सामग्री पर जाएँ

रसिकरञ्जनम्

विकिस्रोतः तः
रसिकरञ्जनम्
रामचन्द्रकविः
१९३७

रामचन्द्रकविकृतं

रसिकरञ्जनम्।

सटीकम् ।

शुभारम्भेऽदम्भे महितमतिडिम्भेङ्गितशतं
मणिस्तम्भे रम्भेक्षणसकुचकुम्भे परिणतम् ।
अनालम्बे लम्बे पथि पदविलम्बेऽमितसुखं
तमालम्बे स्तम्बेरमवदनमम्बेक्षितमुखम् ॥ १॥

शुभेति । शुभानां कर्मणामदम्भे दम्भरहित आरम्भे महितं पूजितम् । रसिकरञ्जनम् । डिम्भान्बालानतिक्रान्तम् इङ्गितानां चेष्टानां शतं यस्य तम् । रम्भाया ईक्षणेन सकुचकुम्भे मणिस्तम्भे परिणतं तिर्यवाहारासक्तम् । अन्य गजकु म्भभ्रमेण । अनालम्बे दीर्धे पथि पदानां बिलम्बेन लम्बोदरतयामितभपरि- मितं सुखं यस्य । अम्बया पार्वत्या ईक्षितं मुखं यस्य । एवंविध स्तम्बेरमव- दनमालम्बे आश्रये ॥ विशिष्टश्रीभावालयनयनमुद्राविवरणे मुखं यस्या यस्माद्विलसति मिलत्कुञ्चिकमिव । स तस्याः स्वारस्याकलितचरणे काव्यकरणे कवीनां प्रावीण्यं कुवलयवतंसोऽवतु गिरः ॥२॥ विशिष्टेति । तस्या गिरः कुवलयकर्णाभरणं कवीनां काव्यकरणे ग्रावीण्य भवतु । कीदृशे काव्यकरणे । स्वारस्येनानायासेनाकलिताः स्फुरिताश्चरणा यत्र । यस्मादवतंसात् यस्या गिरो मुखं विशिष्ट चा श्रीः शोभा विलासाश्च तदालयरूपं यन्नयनं तस्य या मुद्रा तद्विवरणे तदुद्धाटने भिलन्नी कुञ्चिका यत्र तदिव विलसति ।। एकश्लोककृतौ पुरः स्फुरितया सत्तत्त्वगोष्ट्या समं साधूनां सदसि स्फुटां विटकथां को वाच्यवृत्त्या नयेत् । इत्याकर्ण्य जनश्रुतिं वितनुते श्रीरामचन्द्रः कविः श्लोकानां सह पञ्चविंशति शतं शृङ्गारवैराग्ययोः ॥ ३ ॥ एकेति । स्पष्टोऽर्थः॥ अपापधनसंवृतेरविशदस्मितात्युन्नम- त्समस्तनरसादरग्रहणतः कृतार्थप्रिया । रतिर्मनसि जायते यदि कदापि शौर्याश्रया तदैव सकलं जनुः सफलमेवमाहात्मभूः ॥ ४ ॥ अपेति । [ वैराग्ये-] यदि कदापि शौर्याश्रया शौरिः कृष्ण आश्रयो यस्याः सा रतिः प्रीतिर्मनसि जायते तदैव सकलं जनुर्जन्म सफलमित्यात्म- ७चतु काव्यमाला।

भूर्ब्रह्मा आह । कीदृशी रतिः । अपापधनसंवृतेरविशदस्मिता पापनि बिडसं- वरणव्यतिरेकान्न विशन्ती अस्मिता अहंकारो यस्यां सा । पुनः । अत्यन्त- मुन्नमन्तः समस्ता ये नरा अम्बरीषादयस्तेषां यत्सादरं ग्रहणं ततः कृतार्थी ये शुकादयस्तेषामपि प्रिया ॥ [शृङ्गारे-] यदि शौर्यमाश्रयो यस्या एवंविधा रतिः कामवधूर्मनसि जायते मनसिज इवाचरति तदैव सकलं जन्म सफलभित्यात्मभूः काम आह। कीदृशी रतिः । अपगतापघनानामवयवानां या संवृतिराच्छादनं ततोऽवि- शदमव्यक्तं स्मितं यस्याः सा । पुनः । अत्यन्तमुन्नमन्तावुत्पतनादिना समौ यौ स्तनौ तयो रसेमावेशेनादरेण यद्ग्रहणं ततः कृतार्थः प्रियो यस्याः सा ॥ अकलियुगमखर्वमत्र हृद्यं व्यचरदतापधनो यतः कुटुम्बी । मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्दनेन ॥५॥ अकलीति । [वै०-] अन्न संसारे अकलियुगं कलिव्यतिरिक्त- त्रेतादियुगं महत् हृद्यं हृदयंगमं भवति । यतो युगात् कुटुम्बी संसारी न तापधनः सन् व्यचरत् । अत एव इह त्रेतायां लक्ष्मणाग्रजेन रामेण मम रुचिः प्रभवति शर्म सुखं च दशास्यमर्दनेन प्रभवति ।। [शृ०-~- -] अखर्व पीनं, हृद्यं हृदयोङ्गवं, युगं युग्मं, अकलि दृष्टम् । यतो यत्र अपगतापघनः अनङ्गः कुटुम्बी रत्या सहितः सन् व्यचरन् । मम इह युग्मे रतिः प्रीतिः प्रभवति । अग्रजेनाने जातेन, लक्ष्मणा चिह्नेन, कुचा- ग्रश्यामिकया नखक्षतेन वा । अथ च अस्य मर्दनेन शर्मदशा च प्रभवति ॥ जातु सुदर्शनपाणिः श्रवणादेः किं न वाञ्छितं यच्छेत् । दास्यति चिरानुवृत्त्या रमणीयं किमपि कामितं वस्तु ॥ ६ ॥ जात्विति । [वै०-] सुदर्शनं चक्रं पाणौ यस्य स विष्णुः श्रवणादेः श्रवणमननादितः किं वाञ्छितं न यच्छेत् । अपि तु सर्वमपि । चिरानुवृत्त्या किमपि रमणीयं किमप्यनिर्वाच्यं भोक्षलक्षणं वस्तु किं न दास्यति । [१०-- -] सुष्टु दर्शनं यशोः एवंविधौ पाणी यस्थाः सा श्रवणादिना वाञ्छितं किं न यच्छेत् । इयं रमणी दास्याः अतिचिरमनुवृत्त्या किमप्य- निर्वाच्य संभोगादि कामितं वस्तु यच्छेदेव । पूर्वत्र संबन्धः ॥ 38 रसिकरञ्जनम् । घनस्तनभरालसा ब्रजति गौरवन्ध्येह ते विधेहि कटिपार्श्वयोर्नखमुखेन कण्डूयनम् । इतः सुखपरम्परा मिलति संप्रति श्रेयसा सदा न खलु संगतिर्भवति गर्भसंभूतये ।। ७ ।। घनेति। [वै०-] धनस्तनभरेण अलसा अवन्ध्या प्रसूता इह ते गौर्व्रजति । त्वं नखमुखेन कटिपार्श्वयोः कण्डूयनं विधेहि । संप्रतीदानीमेव श्रेयसा पुण्येन इतः सुखपरम्परा मिलति । अस्याः सदा संगतिः गर्भसंभू- तये जन्मने न भवति ॥ [शृ-] इयं गौरवन्ध्या घनस्तनभरालसा ब्रजति । ईहते वाञ्छति । अतः कटिपार्श्वयोर्नखमुखेन कण्डूयनं विधेहि । इतो बन्ध्यायाः सङ्गेन संप्रति श्रेयसा सुखपरम्परा मिलति । अस्याः सदा संगतिरपि गर्भसंभूतये न भवति ॥ कदलीकरभसमानां कलयति यो रूपक्लृप्तिमतिरुचिराम् । सोपायाद्दृढयोगं गमितोरसिकोपकरणविषयतया ॥ ८ ॥ कदेति । [वै०-] यः पुरुषः रूपाणां नानाविधानां क्लृप्तिं कल्पनाम् अत्यन्तं रुचिरां भनोहरां कुत्सितालीकरमसाहंकारां कलयति जानाति । स इदानीमपगतेन्द्रियविषयत्वेनारसिको दृढयोगं योगाभ्यासं गमितो गुरुणा अपायात् अपगतः ॥ [१०] या कदलीकरभयोः समानां ऊर्वोरुपक्लृप्तिं कलयति । सा उपा- यात् कोपकरणविषयत्वेन उरसि दृढयोगं गमिता ॥ नर्मदामनु तपस्यशान्तहृद्धृष्टधीरसिकतामये कचित् । संसृताविह परात्मयोगकृत्किं तदन्यदपि कर्म शर्मणे ॥९॥ नर्मेति । [वै०-] हे धृष्ट धीर, नर्मदानदीमनु क्वचित् सिकतामये सैकते शान्तहत् भूत्वा तपस्य तपः कुरु । इह संसृतौ परात्मयोगकृत् ततोऽपि किमन्यत् कर्म शर्मणेऽस्ति । [-] अहं तपसि माघे अशान्तहृत् शीतासहिष्णुतया नर्म ददा- तीति नर्मदा ताम् अनुगम्य हृष्टधीः सन् क्वचिदेकान्ते रसिकतां रसिकत्वम् १०० काव्यमाला। अये प्राप्नोमि । इह संसारे परया अन्यया आत्मनो योगं संबन्ध करोति यत् कर्म तत् किं एतव्द्यतिरिक्तं अस्ति यच्छर्मणे भवतीति ॥ योगमितो मधुरतया पौरोभाग्यं व्यनक्ति विषयेषु । धन्यः स एव मान्यः संसारेऽस्मिन्नसाधुताभिज्ञः ॥ १० ॥ योगमिति । [ वै०-] यः मधुरतया मनोहरत्वेन अगं पर्वतं इतः प्राप्तः सन् विषयेषु स्रगादिषु पौरोभाग्यं दोषैकहक्त्वं व्यनक्ति प्रकटयति । मधु- रत्वेन योगाभ्यासं इतः प्राप्तः इति वा । स एव धन्यः संसारेऽस्मिन् असाधु- तामभिजानाति । [१०-] यः पौरो नागरिकः रतयानुरक्तया मधु गमितः प्रापितो विषयेषु भाग्यं व्यनक्ति स एव धन्यो मान्यश्च । संसारेऽस्मिन् साधुत्ता- भिज्ञो न मान्य इति ॥ आसाद्य सोमभुवमाखहि यत्र नित्यं भङ्क्तुं प्रलोभयति सैकतमंशुकाभम् । तत्तत्र निर्वहति संप्रति नित्यकृत्य- मेतस्य विस्मृतगृहस्य परानुभूत्या ॥११॥ आसाद्येति । [ वै०-] सोमभुवं नर्मदां आसाद्य आवां आस्वहि । यन्न नित्यं मङ्क्तुं अंशुकाभमुज्वलं सैकतं प्रलोभयति । तस्माद्वेतोरावयोर्मध्ये एतस्य परानुभूत्या परब्रह्मानुभवेन विस्मृतगृहस्य नित्यकृत्यं तत्र निर्वहति ॥ [१०---] त्रयाणां मध्ये द्वयोरेकं प्रति वचनम्-उमा अतसी तत्स- हितां भुवमासाद्यावामास्वहि । यत्र सा ज्ञाता स्त्री शुकामं शुकदेवसमान- मेकतममावयोर्मङ्क्तुं प्रलोभयति । तत्तस्माद्धेतोरेतस्य संप्रति नित्यकृत्यं निर्व- हति । परस्य अनुभूत्वा अनुभवेन विस्मृतगृहस्य ॥ आसाद्य कृष्णपक्षानत्रसतः सर्वदाभीकान् ! परयात्मनि रतचित्तान्विभाव्य तत्कर्म कुर्वतः क्व भयम् ॥१२॥ आसाद्येति । वै०-] अन्न संसारे कृष्णः पक्षो येषां तान् सर्वदा अभीकान् निर्भयान सतः पुरुषान् आसाद्य उपगम्य परे आत्मनि रतचित्तान् विभाव्य तत्कर्म तेषां कर्म कुर्वतः पुरुषस्य क भयम् ॥ रसिकरञ्जनम् । [श्रृ ॰- ] कृष्णपक्षान् प्राप्य सर्वदा अनसतोऽभीकान् कामुकान् पर- यान्यया आत्मनि रतमनसो विभाव्य त्वमपि तत् कर्म कुरु । ततस्ते क्क भयम् ॥ असौ समरसाहसं वितनुतेऽग्रिमश्रेयसे मुकुन्दममुमात्मनि स्थिरयितुं न किं वाञ्छति । अतः परतरं कुतः प्रतरणाय वारां निधे- र्निदानमिह संसृतेः सुखसृतेश्च किं कारणम् ॥ १३ ॥ असाविति । [ वै०-] असौ पुरुषोऽग्रिमश्रेयसे समरसाहसं वितनुते संमुखयुद्धेन तनुं त्यक्त्वा मुक्तो भवेयमिति इच्छति । अमुं मुकुन्दम् आत्मनि हृदये स्थिरयितुं किं न वाञ्छति । अग्रे स्पष्टम् ॥ [श्रृ ॰-] असौ स्त्री समो रसो यस्याः सा हसं हास्यं वितनुते अग्रि- मश्रेयसे संभोगाय आत्मनि स्वशरीरे अमुं मुरहितं मुकुन्दम् अर्थात् कुन्दं स्थिरीकर्तु किं न वाञ्छति । इयं हासेन स्वदेहे कुन्दपुष्पं स्थिरीकरोतीव । अतो हेतोः संसारसिन्धुतरणाय किं निदानं सुखमार्गस्य वा किं कारणमस्ति । चिरमीक्षेमहिलास्यं मायाया दीर्घसीमनि स्वप्ने । यद्वासनया वासितमात्मानं वेद नापि वेदज्ञः ॥ १४ ॥ चिरभिति । [ वै.-] दीर्घसीमनि स्वप्ने संसारे मायाया लास्यं नृत्यं चिरं वयमीक्षेमहि । वेदज्ञोऽपि यद्वासनया वासितमात्मानं न वेद ॥ [श्रृ ० ] दीर्घसीमनि स्वप्ने चिरमन्रुवर्तमाने मायाया महिलायाः स्त्रिया आस्यं मुखम् ईक्षे पश्यामि । यस्य मुखस्य वासनया वासितमात्मानम् अहं वेदज्ञोऽपि न वेत्, इति विरहिणो वचनम् ॥ आसादितव्योऽस्ति करालकेशः सखेदयार्ह: समयोपकारी । तदुत्तमश्लोककथानुबन्धस्तावद्यथा स्यात्प्रयते तथाहम् ॥ १५ ॥ आसादीति । [वै०-] हे सखे, कराला भीषणाः केशा यस्मिन् दयार्ह: अपकारी समयो वार्धकसमयः मया आसादितव्योऽस्ति । तस्माद्धेतोरुत्तम- श्लोकस्य कृष्णस्य कथानुबन्धः तावत्पर्यन्तं यथा स्यात्तथा प्रयते यत्नं करोमि|| [श्रृ ० -- ] सखेदया सदुःखया मया उपकारी करेण अलकेशः कुबेरः १०२ काव्यमाला। अर्थाद्रव्यदग्ता अर्हो योग्यः स पुरुष आसादितव्योऽस्ति । तादृक्तस्यैव उत्तम- श्लोककथानुबन्धे उत्तमयशःकथानुबन्धो यथा भवति पथा यते यत्नं करोमि ।| सैवाद्रियेत रत्यै पुंसः परमस्य यानवाचर्चा । तस्मात्तदेकनिष्ठं चित्तं कृत्वा सुखं समासीत ॥ १६ ॥ सैवेति ।[वै० ] परमस्य पुंसः कृष्णस्य या नवा चर्चा सैव रत्यै प्रीतये आद्रियेत । अग्रे स्पष्टम् ॥ [श्रृ ॰-] यतः सैव रत्यै रताय त्वाम् आद्रियेत । परं त्वस्य पुंसस्तत्प- तेर्यानवाचा गमनवचनेन ऋचा ऋक् रूपया । सत्ययेत्यर्थः । तस्मिन् प्रो- षिते सैवागमिष्यतीत्यर्थः । तस्मात्तस्यामेवैका निष्ठा यस्यैवंविधं मनः कृत्वा सुखेनासीत ॥ दृक्षा सागरलङ्घनं कलयते रामायते श्लाघते लोको यः स न वेदनामपरतः प्राप्नोति भीतिं यतः। क स्यान्मे पुनरङ्गसंगतिरिति ध्यायन्नयं त्वादरा- त्कोऽहं कुत्र कुतः कदा कथमिति स्मृत्या परित्यज्यते॥१७॥ दृष्टचेति । [वै०-] यो लोकः दृष्टया सागरस्य लङ्घनं कलयते कुर्वते रामाय ते तुभ्यं श्लाघते स्तुतिं करोति । स लोकः अपरतोऽन्यतो वेदनां दुःखं न प्राप्नोति भीतिं च यतो न प्राप्नोति । अतो हे राम, मम पुनरङ्ग- संगतिः शरीरसंबन्धः क स्यादिति बुद्ध्या अयं लोक आदरात् त्वा त्वां ध्याय- न् अहं कः कुत्रास्मि कुतः समागतोऽस्मि कदा कस्मिन् काले कथं केन प्रका- रेण, इति स्मृत्या परित्यज्यते ॥ [श्रृ ॰-] कस्यचन नष्टयति प्रति वचनम्-है यते, सा रामा स्त्री दृष्टया दर्शनेन घनं निबिडं गरलं विषं कलयते क्षिपति तद्गोचरो यो लोकः श्लाघते स नामेति प्रसिद्धौ न जानातिं किल । यतः परतः अग्रे भयं दशमावस्याप- र्यन्तं प्राप्नोति । तु पुनः अर्य लोक आदरात् एतदङ्गसंगतिः क्व स्यात्, इति ध्यायन् 'कोऽहं कुत्र' इत्यादिस्मृत्या परित्यज्यते ॥ अचिरात्परात्मनिष्ठा भवति यतस्तत्कियेत चतुरेण । क्लेशेन कामदमनं धिगेकदारञ्जयन्तमात्मानम् ॥ १८ ॥ रसिकरञ्जनम् । १०३ अचिरादिति । [वै०--] अचिरात् परमात्मनि निष्टा यतो भवति तदेव चतुरेण क्रियेत कामदमनमीश्वरमेकदा कदाचित् कष्टेन रञ्जयन्तं धिक् ॥ [श्रृ o--] अचिरात् परा अन्या स्वी यतो हेतोः आत्मनिष्ठा स्त्रवशा भवति तदेव चतुरेण कर्म कार्यम् । एकदारमेकपत्नीकं क्लेशेन कामं अन्यां प्रत्युत्पन्नमपि दमयन्तम् आत्मानं जयन्तं धिक् ॥ स्फुटस्फुरणमानसा सबहुमानरोषस्थिति- र्भवद्विषयवासना चलतया दुरुत्सारणा। प्रियाचरणभाग्यतो भवति सप्रसादोऽजित- स्ततस्तदुपसेवनं तव सुखाय नान्याश्रयः ॥ १९ ॥ स्फुटेति । [वै०-~] भवतो विषयवासना चलतया दुरुत्सारणा । की- दृशी । स्फुटस्फुरणं मानसं यस्यां सा । पुनः । बहुमानेनाहंकारेण रोषेण च सहिता स्थितिर्यस्याः सा । अजितः कृष्णः प्रियस्य हितस्य आचरणं तेज्जन्य- भाग्यतः पुण्यात् सप्रसादः प्रसन्नो भवति । अतस्तस्यैवोपसेवनं तव सुखाय स्थात् , अन्याश्रयो न हितायेति ॥ [श्रृ ॰ -] हे चल चञ्चल, अन्यासक्ततग्रा भवद्विषया वासना त्वदपरा- धाहित: संस्कारो नापनेतुं शक्यते । कीदृशी । बहोर्मानस्य रोषस्य च स्थित्या सहिता । पुनः । नसा नासिकया स्फुटा व्यक्ता स्फुरणमा स्फुरणलक्ष्मीर्यस्यां सा। यतो हेतोः प्रियायाश्चरणौ भजते प्रियाचरणभाक् पुरुषः जित: सन् सप्रसादः तत्प्रसादसहितो भवति । अन्यस्या आश्रयोऽन्योपाश्रयो वा न तव सुखायेति ॥ दृश्येतदेव रूपं सुकृतविपाकेन केन ते दृष्टम् । एतर्हि गर्हितं मे जन्म न तत्कर्हिचिद्यदालोचि ॥ २०॥ दृश्येतेति ।[वै॰ -- ] हे देव, तव रूपं पुण्यपरिपाकेण दृश्येत कर्हि- चित् । अथवा केन ते रूपं दृष्टम् , न केनापि । यत् यतो हेतोस्तत्ते रूप मया नालोचि मनसापि न शीलितम् । ततो मे जन्म एतर्हि इदानी गर्हितम् ॥ [श्रृ ॰ --] हे दृश्ये दर्शनार्हे, तदेव ते रूपं श्रुतपूर्वमद्भुतमिति एतर्ही१०४ काव्यमाला। दानीं केन पुण्यपरिपाकेण दृष्टम् । तत्ते रूपं पूर्वं कदाचिदपि यन्नालोचि ततो मे जन्म गर्हितमिदानीं त्वद्दर्शनेन सफलमिति ॥ प्रसीदति किलाजितः श्रितमनोजवन्ध्यायते क्षरन्मदनवारणप्रतिकृतौ प्रयत्नं कुरु । यतः श्रुतिशिरःशतप्रकटितप्रमोदाद्वय- स्वरूपविषया भवेत्तव परानुभूतिश्चिरात् ॥ २१ ॥ प्रेति । [ वै०-] अजितः कृष्णः श्रितो मनोजवो मनोवेगो यस्मिंस्त- द्यथा स्यात्तथा ध्यायते पुरुषाय प्रसीदति किल । तत आदौ क्षरन् यः मदन एच वारणो हस्ती तस्य प्रतिकृतौ प्रतीकारे प्रयत्नं कुरु । किं विष्णुप्रसादेन भवतीत्यत आह-यतो विष्णुप्रसादात् श्रुतिशिरसां वेदान्तानां शतेन प्रक- टितं पदद्वयं स्वरूपं तद्विषया परानुभूतिर्ब्रह्मसाक्षात्कारस्तव चिराद्भवेदिति । [ श्रृ ॰ -] श्रितो मनोजः कामो येन । हे यते, वन्ध्या स्त्री आजितः संग्रामात्कामयुद्धतः प्रसीदति किल । अतः अक्षरदस्खलत् मदनवाः काम- जलं रेतो यस्यैवंविधः सन् रणप्रतिकृतौ कामरण एव प्रतीकारस्तत्र प्रयत्नं कुरु । यतो यत्नाद्वेदान्तशतप्रतिपादितानन्दाद्वयरूपात्मानुभवश्चिरात्तव भवे- दिति परिहासोक्तिः ॥ साधोरजनिमहेशं किमुपर्यासीन्न तेऽतिभावयतः । प्रायो मयोपदिष्टो विनैव कष्टं स्वयं सुखं लभते ॥ २२ ॥ साधो इति । [वै०-] महेशमीश्वरम् अतिभावयत: अत्यन्तं चिन्त- यतः साधोस्ते किं नाजनि किम् उपरि नासीत्, किं न जातं ज्ञानादिकं किमुत्कृष्टं पदं नाभूत् । अग्रे स्पष्टम् ॥ [श्रृ ॰-] रजनिमहे रान्युत्सवेऽधःस्थिता सा शं सुखविशेषम् अति- भावयतस्ते उपरि किं नासीत् , अपि त्वासीदेव । प्रायो मदुपदेशेन स्वयं कष्टं विनैव सुखं सुहृल्लभत इति ॥ प्रसादसुकुमारताविजितसान्द्रचान्द्रप्रभा रसोत्तरतरस्फुरन्मधुरवृत्तवर्णोत्तमा । रसिकरञ्जनम् । १०५ सदच्युतपदस्थितिर्भवति भारतीशस्यते ततस्तव रसज्ञयाजनि कृतार्थया संगमात् ॥ २३ ।। प्रसादेति । [वै०--] ईश्वरश्लोककृतं कविं प्रति वैष्णववचनम्-भव- ति त्वयि भारती शस्यते स्तुत्या भवति । ततो हेतोस्तव जिह्वया तत्संग- मात्कृतार्थयाजनि जातम् । कीदृशी सा सरस्वतीत्यपेक्षायामाह-प्रसादेन सुकुमारतया च विजिता सान्द्रा चान्द्री प्रभा यया । अतिशयेन रसप्रचुरा रसोत्तरतराः स्फुरन्मधुरं वृत्तं छन्दो येषु एवंविधा वर्णोत्तमाः श्रेष्ठाक्षराणि यस्यां सा अच्युतस्य पदे चरणे स्थितिर्यस्याः सा भारती ॥ [श्रृ ॰ — -] हे मित्र, रतीशस्य कामस्य मा कान्तिः शरीरशोभा ते भवति । ततो हेतोस्तव संगमाद् रसज्ञया रसं जानत्या कृतार्थयाजनि । की- दृशी कान्तिः । प्रसादेन मुखप्रसादेन सुकुमारत्वेन च विजिता सान्द्रा चान्द्री प्रभा यया । पुनः । रसोत्तरा भूलोकातिगा अतिशयेन रसोत्तराणि स्फुरन्ति मधुराणि वृत्तानि चरित्राणि वर्णोत्तमो गौरिमा यस्यां सा । पुनः । सती अ- च्युतास्खलिता पदे स्थाने स्वल्लक्षणे स्थितिर्यस्याः ।। आसाद्यते कथं वा शौर्याश्रयणे न गौरवध्वंसः । तत्तत्र दत्तचित्तश्चित्तजसंतापभाजनं न जनः ॥ २४ ॥ आसेति । [वै०--] शौरेः कृष्णस्य आश्रयणे कथं वा गौरवध्वंसः आसाद्यते । तत् तत्र दत्तचित्तो जनश्चित्तोत्पन्नसंतापभाजनं न स्यात् ।। [श्रृ ॰ - गौर्या वध्वा अंसः स्कन्धः शौर्याश्रयणे शूरतावलम्बने सति कथं वा नासाद्यते न प्राप्यते । तस्मात् तत्र साहसे दत्तचित्तश्चित्तजेन कामेन यः संतापस्तद्धाजनं जनो न स्यात् ॥ प्राप्तः कांचनसंपदा विपुलयाहंभावसीमामिमां को जानाति जनोमनागपिहितो मायामयोग्राधिना । एतचित्तफलं मनुष्यजनुषो यत्प्रेम रामाश्रितं किंचोरस्थलशायिनः कुशलतो याता निशा हैमनी ॥२५॥ प्राप्त इति [वै०-] विपुलया संपदा कांचन अनिर्वचनीयाम् अहंभाव- सीमां प्राप्तः मायामयेन उग्राधिना अमनाक् अधिकम् अपिहित आच्छादितः काव्यमाला। कः पुरुषो जन्मफलं स्वकीयं जानाति, अपि तु न कोऽपि । एतदेव मनुष्य- जन्मनः फलं चित्तस्य जानीत । यद् रामं आश्रितं प्रेम । दृष्टान्त:---चोरस्थ- लशायिनः हैमनी हेमन्तसंबन्धिनी निशा कुशलतः किं कस्यापि याता॥ [श्रृ ० .] भावानां बिब्बोकादीनां सीमां मर्यादाम् इमां स्त्रियम् अहं विपुलया सुवर्णसंपत्त्या प्राप्तः उग्राधिना मया अपिहित आच्छादितः को जनो मम मायां जानाति । मनुष्यजन्मनो देहिन एतदेव फलं चित्तस्य यद् रामाश्रितं प्रेम । किं च अस्या उरःस्थले शयनीयशीलस्य मम हैमनी- निशा सुखेन याता॥ कार्येहानुसरणतो वारंवारं परं पुमांसमनु । यतमानस्यानुदिनं भवति यतः प्रेमलक्षणं भजनम् ॥ २६ ।। कार्येति । [वै०-] वारंवारं परं पुमांसं परमेश्वरम् अनु लक्षीकृत्य ईहा स्पृहा कार्या। यतः स्पृहातोऽनुदिनं यतमानस्य प्रेमलक्षणं भजनं भवति ॥ - [श्रृ ० --] इह संसारे वारंवारम् अनुसरणतः परं पुरुषम् अनु का स्त्री आर्या साध्वी । अतोऽनुदिनं यत्नं कुर्वतः प्रेम्गो लक्षणं चिह्नरूपं भजनं भवतीति ॥ न कर्म रामाप्तिकरं कृतं मया न वाचिरम्भारतवर्णनं श्रुतम् । वृथैव पूर्वः समयः समापितो न चेदिदं किं नु कृतं किमु श्रुतम् ॥२७॥ नेति । [वै०-.] रामस्य प्राप्तिकृत् कर्म न कृतम् । न वा भारतस्य व- र्णनं चिरं श्रुतम् । ततः पूर्वः समयो वृथैव समापितः । इदं कार्यद्वयं न कृतं चेत् किं कृतम् , किं नु श्रुतम् ॥ [श्रृ ० -] रामा स्त्री तत्प्राप्तिकरं कर्म किमपि मया न कृतम् । वाचि बचने रम्भाया रतस्य वर्णनं न श्रुतम् । ततः पूर्वः समयः तारुण्यवयःक्रमो वृथैव समापितः । इदं कर्मद्वयं चेन्न कृतम् , तदा किं कृतम्, किं श्रुतम् ॥ स्पृशति स्वरूपमुग्धं शश्वदसत्यद्वितीयभावेन । भ्रमयति विकलयतीदं दृश्यञ्जनमात्ममायया कलितम् ॥२८॥ स्पृशतीति । [ वै०-] इदं दृश्यं विश्वं स्वरूपे परमात्मभावे मुग्धं जनं शश्वन्निरन्तरम् असत्यो यो द्वितीयभावस्तेन स्पृशति । यत आत्मन एव मायया कलितं कल्पितम् । ततो जनं भ्रमयति भ्रान्तं करोति विकलयति च ॥ रसिकरञ्जनम् । १०७ [श्रृं ० -] असती स्वरूपेण मुग्धं शश्वदद्वितीयेन भावेन कटाक्षादिना स्पृशति चक्षुःप्रीतिमुत्पादयति । इदं दृशि अस्या नेत्रे आत्मनो मायया वशीक- रणौषधादिमेलनेन कलितं निहितम् अञ्जनं भ्रमयति विकलयति च तमेव ॥ पूर्वमेव शिवसन्निधौ वने द्वन्द्वपीडनमुदेति सर्वथा । कोऽपवर्गभजनेऽतिनिःस्पृहोऽयत्नतः सुखमवाप्यते यदि ॥२९॥ पूर्वमिति । वै०-] शिवस्य संनिधौ वने पूर्वमेव द्वन्द्वपीडनं सर्वथो- देति अयत्नत एव यदि सुखमवाप्यते । तदा अपवर्गभजने मोक्षभजने को निःस्पृहः स्यात् इति कश्चिदुपदिशति ॥ [श्रृ ॰ -] निश्च धुश्च निधू पूर्वमेव आदावेव शिवौ शुमौ सन्तौ निधू वणौं यस्यैवंविधे वने । निधुवन इत्यर्थः । तत्र सर्वथा सुरते द्वन्द्वपीडनम् अर्थात् कुचनितम्वादिपीडनमुदेति । यदि यत्नतः सुखमवाप्यते तदा अप- वर्गभजने पवर्गरहिते भजनशब्दे अर्थात् जने को अतिनिःस्पृहोऽस्ति । सर्वोऽपि सुखार्थ यतत्न इत्यर्थः ॥ अतिरुचिरङ्गजकृत्त्या क्षोभितदक्षं भवन्तमेव भजे । यस्मिन्प्रसादसुमुखे सद्यो वामापि भवति मम तुष्टयै ॥ ३०॥ अतीति । [वै०-] गजकृत्त्या गजचर्मणा अस्यन्तभव्यं तं भवं शिव- मेव भजे । क्षोभितो दक्षः प्रजापतिर्येन तम् । यस्मिन्प्रसादसुमुखे सति सद्यस्तस्य वामा गौर्यपि मम तुष्टयै भवेत् ॥ [श्रृ ॰ -] अङ्गजस्य कामस्य कृती रत्यभिलाषादिरूपा तया अतिरुचि- रत्यन्तप्रीतिमान् अहं क्षोभितचतुरं भवन्तं त्वामेव भजे । यस्मिंस्त्वयि प्रसा- दसुमुखे सति सद्य एव वामापि प्रतिकूलापि सा मम तोषाय भवति- इति कस्यचिन्मानिनीप्रसादकं प्रति वचनम् ॥ विना किमात्यन्तिकमङ्गनाशं श्रेयो भवेदत्र भवे विशिष्टम् । अतस्तदर्थं प्रयतेत धीमान्कुतोऽन्यथा निस्तृतिरस्ति पुंसः ।। ३१ ॥ विनेति । [वै ० -] अन्न भवे संसारे आत्यन्तिकम् अङ्गस्य देहस नाशं विना विशिष्टं श्रेयो मोक्षः किं भवेत् । अतो धीमान् पुमान् आत्यन्तिकशरी- रनाशाय प्रयतेत ॥ १०८ काव्यमाला। [श्रृ ॰ -- ] अत्र भवेऽत्यन्तम् अङ्गनायाः शं सुखं विना विशिष्ट श्रेयः किं भवेत् । अतो धीमान् अत्यन्ताङ्गनासुखाय प्रयतेत । अन्यथा पुंसः कुतो निस्तारः॥ तुदति हिमालयपवनो माधवपरिशीलने न योगजुषम् । यस्मादयोगभाजां प्रभवन्ति पदे पदे विपदः ॥ ३२ ॥ तुदेति । [वै०-] हिमालयपवनो माधवस्य कृष्णस्य परिशीलने योग- जुषं न तुदति । अग्रे स्पष्टम् ॥ [श्रृ ॰ -] हि निश्वयेन मालयपवनो दक्षिणानिलो वैशाखस्य' परिशी- लने स्त्रीयोगसेविनं न तुदति । यतो यस्माद्दक्षिणानिलाद् अयोगभाजां विर- हिणां पदे पदे विपदः प्रभवन्ति ॥ विद्याधनाभिजनकाममदेषु पुंसा दुर्वार एष चरमस्तदहं ब्रवीमि । रामात्मकं जगदिदं हृदि भावयन्तः कंदर्पमेकमवलम्बितुमुत्सहेरन् ॥ ३३ ॥ विद्येति । [वै०--] विद्याधनकुलकामजन्यमदचतुष्टये चरमः काममद एव दुरपनेयः । ततोऽहं ब्रवीमि । इदं जगद् राममयं हृदि भावयन्तः सन्तः कम् एकं दर्पम् एतेष्वन्यतमम् अवलम्बितुम् उत्साहं कुर्युः । नैकमपि ॥ [श्रृ ० -] काममदः सर्वेषु मदेषु दुर्वारस्ततोऽहं ब्रवीमि जगदिदं स्वीमयं । भावान्तः कामिन एकं कंदर्पमेव अवलम्बितुम् उत्सहेरन् । नारदरुचिसंदीपनचतुराननवादतो मुहुः स्पृह्यन् । आश्लिष्टशेषशय्यां धन्यो रामाकृतिं चिरं भजते ॥ ३४ ॥ नारेति । [वै०-] धन्यः कोऽपि पुरुषश्चिरं रामस्य विष्णोराकृतिमाकार- विशेषम् आलिङ्गितशेषशयनीयां भजते । नारदस्य मुने रुचिः प्रीतिस्तत्संदी- पनं यञ्चतुराननस्य ब्रह्मणो वचनं तस्मान्मुहुः स्पृहां कुर्वन् ॥ [श्रृ ०] धन्यो ना पुरुषो रामायाः स्त्रियाः कृति संभोगलक्षणां चिरं भजते । कीदृशीं कृतिम् । आश्लिष्टा आलिङ्गिता शेषा अवशिष्टा शय्या तदे- 1 रसिकरञ्जनम् । कदेशो यस्यां सा। किं कुर्वन् ।रदरुचेर्दन्तकान्तेः संदीपनं यत् चतुरायास्तस्याः 'न न' इति वचनं ततो मुहुरतिशयेन स्पृहयन् । नकारस्य दन्त्यत्वात् ॥ भवनेत्रकृशानुभूतियोगात्परमैश्वर्यमवाप्यदृप्तचेताः बत वेदजनो निजां गतिं न प्रतिपद्येत कथं परात्मतत्त्वम् ॥३५॥ भवेति । [वै०-] अयं जनो लोकोऽस्मदादि: शिवदृष्टिवह्निभूतेः काम- स्य योगात् परमैश्वर्य प्राप्य दृप्तचितः सन् निजां गतिं न वेद । सांसारिकी- मपि गति कामधनमदेन न जानाति । परस्य ब्रह्मण आत्मनो जीवस्य तत्त्व- मैक्यलक्षणं कथं प्रतिपद्येत जानीयात् । न कथमपीत्यर्थ ॥ [श्रृ ० -] अन्न भवने अस्मिन्गृहे कृशा कृशाङ्गी अनुभवसंबन्धात् परमुत्कृष्टम् ऐश्वर्य मुक्तामणिकाञ्चनादिलक्षणम् अवापि प्रापिता । द्रव्यदा- नेनेयं प्रलोभ्य भुक्ता । अर्थान्मयेति शेषः । एतद्गृहे पुंव्यक्तिबाहुल्यात् कथं कोऽपि नाज्ञासीत् इत्यपेक्षायामाह-अदृतचेता उन्मादरहितः वेदजनो वेद- पाठको जनो निजामपि गतिम् अशनाच्छादनादिरूपां न जानाति । परेपा- मात्मनो हृदयस्य तत्त्वं कथं प्रतिपद्येत ॥ श्रितपरमहंसकरणाद्यस्मात्प्रतिभाति चित्ररचनेयम् । अनुगतपङ्कजरागो बत रागी तत्पदं समेतु कथम् ॥ ३६ ॥ श्रीतेति । [ वै०-] श्रितानि परमहंसानां संन्यासिना करणानीन्द्रियाणि येनैवंविधाद्यस्माद्विप्णोरियं चित्ररचना विचित्रा निश्वस्थितिः प्रतिभाति तत्पदं तस्य विष्णोः पदं चरणं स्थानं वा रागी जनः अनुगत: पङ्क: पापलक्षणो यया एवंविधां जरां गच्छतीति अनुगतपङ्कजरागोऽपि कथं समेतु ॥ [श्रृ ० -] श्रितः परमो हंसकस्य नूपुरस्य रणोऽतिशब्दो येनैवंविधा- यस्मात् पदश्चरणाद् इयं चित्रमेव रचना कृतिर्यस्याः सा चित्ररचना चित्रिणी प्रतिभाति । 'चित्रिणी चित्ररक्ता' इति प्रसिद्धेः । अनुगतोऽनुकृतः पङ्कजस्य कमलस्य रागो वर्णो येन सः तत्पत् स चासौ पच्च स चरणः तस्याः पत् , इति वा असं स्कन्धं कथम् एतु ॥ असौजन्यञ्चेतो भवसमुचितं भावयति त- द्रृथासंसारेऽस्मिन्नहह समयं किं गमयति । काव्यमाला। चिराद्भूयोभूयः कलयसि सखेदो भवसुखं ततो मन्ये त्यागात्प्रभवति परा निर्वृतिरिति ॥ ३७ ॥ असाविति । [वै०-] चेतः संसारोचितमसौजन्यं दुर्वृत्तत्वं भावयति तदस्मिन् संसारे समयं वृथा किमिति गमयसि । अहह खेदे। चिरादनादौ संसारे भूयोभूयः सखेदोऽपि भवसुखं वाञ्छसि ततस्त्यागादेव निवृत्तिमार्गा- देव परा निर्वृतिर्भवेदिति मन्ये ॥ [ श्रृ ०-] असौ स्त्री कामोचितं जन्यं युद्धं रतं भावयति । तद्वृथा- स्मिन्संसारे समयं त्वं किमिति गमयसि । अहहेति खेदे । हे सखे, अदः संसारसुखं चिराद्भूयोभूयः परदारगमनजन्यं कलयसि वाञछसि । ततस्त्या- गाद्र्व्यदानात् परा या निर्वृतिः परस्त्रीसुखं प्रभवति । यद्वा परिणेयां कन्यां भविष्यत्स्वयंवरां विलोक्य सुन्दरं स्वमित्रमुद्दिश्य स एवाह–असौ जनी परिणेया कन्या समुचितं योग्यं वरं विचारयति । तत् त्वमञ्च चल, इतो भव अस्यां दिशि प्रवर्तस्व । सुन्दरतया त्वामेव वरीष्यते । अपि अहमपि वृथा आसं व्यर्थोऽभवम् । इयदवधि त्वदनुपदेशेनेति शेषः। सारे सारसूते अस्मिन्कन्यारक्षे कि समयं गमयसि । अहह सखे, अदो भवसुखं चिरात् भूयोभूयः पतिंवराप्राप्तिरूपं वाञछसि । ततो मन्ये प्रभवति प्रभौ त्वयि परा निर्वृतिः सुखानुभूतिः अत्यागात् अतिशयेनागतेति ॥ यद्भजनमत्र सारं क्यस्यसौहार्दतश्चिरासक्त्या । हृदयं गोपजनुर्में हरति सदूर्वाभया तन्वा ॥ ३८ ॥ यदिति । [वै०-] हे वयस्य, सौहार्दतः प्रेम्णश्चिरमासक्त्या च यस्य विष्णोर्भजनमत्र संसारे सारम् । स गोपजनुर्हरिः दूर्वासमकान्त्या तन्वा मे हृदयं हरति ॥ [श्रृ ० -- ] असौ गोपजनुर्गोपकन्या सती ऊर्वोराभा कान्तिर्यस्या एवं- विधया तन्वा देहेन मे हृदयं हरति । हार्दतः प्रेमतः चिरासक्त्या वयसि तारण्ये यद्भजनं सारभूतम् ॥ सदात्तिकलुषाशया भवसमुद्भवत्पद्धतिः प्रसिद्धनरकामिता कथमनेनसा गम्यते । रसिकरञ्जनम् । क्व सिध्यति समीहितं फलमनन्तचर्चामुचा- मतोऽजितविचारणापरमनोभिरानन्धते ॥ ३९॥ सदेति । [वै० -] अनेनसा निष्पापेण पुरुषेण भवे समुद्भवतां जन्मि- नां पद्धतिर्मार्गः कथं गम्यते । कीदृशी । सदा अतिकलुष आशयो यस्यां सा। तथा पुनः प्रसिद्धा नरकाः कुम्सीयाकादयो यस्यां सा । अमिता अप- रिच्छिन्ना । अनन्तस्य कृष्णस्य चर्चा मुञ्चन्तीति ते तथा तेषां समीहित- मभीष्टं फलं क्व सिध्यति, न क्वापि । अतोऽजितस्य विष्णोर्विचारणायां परा निष्ठा यस्यैवंविधं मनो येषां तैरानन्द्यते ॥ [श्रृ ० -] सा स्त्री अनेन कथं गम्यते, यतः सा प्रसिद्धैर्नरैः प्रभुभिः कामिता वान्छिता । अथ च सदा अतिकलुषाशया भवे संसारे समुत्सु सा- नन्देषु भवन्ती पदाहतिर्यस्याः सानन्दानपि पदा हन्तीत्यतिदुर्लभा अनन्ता अपरिमिता चर्चा योषिद्विषया तन्मुचां क्व समीहितं सिध्यति । अतः अजितं विचारणापरं मनो यैस्तैरानन्द्यते ॥ संसारिणापि सुलभं शश्वद्रामाश्रयेण नित्यसुखम् । अच्युतरसेन सद्यःफलवत्कालत्रयोगतः क्व भयम् ॥ ४०॥ समिति । [ वै०-] रामस्याश्रयेण संसारिणापि नित्यसुखं ब्रह्मानन्द सुलभमेव । अच्युतरसेन विष्णुविषयप्रेम्णा सद्यःफलवत् कालत्रयं यस्य स पुमान् क्व भयं गतः ॥ [श्रृ ० -] रामाया आश्रयेण शश्वत्संसारिणापि दैनंदिनं सुखं सुलभम् । अच्युतोऽस्खलितो यो रसस्तेन सद्यःफलवान् यः कालत्रश्रोणिसंबन्धी योगस्तत: क्व भयं कामादेरिति शेषः ॥ प्रमदाय निरत्ययाय पुंसां मिलिताष्टाङ्गविधिः समाधियोगः । अनुकूलकलत्रकोटिकण्ठग्रहणेनापि कुतः सुखं तथा स्यात् ॥ ४१ !! प्रमेति । [ वै०-] मिलित: अष्टानामङ्गानां यमादीनां विधिर्यत्रैवंविधः समाधियोगो निरत्ययाय सुखाय ब्रह्मानन्दाय भवति । अनुकूलानां कलत्राणां या कोटिस्तत्कण्ठग्रहणेनापि तथा सुखं कुतः स्यात् ॥ [ श्रृ ० — ] समः समान आधिर्यस्यास्तस्याः परस्त्रिया योगः संबन्धो ११२ काव्यमाला। मिलितोऽष्टानामङ्गानां विधिर्न्यासविशेषो यत्र एवंविधो निरवधये सुखाय भवति । अग्ने स्पष्टम् ॥ पदयुगलं पद्मदृशो हृद्यारोपयति यः स्मरतिसमये । स कथं स्वर्गसुखान्यपि धन्यो मन्येत न तृणेभ्यः ॥ १२ ॥ पदेति । [वै०-] पद्मदृशः पुण्डरीकाक्षस्य पदयुगलं यो हृद्यारोप- यति, समये चरमावस्थायां सरति च, स धन्यः स्वर्गापवर्गसुखान्यपि-- तृणेभ्यो न मन्येत ॥ [श्रृ ० --] यः पुरुषः पद्माक्ष्याश्चरणद्वयं रतिसमये हृद्यारोपयति स्म । अग्रे स्पष्टम् ॥ मधुरिपुमधरं शिवं वरेण्यं वदति जनो विदितैतदीयतत्त्वः । तदहमिह महानुरागभूमावहरहरस्मि रहस्युदीततृष्णः ॥ ४३ ॥ मध्विति । [वै०-] अविदितमज्ञातमेतदीयं विष्णुसंबन्धि तत्त्वं येन एवंविधः शैवो जनो मधुरिपुम् अधरमपकृष्टं शिवं तु वरेण्यं श्रेष्ठं वदति ॥ यद्वा विदितशिवतत्त्वः शैवो जनो मधुरिपुमधरं शिवं वरेण्यं वदति । तत्त- स्मादहमिह मधुरिपौ शिवे वा महानुरागस्थाने उत्पन्नतृष्णोऽसि एकान्ते तद्धयानतृष्णोऽस्मि ॥ [ श्रृ ०.] विदितमेवदीयम् अधरसंबन्धि तत्त्वमत्यन्तमधुरस्वरूपत्वं येन सः अधरं मधुनो रिपुं वदति । शिवं मङ्गलरूपं वरेण्यं श्रेष्ठं वदति । तद- हमिहाधरे आरुण्यस्य प्रेम्णो वा भूमौ उत्पन्नतृष्णोऽस्मि ॥ परपुरुषजीवनार्यासङ्गोत्रसतां मिलत्यसत्त्यागात् । तस्मादपहाय भयं तदाप्तये तत्परः प्रवर्तेत ॥४४॥ परैति । [वै ०---] अत्र संसारे परः पुरुषः परमेश्वर एव जीवनं येषां तेषामार्याणां सतामासङ्गः असतां खलानां त्यागान्मिलति । अग्रे स्पष्टम् ॥ [ श्रृ ०.] अन्नसतां व्रासमकुर्वतां पुरुषाणाम् असत्त्यागादसद्वययात्परे पुरुषे जीवो यस्यास्तस्या नार्याः सङ्गो मिलति । अग्रे स्पष्टम् ॥ साकं मनोभवमदेन भजेत कम्रं लक्ष्म्या बलेन यदि कोऽपि लभेत तत्त्वम् । रसिकरञ्जनम् । ११३ लभ्येत पुष्कलपुरातनपुण्यपुञ्ज- पाकेन केवलमिदं भजनं जनेन ॥ ४५ ॥ सेति । [वै०--] कोऽपि कश्चिद्ब्रह्मापि वा तत्त्वं लभेत विष्णो रहस्यं प्राप्नुयात् । लक्ष्म्याः कम्रं कामुकं हरिं यदि बलेन बलभद्रेण हठेन वा साकं मनोभवमदेनोपलक्षितो मजेत | कामुकोऽपि हरिभजनेन तत्त्वं प्राप्नुयात् । इदं

भजनं (अस्य विष्णोर्भजनं) पुष्कलपुरातनपुण्यपुञ्जपरिपाकेनैव केवलं लभ्येत ।।

[श्रृ ० ] सा स्त्री मनोभवमदेन स्वद्रविणेन वा कं कम्रं कामुकं भजेत । अपि तु न कमपि । यदि कश्चित्कामी लक्ष्म्या बलेन द्रव्यव्ययसा- मर्थ्येन तत्त्वं तस्याः स्वरूपं लभेत । इदं भजनमस्या भजनं पूर्वपुण्यपुञ्जपरि- पाकेनैव लभ्यते ॥ आकलितोरुक्रमपदपद्मालंकृत्यनल्पपुण्यभवम् । निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरम् ॥ ४६॥ आकेति । [वै०-] आकलिता स्वीकृता उरुक्रमस्य विष्णोः पदपद्ममेवा- लंकृतिर्येन । अनल्पात्पुण्याद्भवति तादृशम् । निजैर्गुणैः श्लेषप्रसादादिभिर्गुरु ग- रेष्ठस्वरूपं शब्दार्थरूपं यस्य तथाविध प्रसन्नमतिमधुरं काव्यं कवित्वं जयति ॥ [श्रृ ०-] इयं का स्त्री प्रसन्नमधुरं स्वरूपं व्यञ्जयति । कीदृशम् । आ- कलितः स्वीकृत उरुः श्रेष्ठो हंसादीनामिव क्रमो विक्षेपो येन तादृशं यत् पद- पद्मं तदेवालंकरणं यत्र । आकलित ऊर्वोः क्रमः अधिकमलालंकृतिर्नूपुरादिश्च यत्रेति वा । बहुपुण्यभवं निजैः सहजैर्गुणैर्गुरु गरिष्ठम् ॥ मनोभवध्यानपरायणानां तदन्यमिच्छाविषयं न वेद । अतस्तदामोदरसे निमग्नाः कथं नु संसारभयं लभन्ताम् ॥४७॥ मेति । [वै०-] भवस्य ध्यानमेव परमयनं येषां तेषां मनः तदन्यमि- च्छाविषयं न वेद । अतस्तध्द्यायानरसे निमग्नाः कथं संसारभीति लभन्ताम् ॥ [श्रृ ० -] मनोभवः कामस्तध्द्यानासक्तानां तदन्यमिच्छाविषयमहं न वेद । अग्रे स्पष्टम् ॥ प्राप्तैव निर्वृतिश्रीः सत्यं सामानि गायतानेन ।

तद्गानमेव मन्येस्त्रीहृदयग्रन्थिभेदने हेतुः ॥ ४८॥

८चतु० काव्यमाला। प्राप्तैवेति । [ वै०--] सामानि गायतानेन सामगेन निर्वृतिश्री: सुखसं- यत् प्राप्तैव । तस्माद्धृदयग्रन्थेरहंकारस्य भेदने हेतुर्गानमेव अस्त्री छुरिकेति मन्ये ।। [श्रृ ०- -] गायतानेन निर्वृतिश्रीः सुखसंपद्रूपा निर्गतावृतिरवगुण्ठना- द्यावरणशोभा वा यस्याः सा सत्यं प्राप्तैवामानि । अग्रे स्पष्टम् ॥ गृहमधममुपेक्ष्यं कृष्णपक्षातिरागै- रविधुवनमुपेयं सद्भिरादौ निसर्गात् । क इह गतिमितोऽन्यां वक्तु कामातुराणां तदहमुपदिशामि श्रेयसे भूयसे यत् ॥ ४९ ॥ गृहेति । [ वै०-] कृष्णः पक्षो येषां तेषु अतिरागैर्वैष्णवपक्षपातिभिः गृहम् अधममित्युपेक्ष्यम् सद्भिरादौ निसर्गात्स्वभावाद् अविधु चन्द्राद्युद्दीपन- रहितं वनम् उपेयं गन्तव्यम् । कामैरभिलाषैरातुराणां क्केशभाजाम् इतोऽन्या गतिं को वक्तु । अहं तु यद्भूयसे श्रेयसे तद्रवीमि । [श्रृ ० -] कृष्णपक्षे अधिकरागैः सद्भिरघमं स्वायत्तं गृहं कलत्रमुफे- क्ष्यम् । विगतो धुर्यत्र तद्विधु, न विधु अविधु, घुसहितं वनं धुवनम् , आदौ निसर्गात् नेर्वर्णस्य सर्गात्सृष्टेः निधुवनं भवति तदुपेयं प्राप्तव्यम् । अन्यत्रेति शेषः । इतोऽन्यां कामातुराणां गतिं क इह कृष्णपक्षे वक्तु । अहं नु भूयः श्रेयोहेतुमुपदिशामि ॥ त्यक्तान्यविषयवृत्तिर्ध्यायति सारं श्रुतं मतं पुरुषम् । तदसौ कथं न विन्देत्परमानन्दं प्रयत्नपरचेताः ॥ ५० ॥ त्यक्तेति । [वै०-] असो पुरुषस्त्यक्तान्यविषयवृत्तिः सन् श्रुतं श्रु- तिवाक्येभ्यो मतमुपपत्तिभिः सारं सारभूतं पुरुष परमात्मानं ध्यायति । अग्रे स्पष्टम् ॥ [श्रृ ० -] सा स्त्री त्यक्तान्यविषया वृत्तिर्यया सा श्रुतं दूत्यादिमुखेन मतमभीष्टं पुरुषं ध्यायति । अरं शीघ्रं तत्तस्मादसौ पुरुषस्तस्याः संमतः कथं परमानन्दं न विन्देत् ॥ गाङ्गेयमुख्यमिततुङ्गसमस्तनीति- गुप्तापि विश्रुतकथाभरणाचितापि । रसिकरञ्जनम् । अत्येति कामरणवेगमियं तनुस्त- दस्यामहोरुचिरभाग्यजनादितः स्यात् ॥ ५१ ॥ गाङ्गेति । [वै०-- ] गाङ्गेयमुख्यैर्भीष्मप्रभृतिभिर्मिता या तुङ्गा समस्ता नीतिस्तया गुप्तापि रक्षितापि विश्रुता प्रसिद्धा या कथा कीर्तिस्तद्रूपाभरणस- हितापि का तनुः किं राजादिशरीरं मरणचेगमत्येति अतिकामति । अपि तु क । तत्तस्मादस्यां तनौ इतोऽस्मादभाग्यजनाद्गुचिः स्यान्न भाग्यवतः ॥ [16— -] तनुः कृशाङ्गीयं कामरणे कंदर्पयुद्धे वेगमतिकामति लघुदे- हत्वेन विपरीतरतेऽतिवेगवतीत्यर्थः । तस्मादस्या मह उत्सवो रुचिरभाग्या- दितो मल्लक्षणाजनात्स्यात् । यद्वा अस्या महतोरूवाश्चिरं बहुकाल भजते म- होरुचिरभाकू यजनादितः पुण्यात्स्यात् ॥ अतिविशदानन्तपदप्रवृत्तदृष्टिर्न मधुरवीक्षणतः । तुष्यत्यञ्चितुकामः प्रातस्तनकमलमुकुलवीक्षणतः ॥ ५२ ॥ अतीति । [वै०--] मधुरवीक्षणतो वसन्तादित्यदर्शनादतिविशदेऽति- निर्मलेऽनन्तस्य विष्णोः पढ़े चरणे प्रवृत्तदृष्टिः कः पुरुषोऽञ्चितुकामोऽर्चनं क- तुकामः प्रातस्तनानां प्रातःकालिकानां कमलमुकुलानां दर्शनान्न तुप्यति ॥ [१० ] वसन्तादित्यदर्शनादतिनिर्मले आकाशस्थाने दत्तदृष्टिः प्रातर- चितुकामो यातुकामः कः कामी स्तनकमलमुकुलयोर्दर्शनेन न तुष्यति ॥ इह यादववंशकृष्णवानुगतिः साङ्गतया मयान्वभावि । अधुना तदवाप्तिचेतसे मे मधुराकामधुरापि रोचते किम् ॥ ५३॥ इहेति ।। वै० -] इह सतां समाजे यादववंशो यः कृष्णस्तस्य यम मार्गस्तदनुगतिः साङ्गत्वेन मयान्वभाधि । इदानीं तत्प्राप्तिचित्ताय मे मधुरा कामस्य धूः किं रोचते । अपि तु न । [ spo -] अङ्ग हे, दवेऽरण्ये वेणुधर्षणजन्यो यः कृष्णवर्मा वह्निस्तद- नुगतियां तत्र निपातरूपा सा तया मया चान्वभावि अनुभूता । अधुना तत्प्राक्षिमनसेऽपि में मधुरापि मधुराका बसन्तपूर्णिमा न रोचते ॥ १. आदर्शपुस्तकेऽस्य श्लोकोत्तरार्धस्य शृद्वारपक्षे टीका त्रुरितास्ति. ११६ काव्यमाला। रुचिरजनिसौरभासावह्निविधुश्रीः पयोधराकलिता । विदितोऽस्तिमार्गणादेरात्मभुवोऽस्याः पितृप्रसूसमयः ॥ ५४ ॥ रूचीति । [वै०-] सौर्या सूर्यसंबन्धिन्या भासा पयोधरैर्मेधैराकलिता वह्निविध्वोरिवारुणा श्वेता च रुचिरजनि जाता । अतोऽस्या रुचेरात्मभुवो ब्रह्मणः । उपलक्षणमिदम् । अर्थाद्राह्मणस्य । पितृप्रस्वाः सायंसंध्यायाः सम- यो विदितः । किंभूतस्याल्मभुवः । आ समन्तादृचां गणा आर्गणाः । अस्ति विद्यते मा लक्ष्मीर्येभ्य एवंविधा अस्तिमास्ते च ते आर्गणाश्च तेषामादिभूत- स्थ । उपलक्षणमिदम् ऋगादिसकलवेदमूलस्य । ब्राह्मणस्य संध्यावन्दनसमयो जातस्ततो विधिनिषेधज्ञैरुत्तालैर्भाव्यम् ॥ [ श्रृ ० - ] असौ स्त्री पयोधराभ्यामाकलिता उद्गतस्तनी अह्नि दिवसे एव विधोरिव श्रीर्यस्या एवंविधा सुन्दरी रुचिरा जनिरुत्पत्तिर्यस्यैवंविधं सौरभं पद्मगन्धः स्वाभाविको यस्याः सा तथा । अतः पद्मिनीत्यवगम्यते । किं ततः । अस्याः पितृप्रसूः पितामही तत्समयः स्रानाद्यर्थं गमनकाल आत्मभुवो मार्गणादेः स्वकल्पितयाचकचारणशिल्पिविशेषादिच्छद्मदूतादेः सकाशाद्विदितो ज्ञातोऽस्ति । नव्यस्तनीतिपरिशीलयतो न सौख्य- साम्राज्यमस्तु कथमात्मभुवातिसृष्टम् । नान्नापि मर्दितमुरो यदि किं ततः स्या- त्तस्मान्निरन्तरमिदंभजनेन भाव्यम् ॥ ५५ ॥ नव्येति । [वै०---] न व्यस्ता नीतिर्यस्मिन्कर्मणि यथा स्यात्तथा आत्म- भुवा ब्रह्मणातिसृष्टं निर्मितं सौख्यस्य साम्राज्यं राज्यप्राप्त्यादिजन्यं कथं नास्तु । अपि तु भवतु । अत्रापि राज्यादिसौख्ये सत्यपि मर्दितो मुरो येन मुरजिद्वासुदेवो यदि न आराधित इति शेषः । ततः क्षयशीलेन सौख्येन किं स्यात् । अग्रेन किंचित् ।। [श्रृ ० -] इयं नव्यस्तनी परिशीलयतः पुंस आत्ममुवा कामेन अति- सृष्टं दत्तं सौख्यसाम्राज्यं कथं नास्तु । अन्नापि तत्परिशीलनेऽपि उरो यदि न मर्दितम् , ततः किं स्यात् । तस्मान्निरमिदंभजन उरोमर्दनासक्त्या भाव्यम् । रसिकरञ्जनम् । ११७ जानामि दुःखहेतुं सरस्य दुर्वारतान्तेषु । सद्यः सखे विरक्तिः प्रभवति विषयानुबन्धिनी यत्र ॥५६॥ जानेति । [वै०-] यत्र येषु पुरुषेषु विषयानुबन्धिनी विरक्तिः सद्यः प्रभवति परंतु हे सखे, तेषु स्मरस्य दुर्वारतां दुःखहेतुं जानमि तस्मात्काम- जये सति विरक्तिर्दष्टा भवति ॥ [ श्रृ ०---] हे सखे, रतसमाप्तिषु स्मरस्य दुर्वाः दुष्टमुदकं वीर्य दुःख- हेतुं जानामि । यत्र येषु रतान्तेषु सद्य एव विषयानुबन्धिनी विरक्तिर्भवति । अतः स्तम्भनाद्युपायं शिक्षयतो यावदिच्छं रतं निर्वहेत् ॥ कलितोरुचिरं न कर्म चेत्क्रियतेऽनङ्गकृतेः कुतः फलम् । सरतो हृदि पुण्डरीकदृग्भजतेऽसौ सफलस्ततः श्रमः ॥ ५७ ॥ कलीति । [वै० --] कलितः कलियुगाद्रुचिरं सङ्गं कर्म चेन्न क्रियते अनङ्गकृतेः अङ्गहीनाया यज्ञादिकृतेः कुतः फलं स्यात् । अत्रैकोऽस्त्युपायः । स्मरतः पुरुषस्य यज्ञादिकर्मकृतो हदि पुण्डरीकदृक् पुण्डरीकाक्षः भजते । ततः श्रमः सफलः॥ [ श्रृ ० - ] कलितौ दृष्टावूरू यत्र तत्कर्म रतं चिरं चेन्न क्रियते तदा अनङ्गकृतेरनङ्गकार्यस्य चुम्बनालिङ्गनादेः फलं कुतः । असौ पद्माक्षी स्मरतः। 'कामशास्त्रोक्तं रतविधिम्' इति शेषः । तस्य पुरुषस्य हृदि भजते हृदयं- गमा भवति । ततः श्रमोऽपि सफल एव ॥ अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः । तत्किं न वाञ्छितं स्यादस्या यदि विधुरवीक्षणः पाता ॥ ५८ ॥ अतीति । [वै-] अतिपरमा अत्युत्कृष्टा महीमहीधरसमुद्रादिरूपा अद्भुत आश्चर्यकारी वेषो मुखवैलक्षण्यादिः प्राणिनां यत्र तादृशी काप्यनि- र्वाच्या आत्मभुवो ब्रह्मणः सृष्टिर्जयति । यदि अस्याः सृष्ट ष्टेर्विधुरवी चन्द्रसूर्यो ईक्षणे नेत्रे यस्य स विष्णुः पाता तदा किं वाञ्छितं न स्यात् ॥ [ श्रृ० — -] अतिपरमोऽद्भुतो वेषो यस्याः सा काप्येषा आत्मभुवः का- मस्य सृष्टिर्जयति । यदि अस्याः पाता रक्षकः पतिर्वा विधुरं वीक्षणं यस्यैवंवि- धस्तदा समीहितं मम किं न स्यात् । स्यादेव ॥ ११८ काव्यमाला। सर्वांगमान्तप्रमितान्धकारे निवार्य कार्यान्तरचारि चेतः । अये दयालुमयि चेत्प्रसीद सीदन्तमिष्टोरुपदं नयाशु ॥ ५९ ॥ सर्वेति । [वै०-J सर्वैरागमान्तैर्वेदान्तै: प्रमित ज्ञात हे अन्धकारे महेश, कार्यान्तरचारि मम चेतो अये शुभावहविधौ निवार्य मयि दया- लुश्चेत् प्रसीद प्रसन्नो भव सीदन्तं माम् इष्टं उरु श्रेष्टं पदं खं चरणं नय पदं स्थानं वा आशु प्रापय ॥ [श्रृ ० ] कार्यान्तरचारि चेतो निवार्य सर्वे येऽगमा वृक्षास्तेषामन्ते मध्ये प्रमितो योऽन्धकारस्तत्र अये प्रिये यदि मयि दयालुस्तर्हि त्वद्विरहात् सीदन्तं मां यदिष्टमभिमतं यदुरुपदमूरस्थानं तदाशु नय ॥ सत्यं समर्तुकामः पुत्री भवति रवयं कुतः पुत्री । मत्वा विषमतिथिं यदि विद्वान्परिहरति विधिनिषेधज्ञः ॥६०॥ सत्यमिति । [वै०-] स्वयं विद्वान्विधिनिषेधज्ञः सन् यद्यतिथिं विर्ष मत्वानिष्टं ज्ञात्वा परिहरति विमुखं करोति तदा स गृहस्थः सत्यं मर्तुकाम आसन्नमृत्युः पुरुषोऽपि अप्रयोजकत्वेन पुत्री भवति कन्येव स्वपितुर्भवति । स्वयं कुतः पुत्री पुत्रवान् भवेत् । अतोऽतिथिसत्कारोऽवश्यं कार्यः ॥ [श्रृ ० -] स्वयं विद्वान् पण्डितो विधिनिषेधज्ञो यदि विषमां तिथि मत्वा पुत्रकामश्चेन्न परिहरति 'युग्मासु संविशेत्' इति विधेः । तदा सत्यं पुत्री पुत्रवान् भवति पुत्री कन्या कुतः स्यात् । यतोऽसौ स्वयं समे ऋतौ कामो यस्यैवंविधस्त्वमपि पुत्रकामश्चेत्तथा कुरु ।। नरीनृत्यमानं भुजंगोत्तमाङ्गे समाकर्ण्य तुष्यन्ति ये वर्ण्यमानम् । त एवात्र संसारिणो मुक्तबन्धा यदेषां विमोक्षाधिकानन्दलक्ष्मीः ॥६१॥ नरीति । [वै०-] स्पष्टोऽर्थः ॥ [[श्रृ ० -] भुजंगस्य विटस्थ उत्तमेऽङ्गे सुखसाधनत्वेन अर्थान्मेहने नरी मानुषी तस्या नृत्यस्य मानं नानाविधं परिमाणं वर्ण्यमानमाकर्ण्य ये कामि- नस्तुष्यन्ति त एवात्र संसारिणः संसारसुखभाजः । यतो मुक्ता बन्धा नाना- विधासनविशेषा यैस्ते तथा यत एषां विमोक्षाधिकानन्दसंपत् ॥ रसिकरञ्जनम् । ११९ ननु सर्वतो निवृत्तिः स्मर्तुः संभवति पुण्डरीकदृशः । द्वित्राण्यहानि जीवनमिह दुर्लभमित्यवेत्य विरतोऽस्मि ॥ ६२ ॥ नन्विति । [वै ०-] पुण्डरीकाक्षस्य स्मर्तुः सर्वतो निवृत्तिर्भवति । इह संसारे जीवनं द्विन्नाण्यप्यहानि नैयत्येन दुर्लभमित्यवेत्य विरतोऽस्मि ॥ [श्रृ ० ] पद्माक्ष्यास्तस्याः ऋतुः संभवति स्म । किं तत इत्यत आह- सर्वतश्रुम्बनालिङ्गनादेरपि निवृत्तिः । अतोऽस्पृश्यत्वात् द्विन्नाण्यहानि मम जीवनं दुर्लभमिति विरक्तोऽस्मि ॥ क्षेत्रज्ञे कमलाकरार्पितपदे सर्वागमान्तायने नित्यं दर्शनकाङिक्षभिः सुकृतिभिर्दृष्टे कथंचित्क्वचित् । ऋत्वारम्भपयोधरोन्नतिभवश्रीशालिनि श्रीधरे चेतश्चेन्मम वर्तते त्वयि कथं न स्यात्कृपा ते मयि ॥ ६३ ।। क्षेत्रेति । [ वै----] हे कृष्ण, श्रीधरे लक्ष्मीनिवासे त्वयि मम चेतो वर्तते चेत्कथं तव कृपा मयि न स्यात् । किंभूते क्षेत्रज्ञे । कमलायाः करे अर्पितं पदं येन । सर्वे ये आगमान्ता वेदान्तास्तत्रायनं यस्य । नित्यं दर्शनका- ङिक्षमि पुण्यवद्भिः कथंचिद्योगाभ्यासादिना कचिदृृष्टे ऋतोर्वर्षतोरारम्भे में- वानां या उन्नतिस्तद्भवा या श्रीस्तच्छालिनि ॥ [श्रृ ० -] कस्यचित्क्रांचित्प्रति संकेतनिवेदकं वचनम् हे क्षेत्रज्ञे इ- वादिक्षेत्रज्ञानवति, कमलाकरे सरसि अर्पितं पदं यया तद्गमनशीले, सर्वे- षामगामानां वृक्षाणामन्तेऽयनं गमनं यस्यास्तथाविधे। संबोधनत्रयेणैव संके- नस्थलवयं मया गन्तव्यमिति सूचितम् । नित्यं दर्शनकाङिक्षभिर्धन्यैः कथं- चित्वचिद्दष्टे ऋतौ ऋतुसमयस्यारम्भे या पयोधरयोरुन्नतिरुत्थानं तद्भवा या श्री: शोभा तच्छालिनि मयि तव कृपा कथं न स्याच्चेत् मम चेतो नि- रन्तरं त्वयि वर्तते ॥ तव पुण्डरीकदृष्टे क्व स्मरतां ते भवन्ति नहि कामाः । किं त्वा विनास्ति मेऽन्यत्तत्त्वमुदर्काय सपदि संपर्कात् ॥ ६४ ।। तवेति । [वै०-] है पुण्डरीकाक्ष, तव स्मरतां पुंसां ते प्रसिद्धाः स्व१२० काव्यमाला । गर्गापवर्गाधभिलाषा हि निश्चयेन क्व न भवन्ति । त्वां विना किमन्यन्मे तन- मस्ति यत्सपदि संपर्कादुदर्कायोत्तरफलाय स्थात् ॥ [श्रृ ० -] हे पद्माक्षि, तव क्व कस्मिन् रत्तान्ते रतसमाप्तौ कामाः पुना रतोद्योगा न भवन्ति त्वां विना त्वव्द्यतिरेकेण मे किमन्यदस्ति तत्तस्मात्त्व- मेव सपदि संपर्कादुदर्कायोत्तरफलाय । श्रुता गीता लोकैर्जगति बहुशोभारतकथा यदीया लीलास्ते मम हृदि महोरूपचयभृत् । नरे सारथ्यादावुदितपरमार्थव्यवहृतिः समानात्मा साक्षात्कृतिविषयतामेष्यति कदा ॥६५॥ श्रुतेति । [वै०-] महोरूपयोस्तेजोलावण्ययोश्चयः समूहः । यद्वा महसां ज्योतिषां रूपाणां महीमहीधरसागरादीनां चयस्तं बिभर्तीति तथा.. विश्वरूपादिप्रसङ्गे तथात्वत्तथाविधा भारतकथारूपा यदीया लीला गीता लोकैर्जगति बहुशः श्रुता मम हृदि आस्ते । नरे अर्जुने सारथ्यादिसमये उ- दित उक्तः परमार्थों व्यवहृतिर्व्यवहारश्च येन सः मानात्मा प्रमाणरूपः स्व- प्रकाशो भगवान्कृष्णः कदा साक्षात्कृतेविषयतामेप्यति । [ [श्रृ ० -] यदीया रतकथा लोकैर्चिटजनैर्जगति बहुशोभा श्रुता गीता स्तुता च । यदीया लीला महान्तं ऊर्वोरुपचयं पीनत्वं बिभर्ति तादृशी मम हृदि आस्ते सा वेश्या रथ्याया आदौ मुखे उदित उक्तः परमस्य मह- तोऽर्थस्य धनस्य व्यवहार आदानलक्षणो यया सा समानो मानसहित आत्मा • यस्यास्तावद्धनलाभमन्तरेणानङ्गीकुर्वाणा साक्षात्प्रत्यक्षीभूय मे कृतेर्विषयत्वं गोचरत्वं कदा एष्यति ॥ चक्षुरपाङ्गाहितदृक्चेतश्चरतीशसङ्गरमितं ते । ननु भाविनीविमुक्तौ विचिकित्सा केन हेतुनेदानीम् ॥ ६६ ॥ चक्षुरिति । [वै०-] हे सखे, तव चक्षुरपाङ्गस्यापगतदेहस्य काम- स्थाहितं शिवं पश्यतीति तथा चेतश्च ते ईशसङ्गेन रमितं चरति । ननु इदानीं केन हेतुना ते विमुक्तो विचिकित्सा संशयः भाविनी ॥ [ श्रृ ० -] अपाङ्गयोर्नेत्रान्तयोराहिता दृष्टिर्येनैवंविधं ते चक्षुश्वेतश्च ते रसिकरञ्जनम् । १२१ रतीशसंगरं इतं प्राप्तम् । ततः केन हेतुनेदानीं भाविन्यां नीवीमुक्तौ संशयः॥ स्फुरति निरुपमानवर्तुलामा मम हृदि गोपसुताधिकाननश्रीः । कथमिव न लभेय शर्म तस्याविशदविचारनिरन्तरानुवृत्त्या ॥ ६७ ॥ स्फुरतीति । [वै०-] गोपसुतस्य नन्दसूनोरधिका आननश्रीर्मम हृदि स्फुरति । निरुपमाना वर्तुला आमा यस्याः । ततो विशदो निर्मलो यो विचा- रस्तेन निरन्तरमनुवृत्या शर्म सुखं कथं न लभेय प्राप्नुयाम् ॥ [श्रृ ०-] निरुपमा उपमारहिता नव ऋतुलाभो यस्या एवंविधा अत- एवाधिका आननश्रीर्यस्या एवंविधा गोपसुता स्फुरति मम हृदि वर्तते । वि- गतां तद्गृहं दूत्यादीनामविचारेण निरन्तरं चिरं या अनुवृत्तिस्तया तस्याः सकाशात् शर्म रतसुखं कथमिव न लभेय ।। यास्यति वयस्य कस्मादस्मितया ममतया कृतः क्लेशः । विदितमनन्योपायादच्युतचरणाम्बुजग्रहादेव ॥ ६८ ॥ यास्येति । [वै ०-] हे वयस्य, अस्मितयाहंकारेण ममत्या ममत्वेन च कृतो यः क्लेशः स कस्माद्यास्यति । अथवा विदितं स्पष्टम् ॥ [ श्रृ o -] हे वयस्य, अस्मितया स्म्रितशून्यया तया कृतो यो मम क्लेशः कस्माद्यास्यति । अथवा विदितं स्पष्टम् ॥ तां काञ्चनखर्गलतामवाप्य किमप्ययं गेहसुखं व्यनक्ति । करोति चेदेष परात्मनिष्ठां जीवन्विमुच्येत चिरात्कथंचित् ॥१९॥ तामिति । [वै०-] कांचन अनिर्वचनीयां सुष्टु अर्गला यत्रणा श्रुति- मृत्युक्ता यस्यासौ तस्त्र भावस्तत्ता तां प्राप्यायं पुमान् किमप्यनिर्वाच्यं गेह- सुखं प्रकटयति । एष पुरुषः परे आत्मनि विष्णौ निष्ठामासत्तिं चेत्करोति तदा चिरात्कथंचिज्जीवन्नेव विमुच्येत ॥ [ श्रृ ० -- ] काञ्चननिर्मिता स्वर्गस्येव लता तां स्त्रियं प्राप्यायं किमपि हसुखं प्रकटयति चेदेष परस्या आत्मनि शरीरे निष्ठामासक्तिं कुर्यात्तदा कथंचिन्महता कष्टेन 'चिरान्महता कालेन जीवन् विमुक्तो भवेत् । तस्याः शासनादिति शेषः॥ १२२ काव्यमाला। अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते । श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ॥ ७० ॥ अचिरेणेति । वै०--] एवं वृथादिवसान्गमयते आश्रितवैष्णवगतये मे हे वयस्य, मनोज्ञस्तन्या विरहोऽचिरेण शीघ्रमेव रोचते ॥ [ श्रृ ०----] हे वयस्य, अद्यावधि एवमेव कालक्षेपं कुर्वते कृष्णपक्षे समाश्रितगमनाय मे अचिरेण कामिना अस्ता क्षिप्ता नीविर्यन्नैवंविधं रह एकान्तस्थलं रोचते ॥ परपुरुषविवादे लौकिकी मानचर्चा भवति न खलु युक्ता जाग्रति स्वप्रकाशे । तदिह मधुविरोधिन्यश्रुते साक्षिरूपे प्रभवति कुरु चेतोवृत्तिनिष्ठां गरिष्ठाम् ॥ ७१ ॥ परेति । [वै०-] परपुरुषस्य ब्रह्मणो विवादे प्रसक्ते सति लोकिकी लोकसिद्धा भानचर्चा अनुमानादिप्रमाणोपन्यासरूपा खलु निश्चयेन न युक्ता भवति । स्वप्रकाशे चैतन्यलक्षणे प्रमाणे जाग्रदूपे सति । तत्तस्मादिहास्मिन्म- धुरिपौ साक्षिस्वरूपे अश्रुते इयदवधि तव वेदान्तश्रवणरूपप्रथमप्रतिपत्य- गोचरे त्वं चेतोवृत्तिनिष्ठां गरिष्ठां कुरु ॥ [श्रृ ० -] हे भवति, परपुरुषेण समं विवादे कलहे सति खलु निश्च- येन अलौकिकी लोकमार्यादोल्लङिघनी मानचर्चा स्वप्रकाशे ज्ञाने जाग्रति सति' न युक्ता । अज्ञा परमेवं मानं करोति । त्वं तु ज्ञानसंपने इत्यर्थः । तत्त- स्माद् हे साक्षिरूपे नेत्रसौन्दर्यसहिते, मधुर्वसन्तो विरोधी यस्याः । विर- हादिति शेषः । एवंविधे, अश्रु नेत्रोदकं ते प्रभवति । चेतोवृत्तेर्निष्टाभिहा- स्मिन्पुरुषे गरिष्ठां कुरु ॥ सहचर मम भालतले विधिना लिखितास्ति चित्ररचनेयम् । यामेनवरतमहिता मनोरथातिक्रमेण संजाता ॥ ७२ ॥ सहेति । [वै०-] हे सहचर मित्र, मम भालतले ललाटपट्टे इयमेवं- विधा चित्रा अद्भुता रचना लिखितास्ति । या मे मनोरथानामतिक्रमेण नैष्फरसिकरञ्जनम् । १२३ ल्यसंपादने अनवरतं सदा अहिता संजाता। यत्परलोकसाधनं न जातमिति । [श्रृ ०--] हे सखे, चित्रमेव रचना यस्याः सा चित्रिणी स्त्री धात्रा मे ललाटतले लिखितास्ति 'त्वयोपभोग्येयम्' इति मनोरथस्य चातिक्रमेण चेग- वत्तयेति शेषः । यामे प्रहरे सर्वस्मिन्नपि नवरतेन नूतनेनोपरिरतेन महिता पृजिता उत्सवयुक्ता वा संजाता ॥ कासारे पद्मिनीयं मुकुलयुगमनत्यन्तरं यत्र हृद्यं यस्मिन्सद्यःसमुद्यद्गृहमतिकरजव्यापृतिः श्लाघनीया । तस्मादेतद्विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं वर्यं शौर्यं च नादौ न गमय समयं त्वं ब्रजस्त्रीहितज्ञः ॥७३॥ केति । [वै०-] कासारे सरसि इयं पद्मिनी कमलिनी । वर्तत इति रोषः । यत्र यस्यां हृद्यं मनोहरम् अत्यन्तरहितम् एकदेश एवं वर्तमानं मुकु- लयुगलमस्तीति शेषः । यस्मिन्मुकुलयुग्मे सद्यः समुद्यन्यो ग्रहपतिः सूर्य- स्तस्य करेभ्यो जाता व्यापृतिः सा श्लाघनीया स्तुत्या । तस्मात् शौरेः कृष्ण- स्वाञ्चनादौ पूजादौ विशेषस्मृया स्मृतिवचनेन 'मुकुलैर्नार्चयेद्विष्णु विना- कमलकोरकैः' इत्यादिना । वर्य श्रेष्टम् इह साक्षात् प्रत्यक्षनेत्रेण दृष्ट्वा स्वयं नोपेक्ष्यम् । व्रजस्त्रीभ्यो हितं कृष्णं जानातीति तथाविधस्त्वं समयं गमय । [श्रृ ०- ] इयं पद्मिनी । कासारे तिष्ठतीति शेषः । यद्वा । अरे, सेयं का पद्मिनीति विशेषप्रश्नः । यत्र यस्यां हृद्यं हृदयोद्भवस् अनत्यन्तरं मिथः संगतं मुकुलयुगमर्थात् पद्मकोशसमानं स्तनयुगलम् । अस्तीति शेषः । यस्मिन् सद्यः समुद्भवन् ग्रह आग्रहो ग्रहणं वा यस्यैवंविधो यः पतिर्भर्ता तस्य करजानां नखानां व्यापारः श्लाघनीयः । तस्मादेतत्स्तनयुगं विशेषस्मरणे कलितं सदा चिन्तितं कदा द्रक्ष्यत इति इह स्थले साक्षात् प्रत्यक्षतः प्रेक्ष्य वर्यं श्रेष्ठं शौर्य च प्रस्तावमेवंविधं न गमय न चापय । स्वीकृतमीहितं जाना- तीति स्त्रीहितज्ञस्त्वं व्रज एनां गृहाण ॥ नव्याहारभृदधिकं धन्या मृदुभाषिणी रसज्ञेयम् । सद्यःफलदनवरतं संभाषणमच्युतास्पदं यस्याः ॥ २० ॥ नेति । [वै०-] अधिकं न व्याहारं भाषणं बिभर्तीति मृदुभाषिणी च १२४ काव्यमाला। इयं रसज्ञा जिह्वा धन्या । यस्या जिह्वाया अच्युतास्पदं विष्णुविषयं निरन्तरं संभाषणं सद्यःफलवद्वर्तत इति शेषः । [श्रृ ०-] इयं रसज्ञा नव्या नूतना हारभृत् धन्या अधिकं यस्या अ- च्युतमास्पदं स्थलं यत्र तत्संभाषणं सद्यःफलदं नवरतं यस्मात् ॥ कृष्णाभीरवधूरतस्य लभते दास्यङ्गतस्ते सुखं लब्ध्वात्यन्तिकमङ्गनाशमसकौ विन्देत्कथं देवनम् । तस्मात्त्वामधुनाशनं स्वभजनं दातुं परं प्रार्थये नैतच्चेन्मम चेतसि स्फुरति न खर्गापवर्गादिकम् ।। ७५॥ कृष्णेति । [वै०-] हे कृष्ण, आभीरवधूरतस्य ते दास्यं गतः सुस्त्रं लभते । असकौ असौ पुरुषः आत्यन्तिकमङ्गस्य नाशं लब्ध्वा देवनं त्वचार- ताकर्णनकीर्तनगाननृत्यादिलक्षणं क्रीडनं कथं विन्देत् । मोक्षे पाषाणवद्भवन- मनर्थकमित्यर्थः । तस्मात् परं परमात्मानं मधुनाशनं त्वा त्वां स्वभजनं दातुं प्रार्थये । एतच्चेत्त्वद्भजनं न प्राप्तं मम चेतसि स्वर्गापवर्गादिकमपि न स्फुरति । [श्रृ ०-] कृष्णा श्यामा आभीरवधूस्तद्गतस्य तेऽङ्गतः पक्षाच्छरीराद्वा दासी सुखं लभते । यद्वा आभीरवधूः दास्या अङ्गतः दासी कुट्टनीं प्राप्यते रतस्य सुखं लभते । असकौ अङ्गना ते स्त्री आत्यन्तिकं शं सुखं लब्ध्वा पूर्व- मिदानी देवनं क्रीडनं त्वया सह कथं विन्देत् । भोजनमात्रेऽपि यतस्तस्याः संनेह-स्तस्मादधुना त्वां अशनं स्वभजनं च दातुं प्रार्थये । चेदिदं मदुक्तं न करोषि तदा मम चेतसि स्वर्गापवर्गादिकं अर्थात्तव न स्फुरति ॥ दृष्टा मनो हरति या सायोध्यारामवसतिराकलिता । तस्मादधिवसतैनां नित्यानन्दो मयानुभूयेत ॥ ७६ ॥ दृष्टेति । [वै०-] स्पष्टम् ॥ [श्रृ ०-] आरामे उपवने वसतिः स्थितिर्यस्याः दृष्टा सती मनो हरति या सा मयायोधि योधिता निष्ठुररतेन तोषिता । तस्मादेनाम् अधिवसता मया नित्यमानन्दः प्रात्यहिकः प्रमोदोऽनुभूयेत ॥ विशिष्टा नवायौवनश्रीस्तदस्यामवाप्या कथं सौमनस्यादिवृद्धिः । भवत्वत्र वागर्हणा यादवीया ततो वारिणैवास्तु पूजा तदीया ॥७७ रसिकरञ्जनम् । १२५ विशीति । [वै० ] वायौ वहति सति वनश्रीर्विशिष्टा न । तत्तस्मा- दस्यां वनलक्ष्म्यां सौमनसी पुप्पसंबन्धिनी आदिवृद्धिः इदनीं वातान्दोलन- तया तथा नास्ति । ततो यादवस्य विष्णोः संबन्धिनी वागर्हणा वाचा अहं. णा पूजा भवतु । तदीया पूजा वारिणव वा अस्तु [१० ] अस्यां विशिष्टा अतिशयिता नवा नूतना यौवनश्रीः । अस्तीति शेषः । तदस्यां सौमनस्यादेः प्रीत्यादेरभिवृद्धिः कथं प्राप्या । अनया सह सौमनस्ये वृत्ते शत्रयो निन्दा यदि कुर्युरित्यत आह-तत एतत्सौमनस्यसि- द्वेरत्र अरिणा शत्रुणा गर्हणा निन्दा वा भवतु या निन्दा दवीया दवाग्नि संबन्धिनी । तद्वत्संतापहेतुत्वादित्यर्थः । अथवा अरिणा तदीया एतत्संबन्धिनी पूजास्तु । वस्तुनि योगे प्रसक्त इति ॥ खादितरवैपरीत्यं सद्यो माद्यन्ति हन्त ये लब्ध्वा । मन्ये त एवं धन्या मान्यानन्यायमार्गमुज्झन्तः ॥ ७८॥ खेति । [वै०-] स्वात् धनात् इतरचैपरीत्यमन्यवैलक्षण्यं लब्ध्वा ये सद्यो माः श्रियो द्यन्ति खण्डयन्ति विभज्यार्थिभ्यः प्रयच्छन्ति । हन्त हर्षे । त एवं न्यायमार्ग न उज्झन्तो धन्या मान्या इति मन्ये ॥ [ श्रृ ० -] सुः आदिर्यस्य तत्स्वादि तत् 'तर'वैपरीत्यं रतम् । सुरतमि- त्यर्थः । तत्कुतश्चिल्लब्ध्वा ये सद्यो माद्यन्ति तुष्टा भवन्ति त एव धन्या इति मन्ये॥ मनोहरवयोन्विते तनुनिरस्तशीतातपे कदा सदलकानने भवतु योगसिद्धिस्तव । अये शृणु मयोदितं परमयोगिना दुर्लभ हृदा कलय माधवं सुमनसां यतो वैभवम् ॥ ७९ ॥ मेति । [वै०-] हे सखे, योगसिद्धिं चेद्वाञ्छसि तदा सदले कानने निविडपर्णाच्छादिते वने योगसिद्धिस्तव भवतु । किंभूते वने । मनोहरैर्वयो- भि: पक्षिभिरन्विते । तथा तन्वा शरीरेण निरस्तं शीतातपादिकं यन्न । कथं कदा योगस्ते सिध्येत् । अये मित्र, मयोदितमुक्तं शृणु परमयोगिनापि दु- र्लभं दुष्प्रापं यत्तदुपदिशामि । माधवं लक्ष्मीकान्तमेव हृदा कलय यतो विष्णो; सुमनसां तदेकचित्तानां वैभवं भवति ॥ १२६ काव्यमाला। [श्रृ ०- ] मनोहरेण वयसा तारुण्येनान्विते । तन्वा शरीरेण निरस्तौ शीनातपौयया तथाविधे। तरुणीवनुः शीतकाले उष्णा, उष्णकाले शीतला। यतः मन्तोऽलकाश्र्चूर्णकुन्तला यस्मिन् एवंविधमाननं यस्याः हे युवते, तव योगसिद्धिस्त्वत्संसर्गलाभ: कदा भवनु । अये, मयोदितमुक्तं श्रृणु परमुत्कृष्टम् अयोगिना विरहिणा दुष्प्रापं माधवं वैशाखं वसन्तं पश्यतः सुमनसां पुष्पाणां वैभवं समृद्धिस्तस्मान्मामङ्गीकुरु ।। नित्यं निरञ्जनकथं साक्षिज्योतिः स्वतःप्रकाशमुखम् । गमयति यतिमनुगमयति रमयति शमयति च सपदि संतापम् ॥८०॥ नित्यमिति । [वै०-] नित्यमविनाशि निरञ्जनकथं निर्लेपवार्त साक्षि- रूपं ज्योतिःस्वरूपं ब्रह्म विष्णुलक्षणं यति संन्यासिनं स्वतःप्रकाशं यत्सुग्वं चिदानन्दरूपं तद्गमयति अनुगमयति रमयति सपदि सांसारिकं संताप शमयतीति ॥ [श्रृ ०- ] सा विधवा, नित्यं निर्गता अञ्जनकथा कज्जलकथा यस्मात् - स्वत.प्रकाशेन स्वाभाविकेनैव कान्तिविशेषेण सुखं सुखकारि अक्षिज्योति- र्नेत्रप्रभा गमयति प्रापयति यतिमनुगमयति अनुगनं करोति रमयति सपदि संतापं च शमयति ॥ चिरप्रेमस्थेमस्थगितहृदये पद्मनयने समानारम्भेऽस्मिन्भवति न मयागोपि किमपि । उदस्त्राक्षी राग नयसि दृशमेनां च यदि मां हृदा वाचा श्रीमत्यचलनमिदं तत्त्वमुदितम् ॥ ८१ ॥ चिरेति । [ वै०-] पद्मनयने कृष्णे चिरं प्रेम्णः स्थित्या स्थगितं हृद्य- स्यैवंविध अये मित्र, समान आरम्भ उद्यमो यस्यैवंविधे भवति अस्मिन् त्वयि समानशीले विष्णुभक्ते मया किमपि न अगोपि गुप्तम् | त्वं रागमनुरागं विषयेषु उदस्त्राक्षीरुत्सृष्टवान् । दृशं दृष्टिं नयसि प्रापयसि । आन्तरं राग दृष्टौ न्यस्यसि । यदि एनां सरागां दृष्टिं मां नयसि प्रापयासि अनुरक्तो मां पश्यसि तदा हृदा वाचा श्रीमति वासुदेवे अचलनमिदमेव तत्वमुदितमुक्तम् ॥ [ श्रृ ० --] चिरप्रेमस्थित्या छादितहृदये पद्माक्षि हे भवति, अस्सिन्नेवंरसिकरञ्जनम् । १२७ विधे मानसहिते आरम्भे किमपि आगोऽपराधो न यदि उदस्त्रे अक्षिणी यस्या एवंविधा त्वं दृशं रागं नयसि एनां दृशं रक्तां मां नयसि तदा हृदा वाचा श्रीसत्यां त्वयि अचलमिदं मया तत्त्वमुदितमुक्तम् ॥ स्तम्भितमनोभवमदो धन्यो भजते सनर्मदारोधः । नित्यं तपस्यतो निशि किं नानन्दाद्वयानुभूतिः स्यात् ।। ८२॥ स्तम्भितेति । [वै ०-] स्तम्भिता मनोभवाश्चित्तजा मदा विद्यादिजन्या येनैवंविधो धन्यः स नर्मदाया रोधस्तटं भजते । निशि नित्यं तपस्यतोऽस्य किमानन्दाद्वयानुभूतिर्न स्यात् ।। [श्रृ ०-] स्तम्भितो मनोभवमदो वीर्यं येन सनर्मदासे नर्मसहितस्त्रीको धन्यः पुरुषोऽधो भजते । अतस्तपसि माघे आनन्दाद्वयस्यानुभूतिः किं न स्यात् ॥ सप्तसामनुत ईश्वरो भवान्किं ददाति न वृथा विलम्बते । तत्त्वदीयभजन हिताय नः खाव्ययत्वमिह न प्रकाशय ॥ ८३ ॥ सप्तेति । [वै०-] सप्तभिः सामभिः स्तुतो भवान् ईश्वरो नियन्ता कि स्वभजनं न ददाति वृथैव विलम्बते तत्त्वदीयभजनं नोऽस्मभ्यं हिताय । इह स्वाव्ययत्वं न प्रकाशय अव्ययत्वं शब्दच्छलात्कार्पण्यं न प्रकाशय । भजन देहीति ॥ [श्रृ ०-] कामपि द्रव्यदानेनाभिलप्यन्तं प्रति वचनम्-सा सप्त मनुते । भवान् ईश्वरो धनाढ्यः । अतः सप्तापि न ददाति किं वृथा विल- म्बते । किं ततस्तवेत्याह-तस्यास्त्वदीयभजनं तत्वदीयभजनं नो हिताय इह स्वाध्ययत्वं कार्पण्यं न प्रकटय । रम्भास्फुटोपमानामुत्क्षेपस्पष्टमूलवरदोषाम् । करजानुशीलितानां हरिणाक्षीणां स्मराद्यबाणभुजाम् ॥ ८४ ।। रम्भेति । [वै०--] हे सखे, अद्य त्वं बाणस्य बाणासुरस्य भुजां स्मर । जान्यैकवचनम् । अवशिष्टबाहुद्वयातिरिक्तवाहून्स्मरेत्यर्थः । कीदृशीम् । रम्भायाः कदल्याः स्फुटा उपमा यस्यास्ताम् । पुनः । उत्क्षेपे दर्पणोर्ध्वक्षेपे स्पष्ट मूलं वरो महेशवर एव दोषो यस्यास्ताम् । पुनः । करश्च जानु च त- च्छीलि तानं दीर्घता यस्याः । पुनः । हरिणा कृष्णेन क्षीणाम् ॥ १२८ काव्यमाला। [श्रृ ०-] हे सखे, हरिणाक्षीणां मृगदृशां सर । कीदृशीनाम् । आद्यो बाणोऽर्थात्स्मरस्य तं भुञ्जत इति आद्यबाणभुजस्तासाम् । रम्भाया अप्सरो- विशेषस्य स्फुटोपमा यासु । पुनः । उत्क्षेपे स्पष्टमूला वराः श्रेष्ठा दोषो बाह- वो यासाम् । करजैर्नखैरनुशीलितानाम् ॥ नवोन्नतपयोघरस्फुटतराम्बराभ्यन्तर- श्रिया हृदयहारितां वहति नीलिमोस्कर्षतः । स्मराहितगलप्रभातिशयशालिनि श्रीधरे मनो मम किरीटिनः कपटमानवेश्यालके ॥ ८५ ॥ नवैति । [ वै०-] मम मनः किरीटिनोऽर्जुनस्य श्यालके कृष्णे वर्तते । किंभूते । कपटमानवे सरस्याहितो भवस्तस्य या गलप्रभा तच्छालिनि । श्री - धरे नीलिन्न उत्कर्षतोऽतिशयात् नवा उन्नता ये पयोधरा मेघास्तैः स्फुटतरं यदम्बरस्याभ्यन्तरं तस्य श्रिया हृदयहारिता मनोहरत्वं वहति दुधाने ॥ [श्रृ ०-] किरीटिनः किरीटयुक्तस्य मम मुकुटवर्धनस्यापि मनः कपट- माना या वेश्या तस्या अलके चूर्णकुन्तले वर्तते । किंभूते । नवयोरुन्नतयोः पयोधरयोः स्फुटतरं यदम्बरं सूक्ष्मं वस्त्रं तस्याभ्यन्तरे या श्रीस्तया नीलि- मोत्कर्षतो हृदयहारितां वहति । स्मरेण कामेन आहितो यो गले प्रभातिश- यस्तच्छालिनि ततः श्रीधरे शोभां वहति ॥ कलयसि वयस्यकस्मात्त्वं रुचिरम्भारतीशास्त्रम् । अत्रोक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणम् ॥ ८६ ।। कलेति । [वै०-] हे वयस्य, त्वं भारती सरस्वत्येव । कस्मात् । शास्त्रं हचिरं मीमांसादिकं कलयसि । अत्र शास्त्रे मिथः परस्परम् उक्तिप्रत्युक्तौ भूरिः शस्त्रपातो यन्त्रैवंविधं रणं युद्धं कलय जानीहि ॥ [श्रृ ०-] वयसि तारुण्येऽकस्माद् रुचौ कान्तौ लावण्ये रम्भा रम्भे- व। रतीशस्य कामस्यास्त्रं कलयसि तद्गोचरीभवसि । अन्न मिथः एकान्ते मम उक्ते: प्रत्युक्तावुत्तरवचने भूरिशः त्रपाया लज्जायास्तरणं विजयं कलय लज्जां वेजित्योत्तरं देहि ॥ रसिकरञ्जनम् । १२९ नासंन्यासितया मयानवरतानन्दस्तथैवाप्यते तन्मे नाद्य वयस्य निश्चलतया चेतोन्यदाकाङ्क्षति । तामासाद्य सदा हिमर्तुमनसोनेहा वृथा यास्यति श्रेयः स्यादथवेत एव कलितादाकृष्टपद्माकरात् ॥ ८७ ॥ नेति । [वै० .] हे वयस्थ, असंन्यासितया तथैव यथा पूर्व गार्हस्थ्ये- नैव अनवरतानन्दो न प्राप्यते तत्तस्मान्मे चेतो निश्चलतया अन्यन्नाकाङ्क्षति । तामसंन्यासितामासाद्य हि निश्चयेन मर्तुमनसो मर्तुकामस्य सांसारिकदुःखा- सहिष्णोरनेहा समयो वृथा थास्यति । अपुरुषार्थत्वेनैव । अथवा इत एव असंन्यासिताया एव आकृष्टः पद्माया लक्ष्याः करो येन तस्मात्कृष्णाकलि- लाञ्चिन्तितात् श्रेयो मोक्षलक्षणं संपत्स्यते । [श्रृ ०-] मया संन्यासितया तत्समानेन ब्रह्मचर्येण तथैवोद्यमं विनापि नवरतजन्यो य आनन्दः स न प्राप्यते । तत्तस्मान्मे चेतो निश्चलतया नव- रतैकनिष्ठतया अन्यत् किमप्याद्यवयसि नवयौवने नाकाङ्क्षति । अथवा तां स्त्रियं कथंचिदासाद्य लब्ध्वा सदा सर्वदा हिमर्तौ शीतकाले मनो यस्य तत्र दत्तचित्तस्य ईहा स्पृहा न वृथा यास्यति । आकृष्टः पाद्मानामाकरो येन तस्मात्क- लिताञिचन्तिताद्धिमर्तोरेव श्रेयः स्यात् । संभोगपर्याप्तरात्रित्वादिति भावः ॥ सहजौ यौवनवृत्ती सार्वदिकासत्तिशालिनौ हृद्यौ । हृदि तौ निरुध्य दधतः कथमात्मभुवोऽपि संभवति भीतिः॥८८॥ सहेति । [वै०-] देवकीगर्भस्यैवाकर्षणेन संकर्षणोत्पत्तेः सहजावेको- दरौ यौ बलकृष्णौ एकचरुभागजन्यत्वेन सहजौ रामलक्ष्मणौ वा वनवृत्ती वृ- न्दावनदण्डकारण्यवासिनौ । सार्वदिकी यासत्तिरेकन्न वासस्तच्छालिनौ । हृद्यौ मनोहरौ तौ हृदि निरुध्य दधत आत्मभुवो ब्रह्मणोऽपि कथं भीतिः संभवति ।। [श्रृ ०-] यो हृद्यौ हृदयोद्भवौ । सहजौ युगपदुत्पन्नौ । यौवने वृत्ति- र्ययोः । सार्वदिकी निरन्तरा यासत्तिस्तच्छालिनौ तौ स्तनौ हृदि निरुध्य दध- तः पुरुषस्य आत्मभुवोऽपि कामादपि भीः कथं संभवतीति ॥ विषयाद्यविषक्तमानसानां बहुशोमाविरहोऽपि नः सुखाय । परिहृत्य तदन्यदत्र कृत्यं कृतरामोरुपदस्मृतिः कृती स्यात् ।। ८९ ।। ९ चतु ० १३० काव्यमाला। विषेति । [वै०--] विषयादाचविषक्तमनासक्तं मानसं येषामेवंविधानां नो बह्वी या शोभा तद्विरहोऽपि सुखायैव । तत्तस्मादन्यत्कृत्यं परिह्रत्य कृतं 'राम' इत्युरुणः श्रेष्ठस्य पदस्य नान्नः स्मृतिर्येन स कृती स्यात् ॥ [श्रृ ०-] विषयेषु आद्यविषक्तं मानसं येषामीदृशां नो बहुशः भावि रहोऽपि एकान्तोऽपि सुखाय । तदन्यत्कृत्यं परिह्रत्य कृता रामाया ऊरुपदस्य स्मृतिर्येन एवंविधः सुखी स्यात् ॥ नव्यापृताकुचेष्टा हरिणाक्षीणामुरस्थितिः श्लाघ्या । यस्याः श्रुतिस्मृतिभृतो बिभ्रति रोमाञ्चमुत्तमाः पुरुषाः ॥१०॥ नेति । [ वै०-] नव्या नूतना पृताको सर्पस्य कालियस्य चेष्टा मुरस्य दैत्यस्य स्थितिश्च श्लाघ्या यतो हरिणा कृष्णेन क्षीणा । यस्या हरिणाक्षीणायाः श्रुतिस्मृतिभृतः श्रवणस्मरणकृत उत्तमाः पुरुषा रोमाञ्चं बिभ्रति । [१०-] हरिणाक्षीणां उरःस्थितिक्षास्थितिः श्लाघ्या। कीदृशी।न च्यापृता मर्दनादिव्यापारमप्राप्ता अभुक्ता । कुचाभ्यामिष्टा । अतः स्तुत्या । यस्याः श्रुतिस्मृतिभूत उत्तमा रसिका रोमाचं बिभ्रति ॥ विषमेषुभवेषुवेदनामनुभूयाप्यकृतप्रतिक्रियः । पुरुषो लभतां कथं सुखं यदि सामान्यतनुः करोतु किम् ॥९१॥ विषेति । [ वै०-] विषमेषु उच्चनीचेषु नानाविधेषु भवेषु वेदनां दुःख- मनुभूयापि अकृतप्रतिक्रियः पुमान् कथं सुखं लभताम् । यदि पुन: सामान्य- तनुः सामान्यशरीर एव पश्वादिरेव तदा किं करोतु । अविवेकित्वात् ॥ [ श्रृ ०--] विषमेषुः कामस्तद्भवा या इषुवेदना तामनुभूयापि अकृत- तत्प्रतीकारः पुरुषः कथं सुखं लभताम् । यदि सा स्त्री अमानि प्रतीकारत्वेन ज्ञाता ततो अतनुः कामः किं करोतु ॥ करकलितदारनरकेशेरत इह ये सजन्ति भवसिन्धौ । रसिकास्त एव मान्या मन्यन्तां धन्यमात्मानम् ॥ ९२ ॥ करेति । वै०--] करकलितो दाररूपो नरको यत्र तत्र भवसिन्धौ शेरते स्वपन्ति सजन्त्यासक्ताश्च भवन्ति त एव रसिका मान्या आत्मानं धन्यं मन्यन्ताम् इति कामिनामुपहासः ॥ रसिकरञ्जनम् । [ श्रृ ० ] इह भवसिन्धौ ये करकलिता हस्तेन गृहीता दाराणां नरस्य च केशा यस्मिन्नेवंविधे रते केशाकेशिमदनयुद्धे सजन्त्यासक्ता भवन्ति त एव रसिका मान्या धन्यमात्मानं मन्यन्तां नान्ये॥ विद्येते द्वे सर्वतः श्लाघनीये याभ्यां कष्टं तत्र नात्रापि लोके । तस्मादेने वर्तितात्मश्रुतिस्मृत्याह्वाने न त्यक्तुमीशे वयस्य ॥ ९३ ॥ विद्यते इति । [वै०-] ते द्वे सर्वतः श्लाघनीये विद्ये । याभ्यामत्र तत्रापि लोके इह परन्न च न कष्टम् । हे वयस्य तस्मात् एने, वर्तितं आत्मनः श्रुतिः स्मृतिः इस्याह्वानं याभ्यां ते न त्यक्तुमीशे नोत्सहे ॥ [ श्रृ ० ] ये द्वे सर्वतः श्लाघनीये स्तुत्ये विधेते स्तः । याभ्यां कष्टं न । अत्र तत्र वा । अत्र वा तयोरागमनमस्तु । तत्र वा मम गमनम् । उभय- थापि न कष्टं लोके । यद्वा तत्र लोके पितृसंबन्धिजने याभ्यां कष्टं यथा स्थात्तथा न । अन्नापि न लजितमतिसृष्टत्वात् । तस्माद्वर्तितानि आत्मनः श्रुतिः श्रवणं स्मृत्तिः स्मरणं आह्वानं नाम च एतानि याभ्यां ते एने त्यतुं न प्रभवामि । ताभ्यामेव स्वश्रवणादीनि दूत्यादिद्वारा ख्यापितानि । अतः कष्ट- मपि लोके न । तस्मादेने द्वे अपि न त्यक्ष्यामि ॥ न यथारुचिरम्भारतमाकर्णितमेवमन्यदिह किंचित् । तदिदं हृदि चिन्तयतां यतमानानां कदाचिदपि सिध्येत् ॥९४॥ नेति । [वै०-] आकर्णितं श्रुतं भारतं यथा रुचिरम् एवम् अन्य इह संसारे न । तस्मादिदं हृदि चिन्तयतां यतमानानां यतो मानोऽहंकारी यस्तेषां कदाचिदपि सिध्येत् ॥ [१० - यथारुचि रम्भाया अप्सरोविशेषस्येव रतं समाकर्णितम् । एव- मिहान्यत् किंचित्तत्तस्मादिदं हृदि चिन्तयतां यत्नं कुर्वतः कदाचिदपि मिध्येत् ॥ मुक्तात्मरोचिरतिदीप्रगुणप्रपञ्चं साक्षिप्रमाणकमनावरणं कुतश्चित् । हृष्यन्महाशयपरिग्रहयोग्यमूर्ति तद्वस्तु सद्वयमिदं हृदि भावयामः॥ ९५ ॥ मुक्तेति । [वै ०-] मुक्तं नित्यमुक्तस्वभावं आत्मरोचि स्वप्रकाशरूपं १३२ काव्यमाला। अत्यन्तं दीप्र: प्रकाशमानो गुणानां सत्त्वादीनां प्रपञ्चो यत्र त्रिगुणात्ममायाप्र- पञ्चोपादानं साक्षि प्रमाणं यत्र तत्साक्षिप्रमाणकं स्वप्रकाशचैतन्यमेव यन्त्र प्रमाणं कुतश्चिदनावरणं मायावरणरहितं हृष्यन्तो ये महाशया भक्ताः तत्प- रिग्रहयोग्या मूर्तिर्यस्य तदिदं सद्वस्तु स्वरूपतः सत् परमार्थरूपं ब्रह्म वयं हृदि भावयामः॥ [श्रृ ० .] इह हृदि अस्या वक्षसि सद्वयं द्वितयसहितं तद्वस्तु स्तनरूपं भावयामः । कीदृशं तत् । मुक्तानां मौक्तिकानामात्मनश्च रोचिषा अतिदीप्रो गुणप्रपञ्चो यत्र । अक्षिप्रमाणं तत्सहितं साक्षिप्रमाणम् । स्वार्थे कः । साक्षा- देवाक्षिभ्यां दृश्यम्। यतः क्वचिदनावरणं क काञ्चुकाञ्जलावरणशून्यं हृष्यन् रोमा- ञ्जमञ्चन् आनन्दजडो भवन् यो महाञ् शयो हस्तस्तत्परिग्रहयोग्या मूर्तिर्यस्य ।। आलिङ्गदाप्य गोपीं तद्बाहुं सह रिरंसयाधाय । श्रुत्वेति निश्चिनोम्यहमङ्गिषु दुरितामनङ्गस्य ॥ ९६ ॥ आलीति । [वै०--] स हरिगोपीमाप्य तद्बाहुमंसे स्कन्धे आधाय आ- लिङ्गत् इति श्रुत्वा पुराणादौ आङिगषु देहिषु अनङ्गस्य दुर्वारतामहं निश्विनोमि।। [श्रृ ० -- ] कश्चन कामपि गोपीमाप्य रिरंसया सह तद्वाहुमाधायालि- ङ्गत् अतोऽहमङ्गिषु स्मरस्य दुरितां निश्चिनोमि ॥ अनुभूतभवव्यवस्थितिर्जनता का नरताभिलाषिणी । तदवैमि सुखेन संसृतौ कलितानङ्गतयैव निस्तृतिः ॥ ९७ ॥ अन्विति । [वै०-] अनुभूता भवस्य संसारस्य व्यवस्था यया सा का जनता नरताभिलाषिणी । तत्तर्हि कलिता या अनङ्गता अशरीरता तत एव चिराय निस्तार इत्यवैमि ॥ [श्रृ ० -] अनुभूतसंसारव्यवस्था का जनता रताभिलाषिणी न यत- स्ततो हेतोः संसृतौ कलितः स्वीकृतोऽनङ्गो येन स तथा तस्य भावस्तत्ता तयैव चिराय निस्तारो नान्यथेति ॥ असकृन्ननेतिसावधिनिषेधबोधिश्रुतिर्भया कलिता। गमयति परमनवरतं या तमखण्डार्थरूपमानन्दम् ॥ ९८॥ असेति । वै ० -- ] असकृत् 'इदमिदं न' इति सावधेर्निषेधस्स बोधिका रसिकरञ्जनम् । श्रुतिर्मया कलिता श्रुता । या श्रुतिः परं ब्रह्मलक्षणमुत्कृष्टं अनवरतं अखण्डा- र्थरूपमानन्दं गमयति ॥ [ श्रृ ० -] असकृदनेकदा न न इति अवधिनिषेधबोधिनी श्रुतिर्वाग्य- स्या: सा मया कलिता रमिता । या परमं नवरतं तमखण्डमर्थरूपं पुरुषार्थ- रूपमानन्दं गमयति प्रापयति सा स्वयमेवागतेत्यर्थः ।। अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमग्ना कामिनीविग्रहाप्तिः । तदहमिह विहर्तुं संततामोदमुग्धा खहितमहितकृत्यं हन्त नान्तः स्मरामि ॥ ९९ ॥ अहहेति । [वै०-] देहस्य गेहस्य च प्रपञ्चे मार्जनानुलेपनादिरूपे अनवरसं निरन्तरमतिमन्ना कामिनीविग्रहस्य स्त्रीशरीरस्याप्तिः प्राप्तिस्तस्मादि- है स्त्रीशरीरप्राप्तौ बिहर्तुं क्रीडितुं संततमामोदे सुखे मुग्धा । वस्तुगत्या सु- खाभावात् । हन्त खेदे । स्वहितेन स्वस्यातिशयसुखहेतुना महितं पूजितं कृत्यं कर्म विष्णुपूजनादिकम् । अथवा सुष्टु अहितमः सर्पश्रेष्ठः शेषस्तस्य हितो विष्णुस्तरकृत्यं तञ्चरितमन्तर्न सरामीति । [श्रृ ० -] कामिना योऽयं नीवेर्वसनग्रन्थेर्ग्रहो ग्रहणं तदाप्तिस्तत्प्राप्तिः सा गेहस्य देहस्य च प्रपञ्चे सहजो मोहो यस्या एवंविधास्ति । अहहेति हर्षे । नवरते या मतिपत्र मग्ना च ।तत्ततो हेतोरहमिह नीविग्रहाप्तौ विहर्तुं क्रीडितुं संततमामोदो येनानन्देन परिमलेन वा मुग्धा मोहयुक्ता सुन्दरी वा स्वहितमहितानां शत्रूणां च कृत्यं अन्त: किमपि न स्मरामि हिताहितवि- चारो मम नास्ति। परपुरुषभजनमेकं त्रिजगति सारं वदन्ति धर्मविदः । यस्मादानन्दमयी सद्योमोक्षानुबन्धिनीविरतिः ॥ १०० ।। परेति । [वै०-] धर्मविदः परपुरुषस्य कृष्णस्य भजनमेकं त्रिजगति सारं वदन्ति । यस्मात्सद्यो मोक्षानुगता विरतिवैराग्यं भवति ॥ [श्रृ ०-] कामधर्मविदः परपुरुषस्य भजनमेकं सारं निजगतीति वद १३८ काव्यमाला। न्ति । यस्साजारभजनास्सद्य: मोक्षानुबन्धिनीविः मोचनानुबन्धसहिता नी- विर्वसनग्रन्धिर्यत्रैवंविधा रतिर्भवति ॥ निरन्तरगुणोल्लसद्रुचिरकाम्यमुक्ताफल- प्रपञ्चविषयस्पृहोपगतलौकिकानन्दभूः । रतीशसमराधिकारमणमात्रलक्ष्यस्थितिः परात्मरतधीरसावतिकृशोदरीदृश्यते ॥ १०१॥ विरेति । [वै०--] परे आत्मनि ब्रह्मणि रता धीर्यस्यासावतिकृशः पु- रुषो दरीदृश्यते भूयो भूयो दृश्यते । कीदृशः । निरन्तरं संततं गुणेषु साधु- संमतेषु उल्लसन्ती रुचिः प्रीतिर्यस्य । अकाम्या अनाशास्या अत एव मुक्ता त्यक्ता निष्फलप्रपञ्चविषया स्पृहा येन । अपगतालौकिकानन्दभुवः प्रमदा- दयो यस्मात् । रतीशसमः कन्दर्पकोटिलावण्यो यो राधिकारमणस्तन्मात्रे लक्ष्ये स्थितिर्यस्य ॥ [ श्रृ ० ] परेण पुरुषेण आत्मनो रते धीर्यस्या असौ स्त्री अतिकृशो- दरी दृश्यते । निरन्तराणि धनानि गुणे सूत्रे उल्लसन्ति रुचिराणि काम्यानि आशास्यानि यानि मुक्ताफलानि तत्प्रपञ्चस्तदाभरणाधिक्यं तद्विषया या स्पृहा तयोपगता लौकिकानन्दभूमिर्मर्यादा यया । रतीशस्य समरे कामयुद्धे अधि- का । रमणश्च माता च श्वश्रूस्ताभ्यामलक्ष्या स्थितिर्यस्याः सा अतिचनुरा कथ- मपि निरोध्दुं न शक्यते ॥ ममत्वरयतः समागमरहस्यमन्विष्यतः स्फुटीभवति नान्वितश्रुति तदात्मतत्त्वं क्वचित् । विचित्रमधुनामनागियमनादिमाया न मा समुत्सुकमनारतं कलयितुं सुखं मुञ्चति ॥ १०२ ॥ ममेति । [ वै०-] ममत्वस्य ममताया रयतो वेगात् तत्प्रसिद्धमात्मतत्त्वं जीवब्रह्मैक्यलक्षणम् अन्वितर: समन्वितर: श्रुतयो यत्र । 'तत्तु समन्वयात्' इति सूत्रोक्तेः । तत्त्वमस्यादिवाक्यविषयम् । समा ये आगमा वेदान्तास्तेषां रहस्यम् । समं यदागमरहस्यं वा । तदन्विष्यतो मम न स्फुटीभवति । वि- चित्रमाश्चर्यम् । एवमनिशं विचारेऽपि न तत्त्वबोधः । यतः अधुनेदानीमियरसिकरञ्जनम् । १३५ मनादिर्माया अनारतं सुखं नित्यानन्दरूपं ब्रह्म कलयितुं लब्धं समुत्सुकं मर मां मनागपि न मुञ्चति ॥ [श्रृ ० -- ] त्वरग्रतस्त्वरां कुर्वनः समागमाय रहस्यं संकेतस्थलं अन्विध्य - तो मम तस्या आत्मनो हृदयस्य तत्त्वं यदप्यन्विता श्रुतिः श्रवणं यत्र दूतीद्वारकवच:श्रवणेन यद्यपि ज्ञातप्रायं तथापि न स्फुटीभवति विचित्रेण मधुना वसन्तेन अमनाक् अधिकम् अनादिमा आदिमा न प्रौढा यद्यपि प्रथ- मा तथापि वसन्तकुसुमानिलादिवैचिन्यवशात्प्रौढेव या रतं कालयितुं सुखं समुत्सुकमना मा मां न मुञ्चति ॥ वर्णालंकृतिकाम्या साकाङ्क्षायोग्यतासत्तिः । एषा कलितरसज्ञा ननु बहुशोभारतीहितं कुर्यात् ॥ १०३ ॥ वर्णेति । [वै०- ] वर्णमधुरैरलंकृतिभिरुपमादिभिः काम्या । आका- ङ्क्षायोग्यतासत्तिभिः पदधमैंः सहिता । कलिता निवासत्वेन रसज्ञा जिह्वा यया। यद्वा कलितास्तोषिता रसज्ञा रसिका यया । यद्वा कलितो रसज्ञः पर- मात्मा कृष्णो यया । एवंविधा एषा भारती ननु निश्चयेन हितमभीष्टं कृष्ण. कीर्तनादिकं कुर्यात् ॥ [श्रृ ० -] वर्णेन शरीरकान्त्या अलंकृत्यालंकारेण काम्या कमनीया । अकाङ्क्षाभिलाषः, योग्यता संभोगयोग्यता, आसत्तिः संनिधिः परिशीलनं वा तत्सहिता । कलितो रसज्ञो रसिको यया । बह्वी शोभा यस्याः सैषा स्त्री ननु निश्चयेन रतिरूपमीहितमभीष्टं कुर्यात् ॥ वृथाश्रमपरिग्रहो यदि वयस्य शून्यो धनैः सुखेन खलु वर्तनं तद सदैव दास्यन्तिके। इदं मम मतं सखे सकलगोपदारांभिकं विनोदय मनो मनोभवकृताधिभाराधिकम् ॥ १०४॥ वृषेति । [वै०-] हे वयस्य, यदि त्वं धनैः शून्यो निर्धनस्तदा तवा- श्रमपरिग्रहो गार्हस्थ्यस्वीकारो वृथैव । सदैव सुखेनानायासेन वर्तनं तव जी- वनं के दास्यन्ति । तस्मात् है सखे, ममेदं मतं संमतम् मनोभवकृतेना१३६ काव्यमाला। धिभारेण अधिकं मनः सकल: कलया बलमद्रेण सहितः समग्रो वा सर्वमयो वा गोपस्त्रीकामुकः कृष्णो यन्त्रैवंविधं विनोदय ॥ [श्रृ ० -- ] यदि वयसि तारुण्ये त्वं धनैरशून्यः सहितः तदा वृथाश्रम- परिग्रहो वधूर्यस्यैवंविधस्त्वम् । धनसमृद्धावपि तव स्त्रियाः श्रमो गृहकृत्य- निर्वाहेण वृथैव । कुत इत्यत आह-तव सदैव नैरन्तर्येण दास्या अन्तिके निकटे सुखेन रतादिना वर्तनं स्थितिर्यतः । हे सखे, ममेदं मतं श्रृण्विति- शेषः । सर्वगोपवधूकामुकं मनोभवकृताधिभाराधिकं मनो विनोदय विश्रमय ।। वेत्ति सारतयात्मानं परं चेन्न कदाचन । संसाररसमग्नत्वं तत्कथं विजहात्वसौ ॥ १०५॥ वेत्तीति । [वै०-] सारतया सारत्वेन परमात्मानं चेन्न वेत्ति तर्हि असौ पुमान् संसाररसमग्नत्वं कथं विजहातु । परमात्मनः सारत्वेन ज्ञानः- मन्तरेण संसारमञजनान्न निस्तारः॥ [ श्रृ ०-] सा स्त्री रते रतसमये परमन्यम् आत्मानमपि च चेन्न वेत्ति कदाचित्तदासौ स्त्री एतच्छीली पुरुषो वा संसारसौख्यमग्नतां कथं त्यजतु ॥ विधत्ते सोत्कम्पं स्फुटयति सरोमाञ्चमुदितं कथं मज्जन्माघे पततु निरयप्रापणपथे । यदि स्यान्मासेऽस्मिन्नसितसितकल्लोलघटना- चला दृष्टिस्तत्कः सुकृतमिदमीयं गणयिता ॥ १०६ ॥ विधत्त इति । [वै०-] स्फुटा व्यक्ता यतयो यत्रैवंविधमिदं सरो मां सोत्कम्पमुद्गतकम्पसहितं मुदितं संतुष्टं च करोति । अत्र माघे मजन् पुरुषः कथं निरयप्रापणपथे नरकगमनमार्गे पततु । यद्यस्मिन्मासे माघे दृष्टिः असिताः सिताश्च ये कल्लोला यमुनाया गङ्गायाश्च तेषां घटना परस्परसंबन्धस्तन्नाचला निश्वला स्यात् तर्हि क इदमीयं सुकृतं पुण्यं गणयिता । को ब्रह्मा वा ॥ [श्रृ ०-] सा स्त्री उत्कम्पमुद्गतं कम्पं सात्त्विकभावं शीतजन्यकम्प- गोपितं विधत्ते । स पुरुष उदितं रोमाचं स्फुटयति स्फुटं करोति । सात्त्विक- भावमपि शीतजन्यत्वेन प्रकटयति ।माघस्नानं कुर्वत एवंविधा चेष्टा कथं न नरकाय स्यादित्यत आह-माघे मज्जन् स्नानं कुर्वन् कथं निरयप्रापणपथे पततु रसिकरञ्जनम् । १३७ असिन्मासे यदि दृष्टिः असिताः सिताश्च ये कल्लोलास्तद्धटना तव्द्यतिकररूपा अचला अस्मिन्पुरुषे स्थिरा स्यात्तदा इदमीयं सृकृतं को गणयिता ।। अतिचारुचन्द्ररोचिः कुर्वन्कुसुमेषुकेलिकेतनताम् । सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः ॥ १०७ ।। अतीति । [वै०---] अतिचारु चन्द्रोचिश्चन्द्रिका यत्र । कुसुमेषु पुष्पेषु केलिकेतनतां क्रीडावासत्वं कुर्वन् सुरभिर्वसन्तः कदा यास्यति । नु वि- तकें । वित्तविक्षेपहेतुत्वात्तपश्चरतां न निस्तार इति । कीदृशः । समुकुलरुचिः कमलादिकोरककान्तियुक्तः । अस्तनीहारो निरस्तहिमः ॥ [श्रृ ०- -] सुरभिर्वसन्तः कदा अनुयास्यति अनुगतो भविष्यति । कामिन इति शेषः । अतिचारुचन्द्ररोचिः । कुसुमेषुकेले: कामक्रीडायाः केतनतां स्थान- रूपं पताकात्वं वा कुर्वन् । मुकुलसमस्तन्या हारेण सह वर्तते इति तथा ॥ हेया कामधुरा दुराग्रहवता संसारचक्रम्रमे चार्ताभिः प्रसभं प्रवर्तयति या योहान्घकूपे बुधान् । नाकोपाधिकृतिं समीक्ष्य न ततः कुर्याद्विरक्तिं कथं तत्को नाम निकाममत्र पुरुषं दध्यादनादिं हृदि ॥१०८॥ हेयेति । [वै०--] संसारचकन्रमे संसारचके यो भ्रमस्तत्र दुराग्र- हवता पुंसा कामधुरा कंदर्पभारः हेया त्याज्या। या प्रसभं बलान्मोहान्ध- कूपे बुधान्पण्डितानपि वार्ताभिः खकथाभिः प्रवर्तयति । ना पुरुषः अको- पाधिकृतिं अकस्य पापस्य दुःखस्य वा य उपाधिः प्रयोजकस्तत्कृतिं तत्करणं समीक्ष्य ततः पापसाधनात्कथं विरक्तिं न कुर्यात् । तत्तस्मात्को नाम पुमा- नत्र कामधुरायां निकामं अनादिपुरुषं विष्णुं हृदि कुर्यात् । यद्वा कोपजन्यो य आधिर्मनःपीडा तस्कृतिं समीक्ष्य ततः कोपाधिकृतेर्विरक्तिंं न कुर्यात् । तत्तस्मात्कामक्रोधायुभावपि दुःखहेतू ज्ञात्वा निकामं पुरुषं च शब्दं अनादि- मादिवर्णरहितं कामं पुरुषं च हृदि को नाम दध्यादिति ॥ [ श्रृ ०-] मधुरा मनोहरा का स्त्री संसारचक्रे श्रमे दुराग्रहवता पुंसा हैया परिहार्या । या वार्ताभिर्नानाविधाभिश्चातुर्यमर्यादाभिः प्रसभं हठात् बुधान्विदुषोऽपि मोहान्धकूपे प्रवर्तयति । तत्तस्मात्तस्याः सुन्दर्याः सकाशा१३८ काव्यमाला। आकस्य स्वर्गस्योपाधिः प्रयोजकस्तस्कृतिं समीक्ष्य को नाम कथं विरक्तिं विशे- षेण रक्तिं रागं न कुर्यात् । अत्र निकामं निर्गतः कामो यस्मादेवंविधं अनादिं पुरुषं महेशं को नाम कथं हृदि दध्यात् ॥ भवार्णवस्योत्तरणे सरोजक्चकास्ति नौकेयमहो पुरःस्थिता । सखे सखेदोऽहमनन्यजभ्रमादभूं विहातुं न ततः समुत्सहे ॥१०९॥ भवेति । [वै०-] भवार्णवस्य संसारसिन्धोरुत्तरणे सरोजद्दक पुण्ड-* रीकाक्ष एव इयं पुरःस्थिता नौका चकास्ति प्रकाशते । ततोऽनन्यजः स्वाभा- विको यो भ्रमः अहं ममेति देहगेहादौ ततः सखेदः क्लेशवानहं हे सखे, अमूं कृष्णनावं विहातुं नोत्सहे ।। [श्रृ o--] इयं पद्माक्षी आवयोः पुरःस्थिता भवार्णवस्योत्तरणे उत्तर- णनिमित्तं चकास्ति शोभते । अतोऽहमनन्यजभ्रमास्कामकृतमोहादमूं त्यक्तुं नोत्सहे । इयं सरोजद्द्क् भवार्णवस्योत्तरणे नौकेति वा पूर्ववत् ॥ साधयति धरमपूर्वं पातालं कश्चिदेति कमलार्थी । न खलु सहजानुरागाद्विरमति तृष्णैतयोः कदाचिदपि ॥११०॥ साधेति । [ वै०-] कमलार्थी लक्ष्मीकामः कश्चिदपूर्वमदृष्टपूर्वं धरं पर्वतं असाध्यमपि साधयति । कोऽपि पातालमेति । सहजः स्वाभाविको योऽनुरागो धनविषयस्तस्मात् खलु निश्चयेन एतयोरुभयोरपि तृष्णा कदा- चिदपि न विरमति ॥ [श्रृ o -] सा स्त्री अपूर्वं अकारपूर्वं धरं अधरं धयति पिबति । क- श्चित्कमलार्थी द्रव्यलिप्सुरस्याः सकाशादलमतिशयेनाधरं पातेत्यागच्छति । अग्रे स्पष्टम् ॥ सामानिनीत्वा सलिलात्पयोधेरजिग्रहत्कंजभुवा दृशा यः। भजन्सखे तच्चरणारविन्दे विन्देस्तमानन्दममन्दमाशु ॥१११ ॥ सामेति । [वै०-] पयोधेः समुद्रस्य सलिलात् सामानि । उपलक्षण- मेतत् । सर्वान्वेदान् दैत्याहृतान् यः कृष्णः कंजभुवा ब्रह्मणा दृशा दृष्टया अजिग्रहत् ग्राहयामास । हे सखे । अग्रे स्पष्टम् ॥ [श्रृ ० -] सा मानिनी स्त्री कंजानि कमलानि भवन्त्यस्या इति कंजभुवा रसिकरञ्जनम् । १३९ कमलपरम्पराजनितयारुणया दृशा त्वा त्वां अयो लोहं अजिग्रहत् । लोहितदृ - ष्टिच्छलात्फालमेव ग्राहयामासेत्यर्थः । अतस्तत्फलनिभारुणदृष्टिग्रहेण शुद्ध एव स्वमपि तस्याश्चरणारविन्दे भजन्तममन्दमानन्दं भजेः॥ सर्वत्र साक्षिभावं कलयन्ती सपदि शर्म संदधती । संमोहयति मनो मे मूर्तिर्गोपालवंशजन्मापि ॥ ११२ ॥ सर्वेति । [वै०-] नन्दगृहजातापि कृष्णमूर्तिः परब्रह्ममयी मे मनः संमोहयति ध्याने मुग्धं करोति । कीदृशी । सर्वत्र क्षेत्रे साक्षिभावं कलया- न्ती । सपदि शर्म यच्छन्ती । [श्रृ ० -- ] सा स्त्री सर्वत्र अक्ष्णोर्भावं कलयन्ती सपदि शर्म यच्छन्ती आभीर्यपि मूर्ति, मनः संमोहयति ॥ निवसति हृदये स मेघरूपो न तदुपपत्त्यवलम्बि कृत्यमन्यत् । अत उचितमिहैतदेव यत्तत्सुदृढनियन्त्रणमन्तरङ्गसाध्यम् ॥ ११३ ।। निवसतीति । [वै ० ---] मेघरूपो मेघश्यामः कृष्णो हृदये निवसति । तस्य उपपत्तिः प्राप्तिस्तदवलम्बि नान्यत्कृत्यम् । अस्तीति शेषः । अत इहैत- देवोचितं यदन्तरङ्गसाध्यं मनःकार्य तस्य विष्णोः सुदृढ़ नियन्त्रणम् । मनसि दृढ़तया विष्णुः स्थाप्य इति ॥ [श्रृ ० --] अधरूपः पापरूयोऽपराधरूपो वा स पुमान् मे हृदये वसति स चासावुपपतिर्जारस्तदवलम्बि अन्यत्कृत्यं कर्तव्यं न । अत इहैतदेवोचितं यत्स्वान्तरङ्गेण हृदयेन गुह्यप्रदेशेन वा साध्यं तस्स सुदृढनियन्त्रणमिति ॥ असत्यमेतद्विदितं समस्तमकार्यकारीति मृषा प्रपञ्चः। कुचापलापक्रममेव कर्तुमाच्छादनं ते हृदयस्य शश्वत् ॥ ११४ ॥ असत्यमिति । [वै०-] एतद्विश्वं समस्तं असत्यं विदितं ज्ञातम् अकार्य- कारि अर्थक्रियाकारि न भवति । अयं प्रपञ्चो मृषा मिथ्या। कुत्सितं चापलं चपलत्वमेव अपक्रममन्यायं कर्तुं ते हृदयस्य शश्वत् निरन्तरमाच्छादनमिति । [श्रृ ० -] एतच्चयोक्तम् असत्यं मिथ्या । समस्तं विदितं स्वचरितं सर्व ज्ञातम् । अकारि अकारीति प्रपञ्चो मृषा । एतावत्परिणामौ कुचाविति कोऽपि १४० काव्यमाला। न चेत्त्विति कुचयोरपलापक्त्रममेव कर्तुं ते शश्वत् हृदयाच्छादनं न तु मृषा- वादेन स्वाभिप्रायगोपनमपि कर्तुमिति ।। नानाबन्धप्रभेदे प्रथमकलितहृत्कञ्चुकग्रन्थिभेदै- रत्यन्तानन्दमन्दीभवदपरमिदं नित्यमात्मानमीहे । स्मारं स्मारं भवाम्भोनिधिमधिकतया दुस्तरं निस्तरीतुं नान्यं पश्याम्युपायं कमपि तदितरं सत्स्वरूपोपलब्ध्यै ॥११५॥ नानेति । [ वै०-] नानाविधा ये बन्धप्रभेदाः कामक्रोधादयस्तत्र प्रथ- मकलिता ये हृत्कञचुकस्याहंकारस्य ग्रन्थेर्भेदा विदारणानि विमोचनानि तैर- त्यन्तानन्देन मन्दीभवन्ती अपरभिदा प्रपञ्चभेदो यत्र तमेवंविधं नित्यमात्मानं ब्रह्म ईहे वाञ्छामि । भवाम्भोनिधिं स्मारं स्मारं अधिकतया दुस्तरं निस्तरीतुं तदितरमुपायं न पश्यामि । सत् सत्तामात्रं यत्स्वरूपं तस्योपलब्ध्यै ॥ [श्रृ ०--] अहं नित्यं प्रत्यहं नानाप्रकारा बन्धभेदा यत्रैवंविधे सुरते प्रथममादौ कलिताः कृता ये कञचुकस्य कूर्पासस्य अन्थीनां भेदा विमोच- नानि तैरत्यन्तं य आनन्दस्तेन मन्दीभवन्ती अपरभिदा अन्यभेदो यत्र तथा- विधमात्मानं वाञ्छामि । अरं शीघ्रं स्मारं स्मरसंबन्धिनं दुस्तरं भवाम्भो- निधिं निस्तरीत्तुं तदितरमुपायं न पश्यामि स्म नापश्यम् । कस्यै । सत्स्वरूपं यस्यास्तस्याः सुन्दर्या उपलब्ध्यै प्राप्त्यै ॥ काश्यामाकृतिमीशितुर्न लभते हृद्याहितातत्त्वधी- र्यस्य श्रीरिव साभवत्प्रियतमा या सर्वदाराधिका । शश्वत्तद्रतचेतसस्तव पुरापुण्यान्यगण्यानि य- द्ब्रह्माद्वैतसुखेऽपि तद्भजनतो मन्दादरं ते मनः ॥११६॥ काश्यामिति । [वै०--] काश्यां हृदि आहिता अतत्त्वधीर्येनैवंविध ईशि- तुः शिवस्याकृतिं विश्वेश्वरादिशिवलिङ्गमूर्तिं न लभते न प्राप्नोति । यस्य शिवस्य का सा प्रियतमा अतिशयेन प्रियाभवत् श्रीरिव या सर्वदा आराधि। लोकैरिति शेषः । शश्वत्सदा तत्र शिवे रतं रक्तं चेतो यस्यैवंविधस्य तव पुरा- पुण्यानि पूर्वजन्मकृतानि अगण्यानि गणयितुमशक्यानि । यद्यस्माध्देतोर्ब्र- ह्याद्वैतसुखेऽपि तद्भजनतस्ते मनो मन्दादरम् । अस्तीति शेषः । विष्णुपक्षे वा रसिकरञ्जनम् । १४१ हृदि आहिता आरोपिता हृद्या मनोहरा, हिता इष्टा, का तत्वबुद्धिरीशितुः कृष्णस्य भगवतः श्यामाकृतिं गोपालमूर्तिं न लभते । अपि तु लभत एव । तस्वबुद्ध्या सांख्योक्तानां पञ्चविंशतितत्त्वनां गणनायां प्रसक्तया मत्या षडविं- शको विष्णुरिति षड्विंशत्वेन लभ्येतैव । यस्य कृष्णस्य या राधिका सा श्रीर्ल- मीरिव प्रियतमा अभवत् । अग्रे समानम् ॥ [श्रृ ०- ] हृदि हृदये वक्षसि आरोपिता तस्य पुरुषस्य भावस्तत्त्वं तत्र धीर्बुद्धिर्यस्याः पुरुषायितुमनाः ईशितु: प्रियस्य कृतिं प्रियकर्तृकरतच्यापारं तद्वत्स्वयमेव का श्यामा षोडशवार्षिकी युवतिर्न लभते । अपि तु लभत एव । यस्य भगवतः श्रीरिव लावण्येन युवतिर्भवतः प्रियतमा अतिशयेन प्रिया । या सर्वेभ्यो दारेभ्योऽधिका शश्वत्तस्या रते चेतो यस्य तदासक्तचित्तस्य वा तव पुरापुण्यानि अगण्यानि । यद्यतस्तस्या भजनतो ब्रह्मानन्देऽपि मनो मन्दादरम् ॥ यदस्ति मे किंचन तत्समस्तं दास्यामिहास्यामितरेयमेवम् । अकिंचनासत्तिजुषो न लज्जा भवेद्धनं तन्न समर्पितं चेत् ।।११७॥ यदिति । [ वै०-] यत्किंचन मेऽस्ति धनदारादिकं तत्समस्तं दास्यामि, हास्यामि त्यक्ष्यामि । एवं सति तरेयम् । संसारसिन्धुमित्यर्थः । तद्धनं चेस्र समर्पितं तदा अकिंचनानां निष्परिग्रहाणां विरक्तानामासत्तिं सेवमानस्य मॆ लज्जा न भवेत् । अपि तु भवेदेव ।। [श्रृ ०- ] इह मे यत्किंचनास्ति द्रव्यादिकं तत्समस्तं अस्यां वास्याम् । इतरा इयं स्त्री ऊढा एवमकिंचनैव तिष्ठति । तत्तस्माद्धनं न समर्पितं चेत् तदा अकिंचनाया ऊढाया आसत्तिं सेवमानस्य मे लज्जा न भवेत् , अपि तु भवेदेवेति काकुः । इदानीमूढाप्युपभोगक्षमा वृत्ता । तस्मादियदवधि उप- भुज्यमानदासीहस्तस्थं द्रव्यं गृहीत्वाभरणादिदानेनेयमपि संमाननीयेति ।। सपटघटसमस्तन्यायतत्त्वोल्लसद्दृ- ग्विरचितविविधात्मप्रक्रियामोहितस्य । कथममिनिविशेत स्वान्तमन्यद्बुभुत्सो- स्तव नयमनयं वा वीतबुध्देविवेक्तुम् ॥ ११८ ॥ १४२ काव्यमाला। सेति । [वै०-] उदाहरणत्वेन पटघटकुलालादिसहितः समस्तो यो न्यायो न्यायशास्त्रं तस्य यत्तत्वं साधर्म्यवैधर्म्यदिना प्रमाणादिषोडशपदार्थ- विवेचनं तन्नोल्लसन्ती या दृग् दृष्टिर्बुद्धिस्तया विरचिता या विविधानां नाना- विधानामात्मनां प्रक्रिया तया भोहितस्य नयं सच्छास्त्रं अनयमसच्छास्त्रं बु- भुत्सोर्बोद्भमिच्छोर्विवेक्तुं बीतबुद्धेस्तव स्वान्तं चित्तं अन्यन्नयं वेदान्तशास्त्रं एकात्मप्रतिपादनरूपं कथमभिनिविशेत ॥ [ श्रृ ०-] सपटौ साञ्चलपरिधानौ घटसमौ स्तनौ यस्यास्तस्या आय- तत्वेन विशालत्वेन उल्लसन्ती या दृग् नेत्रं तया विरचिता या आत्मनः प्रक्रिया नानाविधो विलासस्तया मोहितस्य नयं नीतिम् अनयमनीतिं बुभुत्सोर्विवेक्तुं वीतबुद्धेस्ते स्वान्तमन्तः कथमन्यत्पदार्थमभिनिविशेत ॥ श्रुतो जगति योधरो मधुपवर्गवर्णोद्धृतेः स मेऽतिरुचिरो हृदि स्फुरति साधु गोवर्धनः । द्विजातिपरिशीलनक्रमविदा मयासाद्यते सविद्रुमरुचिः स्फुरन्मृदुपलामृतश्रीधरः ॥ ११९ ॥ श्रुत इति । [वै०-] मधुपवर्गस्य भ्रमरसमूहस्य वर्ण इव वर्णो यस्य स चासुदेवम्तेनोद्धृतेरुद्धरणादुत्पाढ्योन्नयनाज्जगति विश्रुतः ख्यातो यो धरः पर्व- तो गोवर्धनः अतिरुचिरोऽतिमनोज्ञः स मे हृदि साधु यथा स्यात्तथा स्फु- रति । अतो द्विजातीनां ब्राह्मणादीनां परिशीलनक्रमविदा यात्राक्रमज्ञेन मया आसाद्यते आसादयिप्यते । कीदृशः । वीनां पक्षिणां द्रुमाणां या रुचिस्तत्स- हिता स्फुरन्ती या मृदः, उपलानाम् , अमृतस्य जलस्य च श्रीः शोभा तां धारयतीति तथा । ततो मयावश्यं गन्तव्य इति । [श्रृ ० -] योऽधरोऽधरोष्ठः श्रुतो जगति मधु, संसारे मधुस्वरूपः । प- वर्गवर्णानां पफबभमानामुद्धृतेरूच्चारणाद् गोवर्धनो वचनवर्धनशीलः । अति- रुचिरो मम हृदि साधु सम्यक्प्रकारेण स्फुरति । द्विजानां दन्तानामतिपरि- शीलनं मणिमालादिनामकक्षतदानं तत्क्रमज्ञेन मया सोऽधर आसाद्यते प्राप्य- ते। कीदृशः । विद्रुमस्य प्रवालस्य रुचिरिव रुचिर्यस्य स्फुरन्ती स्फुटीभवन्ती मृदुनि पले मांसे अमृतश्रीस्तां धारयतीति ॥ रसिकरञ्जनम् । यासौ संसृतिनिर्वृतिस्थितिरतिक्लिष्टा कुचेष्टाकृति- स्तामेवानुदिनं विचारयति यः स्यादेष दोषानुगः । अस्सिन्सारमते निधाय हृदयं निर्द्वन्द्वपीडः स्थिरा- मन्दानन्दचिरानुभूतिरभजद्योगेन सद्यः फलम् ॥ १२०॥ येति । [वैः -] या असौ संसृतिनिर्वृतेः संसारसुखस्य स्थितिः अति- किल्ष्टा क्लेशानुषङगवती । कुत्सिता या चेष्टा तस्कृतिः पश्चादिसाधारणरतजन्या तामेव योऽनुदिन विचारयति एष पुमान् दोषानुगो रागादिदोषकिंकरः स्यात् । अयं पुमानस्मिन् सारमते सारभूते मते योगाभ्यासलक्षणे हृच्चित्तं निधाय निर्गता द्वन्द्वपीडा शीतोष्णादिबाधा यस्मादेवंविधः सन् स्थिरामन्दानन्दस्य जह्वावाप्तिसुखस्य चिरमनुभवो यस्यैवंविधो योगेन सद्यः फलमभजत् ॥ [ श्रृ o.-] यासी स्त्री संसारसुखस्थानरतिक्लिष्टा कुचाभ्यामिष्टा मनोज्ञा आकृतिराकारो यस्यास्तामेव योऽनुदिनं विचारयति एष पुमान् दोषा रात्रि- स्तदनुगलदनुसरणशीलः स्यात् । सा स्त्री अस्मिन्पुंसि रमते । किं कृत्वा । हृद्धृदयं मनो वक्षो वा निधाय । अयं पुमान्नितरां द्वन्द्वस्यार्थात्कुचयुग्मस्य पीडा यस्मात् सः । तथा स्थिरा अमन्दानन्दस्याधिकसुखस्य चिरमनुभूतिर्य- स्यैवंविधो योगेनास्याः संबन्धेन सद्यः फलमभजदिति ॥ वसन्ते संजाते धरणिभृदपत्योत्सवविधा. वसावङ्गीकुर्यान्नवरणमनङ्गस्य भवतः । विहायेहान्येहां कलितसुमना माधवपदे विधेहि खं धीरं प्रथममथवेदं कथय नः ॥ १२१ ॥ वसन्त इति ।[वै०--- ] वसन्ते संजाते चैत्रे समागते धरणिभृतो हिम- वतोऽपन्यस्य दुर्गाया उत्सवविधौ असौ यजमानः अनङ्गस्य अङ्गदीनस्य ने वग्णं नाङ्गीकुर्यात् तसान्मदुक्तं श्रृणोषि चेत्तद्वाहमुपदिशामि । इहोत्सचे अ- न्येहां द्रव्यप्राप्तिवाञ्छां विहाय माधवस्य कृष्णस्य पदे कलितं स्थापितं सुष्ठु मनो येनैवंविधः सन् प्रथममादौ स्वमात्मानं धीरं विधेहि । अथानन्तरं नोऽ- स्मम्यं वेदं कथय विष्णुप्रीत्यै अस्मदग्रे वेदपाठं कुर्विति ।। १४४ काव्यमाला। [श्रृ ०] असौ स्त्री वसन्ते वैशाखे प्राप्ते धरणिभृतो राज्ञो यदपत्यं कन्या तदुत्सवविधौ तद्विवाहसंर्दे भवतस्ते अनङ्गस्य कामस्य नवरणं नूत- नरतमङ्गीकुर्यात् । इह प्रसङ्गे अन्यस्यामीहां स्पृहां विहाय माधवपदे वसन्त- स्थाने उपवनादौ कलिता दृष्टाः सुमनसो नानाकुसुमानि चित्तविक्षोभहेतु- भूतानि येन एवंविधस्त्वं स्वमात्मानं प्रथममादौ धीरं विधेहि । अथवा इदं स्वमतं नः कथयेति ॥ प्राज्ञैरनन्तपथपान्यतयासितव्यं नैवान्यथा भवति कामनयोपयोगः । तन्मृम्यतामिह परत्र च सारसाक्षी यागोपि दिव्यसुखहेतुरमानि मान्यैः ॥ १२२ ।। प्राज्ञेति । [वै०--] अनन्तपथं विष्णुमार्गं पान्थत्वेन प्राज्ञैः सुबुद्धिभिः स्थेयम् । अन्यथा कामनया नानाविधया उपयोगः फलसंबन्धो न भवति । सर्वस्यापि नश्वरत्वात् । तत्तर्हि इह संसारे परत्र परलोके च सारे स्थिरांशे साक्षी तदनुभववान् मृग्यतामन्विष्यताम् । स एव सारं वक्ष्यति । यागोऽपि मान्यैर्मन्वादिभिर्दिव्यसुखहेतुत्वेन अमानि अनुमतः ।। [श्रृ ० -] प्राज्ञैश्चतुरैरनन्ता अपरिमिता ये पन्थानस्तत्र पान्थत्वेन संच- रणशीलत्वेन स्थातव्यम् । अनेकानुसंधान विधेयमित्यर्थः । तत्तस्मादिहात्र परत्रान्यत्र वा अन्न नगरे नगरान्तरे वा सारसाक्षी पद्माक्षी मृग्यतामन्वि- प्यताम् । यत्र कापि या मान्यैर्महद्भिः क्षत्रियादिभिरगोपि रक्षिता दिव्य- सुखहेतुरमानि ॥ सुखं सारत्यागः कलयतु समेत्य द्विजपदा- न्यसौ मामेत्यद्य श्रुतिमधुरवाचाहृतमनाः । सदाम्नायार्थेनाधिकसुरभिणैक्यस्थिरमतिः प्रपञ्चं पञ्चानां न खलु मनुते सत्यमधुना ॥ १२३ ।। सुखेति । [वै०--] द्विजपदानि ब्राह्मणस्थानानि समेत्य गत्वा सारत्या- गो यस्य सद्ययशीलः असौ दाता सुखं कलयतु सुखी भवतु । अद्य श्रुत्या वेदेन मधुरवाचा मधुरवेदपाठेन हृतचित्तो मामेति प्राप्नोति । त्वयापि तद्द्त्तं रसिकरञ्जनम् । १४५ प्रायमेवेत्यत आह-सदा अधिकसुरभिणा अतिप्रसिद्धेनानायार्थेनैक्ये जीव- ब्रह्माभेदे स्थिरा मतिर्यस्यैवंविधः पुमानस्मदादिः पञ्चानां भूतानां प्रपञ्चं देह- मपि खलु निश्चयेन अधुना सत्यं न मनुते । किं पुनर्धनादिकमिति ॥ [श्रृ ॰-] सासौ सेयं स्त्री अद्य द्विजपदाले दन्तक्षतान्मणिमालादि- प्रभेदान्समेत्य मा मा इति श्रुतिमधुरवाचाहृतमना रत्यागः सुरतापराधं सुख- मेव कलयतु जानातु । अधिकं सुरभिणा कर्पूरकस्तूरीचन्दनताम्बूलादिना स- दाम्ना समाल्येन मत्प्रेषितेन ऐक्ये मया सहाभिन्नभावे स्थिरा मतिर्यस्या एवं- विधा या पञ्चानां दूतीसख्यादीनां प्रपञ्चं कल्पितविघटनोपायं अधुना खलु निश्चयेन सत्यं न मनुते । ततः प्रसन्ना मम मनोरथं पूरयिष्यतीति ॥ ज्योतिर्मन्ये त्रिनेत्रोद्भवमिह विहरत्कामिचकार्तिदं य- द्रत्याः पत्याथ सद्यः प्रकटितमधिकं पाटवं खात्मभूतेः । एतस्यालोकतोऽमी वयमपहृतहृत्तापतामाप्तवन्तः संतुष्टाः प्रोषितस्त्रीरतिसुखमनसो दुस्तरं निस्तरेम ॥ १२४ ॥ ज्योतिरिति । [ वै ॰-] विहरतः क्रीडतः कामिचक्रस्त्र या अतिर्मनःषी- डा तत्पदं त्रिनेत्रोद्भवं ज्योतिः शिवतृतीयलोचनतेजो मन्ये । यत्तेजः प्राप्य रत्याः पत्या कामेन सद्यः स्वात्मनः स्वशरीरस्य भूतिर्भस्म तस्या अधिकं पाटवं सामर्थ्यं प्रकटितम् । अमी वयमेतस्य शिवदृग्वहिपाटवस्यालोकतो दर्शनादप- हृतहृत्तापत्वं प्राप्तवन्तः संतुष्टाः प्रोषितं दूरे गतं स्त्रीरतिसुखे मनो येषामेव- विधाः सन्तो दुस्तरं संसारसमुद्रं निस्तरेम । भस्मीभूतात्कामात्कामी (?) । अतः कथं संसारसिन्धुं न तरेम ॥ [ श्रृ ॰-] अन्नेर्नेन्नादुद्भूतं ज्योतिश्चन्द्रलक्षणमिह विहरतां कामिनां चक्राणां चक्रवाकाणां मनः पीडाप्रदं मन्ये । यज्योतिश्चन्द्ररूपमवाप्य स- द्य:कामेन स्वात्मनो भूतेरैश्वर्यस्याधिकं पाटवं प्रकटितम् । एतस्य चन्द्रस्या- लोकतो दर्शनाच्चन्द्रिकाया वा अमी वयमपहृतहृत्तापत्वं प्राप्तवन्तः संतुष्टाः प्रोषितानां परदेशं गतानां या स्त्रियस्तद्रगतिसुखे मनो ये षामेवंविधाः सन्तो दुस्तरं काम निस्तरेम । चन्द्रााद्युद्दीपनदर्शनेनाधिककामवेगाद्वयं विदेशस्थ- वधूसमागमेन क्लृप्लेन सुखिनः स्यामेति ॥ १.चतु ॰ १४६ काव्यमाला। हित्वा तामसतां मनोरथमितां मत्वा कुचेष्टास्थितिं नार्यासत्तिमुपेक्ष्य तां नय निजां नो मुञ्च सीमामपि । भ्रातस्ते भ्रमतः कदापि न भवेदद्वैतसंविद्भवे तस्माद्विस्सर न स्मराहितपदद्वन्द्वानुरागक्रमम् ॥ १२५ ॥ हित्वेति । [ वै ॰] कुत्सिता चेष्टा यस्यामेवंविधा स्थितिर्यस्था एवं - विधां मत्वा मनोरथैरभिलाषैर्युक्तां तामसत्वं तामसत्वं हित्वा त्यक्त्वा आर्याणां सजनानां आसत्तिं नोपेक्ष्य तां सतामासत्तिं निजां सीमां मर्यादां नय । नो मुञ्च न त्यज । हे भ्रातः, भवे संसारे भ्रमतः संचरतो भ्रमयु- क्तस्य वा भ्रमाद्वा तेऽद्वैतबुद्धिः कदापि न भवेत् । तस्मात् स्मराहितः शिव- स्तस्य पदद्वन्द्वेऽनुरागक्रमं न विस्सर । यथा शिवचरणद्वयेऽनुरागो भवति तथा कुरु तत एव ते ज्ञानं भवेत् ॥ [श्रृ ०-] असतां विटानामन्येषां मनोरथमभिलाषं प्राप्तां कुचाभ्या- मिष्टा स्थितिर्यस्या एवंविधां तां नारीणामासत्तिमुपेक्ष्य तां प्रसिद्धा पूर्वोप- भुक्तामन्यैर्विटैरज्ञातां निजां स्वकीयामेव नय । सीमां मर्यादामपि नो मुञ्च । यद्वा इमामपि नो मुञ्चसि पराभिलाषविषयानेकनारीप्रत्यासत्तिमिच्छोरिमामपि न त्यजतस्ते हे भ्रातरद्वैतबुद्धिर्भचे संसारे न कदापि भवेत् । इतस्ततो गम- नेन द्वैतबुद्धिरेव भवेत् । एकावलम्बनेन द्वैतधीर्न स्यात् । तस्मादहितो यः पदद्वन्द्वे स्थलद्वयेऽनुरागक्रमस्तं न स्सर । किं तु विस्सर । यद्वा स्मरेणाहितो यः पदवन्देऽनुरागक्रमस्तं न विस्मर । संततं स्थलद्वयानुरागविशेष स्मरेति ।। रामेतिनामस्मृतिरप्यमन्दमानन्दमाधाय सुधामयीह । मृतायमानेऽप्यमृतायमाना व्यनक्ति साक्षादमृतात्मतां यत् ॥ १२६॥ रामेति । [ वै ०-] इह संसारे राम इति नाम्नः स्मृतिरप्यमृतमयी अ- मन्दमधिकमानन्दमाधाय मृतायमाने चरमावस्थां गतेऽपि अमृतायमाना मोक्षवदाचरन्दी साक्षादव्यवधानेन नित्यमुक्तात्मलाभलक्षणं मोक्षरूपत्वं व्यनक्ति प्रकटयति । अन्ते रामस्मरणेन मुक्तः स्यादिति ॥ [ श्रृ ॰-] रामा स्त्री इति नाम्नः स्मृतिरपि सुधा अमृतम् इह मयि मृ - तायमानेऽपि अमृतायमाना साक्षादमृतात्मतां जीवतो भावं व्यक्तीति । रसिकरञ्जनम् । इच्छेत्परमनुसतु प्रतिमासंदर्शनेन विशदरुचिः । अनवाप्य येनयोग भवतो हृदये परं निधीयेत ॥ १२७ ।। इच्छेदिति 1 [वैः जगन्नाथप्रयागमाधवबदरीनारायणादीनां विष्णु- प्रतिमानां तत्र तत्र क्षेत्रे संदर्शनेन विशदा निर्मला रुचिर्यस्यैवंविधः पुरुष- स्तत्तत्तीर्थविष्णुमूर्तिदर्शननिष्पापः परं परमात्मानं प्रकृतेः परत्वान्निराकारम् अनुसर्तुमिच्छेत् । साकारस्य प्रतिमां दृष्ट्वा निर्मलकान्तिः पुमान् निराकारस्यानु- सरणं कर्तुमिच्छेत् । येन पुंसा योग समाधिमनवाप्य भवतः संसारात् अपरं न परं संसारमनतीतं साकारमेव ब्रह्म हृदये निधीयेत स्थाप्येत । योगाभ्या- सस्य सिद्धौ प्रकृतेः पर आत्मा लभ्येत । तदसिद्धौ प्रतिमादिरूपसाकारात्मैव हृदये स्थाप्यते तत एव तदपि सिध्यतीति ।। श्रृ] प्रतिमासं मासं मासं प्रति दर्शनेन अर्थाहतोः ऋतुमनु ऋतुं लक्ष्यीकृत्य सा ते प्रतिवेशिनी विशन्ती अरुचिर्यस्या एवंविधा सती परं पुरु- षमिच्छेत् । अनुमासमृतुदर्शनेन दुःखमनुभवन्ती परपुरुषेच्छां कुर्यादेच । कथमित्यत आह-या इनस्य स्वामिनो भर्तुर्योगं विना परं केवलं भवतस्तव हृ- दये निधीयेत निधिरिवाचरेत् । तत्प्रतिवेशितया तवैव निधिवल्लाभो भवेदिति ॥ अध्यास्य सौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः । मान्यः स एव हृदि मे गौरी वामाङ्गमाश्रिता यस्य ॥१२८॥ अधीति । [वै०--] मौक्तिकवद्रुचिरं स्निग्धं सौरभेयं वृषमध्यास्य आरुह्य गणेषु प्रमथेषु विहिता कृता गतिर्गमनं येन । यस्य वामाङ्गे गौरी आश्रिता स सदाशिव एव हृदि मान्यः । अन्यो मास्तु, स एव शिवो हृदि मेऽस्त्विति वा॥ (श्रृ] आस्यं मुखमधिकृत्य अध्यास्यं सौरभं परिमल: कमलादीना- मिव यस्याः । सेयं पद्मिनी मौक्तिकरुचिः स्निग्धा देदीप्यमाना यस्याः । अङ्ग- णेषु विहिता गतिर्यया अङ्गणमानरिङ्गणशीला । सुकुमारत्वात् गौरी गौराङ्गी वामा स्त्री यस्य पुरुषस्याङ्गमुरःस्थलादिकमाश्रिता स एव मे हृदि मान्य इति पक्षद्वयेऽपि सुधीभिः पदच्छेदभेदेनार्थविशेष ऊहनीयः ।। १४८ काव्यमाला। शृङ्गारे वैराग्ये व्यधायि सद्यः स्फुरत्समग्रार्थम् । श्रीरामचन्द्रकविना काव्यमिदं रसिकरञ्जनं नाम ।। १२९ ॥ शृङ्गारेति । स्पष्टोऽर्थः ॥ प्रख्यातो यः पदार्थैरमृतहरिगजश्रीसखैः श्लोकशाली स्फीतातिस्फूर्तिरुद्यद्बुधमुदनुगिरं क्षीरधी रामचन्द्रः। भ्रान्तोऽस्मिन्मन्दरागः फणिपतिगुणभृज्जातु मज्जेत्कथं न स्यादाधारोऽमुना चेदिह न विरचितः श्रीमता वाङ्मुखेन ॥१३०॥ प्रख्यात इति । अमृतं सुधा हरिगज ऐरावतस्तयोर्या श्रीस्तत्सखैर्माधुर्येण वैशद्येन चामृतैरावतशोभायुतैः पदार्थैः पदैरर्थैश्च श्लोकशाली । अतिस्फूर्तिर्यस्य प्रशस्तशब्दार्थस्फुरणवान् । अनुगिरं वाणीमनु उद्यन्ती बुधानां पण्डितानां मुद्यस्मात् क्षीरवद् धीर्बुद्धिर्यस्य क्षीरनिर्मलमतियों रामचन्द्रःप्रख्यातःप्रसिद्धः अस्मिन् रामचन्द्रे फाणपतेर्गुणं भाष्यव्याख्यानं बिभर्तीति स तथा वैयाकर- णोऽपि भ्रान्तः सन् मन्दो रागो यस्यासौ मन्दादरो जातु कदाचित्कथं न मजेत् । शृङ्गारवैराग्यरूपार्थव्याख्यायां मतिकर्दमे कथं न पतेत् । चेत् इह सपञ्चविंशति शृङ्गारवैराग्यशते अमुना रामचन्द्रेण वाङ्मुखेनार्थद्वयोपन्यासे- नाधारो न विरचितः स्यात् । एतत्कृतटीकाया आधारमप्राप्य मतिकर्दमे पते- देवेत्यर्थः ॥ रामोऽपि रामचन्द्रः । यस्माद् अमृतं, हरिरुचैःश्रवाः, गज ऐरा- वतः, श्रीलक्ष्मीः, तत्सखैः पारिजातादिभिः पदाथैः श्लोकशाली कीर्तिमान् अनुगिरं गिरि मन्दरमनुगम्य स्फीता अत्यन्तं स्फूर्तिः फेनादिना यस्य उद्यन्ती बुधानां देवानां मुत् संतोषो यस्मादेवंविधो यः क्षीरधिः असिन्क्षीरसमुद्रे फणिपतिर्वासुकिः स एव गुणो रज्जुस्तं बिभर्तीति स तथाभूतो मन्दरागो मन्दरपर्वतो भ्रान्तो भ्रमणं प्रातः जातु कदाचित्कथं न मज्जेत् । चेदिह अ- मुना अवाक् अधो मुखं यस्य कूर्मस्यैवंविधेन कूर्मरूपेण श्रीमता विष्णुना विर- चित आधारो न स्यात् । पयःपयोधिमथनप्रस्तावे क्षीरधेरधः कूर्मावतारेण हरिणा मन्दराधारभूतसूतेनाभावि ततो न तस्य मज्जनं वृत्तमिति पौराणिकी कथेति द्वितीयो ध्वनिरूपोऽरोर्थः ॥ श्रृगारवैराग्यशतं सपञ्चविंशत्ययोध्यानगरे व्यधत्त । अब्दे वियद्वारणबाणचन्द्रे (१५८०) श्रीरामचन्द्रोऽनु च तस्य टीकाम् ॥ १ संधिः कविकण्ठाभरणम् । १४९ श्रीरामचन्द्र कविना काव्यमिदं व्यरचि विरतिबीजतया। रसिकानामपि रतये शृङ्गारार्थोऽपि संगृहीतोऽत्र । इति श्रीलक्ष्मणभट्टसूनुश्रीरामचन्द्रकविकृतं सटीकं रसिकरञ्जनं नाम शृङ्गारवैराग्यार्थसमानं काव्यं संपूर्णम् ।

"https://sa.wikisource.org/w/index.php?title=रसिकरञ्जनम्&oldid=290837" इत्यस्माद् प्रतिप्राप्तम्