धो भूतेनेवासमीकृतः ॥ २३१४ ॥
भ्रातृव्यो भिःखराजाख्यः कुलराजस्य कोपनः ।
भूभृद्भक्त्या कृपाण्यास्य निर्बिभेद कृकाटिकाम् ॥ २३१५ ॥
परश्वधेन मूर्येनं पृथ्वीपालञ्च ताडयन् ।
राजबीजी स च क्रोधान्यषिध्यत महीभुजा ॥ २३१६ ॥
कृकाटिकास्थसंजातमर्मवेधोपचेष्टितः ।
विवेष्टमानोवर्तिष्ट क्षितौ स रुधिरोक्षितः ॥ २३१७ ॥
महाबलैः कमलियप्रमुखैस्तस्य सोदरः ।
चतुष्कः पातितोप्युर्व्या गण्डशैल इव द्विपैः ॥ २३१८ ॥
विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनौ तथा ।
कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥ २३१९ ॥
उच्चावचेषु प्रहरन्स भूपालोपजीविषु ।
अतर्क्यमाणस्तुमुलं राशैवालक्ष्यतापतन् ॥ २३२० ॥
नृपान्तिकादापततस्तांस्तान्घ्नन्तं महाभटान् ।
अधावत्सासिधेनुस्तं कुलराजो महौजसम् ॥ २३२१ ॥
राजतरङ्गिणी
प्रतिप्रहृतिषु क्षिप्रापतत्पाणिमपारयन् ।
निहन्तुं संरुरोधेव भित्तौ व्यायामवित्स तम् ॥ २३२२ ॥
अपयातुमवस्थातुं प्रहर्तुं वाप्यशक्नुवन् ।
तस्थौ च बहुसंधानः संस्तभ्यैनमविक्षतम् ॥ २३२३ ॥
चरणास्फालनोत्फालदोःशब्दमुखरोन्तिकम्
।
धाविते पद्मराजेथ मल्लाकोक्षिपदीक्षणम् ॥ २३२४ ॥
प्राहरत्कुलराजोस्य लब्धरन्ध्रोथ चक्षसि ।
प्रहृत्य गच्छतः पाणेः स तस्याङ्गुष्ठमक्षिणोत् ॥ २३२५ ॥
तौ विजराजो दर्पोष्णनिबिडं प्रहरत्युभौ ।
तस्मिन्प्रतिप्रहरति क्षिप्रं प्राहरतां ततः ॥ २३२६ ॥
स त्रीनप्यभियोक्तॄंस्तांस्त्यक्त्वा दृक्पथमागतम् ।
चतुष्किकाद्वारगतं राजानं समुपाद्रवत् ॥ २३२७ ॥
लक्ष्यीभूते नृपे शीघ्रमनुधावन्ससंभ्रमम् ।
चकार कुलराजस्तं स्फिगस्थिक्षतिनिर्जवम् ॥ २३२८ ॥
ततः सर्वैर्वृतो योधैः क्लीबालीबान्स सत्वरम् ।
हत्वाभजद्वीरशय्यां रक्तस्यन्दोत्तरच्छदाम् ॥ २३२९ ॥
जीवद्यापद्गतस्वामिवीक्षितः श्लाघ्यविक्रमः ।
स एव स्पृहणीयान्तक्षणो वीरेष्वगण्यत ॥ २३३० ॥
बहिः कोष्टकभृत्येषु विद्रुतेष्वदरिद्रताम् ।
परं जनकचन्द्राख्यो धैर्येणोवाह डामरः ॥ २३३१ ॥
निरायुधो राजभृत्याद्धृत्वैकस्मात्परश्वधम् ।
स ह्ययुद्धाग्रदूतत्वं नयन्भूरीन्यमान्तिके ॥ २३३२ ॥
यियासोस्तस्य चण्डांशुमण्डलं परशुः करे |
सुषुम्णासंविभागार्थी शशिखण्ड इवाविशत् ॥ २३३३ ॥
नाद्राक्ष्म नाश्रौष्म वापि बद्धे भर्तरि यत्तदा ।
कोष्टकस्य वधूरन्वतिष्ठन्मानवती सती ॥ २३३४ ॥
जीवन्भूयोपि लभ्येत त्वया स पतिरित्यसौ ।
बन्धूनामवधीयक्ति प्राविशद्यद्भुताशनम् ॥ २३३५ ॥
२०१
सप्तर्षियोषिदालेपतर्षकिल्विषदूषितः ।
तस्या सतीलोकगायाः पादाभ्यां पावितोनलः ॥ २३३६ ॥
वसन्तस्य सुता धन्योदयभ्रातुः पुपोष सा |
शुचिवंशाभिमानेन न डामरवधूव्रतम् ॥ २३३७॥
लवन्यललनाः कुर्युर्वैधव्येपि धनेच्छया ।
ग्रामकार्यिकुटुम्ब्यादीन्नितम्बाभोगभागिनः ॥ २३३८ ॥
मतिव्यामोहनिर्व्यूढवैक्लव्यस्याभिमानिनः ।
तयानुगाभ्यां च कृतं कोष्टकस्योच्चकैः शिरः ॥ २३३९ ॥
रूढव्रणोपि क्रिमिसाद्भूतः कैरपि किल्बिषैः ।
निष्प्राणो गणरात्रेण कारायां कोष्टकोभवत् ॥ २३४० ॥
अथ चित्ररथः शोषकृशः कलुषितं नृपम् ।
श्रुत्वा मल्लार्जुनेनाभूद्भयादत्यन्त दुःखितः ॥ २३४१ ॥
पत्नी तस्यैकभार्यस्य प्रिया सूर्यमती सती ।
परलोकातिथिः पूर्व विभवप्रतिभूरभूत् ॥ २३४२ ॥
देहे याप्यहताप्याये गेहे गतपरिग्रहे ।
पत्यौ वैमत्यकलुषे नेपदप्येष पिप्रिये ॥ २३४३ ॥
तीर्थस्थितस्य न स्यान्मे सागसोप्यप्रियं नृपात् ।
इति संचिन्त्य स प्रायान्मिषान्मर्तु सुरेश्वरीम् ॥ २३४४ ॥
अथ नानार्थभूयिष्ठां धनाधीशाधिकश्रियः ।
स्थानात्ततस्ततस्तस्य पार्थिवोपाहरच्छ्रियम् ॥ २३४५ ॥
२६ २०२ राजतरङ्गिणी
कनकांशुकसंनाहवाजिरत्नायुधादिभिः ।
स्वा स्वा प्रकाशिता लक्ष्मीः स्पर्धयेवाधिकाधिका ॥२३४६॥
लोहरद्रोहघर्मोष्मशोषितो राजपादयः ।
तल्लक्ष्मीशैलतटिनीसेकेनाप्यायितोभवत् ॥ २३४७ ॥
विप्लवे चिरनष्टेपि श्रीकल्याणपुरं न यः ।
वनवासोचितत्रासः साल्वः सौमिवात्यजत् ॥ २३४८ ॥
श्वेतच्छन्त्रांशुपतेव चिन्तापाण्डुरवर्तत ।
बन्दीकृता नरेन्द्र श्रीर्निर्निद्रा यस्य मन्दिरे ॥ २३४९ ॥
राज्ञा प्रयुक्तं विज्ञाय विजयः स भवोद्भवः ।
तीक्ष्णमानन्दनामानमवधीत्तेन चावधि ॥ २३५० ॥
तिलकम् ॥
इत्थं स पप्रथे तादृक्प्रजापालनशालिनः ।
सर्वोत्साहमयोनेहा जयसिंहमहीभुजः ॥ २३५१ ॥
तीर्थस्थिते चित्ररथे पादाग्रग्रहणैषिणौ ।
शृङ्गारजनकावास्तां तद्भृत्यौ व्यक्तचाक्रिकौ ॥ २३५२ ॥
प्रचुरोत्कोचदानेन स्वीकृत्य नृपतिं ययौ ।
शृङ्गारो भग्नजनकः स्वामिश्रीभोगभागिताम् ॥ २३५३ ॥
चिरप्रचलितं द्वारमुदये निदधे पुनः ।
मेघकालः सरित्पूरं प्रतीर इव पार्थिवः ॥ २३५४ ॥
अवश्यभोग्यदुष्कर्मदत्तमर्मव्यथश्चिरम् ।
कथाशेषोभवच्चित्ररथो मासैरथाष्टभिः ॥ २३५५ ॥
हास्यावहोण्यविकृतो विकृतोनपास्यो
दुर्गन्धिरप्यतिजडोपि गृहीतवाक्यः ।
१. साल्वः सौभमिव इति स्यात् । शा अष्टमस्तरङ्गः ।
पूर्वानुभावजयिनो भवति प्रभावा-
द्यस्य स्तुमस्तमतिसंस्तवमप्रतम् ॥ २३५६ ॥
निन्द्यैराद्यूतनाद्यैर्यश्चेष्टितैः प्रागभीष्टताम् ।
बाल्ये दुर्ललितस्यागाद्भूभर्तुश्चित्रचेतसः ॥ २३५७ ॥
विसृज्यमानः संप्राप्तसाम्राज्येन दिवानिशम् ।
क्लमात्स्वीकृत्य ताम्बूलं तेन चित्ररथान्तिकम् ॥ २३५८ ॥
दूत्यैः कृत्यान्तरशत्वं प्राप्तवानाप्ततां गतः ।
तदन्ते घटयत्राशस्तद्भृत्यान्कोशदर्शकान् ॥ २३५९ ॥
तदा सर्वोन्नताशेषमत्रिशून्ये नृपास्पदे ।
सञ्जकस्यात्मजः प्राप शृङ्गारो मुख्यमंत्रिताम् ॥ २३६० ॥
चक्रलकम् ॥
२०३
तस्य वैधेयताभ्यस्तकुदृष्टेरपि दुष्कृताम् ।
नातः पात्रार्पणातुच्छत्यागित्वेनापि संपदः ॥ २३६१ ॥
योषित्कशिपुभोग्येन धन्यंमन्योपि सोभवत् ।
धान्यदानवदन्यत्वं गुरूणामाजगाम यत् ॥ २३६२ ॥
पीठं कृतवतो रूप्यं संयोज्य रजतैर्निजैः ।
विद्यमानं सुरेश्वर्या सायुज्यं तस्य युज्यते ॥ २३६३ ॥
उर्वीशैरपि नार्वाग्भिर्यानुगन्तुमशक्यत ।
आषाढ्यामाढ्य संभारो निबिडद्रविणव्ययः ॥ २३६४ ॥
नन्दिक्षेत्रे स तत्राद्यैः प्रणीतश्चण्पकादिभिः ।
तेन कालानुसारेण पोषितः पञ्चषाः समाः ॥ २३६५ ॥
नर्माङ्गतायां निःसारो ज्ञातो यः सोधिकारभाक् ।
अचिन्त्यकृत्यकार्यासीत्स्वामिस्नेहप्रभावतः ॥ २३६६ ॥
१ आद्यूनताद्यैः इति स्यात् । राजतरङ्गिणी
केलीसजैर्युवतिकरजैः कण्ठभूषादशायां
यस्याज्ञायि त्रुटनमसकृत्क्ष्माधरेष्वासकृष्टौ ।
सोप्यादिष्टस्त्रिपुररिपुणा प्राप भङ्गं न भोगी
शक्त्याधायी क्वचन न परो भर्तुराज्ञाप्रभावात् ॥ २३६७
तं च रिल्हणधन्यौ च समाश्रित्येतरेतरम् ।
कार्य जनक शृङ्गाराबुत्कोचेनापजहतुः ॥ २३६८ ॥
कदाचिजनकं बढ़ा सार्धं भूषणमौक्तिकैः ।
सपुत्रदारं शृङ्गारं वाष्पबिन्दूनमोचयत् ॥ २३६९ ॥
स तं च जातु निर्विद्य मानहीनमकारयत् ।
रूक्षरक्ष्यर्पितोत्कोचधनाभ्यर्थितमैथुनः ॥ २३७० ॥
अङ्गुष्टनखनिर्घर्षनर्तितानामिकोर्मिकः ।
वदन्वामोत्तरौष्ठाग्रोदञ्चनैः कुरुतेक्षणः ॥ २३७१ ॥
भ्रुभङ्गोद्वेल्लितवलीनिम्नोन्नतललाटभूः ।
पुनरेकस्तयोर्लब्धकार्यो लोकमहासयत् ॥ २३७२ ॥
तिलकम् ॥
अव्यक्ताक्षरवाग्रौक्ष्यमीलिताक्षो रटन्बहु ।
हसन्सकरतालं च संपद्यन्यो व्यभाव्यत ॥ २३७३ ॥
सोल्लेखप्रतिभोन्नीततत्वरां हास्यवस्तुनि |
कथाशरीरं पर्याप्तं न दृशां किमचेतसाम् ॥ २३७४ ॥
सर्वस्मिन्वस्तुतो वाचि काले विगतयोग्यते ।
जाने तृणनृणां तुल्ये शृङ्गारोर्हत्यगर्ह्यताम् ॥ २३७५ ॥
यः सर्वकषनिष्कम्पशेमुषीकः क्षमापतिः ।
धुर्यतां धर्मचर्याभिर्गतः सुकृतशालिनाम् ॥ २३७६ ॥
१ तत्त्वानां इति स्यात् । २ वस्तुतोर्वाचि इति स्यात् । २०५ अष्टमस्तरङ्गः ।
लब्धवोधिरिवारैर्यश्चके व्यापधुपक्रियाम् ।
दावप्रदस्य दग्धाङ्गोल्लाघत्वमिव चन्दनः ॥ २३७७ ॥
गुरुसूरिद्विजानाथप्रभृत्युचितयापि यः ।
प्रतिपत्त्या संविभेजे संविभाज्य कुटुम्बकम् ॥ २३७८ ॥
प्रासादान्विजयेशांदिदेवव्रातस्य शुद्धधीः ।
सुधादानेन निन्ये च धन्यः कैलासतुल्यताम् ॥ २३७९ ॥
मठदेवगृहारामहदकुल्यादियोजने ।
जीर्णोद्धृतिव्यसनिनस्तस्य चिन्ता निरन्तरा ॥ २३८० ॥
सकृद्दर्शितविद्वेषकार्यसब्रह्मचारिणा ।
स क्रौर्यधाम पर्याप्तमीदृगप्युच्यते जडैः ॥ २३८१ ॥
विश्वाप्यायनसप्तसिन्धुभरणब्रह्मादिसंप्रीणन-
प्रायं कृत्यमुदात्तमेक समयोपात्तेन दुष्कर्मणा |
स्वः सिन्धोर्लघुतां गतं सुरगजश्रेणीचितास्पर्शना
...ता येन जनाः श्मशानमिव सा योग्या किलानां स्थितौ ॥
तदन्तरं शिवरथो द्विजः प्रचुरचाक्रिकः ।
कायस्थपाशः पाशेन गलं बवा व्यपद्यत ॥ २३८३ ॥
इत्थं पृथ्वीपतिः कृत्वा तत्तत्कण्टकपाटनम् ।
अपेतविघ्नं सौजन्यविघ्नो व्यधित मण्डलम् ॥ २३८४ ॥
विपक्षावरणापाये प्रायेण पृथिवीभुजः ।
तैक्ष्ण्यमायान्ति जीमूतमुक्ता रविकरा इव ॥ २३८५ ॥
परिणाममनोज्ञत्वं राजरत्नं त्वयं नृपः ।
माधुर्याधिक्यमुत्पाको द्राक्षाद्रुम इवाययौ ॥ २३८६ ॥
प्रावर्तयत सातत्यात्ऋतून्विततदक्षिणान् ।
विवाहतीर्थयात्रादीन्महितांश्च महोत्सवान् ॥ २३८७ ॥
राजतरङ्गिणी
संविभेजे स्वसंभारैः स क्रियाधर्मचारिणाम् ।
तेजोभिः कुलशैलानामोषधीरिव चन्द्रमाः ॥ २३८८ ॥
प्रतिज्ञातं सुतोद्वाहप्रतिष्ठादौ पुरौकसाम् ।
तेनौपयिकसामग्रीदानमव्यग्रचेतसा ॥ २३८९ ॥
दारूणामाकराः कोशवृद्धये ये धराभुजाम् ।
नवीचक्रे पुरं सर्व स्वाधीनान्स विधाय तान् ॥ २३९० ॥
मजतो राजकार्येषु तत्त्वविद्भिरार्चने ।
विस्मितैर्वीक्ष्यते तस्य निष्ठाकाष्ठा मुनेरिव ॥ २३९१ ॥
प्राह्लादारभ्य सायाह्नपर्यन्तं चास्य दृश्यते ।
न तत्कृत्यं गता यत्र नाध्यक्षत्वं विचक्षणाः ॥ २३९२ ॥
अविचारान्धतमसे विद्या व्यद्योततान्तरा |
जयापीडादि मेघश्री सौदामन्या विलोलया ॥ २३९३ ।।
तेन श्रियं तु विश्राण्य स्थास्तुं रत्नप्रभामिव ।
गुणवैचित्र्यचित्रस्य प्रकाशोनश्वरः कृतः ॥ २३९४ ॥
सूरयो येन ........विक्षतक्षेत्रसंपदाम् ।
ग्रामाणामाग्रहाः कर्म सान्वयाः स्वामिनः कृताः ॥२३९५॥
विदुषां विततोत्सेधसौधास्तद्विहिता गृहाः ।
व्याप्ताः सप्तर्षिभिर्द्रष्टुमुत्कर्षमिव मूर्धसु ॥ २३९६ ॥
प्रतिभाप्रभवे प्रज्ञोपत्रे च पथि पान्थता ।
सार्थवाहं तमालम्ब्य निर्दोषा विदुषां स्थिता ॥ २३९७ ॥
आसीद्यथार्यराजस्य शयानस्याप्यंतिश्रियः ।
कामं लिङ्गाभिषेकाम्भःसंक्षोभप्रभवो ध्वनिः ॥ २३९८ ॥
निद्राणस्य तथा वेणुवीणादिपरिहारिणः ।
दयितं तस्य निर्द्वेषविद्वज्जल्पविकल्पनम् ॥ २३९९ ॥
१ अतिप्रियः इत्युचितम् । अष्टमस्तरङ्गः ।
काले श्रीललितादित्यावन्तिवर्मादिभूभुजाम् ।
सिद्धं न यत्प्रतिष्ठादि निष्ठां तदधुना गतम् ॥ २४०० ॥
मठदेवगृहेष्वेव स्वकालप्रभवेषु यत् ।
सर्वेष्वेव कृता तेन निर्व्यपाया व्यवस्थितिः ॥ २४०१ ॥
रत्नादेव्या दृढारूढभर्तृवल्लभताभुवः ।
सर्वप्रतिष्ठाप्रष्ठत्वं विहारः प्रथमं गतः ॥ २४०२ ॥
रिल्हणोथ गुणग्रामबान्धवो धर्मपद्धतौ ।
बभूव पूर्वपथिकः समस्तामात्यसंततेः ॥ २४०३ ॥
२०७
तपोधनाल्लब्धवर्णान्धर्मवृद्धांश्च शुद्धधीः ।
वित्रम्भभवनस्थोपि शक्तस्त्यक्तुं न यः क्वचित् ॥ २४०४ ॥
कृष्णाजिनोभयमुखीदानमुख्यैः सुकर्मभिः ।
धर्मकन्याविवाहश्च यस्याशून्यत्वमायुषः ॥ २४०५ ॥
सर्वेषामाहिताग्नीनां निष्प्रत्यूहा महात्मना ।
सर्वयागोपकरणैर्येन विश्राणितैः क्रियाः || २४०६ ॥
भोगाम्बुभुजिरे भव्यान्सन्त्रे सूत्रितविस्मये ।
यस्य वर्णाश्चतुःषष्टिः कुदृष्ट्यस्पृष्टचेतसः ॥ २४०७ ॥
अग्रहारगणोदयैर्विततैर्मठसेतुभिः ।
पुरे परिष्कृते येन द्वयोः प्रवरसेनयोः ॥ २४०८ ॥
आद्ये प्रवरभूभर्तुः पत्तने प्रत्तविस्मयः ।
प्राप्तः प्रतिष्ठाप्रष्टत्वं यत्कृतो रिल्हणेश्वरः ।। २४०९ ।।
लोकान्तरगतां कान्तां कृतिनोद्दिश्य सुस्सलाम् ।
भलेरकप्रपास्थाने विहारस्तेन कारितः ॥ २४१० ॥
मार्जार्यास्तिर्यगुचितस्त्रेहविस्मृत्यपोहतः ।
मृतामनुमृतायास्तन्नाम्ना यः ख्यातिमागतः ॥ २४११ ॥
१ गुणिग्राम इत्युचितम् । २०८ राजतरङ्गिणी
तद्भर्तुरीकालुष्ये तस्यादूराग्रगा पुरः ।
प्रदेशे मानुषीवासीत्प्रिया क्रीडाबिडालिका ॥ २४१२ ॥
तीर्थप्रस्थानदिवसादारभ्यास्याविराविणी ।
उत्सृजन्त्याहृतं भोज्यं सा शुचा जीवितं जहौ ॥ २४१३ ॥
आरोहति परां काष्ठां प्रतिष्ठाविविधाधुना ।
दिद्दा नृपतिपत्नीषु मन्त्रिस्त्रीषु तु सुस्सला ॥ २४१४ ॥
श्रीचङ्गुणविहारं या यातं नामावशेषताम् ।
अश्मप्रासादवेश्मादिकर्मणा निर्ममेधुना ॥ २४१५ ॥
अरघट्टप्रबन्धान्धुच्छात्रशालादिकर्मभिः ।
तस्याः संपूर्णतां पुण्यप्रकारा निखिला गताः ॥ २४१६ ॥
पूर्वराजकुलाखण्डस्थण्डिलव्यापिनाखिलम् ।
तद्विहारेण नगरं नीतं नेत्राभिरामताम् ॥ २४१७ ॥
प्रापि प्रतिष्ठयेवाशु यक्ष्मक्षपितया तया ।
विपत्तिः श्रीसुरेश्वर्या प्राज्यसायुज्यदूतिका ॥ २४१८ ॥
मठाग्रहारा धन्येन वल्लभाभिधया कृताः ।
नाभीष्टं लेभिरे नाम ख्याति: पुण्यैर्विना कुतः ॥ २४१९ ॥
अग्रहारमठांस्तद्वदुदयः कम्पनापतिः ।
कृत्वापि स्वाभिधामेव तत्संबद्धां सदाटणोत् ॥ २४२० ॥
उदयद्वारपतिना सह ब्रह्मपुरीगणैः ।
कृते प्रष्ठे मठे शोभां लेभे पद्मसरस्तः ॥ २४२१ ॥
शृङ्गारतन्त्रपतिना श्रीद्वारेप्यत्र्यजन्मना ।
प्रतिष्ठापि मठोद्यानदीर्घिकाद्यनघात्मना ॥ २४२२ ॥
स्नानकोष्टमठब्रह्मपुरीसेत्वादिकर्मणा ।
सोलंचकारालंकारो बृहद्गञ्जाधिपो धराम् ॥ २४२३ ॥
१ विविधाध्वना इति स्यात् । २ प्रत्यष्ठापि इत्युचितम् । अष्टमस्तरङ्गः । २०९
बुधः सदोषधीशान्तिहेतोर्जातः कलावतः ।
यः कविर्दानवत्त्वे च ख्यातस्त्यागेन योजयत् ॥ २४२४ ॥
नृसिंहसेवी निर्हिसहिरण्यकशिपुच्छिदः ।
वराहसमये दत्तगौश्च योपूर्ववैष्णवः ॥ २४२५ ॥
भट्टारकमठाभ्यर्णे पूर्णवार्धाविव प्रहः ।
मठः शृङ्गारभट्टस्य ख्यात्यानौचित्ययोज्झितः ॥ २४२६ ॥
सांधिविग्रहिको दार्वाभिसारोर्वीभुजोकरोत् ।
अष्टमूर्तेर्जट्टनामा प्रतिष्ठां पुण्यकर्मठः ॥ २४२७ ॥
पुष्पाकरप्रणयभूः सुभगा विभूति-
रेकस्य हन्त करवीरतरोद्रुमेषु ।
पुष्पाणि यस्य सफलीकुरुते स्वयं त
त्प्रादुर्भवत्किमपि लिङ्गमनङ्गशत्रोः ॥ २४२८ ॥
विभूत्या संविभक्तेषु भूभुजाखिलमत्रिषु ।
उत्कट्टकोटि भुट्टाख्यः परं जहानुजोर्हति ॥ २४२९ ॥
स्वयंभूः प्रकटीभूय पूजां स्वीकुरुते स्वयम् ।
ज्येष्टरुद्रो वसिष्ठस्य यस्य वा बालकेश्वरः ॥ २४३० ॥
सविहारमठोदग्रवेश्मभिः कैलुषोज्झितः ।
तेन तत्र कृतं भुट्टपुराख्यं पुटभेदनम् ॥ २४३१ ॥
नगरेपि हरः प्रत्यष्ठापि भुट्टेश्वराभिधः ।
सरश्च मडवग्रामे धर्मविभ्रमदर्पणः ॥ २४३२ ॥
नीत्वा प्रतिष्ठां वैकुण्ठमठादि स्वविहारभूः ।
रत्नादेव्या दृढं चक्रे स्वार्थग्रथन सुस्थिरा ॥ २४३३ ॥
रत्नापुरे बहुद्वारमहायें निरघो मठः ।
धत्ते सुकृतहंसस्य स्फीतवीतंसविभ्रमम् ॥ २४३४ ॥
१ उत्कर्षकोटिं इति स्यात् । २ कलुषोज्झितम् इति स्यात् । २१० राजतरङ्गिणी
मृत्युंजयो राजतेस्याः सुधाधौतान्भजन्गृहान् ।
जनस्यानित्यतोच्छित्यै श्वेतद्वीपं सृजन्निव ॥ २४३५ ॥
गोकुलानां विधातारो गोकुले विहिते तया ।
गणिताः शूरवर्माद्याः सतृणाभ्यवहारिणः ॥ २४३६ ॥
गवामव्याहतस्वैरसंचारचरकाञ्चिते ।
तत्र वैतस्ततोयाढ्ये यदपोढामयं वपुः ॥ २४३७ ॥
मुकुन्दस्तत्र साश्चर्य सौन्दर्यौदार्यमन्दिरम् ।
अश्वाविवर्धनधरः सिद्धो नाविश्वकर्मणः ॥ २४३८ ॥
"कृत्वा सा नन्दिक्षेत्रेकरोत्क्षितिम् ।
.......जयवनाद्येषु स्थानेषु च मनोरमान् ॥ २४३९ ॥
दार्वाभिसारेप्युर्वीश सौन्दर्यौदार्यमन्दिरम् ।
स्वनामाङ्कं पुरं चक्रे तया शकपुरोपमम् ॥ २४४० ॥
उद्दिश्योपरतान्मान्यमहत्तरमुखानपि ।
प्रतिष्ठा विविधाश्च के सा राज्ञ्याश्रितवत्सला ॥ २४४१ ॥
एवं सर्वाङ्गमामुक्तालंकृतेरथ स क्षितेः ।
विशेषकामं भूभर्तृवृषा स्वमकरोन्मठम् ॥ २४४२ ॥
अनुत्सिक्तेन यो दत्तभूरिग्रामो महीभुजा |
तज्ज्ञैरारोपितः ख्याति मुख्यः सिंहपुराख्यया ॥ २४४३ ॥
व्यधात्कारपथेशस्य दौहित्रः सिन्धुजान्द्विजान् ।
निविडान्द्राविडांश्चात्र प्राक्सिद्धच्छन्त्रमध्यगान् ॥ २४४४ ॥
किं वा मठादिनिर्माणस्तुत्या तस्य व्यधत्त यः ।
भूयः सग्रामनगरं कृत्स्नं कश्मीरमण्डलम् ॥ २४४५ ॥
जीर्णारण्यसधर्मायं कालदौरात्म्यतो भवन् ।
देशो धनजनावासैस्तेन भूयोपि योजितः ॥ २४४६ ॥
मठ" २११ अष्टमस्तरङ्गः ।
आरम्भात्प्रभृति क्षमापे दीक्षितेभीष्टदत्तिषु ।
शिल्पिप्रायैरपि प्रायो मठदेवगृहाः कृताः ॥ २४४७ ॥
सत्कोशांशुकरत्नादौ निरसूयेन भूभुजा ।
साधारणीकृते पौरास्तांस्तांश्चक्रुर्महोत्सवान् ॥ २४४८ ॥
अकाण्डतुहिनापातोदीपाद्यैरप्युपद्रवैः ।
नष्टेषु शालिष्वक्षीणं सुभिक्षं तत्र न क्षणे ॥ २४४९ ॥
अद्भुतं चाभवद्वाचः श्रुता यन्निशि रक्षसाम् ।
केत्वाद्युत्पातजातं च दृष्टं नष्टाश्च न प्रजाः ॥ २४५० ॥
कोष्टेश्वरानुजच्छुड्डनामा विहितविप्लवः ।
आहवैर्गुढदण्डैश्च राज्ञा निन्येन्तकान्तिकम् ॥ २४५१ ॥
चक्रे विक्रमराजादीन्भूपानुन्मथ्य पार्थिवः ।
प्ररोहं गुल्हणादीनां राज्ञां वल्लापुरादिषु ॥ २४५२ ॥
प्रेजेशाः कान्यकुब्जादावजर्येण नृपार्यमा ।
स व्यधाद्भव्यभूभोगवैभवानभिमानिनः ॥ २४५३ ॥
विद्योतमाने निचोद्यैर्मत्रैस्तत्रैवमेकदा ।
भेजे जीवितदारिद्र्यं दरद्वाजो यशोधरः ॥ २४५४ ॥
स भूम्यनन्तरोप्यन्तरक्षो राज्ञोतिसेवया ।
विपत्तौ प्रकृतिक्रान्तसंतानश्चिन्त्यतामगात् ॥ २४५५ ॥
निकृत्यास्य निजामात्यो विड्डसीहाभिधो यतः ।
संभुज्य दयितां राज्यमप्रौढतनयेहीत् ॥ २४५६॥
वशीकृत्य शनैर्देशं नाममात्रशिंशुं नृपम् ।
उच्छेत्तुमैच्छद्यावत्तं स जिघृक्षुः स्वयं क्षितिम् ॥ २४५७ ॥
१ शालिषु क्षीणं इत्युचितम् | २ प्रजेशान् इति स्यात् । ३ नाममात्रनृपं शिशुम् इति स्यात् । २१२ राजतरङ्गिणी
अन्योमात्यः पुरस्कृत्य यशोधरसुतं परम् ।
तावत्तेन समं भेजे पर्युकाख्यो विपर्ययम् ॥ २४५८ ॥
युग्मम् ॥
कश्मीरान्पृष्ठतः कृत्वा द्वैराज्यं तत्र कुर्वति ।
उत्सृज्य सज्जपालादीन्सर्वकार्यभरक्षमान् ॥ २४५९ ॥
हेवाकप्रतिपत्त्यान्याभिधमौग्ध्यनिरुद्धधीः ।
॥ २४६० ॥
सर्वाधिकाराद्यारोपान्मन्यमानोभिमानिताम्
पर्युकाजर्यतः सुजेरप्रौढमनुजं निजम् ।
प्रहिण्वानोनुमत्रित्वं मन्त्रशोऽप्यभजन्नृपः ॥ २४६१ ॥
तिलकम् ॥
अपूर्वमण्डलारब्धावाटोपाद्धामशालिनः ।
व सर्वकष निष्कम्पप्रतिभाः कार्यवेदिनः ॥ २४६२ ॥
व बालबालिशप्रायो नष्टव्यवहृतिर्जनः ।
धिक्परीपाकविषमं स्वाच्छन्द्यं मेदिनीभुजाम् ॥ २४६३ ॥
युग्मम् ॥
कार्यापेक्षविपक्षैस्तैरिच्छन्त्युद्रिक्तताछिदाम् ।
सैन्यक्ष्मादुर्गकोशादेर्न ईयन्त्यन्तरशताम् ॥ २४६४ ॥
प्रक्रियामात्रतो मत्रं गृह्णन्ति क्षित्यनन्तराः ।
कृतसाहायकैरेव चिन्त्या मित्रमुखा द्विषः ॥ २४६५ ॥
युक्त्यारब्धविधौ तत्र वैरिसाहायकग्रहे ।
क्व वैधेयान्बकप्रायान्कार्यसंदर्भवेदिनः ॥ २४६६ ॥
दरद्वाजद्रुमोन्योन्यभेदकूलक्षयाच्युतः
।
क्रष्टुं नाशक्यताप्रौढैः स्रोतोभिरिव मध्यगः ॥ २४६७ ॥
१ पश्यन्त्यन्तरज्ञताम् इति स्यात् । -२१३ अष्टमस्तरङ्गः ।
पर्युकात्संकटे कार्ये तं तमुत्कोचमिच्छतः ।
स दुग्धघातमादातुमप्यासीदलसक्रमः ॥ २४६८ ॥
पर्युकेण समं विडसीहः संधि निबद्धवान् ।
यथागतं गते सुजौ कश्मीरेन्द्रेग्रहीषम् ॥ २४६९ ॥
सर्वाधिकारप्रवराचिरसंचारभूरुहः ।
प्रसङ्गे तत्र शृङ्गारो मृत्युसौहित्यकार्यभूत् ॥ २४७० ॥
आलक्ष्मकान्तात्सर्वाधिकारोस्थादद्वितीयया ।
वृत्त्या ततस्तु शतधा निर्झराम्भ इवाभवत् ॥ २४७१ ॥
अन्येप्यमात्याः सांमत्याद्भर्तुर्माहात्म्यभागिनः ।
प्रमयं समये तस्मिन्दैवात्किमपि लेभिरे ॥ २४७२ ॥
प्रशंसामानृशंसस्य किं विदध्मो धराभुजः ।
मृतामात्यार्भकापत्यं निधत्ते यः पितुः पदे ॥ २४७३ ॥
प्रवर्तिता त्वमात्यानां भृत्यैः पद्धतिद्भुता ।
निर्वैलक्ष्याः प्रभोर्लक्ष्मी जहुः स्वगृहिणीमिव ॥ २४७४ ॥
भूभर्तुः प्राभृतीकृत्य मृतस्य स्वामिनः श्रियम् ।
संतानस्य विभूत्यर्थं कृत्वा कार्य हि तेहरन् ॥ २४७५ ॥
गञ्जाधिपे विश्वनाम्नि विपन्ने रक्षिता परम् ।
एकेन सहजाख्येन सहायानां महार्घता ॥ २४७६ ॥
नाध्यारुरोहाधिकारं पार्थिवेनार्थितोपि यः ।
स्वामिसुनोष्टिष्टनाम्रो बुद्ध्यै साहायकं व्यधात् ॥ २४७७ ॥
निष्ठायामप्रतिष्ठत्वं दृष्ट्वापि प्रभविष्णुभिः ।
धिक्परम्परया भृत्याः प्रवर्ध्यन्तेधिकाधिकम् ॥ २४७८ ॥
आसीदाचमनोपयोगि कलशे स्रष्टुर्जगल्लङ्घन-
क्लान्तालिमहार्यथासुररिपोस्स्रैस्रोतसं यत्पयः ।
१ वृद्ध्यै इत्युचितम् । २१४ राजतरङ्गिणी
शंभुस्तन्निदधे स्वमूर्धनि जडेप्येक प्रयुक्ताहतौ
स्युः सर्वेप्यवशा गतानुगतया गाढादाः स्वामिनः॥२४७९॥
सुजिनिर्वासनप्राप्तप्ररोहो दुर्नयद्रुमः ।
साजिजाड्यकृताप्यायः क्रमेणासीत्फलोन्मुखः ॥ २४८० |
द्वित्राः समाः समन्युः स विड्डसीहस्ततोभवत् ।
अकुण्ठराज्याधुत्कण्ठं दूतैरकृत लोठनम् ॥ २४८१ ॥
दूरादाखण्डितोत्थानः शूरमाश्रित्य भूपतिम् ।
जीवन्कृषिवणिज्यादिकर्मणा स सबान्धवः ॥ २४८२ ॥
दरदां मत्रिणां जातज्ञातेयैरभियोगभाक् ।
चक्रेलंकारचक्राद्यैर्डामरैः : सह चक्रिकाम् ॥ २४८३ ॥
युग्मम् ॥
सोप्याद्रिदुर्गस्वाम्यस्य प्रथमप्रस्थितौ सुहृत् ।
क्षुद्रो जनकभद्राख्यः पार्श्व लिप्सोर्व्यपद्यत ॥ २४८४ ॥
कर्णाटकादावभवत्स्थाने स्थाने विलोक्य तम् ।
प्रस्थितं कस्यचिद्रोहे बुद्धिः कस्यापि साधुता ॥ २४८५ ॥
तं तथा विपुलारम्भमपि शाठ्यादसंभ्रमम् ।
प्रविविक्षुमुपैक्षिष्ट कौसीद्यानुद्यमो नृपः ॥ २४८६ ॥
पोषिते प्रेषितश्रीकैरुत्पिञ्जे विप्लवैषिभिः ।
अथोदयद्वारपतिः प्रैषि विश्वंभराभुजा ॥ २४८७ ॥
संगृह्णता चे मूर्तेन पुरे शंकरवर्मणः ।
प्राप्तोलंकारचक्रस्य पार्श्वमश्रावि लोठनः ॥ २४८८ ॥
अपि विग्रहराजाख्यः सूनुः सुस्सलभूपतेः ।
भोजः
सुल्हणजन्मा च श्रुतौ तेन सहागतौ ॥ २४८९ ॥
१ सौजिजाड्य इति स्यात् । २ चमूस्तेन इति स्यात् । अष्टमस्तरङ्गः ।
अथोपह.....थान
एव तेषां स सत्वरः |
मार्ग बहुदिनोल्लङ्घय मेकेनाहा व्यलङ्घयत् ॥ २४९० ॥
सयूथ्यकन्थाग्रथनासिद्धेर्यातो विधेयताम् ।
तदास्कन्दहतस्पन्दः स पलायिष्ट डामरः ॥ २४९१ ॥
सिन्धोर्मधुमतीमुक्ताश्रियमन्तः स्थितं ततः ।
शिरः शिलाभिधं कोट्टमथ तैरधिशिश्रिये ॥ २४९२ ॥
गहने ब्रुडितः कोट्टे स्थितः किं वा स इत्यसौ ।
न निश्चिकाय द्वारेशो भ्राम्यन्दीर्घासु भूमिषु ॥ २४९३ ॥
अथोपालब्धतद्दुर्गारोहणेस्मिन्नशक्यत ।
दैवेनापि न भूभर्तुः प्रभावो निष्पराभवः ॥ २४९४ ॥
उत्थानोन्मुखतां सर्वेप्युत्पिञ्जे तत्र दस्यवः |
पाल्वलास्तिमयो वर्षपृथकृत ईवाभवन् ॥ २४९५ ॥
तैत्रिल्लकादिभिर्गृढवैकृतैरथ लोठनः ।
पा.. हरिः पुनश्चके मायाचतुरचाक्रिकैः ॥ २४९६ ॥
पुरग्रामादिदग्ध्वारमसाध्यमथ धावताम् ।
पदे पदे कृच्छ्रगतं स्वपक्षास्तमरक्षिषुः ॥ २४९७ ॥
दिक्चक्रेनियते भ्राम्यन्दृश्यादृश्यः स सर्वतः ।
कल्पात्ययोदयी ब्रह्मपुत्रः केतुरिवाभवत् ॥ २४९८ ॥
श्रान्तैरमात्यैर्निर्बन्धे संधौ कालानुरोधतः ।
मेने मडवराज्योर्वी हारितेवाखिला जनैः ॥ २४९९ ॥
असंवृत्तप्रतीकारतया रोहत्सु वैरिषु ।
२१५
तदन्तरेथ संमत्र्य धन्यं प्रास्थापयन्नृपः ॥ २५०० ॥
तत्स्कन्धारोपिते कार्ये व्रीडां गच्छेत्तटस्थताम् ।
विपर्यासमथ द्वाराधीश इत्यभ्यधाजनः ॥ २५०१ ॥
१. इवाभजत् इति स्यात् । २. निर्बंद्धे इति स्यात् । २१६ राजतरङ्गिणी
भिक्षुर्मल्लार्जुनस्त्वासीदेक एव त्रयस्त्वमी |
संहता हन्त दुःसाधा दध्युश्चेत्यखिलाः प्रजाः ॥ २५०२ ॥
द्वाराधिपस्त्वहेवाकव्यवहारो महीपतेः ।
सिद्धिं स्वस्याप्रसिद्ध्यापि वाञ्छन्दद्योद्यमोभवत् ॥२५०३॥
एकाकी यः किल न भजते मूढतां भर्तृकार्ये
नौदासीन्यं श्रयति च रुषा बहुधीने च तस्मिन् ।
निर्हेवाकव्यवहृतितया साध्यसिद्धिं किलेच्छं-
स्तादृङ्मन्त्री प्रभवति परं नाल्पपुण्यस्य राज्ञः ॥ २५०४ ॥
पञ्चचन्द्रे मृते तस्यानुजं राजोपवेशने ।
न्यधाद्यं षष्टचन्द्राख्यं सोप्यारब्ध्यै विनिर्ययौ ॥ २५०५ ॥
द्विबाहुकादयो मुख्यासह गायकैः ।
धन्यमेवान्वयुर्बाह्याश्चान्ये राजोपजीविनः ॥ २५०६ ॥
धन्यादिषु तिलग्रामं कोटिसिन्धुतटाश्रयम् ।
श्रय........द्वारेशो द्रङ्गस्थः पृष्टपद्धतीः ॥ २५०७ ॥
हठप्रवेशायोग्याजिमुख्यहेवाकवर्जितः ।
शोषयन्द्विषतो धैर्यगम्भीरं स व्यवाहरत् ॥ २५०८ ॥
कुठारिकादिभिः कारुवृन्दैर्मन्दिरपद्धतीः ।
धन्यो मधुमतीतीरे नगरस्पर्धिनीर्व्यधात् ॥ २५०९ ॥
निर्ध्वान्तं द्रुमसंबाधं सनिकेता वनस्थलीः ।
कटकं सर्वभोगाढ्यं शक्तः परिवृढोकरोत् ॥ २५१० ॥
देशे भूरितुषारोग्राहिमर्तौ भाग्यसंपदा |
भूभर्तुरभियोग्यैव भूरभूद्भानुभूषिता ॥ २५११ ॥
भुवनाद्भुतसंभारप्रेषणं विजयैषिणः ।
द्वैराज्यमीलिताशेपि काले राज्ञो न खण्डितम् ॥ २५१२ ॥
उत्थान एवोपहतभये यास्यत्यगात्परम् ।
भारोढिपीडितग्राम्याक्रन्दं क्षान्तिचरूपमाम् ॥ २५१३ ॥
दीर्घप्रवासनिर्वेदाञ्चलितान्दर्शयत्रुषम् ।
स्थास्तूंश्च तोषयन्दायैः स्थैर्य निन्ये नृपञ्चमूः ॥ २५१४ ॥
इत्थं त्रिचतुरान्मासांस्तिष्ठद्भिरपि निष्ठुरैः ।
नैवादातुमशक्यन्त कटकैः कोट्टसंश्रयाः ॥ २५१५ ॥
तेषां हि वीवधासारनिरोधादीनि दृप्यताम् ।
अप्रियाणि न जातानि दैन्यदायीनि कानिचित् ॥ २५१६ ॥
चिकीर्षवस्तुषारान्ते स्वविभूतिप्रकाशनम् ।
तस्थुरङ्कुरितोल्लासाः पर्वता इव डामराः ॥ २५१७ ॥
कृषि कृषीवलैर्वेदपाठमुत्सृज्य च द्विजैः ।
उत्पिञ्जसज्जैर्ग्रामेषु सर्वतः शस्त्रमाददे ॥ २५१८ ॥
प्रतीक्षमाणाः प्रालेयप्रलयं मार्गभूभृताम् ।
दारदास्तुरगानीकैः सज्जैस्तस्थुर्जिगीषवः ॥ २५१९ ॥
हिमिकासंहतेः कालतूलतल्पाकृतेर्दधत् ।
पातभीति जनो राजसेना शश्वदवेपत ॥ २५२० ॥
इत्थं प्रत्यर्थिसामर्थ्यपरमार्थापरीक्षणात् ।
क्ष्माभृन्मिथ्यैवमारेभे संदेहं च जयेभजत् ॥ २५२१ ॥
वैदग्ध्यदिग्धमनसामयमेक एव
२१७
कोप्यस्ति वञ्चनविधेरुचितः प्रकारः ।
येनात्मना किल विशयिस्ते
मुग्धेपि वैरिणि विचारहतोद्यमाः स्युः ॥ २५२२ ॥
प्रवादमात्रसाराद्यस्त्रसेत्परिकरादरेः ।
स्वयैव तस्य वि सिद्धिश्चिन्तान्धया घिया ॥ २५२३ ॥
२८ २१८ राजतरङ्गिणी
विध्येदाशु शिलीमुखैः प्रवितरेत्पत्रैरवस्कन्दनं
बनीयात्तदिदं गुणैः परिकरैर्मिथ्याप्रसिद्धैरिति ।
स्याच्चेदम्बुरुहं द्विपस्य भयकृचिन्तासहैः साहसं
प्रत्यूहेत ततो निजैरपघनैरप्येतदुन्मूलने ॥ २५२४ ॥
लोठनाद्यैर्हि कर्णाहान्निस्तीर्णैस्तैः कथंचन ।
प्राप्तेलंकारचक्रेग्रे राज्यमज्ञायि निर्जितम् ॥ २५२५ ॥
मिथ्यैव ग्रथिता कन्था स्वयूथ्यैः कथमन्यथा |
तस्मिन्नमन्दमास्कन्दं धावन्द्वाराधिपो ददौ ॥ २५२६ ॥
प्रत्यवस्थित्यसामर्थ्यात्ततः कोट्टं व्यसर्जयत् ।
स राजबीजिनस्तांश्च परेधुः स्वयमन्वगात् ॥ २५२७ ॥
कोट्टाद्रिः सलिलस्यान्तः कृशोधः पृष्टदैर्घ्यभाक् ।
स तैवैसारिणग्रासव्यग्रो बक इवैक्ष्यत ॥ २५२८ ॥
निःसामर्थ्य तद्विलोक्य गजागारमिवागजम् ।
तत्यजुर्विजयाशंसां भयं चोदवहन्हृदि ॥ २५२९ ॥
ततः शरैर्हषद्वषैर्बाध्याश्चेतोविरोधिनः ।
अर्णसो रक्षणमितो रक्ष्या यत्रोपला इतः ॥ २५३० ॥
इत्थं स तैरभिरुद्धैर्या दादाय डामरः ।
मेने स्वगुप्तिमात्रार्थी न युद्धे बद्धनिश्चयः ॥ २५३१ ॥
}
युग्मम् ॥
ततः कन्दलितास्कन्दे तिलग्रामे द्विषद्वले ।
प्रतीकाराक्षमे दस्यौ ते चिन्ताक्षमतां दधुः ॥ २५३२ ॥
विस्रवापि स्रुतप्रशासौष्ठवौ लोठनः पुनः ।
डामरं कृत्यसंपूर्णमगूढं तमगर्हत ॥ २५३३ ॥
भोजं तूद्विजितं यन्नो द्रोहो रोहेदिति ब्रुवन् ।
रुवा पितृव्यं तं व्याजस्तुत्या नित्यमुपाचरत् ॥ २५३४ ।।
विमुखे लोठने कुण्ठशाठ्यस्तस्य तु सान्त्वने ।
मेने मत्रज्ञतां किंचित्संवर्तिष्ट च संविदि ॥ २५३५ ॥
२१९
हन्यान्मां भूभृदित्येष यातेष्वेतेषु संत्यजेत् ।
नास्मानुक्त्वेत्यरौत्सीत्स पितृव्यं गमनार्थनात् ॥ २५३६ ॥
त्वय्यस्मासु च सर्वेषु वेष्टितेषूत्कटा द्विषः ।
पृष्ठकोपमसंभाव्य कुतश्चिन्निश्चलोद्यमाः ॥ २५३७॥
यद्यद्विदध्युः सिध्येत्तत्तदेकं त्यज मामितः ।
अन्याल्लवन्यानानीय दरदोवायवेन वः ॥ २५३८ ॥
बन्धनं व्यपनेष्यामि युक्तमित्युक्तवांश्च तम् ।
डामरं विदधे किंचिदिव सांमत्यमाश्रितम् ॥ २५३९ ॥
विमोक्ष्यामि क्षपायां त्वामद्य श्वो वेति तं ब्रुवन् ।
सत्त्वसंक्षीणदाक्षिण्यो विप्रलेभे प्रतिक्षणम् ॥ २५४० ॥
अध्वरोधे सुदूरस्थैर्यथावदकृतेरिभिः ।
बाह्यग्रामात रत्तैस्ते त्वहान्यत्यवाहयन् ॥ २५४१ ॥
दुरुदर्कमथाशङ्क्य समयं ते व्यजिज्ञपन्
धन्यादयो हि तैः संधिर्विधेय इति भूपतिम् ॥ २५४२ ॥
तैस्तैर्निमित्तैः संधानमविधेयं विदन्नृपः ।
तानादिदेश कर्तव्यं कोट्टाट्टालकवेष्टनम् ॥ २५४३ ॥
संदिदेश च दायादा वश्येरन्ख्यातिमागताः ।
निजास्पदे ताञ्जहति दत्तोत्कोचेथ डामरे ॥ २५४४ ॥
भूत्वा कठो प्यारम्भान्निष्टा निःसौष्टवा ध्रुवम् ।
क्रियातिपत्त्युपालम्भैर्यास्यामोसंशयं विशाम् ॥ २५४५ ॥
नात्यक्ष्यद्धर्षदेवश्चेत्सप्ताहान्युद्यमं ततः ।
दुग्धप्रवाहं प्राप्स्यन्स श्रुत्वेत्यन्योपि तप्यते ॥ २५४६ ॥
राजतरङ्गिणी
प्राप्तव्यं प्राप्तवान्सर्वो निजैः कृत्यैः शुभाशुभैः ।
क्रियातिपत्तेर्लोकेन त्रैलोक्यं तु मुखेर्प्यते ॥ २५४७ ॥
पादेषु पक्षेषु च सत्सु नोर्व्या
न व्योनि वा पक्षपिपलकस्य ।
पङ्ग्वन्धवञ्चङ्क्रमणं तु गर्ने
किं संपदा स्यान्नियमे गतीनाम् ॥ २५४८ ॥
सहस्रपादस्य गते निमित्त-
मनूरुभावेप्यरुणः प्रजातः ।
तस्याभविष्यद्यदि पादयुग्मं
ततोधिकं तत्किमिवाकरिष्यत् ॥ २५४९ ॥
उपेक्ष्य साक्षितां तस्मात्कृत्स्नं कोट्टं विवेष्ट्यताम् ।
प्रयातु तत्रैवास्माकं तेषां च पुरुषायुषम् ॥ २५५० ॥
अविश्रान्तो वातो दहन इव सोयं जनयति
प्रसक्ति सातत्याद्दलयति कुलाद्रीनाप जलम् ।
प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा
फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवाम् ॥ २५५१ ॥
क्रूरां नरपतेराज्ञां श्रुत्वा धन्यादयस्ततः ।
कोतोली कूलं तं त्यक्त्वाप्यारुरुहुर्जवात् ॥ २५५२ ॥
कथं युद्धं विधास्यन्ति कथं स्थास्यन्ति वेति तान् ।
शरान्किरन्तः कोट्टस्था यावत्प्रेक्ष्यन्त कौतुकात् ॥ २५५३ ॥
अधः सोप्यूर्ध्वगान्युद्धैर्निष्पीड्य निबिडैर्व्यधात् ।
धन्यः प्रदेशं तावत्तं निकेतैः पत्तनोपमम् ॥ २५५४ ॥
युग्मम् ॥
af
अविश्रान्तैस्ततः संख्यैरसंख्येयश्चमूक्षयः ।
प्रतिक्षणं प्रववृते सैन्ययोरुभयोरपि ॥ २५५५ ॥
परेधुः शारदां दृष्ट्वा संप्राप्तो गर्गनन्दनः ।
संक्रन्दनपुंरीपौरयोधैर्वृद्धि हतैर्व्यधात् ॥ २५५६ ॥
अलंकाराभिधो बाह्यराजस्थानाधिकारभाक् ।
अधृष्यो मानुषैर्युद्धैर्विरुद्धान्बहुधावधीत् ॥ २५५७ ॥
क्व भूधरचरैः स्पर्धा वसुधातलचारिणाम् ।
तथापि पृतनायत्रानन्त्यं चिन्त्यमचिन्त्यकृत् ॥ २५५८ ॥
अल्पीयांसः कोट्टनिष्ठा भूयिष्ठाः कटकाश्रयाः ।
२२१
अतः पूर्वे बहून्भन्तोप्यासन्कृत्याल्पया क्षताः ॥ २५५९ ॥
श्लिष्टद्वाराररिपुटं द्वित्रैः पीडितमाहवैः ।
मीलिताक्षमिव त्रासात्ततो दुर्गमजायत ॥ २५६० ॥
गोप्तभेदान्तर द्वैधमुखच्छिद्रानुसारिणः ।
धन्यादीन्वीक्ष्य विश्वास कोट्टस्था नोपलेभिरे ॥ २५६१ ॥
निद्राछेदार्थमन्योन्यं क्रोशन्तो नास्वपन्निशि ।
स्वपन्तोहि तु निःशब्दशून्यं कोट्टमदीदृशन् ॥ २५६२ ॥
निशासु तत्तत्पृतनायामतूर्यरवैरपि ।
चटका: कोटरगता मेघशब्दरिवात्रसन् ॥ २५६३ ॥
अहर्निशं भ्रमन्तीभिनभिः संरुद्धपाथसः ।
तान्समभ्रमयन्सर्वप्रकारं राजसैनिकाः ॥ २५६४ ॥
ते रुद्धपाथसस्तर्षशोषं केचिद्विषेहिरे ।
निःसंचारास्तु संक्षीणे भोक्तव्ये क्लैव्यमाययुः ॥ २५६५ ॥
बुभुक्षवः क्षमापयोग्यान्भोगान्भाग्योर्जितांस्ततः ।
कदन्नैर्नृपदायादा अशनाशंसनैर्व्यधुः ॥ २५६६ ॥
दूरे स्पर्धास्तु निस्तीर्णाः क्षुधितास्तेधिकं व्यधुः ।
तूर्तुभोगभागिभ्यो भृत्येभ्योप्यन्वहं स्पृहाम् ॥ २५६७ ॥
१ पुरीपौरवृद्धिं योधैः इत्युचितम् । २२२ राजतरङ्गिणी
व्यूहेष्वस्मासु पर्याप्तमकार्यमिति भाषिणम् ।
भोजं व्यधान्मध्यटङ्गे दुर्गस्याथ स तं पृथक् ॥ २५६८ ॥
एकस्य वार्धकाद्वेश्यापुत्रत्वादपरस्य च ।
जानन्नयोग्यतां मेने द्वैराज्याई तमेव सः ॥ २५६९ ॥
विनामुं चानयोः सम्यक्संरम्भेरन्न वैरिणः ।
इति मिथ्या प्रथां निन्ये तद्विनिःसरणं बहिः ॥ २५७० ॥
कान्तालंकारचक्रस्य काङ्क्षन्ती क्षयमित्वरी ।
चक्षूरागात्षष्ठचन्द्रे सान्द्रस्नेहार्द्रतां गता ॥ २५७१ ॥
बहिराभ्यन्तरं भेदं नयन्ती मन्त्रमाययौ |
साल्हणे: कर्णसरणि सर्वमन्विष्यतोन्वहम् ॥ २५७२ ॥
युग्मम् ॥
रागध्वान्तान्वितधियः प्रतिभेदभयेन सः ।
तस्य प्रकाशयन्नैनां गन्तुं तु प्रार्थनां व्यधात् ॥ २५७३ ॥
क्षमावाञ्शिक्षितोपेक्षो मैत्रीस्थैर्ये मुदं भजन् ।
नागः सागस्यपि दधे बोधिसत्त्व इव क्रुधम् ॥ २५७४ ॥
प्रियामन्युः सरागेण मृत्युहेतुर्महानपि ।
हृदि विस्मर्यते पृष्ठे शरभेणेव वारणः ॥ २५७५ ॥
अथ प्रस्थापितो भोज: सुप्तारिशिबिरान्तरात् ।
यातप्रायोप्यलंकारतनयेनानुयायिना ॥ २५७६ ॥
द्रोहेच्छया भयाद्वापि ध्वस्तसत्त्वेन सत्वरम् ।
व्यावृत्त्यारोपितो भूयः कोट्टस्थस्यान्तिकं पितुः ॥ २५७७ ॥
युग्मम् ॥
निर्भर्त्स्य पुत्रं गन्तासि श्वो निशीत्यभिधाय तम् ।
छन्नमस्थापयत्सोह्नि यात इत्यखिलान्वदन् ॥ २५७८ ॥
प्रोञ्चल्यानिश्चयादेकः प्रायाद्वौ श्वः प्रयास्यतः ।
बोधितैरथ धन्याद्यैरजागार्यखिलैर्निशि ॥ २५७९ ॥
प्रस्थास्नुः स निशीथेथ कोट्टाट्टालायलोकयत् ।
जाग्रतः कटके सर्वान्परितो दीपितानले ॥ २५८० ॥
प्रकाश्य वहिना दुर्ग प्रतोलीनिर्गतो यथा ।
पिपीलकोप्यलक्ष्यत्वं नोन्मुखानां द्विषां व्रजेत् ॥ २५८१ ॥
ज्वालाप्रकाशं चाञ्चल्याद्विलोला इव रक्षिताः ।
न्यषेधन्मूर्धकम्पेन साल्हणि साहसागृहाः ॥ २५८२ ॥
तद्गन्तुमक्षमः क्षिप्तं क्षमाप्राहे स डामरः ।
अधोवातीतरच्छ्रभ्रमालिङ्गितवटाकरम् ॥ २५८३ ॥
क्षेमराजाभिधानेन डामरेशेन सोन्वितः ।
२२३
शिलां वैतेर्दिकातुल्यामध्यास्त श्वभ्रमध्यगाम् ॥ २५८४ ॥
आरुह्यासनमात्रे तां पर्याप्तां पातभीतितः ।
निर्निद्रौ पञ्च रात्रीस्तावत्यवाहयतावुभौ ॥ २५८५ ॥
निर्वर्तितप्राणयात्रौ करस्थैः सक्तुपिण्डकैः ।
तत एव व्यजहतां विष्ठां नीडादिवाण्डजौ ॥ २५८६ ॥
अव्यक्तव्याकृती चित्रासूत्रिताविव तौ स्थितौ ।
वीक्ष्यारिकटके लक्ष्मी पृष्ठाद्विस्मयमीयतुः ॥ २५८७ ॥
तयोराश्रीयत स्फीतशीतविस्मृतिकारिणा |
जयसिंहप्रतापग्निसंतापेनोपकारिता ॥ २५८८ ॥
षष्ठेहि तत्र निःशेषीभूतभोक्तव्ययोरथ ।
क्षतक्षार इवारम्भि तुषारं वर्षितुं धनैः ॥ २५८९ ॥
अगृह्यतोचिते दन्तवीणावाद्योद्यमे तथा ।
शीतासादितसादेन पाणिपादेन सुप्तता ॥ २५९० ॥
१ प्रकाशचाञ्चल्यात् इति स्यात् । २ वितर्दिका इत्युचितम् । ३ तदा इत्युचितम् । २२४ राजतरङ्गिणी
तावचिन्तयतामद्य क्षुच्छताभिहतौ ध्रुवम् ।
पतिष्यावोरिकटके पाशबद्धाविवाण्डजौ ॥ २५९१ ॥
कं पुत्कुर्वः कस्य वावां विदितौ यो विनिर्हरेत् ।
ततः पङ्कान्तरामनौ यूथपः कलभाविव ॥ २५९२ ॥
विषमस्थावथेत्थं तौ नक्तमभ्यर्थ्य डामरः ।
आरोप्य रज्ज्वावसथे शून्ये स्थापयति स्म सः ॥ २५९३ ॥
कृतशीतप्रतीकारौ पलालानलसेवनैः ।
दुःखं व्यस्मरतां तत्र निद्रया चिरलब्धया ॥ २५९४ ॥
ततोप्यभ्यधिका व्यापद्भेजे लोठनविग्रहौ ।
अचक्षुष्यौ जनास्निग्धां गिरमप्यापर्न यौ ॥ २५९५ ॥
यवकोद्रवपूपादि तयोः सतुषमश्चतोः ।
गात्रैर्वस्त्रैश्च वैवर्ण्य शुद्धिवन्ध्यतया दधे ॥ २५९६ ॥
धन्योलंकारचक्रस्य क्षीणभोज्यस्य सर्वतः ।
स्वीचकारान्नदानेन तुल्यौ होलयशस्करौ ॥ २५९७ ॥
ततः स दूतैर्विक्रेतुमङ्गीचक्रे नृपद्विषः ।
बुभुक्षाक्षुभितो भृत्यभेदभीतश्च डामरः ॥ २५९८ ॥
दुस्तरव्यापदुद्रेकद्रुतसत्त्वतयात्यजत् ।
पापोपलिप्ततच्चित्तमधर्माकीर्तिसाध्वसम् ॥ २५९९ ॥
भूपतेर्विद्विषच्छेषस्थापनात्स्वस्य रक्षणम् ।
ख्यातिशुद्ध्यै चिकीर्षु च कुशकाशावलम्बनम् ॥ २६०० ॥
भृत्यस्योदयनाख्यस्य घिया प्रच्छादितं तथा ।
ररक्ष साल्हणि भोजं द्वौ तु दातुं स तत्वरे ॥ २६०१ ॥
तं विना च तयोर्भूपाइण्डं जानन्नसांप्रतम् ।
अबाधं स्वस्य चाशेषकृत्यं युक्तममन्यत ॥ २६०२ ॥
१ इतः इत्युचितम् । अष्टमस्तरङ्गः ।
भोज्याभावकृतां तस्य व्यापदं तच्च मत्रितम् ।
तदा नाज्ञासिषुर्धन्यादयः संधि विधित्सवः ॥ २६०३ ॥
मिषाञ्चिचलिषा तेषां कस्माच्चिदभवत्ततः ।
किं पुनस्तेन दायादद्वये दातुं प्रतिश्रुते ॥ २६०४ ॥
देयविश्राणनानीकोत्थानादिपणसिद्धये ।
२२५
भ्रातृव्यमनयद्धन्यः कल्याणमवकल्पताम् ॥ २६०५ ॥
प्रबन्धं निर्वघ्नन्नरिमुपचरंञ्छादितरुपं
महाहिं संगृह्णन्नयकुटिलचेष्टं व्यवहरन् ।
स भूमिः सिद्धीनां दधदुचितकर्तव्यपरतां
भवेद्यो निर्व्यूढावपि सुदृढसंरम्भरभसः ॥ २६०६ ॥
दुःखैर्दीर्घप्रवासोत्थैरपसारितसौष्ठवाः ।
तदा संरम्भशैथिल्यं भूभृद्भृत्याः प्रपेदिरे ॥ २६०७ ॥
स सत्यं सचिवोप्राप्यः संग्रहीतुं प्रगल्भते ।
कथाशरीरमिव यो निर्व्यूढौ कार्यमाकुलम् ॥ २६०८ ॥
संधि निबद्धं विज्ञाय सैनिकाः स्वगृहोन्मुखाः ।
उपेक्ष्य स्वामिदाक्षिण्यं क्षणादेव प्रतस्थिरे ॥ २६०९ ॥
तद्विक्रीतमवाप्यानं लवन्यः कार्यमन्थरः ।
धन्याद्याः स्वल्पसैन्यत्वादासन्कृच्छ्रागतासवः ॥ २६१० ॥
प्रतोलीकेलितदृशः प्रार्थितागमनाशया ।
तदहः सोभियोक्तृस्तानददत्तावतापयत् ॥ २६११ ॥
रथाङ्गाकन्दिनी रात्रिस्तेषां कृच्छ्रेण सागमत् ।
विना जीवितसंन्यासमन्यत्कार्यमपश्यताम् ॥ २६१२ ॥
प्रयत्नसंभृते कृत्ये नष्टे मन्दतया धियः ।
अस्मत्संभावनादूरीकृतवाक्यादरं प्रभुम् ॥ २६१३ ॥
१ कीलितदृशः इत्युचितम् । २९ २२६ राजतरङ्गिणी
नष्टानुशोचनव्याजात्तत्तद्युक्युपहासिनः ।
सदयं नो ध्रुवं दुःस्थीकरिष्यन्त्यन्यमत्रिणः ॥ २६१४ ॥
सद्यो यात्रातारतम्यात्ताम्यन्तो नस्त्रपार्पणम् ।
कार्यनिष्ठामपश्यन्तः कुर्युर्वेत्यपरेब्रुवन् ॥ २६१५ ॥
मायामेतां विहितवांस्तैः संमत्र्य नृपाहितैः ।
सिद्धसाध्योधुना दस्युर्हसन्नस्मान्ध्रुवं स्थितः ॥ २६१६ ॥
अल्पेतरांस्तु संकल्पानेवं तेषां वितन्वताम् ।
दत्तानन्ततनुज्यानिः प्रभाता सा विभावरी ॥ २६१७ ॥
कुलकम् ॥
प्राहेथ राजस्थानीयोलंकारः साहसोन्मुखः ।
डामर कोट्टमारुह्य निन्ये नयभयैर्वशम् ॥ २६१८ ॥
एकाहं गमने सोढविलम्बस्तत्र वासरे ।
लोठने क्षीणदाक्षिण्यः स गच्छेत्यब्रवीत्स्फुटम् ॥ २६१९ ॥
उपन्यस्य॑स्ततस्तस्य म्लानिप्रक्षालनक्षमम् ।
मानिनः केपि कर्तव्यं कीर्तिव्ययनिबर्हणम् ॥ २६२० ॥
कालः सोयं सकलजनतालोचनध्वान्तदायी
नित्यालोकप्रकटनपटुः किंतु सत्क्षन्त्रियाणाम् ।
अभ्रश्यामाद्भुतमसिलतास्वर्वधूसंगतापि
व्यक्तं सक्तिं दिशति रभसान्मण्डलेनोष्णभानोः ॥ २६२१ ॥
संप्राप्नुवन्ति ननु मण्डलमेकमेव
क्ष्मापाजये समरसीम्नि वपुस्तु हित्वा ।
चण्डांशुमण्डलमथाभिमतानि कामं
प्रेमार्द्रनिर्जरवधूकुचमण्डलानि ॥ २६२२ ॥
नास्मिन्संततवेष्टनोल्बणतलैस्तपैरुदेति व्यथा
ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जन्यते ।
ऋन्दद्वन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते
नन्वेतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः ॥ २६२३ ॥
मार्गे : खड्गलतावितानगहनैर्यातः पिता ते दिवं
भ्रातृभ्यामसिधेनुकण्टकवने भ्रान्त्वार्जिता सद्गतिः ।
वंशक्षुण्णमिमं निषेव्य रभसाद्ध्वानमुन्नद्धया
२२७
वृत्त्या व्योम्नि विशार्कमण्डलमिह स्वान्तं च तेजस्विनाम् ॥
साम्राज्यं विधिनोपनीतमसकृत्लैब्येन यद्धारितं
तत्रापि प्रशमोचिते वयसि यत्संचेष्टितं बालवत् ।
प्रायश्चित्तममुष्य लब्धमधुना तद्वेधसापादितं
मा भूद्राज्यमिवैतदप्यसुलभं कर्तव्यमूकस्य ते ॥ २६२५ ॥
राज्यं प्राप्तमपि प्रनष्टमसमोच्छिष्टाशनैर्यापितः
कालः सर्वजनक्षयस्य विषये याता स्थितिर्हेतुताम् ।
इत्यासीत्किमिवोचितं प्रभवतो भिक्षाचरक्ष्मापते-
र्निर्व्यूढं तु तदस्य देहविरतौ येनैष सर्वोन्नतः ॥ २६२६ ॥
स तथोत्तेजितोप्योजो नाददे तेजसोज्झितः ।
न ज्वलत्यग्निसङ्गेपि निर्वीर्य वानरेन्धनम् ॥ २६२७ ॥
शान्ताहन्तस्तु संवृत्तनिद्राभङ्ग इवार्भकः ।
ऐच्छदुद्यद्भयोद्वेगो रोदितुं प्रसृताधरम् ॥ २६२८ ॥
डामरेणार्पितं नेतुं प्रवृत्तास्तं नृपाश्रिताः ।
तादृशं वीक्ष्य कारुण्याद्धैर्याधानार्थमभ्यधुः ॥ २६२९ ॥
मा विषीद न देवस्य दयाचन्द्रोदयोज्वले ।
हृदि प्ररोहति स्वैरं विकारतिमिरान्धता ॥ २६३० ॥
स सौजन्यसुधासिन्धुः स स्थिरत्वसुराचलः ।
स प्रपन्नार्तिसंतापच्छेदचन्दनपादपः ॥ २६३१ ॥
१ मूढस्य इत्युचितम् । २२८ राजतरङ्गिणी
पुण्यां शुद्धां च संलक्ष्य शरदीव युवाहिनीम् ।
मूर्ति तस्योल्बणं चेतः समाधास्यत एव ते ॥ २६३२ ॥
निष्कलङ्कर्वशपूर्वैर्निर्विशेषं सभाजयन् ।
चारित्रं लाघवभुवोप्रियस्त्वां सोपनेष्यति ॥ २६३३ ॥
अपकर्तृन्विपन्मग्नान्दयमानः परानपि ।
क्षमापरीक्षा हेतुत्वात्स वेत्ति ह्युपकारिणः ॥ २६३४ ॥
उक्त्वेति हृष्टस्तैर्लोलस्थूलकूर्चा गृहात्ततः ।
व्यालम्बकम्बलो गोष्ठाद्वृद्धोक्ष इव निर्ययौ ॥ २६३५ ॥
'निर्भूषणं म्लानजीर्णवस्त्रशस्त्रं निरीक्ष्य तम् ।
युग्याधिरूढमायान्तं धन्यो हीनम्रतां दधे ॥ २६३६ ॥
दीर्घास्पन्देक्षणं रूक्षघनकूर्चे सविग्रहम् ।
व्यलोकयदथोलूकमिव नष्टं गुहागृहात् ॥ २६३७ ॥
रेजे शैलश्चलद्भिस्तैः शिविरोद्दीपितानलः ।
भूपप्रतापस्वर्णस्य कषाश्मत्वमिवागतः ॥ २६३८ ॥
स्कन्धावारे वर्षतुषारं प्रसभं नभः ।
अमर्त्यभावे भूभर्तुर्विशां चिच्छेद संशयम् ॥ २६३९ ॥
प्राञ्चत्पतेद्धिमं तावन्न्रियेरन्बुडिताः क्षणात् ।
पिष्टातकान्तर्गर्ताटाः प्रविष्टा इव सैनिकाः ॥ २६४० ॥
एवमेकान्नविंशब्द दशम्यां शुक्लफाल्गुने ।
न्यूनाब्दषष्टिदेशीयो निबद्धो लोठनः पुनः ॥ २६४१ ॥
दीर्घप्रवासादायातं सत्कर्तु कटकं पुनः ।
निर्ममो हर्म्यमुत्तुङ्गमारुरोह महीपतिः ॥ २६४२ ॥
यथोचितं दानमानसंभाषणविलोकनैः
संतोष्य विसृजन्सैन्यं धन्यादीन्प्रेक्षतागतान् ॥ २६४३ ॥
१ प्राक्चेत् इति स्यात् । अष्टमस्तरङ्गः ।
तेषां पुनश्च दोर्द्वन्द्वमूले क्षिप्तकरं भटैः ।
न्यस्तेनानासिकं वासःप्रान्तेनाच्छादिताननम् ॥ २६४४ ॥
निर्भूषणश्रोत्रपालिप्रविष्ठैः श्मश्रुलोमभिः ।
वलक्षरूक्षैः प्रव्यक्तकार्यक्लेशं कपोलयोः ॥ २६४५ ॥
उच्चावचोक्तिमुखरे पौरलोकेन्तरान्तरा ।
व्यापारयन्तं नेत्रान्तौ दीनस्तिमिततारकौ ॥ २६४६ ॥
कातर्यदैन्यभीक्लान्तिक्षुदलक्ष्मीकटाक्षितम् ।
वेपमानविनिद्राङ्गं गां शीतेनार्दितामिव ॥ २६४७ ॥ .
भ्रान्तामिव क्ष्मां पर्यस्तानिवागीन्पतितानिव ।
विदन्तं च दिवं शोष...
दैविको वान्तरायोस्तु ध्वान्तं वोत्रं प्रवर्तताम् ।
राजौकोभ्यर्णतां यातं वाता वा जरयन्त्विदम् ॥ २६४९ ॥
'रदच्छदम् ॥ २६४८ ॥
सर्वापकारकृद्राज्ञः स्थास्यामि पुरतः कथम् ।
पदानि संनिरुन्धानं निर्ध्यायेति पदे पदे ॥ २६५० ॥
अन्तर्युगलम् ॥
२२९
बहुलोकावृततया स्तोकसंलक्ष्यमैक्षत ।
प्रतीहारैरथावेद्यमानं लोठनमङ्गने ॥ २६५१ ॥
कुलकम् ॥
भ्रूसंज्ञया वितीर्णाज्ञो राज्ञा तामारुरोह सः ।
सभां पारिप्लवाम्भोजामिव प्रेक्षकलोचनैः ॥ २६५२ ॥
दृष्ट्या निर्दिष्टपार्श्वोर्वीस्थितिः पृथ्वीभुजस्ततः ।
अस्प्राक्षीत्क्षितिनिक्षिप्तजानुर्मूर्ध्नापिङ्कजे ॥ २६५३ ॥
हस्ताम्बुजाभ्यामालम्ब्य ललाटतटमानतम् ।
सम्राट् संभ्रमनम्रस्य तस्योदनमयच्छिरः ॥ २६५४ ॥
राजतरङ्गिणी
रत्नौषधीजुषोः स्पर्शः पाण्योस्तापं स चेतसः ।
दौर्भाग्यमहरद्दहश्चास्य श्रीखण्डशीतलः ॥ २६५५ ॥
पुण्यानुभावात्कारुण्यभाजो भूमर्तुरञ्जसा ।
विस्रम्भसंभावनया स क्षणात्पस्पृशे हृदि ॥ २६५६ ॥
मा भैषीरिति हप्तोक्तिः सुखं संप्राप्स्यतीति वाक् ।
अगाम्भीर्येण भग्नेव मैन्युना त्वयि साधुना ॥ २६५७ ॥
इत्युक्ते पूर्ववैराणां भवेदुद्घाटनं कृतम् ।
बान्धवो नस्त्वमित्यस्मिन्परीहास इव क्षणे ॥ २६५८ ॥
क्लिष्टोसीति स्वप्रतापप्रभावाभाषणं भवेत् ।
ध्यात्वेति भूभृद्दृष्ट्वास्य नाप्यायं तु गिराकरोत् ॥ २६५९ ॥
तिलकम् ॥
अभयार्थनया पादौ स्प्रष्टुं नमयतः शिरः ।
संस्पर्श मौलिषु पुनर्विग्रहस्याङ्क्षिणाकरोत् ॥ २६६० ॥
का योग्यता सत्क्रियायां ममेति वदता बलात् ।
अजिग्रहत्पितृव्येण ताम्बूलं स्वकरार्पितम् ॥ २६६१ ॥
नम्रं द्वारेशमूचेभूच्छ्रमो व इति सस्मितम् ।
धन्यं षष्ठं च पस्पर्श प्रष्टं सव्येन वाहुना ॥ २६६२ ॥
दाक्ष्यदाक्षिण्यगाम्भीर्यविनयाद्यैर्विभाव्य तम् ।
भूभृगुणैः परीतं स्वं लोठनोमन्यतावरम् ॥ २६६३ ॥
आदिश्य सान्त्वनं धन्यमुखेनाथ त्रपानतम् ।
पितृव्यं प्राहिणोद्वेश्म भ्राजिष्णुविनयाञ्जलिः ॥ २६६४ ॥
अभियोगे य एवास्य नीतौ विन्यस्यतो दृशम् ।
मुखरागः स एवाभूत्फलावाप्तावविप्लुतः ॥ २६६५ ॥
१ देहाच्चास्य इति स्यात् । २ मन्युर्मे त्वयि नाघुना इति स्यात् । २३१ अष्टमस्तरङ्गः ।
नायाति वाडवशिखिक्कथनेन तापं
शैत्यं हिमाद्विपयसा विशता न चाब्धिः |
कश्चिद्गभीरमनसां सततं विषाद्-
काले प्रमोदसमये च समोनुभावः ॥ २६६६ ॥
प्रीतिस्थैर्यैर्ज्ञातियोग्यैश्चोपचारैरकृत्रिमः
।
क्रमाद्राजाहरल्लुजां पौरुषभ्रंशजीवयोः ॥ २६६७ ।
दायादोष्ठद्वयादेव राष्ट्रे कृष्टेपि मन्त्रवित् ।
भोजनोत्पिञ्जसर्पस्य दन्तं सोन्तरचिन्तयत् ॥ २६६८ ॥
प्रवासायास भीत्या स्वैस्त्यक्तसंरम्भसंभ्रमैः ।
जिगीषुर्विद्विषच्छेषैश्चक्रे यन्निष्प्रजागरः ॥ २६६९ ॥
सल्हणः स तु विस्तीर्णच्छ्रभ्राच्छ्रन्यगृहे वसन् |
पितृव्यविग्रहोदन्तमुपलेभे न कंचन ॥ २६७० ॥
राजा गृहीत्वालंकारडामरान्तिकमागतम् ।
पृष्ठाद्वीक्ष्याभवद्रोहद्रोहसंभावनस्तदा ॥ २६७१ ॥
ददर्श च क्रमाद्दूरतया दुर्लक्ष्यविस्मृति ।
स्कन्धावारं बद्धमालं मार्गे नगरगामिनि ॥ २६७२ ॥
अज्ञातेन विदूरत्वात्पितृव्येणाश्रितं ततः ।
युग्यं चासौ धन्यषष्ठयुग्ययोरन्तरैक्षत ॥ २६७३ ॥
अचिन्तयञ्च को हेतुः कटकप्रस्थितेरितः ।
युग्यारूढश्च कोथ स्यात्तृतीयो धन्यषष्ठयोः ॥ २६७४ ॥
पृष्टस्तेनावदत्कश्चित्पामरोथ प्रमोदभाक् ।
संधिर्निबद्धो नगरं गतौ लोठनविग्रहौ ॥ २६७५ ॥
संदेहोजहतद्रोहो भयमुन्मुखतां व्रजेत् ।
शातिस्त्रेहेन तस्यासीन्मुहूर्तमपहस्तितम् ॥ २६७६ ॥
१ अकृत्रिमैः इति स्यात् । २ भोजेन इति स्यात् । ३ विस्तृति इत्युचितम् | २३२ राजतरङ्गिणी
सैन्ये गते शून्यतया मिलितैर्विहगैः सरित् ।
रुवद्भिस्तेन तौ नीतौ ऋन्दतीव व्यकल्पत ॥ २६७७ ॥
लवन्य एव मे ध्याद्ध्यात्वेहस्थमवेत्य ते ।
पुनर्नयेयुर्धन्याद्याः क्रमाद्दध्यावथेति सः ॥ २६७८ ॥
स्वं नेतुं पार्थिवचमूं प्रत्यावृत्तां निनादिनीम् ।
श्रुतेन्तरान्तरा घोषे निर्झराणामशङ्कत ॥ २६७९ ॥
अथाजायत जीमूतवितीर्णतिमिरं जगत् ।
वन्ध्यमध्यंदिनेनेव निशीथव्ययितश्रिया ॥ २६८० ॥
राधमासावधि दधुस्ततः प्रभृति वारिदाः ।
दीक्षां क्षोण्यां तुषारौघसन्त्रासूत्रणकर्मणि ॥ २६८१ ॥
विस्रब्धघात्यभव्योहं निर्ब्रह्मण्यो हियोज्झितः ।
निन्दन्स्वमिति भोजाग्रे ततो दस्युरूपाविशत् २६८२ ॥
समयापेक्षयाक्षोभो मन्युं संस्तभ्य साल्हणिः ।
सान्त्वयन्निव नास्त्यागस्तवात्रेति जगाद तम् २६८३ ॥
ऊचे च संश्रितापत्यज्ञात्याद्यापद्गतं त्वया ।
त्रातुमेतत्कृतं तत्र गर्दा नार्हसि कस्यचित् ॥ २६८४ ॥
तव द्रोहस्पृहा स्याञ्चेन्नानृशंस्यं भवेन्मयि ।
परकृत्ताभवत्तस्मादियं कालानुरोधतः ॥ २६८५ ॥
राज्ञश्च हर्षभूभर्तृवंश्या इव न वा वयम् ।
उच्छेद्याः किंतु संयम्या राजधर्मानुरोधिनः ॥ २६८६ ॥
स्वस्याख्यातिस्तयोर्बाधा राज्ञश्चामार्गगामिता ।
शेषं मां रक्षता हन्त निषिद्धा धीमता त्वया ॥ २६८७ ॥
इत्युक्तवन्तं तं त्यक्तलजाभार इवावदत् ।
साक्षी त्वमेव सर्वत्र ममेति सततं स्तुवन् ॥ २६८८ ॥
क्षणेन च प्रहिणु मामधुनेत्यभिधायिनम् ।
तमेव हिमवृष्ट्यन्ते कर्तास्मीत्युक्तवान्ययौ ॥ २६८९ ॥
त्वयि दस्युर्विपर्यस्येन्मन्युं जानन्नभोजनम् ।
भोजस्तत्रेति केनापि कथितो व्यधिताशनम् ॥ २६९० ॥
स्पृशंधानं चिरात्प्राप्तमिदं विक्रीयतामिति ।
ध्यायञ्ञ्ज्ञात्योर्देहमांसं तयोर्भुक्तममन्यत ॥ २६९१ ॥
दस्युस्तु हिमवृष्ट्यन्ते त्वां प्रहेण्यामि निश्चयात् ।
श्वो वाद्य वेति कथयन्द्वौ मासौ न मुमोच तम् ॥२६९२ ॥
मां शात्वेह स्थितं राज्ञा कृतारब्धेर्हिमात्यये ।
विक्रीणात्येष मत्वेति भोजोधाद्रमने त्वराम् ॥ २६९३ ॥
मिषं यं यं निषेधाय गमनायोदपादयत् ।
दस्युस्तं तं समुच्छेद्य सापराधं व्यधत्त तम् ॥ २६९४ ॥
ओजोनाम्नो बलहरात्संजातं भाद्रमातुरः ।
अभ्यधाद्वाल्यमाशास्य लम्बकम्बलकावृतः ॥ २६९५ ।।
तेजोविस्फूर्जितांस्तत्तद्वीरोत्कर्षकषोपले ।
द्वैराज्ये सौस्सले सैन्ये पङ्किपावनतां गतः ॥ २६९६ ॥
पितुराप्ततया राज्ञा वर्धितस्तदनन्तरम् ।
एवेनकादिविषयाधीकारित्वं क्रमाद्भजन् ॥ २६९७ ॥
विमुखे राशि नागेन खूयाश्रमभुवा कृते ।
तं राजवदनो नाम विजिघृक्षू ररक्ष तम् ॥ २६९८ ॥
चक्कलकम् ॥
२३३
आनृशंस्यं भृत्यभावादलवन्यतयास्य च
प्रत्यवस्थित्यसामर्थ्य राशि सर्वे शशङ्किरे ॥ २६९९ ॥
३० २३४ राजतरङ्गिणी
अतोलंकारचक्रेण कुर्वतात्यर्थमर्थनाम् ।
द्वैराज्येच्छो राजबीजी तदा न स समर्प्यत ॥ २७०० ॥ .
युग्मम् ॥
नीतः प्रत्यक्षतां दूरस्थितेप्युदयने स तम् ।
विसृष्टवति दुधुक्षुस्त्यक्तुमेनं न सोशकत् ॥ २७०१ ॥
राशा कर्तु विनिमयं भोजस्य प्रहितो धनैः ।
प्राप्य द्रङ्गामलंकारो विषयाधिकृतस्ततः ॥ २७०२ ॥
तत्पार्श्वमुद्यतं गन्तुं मां समुत्सृज्य यासि चेत् ।
त्यक्ष्यामि तदसूनेवमूचे भोजस्तु डामरम् ॥ २७०३ ॥
श्वस्त्वां प्रभाते द्रश्यामीत्येतावत्तत्र जल्पति ।
कोट्टादनुक्त्वैव निशस्तुर्ययामे विनिर्ययौ ॥ २७०४ ॥
घनवर्षेप्यमर्षेण मार्गान्वेषी गवेषणम् ।
यावञ्चक्रे क्षपान्ते तं तावच्छुश्राव निर्गतम् ॥ २७०५ ॥
असाध्यप्रतिषेधोथ तमन्ह्यनुजगाम सः ।
प्रस्थितं शारदादेवीस्थानं यावन्मितानुगः ॥ २७०६ ॥
एकसार्थगतौ ज्ञाती विना तौ ज्ञातियोषिताम् ।
दाक्षिण्यादक्षमः स्थातुमने सागा भवन्निव ॥ २७०७ ॥
प्रवयाः पञ्चषान्वारान्व्यधादारब्धिमेष तु ।
युवाप्यकल्पः कौलीनमिति स्वस्य च चिन्तयन् ॥ २७०८ ॥
दुराण्डगमने खण्डितेच्छः संश्रित्य दारदान् ।
संयुयुत्सुर्मधुमतीरोधसा मार्गमग्रहीत् ॥ २७०९ ॥
तिलकम् ॥
कापि श्यानाश्मसूच्यधिमृत्युदंष्ट्राङ्कुरोत्कटान् ।
क्वचिदुद्धप्रकाशाभ्रकालपाशान्धकारितान् ॥ २७१० ॥
॥ २७११ ॥ ।
प्रभ्रश्यद्धिमसंघातगजव्यूहोल्बणान्कचित् ।
क्वापि निर्झरफूत्कारनाराचक्षतविग्रहान्
क्वैचित्सुस्पर्शपवनस्पष्टस्फुटदसृग्धरान्
क्वाप्यातपक्षतहिमज्योतिर्निहतहक्पथान् ॥ २७१२ ॥
दूरावरोहे प्रसृते स्फुटमप्रसृते विदन् ।
ऊर्ध्वावरोहमसकृन्मन्यमानोप्यधोगतेः ॥ २७१३ ॥
तुषारकालविषमान्षट्सप्तान्पथि वासरान् ।
उल्लङ्ग्य स दरद्राष्ट्रसीमान्तग्राममासदत् ॥ २७१४ ॥
कुलकम् ॥
गूढार्पितात्मसामग्रीहता किंचन्यलाघवम् ।
तं दुग्धघाट्टकोटेशः प्रणम्यानयर्ध्यताम् ॥ २७१५ ॥
दूरस्थितो विडसीहस्तदूतोकतदागमम् ।
प्रक्रियां प्राहिणोच्छत्रवादित्राद्यां नृपोचिताम् ॥ २७१६ ॥
आदिष्टदिष्टवृद्धिश्च राष्ट्रे कोट्टाधिपेन सः ।
A
अंवारयत्स्वकोशस्य स्वामित्वं राजबीजिनः ॥ २७१७ ॥
राजायमानो भोजोथ राजवासगतोचितम् ।
आनिन्ये राजवदनापत्येनाभ्येत्य पक्षताम् ॥ २७१८ ॥
स पित्रैकान्ततो राज्ञोभिन्नेन प्रहितोन्तिकम् ।
तेनाज्ञाय्यरिनीत्युग्रपाशाग्रस्थापनोपमः ॥ २७१९ ॥
कार्यगौरवविश्वासाभावव्यतिकरोचितम् ।
संदिश्य प्राहिणोत्तं स न स्वीकुर्वन्न चोत्सृजन् ॥ २७२० ॥
किमाप्तोहं किमेकान्तभिन्नो राज्ञः शनैरिति ।
मां ज्ञास्यसीति तं दूतैः स राजवदनोवदत् ॥ २७२१ ॥
१ क्वचिद्दुःस्पर्श इति स्यात् । २ तदागमः इत्युचितम् । ३ अकारत्रत् इति स्यात् । २३५ २३६ राजतरङ्गिणी
तस्य दाद दर्शयितुं गोत्रिवैरिमिषान्नृपे ।
ब्रुवाणेथ विदोषत्वं नागाद्यैरग्रहीद्रणे ॥ २७२२ ॥
सामग्री नः शनैः स्थैर्य ततः साम्यमथ क्रमात् ।
आधिक्यं चादद्धे तेषां विग्रहैधैर्यनिष्टुरः ॥ २७२३ ॥
तथा प्रतिष्ठां स प्राप तस्यापूर्वस्य भूमिजाः ।
दास्यमेत्य यथा व्रीडां नागु
स हि त्यागक्षमास्तम्भालोभादिगुणभूषिताम् ।
अभिगम्योभवन्नित्याभ्यस्तभूतिरिवोन्मिषन् ॥ २७२५ ॥
स्थैर्य पृथ्वीहरादीनां साश्रयाणां न कौतुकम् ।
स्य बान्धवाः ॥ २७२४ ॥
आडम्बरो निरालम्बस्यास्य स्तुत्यस्तु विस्तृतः ॥ २७२६ ॥
ग्रथयन्पृथुलान्व्यूहांश्चौराटविकघोषिकैः ।
क्रान्तग्रामोथ तस्थौ स भोजादीन्प्रतिपालयन् ॥ २७२७ ॥
जद्दुरन्योन्यसंघर्षसेर्ध्यामात्यमतेन वैः ।
ततो लुण्ठिप्रियत्वाद्वा नीतिमन्येपि डामराः ॥ २७२८ ॥
उद्धातध्वंसिनां विप्लवेच्छा लोठनबन्धने |
याधात्तेषां तदानीं सा जगाम शतशाखताम् ॥ २७२९ ॥
त्रिल्लको जयराजश्व राज्ञा संवर्धितावपि ।
अकाट नैव तपसा विवशौ चक्रमीलनात् ॥ २७३० ॥
यो घूकानामिव श्वभ्रमामयानामिव क्षयः ।
दैत्यानामिव पातालं यादसामिव सागरः ॥ २७३१ ॥
आश्रयः सर्वदस्यूनां त्रिल्लको माययोल्वणः ।
स देवसरसाधीशं संबध्नन्विप्लवं व्यधात् ॥ २७३२ ॥
युग्मम् ॥ १ भूषितः इत्युचितम् | २ वा इति स्यात् । अष्ठमस्तरङ्गः ।
काङ्क्षन्तोथ तदाक्षेपं क्षोणीत्राणार्थिनो द्विजाः ।
प्रायं नृपतिमुद्दिश्य चक्रिरे विजयेश्वरे ॥ २७३३ ॥
अकालदस्युनिर्मार्थं जानतेभ्यर्थनां न ते ।
राज्ञो गृहंस्ततः सोभूद्दाक्षिण्यात्तत्सभानुगः ॥ २७३४ ॥
प्रस्थातुं पार्थिवे सज्जे ज्यायान्यो विप्लुतेष्वभूत् ।
स जातोत्पातपिटको जयराजो व्यपद्यत ॥ २७३५ ॥
भाग्यवानेकतो जातदस्युवैविक्यमीशिता ।
ततो मडवराज्यं स विप्रप्रीत्यै विनिर्ययौ ॥ २७३६ ॥
अमात्यदत्तवैमात्यैः सशाठ्यं मठरैरथ ।
द्विजैर्निषिद्धोलंकारो मत्री राज्ञोज्झितोन्तिकात् ॥ २७३७॥
स व्यवस्थापने दुःस्थदस्यूनां सोद्यमः सदा ।
सेर्ष्याणां प्रत्यभात्तेषां तदोषपरिपोषकः ॥ २७३८ ॥
त्रिल्लकोन्मूलनं कुर्यो कृत्वा द्वैराज्यभञ्जनम् ।
प्रतिज्ञायेति नृपतिर्विप्रान्प्रायाच्यवीवरत् ॥ २७३९ ॥
त्रस्तोथ त्रिल्लकस्तैस्तैरप्रियैरुदवेजयत् ।
अनुद्भिन्नमुखो गूढामयो रोगान्तरैरिव ॥ २७४० ॥
जयराजानुजं राशा यशोराजं निवेशितम् ।
तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥ २७४१ ॥
त्रातुं तं देवसरसं हप्तारात्याश्रितं गतः ।
सज्जपालोल्पसैन्यत्वात्संदिग्धविजयोभवत् ॥ २७४२ ॥
ज्ञातोदन्तस्ततोभ्येत्य रिहणो रणमुल्बणम् ।
जयलक्ष्मीकटाक्षाणां प्रथमातिथितामगात् ॥ २७४३ ॥
मन्दरेणाथ तेनारिवारिराशौ विलोडिते ।
कल्पोभूत्सज्जपालाब्धिस्तुच्छारातिजलाहृतौ ॥ २७४४ ॥
१ वैयात्यैः इति स्यात् । २३७ २३८ राजतरङ्गिणी
जितेपि राजके स्वोर्व्या विनानुग्राहकं क्षमः ।
न बभूव यशोराजः शून्ये बाल इवासितुम् ॥ २७४५ ॥
प्रतीक्षमाणो द्वैराज्यपर्याप्तिं क्षमाभुजेकरोत् ।
त्रिल्लकः कालहरणं तैस्तैर्मायानतिक्रमैः ॥ २७४६ ॥
यथाकालं ततो गूढोपोढान्मण्डलकण्टकान् ।
स्वपक्षसूचीविशिखान्दिक्षु श्वाविदिवाक्षिपत् ॥ २७४७ ॥
अथ पार्श्वहरियोंभूच्चतुष्कः कोष्टकानुजः ।
राशा भ्रात्रा समं बद्धः कारागारात्पलायितः ॥ २७४८ ॥
स तेन निजजामात्रा रक्षितः स्वोपवेशने ।
असंख्यडामरयुतः शमालां संप्रवेशितः ॥ २७४९ ॥
युग्मम् ॥
आकर्ण्य कुररस्येव निनादं तस्य भेजिरे |
व्यक्ततां दस्यवो गूढा हृदस्था: शफरा इव ॥ २७५० ॥
दृप्यन्तं राजवदनं षष्ठचन्द्रोथ गर्गजः ।
रुरोध प्रलयोद्वृत्तं वेलाद्रिरिव वारिधिम् ॥ २७५१ ॥
वर्धमानक्षीयमाणसंहती तौ त्वजायताम् ।
घर्मे सजम्बालहिमौ तुषाराद्रितटाविव ॥ २७५२ ॥
षष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ ततः ।
दूरविप्रकृतौ राजमन्दिरावाप्तवेतनौ ॥ २७५३ ॥
ज्ञातनिर्वृत्त्यपर्याप्ती धुर्यकार्यवशप्रियात् ।
प्रतीक्ष्यादग्रजाद्राशः शङ्कितावशुभागमम् ॥ २७५४ ॥
कटकाद्विद्रुतौ राजवदनान्तिकमागतौ ।
श्वशुर्यावपि भूभर्तुरागतौ प्रतियोग्यताम् ॥ २७५५ ॥
तिलकम् ॥ अष्टमस्तरङ्गः ।
शैलप्रस्थानपथिकैरसंख्यैरथ खाशकैः ।
स पूर्वराजकोशार्थी भूतेश्वरमलुण्ठयत् ॥ २७५६ ॥
तस्कराक्रान्तशरणं बलवन्निहताबलम् ।
अराजकमिवाशेषं राष्ट्रं कष्टां दशामगात् ॥ २७५७ ॥
उदयं कम्पनाधीशं रिल्हणं च ततो नृपः ।
२३९
चतुष्कयुद्धमादिश्य नगरं विवशोविशत् ॥ २७५८ ॥
पार्श्वीहरिस्तु दुःसाध्यो महाव्याधिरिवौषधैः ।
स्तम्भितोभूत्तयोः सैन्यैः संहर्तुं न त्वशक्यत ॥ २७५९ ॥
कालापेक्षां स्वपक्ष्याणां दुर्बुद्धिं वानुरुन्धतः ।
आसीन्मन्दप्रतापत्वं रिल्हणस्यापि तत्क्षणम् ॥ २७६० ॥
विडसीहस्तु विज्ञातभोजोदन्तो व्यसर्जयत् ।
दूतानानेतुमुर्वीशान्सुबहूनुत्तरापथे ॥ २७६१ ॥
अपि वित्तेशवनितारहोवैयात्यवेदिभिः
।
अपि किंमानुषपुरीगीतोद्वारिदगृहैः ॥ २७६२ ॥
अप्यौष्ण्याद्वालुकाम्भोधेः शीतावेदिभिरेकतः ।
अपि शृङ्गानिलैः प्रीतान्कुर्वाणैरुत्तरान्कुरून् ॥ २७६३ ॥
हिमाद्रिकच्छैम्र्लेच्छेशाः प्रधावन्तोधिशिश्रियुः ।
दिशस्तुरंगै रुन्धन्तः स्कन्धावारं दरत्पतेः ॥ २७६४ ॥
तिलकम् ॥
राक्षां संघटनं यावड्यधादेवं दरन्नृपः ।
दिग्भ्यो भोजान्तिकं तावत्तत्सामन्ताः प्रपेदिरे ॥ २७६५ ॥
स पिप्रिये तानज्ञातालापान्वीक्ष्य गिरिव्रजान् ।
प्रीतिप्ररूढप्रणयानवरूढान्कपीनिव
जयचन्द्रादयो राजवदनप्रहिता अपि ।
॥ २७६६ ॥
कीराः काश्मीरिकाः पार्श्वमभजन्त्राजबीजिनः ॥ २७६७ ॥
राजतरङ्गिणी
अभ्यर्णस्थान्यलहरप्रमुखांश्च विदूरगान् ।
अपुष्णात्साल्हणिः स्वर्णैः परां कोशेशतां भजन् ॥ २७६८ ॥
ततः स्वजनितोत्पिञ्जतया निश्चोद्यचाक्रिकः ।
भोजेन राजवदनः समगंस्तापसाध्वसम् ॥ २७६९ ॥
तयोरकृतकर्तव्यविशेषेणेतरेतरम् ।
जातसौष्ठवयोः क्षिप्रमविश्वासो व्यशीर्यत ॥ २७७० ॥
अभ्यमित्रीणतां तस्यानिच्छतो दरदं विना ।
मदात्साहायकायैच्छन्मितानेव स तान्हयान् ॥ २७७१ ॥
स्युश्चेत्सोढाग्रिमाटोपाः कटकस्यास्य नो द्विषः ।
तत्साम्यमुन्मिषेद्यद्धा भङ्गो भूयोपि योगभित् ॥ २७७२ ॥
तस्मात्सर्वाभिसारेण रणमेकं ममेच्छतः ।
विजयावजयावाप्तिरेकाहान्तरिता मता ॥ २७७३ ॥
व्याजहारेति यद्भोजस्तदेषोथ हसन्स्मयात् ।
निन्ये तद्दारदं सैन्यमुपेक्ष्यागमिनीश्चमूः ॥ २७७४ ॥
तिलकम् ॥
संकटान्ते वितीर्णानुयात्रस्तेषां प्रसर्पताम् ।
स राजबीजी शुश्राव दरद्वाजमथागतम् ॥ २७७५ ॥
तत्संगमाय व्यावृत्ते तस्मिन्कोट्टान्तिकं पुनः ।
प्रावेशयद्वलहरो मातृग्रामं स तद्बलम् ॥ २७७६ ॥
दिशस्ततो वीक्ष्य वाह्रैर्भ्रान्तवातमृगा इव ।
निसर्गधीरधीर्गार्गिर्न धैर्यात्पर्यहीयत ॥ २७७७ ॥
तस्य सर्वेपि नीलाश्वडामराः स्वे च सैनिकाः ।
विपक्षैः सह बद्धैक्याः सैन्यान्दुभुक्षवो ययुः ॥ २७७८ ॥
स तथा विषमस्थोपि प्रस्थित्यै प्रार्थितो निजैः ।
म्लानाननः प्रभुं द्रष्टुं न क्षमोस्मीत्यभाषत ॥ २७७९ ॥
स सूर्यवर्मचन्द्रस्य न जातः कश्चिदन्वये ।
उपयोगाय यो नागान्मल्लाभिजनजन्मनाम् ॥ २७८० ॥
भोजं सभाजयित्वाथ विड्डसीह : सपार्थिवः ।
सारैः समं स सामन्तैर्विजयाय व्यसर्जयत् ॥ २७८१ ॥
ततो म्लेच्छगणाकीर्णा व्रजन्संवाहयंश्चमूः ।
प्रयाणमात्रान्तरितः पृष्ठे तस्य बभूव च ॥ २७८२ ॥
प्रादुष्कृतजगत्क्षोभे बले तत्रानुयायिनि ।
उत्साहात्साल्हणिर्मेने कृत्स्नां हस्तगतां महीम् ॥ २७८३ ॥
वाजिभिस्तर्जितो म्लेच्छराजैश्च बलमूर्जितम् ।
स्थाने समुद्रधाराख्ये निर्वबन्धाथ तत्पदम् ॥ २७८४ ॥
स राजवदनस्तादृग्दुर्जयाग्र्यबलोज्वलः ।
मृत्युदन्तान्तरे दिष्टं षष्ठचन्द्रं स्वमन्यत ॥ २७८५ ॥
ततः प्रावृपयोवाहकृतोदीपपरिप्लुता ।
संजायते स्म वसुधा समीभूतजलस्थला ॥ २७८६ ॥
धरित्रीपानपात्रेम्भःशीधुपूर्णे दधुद्रुमाः |
मना लक्ष्यशिखामात्रा वलन्नीलोत्पलोपमाम् ॥ २७८७ ॥
षष्ठस्य संकटं जानन्भूभृच्छेषैर्बलैः समम् ।
अथोदयद्वारपतिं तं च धन्यं व्यसर्जयत् ॥ २७८८ ॥
वाहिनीरुद्धमार्गौ तौ पदवीमनुसस्रतुः ।
२४१
मार्गे धनंजयस्येव शैनेयपवनात्मजौ ॥ २७८९ ॥
लम्बाम्बुदेम्बरे दूरं वारिपूर्णे च भूतले ।
स्यूतेव विद्युद्दडशेभिन्नद्योतननिःस्वना ॥ २७९० ॥
शोभामाजोदितागपरिबर्हाबहिष्कृतः ।
तत्राविभक्तकटकः पार्थिवः समजायत ॥ २७९१ ॥
३१ २४२ राजतरङ्गिणी
अनास्थो राजवदने सत्त्वावष्टम्भयोः पुरा ।
अत्रापरो न निक्षेप्यो राजबीजीति दारदान् ॥ २७९२ ॥
त्रिल्लक: संदिशन्दूतैर्वृद्धिं पावहरिं नयन् ।
तयोरेकस्य सामर्थ्यादैच्छत्तं हस्तपातिनम् ॥ २७९३ ॥
युग्मम् ॥
अभित्तिलिखितालेख्यकल्पं बलहरस्य तत् ।
ताग्विलोक्य सामर्थ्यमथ राज्ञश्च सर्वतः ॥ २७९४ ॥
विभक्ताशेषसैन्यस्य तत्र तत्रारिसंकटे ।
ज्ञात्वाप्रतिसमाधेयच्छिद्रमुन्मुद्रदुर्नयः ॥ २७९५ ॥
अकृशश्वाविदाचारश्चिरं स्वाङ्गैः स गोपितम् ।
बहिर्दुर्धर्षमत्याक्षीद्वितीयमपि कण्टकम् ॥ २७९६ ॥
तिलकम् ॥
ध्वान्तेम्बुधरजालान्ध्यमहावाते रजोभरः ।
स्वपक्षभेदयोर्ज्ञातकर्णेजपमहोद्यमः ॥ २७९७ ॥
कुलच्छेदकृतो राज्ञस्तत्र तत्रातिसंकटे ।
अशान्तजागरोत्यर्थमनर्थपरिपोषकः ॥ २७९८ ॥
सोथ शूरपुरेकस्माद्बहुभिः सह डामरैः ।
तेन संपूरितः पृथ्वीहरजो लोठकोपतत् ॥ २७९९ ॥
तिलकम् ॥
तस्य संघटतः कन्थां प्रयातं वैकृतं चिरात् ।
पालीभङ्गे तटस्येव प्रावृद्पूर्णस्य लक्ष्यताम् ॥ २८०० ॥
निद्राणोपेन्द्रजठरप्रमादनिसृतं जगत् ।
समेतमिव तत्सैन्यं प्रत्यभाजलदागमे ॥ २८०१ ॥
यावद्भिः पार्यते नेहक्संख्यातुमपि तद्बलम् ।
व्यक्तव्यकल्पैः सुस्वल्पयोधमध्यगतैरपि ॥ २८०२ ॥
तावद्भिरनुगैः पिञ्चदेव इङ्गाधिपो युधि ।
तद्योधान्याम्यहरितः सरितश्चातिथीन्व्यधात् ॥ २८०३ ॥
युग्मम् ॥
२४३
तदोज्वलैश्चिताचक्रैर्बिम्बितैस्तटिनीजले ।
मृतानामपि संस्कारः क्रियमाण इवाभवत् ॥ २८०४ ॥
इति विस्मृतमृत्युः स कुर्वन्नेकाहमाहवम् ।
कथंचिदाप्तैरन्येचुर्भग्नसारोपसारितः ॥ २८०५ ॥
पुरे स शून्ये सैन्यानि संगृहंस्तत्र सर्वतः ।
द्वित्रैरहोभिर्नगरं सुखग्राह्यममन्यत ॥ २८०६ ॥
इच्छां पद्मपुरास्कन्दे मन्दत्वं त्रिल्लकोनयत् ।
पृष्ठस्थयोर्यशोराजकम्पनाधीशयोर्भयात् ॥ २८०७ ॥
न भृत्यैस्तद्विधः सिद्धश्चास्यैकस्मिन्नसंमते ।
विधेयान्यलवन्यस्य डामरे होलडौकसि ॥ २८०८ ॥
द्वैराज्ये सुस्सलस्यापि नैवादृश्यत तादृशः ।
अनर्थो याहगुत्तस्थौ तत्सुतस्य समन्ततः ॥ २८०९ ॥
चतुष्कमवधीर्याथ राज्ञा पादगदोपमम् ।
रिल्हणप्रेषितं ग्रीवागण्डतुल्यं व्यपोहितुम् ॥ २८१० ॥
प्रस्थितस्तत्प्रमाथाय शमालैः सोन्वबध्यत ।
व्रजन्प्राग्ज्योतिषं हन्तुं पार्थः संशप्तकैरिव ॥ २८२१ ॥
अधावच्चाभ्यमित्रीणस्तान्व्यावृत्त्य निपातयन् ।
पद्माकरोन्मुखः पृष्ठलझान्भृङ्गानिव द्विपः ॥ २८१२ ।
रणश्रान्तेन गमिता त्रियामा तेन रामुशे ।
गर्जन्कुल्यार्पितारातिपृतनानाशसंस्क्रिये ॥ २८१३ ॥
१ रामुषे इति स्यात् । राजतरङ्गिणी. गिलन् ॥ २८१५ ॥
तत्कल्याणपुरं प्राहे विशन्तं सोग्रमागतः ।
रुरोधाभ्येत्य भूयोपि बलैर्भरितदिङ्मुखः ॥ २८१४ ॥
आपतन्नेव चारातिपदातीन्संमुखागतान् ।
दृष्टनष्टान्व्यधाच्छागानिवाग्रेऽजगलो
उद्वृत्तमारुतस्येव तस्यापाते पदातिभिः ।
तत्यजे रिल्हणः पर्णैर्हेमन्त इव पादपः ॥ २८१६ ॥
पश्यतस्तस्य ते विद्रवन्तो जिह्या न जिहियुः ।
देहस्पृहापारमित्यै कस्यौचित्यमनत्ययम् ॥ २८१७ ॥
आतैरथापसृत्य स्वैरर्थितो रिल्हणोब्रवीत् ।
नयन्प्रजासृजा साम्यं स्वामिभक्तिस्मृतेः स्मितम् ॥ २८१८ ॥
ही वाविशेषेपि जन्तोर्जन्तोर्यदीशिता ।
भृत्यभावेपि यो लुप्तकृत्यो धिक्तस्य जीवितम् ॥ २८१९ ॥
जातं वक्रसरः इमथुराजिनीलाजभोजनम् ।
जराकैरवगौरं च राज्ञः पादान्प्रपद्य यान् ॥ २८२० ॥
म्लायत्सु तेषु भ्रूभङ्गभृङ्गभ्राजिष्णुभिर्भवेत् ।
कथं लक्ष्मीविलासैस्तदखण्डैरविडम्बितम् ॥ २८२१ ॥
युग्मम् ॥
एषा कापुरुषासेव्या धीराणां नैव पद्धतिः ।
यदायासलवत्रासात्सौख्यवैमुख्यभागिता ॥ २८२२ ॥
वस्त्रापासन एव शीतजनितस्त्रासोथ तीर्थाम्बुभिः
स्नाने ह्लादसुखोपलब्धिरसमब्रह्मानुभावोपमा ।
वैद्दल्यं समरे वपुर्विजहतामेवं किलोपक्रमे
कैवल्याख्यसुखोपलम्भपरमा पश्चात्पुनर्निर्वृतिः ॥ २८२३ ॥
१ भोज्वलम् इति स्यात् । अष्टमस्तरङ्गः ।
एवमुक्त्वा परानीकमेकाकी स व्यगाहत ।
गृह्णञ्शरान्हरिप्रोथश्वाससंदिग्धशूत्कृतान् ॥ २८२४ ॥
स्वर्णत्सरुप्रभाजालहरितालोज्वलोभजत्
२४५
।
खगपट्टनटस्तस्य रणरङ्गोत्तरङ्गताम् ॥ २८२५ ॥
तत्खड्गस्य प्रतः खड्गाजीवैर्जालच्छलाडुवम् ।
उत्थाय लग्नं शत्रूणां तृणैस्तृणमणेरिव ॥ २८२६ ॥
आजौ तमनुजग्मुस्ते यैरगण्यन्त वैरिणः ।
तिर्यञ्चो लक्ष्यतां यातास्तेषां प्राणास्तृणान्यपि ॥ २८२७ ॥
संप्रविष्टो मुखान्मृत्योः कैश्चिन्मार्गैः स निर्गतः ।
तिमेः संमीलितास्यस्य श्रोत्ररन्धैरिवोदकम् ॥ २८२८ ॥
शश्वत्कुर्वन्परावृत्तीः श्रमशान्त्यै विनिर्गतः ।
प्रक्षीणभूयिष्ठवलो लब्धोत्सेको रिपावभूत् ॥ २८२९ ॥
पृष्ठतः स पपाताथ चतुष्कः पुष्कलैर्वलैः ।
साहायकागतं प्राक्स यं स्वं कंचिदमन्यत ॥ २८३० ॥
तस्योभयमुखस्यारिसैन्यस्याहेरिवेक्षणात् ।.
न संरम्भे शिखण्डीव परं ताण्डवितोभवत् ॥ २८३१ ॥
तौ व्यूहावथ पर्यायैर्मुखपृष्ठं प्रदर्शयन् ।
सोक्षिणोयुधि मन्थाद्रिर्मथनेब्धितटाविव ॥ २८३२ ॥
कीलनिश्चलयोर्भ्राम्यन्नसकृद्वान्तरे द्वयोः ।
कुविन्द इव........तुरंगमतुरान्वितः ॥ २८३३ ॥
भासः प्रत्यग्रहीत्तस्य तमेकपृतनावयम् ।
एकतोम्भोधरं द्वीपस्येव कूलबिलोद्गमः ॥ २८३४ ॥
तेन वैरिचमूश्चक्रे लुलितायुधकुण्डला ।
कीड़ता चण्डवेगेन पुरुषायितुमक्षमा || २८३५ ॥
"रयम् इति स्यात् । २४६ राजतरङ्गिणी
त्रासपाण्डून्द्विषां वक्रकुम्भान्स्वेदाम्भसा चितान् ।
स कुर्वन्भूभुजं जाने भूयो राज्येभ्यषेचयत् ॥ २८३६ ॥
सच पार्श्वीहरिश्चास्तामन्योन्यस्य क्षपाक्षणे ।
सजौ मात्रिकवेतालाविव रन्ध्रगवेषिणौ ॥ २८३७ ॥
साहायकागतान्साक्षीकृतक्ष्मापतिसैनिकान्
।
अन्येद्युः सोकरोच्छत्रुं वनमार्गावगाहिनम् ॥ २८३८ ॥
पर्यस्तशौचान्संचिन्त्य त्रिल्लकादीनथाययौ ।
सज्जपालस्तृतीयस्मिन्दिवसे रिल्हणान्तिकम् ॥ २८३९ ॥
नृपप्रतापग्लपितः स ताभ्यां पर्यशोष्यत ।
वनान्तः शुचिशुक्लाभ्यां घुणक्षीण इव द्रुमः ॥ २८४० ॥
चितानल इवासारैर्युद्धैः शममनाश्रितः ।
उदयेन शनैर्निन्ये चतुष्कोपि मितोष्मताम् ॥ २८४१ ॥
दारदं ....बैलं दृप्येद्धेमसंनाहवाहिभिः ।
हयैरवरुरोहाद्रिकुहरादाहवोन्मुखम् ॥ २८४२ ॥
तुरुष्कलोकेनाक्रान्तान्देशांस्तद्वशमीयुषः ।
शङ्कमानैर्जनैर्ज्ञाता कृत्स्ना म्लेच्छावृतेव भूः ॥ २८४३ ॥
प्रयाणमात्रान्तरिते धन्ये द्वारपतावपि ।
साहसं निःसहायस्य तत्खरतोभवत् ॥ २८४४ ॥
ज्वलत्कनकसंनाहं तत्सैन्यं स द्विषोरुधत् ।
कचज्वालावलं दावं सनिर्झर इवाचलः ॥ २८४५ ॥
विधूय जयचन्द्रादीनग्रप्रस्थानरोधिनः ।
बलबाहुल्यदीप्तास्ते व्यगाहन्ताहवावनिम् ॥ २८४६ ॥
तेषां हयसहस्राणि त्रिंशद्विशतुरंगमैः ।
रंहसा प्रतिजग्राह निजग्राह च गर्गजः ॥ २८४७ ॥
१ साक्षीकृत्य इति स्यात् । २ तद्वलं दृप्यत् इति स्यात् । 'अष्टमस्तरङ्गः ।
तस्यासुहृद्भिर्ददृशे पौरुषं तदमानुषम् ।
एकैकस्याग्रतो यत्स वैश्वरूप्यमिवाधे ॥ २८४८ ॥
अश्ववङ्काग्रविन्यस्तवक्रास्ते विद्रुताः क्षणात् ।
जगाहिरे कापुरुषा गिरीन्किपुरुषा इव ॥ २८४९ ॥
अभूमिशतया शाठ्याच्चैष जातः पराभवः ।
२४७
श्वस्तदस्मान्पुरस्कृत्य जयं प्रत्याहरिष्यथ ॥ २८५० ॥
इत्युक्ता राजवदनजयचन्द्रादिभिर्निशि ।
तथेति मिथ्याकथयन्दारदा विद्रवोन्मुखाः ॥ २८५१ ॥
युग्मम् ॥
प्रवेश्य धन्यद्वारेशौ दूरं बलहरो बली ।
ऐच्छत्सन्नभिसंधातुं रुवा पाश्चात्यपद्धतीः ॥ २८५२ ॥
स्कन्धावारेण सार्धं च दरदां राजबीजिनाम् ।
विधातुं विद्धे बुद्धि तं ततस्तारमूलके ॥ २८५३ ॥
चिकीर्षति ततस्तस्मिन्मत्तेष्वन्धेषु दस्युषु ।
उत्सेहे साल्हणिः कृत्स्नं राज्यं निश्चितनिर्जितम् ॥२८५४॥
जयाभावेण्यनन्तेहक्सामन्तसहितांस्ततः ।
भव्योम भवितेत्येवं विचिन्त्योत्सिषिचे च सः ॥ २८५५ ॥
पद्मोन्माथाद्विरदरदनैरप्रियैः पद्मबन्धो-
रिन्दौ स्पर्धिन्युदयति वपुः खण्डशः स्वं भ्रियेत ।
तापस्त्यज्येत च रुचिरमाभागिभिः सूर्यकान्तै-
र्भद्राभद्रं व्यसनसमये संभवेदप्रतम् ॥ २८५६ ॥
यो डामरतया भिक्षोः शश्वत्कृच्छ्रेप्युपेक्षणम् ।
टिक्कादीनां च कौटुम्ब्याभर्तुग्धमूर्धनि ॥ २८५७ ॥
१ सहितं इति स्यात् । २४८ राजतरङ्गिणी
अलवन्यतयानन्यसामान्याश्चर्यवर्धनात् ।
ततः कृच्छ्रोपयोगाञ्च विश्वासस्येव मूर्धनि || २८५८ ॥
तौ नागराजवदनौ व्यसनावसरे तदा ।
चित्रं स्वकार्यतात्पर्यादद्भुतादरतां गतौ ॥ २८५९ ॥
तिलकम् ॥
स्वयं विधेयं नागोन्यकृतं तं वीक्ष्य विप्लवम् ।
अदूरमर्थमन्येन कृतं कविरिवाशुचत् ॥ २८६० ॥
क्ष्मामृद्विपक्षं स्वं पक्षीकर्तुं कप्ताननं ततः ।
संत्यज्य राजवदनं मां भजस्वेत्यभाषत ॥ २८६१ ॥
संप्राप्तं वः प्रतीक्षध्वं तेजो बलहरात्मजम् ।
युग्याधिरूढं किं नारीमेव तां यामिको यथा ॥ २८६२ ॥
इति ते संदिशन्तं च व्यहसन्संविहाय तम् ।
कामधेनुसमं नागं छागाश्लेषाद्विधियत् ॥ २८६३ ॥
सर्वः स्वकार्यतात्पर्यात्प्रवर्तेत प्रियाप्रिये ।
स्नेहवैरेन्यदीये तु न किंचिदधिगच्छति ॥ २८६४ ॥
ज्योतिस्तर्जितकान्ति दन्तयुगलं बाध्यं सुधादीधिते-
दर्दानास्वादधिया प्रिया मधुलिहां कुम्भस्थली कुम्भिनः ।
वा... स्यैष विरोधभाक्सरसिजस्येत्यत्र नेन्दौ रति-
स्तस्याप्यायकृतो हितोयमिति नाप्यस्य द्विरेफा द्विष:२८६५
प्रतिष्ठालोठनं कर्तुं ततो बलहरस्य सः ।
आजन्म वैरं संरेभे तेन भूभृद्धितेच्छया ॥ २८६६ ॥
स तथा दारदान्मग्नान्नभिन्नो भूभुजैष वः ।
सभोजान्राजवदनो हन्यादित्यभ्यधान्निजैः ॥ २८६७ ॥
दरद्राजानकानीतनेतारौ कम्पनापती ।
प्रख्यातक्षेमवदनमशुभिधावुभौ ॥ २८६८ ॥
त्रस्यन्नोजसनामा च कोट्टेशो मत्रितं रहः ।
ब्रुवाणास्तव्यहस्यन्त भोजेनान्तरवेदिना ॥ २८६९ ॥
स्फाटिकेनेव सैन्येन तेनाग्रे रुद्धमप्यथ |
दिधक्षुराजार्कमहो विड्डसीहेन्धनेपतत् || २८७० ॥
पार्थिवानर्थदुश्चिन्तामययक्ष्मपरिक्षतः ।
स यत्कृष्णक्षपाक्षीणसोमसाम्यं समाययौ ॥ २८७१ ॥
रोगग्रस्ते रणप्रष्टे पृष्ठगोप्तरि भर्तरि ।
तथाभियोज्ये स्थाने च भयजर्जरतां गते ॥ २८७२ ॥
आहारस्थं बलहरं विहाय निखिलास्ततः ।
पलाय्यत तैरन्येधुर्विगाह्य हरिभिगिरीन् ॥ २८७३ ॥
युग्मम् ॥
२४९
दृष्ट्वा बहुमतं प्रातरागन्तारः पुनर्वयम् ।
कथयित्वेति संप्रार्थ्य साल्हणि सह तेनयन् ॥ २८७४ ॥
प्राक्पीतकोशो वैवश्यात्स तेषामनुगोभवत् ।
भ्रष्टकार्यस्तु वैह्वल्यं श्वभ्रे मज्जन्निवा ॥ २८७५ ॥
मुहुः सर्वशिरोद्रितरक्तपूर्णमिव ज्वलन् ।
अवरोहदनच्छाम्बुसोपानाश्मनिभं मुहुः ॥ २८७६ ॥
ज्ञातेन पतितेनैव मुहुर्व्याम्ना महीसमम् ।
व्रजतस्तस्य वैलक्ष्यादलक्ष्याक्षमभून्मुखम् ॥ २८७७ ॥
ध्यौ च धिङ्गो ये शश्वत्प्रभावं वयमीदृशम् ।
राज्ञो दृष्ट्वाप्यनात्मज्ञा जानीमो मर्त्यधर्मताम् ॥ २८७८ ॥
प्रतिभाप्रौढैनिर्भाततत्त्वानां नान्यथा शिरः |
महाकवीनामेतादृक्प्रतापानलवर्णने ॥ २८७९ ॥
१ पलायिषत तेन्येद्युः इति स्यात् । २ प्रौढि इत्युचितम् । ३ गिरः इत्युचितम् । ३२ २५० राजतरङ्गिणी
राज्ञः प्रतापशिखिनः कणाः क्षोणौ न सन्ति चेत् ।
तत्कस्माद्वयमायाताः पदन्यासेप्यधीरताम् ॥ २८८० ॥
अनेकशोङ्गैर्वीराणां पीतधाराम्बुडम्बरे ।
शोषः प्रादुष्कृतो न स्यात्तज्ज्वालासंज्वरं विना ॥ २८८१ ॥
किमन्तरेण तद्धूममालान्ध्यं प्रोन्मिषदृशः ।
मार्गामार्गविभागस्य परिज्ञाने विमूढता ॥ २८८२ ॥
मधुमत्यास्तटेन्यस्मिन्विवर्ज्य दरदः स्थितान् ।
वीचीजवनिकाच्छन्नः सोवाप्याथ तटेवसत् ॥ २८८३ ॥
क्रमादुत्खातखेदस्तैर्नीत्वा स्वशिबिरान्तरम् ।
तत्रैष्यतेति संधातुं रोहद्रोहः स्पृहान्तरैः ॥ २८८४ ॥
नृपं तेषां ह्यगण्यार्थवर्षिणं नयनैपुणात् ।
उपजीवितुमिच्छाभूत्तद्रक्षणवाणिज्यया ॥ २८८५ ॥
नानेहा विग्रहस्यायं प्रत्यासन्नो हिमागमः ।
मधुमासि विधास्यामः पुनरारब्धिमुत्तमाम् ॥ २८८६ ॥
कालक्षेपेक्षमत्वं चेद्भुट्टराष्ट्राध्वनाधुना ।
त्वान्तर्निदध्मो बलिनस्त्रिल्लुकस्योपवेशने ॥ २८८७ ॥
राजानं राजवदनः श्रितस्तैरित्यसावतः ।
उक्त्वैष्यतः स्वराष्ट्रान्तर्युक्त्या बन्धुं नराधमैः ॥ २८८८ ॥
तिलकम् ॥
अपि राजपुरीयाणां कौटिल्यं तैर्हि जीयते ।
दर्घ्य निदाघदेस्राणां वियोगदिवसैरिव ॥ २८८९ ॥
तथायातमुपालेभे दूतैर्बलहरोथ तम् ।
हौ निहितवांस्त्वस्मीति त्रोटितवटाकरः २८९० ॥
१ द्रोहस्पृहातुरैः इति स्यात् । २ घस्राणां इत्युचितम् । २५१ अष्टमस्तरङ्गः ।
उत्साहादाहवस्थोपि स तथा गार्गिमग्रिमम् ।
आयान्तं च नृपानीकमु.... हान्न व्यचिन्तयत् ॥ २८९१ ॥
अकस्माद्विद्रुतदरद्वाजभोजादिवार्तया ।
न व्यदीर्यत यद्धैर्यपर्याप्तेस्तत्किलाङ्कनम् ॥ २८९२ ॥
आडम्बरालम्बनस्य भेदेष्यच्छिन्नविग्रहः ।
यदयुद्धोद्धतं सिध्येत्तत्कस्यामानुषं विना ॥ २८९३ ॥
कालानुरोधात्संधित्स् धन्यद्वाराधिपावथ |
सोयोजयद्विलम्बेन भोजप्रत्यागमाशया ॥ २८९४ ॥
ततोलंकारचक्रः स नेतुं साल्हणिमाययौ ।
ज्ञातेयाद्दारदावेत्य प्रार्थितापरिपन्थिनीः ॥ २८९५ ॥
बुद्ध्वा तदनुबन्धेपि द्रोहनिर्बन्धिनीः सभाः ।
अग्रहीन्मार्गसेत्व निधनाद्यवसायिताम् ॥ २८९६ ॥
भृत्यैः सह युवप्रायैर्वीक्ष्य तं मर्तुमुद्यतम् ।
दरातुरं दरद्वाजसैन्यं तद्दैन्यमाययौ ॥ २८९७ ॥
व्यपोहन्तीव लहरीबाहुभिः कलहं सरित् ।
कल्लोलास्फालनोल्लापैर्निनिन्देव दरद्वलम् ॥ २८९८ ॥
हेपितः स्वावरोधैश्च सेप्यैश्च म्लेच्छपार्थिवैः ।
सैन्यैः कदनभीतैश्च विड्डसीहोथ तं जहौ ॥ २८९९ ॥
पुरःसरैर्भग्नसेतुपालैः पारं परं ततः ।
विद्रावितानि स प्राप भिन्दस्तूर्यरवैर्दिशः ॥ २९०० ॥
असामर्थ्य वरूथिन्या स्वस्य चार्थितसंधिना |
आनीतो विड्डुसीहेन दूतः प्रोक्तोथ भूपतेः ॥ २९०१ ॥
अमानुषानुभावेन तावत्तत्स्वामिना भवेत् ।
प्रातिसीमिकसामन्तवुद्ध्या स्पर्धासु धीवरः ॥ २९०२ ॥
राजतरङ्गिणी
अश्रद्धेयानुसंधान एव यान्तो यमान्तिकम् ।
जयराजोरिम वामुष्य प्रभावावेदकौ दिवि ॥ २९०३ ॥
तेन दिव्यानुभावेन निर्जयोपि जयो मम ।
पान्थस्य कूलविभ्रंशात्तीर्थे पतनमुन्नतिः ॥ २९०४ ॥
अथायातः पुरे स्थित्वा कंचित्कालं निजेविशत् ।
यमराष्ट्रमसत्कीर्तिलसद्वन्दनमालिकम् ॥ २९०५ ॥
अबुद्धा भोजमायान्तं संधि तत्रैव वासरे।
सार्धं द्वारेशधन्याभ्यां स राजवदनोप्यगात् ॥ २९०६ ॥
अश्वागतं तं व्यावृत्य षष्ठं प्रष्ठं मनस्विनाम् ।
आदाय तावताभ्यर्ण प्राविक्षातां क्षमापतेः ॥ २९०७ ॥
अहंकाराद्विमोहाद्वा विमर्षेण बहिष्कृतौ ।
उपेक्षामक्षते भोजे भजते राजवीजिनि ॥ २९०८ ॥
आहूतस्तु हतोत्कण्ठाभाजापि प्रभुणासकृत् ।
अनिःशेषीकृतारातिर्न व्यावर्तत रिल्हणः ॥ २९०९ ॥
प्रभोः पुरस्तात्कार्यान्ते तेन स्थातुमशक्यत ।
प्रसादाकाङ्क्षिणा सूदेनेव भोक्तुं नहि क्वचित् ॥ २९१० ॥
द्विधा कृता येन युद्धे पृथ्वीहरसुतद्वयी ।
मगधेन्द्राकृतिर्भीमेनेव कार्याक्षमाभवत् ॥ २९११ ॥
मातृकुक्षिमिव स्वोर्वी तेनाजौ लोष्टकः कृतः ।
खाण्डवे खण्डितः सर्प इव गाण्डीविनाविशत् ॥ २९१२ ॥
भजंचतुष्कः संकोचं दुर्भेदं त्रिल्लकालयम् ।
स्वकायकर्परं दर्पोज्झितः कूर्म इवाविशत् ॥ २९१३ ॥
निःशेषीकृतकार्यः स शौर्येणैव महीपतेः ।
पार्श्वे पादनखज्योतिः पट्टबन्धातये ययौ ॥ २९१४ ॥
१. क्षतः इत्युचितम् । २५३ अष्टमस्तरङ्गः ।
प्रतापैर्नृपतेरित्थं विप्लव: शोषितोप्यभूत् ।
अमात्यमतिदोषेण भूयः प्रादुष्कृताङ्करः ॥ २९१५ ॥
दण्डार्हो राजवदनो दानेनाप्यायितो यतः ।
निर्भयं भोजमायान्तं प्रतिजग्राह तं पुनः ॥ २९१६ ॥
उत्कोचपरिणामान्तं सोथ स्थापयति स्म तम् ।
दिनाग्रामाभिधे स्थाने खाशकानां निवेशने ॥ २९१७ ॥
इत्येनमब्रवीच्छ्छ्रश्चेदायास्यो नानुगामिनः ।
मितानुयायी द्वारेशः प्रायास्यद्गोचरान्मम ॥ २९१८ ॥
सोत्कम्पः साहसस्रोतःपातेनीयत नौरिव ।
त्रिल्लकेनापि स स्थैर्य नीतिरजुप्रसारणात् ॥ २९१९ ॥
व्यसनोल्लासवैवश्यं विशांपत्युर्व्यचिन्तयत् ।
येनाव्यवस्थाप्राथम्यं स जाल्मः पुनरग्रहीत् ॥ २९२० ॥
अलंकारादिभिः स्वास्थ्ये स्थाप्यमानोपि मन्त्रिभिः ।
अत्यजन्नैव कौटिल्यमजितात्मेव दुर्ग्रहम् ॥ २९२१ ॥
गण्डं वैद्य इवापाकं तमवज्ञाय पार्थिवः ।
पक्कगण्डानिवारेभे रिपून्पाटयितुं परान् ॥ २९२२ ॥
आगन्तव्यं त्वया पश्चाद्यात्स्वस्मासु प्रकम्पताम् ।
भोजमुक्तेत्यलंकारचक्रोगाद्विप्लवोद्यतः ॥ २९२३ ॥
तं जयानन्दवाडाख्यो दस्युरानन्दवाडजः ।
अन्वयुर्विक्रमोदग्राः परेपि क्रमराज्यजाः ॥ २९२४ ॥
अग्रस्थितो राजगृह्योलंकारः स्वल्पसैनिकः ।
वालुकासेतुकल्पस्तं जज्ञे सिन्धुरयैरिव ॥ २९२५ ।।
स तु राम...राद्याजिक्षोभसंभावनां विशाम् ।
उदपादयदेकाकी कुर्वन्बहुभिराहवम् ॥ २९२६ ॥
राजतरङ्गिणी
आपानरभसक्षुभ्यद्रक्षःसंभ्रमदक्षिणम्
।
रणं जगाम गञ्जात्वमञ्जसास्रपरिस्रुतः ॥ २९२७ ॥
स तूलकूटमिव तत्कटकं विकटं द्विषाम् ।
किमन्यत्यैरयत्कापि प्रभञ्जन इवाञ्जसा ॥ २९२८ ॥
ग्रासाय गृध्रकङ्कादिपत्रिव्रातस्य तत्यजे ।
आनन्दवाडसूनुः स हत्वा तेनेषुणा रणे ॥ २९२९ ॥
भोजस्योत्थातुकामस्य जिघृक्षोः क्ष्माभुजश्च तंत् ।
पकप्रधावत्ककरव्याधन्यायो व्यवर्धत ॥ २९३० ॥
अनुड्डयनसामर्थ्यः श्राम्यति ऋकरो यथा ।
धावन्पङ्के पतन्व्याधोप्यनुधावन्पथान्वहम् ॥ २९३१ ॥
प्रसङ्गे साहसस्यैवं भोजः क्लैब्यमगात्सदा ।
तत्प्राप्तुमिच्छुर्भूपोपि मतिमोहं मुहुर्मुहुः ॥ २९३२ ॥
युग्मम् ॥
दिनाग्रामस्थिते भोजे स राजवदनोप्यगात् ।
पुनः किं चौरचण्डालाः श्रेयसीत्युक्तिमीशितुः ॥ २९३३ ॥
डामरा भग्नसंघाता भूयः पूर्वाधिकां ततः ।
कन्थां ते ग्रथयामासुर्मुहुर्यो शौर्यशालिनः ॥ २९३४ ॥
ते द्वारपतिमायातं सोढुं शेकुर्न केवलम् ।
अशक्यैराहवैर्यावत्तात्पर्यादुदवेजयन् ॥ २९३५ ॥
तेषां त्राणार्थमन्येषामुत्थानार्थमथाययौ ।
कृष्टोलंकारचक्रेण नीविं दत्त्वा स साल्हणिः ॥ २९३६ ॥
तेषां परेद्युः पार्श्वे स यियासुरसकृद्यदा ।
हायाश्रमं श्रान्तसैन्यो द्वारेशोवुद्ध तं तदा ॥ २९३७ ॥
अजानन्निव तेषां स व्याजसंधिं निबद्धवान् ।
मिषात्कुतोष्यगात्तिर्यक्स्थितं संतारमूलकम् ॥ २९३८ ॥
तस्मिंस्तत्र स्थिते दूरात्कुतस्त्यामपि पूत्कृतिम् ।
श्रुत्वा भोजोवदत्सायं किमपि व्याकुलीभवन् ॥ २९३९ ॥
निजैर्विहस्यमानोपि त्रासात्तस्मादहेतुकात् ।
व्यरंसीत्संभ्रमान्नासौ चक्रे सजा॑स्तु वाजिनः ॥ २९४० ॥
त्रस्तोलंकारचक्रोथ दशग्राम्यग्रतो द्रुतम् ।
क्व राजपुत्र इत्येवं कथयित्वा पलायितः ॥ २९४१ ॥
उदतिष्ठत्ततो ग्राममध्यात्तूर्यध्वनिर्महान् ।
आस्कन्दावेदकः सेनानिनादश्च क्षपामुखे ॥ २९४२ ॥
अलक्षितो ध्वान्तमध्ये भेजे भोजः पलायनम् ।
भ्वःकर्तव्येष्वलंकारचको युद्धाय संदधे ॥ २९४३ ॥
दत्तो द्वाराधिपेनाग्निर्गिरिवर्त्म प्रकाशयन् ।
ध्वान्तध्वस्तात्मनां तेषां तदाभूदुपकारकः ॥ २९४४ ॥
द्वाराधिपस्य क्षाम्यन्तः संधि भोजप्रतीक्षया ।
श्रुत्वा तमथ वृत्तान्तं भङ्गं ते डामरा ययुः ॥ २९४५ ॥
असंत्यजन्नपत्यादिबन्धं धीरोचलाश्रयात् ।
आजिं स भोजोलंकारचक्रेणामङ्गलावहम् ॥ २९४६ ॥
।
भोजस्तत्राप्यभूत्तर्षान्नाहारादिसुखान्वितः ॥ २९४७ ॥
बाणाग्निजस्त्रिपुरनिर्दहने प्रतापः
पाथोनिधेः प्रमथने वडवाग्निजन्मा |
आसाद्य मन्दरनगेन समागमं हि
न क्वापि पन्नगपतेः सुखसख्यमासीत् ॥ २९४८ ॥
क्षुत्पिपासाश्रमं हन्तुं प्राप्तः स्वविषयावनौ ।
अलंकारात्मजैर्भूयो बन्दुं भोजोभ्यलप्यत ॥ २९४९ ॥
●●●●●●●●●●● २५५ २५६ राजतरङ्गिणी
पितुर्मतेन बुद्ध्या वा स्वया तत्तद्विधित्सतः ।
सोसिसंधाय निर्यातः प्रापाथ विषयान्तरम् ॥ २९५० ॥
ततो बलहरेणैव कृत्यं निश्चित्य कार्यवित् ।
अनास्थोन्यलवन्येषु दिनाग्रामं पुनर्ययौ ॥ २९५१ ॥
द्वाराधिपोहितोद्धारधीरोप्यत्रान्तरे क्षमः ।
चक्षुरोगेण भग्नाभियोगोकस्मायधीयत ॥ २९५२ ॥
भोजाय दातुमैच्छयो डामरस्ते सुते ददौ ।
पर्माण्डये गुल्हणाय राजजाय च निर्जितः ॥ २९५३ ॥
रोगोच्चण्डतया दण्डप्रयोगावसरे कृते ।
तत्र साम प्रयोज्यैव द्वारेशो विवशोविशत् ॥ २९५४ ॥
अभियोगक्षणे तस्मिन्ययौ भारसहः क्षयम् ।
दुर्नामकामयक्षामः षष्ठचन्द्रोपि गर्गजः ॥ २९५५ ॥
तत्रामयाविन्येवात्तोद्रेकौ तमनुजं निजम् ।
चक्राते वसुधां दुःस्थामास्कन्दाद्यैरुपद्रवैः ॥ २९५६ ॥
त्रिल्लकः प्रबलैरन्यैः सहाभेदं प्रवर्धयन् ।
नाग्रहीद्विग्रहैकाग्रः सान्त्वनामपि भूपतेः ॥ २९५७ ॥
षष्ठे निष्ठां गते रोगमने द्वारपतावपि ।
नियुक्तः क्ष्माभुजा धन्यो निरगात्तारमूलकम् ॥ २९५८ ।।
भोजच्युतोमुतोन्येषां बलिनां गोचरे पतेत् ।
प्राप्तप्रतिष्ठो निस्तीर्णो देशाद्वासाध्यतां व्रजेत् ॥ २९५९ ॥
इति संचिन्त्य सामाद्यैरुपायैस्तं जिघृक्षुणा |
क्ष्माभुजा मर्मसंरम्भो विदधे सोभियोगभाक् ॥ २९६० ॥
युग्मम् ॥
अज्ञातोदर्कवैषम्या दुर्नीतिः सा महीभुजाम् ।
व्यावृत्त्यावाधत च्छिन्नपुच्छाकृष्टेव पन्नगी ॥ २९६१ ॥
बलिनं राजवदनं नृपं चावेत्य निर्वलम् ।
आभ्यन्तराञ्च बाह्याश्च विक्रियां यत्क्रमाद्ययुः ॥ २९६२ ॥
छिद्रान्तराणि सुलभानि सदैव हन्त
पातालरन्ध्रसरणेरिव दण्डनीतेः ।
वह्वीभवन्प्रसरमन्तरसंप्रविष्टो
यात्यप्रतर्क्यनियमात्पतनं भजेद्वा ॥ २९६३ ॥
भोगत्यागोर्जितो राज्ञा क्षीणार्थोसौ व्रजेदितः ।
उक्त्वेत्यमुं बलहरस्तस्य वृत्तिमकारयत् ॥ २९६४ ॥
तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः ।
२५७
युक्त्यन्तराणि संलेभे प्रयोक्तुं नीतिकौशलात् ॥ २९६५ ॥
संधि पदे पदे बवा सार्धं बलहरादिभिः ।
कुर्वन्गतागतं धन्यो जनस्यावाप हास्यताम् ॥ २९६६ ॥
शश्वद्विवर्तमानस्य राजकार्यस्य नावधिम् ।
अरघट्टघटीयन्त्र गुणस्येवाससाद सः ॥ २९६७ ॥
तस्य चक्र इवोन्द्रान्ते कर्तव्ये तैक्ष्ण्यभागपि ।
भेत्तुं प्ररोढुं वाप्यासीन्नयो बाण इवाक्षमः ॥ २९६८ ॥
नीतराजद्वयोव्यग्रः शेषस्यैकस्य विग्रहे ।
चतुरङ्ग इव क्रीडन्विवशोभूद्विशांपतिः ॥ २९६९ ॥
बद्धलक्ष्यः प्रदानार्थं ततश्च च्छद्मना परान् ।
भञ्जतो वाजिपत्त्यादि नाप्यासीन्नाप्यजीगणत् ॥ २९७० ॥
दस्युषूद्यतसङ्गेषु शीतापायप्रतीक्षिषु ।
नागाद्वलहरः स्वेषामुन्मूलनमशङ्कत ॥ २९७१ ॥
सामर्थ्याशिथिलामित्रो भावे सूत्रितविप्रिये ।
तस्मिन्धावति धन्ये च शश्वत्सोवेपताकुलः ॥ २९७२ ॥
१ मित्रभावे इति स्यात् । ३३ २५८
राजतरङ्गिणी
संमत्र्य सार्धं भोजेन धन्यं समदिशत्ततः ।
बार्पयत नागं मे भोजं दास्यामि वस्ततः ॥ २९७३ ॥
भूरिकार्यकृतं स्वस्य बन्धनार्थावहं रिपोः ।
धन्यो व्यसनवैवश्याद्धियं नाबुद्ध तस्य ताम् ॥ २९७४ ॥
पार्थिवाः स्वार्थसंसिद्धित्वराविरतसत्त्वया ।
धियाविशुद्धं यत्किचित्कुर्वन्तीति न नूतनम् ॥ २९७५ ॥
काकुत्स्थोपि प्रियाप्रार्थी व्यग्रः सुग्रीवसंग्रहे ।
वीरोविधेयं स्वार्थान्ध्याद्वधं व्यधित वालिनः ॥ २९७६ ॥
संहृत्य सत्यनित्यत्वं राज्यगर्वाविशुद्धधीः ।
आचार्य पाण्डवो राजा धर्मनिघ्नोप्यघातयत् ॥ २९७७ ॥
आ भिक्षुविग्रहान्नित्यद्रोग्घुर्नागस्य विग्रहः ।
स्वार्थापेक्षी तटस्थस्य तत्कालं न विगर्हितः ॥ २९७८ ॥
अगृहीत्वा तु भूभत्र कंचिद्भोजार्पणे पणम् ।
सोवष्टम्भीत्यभूत्तस्मिन्मन्युर्मतिमतां मनाक् ॥ २९७९ ॥
यथा तत्कृत्यमायत्यां हितं जातं तथैव चेत् ।
विचार्याकारि राज्ञा तच्छेमुषीयममानुषी ॥ २९८० ॥
विभिन्न इव भोजस्तु नागं समदिशद्यथा ।
दित्सुर्बलहरं राज्ञे त्वदर्पणपणेन माम् ॥ २९८१ ॥
बन्धमश्रद्दधानोस्य राशस्त्रासादसौ श्रयेत् ।
स विदन्नथ माध्यस्थ्यमिति तं हि तथावदत् ॥ २९८२ ॥
षष्टचन्द्रे गते निष्ठां जयचन्द्रेण पार्थिवः ।
संगृहीतेन तं नागं पार्श्व प्रावेशयत्ततः ॥ २९८३ ॥
पक्षीकृतः क्ष्माभुजायं हन्यादस्मान्भयादिति ।
चलन्तमपि तं भोजस्तन्मत्रिणमरोधयत् ॥ २९८४ ॥
१ वहां इति स्यात् । अष्टमस्तरङ्गः ।
तथेति जानन्नपि तं कृष्टोस्म्येतैरनीशताम् ।
यातः किमपि हन्तेति दूतैर्नागोप्यभाषत ॥ २९८५ ॥
नियतं नियतिस्रोतोगर्भे जन्तोर्निमज्जतः ।
२५९
कथ्यमानं तटस्थेन श्रोतुं न श्रवणौ क्षमौ ॥ २९८६ ॥
नागे बद्धे तत्कुटुम्बैभरेत्य समाश्रितः ।
मायाशाली बलहरो दुर्दर्शः समपद्यत ॥ २९८७ ॥
भोजनिष्क्रयविक्रेयं तमादाय ययौ ततः ।
रिल्हणेन समं धन्यो धावन्बलहरान्तिकम् ॥ २९८८ ॥
सान्तसो मोहयंस्तौ प्राङ्गागं दत्त मे ततः ।
भोजं दास्यामि व इति ब्रुवन्भ्रामयति स्म सः ॥ २९८९ ॥
बद्धमूलतया दूरं दुर्धर्षो योद्धुमागतम् ।
सर्व तच्च तयोः सैन्यं निन्ये कृत्यविधेयताम् ॥ २९९० ॥
वर्षयुद्धापकर्षादि खिन्नौ तौ ततोभ्यधात् ।
इतोपसृतयोः कुर्यो युवयोर्मतमित्यसौ ॥ २९९१ ॥
एकप्रयाणान्तरिते स्थितयोः पथि चाकरोत् ।
कार्यान्तः पातवैवश्ये तयोर्मतिविमोहनम् ॥ २९९२ ॥
काचिद्बलहरस्यासीत्पर्याप्तिधैर्यसत्त्वयोः ।
निश्रोद्याद्यतने काले वीराणां विरलैव या ॥ २९९३ ॥
तथा हारितमार्गाय साहसात्पार्श्वमीयुषे ।
द्रुह्यति स्म न धन्याय लोभागोजाय नापि यः ॥ २९९४ ॥
मतिमोहेन नागं चेदयुर्मे सचिवास्ततः ।
.....
कुर्यो तं स्वपदेभ्यर्थ्य चकारेति च चेतसि ॥ २९९५ ॥
नागासांनिध्यलब्धद्धिंदाढ्यर्थ गूढवैकृतः ।
भ्रातृव्योपातयन्नागं धन्याद्यैर्लोष्टकाभिधः ॥ २९९६ ॥
१ श्रवणे क्षमे इत्युचितम् । २ दुर्धर्षः इति स्यात् । २६० राजतरङ्गिणी.
सचिवैर्निहते नागे निर्हेत्वहितमोहितैः ।
दुर्मत्रितं नरपतेः स्वैः परैश्च व्यगर्ह्यत || २९९७ ॥
स्वजातीयवधक्रोधाद्विरुद्धैः सर्वडामरैः ।
नागानुगैश्चाश्रितोभूत्ततो वलहरो बली ॥ २९९८ ॥
देहिनो व्यसनापातवैवश्यामतोपथि ।
अकार्य कुर्वतः कार्य सिद्धः संसाधयेद्विधिः ॥ २९९९ ॥
उद्यद्दुः सहवित्ततानवतया बद्धावधाने मन-
स्युन्मार्गभ्रमणेवशस्य रभसाच्छुभ्रे परिभ्राम्यतः ।
अन्योपाहितकोशपृष्ठलुठनात्संदर्शिताङ्गक्षते-
र्जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः॥३०००॥
तथा निरनुसंधानं नागं धीसचिवैर्हतम् ।
नाबुद्ध भोजः संजातत्रासस्त्वेवं व्यकल्पयत् ॥ ३००१ ॥
लब्धवर्णस्य नावर्णावहं कर्मेदमीशितुः ।
अलब्धपणबन्धस्य वाञ्छितात्यै विशङ्कयते ॥ ३००२ ॥
यश्च युद्धमिति व्यग्रं हर्षादाद्यामवापि यः ।
भोजमन्यकरस्थोयमशक्यो ह्यन्यथा मम ॥ ३००३ ॥
उक्त्वेति मोहयन्धन्यमुख्यास्मि संदिशेत् ।
इति मां राजवदनः स्थितस्तन्नूनमन्यथा ॥ ३००४ ॥
युग्मम् ॥
आ भिक्षुविप्लवाद्रोह सुभिक्षस्यानुबन्धिनः ।
किं राजवदनोप्येष लोभात्संभाव्यते न भूः ॥ ३००५ ॥
अथाविशङ्किनस्त्रासव्युदासायास्य खाशकाः |
रक्तार्द्रकृत्तिन्यस्ताङ्घ्रि कोशपानं प्रचक्रिरे ॥ ३००६ ॥
प्रादुष्कृतभियः क्षिप्तरक्षिणोमुष्य तिष्ठतः ।
विश्वासार्थ बलहरो विरलः पार्श्वमाययौ ॥ ३००७ ॥
अष्टमस्तरङ्गः ।
अमात्यमतिजाड्येन नष्टे कृत्येथ कृत्यवित् ।
स्वयमुत्तम्भने नीतः संरेभेसंभ्रमो नृपः ॥ ३००८ ॥
चैत्रः पादपमण्डलस्य तटिनीतोयस्य वर्षागमः
सत्कारो गुणगौरवस्य नयनप्रेम्णोन्तिकासेवनम् |
ऐश्वर्यस्य महोद्यमो जयविधेर्गाढाविषादग्रहः
कर्तव्यस्य च सिंहदेवनृपतिर्लानौ न तत्त्वावहः ॥३००९॥
प्रवाहेणेव कृत्यस्य हटेन हरतोन्तरे ।
प्रातिलोम्यं श्रितवता पारं गन्तुं न पार्यते ॥ ३०१० ॥
अतो धूर्ती नृपो मुग्ध इति ज्ञातोरिभिर्मुधा ।
मौग्ध्यं प्रदर्शयंस्तेषां यतते स्माभिसंधये ॥ ३०११ ॥
स हि यत्तत्प्रदानेन भजन्भोजान्तिकस्थितीन् ।
तस्याविश्वासपात्रत्वं संत्रस्तस्याभितोनयत् ॥ ३०१२ ॥
गन्धेन वासितोत्सङ्गाः कुरङ्गार्यङ्गजन्मना ।
प्रज्वलन्त्यो विभाव्यन्ते तटिन्योपि कवाटिभिः ॥ ३०१३ ॥
नीडस्यान्तः सरन्ध्रस्य सर्वतोहि भयं स्पृशन् ।
जाले द्वाराग्रबद्धे च निर्गमे पतनं विदन् ॥ ३०१४ ॥
ताम्येद्यथा खगो भोजस्तथान्तःस्थेष्वविश्वसन् ।
बहिर्भूपेन रुद्धाध्वा प्रस्थानेप्यभजद्भयम् ॥ ३०१५ ॥
युग्मम् ॥
तदा स दौःस्थ्यातिथितां प्राप्तः शैक्षत न क्षणम् ।
मनोविनोदनं किंचित्कृत्यं लोकद्वयोचितम् ॥ ३०१६ ॥
१ उत्तम्भनं नीतेः इति स्यात् । २६२ राजतरङ्गिणी
उग्राभिषङ्गमनुषङ्गि परस्य दुःखं
हन्तालथं व्यथयति प्रसभाद्रभावम् ।
बद्धः सरोजकुहरे विरहार्तनादै-
श्वक्राभिधस्य मधुपोधिकमेति दैन्यम् ॥ ३०१७ ॥
रणे पूर्णव्रणाश्यानशोणितो लूनकुन्तलः ।
फेनोद्गार्याननः क्रन्दस्तेनैकः प्रेक्ष्यत द्विजः ॥ ३०१८ ॥
स पृष्टो विप्लुतैर्नीतः सर्वस्वं विक्षतं तथा ।
स्वं डामरैर्निवेद्यैनं निनिन्द त्रातुमक्षमम् ॥ ३०१९ ॥
स्वदौःस्थ्यार्तमनास्तस्य दुःखेन व्यथितोन्वहम् ।
घट्टिताव्रण इव प्राह स्मेति स सान्त्वयन् ॥ ३०२० ॥
गर्हार्होस्मि न ते ब्रह्मन्योनुग्राह्योहमीदृशः ।
विषमे वर्तमानश्चेत्यथ सोपि तमब्रवीत् ॥ ३०२१ ॥
दुर्ग्रहेणामुना ब्रूहि कोर्थः पार्थिवपुत्र ते ।
सारासारविदो यूनः कुले जातस्य मानिनः ॥ ३०२२ ॥
प्राणान्संदेहमारोप्य प्रणम्य प्राकृताशयान् ।
पीडयित्वा विशः क्लेशैः कार्य किमिव पश्यसि ॥ ३०२३ ॥
यश्च ते प्रतिभायेव जेतव्यो विदितो न किम् ।
अग्निशौचः स सारङ्गः परशौर्याग्निमजने ॥ ३०२४ ॥
यत्र शस्त्रशलाकापि विकला तद्विधीयते ।
इन्दीवरदलद्रोण्या घटनं स्फाटिकाश्मनः ॥ ३०२५ ॥
पृथ्वीहरावतारादिप्रत्यनीकिजितः परे ।
के नामास्य न संघर्षे क्षुद्रप्राया दरिद्रति ॥ ३०२६ ॥
किं दृप्य एव बुद्धापि कृत्यं द्वैराज्यजीविनाम् ।
भृत्याशयाः फणिग्राहगृहीता इव भोगिनः ॥ ३०२७ ॥
१ नीतसर्वस्वं इति स्यात् । अष्टमस्तरङ्गः । २६३
जातैः क्षमावलयोद्वहे फणिकुलैर्धिग्भोगिडिम्बैर्मुधा
व्यालग्राहिविकासितस्य कुहरैर्ग्रामस्य हा गृह्यते ।
एतान्मिक्षयितुं न तु प्रथयितुं ते जीविकायै जन-
त्रासार्थ ननु कारयन्ति हि तेर्निर्मजनोन्मजनम्॥ ३०२८ ॥
इत्युक्तवन्तं तं सान्त्वयित्वा भोजो व्यसर्जयत् ।
तदेव चाशु व्याकोशविवेंकः समपद्यत ॥ ३०२९ ॥
भव्यात्मत्वं प्रशममहिमोल्लासने हन्त हेतु-
र्भावानां तु ध्रुवमपरथा मार्दवं क्रूरता वा।
स्पृष्टं पादैरमृतमहसः स्यात्कठोरं हिमांशो-
र्याति ग्रावाप्यहह रभसादार्द्रतां चन्द्रकान्तः ॥ ३०३० ॥
राजन्याभिजने जातोऽप्यलज्जत्वमशिक्षितः ।
सोन्तरं स्वस्य राज्ञश्च मुहुर्महदचिन्तयत् ॥ ३०३१ ॥
गुणैः शौर्यनयत्यागसत्यसत्त्वादिभिः प्रभोः ।
पूर्वेप्युर्वीभुजः खर्वा क्षुद्राः स्पर्धासु के वयम् ॥ ३०३२ ॥
तस्य प्रभावदीप्तेपि समये क्षान्तिशीतला ।
शक्तिः क्षयजडत्वेपि मुग्धानां नो महोष्मता ॥ ३०३३ ॥
क्ष्वेडाग्नितापनिविडोरगसंगमेपि
तुङ्गस्य चन्दनतरोरपि शीतलत्वम् ।
काले हिमर्तुपरिपिञ्जरसंज्वरेपि
निम्नस्य कूपकुहरस्य महोष्मयोगः ॥ ३०३४ ॥
कुतोपि पर्ययात्कार्य सुप्तं नृपममुं विना ।
प्राप्य कस्य पुनः प्राप्यमप्यशुद्ध्या न बाधितुम् ॥ ३०३५ ॥
१ तदैव इत्युचितम् । २ अतिशीतलत्वम् इत्युचितम् । २६४ राजतरङ्गिणी
भ्रष्टं निर्झरवारि शुभ्रमचलैः स्वीयेन भूयः क्वचि-
लभ्यं लभ्यमथाभ्रतः कलुषतादुष्टं प्रकृष्टं न तत् ।
निर्यन्निर्भरनिम्नगाम्बु नभसः प्राप्येत नित्यं दध-
त्प्रालेयत्वमुपेत्य शुद्धिमधिकां नाद्वेर्हिमाद्रेर्नगैः ॥ ३०३६ ॥
तदर्थमेव ग्रथितो योनर्थो ग्रथितात्मनः ।
स तेन स्वस्थतां नेतुमर्थितो न स्पृशेद्रुषम् ॥ ३०३७ ॥
प्लोषाय योस्य दववहिमदादमुष्मि-
न्स्वस्थे स तेन शिखिना ग्लपितः समीपम् ।
अभ्येति चन्दनतरोर्दववह्निदाह-
शान्त्यै यदि प्रियकृदेष न तस्य किं स्यात् ॥ ३०३८ ॥
समग्रो दुर्गतावर्हदपकर्तेव भूपतिम् ।
लोकनाथं तमुद्धर्तु धीरं धन्यः पुनः पुनः ॥ ३०३९ ॥
राजप्रसादनोपायान्वेषी वलहरान्तिकम् ।
राजदूतमथायान्तमेकमेकं व्यलोकयत् ॥ ३०४० ॥
दरद्देशं व्रजन्दृष्टवाक्प्राक्प्रज्ञातुमन्तिकम् ।
स नमन्तं तमानीय ततः स्मेर इवाब्रवीत् ॥ ३०४१ ॥
राज्ञः किमन्यसंधानैः संधिबन्धात्त्वसौ मया ।
प्राज्ञैर्हि भिषजा भोज्यमातुराय समर्प्यते ॥ ३०४२ ॥
तत्तस्याश्रद्दधानस्य नर्मस्मेरस्य जानतः ।
प्रत्ययोत्पादनं तैस्तैरालापैः किंचन व्यधात् ॥ ३०४३ ॥
निर्दम्भभाषितै रूढविस्रम्भः स कथान्तरे |
अथाभिगम्य राजानं स्तुवन्भोजमभाषत ॥ ३०४४ ॥
राजपुत्राभिजातस्य पादच्छायास्य लभ्यते ।
स्वर्णाद्रेरिव कल्याणप्रकृतेः पुण्यभागिभिः ॥ ३०४५ ॥
अनुवृत्त्यातिमृयापि तस्यापोह्यत वैकृतम् ।
ज्योत्स्नयेव शरद्भानुपरितापौष्ण्यमम्भसः ॥ ३०४६ ॥
अपि स्मरसि चारुत्वे नियुक्तोऽस्मि महीभुजा ।
विशतस्ते दरदेशमभूवं पुरतः पुरा ॥ ३०४७ ॥
ततो निवृत्तो वृत्तान्तं मुख्यमाख्याय तावकम् ।
कालं क्षेप्तुं कथादैर्ध्य नयन्मध्ये तमभ्यधाम् ॥ ३०४८ ॥
क्षुत्तृडध्वक्लामथान्तान्देव तानवलोक्य माम् ।
निन्दतः स्वानुगान्भोजो निर्भत्स्यैवं तदाब्रवीत् ॥ ३०४९ ॥
स दैवतमिवास्माकं कुलालंकरणं प्रभोः ।
वयं त्वसुकृतो यस्य नाप्नुमः पादसेवनम् ॥ ३०५० ॥
गण्याः पर्यन्तनिःसारास्तत्संबन्धादिमे वयम् ।
२६५
चन्दनभ्रान्तिकृत्काष्ठं यत्स्यात्तद्गन्धवासितम् ॥ ३०५१ ॥
तच्छ्रुत्वैव दयार्द्रत्वं त्वयि यातः स लक्षितः ।
पृच्छन्पितेव किं गर्भरूपो वक्तीति मां पुनः ॥ ३०५२ ॥
तन्निशम्यैव भोजस्य द्रवीभूतमभून्मनः ।
सोन्तर्बाष्पोप्यपश्यत्तं सान्त्वयन्तमिवाग्रतः ॥ ३०५३ ॥
सुव्यक्तमात्रासंबोधमुग्धत्वेन विहीयते ।
तत्त्ववित्कारणज्ञानादन्तःकरणवेदनम् ॥ ३०५४ ॥
अश्रद्दधानस्तामिच्छां भोजस्याकृच्छ्रवर्तिनः ।
प्रतिदूतीकृते तस्मिन्धन्यो न प्रत्ययं दधे ॥ ३०५५ ॥
देविताभूद्यथा नागवृत्तान्तेन भवेत्तथा ।
महीभुजं मोहयितुं मायया दीव्यते मया ॥ ३०५६ ॥
१ चारत्वे इत्युचितम् । ३४ २६६ राजतरङ्गिणी
मा भूद्भिन्नोयमित्येवमुक्त्वा बलहरं रहः ।
व्याजार्जवेन भोजस्तु संधिबन्धाय तत्वरे ॥ ३०५७ ॥
युग्मम् ॥
तत्कालयोग्यसांचिव्यश्चक्रिकाचतुरस्तथा ।
तेनाशु दैशिकापत्यमेको दूत्ये न्ययोज्यत ॥ ३०५८ ।।
स बालकतया नित्यस्वतत्रश्चक्रिकां स्वयम् ।
आचरेदिति नाशङ्कां भोजे बलहरोभजत् ॥ ३०५९ ॥
पार्थिवः प्रार्थितः संधि दूतमाप्तं प्रतीक्षते ।
प्रत्यागतेन तेनेति ततो भोजोभ्यधीयत ॥ ३०६० ॥
तत्रासन्निहितान्याप्तः स्त्रीत्वादप्रतिभामपि ।
धात्रीं नोनाभिधानां स्वां राज्ञोभ्यर्ण व्यसर्जयत् ॥३०६१॥
मृतेन पित्रा मात्रा च हीने तमनुयातया |
मातृकृत्यं ययात्रासीच्छेशवे माननीयया ॥ ३०६२ ॥
पत्युः प्रीत्यै विसंधानध्वंसाकल्पादिकल्पनात् ।
सखीकृत्यं सपत्नीनां यया शान्तेर्ष्यया कृतम् ॥ ३०६३ ॥
हासोल्लासो हि कार्याणां योग्यकृत्याप्तनिश्चयात् ।
न यां सुक्षत्रियां क्ष्माभृत्संभ्रान्तां जातु वीक्षते ॥ ३०६४ ॥
श्वशुरेण प्रजाभिश्च कृतं राशोभिषेचने ।
आशास्यं वा महादेवी पट्टबन्धं समाधे ॥ ३०६५ ।।
अपत्यप्रियताभोगलोभभर्तृप्रसादनैः ।
प्रेर्यमाणाप्यकार्येषु बुद्धिर्यस्या न धावति ॥ ३०६६ ॥
स्वत्रान्यत्र च संघाने जाते भर्तुरभिन्नधीः ।
भाग्योदयेष्वनुत्सिता या चाखण्डितसड़ता ॥ ३०६७ ॥
१ हासोल्लासे इत्युचितम् । २ स्वस्यान्यस्य इति स्यात् । अष्टमस्तरङ्गः ।
आबाल्याद्भावविद्भर्तुः कुसृत्यनुसृतौ न सा ।
कार्यमध्यं विगाहेत मानाभिजनरक्षिणी ॥ ३०६८ ॥
इति कल्हणिकादेव्या माध्यस्थ्ये स धियं व्यधात् ।
प्रस्थानपदयात्रां सा सीमन्ताप्रापणावधि ॥ ३०६९ ॥
कुलकम् ॥
२६७
गुप्त्यै लग्नकवित्तादिपरार्ध्य मध्यपातिनम् ।
पाथेयार्थ पृथुस्वर्णभाजि कोशादि चात्मनः ॥ ३०७० ॥
प्रापयामास किंचाष्टौ प्रकृष्टाभिजनोद्भवान् ।
पालनार्थ राजपुत्रान्देवीवत्सर्वसंविदम् ॥ ३०७१ ॥
युग्मम् ॥
वाचकं तद्गृहीत्वा तामागमत्पार्थिवेव सः ।
धात्रीं स कारयन्धन्यो बद्धेच्छासिद्धिनिश्चयाम् ॥ ३०७२॥
विहितप्रत्ययस्तस्याः सद्यः स्यात्तु महीपतिः ।
राजधर्मस्य च वसन्नासीद्दोलाकुलाशयः ॥ ३०७३ ॥
स हि दध्यौ निर्विरोधो वैराग्येणाथ मायया ।
संकटान्मोचितव्यासौ यायात्कालेन विक्रियाम् ॥ ३०७४ ॥
अनिःशेषितजीमूतजालमाविर्भवत्रविः ।
अनूनक्लेशशेषं च विवेको न स्फुरेञ्चिरम् ॥ ३०७५ ॥
मुग्धान्निरनुसंधाननागबाधादवेत्य नः ।
स्वस्थस्य सिद्धये माया तेनेयं निरमाय वा ॥ ३०७६ ॥
लब्धलक्षेपरिक्षीणे शक्ते यूनि गणाधिते ।
क्षत्रधर्मस्थिते नेहाग्ववेकः क्वापि लक्ष्यते ॥ ३०७७ ॥
अवल्लि कौङ्कुमं पुष्पमपुष्पं क्षीरिणः फलम् ।
अकालपर्ययापेक्षं वैराग्यं वा महात्मनाम् ॥ ३०७८ ॥
१ वाचिकं इत्युचितम् । २ स्वार्थस्य इति स्यात् । २६८ राजतरङ्गिणी
न त्याज्यो राजपुत्रोसावेवं मायानिधिर्यदि ।
एवं विवर्तश्चेत्तस्मिन्नदृष्टे किं दृशोः फलम् ॥ ३०७९ ॥
राज्ञी राजात्मजाश्चैते प्रतिष्ठाभङ्गशंसिनः ।
ऋजुप्रभावात्सुस्पष्टमन्यत्कार्य न मन्यते ॥ ३०८० ॥
अटिलं कुटिलं स्पष्टं शरत्सर्वैर्न लक्ष्यते ।
कान्ताकुन्तलनिःस्यन्दी तोयबिन्दुरिवाक्रमः ॥ ३०८१ ॥
इति ध्यात्वा राजधर्म सत्यप्रशोचितं व्यधात् ।
धन्यरिल्हणयोः कार्य श्रुतावन्यान्विसर्जयन् ॥ ३०८२ ॥
स्वस्यैवार्थस्य दाढ्य साल्हणिस्त्वां दिक्षते ।
समागमायेत्युक्त्वाथ धन्यो दूतैरनीयत ॥ ३०८३ ॥
मा भैषीरेष संघित्सुः सैन्यादिति मितानुगः ।
अवर्तिष्ट तटिन्याः स द्वीपान्तस्तत्प्रतीक्षया ॥ ३०८४ ॥
सरित्सा जानुदघ्नाम्भा भूत्वा घर्मद्रुते हिमे |
गगनालिङ्गिभिर्भीमा तरङ्गैः समपद्यत ॥ ३०८५ ॥
अवाप्तयैर्ष्ययालयभावं यान्त्यपि दन्तिनाम् ।
रुद्धः सिन्धावभूत्सोथ द्विषां रन्धैषिणां वशे ॥ ३०८६ ॥
सिन्धोरुभयतस्तोयैर्व्याप्ततीरभुवोन्तरे ।
ते दिण्डीरोपमां प्रापुः पिण्डिताः पाण्डुवाससः ॥३०८७॥
खशकानां सहस्राणि भोजस्य पतिते बले ।
स्थितवन्ति निहन्तुं तं तथास्थितमचिन्तयत् ॥ ३०८८ ॥
इग्भ्यां संभ्रमदीनाभ्यामघशान्त्यै स्पृशन्निव
कर्णे सल्हणसूनुस्तान्संतर्ज्य वृजिनोब्रवीत् ॥ ३०८९ ॥
निर्दम्भमस्य वित्रम्भाद्धावतो विहिते विधेः ।
निरत्ययो निपातः स्यान्नियतं निरये पुनः ॥ ३०९० ॥
१ डिण्डीरोपमां इत्युचितम् । २ वधे इति स्यात् । अष्टमस्तरङ्गः ।
हतेस्मिन्बहुभृत्यस्य न च शक्तिक्षयः प्रभोः ।
नैकपक्षक्षये तार्क्ष्यरंहः संहारमर्हति ॥ ३०९१ ॥
अपिवा वाच्यता राज्ञामेवं विस्रव्धबोधनात् ।
तुल्यस्तुल्येन कर्तव्यं किमनुध्याय बध्यते ॥ ३०९२ ॥
यथायं वृत्तयेनन्यकर्मा रूपं निषेवते ।
तथा ममापि यत्नोयं तत्सेवासादने यतः ॥ ३०९३ ॥
युक्तमित्यादि तेनोक्ता अपि निश्चलनिश्चयाः ।
ते न्यषिध्यन्त निर्बन्धात्प्रतिज्ञायात्मनो वधम् ॥ ३०९४ ॥
रात्रौ तथैवादारिद्र्याच्छिद्रं तद्रक्षितुं ततः ।
कारिताः कोशपानं ते तमर्थ सोपि बोधितः ॥ ३०९५ ॥
तेनावेदितनिर्व्याजतया धीरो महीपतिः ।
२६९
अनुध्यायाथ संदिग्धं संधिसिद्धिममुग्धधीः ॥ ३०९६ ॥
अज्ञातनिश्चयासिद्धेर्विनान्तःकरणं परैः ।
अथ प्रास्थापयद्देवीं सामात्यां तारमूलकम् ॥ ३०९७ ॥
राजधर्मविधेयत्वादवार्यक्रूरशङ्किनी ।
प्रस्थानप्रार्थनां भर्तुः सा स्वीकृत्य ततोब्रवीत् ॥ ३०९८ ॥
असामान्येष्वमात्येषु कुसृत्यालोकनात्सकृत् ।
आर्यपुत्र विचार्योसि विसृम्भः किं विरोधिनाम् ॥ ३०९९ ॥
यद्वा निर्मानुषोन्मेषां शेमुष त्वं विगाहितुम् ।
प्रथते नु कथंकारं मूर्तत्वं मर्त्यधर्मिणाम् ॥ ३१०० ॥
देहोपकरणत्वं ते प्राणैर्मम विचिन्त्यते ।
सतीधर्मस्तु सहते राजधर्मस्य नोचिंतम् ॥ ३१०१ ॥
व्यञ्जितास्य सदाचारं कलिकृत्यं द्विषि त्वयि ।
प्रारब्धो देव भोजेन हिमाद्रौ हिमविक्रयः ॥ ३१०२ ॥
१ बन्धनात् इति स्यात् । २ भूपं इति स्यात् । ३ क्रौर्य इति स्यात् । २७० राजतरङ्गिणी
न गृह्णाति शमं वेत्ति स्वस्थान्यस्य न चान्तरम् ।
निर्व्यूढमददोषोद्य प्रायेण प्राकृतो जनः ॥ ३१०३ ॥
पुत्रमत्र्यविरोधादिबुद्ध्यशुद्ध्या प्रधावति ।
साध्वाचारोपि भूपाल: क्रुध्यन्वित्रब्धबाधने ॥ ३१०४ ॥
समयालङ्घनामोघगिरा देवेन पीयते ।
लोकत्रयैकपात्रेस्मिन्यशो नूनं मया सह ॥ ३१०५ ॥
त्रातव्यसंक्षयोपेक्ष्यप्राणायास्त्वन्यदाशयः ।
ममैवास्वादयन्त्यादादात्मंभरिपुरास्थितिः ॥ ३१०६ ॥
इत्युक्त्वा विरतां सत्यसंध: साध्वीं धरापतिः ।
शान्तशङ्कामकृत्वा तां मातामन्त्र्यान्ययोजयत् ॥ ३१०७ ॥
भङ्गं सर्वानयं त्रातुं प्रयोक्तुं वेदनं नृपः ।
संरम्भे किमयं ध्यायत्यन्तः सर्वोप्यचिन्तयत् ॥ ३१०८ ॥
उपायेषु प्रयुक्तेषु देवीसंप्रेषणावधि ।
नान्यदस्य प्रयोक्तव्यं यदवाशिष्यत क्वचित् ॥ ३१०९ ॥
सपक्षभेदाळूभर्तुः सवलत्वावलत्वयोः ।
परीक्षकत्वाद्ये केचिन्माध्यस्थ्येनावसन्कचित् ॥ ३११० ॥
तेप्यल्पे वा महान्तो वा क्षीणदाक्षिण्यशृङ्खलाः ।
भोजगृहयैः सहाबघ्नन्कन्थां सर्वेपि डामराः ॥ ३१११ ॥
ते ह्यच्छिन्नतटस्थत्वाद्वैराज्येस्माभिरीदृशः ।
भोजः संजात इत्याशु माध्यस्थ्यं परिजहिरे ॥ ३११२ ॥
त्रिल्लुको भोजसविधं तनूजं प्राहिणोद्रुतम् ।
प्रावेशयच्छमालां च चतुष्कं पुष्कलैर्बलैः ॥ ३११३ ॥
ये भिक्षुविठवेप्यासन्राजदाक्षिण्यरक्षिणः ।
विरोधिसविधं प्रापुस्तेपि नीलाश्वडामराः ॥ ३११४ ॥
लद्दराद्देवसरसाद्धोलाडातश्च डामराः ।
त्रयो नीलाश्वतश्चैका डामरी पर्यशिष्यत ॥ ३११५ ॥
न व्यरंसीद्धिमं तत्तल्लवन्ये साल्हणेर्बले ।
पतत्प्रावृप्रमत्तौघघोषोम्भोधाविवोद्गतः ॥ ३११६ ॥
भोजस्तु देवीमायान्तीं श्रुत्वा बलहरस्ततः ।
ध्रुवं संघित्सया बद्ध इति सुव्यक्तमभ्यधात् ॥ ३११७ ॥
एतावन्ति दिनान्यासीत्पुंसो भ्रमयिता पुमान् ।
संबन्धिनीनां माध्यस्थ्ये स्वकुल्यात्कोन्यथा भवेत् ॥३११८ ॥
कुलचूडामणिः प्रेम्णा स यत्रैवं प्रवर्तते ।
किं स्यादगण्यप्रायाणां कार्कश्यं तत्र मादृशाम् ॥ ३११९ ॥
यच्च मायामिमां ब्रूथ तत्तथास्त्वस्मि वञ्चितः ।
विश्वास्यैव भविष्यामि नाकीर्तीनां निकेतनम् ॥ ३१२० ॥
मा च भूद्विजयाशा वः समेता निखिला इति ।
अद्राक्ष्म चेदृशां व्यूहामवरुक्ष्याम वोन्नतेः ॥ ३१२१ ॥
युक्तियुक्तमिदं चान्यञ्चोक्तवान्बहु निश्चयात् ।
नाशक्यतान्यथा कर्तुं भोजो बलहरादिभिः ॥ ३१२२ ॥
द्वित्राहान्तरितेमित्रप्रमाथेपरथा कथम् ।
फलकालेसि संवृत्त इति तं चावदन्नृपाः ॥ ३१२३ ॥
तारमूलस्थिते राशि ससैन्यौ धन्यरिल्हणौ ।
राजपुत्रैः सह ततः पाष्विग्राममवापतुः ॥ ३१२४ ॥
प्राप्ताववेत्य तौ नद्यास्तीरेवाचि कृतस्थिती ।
परस्मिन्कूलगहने भोजोप्येतावुपाविशत् ॥ ३१२५ ॥
अभ्रान्तं विशतो दिखेभ्यस्तत्कटकं भटान् ।
पश्यन्तः केपि संधि न श्रद्दधुर्नृपतेर्बले ॥ ३१२६ ॥
२७१ २७२ राजतरङ्गिणी
हठप्रविष्टान्निर्यातुमक्षमानल्पसैनिकान् ।
धन्यादीवाजवदनो हन्तुं शश्वदचिन्तयत् ॥ ३१२७ ॥
छित्त्वा सुय्यपुरात्सेतुं राज्ञः सैन्यं जिघांसवः ।
महापद्मसरोनौषु निभृतं केचनावसन् ॥ ३१२८ ॥
अन्ये तत्साहसोदन्तान्वेषिणः पतनोन्मुखाः ।
स्वैः स्वैर्मास्तत्र तत्र तस्थुर्भूभृदसंमताः ॥ ३१२९ ॥
आस्कन्दं भाङ्गिलेयाद्याः पुरे शंकरवर्मणः ।
शमालाक्षिप्तिकावाप्तिं डामराः समचिन्तयन् ॥ ३१३० ॥
प्राप्यं महासरित्कूलं त्रिल्लकाद्यैरगण्यत ।
नीलाश्वडामरैर्वीशा कार्या च नगरान्तरे ॥ ३१३१ ॥
किमन्यद्राजगृह्याणां समं सर्वे जिघांसवः ।
कारण्डवानां तोयान्तर्वेष्टितानामिवाभवन् ॥ ३१३२ ॥
संदिग्धशिक्षितं कार्य सर्वतः समतां तदा ।
प्राप वृष्टेरवग्राहग्रहयोगान्तरस्थितेः ॥ ३१३३ ॥
पदे पदे राजचमूपथायोत्थानमिच्छतः ।
च्छिन्दन्बलहरस्येच्छां भोजो व्यग्रत्वमग्रहीत् ॥ ३१३४ ॥
क्षणे क्षणे विसंधानध्यायिना तेन कञ्चन ।
बाध्यमानस्वान्तरायः संविधासु व्यचीर्यत ॥ ३१३५ ॥
घटनामुद्ययौ यो यो विरोधः कटकद्वयात् ।
सत्त्वैकाग्रः स्वयं भोजस्तं तं त्वरितमच्छिनत् ॥ ३१३६ ॥
दूत्ये च कल्पकत्वे वा येरुवव्राजरञ्जकाः ।
भयेन प्रययुस्ते यद्वैकल्यं कार्यसंकटे ॥ ३१३७ ॥
कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं
तन्नम्म्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् ।
१ येभवन् इति स्यात् । अष्टमस्तरङ्गः ।
लाघन्ते तदुदीर्यते यदरिणाप्युग्रेण मर्मान्तकृ
द्ये केचिन्ननु शाठ्यमौग्ध्यनिधयस्ते भूभृतो रञ्जकाः ॥ ३१३८॥
भाण्डस्ताण्डवमण्डपे कटुकथावीचीषु कन्थाकवि-
गष्ठश्वा स्वगृहाङ्गने शिखरिभूगर्भे खटाकुः स्फुटम् ।
पिण्डीशूरतया विटश्च पटुतां भूभृगृहे गाहते
गच्छन्ति हृदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ ३१३९ ॥
शूरोद्रेकविपर्यासाच्छान्तोष्मा क्षमाभृतस्ततः ।
वासरः शरणीचक्रे तुङ्गस्योत्तुङ्गमञ्जसा ॥ ३१४० ॥
भानुर्दत्तपदोनूरोर्भ्रातुर्गोवलयान्तरे ।
क्ष्माभृच्छिरोर्पितकरो रक्तमण्डलतां दधे ॥ ३१४१ ॥
अहस्त्रियामामुखयोरपि मध्यस्थया दधे |
२७३
संध्यया चन्दनीयत्वं जनस्य व्यञ्जिताञ्जलेः ॥ ३१४२ ॥
कवाटिदन्तैर्विस्फोटाश्चन्द्रकान्तैः शिरोद्गमः ।
श्वयथुः पयसां पत्या दधे राज्ञ्युदयोन्मुखे ॥ ३१४३ ॥
सदैन्येष्वरविन्देषु हीनद्वन्द्वोपजीवनैः ।
कवाटिनां कटेष्वेव षट्पदैर्घटितं पदम् ॥ ३१४४ ॥
अदृष्टकार्यपर्यन्तास्ततस्ते विषमस्थिताः ।
सरित्तटे सकटकाः पर्यतप्यन्त मत्रिणः ॥ ३१४५ ॥
न किंचित्प्रत्यभात्स्वं लघु भ्रान्तं च जानताम् ।
ओघेन ह्रियमाणानामिवैषामवलम्बनम् ॥ ३१४६ ॥
तीरे परस्मिन्सरितो वसन्बलहरः पुनः ।
रुद्धः कन्दलितास्क॑न्दो वुद्धिः साल्हणिनासकृत् ॥३१४७॥
कार्यातिपातादायातं मत्रिणां तन्मितं बलम् ।
तस्य प्रवर्धमानस्य सुखोच्छेदं बभूव यत् ॥ ३१४८ ॥
१ स्कन्दबुद्धिः इत्युचितम् । ३५ २७४ राजतरङ्गिणी
वितस्तासिन्धुसंभेदयात्रायां नगरे यथा ।
तथा तथापतद्रात्रौ लोकः श्रान्तो व्यवर्तत ॥ ३१४९ ॥
लेखैर्डामरसंहारखण्डनाय विसर्जितैः ।
सान्तरैर्ग्रथिताबाद्यैर्नानायै राजवीजिनः ॥ ३१५० ॥
शाठ्यान्वितैरनुसरैस्तुमुलोत्पादनैरपि ।
धीरो धैर्यान्निश्चयाद्वा स्वैः स ऋष्टुं न पारितः ॥ ३१५१ ॥
सामन्तानामागतानामविस्रम्भादसंभ्रमम्
।
न्यकृतोयं निपत्याशु कुर्यादत्याहितं रुषा ॥ ३१५२ ॥
कृते च कदनोंकारेनेन सर्वे समुन्मिषेत् ।
द्विजानामिव दस्यूनां समूहस्तेन सर्वतः ॥ ३१५३ ॥
इति निर्ध्याय दुध्रुक्षुरिव भोजः क्षपात्यये ।
कुर्मः साहसमित्युक्त्वा निन्ये बलहरं समम् ॥ ३१५४ ॥
तिलकम् ॥
तेषां तदर्थायातानां सामन्तानामभोजने ।
दाक्षिण्यादिति नाभोजि तेनाप्यभिजनस्पृशा ॥ ३१५५ ॥
तथा स मत्या वैमत्यं तमशात्वा तु मन्त्रिणः |
निष्प्रत्ययास्तेन जातममन्यन्त नयात्ययम् ॥ ३१५६ ॥
पक्षिपक्षस्फुटास्फालशफरस्फुरितेप्यधात्
।
तेषामासविधास्कन्दं प्रधावहितभ्रमम् ॥ ३१५७ ॥
कूले परस्मिन्कूलिन्याः स्वाभिसंधाननिर्वृतैः ।
समभाव्यत तैर्नान्यो रथाङ्गेभ्योभिषङ्गभाक् ॥ ३१५८ ॥
मरुत्काकुत्स्थदूतस्य कपेस्तीर्णाम्बुधेः पिता |
ततान तेषां दूतानां सरित्पारगतौ बलम् ॥ ३१५९ ॥
कीर्णकर्णज्वरांश्चारीन्पीत्कृतैस्तीरभूरुहाम् ।
आश्रित्योन्निद्रकेणेत्थं निन्युस्ते तां निशीथिनीम् ॥ ३१६०॥
अष्टमस्तरङ्गः ।
क्षपान्ते क्ष्माघरोत्तंसहेमतामरसभ्रमम् ।
उद्गच्छतो रवेर्यावञ्चिच्छिदुर्न करच्छटाः ॥ ३१६१ ॥
चक्राह्वविरहालोकसशोकानामिवागलत् ।
कुलाक्षिपुटाद्यावच्चैशं नाम्भश्च वीरुधाम् ॥ ३१६२ ॥
मितपत्तियुतस्तावत्तरुकच्छाद्विनिर्गतः ।
स वीरस्त्वरयन्युद्धवाहान्मूर्यङ्गिणा स्पृशन् ॥ ३१६३ ॥
रोद्धुकामाण्डामरीयान्वीरान्दृष्टेर्विलोकितैः
।
सर्वतो धावतः कुर्वन्योधान्प्रतिहतौजसः ॥ ३१६४ ॥
पारश्वधी चारुवेषो युवा संमुखमापतन् ।
युग्याधिरूढस्तैः प्रैक्षि संप्राप्तः सरितस्तटम् ॥ ३१६५ ॥
कुलकम् ॥
अदृष्टपूर्व तं दृष्ट्वा श्रीखण्डोल्लिखितालकम् ।
कुङ्कुमालेपिनं चैते भोजोयमिति मेनिरे ॥ ३१६६ ॥
अतिवाह्य निशां राजवदनं तं विमोहयन् ।
प्रातश्च तरसामन्त्र्य स तथा संमुखो ह्यभूत् ॥ ३१६७ ॥
प्रविष्टयुग्यं तोयान्तः पाराद्धावितवाजिनः ।
धन्यादयस्तमभ्येत्य मुदिताः पर्यवारयन् ॥ ३१६८ ॥
उदभूत्तुमुल: शब्दस्ततः कटकयोर्द्वयोः ।
एकत्राक्रान्तिमुखरः परत्रानन्दनिर्भरः ॥ ३१६९ ॥
नादमाकर्ण्य संग्रामबुद्ध्या दिग्भ्यः प्रधावितैः ।
तं परैर्मिलितं वीक्ष्य मूर्यताड्यत डामरैः ॥ ३१७० ॥
तस्याभिनन्दनालापप्रमुखा प्रक्रियाभवत् ।
अदैन्य॑शुद्धधन्यादिष्वनुज्झितनिजक्रमा ॥ ३१७१ ॥
१ अदैन्यशुद्धा इति स्यात् । २७६ राजतरङ्गिणी
लवमानं मनोहर्ष वेगात्संस्तम्भ्य सर्वतः ।
अथेत्थं स्तुवता तत्तत्स धन्येनाभ्यधीयत ॥ ३१७२ ॥
राजपुत्र पवित्रेयं पृथिवी स्थैर्यशालिना ।
त्वया धाम्ना सुमनसां मेरुणा वा महीभृता ॥ ३१७३ ॥
गर्वाञ्जयति सर्वासां निर्विकारतया वसन् ।
विक्रियोपहतं गौस्ते क्षीरं तं क्षीरवारिधेः ॥ ३१७४ ॥
कस्य पुंस्कोकिलस्येव त्वां विनाधममध्यतः ।
निर्गत्य निजकुल्यानां सिद्धं मध्यावगाहनम् ॥ ३१७५ ॥
सदाचारस्य भवता प्रथमं प्रहते पथि ।
न तञ्चित्रं संचरामश्चरमं चेत्ततोधिकम् ॥ ३१७६ ॥
इत्यादि प्रसृतालापदत्तोल्लापोधिरोह्य सः ।
जयोत्तरङ्गं तुरगं स्तुवद्भिस्तैरनीयत ॥ ३१७७ ॥
लवन्याः कतिचित्क्रोधाद्विकोशन्तस्तदा ययुः ।
स्वकुल्यैर्नीयमानं तं काका इव पिकान्तिकम् ॥ ३१७८ ॥
स एवमेकविंशेब्दे ज्येष्ठस्य दशमेहनि ।
त्रयस्त्रिंशद्वर्षदेश्यः समगृह्यत भूभुजा ॥ ३१७९ ॥
राज्ञी कृतप्रणामं तं प्रियं पुत्रमिवागतम् ।
अभ्यनन्दच्छ्रान्तभृत्यमस्याहारमकल्पयत् ॥ ३१८० ॥
इन्दुवंशाविसंवादिगुणग्राममवेक्ष्य तम् ।
प्रागदृष्टवती मेने वञ्चिते सा विलोचने ॥ ३१८१ ॥
गुणैरशाठ्यदाक्षिण्यमाधुर्याद्यैरकृत्रिमैः ।
तस्याविशदशीलं स क्षमापतिरमन्यत ॥ ३१८२ ॥
मुखरागं मनोवृत्तेरौज्वल्यं गृहश्रियः ।
भर्तुस्वभावस्याचारो योषितामनुमापकः ॥ ३१८३ ॥
१ मुखरागो इति स्यात् । २७७ अष्टमस्तरङ्गः ।
दिनक्षयव्यञ्जिताध्वक्लमं प्रस्थातुमुत्सुकम् ।
राज्ञोभ्यर्ण विशेत्येनं दाक्षिण्यात्कोपि नाववीत् ॥ ३१८४ ॥
कथंचिद्रुद्धमाध्यस्थ्यवैमत्यैः सचिवैरथ ।
स त्वादिक्षुर्नरपतिरशान्तेभ्योभ्यधीयत
राज्ञोभ्यर्णे विशेत्युक्तेरुपोद्धातोपमं वचः ।
॥ ३१८५ ॥
तत्तस्य श्रोत्रशष्कुल्यां तदा शङ्कक्रियां व्यधात् ॥ ३१८६ ॥
चिरात्ताडितममैव समाश्वास्यैक्षताथ सः ।
मध्यस्थानां स्थितं स्थैर्य दाक्षिण्यादोष्ठयोः परम् ॥३१८७॥
प्राणान्मुमुक्षोस्तेरूक्षभाषणास्तस्य सान्त्वनैः ।
मन्दत्वं विक्रियां निन्युर्विनयानतमौलयः ॥ ३१८८ ॥
आचारं चैनमस्निग्धमपि न्याय्यं वचस्विनम् ।
न कोपि प्रतिवाक्येन शक्यं जेतुममन्यत ।। ३१८९ ॥
अथ स्वान्तस्थितस्वामिवैवश्यं दर्शयन्निव ।
दशनांशुवनैर्धन्यो वीरः स्निग्धमभाषत ॥ ३१९० ॥
पद्धती राजधर्माणां सदाचारे स्थितां च ते ।
जानतोपि कथं मोहः क्रमायातेषु वस्तुषु ॥ ३१९१ ॥
किं संधिः सोभिधीयेत यत्र संधेयदर्शनम् ।
अकृत्वा गम्यत इति प्राङ्गो कथमजीगणः ॥ ३१९२ ॥
अनद्यतनभूभर्तृसुलभे भूभुजां तव ।
ज्ञात्वा सत्त्वोज्वलं ज्ञातिधर्मजातप्रवर्तनम् ॥ ३१९३ ॥
नास्य दम्भस्मयस्तम्भः प्रीतिस्थैर्यखलोक्तयः ।
आदरादर्शवैषद्ये निःश्वासस्यापि काः श्रियः ॥ ३१९४ ॥
अस्योपजीवनाद्या श्रीः साम्राज्यासादनान सः 1
प्रकाशो बिम्बितो योर्काद्दीपात्स्याज्ज्वलतः स किम् ॥३१९५
१ स्थिति इति स्यात् । २ सुलभं इति स्यात् । ३ सा इत्युचितम् । राजतरङ्गिणी ॥ ३१९६ ॥
निर्वाणगोष्ठीनिष्ठत्वं शमिनामाश्रयेषु यत् ।
तत्पर्षद्यस्य राजर्षेर्जनान्वृन्दानुबन्धिनः
एवं स्वगृहसंप्राप्यप्रायोनिःश्रेयसस्य ते ।
स्थानैः श्रियः समाप्याथ किं स्यादन्यैर्महीधरैः ॥ ३१९७ ॥
मुग्धा न केचन परे गणिताः फणिभ्यः
कालानुकूलनिजकुण्डजलत्यजो ये ।
लिष्यन्ति चन्दनतरूञ्शिशिरान्निदाघे
माघेप्यशीतमनवं विवरं विशन्ति ॥ ३१९८ ॥
प्राणोपकरणं राज्ञो राज्ञी राजात्मजाश्च ये ।
तद्धिते यदनौचित्यं तेषामौचित्यमेव तत् ॥ ३१९९ ॥
त्यतोष्मवैकृतं पाथ इव क्वथितशीतलम् ।
अनुतापेन ते कृत्यं भूयो वैरस्यमेष्यति ॥ ३२०० ॥
तथा समर्थासामर्थ्यान्न प्रत्याख्याय भारतीम् ।
कुण्ठशाठ्यलवस्तस्थौ प्रस्थानार्थं स मन्थरः ॥ ३२०१ ॥
पथि संग्रथितस्तोत्रान्वास्तव्यान्वीक्ष्य सर्वतः ।
अजायताथ सैरूढकृत्यसाधुत्वदार्ढ्यधीः ॥ ३२०२ ॥
पदातिचरणक्षुण्णरेणुव्याजाददृश्यत ।
वसुंधरातलं बद्धसंधीव नभसा समम् ॥ ३२०३ ॥
दध्यौ विज्ञतरो भोजः कञ्चित्संप्राप्नुयां नृपम् ।
कैच्चिदमुष्य विध्येत दर्शनं विप्रलम्भकैः ॥ ३२०४ ॥
आराधयन्प्रभुं धान्नि नान्तरान्तरितो विटैः ।
स्वामिनां क इवाप्नोति गुणाविष्करणक्षणम् ॥ ३२०५ ॥
शीतोपचारकरणाद्दयितो भवेय-
मौर्वादितस्य जलधेः प्रसृतं धियेति ।
१ कंच्चिन्नामुष्य इति स्यात् । २७९ अष्टमस्तरङ्गः ।
स्रोतो हिमाद्रिपयसो विनिपात एव
ग्रासीकृतं तिमिभिराहतमेव तत्स्यात् ॥ ३२०६ ॥
इत्यादिचिन्तास्तैमित्यात्पुरक्षोभाद्यलक्षयन् ।
सैन्यस्य रुद्धाश्वतयाबुद्धासन्नं नृपास्पदम् ॥ ३२०७ ॥
नातिप्रांशुं नातिकृशं सूर्याशुश्यामलाननम् ।
सरोजकर्णिकागौरं शिथिललथविग्रहम् ॥ ३२०८ ॥
ककुमत्ककुदोत्सेघिस्कन्धमायतवक्षसम् ।
श्मश्रुणानतिदीर्घेण व्यक्तगण्डगलोन्नतिम् ॥ ३२०९ ॥
उन्नसं पक्कबिम्बोष्ठं विस्तीर्णानुल्बणालिकम् ।
तिर्यग्विप्रेक्ष.......धीरमन्थरगामिनम् ॥ ३२१० ॥
समाहितांशुकोष्णीषमौलिं श्रीखण्डवक्षसम् ।
सीमन्तस्थानचुम्बिन्या रेखया चन्द्रगौरया ॥ ३२११ ॥
अश्वावरूढं हेर्म्यस्थसचिवैः परिवारितम् ।
अनङ्गतुल्यमायान्तं तमवैक्षत पार्थिवम् ॥ ३२१२ ॥
॥
कुलकम् ॥
प्रीतिविस्फारितदृशा राज्ञा पृष्टस्ततः सभाम् ।
सोध्यारुरोह संबाधां कौतुकोत्कंधरैर्जनैः ॥ ३२१३ ॥
स्पृष्ट्वा पादौ निषण्णोत्रे नृपस्थानीय पाणिना |
खड्गधेनुं पाणिवद्धामासनाग्रे समार्पयत् ॥ ३२१४ ॥
पाणि सफणिवल्लीकं विवृताग्राङ्गुलिद्वयम् ।
ततोस्य चिबुकोपान्ते विन्यस्यन्पार्थिवोब्रवीत् ॥ ३२१५ ॥
न विगृह्य गृहीतोसि नाधुनापि नै बध्यसे ।
तदङ्ग कस्माद्गृह्णीमः शस्त्रमेतत्त्वयार्पितम् ॥ ३२१६ ॥
१ हर्म्यस्थः इति स्यात् । २ पार्थिवः इति स्यात् । ३ निबध्यसे इति स्यात् । २८० राजतरङ्गिणी
व्यजिज्ञपत्स भूपालं देव शस्त्रस्य धारणम् ।
स्वामिसंरक्षणं स्वस्य परित्राणस्य कारणम् ॥ ३२१७ ॥
देवे निजप्रतापानिगुप्तसप्तसरित्पतौ ।
सेवावकाशो विरलः स्वशस्त्रस्यापि दृश्यते ॥ ३२१८ ॥
लोकान्तरेपि शरणं चरणाश्रयणं प्रभोः ।
तत्रात्र लोके किं कार्ये त्राणोपकरणैः परैः ॥ ३२१९ ॥
राजा जगाद तं सत्त्वस्पर्धाबन्धेधुना भवान् ।
निर्व्यूढकृत्यो वादीव कृत्यं नो वर्तते परम् ॥ ३२२० ॥
भोजो बभाषे दाक्षिण्यजननायाधुना प्रभोः ।
सृष्टाहते मया किंचिन्नोपचारार्थमुच्यते ॥ ३२२१ ॥
किं ते न चिन्तितं दुष्टं किं किं न कृतमप्रियम् ।
यदसिद्धं न तव्यक्तिमगादित्यवधार्यताम् ॥ ३२२२ ॥
किं न मल्लान्वये कश्चित्कारणेषूदितो भवान् ।
विद्मः स्माननुकूलं प्राग्यं वयं चर्मचक्षुषः ॥ ३२२३ ॥
यदा यदा देव वाञ्छामकार्ष्म भवदप्रिये ।
भूमिस्तदा तदा भूता पात्रं कम्पस्य भूयसः ॥ ३२२४ ॥
यावत्कवीनां निर्भाति प्रतिभानेन भास्वरः ।
देवाभवन्नः प्रत्यक्षः प्रतापस्तादृशस्तव ॥ ३२२५ ॥
न शेखरे न प्रदरे न दरेप्युज्झितो मया ।
प्रालेये भूभृतः कुञ्जे संज्वरस्त्वत्प्रतापजः ॥ ३२२६ ॥
ततः प्रभृत्यवनतिप्रणयः शरणैषिणः ।
सिद्धः संध्याय वन्ध्यत्वाद्देव दूरस्थितेन मे ॥ ३२२७ ॥
अथाभेदाभिलाषेण पापाद्यत्किल चेष्टितम् ।
स्फुरत्तामात्रकव्यक्त्यै न तु तद्विग्रहाग्रहात् ॥ ३२२८ ॥
१ दृष्टादृते इति स्यात् । २ प्रालेयभूभृतः इति स्यात् । अष्टमस्तरङ्गः ।
त्वत्संबन्धादिमे दिक्षु प्रतीक्ष्याः क्ष्माभुजां वयम् ।
सङ्गागङ्गाम्भसः काचकुम्भसंभावना भुवि ॥ ३२२९ ॥
अद्यापि द्योतते शाहेवाह्वयेन दिगन्तरे ।
तत्संतानभवोनन्तः समूहः क्षत्रजन्मनाम् ३२३० ॥
त्वय्यर्पिते पार्वतीयभूभृत्सङ्गेन्यदादिनः ।
कदन्नाशनदुर्भोगासुस्थैः खेदोन्मुखैरभूत् ॥ ३२३१ ॥
इतीदृशीभिः स्तुतिभिः प्रमाणमथवा प्रभुः ।
इत्युक्त्वा भूपतेर्मूर्ध्ना सोगृह्णाञ्चरणौ पुनः ॥ ३२३२ ॥
प्रणामसंभ्रमस्रस्तोष्णीषशीर्ष ततो नृपः ।
तस्योत्थितस्य स्वशिरोवाससा समवस्त्रयत् ॥ ३२३३ ॥
स्वां तां च शस्त्री तन्त्र्यस्तामुत्सङ्गे सान्त्वयन्व्यधात् ।
तस्यासंक्षोभगाम्भीर्यस्तमूचे च निषेधिनम् ॥ ३२३४ ॥
दत्तं मया बिभृहि वा त्वमेते पूजयाथ वा ।
शस्त्रग्रहवैमुख्यं कार्य मच्छासनं त्वया ॥ ३२३५ ॥
अवन्ध्यशासनो मानीत्यनुबध्नाति ते व्यधात् ।
शस्त्रौ राजानुगत्यैव वन्दित्वा कामकालवित् ॥ ३२३६ ॥
ततो निर्यन्त्रणत्वस्य नर्मणः सान्त्वनस्य च ।
२८१
चिरसेवीव तत्कालं राज्ञो जायत भाजनम् ॥ ३२३७ ॥
अन्यत्प्रविष्टो धन्योथ स्वार्चामकथयत्कृती ।
कृतप्रणामो भूपाल त्वद्गुणाकर्णनं विना ॥ ३२३८ ॥
न प्राणा द्रविणं नाद्य गण्यं निर्विक्रिया पुनः ।
सत्किया स्वामिनोप्यर्थे तस्मात्पार्थिव चिन्त्यताम् ॥ ३२३९॥
तथापि कथ्यमानं तन्न स्यात्संभावनाभुवि ।
यदास्मिंश्चिन्त्यतेस्माभिरिति भूपोप्यभाषत ॥ ३२४० ॥
१ दत्ते इति स्यात् । २ शख्यौ इति स्यात् ३६ २८२ राजतरङ्गिणी
क्षणमुच्चावचां चर्चा विरचय्य विशांपतिः ।
भोजेन सार्धं शुद्धान्तं रड्डादेव्यास्ततो ययौ ॥ ३२४१ ॥
कृतप्रणामस्तां वीक्ष्य सौजन्यादिगुणोज्वलाम् ।
स राजपारिजातं तं मेने कल्पलतायुतम् ॥ ३२४२ ॥
मान्योयं देवि सौजन्यज्ञातेयाभ्यामिहागतः ।
विशिष्यतेसौ पुत्रेषु क्ष्माभृद्योषेत्यभाषत ॥ ३२४३ ॥
सभाजनाय सौजन्यनिधिर्भोजान्वितस्ततः ।
उढकार्यभाराणां दाराणामप्यगागृहान् ॥ ३२४४ ॥
अभाणीन्निपुणा राशी भोजं राज्ञा सहागतम् ।
अधुनैव नृपस्याप्तः संवृत्तोसीति सस्मितम् ॥ ३२४५ ॥
लज्जास्मितमुखी पत्युः प्रणत्या स्वागतोक्तिषु ।
ददत्येवोत्तरं भोजं निर्दिशन्त्यप्यभाषत ॥ ३२४६ ॥
आर्यपुत्र न विस्मार्य प्रत्याख्याताप्तमत्रितम् ।
मानैकशरणस्यास्य ज्ञातिप्रीतिप्रवर्तनम् ॥ ३२४७ ॥
पूर्वोपकर्तृ सलिलं वृद्धावस्पृशतोन्वहम् ।
पद्मान्सुकुलपद्मानां युक्तं जेतुं भवादृशाम् ॥ ३२४८ ॥
कार्यकृच्छ्रेवसन्नानाममुष्यागमनं विना ।
सिध्येदौन्नत्यसंरक्षा नेह प्रत्यागमश्च नः ॥ ३२४९ ॥
उदीपे रक्षतस्तीरं शरीराश्रयिणी भवेत् ।
ध्रुवं वनस्पतेर्वीरुत्तन्निपातानुपातिनी ॥ ३२५० ॥
पतिगत्यनुगामित्वं प्राणानां परिचिन्तितम् ।
तथा कार्य यथा न स्यात्रातव्यस्यान्यथात्मनः ॥ ३२५१ ॥
राजा जगाद तां देवि सर्वकर्तव्यसाक्षिणी ।
अन्यथा प्रतिपत्ति में त्वमप्यस्य न मन्यसे || ३२५२ ॥
२८३
निगृहीतवतो दुष्टौ सुजिमल्लार्जुनावपि ।
निस्तापं मम नाद्यापि प्राप्तानुशयमाशयम् ॥ ३२५३ ॥
अथ राज्ञार्थितः स्थातुं परायें धाम्नि सानुगः ।
भोजो नामन्यतान्यत्र राजधान्यां स्थिरां स्थितिम् ॥३२५४
विदूराश्रयनिर्गौप्तभावाप्रचुरदर्शनैः ।
आराधनं धराभर्तुरसाध्यं ध्यातवान्हि सः ॥ ३२५५ ॥
रक्षितॄनग्रहीत्क्ष्मापान्स्थिरं च समकल्पयत् ।
अनयातां नृपं कार्यान सुराराधनागमे ॥ ३२५६ ॥
विज्ञाय भावं प्रीतेन राज्ञा दत्तं ततो गृहम् ।
सर्वोपकरणापूर्ण राजधान्यन्तरेभजत् ॥ ३२५७ ॥
राजापि ममतास्फीतप्रीतिभिः स्वैः परैस्तथा ।
उपासितस्तत्र रतिं चिराश्रित इवाययौ ॥ ३२५८ ॥
भोगवेलोचिताञ्चर्यदर्शनादौ नृपोपि तम् ।
प्रियं पुत्रमिवास्मार्षीद्दूतैः पार्श्व निनाय च ॥ ३२५९ ॥
जग्राह दक्षिणे पार्श्वे भुञ्जानं ज्ञातिगौरवात् ।
स्पर्शास्वादितभोज्यादिदानेनैव व्यसर्जयत् ॥ ३२६० ॥
अकृत्रिमं तथा स्नेहमुवाह जनको यथा ।
लडितं ज्ञातिवत्तस्मिंस्तद्वालापत्यकैः समम् ॥ ३२६१ ॥
तमेवालम्बत व्यक्तिं सोपि वृत्तिं यथा यथा ।
राजा सपरिबर्होपि बिस्रम्भमविगर्हितम् ॥ ३२६२ ||
आसन्नाभ्यन्तराभिन्ना ये द्वैधे तानदर्शयत् ।
राज्ञां विरक्तिं स्वस्यारिबाहुल्यं च व्यसजर्यत् ॥ ३२६३ ॥
अकृत्रिमात्समाधानात्कारणानां सभान्तरे |
न प्रत्यभाजडो नापि धृष्टो नापि वकव्रतः ॥ ३२६४ ॥
राजतरङ्गिणी
प्रमादस्खलिते हीनातिरिकत्वे च भूपतेः ।
कार्ये नावदधे क्षुद्रः कवितेव महाकवेः ॥ ३२६५ ॥
न विक्रमकथासत्रदानाद्यैः स्वं व्यकत्थत ।
प्राग्वृत्तमन्तरा पृष्टः सोपस्कारं च नाभ्यधात् ॥ ३२६६ ॥
विचारकात्प्रभोः साम्यसकुल्यत्वादिचाटुभिः ।
धीराधृष्टैरृष्टिपातैरपुनर्भाषिणो व्यधात् ॥ ३२६७ ॥
तथा स्पृष्टोप्यनुत्तानाशयोभूदवगाहितुम् ।
न शेकुस्तं यथा जाल्मनर्मावीत्पशुनादयः ॥ ३२६८ ॥
क्षणेष्ववसितालोकक्षोभादिविशरारुषु ।
प्रायेणावसथं गच्छञ्छङ्क कामपि नातनोत् ॥ ३२६९ ॥
यथा यथास्य विस्रम्भाद्भूपोभूच्छिथिलाग्रहः ।
तथा तथैव सिद्धोश्व इव नाधावदुद्धतम् ॥ ३२७० ॥
सदैवाग्रेसरोन्यत्र पश्चाद्रुद्धपदोभवत् ।
अनिषिद्धोपि शुद्धान्तमत्रागारावगाहने ॥ ३२७१ ॥
विज्ञप्यौपायकावाप्तिप्रार्थन"दरत्स्वयम् ।
दूरीचक्रे परापेक्षां शश्वत्संशयिताशयः ॥ ३२७२ ॥
अनाप्तसमये तस्य न ययुः पथि रक्षिणः ।
न स्वप्नवृत्तमप्यासीदनावेद्यं महीभुजे ॥ ३२७३ ॥
मत्र्यन्तः पुरिकादीनां परस्परविगर्हणम् ।
नावर्णयद्विस्मृतिं च दुष्टस्वप्नमिवानयत् ॥ ३२७४ ॥
सचेतनोपि दुर्नर्मगोष्ठीष्वनुरणन्वचः ।
अवदत्स्फुरदप्यन्तर्विटानां नाम लाघवम् ॥ ३२७५ ॥
एवं शुद्धानुभावस्य तस्य कृत्येन कृत्यवित् ।
पुत्रेभ्योप्यधिकां प्रीतिं स्निह्यन्भेजे क्रमान्नृपः ॥ ३२७६ ॥
कलिकालमहीपालदुस्तरः सिंहभूभुजा ।
सोयं गोत्रपरित्राणे नवः सेतुः प्रवर्तितः ॥ ३२७७ ॥
इत्थं विद्राविताशेषोपद्रवस्त्रिल्लकस्ततः ।
अग्निप्रोषमपि स्वास्थ्यहेतुं भूभृदचिन्तयत् ॥ ३२७८ ॥
असौ हि निर्हिमोर्वीभृन्मार्गे काले पलायनम् ।
शाठ्यं सत्त्वस्य दुःसाध्यं बद्धं ध्यायन्व्यलम्बत ॥ ३२७९ ॥
अतः सुमेधा यात्रायां यावत्क्षणमपैक्षत ।
सजपालेनाविचारात्तावत्प्रारम्भि धावनम् ॥ ३२८० ॥
अल्पाधिष्ठानसुभटः स देवसरसोद्भवैः ।
बहुभिः सहितः सैन्यैर्मार्ताण्डे विदधे पदम् ॥ ३२८१ ॥
निर्निरोधप्रवेशः स प्रदेशः परिपन्थिनाम् ।
बाह्याश्च योधा निःसारा दर्पान्नेति विवेद सः ॥ ३२८२ ||
त्रिल्लकानुचरा युद्धमसंनिहितसायकाः ।
तेन सार्धे विदधिरे न चाहीयन्त पौरुषम् ॥ ३२८३ ॥
निःसीमसैन्यसहितो लवन्योन्यत्र डामरे ।
तत्र सर्वाभिसारेण धावतो युयुधे क्रुधा ॥ ३२८४ ॥
लुण्ठितद्रविणापूर्णास्ते देवसरसौकसः ।
सर्वे ततः सजपालं विद्रुताः परिजहिरे ॥ ३२८५ ॥
द्विषत्संवर्तवर्षायाः सर्वत्र ब्रुडितेभवन् ।
अधिष्ठाने भटा एव कुलशैला इवोद्धताः ॥ ३२८६ ॥
ते तीक्ष्णतीक्ष्णतरणौ सोढारातिरुषश्चिरम् ।
बहून्निहतवन्तोन्यांस्तत्र तत्राहवे हताः ॥ ३२८७ ॥
क्षतेषु युधि सर्वेषु भिन्दानैर्मण्डलं निजैः ।
शूरेषु तत्र मार्ताण्डोप्यासीदविरलवणः ॥ ३२८८ ॥
२८५ २८६ राजतरङ्गिणी
रराजाजौ साजपालिर्गयपालो हतेषु यः ।
त्रिषु वाजिषु चातुर्यात्पदातिर्नोपलक्षितः
तत्प्राथम्योपलब्धाजिर्जर्जस्तदनुजः शिशुः |
निनाय विस्मयं वीरान्दृष्टासंख्यमहाहवान् ॥ ३२९० ॥
दक्षिणं दोर्न तच्चक्रे यद्वामं कम्पनापतेः ।
महेभांस्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः ॥ ३२९१ ॥
स धावन्वाजिना राजदेकदोःस्फुरितायुधः ।
सधूमदण्डो दावाग्निः सपक्षेद्राविव स्थितः ॥ ३२९२ ॥
तं वैरितुमुले वाणवणभङ्गेष्वसौ पुनः ।
पृष्ठादलोठयद्वाजी तदन्वाबद्धपद्धतिः ॥ ३२९३ ॥
वर्मगौरवभूपृष्टकाठिन्याघातपीडितः
।
स विसंज्ञो द्विषन्मध्यात्तनयाभ्यां विनिर्हृतः ॥ ३२९४ ॥
कटके सर्वतो नष्टे मार्ताण्डप्राङ्गनान्तरे ।
विरोध्यसाक्षि क्षिप्त्वा तं तावपासरतां ततः ॥ ३२९५ ॥
तत्रस्थं.......नाक्ष्माभृत्प्रस्थितः पृथुलैर्बलैः ।
तावद्भिः : प्राप्यमप्याशु डामरं पिण्डितं व्यधात् ॥३२९६ ॥
क्ष्मापाले विजयक्षेत्रं प्राप्ते त्रोटितवेश्मनः ।
सज्जपालो लवन्यस्य वसतीर्निरदाहयत् ॥ ३२९७ ॥
स ताहगपि भूपाले क्रुद्धे वक्रीकृतभ्रुवि ।
अदरिद्रो गिरिद्रोणीश्रेणिभूसुलभाशनः ॥ ३२९८ ॥
संवृत्तो निःसहायश्च परिग्रहबहिष्कृतः ।
आपत्सुलभपाण्डित्यभृत्योपालम्भभाजनम्
॥ ३२८९ ॥
॥ ३२९९ ॥
निकृत्तकरशाखोथ क्षमापकोपकपेर्व्यधात् ।
निरालम्भतया तस्य स स्वशीर्षफलार्थनाम् ॥ ३३०० ॥
रड्डादेवीतनूजानां ज्यायांसं गुल्हणाभिधम् ।
श्रीमांल्लोहरराज्येथ क्ष्मावृषा सोभ्यषेचयत् ॥ ३३०१ ॥
षट्सप्तहायनो राजतनयः स वयोधिकान् ।
चूताङ्कुरो जीर्णतरूनिवेशानजयद्गुणैः ॥ ३३०२ ॥
अभिषेक्तुं सुतं देव्या यातायाः क्ष्माभुजो व्यधुः ।
शिरःशोणाश्मकिरणैश्चरणौ यावकारुणौ ॥ ३३०३ ॥
तत्राभिषिक्ते वसुधामुग्रावग्रहशोषिताम् ।
देवीभावाभिषेकार्थमिवासिञ्चन्पयोमुचः ॥ ३३०४ ॥
भूयोपि राजवदनो विप्लवोत्पादनोत्सुकः ।
२८७
अमन्दमवचस्कन्द जयचन्द्रं नृपाज्ञया ॥ ३३०५ ॥
नागभ्रातृव्यसहिता गार्गेरनुप्रवेशिनः ।
पश्चात्प्रसर्पिणीः सेनाः सोवधीत्संकटेध्वनि ॥ ३३०६ ॥
गार्गि: परिभवम्लानाननस्तिष्ठन्दिनैस्ततः ।
नागभ्रातृसुताग्रस्थमबझाल्लोष्टकं मृधे ॥ ३३०७ ॥
दुर्गमत्वादनाक्रान्तमन्यैर्वेगात्प्रविश्य च ।
दग्ध्वा स दिन्नाग्रामं तु निरगाल्लघुविक्रमः ॥ ३३०८ ॥
तथापि राजवदनो न शौर्यात्पर्यहीयत ।
॥ ३३१० ॥
न संदधे न चुक्रोध शक्यमस्य विनिर्गमम् ॥ ३३०९ ॥
अहन्यहनि हीनाभिः सेनाभिर्न्यपतन्नृपे ।
जयचन्द्रमुखाच्छश्वद्सुखान्यवधीभवत्
क्ष्मानायकोथ निःसीमनखबाहुप्रसारणः ।
रणान्तरेव तं तीक्ष्णैर्गुढं न्यस्तैरघातयत् ॥ ३३११ ॥
तन्मुण्डगण्डलेखेन लुठता खण्डशः कृतः ।
झटिति त्रुटितः स्वास्थ्यमिवास्य स्फुरणोन्मुखः ॥ ३३१२॥
राजतरङ्गिणी
पृथ्वीहरकुलच्छेदस्वच्छझा मेदिनीपतिः |
अवधील्लोठनमपि च्छन्नदण्डप्रयुक्तिभिः ॥ ३३१३ ॥
एकवारं वेष्टितोपि रक्षितस्त्रिल्लकेन सः ।
भूमिभृन्नीतिपाशस्य निपातेनाभिवर्तिना ॥ ३३१४ ॥
मल्लकोष्टक्षरजय्यमड्डुचन्द्रादयोभवन् ।
जीवन्मृताश्च शान्ताश्च दारिद्रोपलवार्दिताः ॥ ३३१५ ॥
अविचिन्त्योच्चलक्षोणिभृतः प्राणान्विनश्वरान् ।
ऐश्वर्यरूढिमूढत्वादनिर्व्यूढव्यवस्थितौ ॥ ३३१६ ॥
मठेनुमितकोशत्वं तत्तद्राजाश्रयाद्गते ।
कुलोद्वहो विहितवान्सिहदेवो व्यवस्थितिम् ॥ ३३१७ ॥
युग्मम् ॥
॥ ३३१९ ॥
सुल्लाविहारं पैतृव्यं पितुर्देवगृहत्रयम् ।
तच्चार्धसिद्धं प्रासादं परिपूर्ण व्यधान्नृपः ॥ ३३१८ ॥
स एव ग्रामसामग्रीमहापणसमर्पणैः ।
निर्दोषपारिषद्यादिहृद्यान्निश्चोद्यधीर्व्यधात्
अवरोधेन्दुवदनां मृतामुद्दिश्य चन्दलाम् ।
प्रत्यष्ठापि मठोनूनश्रीर्द्वारेवारितातिथिः ॥ ३३२० ॥
पुष्टो नगरनिर्मोह: सोपि सूर्यमतीमठः ।
पूर्वाधिकोपगर्वेण तेनैव निरमीयत ॥ ३३२१ ॥
संजाते सजपालस्य ततो लोकान्तराश्रये ।
कम्पने निदधे राज्ञा गयपालस्तदात्मजः ॥ ३३२२ ॥
विपाकसुकुमारोपि दुःसहः सूनुनाभवत् ।
विस्मारितः स सौम्येन शरद्भानुरिवेन्दुना ॥ ३३२३ ॥
ग्रीष्मोष्मदोषविषमेष्वविशेषवृत्ते-
घोदये तटतरोस्तटिनीप्रवाहः ।
पश्यन्नकाण्डतडिदापतनेन नाशं
नाशंसति स्वसलिलस्य विभूतिलाभम् ॥ ३३२४ ॥
आ भिक्षुक्षपणाद्भोजसञ्जनादपि भूभुजः ।
विधुरे कार्यभाराणां योभूदूढधुरः परम् ॥ ३३२५ ॥
तस्य तस्मिन्नुपरते क्षीणप्रक्षीणकण्टके ।
स धन्यो नान्यसामान्यप्रेमा प्रमयमाययौ ॥ ३३२६ ॥
ताम्बूलमायात्रिकतां नीत्वा सूनामयानिव ।
आर्पिपन्मधुरावट्टं जीवं यस्य निजः सुतः ॥ ३३२७ ॥
स जगजीवितेनापि रक्षणीयः क्षमापतिः ।
पदे पदे विपन्म नो प्रजोद्धरणधीरधीः ॥ ३३२८
व्याधितस्य विनिद्रोपि संसङ्गान्मङ्गलेच्छुभिः ।
नान्तक्षणे तस्य पार्श्वात्कृतज्ञोवाचलन्नृपः ॥ ३३२९ ॥
प्रियप्रजस्यामात्यस्य स्वरूपविपरीतता ।
तस्य कंचित्क्षणं जाता जनजीवितदा भवेत् ॥ ३३३० ॥
भूभुजामपि मांधातृमुखानां निधने न याः ।
दुःखं ययुः प्रजास्तासां समभावि तदा सुखम् ॥ ३३३१ ॥
द्वैराज्योपप्लुते राष्ट्रे नवस्य नृपतेरभूत् ।
अप्याहतं यत्साचिव्यं तस्य सर्वाभिषङ्गभित् ॥ ३३३२ ॥
कालो बली व्यवहृतेर्ननु तद्वशेन
पूर्वापराचरणविस्मरणेन कस्य ।
शक्तिः क्षितेर्वहनकर्मणि योग्यतायां
२८९
निर्दारणे मुरजितस्तु वराहतायाम् ॥ ३३३३ ॥
३७ २९० राजतरङ्गिणी
नगराधिकृतो भूत्वा सुज्जौ निर्वापिते पुरा ।
चिरप्ररूढां यो देशस्याव्यवस्थां न्यवारयत् ॥ ३३३४ ॥
भ्रष्टः क्रयेषु दीन्नारव्यवहारो व्यवस्थया ।
निगृह्य तं भ्रंशकार्यनिर्वितण्डः प्रवर्तते ॥ ३३३५ ॥
परिणीताङ्गनाशीलभ्रंशे गृहपतेरभूत् ।
दण्डप्रवृत्तिर्या तेन सा विचार्य निवारिता ॥ ३३३६ ॥
एकान्ततो हितो भूत्वा विशामेवं पुनर्व्यधात् ।
नगराधिक्रियां लब्ध्वा स एव परिपीडयन् ॥ ३३३७ ॥
बद्धाभिर्नर्तकीभिश्च परिणीतगृहस्थितौ ।
संप्रयुक्तान्कथ्यमानान्हठेनादण्डयद्वहून् ॥ ३३३८ ॥
किं वो भवेद्वलेशानां तुषाणामिव चिन्तनैः ।
अद्रोहालोभयोर्भूमिर्न ताहगपरोभवत् ॥ ३३३९ ॥
भिक्षुमल्लार्जुनौ कालानुवृत्त्या श्रितवानपि ।
नासौ जहौ स्वामिहितं नतौ तावपि नावधीत् ॥ ३३४० ॥
अक्षीणत्यागहीनस्य विभूतिसमयेण्यभूत् ।
संस्कारौपयिकं नास्य पर्याप्तं निधने धनम् ॥ ३३४१ ॥
कृतज्ञतायां राशोन्यत्पर्याप्तं किमुदीर्यताम् ।
यो जीवित इवानीतान्संबिभेजेनुजीविनः ॥ ३३४२ ॥
लोकान्तरातिथि विजाभिधामुद्दिश्य वल्लभाम् ।
धन्यस्य विजनामाख्यविहारारम्भकारिणः ॥ ३३४३ ॥
परलोकं प्रयातस्य निर्वाणप्रतिपूरणम् ।
1
स्थितं व्यवस्थितेः कं च विनियोगं चकार सः ॥ ३३४४ ॥
युग्मम् ॥ अष्टमस्तरङ्गः । २९१
भूभृद्धार्मिकतावाप्तसुकृतोत्सेकवसवैः ।
युद्धैकवृत्तिभिरपि प्रवृत्ते पुण्यकर्मणि ॥ ३३४५ ॥
विपक्षाणां सुभिक्षेण तुरुष्कविषयाश्रयात् ।
जन्मभूमेर्वृत्तये यैः क्रौर्यादन्यन्न शिक्षितम् ॥ ३३४६ ॥
येपि वृत्ति विरोध्याजिव्यग्रे सुस्सलभूभुजि
कलहावसरेष्वेव कश्मीरेषु प्रपेदिरे ॥ ३३४७ ॥
गोत्रे तेषां क्षत्रियाणां जातः कमलियानुजः ।
राजवीजी सङ्गियाख्यः प्रतिष्ठां स्वाख्ययाकरोत् ॥ ३३४८ ॥
वितस्तापुलिने बाणलिङ्गे तेन निवेशिते ।
जायते स्वर्धुनीरोधः संप्ररूदेविमुक्तधीः ॥ ३३४९ ॥
तदीयं च मठं चैव तपोधनविभूषितम् ।
दृष्ट्वा निवर्तते रुद्रलोकालोकनकौतुकम् ॥ ३३५० ॥
लोटनेन्यप्रतिष्ठानामधन्यद्रविणार्पणे ।
न तेनाद्यतने काले संरब्धे शुद्धबुद्धिना ॥ ३३५१ ॥
उदयस्य प्रिया चिन्ताभिधाना कम्पनापतेः ।
पुलिनोर्वी वितस्ताया विहारेण व्यभूषयत् ॥ ३३५२ ॥
प्रासादपञ्चकव्याजात्तद्विहारस्थितः करः ।
उदस्त इव धर्मेण प्रोत्तुङ्गाङ्गुलिपञ्चकः ॥ ३३५३ ॥
सांधिविग्रहिको मङ्खकाख्योलंकारसोदरः ।
समठस्याभवत्प्रष्ठः श्रीकण्ठस्य प्रतिष्ठया ॥ ३३५४ ॥
मठाग्रहारदेवौकोजीर्णोद्धारादिकर्मभिः ।
अनुजा सुमना नाम रिल्हणस्यासदत्तुलाम् ॥ ३३५५ ॥
भूतेश्वरे मठं कृत्वा त्रिग्राम्यामप्यपातयत् ।
तोयं कनकवाहिन्या वितस्तायाञ्च यः पितॄन् ॥ ३३५६ ॥
१ वासनैः इति स्यात् । २ संप्ररूहाविमुक्तधीः इति स्यात् । २९२ राजतरङ्गिणी
प्रदेश्यकश्यपागारामिधाने नीलभूः सरित् ।
जिगीषयेव जाहव्या यत्र पूर्वी दिशं गता ॥ ३३५७ ॥
उत्ताराय गवादीनां यः सेतुं तत्र बन्धयन् ।
निर्ममे निर्मलं कर्म संसारोत्तरणक्षमम् ॥ ३३५८ ॥
नगरेपि स्वनामाङ्कवृषाकागारकारिणा ।
मठो येन कृतोभ्रष्टजटाघरघटाश्रयः ॥ ३३५९ ॥
मम्मेश्वरं स सौवर्णामलसारं चकार यः ।
सोमतीर्थं तथा तोयोद्यानमुद्दयोतितान्तिकम् ॥ ३३६० ॥
अत्र क्षमाभुजो वंशे वंशौन्नत्यधनादिषु ।
सासूयत्वममात्यानां धनप्राणादिहारिणः ॥ ३३६१ ॥
क्रुध्यन्नवासनाध्यासासूयया वासवोपि वा ।
प्राभ्रंशयद्दिवो देवो मांधातारं धराभुजम् ॥ ३३६२ ॥
अविप्लुतमतिर्भृत्यान्कृत्यौन्नत्यवतोन्वहम् ।
दृष्ट्रा ध्यातस्वमाहात्म्यवृद्धिस्तु प्रीयते नृपः ॥ ३३६३ ॥
कलशक्ष्मापतेः प्राज्ञोपशं भृत्योस्य रिल्हणः ।
कुर्वन्स्वर्णातपत्राणां प्रतिष्ठां प्रीतिकार्यभूत् ॥ ३३६४ ॥
स्वर्णपत्रां सुरेश्वर्यो शिवयोः समवेतयोः ।
सदीपारात्रिकामत्रमैत्रीमेति सघण्टिकम् ॥ ३३६५ ॥
बन्धोर्हिमाद्रेर्दयितः सुताजामातरौ शिवौ ।
स्वर्णच्छत्रच्छलान्मेरुमूर्याघ्रातुमुपागतः ॥ ३३६६ ॥
उद्दिश्य यद्विरुधदुद्यममात्मयोनि-
दग्धो मयानघटनं दयितेन गौर्याः ।
सिद्धं तदत्र करुणामुमयेति हेम-
च्छन्नच्छलाद्धरदृशश्चलितोझिरुर्ध्वम् ॥ ३३६७ ॥
छन्त्रं तत्र च रिल्हणेन विहितं रौक्मं महद्रुक्मिणी-
प्रेयोमन्दिरमूर्ध्नि नद्धमधुनादभ्रं परिभ्राजते ।
क्षैब्येण क्षतजावपानजनुषा नष्टं ततः स्वामिना
प्राप्तं चक्रमवेक्षितुं सुरुचिरं भास्वानिवाभ्यागतः ॥३३६८॥
तीर्थे मन्मथजित्खगध्वजद्दढाजयर्जिताचार्यके
साधाराभरणं क्रियापरिणतिस्वर्णातपत्रं प्रभोः ।
भात्येकस्य शिखाहिफूत्कृतिवलङ्गङ्गाजरेणूपमं
केशान्तस्थितमेघपार्श्वगतडित्पिण्डाभमन्यस्य च ॥३३६९॥
२९३
सौवर्णद्रुहिणाण्डकर्परपुरे संसूत्रिताच्छन्त्रक-
व्याकोशस्य समुङ्गकप्रतिकृतौ दीर्घार्धित घने
सङ्गेनेन्दुकिरीटकैटभरिपुश्यामासितालंक्रिया
सद्रत्नाकरयोः पिधानकरणिं स्वर्णातपत्रं गतम् ॥ ३३७० ॥
तं लोहरमहीपालमन्वजायन्त भूभुजः ।
रडादेव्या गुणोदाराश्चत्वारश्चतुराः सुताः ॥ ३३७१ ॥
गुल्हणेनापरादित्यो राघवेणेव लक्ष्मणः ।
अभिन्नभावः संवृद्धिं वर्तते लोहरे श्रयन् ॥ ३३७२ ॥
ललितादित्यदेवेन जयापीडो हि दारकः ।
भरतेनेव शत्रुघ्नः पाल्यमानः ध्रुवर्तते ॥ ३३७३ ॥
पार्थिवाहस्कराच्चारुनमस्काराद्यशस्करः ।
पञ्चमः क्षितिभृद्धय बालातप इवोदितः ॥ ३३७४ ॥
चपलैः शैशवाच्छुद्धानुभावत्वात्ससौष्ठवैः ।
लडितैर्ललितादित्यो भित्तीरप्याईयत्यहो ॥ ३३७५ ॥
दत्तरक्षाञ्जनं ताम्राधरं गौरं तदाननम् ।
सबालातपभुङ्गाङ्कस्वर्णरुहायते ॥ ३२७६ ॥
१ पुढे इत्युचितम् । २ प्रवर्धते इति स्यात् । २९४ राजतरङ्गिणी
आलापास्तस्य माहात्म्यगर्भा वालास्फुटा अपि ।
अमृतोद्र भवोच्चारा मध्यमानस्य वारिधेः ॥ ३३७७ ॥
महाभिजनसंजातो राजसूनुः स शैशवे ।
अभिधत्तेनुभावेन भव्येनागामि जृम्भितम् ॥ ३३७८ ॥
अत्यर्थमण्डनशिखण्डिशिखोपि तोय-
स्पर्शासहाञ्चितकलापिकलापभया ।
वापीं निपीतसलिलो वलितं प्रयाति
चेष्टोक्तभावमहिमा वरवर्णिभावः ॥ ३३७९ ॥
चतस्रो मेनिला राजलक्ष्मीः पद्मश्रिया समम् ।
संजाता कमला चास्य कन्याः सत्कृत्यवृत्तयः ॥ ३३८० ॥
विनोदलीलोद्यानैस्तैर्नित्यकान्तैरपत्यकैः ।
द्योतितावनवद्यौ तौ प्रावृपुष्पाकराविव ॥ ३३८१ ॥
तीर्थायतनपूतेस्मिन्मण्डलेखण्डितैर्व्ययैः ।
रड्डादेव्या एव याता भाग्यभावं विभूतयः ॥ ३३८२ ॥
कृतानुयात्रा सा देवयात्रासु क्षितिपाङ्गना ।
राजलक्ष्मीरिवाभाति राजसामन्तमत्रिभिः ॥ ३३८३ ॥
सतीदेशे तीर्थसार्थास्त्यजन्त्यस्या निमज्जने ।
स्नानासक्तसतीमूर्तिस्पर्शनौत्सुक्यमञ्जसा ॥ ३३८४ ॥
चित्रे कालेत्र यात्रासु द्रष्टुं वृट्युत्तरैः सदा ।
यत्प्रावृडिव....यं जीमूतैरनुगम्यते ॥ ३३८५ ॥
सा पार्थिवेषु तीर्थेषु स्नानाय प्रस्थिता ध्रुवम् 1
दिव्यैर्वर्षमिषात्तीर्णैः प्रादृश्येत तदीर्ष्यया ॥ ३३८६ ॥
अभ्रंलिहान्न च गिरीन्न च कूलंकषा नदीः ।
मृद्धी दुर्गमा मार्गे तीर्थोत्सुक्येन वेत्त्यसौ ॥ ३३८७ ॥
१ बाल्यास्फुटा इति स्यात् । २ अमृतार्द्रा इवोद्गारा इति स्यात् । अष्टमस्तरङ्गः ।
सुबडीभिः प्रतिष्ठाभिर्जीणोद्धारैश्च धीरया ।
तया चित्रं चतुस्या पङ्गुर्दिद्दा विलङ्घिता ॥ ३३८८ ॥
अद्यापि विक्षरत्क्षीरार्णवकान्तिच्छटाच्छलात् ।
यो भातीव सुधासूतिसितश्वेताश्मनिर्गतः ॥ ३३८९ ॥
उपमन्योरुदन्याया दारिद्र्योपद्रवापहः ।
रुद्रो रुद्रेश्वरो नाम्ना श्रीमान्कश्मीरभूषणम् ॥ ३३९० ॥
जगत्सौन्दर्यसारं स सस्वर्णामलसारकः ।
२९५
शान्तावसादप्रासादोद्धारश्च विहितस्तया ॥ ३३९१ ॥
सत्त्वानामिव भृत्यानां कोपौर्वविकृते नृपे ।
उदन्वतीव शरणं सिन्धुह्रैमवतीव सा ॥ ३३९२ ॥
स्थिरप्रसादे भूपाले निग्रहानुग्रहौ क्षणात् ।
भूभुजामपि संवृत्तावविच्छिन्नस्तदिच्छया ॥ ३३९३ ॥
सोमपालात्मजो भूभृद्भूपालः ः प्रापितस्तया ।
मानिन्या मेनिलादेव्या विवाहेन महार्हताम् ॥ ३३९४ ॥
उत्पत्तिभूभिसुलभानुभवो न भूम्ना
कस्याप्यो व्यभिचरत्यनुभावभावः ।
तेजस्तमोविलुठनव्रतमुष्णभानो-
श्छेदं तदुत्थमकरोत्तमसोपि चक्रम् ॥ ३३९५ ॥
भुवनाद्भुतसाम्राज्यमार्जनो भूभुजाभवत् ।
प्रातिभाव्यं दृढं रत्नाक्रान्तसन्मण्डलावनिः ॥ ३३९६ ॥
ऊढायां मेनिलादेव्यां परिणेतुरभूदपि ।
पिता वैमत्यमुत्सृज्य निर्व्याजं राज्यदायकः ॥ ३३९७ ॥
राज्ञा प्राजिधरस्याजौ तरसा भूभुजोनुजः ।
वैरिभिर्निहतस्याग्रे वैरसंशोधनोद्यतः ॥ ३३९८ ॥
१ अविच्छिन्नौ इति स्यात् । २९६ राजतरङ्गिणी
रड्डां शरणमेत्योच्चैर्मानोत्कट्यो घटोत्कचः ।
भेजे राज्यश्रियं प्राप्य चित्रं राज्यश्रियं पराम् ॥ ३३९९ ॥
कुलकम् ॥
कृतसाहायकोमात्यै राज्ञः सप्रज्जिमङ्गदम् ।
राज्यं प्राभ्रंशयाहं पञ्चवटो नृपम् ॥ ३४०० ॥
अलङ्घयत्तत्प्रभावात्स्फारदानाम्बुनिर्भरात् ।
सरितं खड्गवल्लीं च कृष्णां विद्वेषिगोचराम् ॥ ३४०१ ॥
द्वितीयस्योरशाभर्तुरकीर्तिर्निर्जयासृजत् ।
देवप्रभावाद्योधाग्रमत्युग्रपुरमग्रहीत् ॥ ३४०२ ॥
'शीतोष्णवारणशशिद्योतकल्लोलितास्ततः ।
बहवो वाहिनीनाथाः प्रथामित्थं प्रपेदिरे ॥ ३४०३ ॥
•समाद्वाविंशती राज्यावाप्तेः प्राग्भूभुजो गताः ।
तावत्येवातराजस्य पञ्चविंशतिवत्सरे ॥ ३४०४ ॥
इयदृष्टमनन्यत्र प्रजापुण्यैर्महीभुजः ।
परिपाकमनोशत्वं स्थेयाः कल्पातिगाः समाः ॥ ३४०५ ॥
अम्भोपि प्रवहत्स्वभावमशनै राश्यानमश्मायते
ग्रावोम्भः स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः ।
कालस्यास्खलितप्रभावरभसं भाति प्रभुत्वेद्भुते
कस्यामुत्र विधातृशक्तिवटिते मार्गे निसर्गः स्थिरः॥ ३४०६॥
१ सितोष्ण इत्युचितम् । अष्टमस्तरङ्गः ।
प्रयाते अधिकेप्यर्धसमाषट्कशते कलेः ।
कश्मीरेष्वास्त गोनन्दः पार्थानां सेवया नृपः ॥ १ ॥
सुनुर्दामोदरोस्याथ तस्य पत्नी यशोमती ।
गोनन्दोन्यस्तत्सुतोपि ततोतीत्य महीपतीन् ॥ २ ॥
षञ्चत्रिंशतमज्ञातानुग्रहाभिजनाभिधान् ।
राजाभवल्लवो नाम सूनुस्तस्य कुशस्ततः ॥ ३ ॥
द्वौ खगेन्द्रसुरेन्द्राख्यौ पुत्रपौत्रावमुष्य तु ।
गोधरोधान्यकुलजः सुवर्णाख्यस्तदात्मजः ॥ ४ ॥
तज्जन्मा जनकोप्यासीत्सूनुः शच्याः शचीनरः ।
अथाशोकोभवद्भूभृद्राज्ञोस्य प्रपितृव्यजः ॥ ५ ॥
तज्जौ जलौकाः संदिग्धवंशो दामोदरस्ततः ।
तुल्यं त्रयोथ हुष्काद्यास्तुरुष्काभिजनोद्भवाः ॥ ६ ॥
अभिमन्युस्तृतीयश्च गोनन्दोथ विभीषणः ।
ताविन्द्रजिद्रावणश्च पितापुत्रौ कमान्नुपौ ॥ ७ ॥
अन्यो बिभीषणः सिद्ध उत्पलाख्यश्च तत्सुतः ।
पश्चात्ततो हिरण्याक्षो हिरण्यकुल इत्यभूत् ॥ ८ ॥
राजा वसुकुलस्तस्य सूनुः ख्यातस्त्रिकोटिहा।
॥ ९॥
क्षितिनन्दो बकात्मजो वसुनन्दस्तदात्मजः ।
नरोन्योक्षस्ततो गोपादित्यगोकर्णको क्रमात् ॥ १० ॥
तस्मान्नरेन्द्रादित्योभूत्तत्पुत्रोन्धयुधिष्ठिरः ।
तस्मिन्प्रभ्रंशिते भृत्यैरन्याभिजनसंभवः ॥ ११ ॥
भूपः प्रतापादित्योभूजलौकोपि तदात्मजः ।
तुञ्जीनो निःसुते तज्जो विजयोन्यकुलोद्भवः ॥ १२ ॥
२९७ २९८ राजतरङ्गिणी
जयेन्द्रस्तत्सुतोपुत्रः
सचिवः संधिमानभूत् ।
युधिष्ठिरस्य पौत्रेण गोपादित्यात्मजन्मना ॥ १३ ॥
श्रीमेघवाहनेनाथ गोनन्दस्योदितं कुले ।
ततः प्रवरसेनोभूद्भूपः कश्मीरमण्डले ॥ १४ ॥
तत्सूनुश्च हिरण्योभूत्पालयन्क्षितिमण्डलम् ।
मातृगुप्तोभवद्दत्तराज्यस्तेन शकारिणा ॥ १५ ॥
ततः प्रवरसेनोन्यस्तोरमाणात्मजः क्षितिम् ।
लेभे हिरण्यभ्रातृव्यस्तस्य पुत्रो युधिष्ठिरः ॥ १६ ॥
ततो नरेन्द्रादित्यश्च रणादित्यश्च भूपतिः ।
क्रमादभूतां तत्पुत्रो विक्रमादित्यभूपतिः ॥ १७ ॥
बालादित्यश्चोदभवद्विक्रमादित्यनन्दनः ।
बालादित्यस्य जामाता ततो दुर्लभवर्धनः ॥ १८ ॥
सुनुर्दुर्लभकस्तस्य चन्द्रापीडोभवत्ततः ।
तारापीड़ोनुजन्मास्य मुक्तापीडोस्य चानुजः ॥ १९ ॥
भूपावास्तां कुवलयापीडो द्वैमातुरोस्य च ।
वज्रादित्यः सुतो राज्ञो मुक्तापीडस्य तत्सुतौ ॥ २० ॥
पृथिव्यापीडसंग्रामापीडावास्तां महीभुजौ ।
जयापीडोस्य मंत्री च जजः पुत्रावपि क्रमात् ॥ २१ ॥
ललितापीडसंग्रामापीडौ ज्येष्ठात्मजस्ततः ।
श्रीचिप्यद्रजयापीडः कल्पपाल्युद्भवोभवत् ॥ २२ ॥
अभिचारेण तं हत्वा सांमत्यादितरेतरम् ।
उत्पलाद्यैरसंप्राप्तराज्यैस्तन्मातुलैः कृतः ॥ २३ ॥
भ्रातुः पुत्रोजितापीडो जयापीडस्य तत्पदे ।
अनङ्गापीड़नामा च संग्रामापीडजस्ततः ॥ २४ ॥
तमुत्पाठ्योत्पलापीडोस्याजितापीडनन्दनः ।
अवन्तिवर्मा शूरेण तं निवार्याथ मन्त्रिणा ॥ २५ ॥
नप्तोत्पलस्य विदधे साम्राज्ये सुखवर्मजः ।
२९९
सूनुः शंकरवर्मा स गोपालस्तस्य चात्मजः ॥ २६ ॥
रथ्यागृहीतः प्राभूच्च तद्भ्राता संकटाभिधः ।
सुगन्धाख्या तयोर्माता तं विनाश्याथ भूभुजम् ॥ २७ ॥
शूरवर्मप्रनतारं पहुं तत्रिपदातयः |
चक्रुर्निर्जितवर्माणं ततः पार्थस्ततः क्रमात् ॥ २८ ॥
चक्रवर्मा शूरवर्मा चेति निर्जितवर्मजः ।
चक्रवर्मण्यतीतेथ पापी पार्थात्मजः क्रमात् ॥ २९ ॥
उन्मत्तावन्तिवर्मासीत्तत्पुत्रे शूरवर्मणि ।
राज्याद्भ्रष्ट्रे द्विजैश्चक्रे राज्ये मन्त्री यशस्करः ॥ ३० ॥
प्रपितृव्यात्मजस्तस्य वर्णटस्तनयोनु तम् ।
राज्ये वक्राङ्घ्रिसङ्ग्रामस्तस्थौ निष्पाद्य तं ततः ॥ ३१ ॥
अमात्यः पर्वगुप्ताख्यो राज्यं द्रोहेण लब्धवान् ।
क्षेमगुप्तः सुतोस्यासीदभिमन्यौ तदात्मजे ॥ ३२ ॥
शान्ते मात्रा पाल्यमाने नन्दिगुप्ते च तत्सुते ।
ततस्त्रिभुवने भीमगुप्ते च क्रूरचेष्टया ॥ ३३ ॥
पौत्रे तयैव निहते स्वयं दिद्दाख्यया कृते |
राज्ये संग्रामराजोपि भ्रातृव्योन्ते नृपः कृतः ॥ ३४ ॥
हरिराजानन्तदेवावास्तां तस्यात्मजौ ततः ।
कलशोनन्ततनयः क्रमापौ तदात्मजौ ॥ ३५ ॥
उभावुत्कर्षहर्षाख्यावपि निष्पाट्य भूपतिम् ।
हर्षदेवं तमुद्दामविक्रमोनन्यवंशजः ॥ ३६ ॥
राजतरङ्गिणी अष्टमस्तरङ्गः ।
भ्रातुः पुत्रस्य दिद्दाया जस्सराजस्य नतृतः ।
मल्लाभिधानादुद्भूतो भूपतामुञ्चलोभजत् ॥ ३७॥
द्रोहेण तं हृतवतां भृत्यानामग्रतस्ततः ।
शङ्खराजान्यनामाभूद्रड्डाख्यः क्षणिको नृपः ॥ ३८ ॥
गग्गेन निहते तस्मिन्मल्लो द्वैमातुरोप्यभूत् ।
तस्योच्चलमहीभर्तुर्भ्राता निर्बंध्य तं बली ॥ ३९ ॥
सुस्सलाख्योग्रहीद्राज्यं माल्लिरुञ्चलसोदरः ।
विरक्तैः पाटिते तस्मिन्राज्यात्यैर्नृपः कृतः ॥ ४० ॥
षण्मासान्हर्षभूभर्तृनता भिक्षाचराभिधः ।
पुनर्निर्वास्य तं प्राप्तराज्ये सुस्सलभूभृति ॥ ४१ ॥
क्रमाल्लवन्यैर्विश्वस्तैर्वैराज्योद्वेजिते हते ।
लवन्यानिखिलांस्तं च हत्वा भिक्षाचरं नृपम् ॥ ४२ ॥
सुतः सुस्सलभूभर्तुः संप्रत्यप्रतिमक्षमः ।
नन्दयन्मेदिनीमास्ते जयसिंहो महीपतिः ॥ ४३ ॥
गोदावरी सरिदिवोत्तमुलैस्तरङ्गै-
र्वक्रैः स्फुटं सपदि सप्तभिरापतन्ती ।
श्रीकान्तराजविपुलाभिजनाब्धिमध्यं
विश्रान्तये विशति राजतरङ्गिणीयम् ॥ ४४ ॥