रससङ्केतकलिका

विकिस्रोतः तः
रससङ्केतकलिका
[[लेखकः :|]]


प्रथमः अध्यायः[सम्पाद्यताम्]

शिवं नत्वा रसेशं चामुण्डः कायस्थवंशभूः ।
करोति रससंकेतकलिकामिष्टसिद्धिदाम् ॥ १.१ ॥

<मेर्चुर्य्:: म्य्थ्. ओरिगिन्>
स्कन्दात्तारकहिंसार्थं कैलासे विधृतं सुरैः ।
रते शम्भोश्च्युतं रेतो गृहीतमग्निना मुखे ॥ १.२ ॥
क्षिप्तं तेन चतुर्दिक्षु क्षाराब्धौ तत्पृथक्पृथक् ।
सौम्यादिदिक्त्रयस्थं यद्गौरीशापान्न कार्यकृत् ॥ १.३ ॥
पश्चिमायां विमुक्तं तत्सूतोऽभूत्सर्वकार्यकृत् ।

<मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्, चस्ते>
श्वेतारुणहरिद्राभकृष्णा विप्रादिपारदाः ॥ १.४ ॥
देहे लोहे गदे पिष्ट्यां योज्या वा स्वस्वजातिषु ।

<रसदोषाः>
तेषु नैसर्गिका दोषाः पञ्च सप्ताथ कञ्चुकाः ॥ १.५ ॥
मलाद्याः पञ्च दोषाः स्युर्भूजाद्याः सप्त कञ्चुकाः ।
कुष्ठादीन् हि प्रकुर्वन्ति रसस्था द्वादशैव ते ॥ १.६ ॥

<१८ संस्कारस्>
तेनाष्टादशसंस्कारा उक्ता ज्ञैर्दोषमुक्तये ।
कर्तुं ते दुष्करा यस्मात्प्रोच्यन्ते सुकरा रसे ॥ १.७ ॥

<मेर्चुर्य्:: चोर्रेच्त्wएइघ्त्>
पलादारभ्य पञ्चाशत्पलं यावच्च पारदः ।
तत ऊनोऽधिको वापि न संस्कार्यो रसो बुधैः ॥ १.८ ॥

<संस्कार:: मर्दन>
वस्त्रे चतुर्गुणे पूतः सूतः स्थाप्यः शुभेऽहनि ।
लोहार्काश्मजखल्वे तु तप्ते चैव विमर्दयेत् ॥ १.९ ॥
निशेष्टकासुरीधूमव्योषाम्ललवणैः पृथक् ।
कालांशैर्मर्दितः सूतो भवेच्छुद्धो दिनैकतः ॥ १.१० ॥

<संस्कार:: स्वेदन>
ततः क्षाराम्लमूत्राद्यैः स्वेद्यो वस्त्रावृतो दिनम् ।

<संस्कार:: मूर्छन>
मूर्छयेत्सप्तधा पश्चात्कन्याग्न्यर्कवराम्बुभिः ॥ १.११ ॥

<संस्कार:: पातन>
त्रिधोर्ध्वपातनात्पात्यः पादांशार्कयुतः शुचिः ।

<मेर्चुर्य्:: हिङ्गुलाकृष्ट:: नत्. पुरेनेस्स्>
हिङ्गुलादुद्धृतः सूतो भवेद्वा दोषवर्जितः ॥ १.१२ ॥

<इम्पोर्तन्चे ओf जारण>
गुरुशास्त्रं परित्यज्य विना जारितगन्धकात् ।
रसं निर्माति दुर्मेधाः शपेत्तं च रसेश्वरः ॥ १.१३ ॥

<संस्कार:: जारण>
सूतं गन्धं रसैकांशं स्तोकं स्तोकं तु खल्वगम् ।
कुट्टनात्कुट्टनात्पिष्टं भवेद्वा ताम्रपात्रगम् ॥ १.१४ ॥
तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तं लोहसम्पुटे ।
पुटेद्भूधरयन्त्रे च यावज्जीर्यति गन्धकम् ॥ १.१५ ॥
एवं पुनः पुनर्देयं षड्गुणं गन्धचूर्णकम् ।
षड्गुणे गन्धके जीर्णे रसो निखिलरोगहा ॥ १.१६ ॥

<बन्ध:: सुब्त्य्पेस्>
पाटः खोटो जलौका च भस्माख्यश्च चतुर्थकः ।
बन्धश्चतुर्विधः सूते विज्ञेयो भिषगुत्तमैः ॥ १.१७ ॥
पाटः पर्पटिकाबन्धः पिष्टिबन्धस्तु खोटकः ।
जलौका पक्वबन्धः स्याद्भस्म भस्मनिभो भवेत् ॥ १.१८ ॥

<मेर्चुर्य्:: भस्मन्:: सुब्त्य्पेस्>
सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च ।

<ऊर्ध्वभस्मन्:: प्रोदुच्तिओन्>
ऊर्ध्वभस्मकरं यन्त्रं स्थालिकासम्पुटं शृणु ॥ १.१९ ॥
कार्यं स्थालीद्वयं मध्ये सर्वतः षोडशाङ्गुलम् ।
लवणेनेषदार्द्रेणापूर्य स्थालीमधोगताम् ॥ १.२० ॥
संधिं वस्त्रमृदा लिम्पेत्संपुटीकृत्य चान्यया ।
त्रिद्वारचुल्ल्यां संस्थाप्य चतुर्यामं दृढाग्निना ॥ १.२१ ॥
पचेत्तत्स्वाङ्गशीतं वै ह्युद्धृत्य लवणं त्यजेत् ।
लावणीमूर्ध्वगां कृत्वा क्षेप्योऽन्यस्यां रसेश्वरः ॥ १.२२ ॥
पूर्ववत्संपुटीकृत्य पश्चात्तु चुल्लके न्यसेत् ।
दृढं कृत्वालवालं तु जलं तत्र विनिक्षिपेत् ॥ १.२३ ॥
उष्णं पुनः पुनस्त्यक्त्वा क्षिपेच्छीतं मुहुर्मुहुः ।
त्रिद्वारे काष्ठमेकैकं दीर्घं हस्तमितं क्षिपेत् ॥ १.२४ ॥
हस्तवत्पिण्डमानं तु ह्यादौ प्रज्वालयेत्सुधीः ।
द्वे द्वे काष्ठे च तस्योर्ध्वं तदूर्ध्वं त्रितयं क्षिपेत् ॥ १.२५ ॥
यावद्यामद्वयं पश्चादङ्गारांश्च जलं त्यजेत् ।
ऊर्ध्वस्थाल्यां तु यल्लग्नं तदूर्ध्वं भस्म सिद्धिदम् ॥ १.२६ ॥

<मेर्चुर्य्:: तलभस्मन्:: प्रोदुच्तिओन्>
गन्धकं धूमसारं च शुद्धसूतं समं त्रयम् ।
यामैकं मर्दयेत्खल्वे काचकूप्यां विनिक्षिपेत् ॥ १.२७ ॥
रुद्ध्वा द्वादशयामं तद्वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वाङ्गशीतं च तदूर्ध्वं गन्धकं त्यजेत् ॥ १.२८ ॥

<तलभस्मन्:: मेदिच्. प्रोपेर्तिएस्>
तलभस्म भवेद्योगवाहि स्यात्सर्वरोगहृत् ।
औषधान्तरसंयोगाद्वक्ष्ये वर्णविपर्ययम् ॥ १.२९ ॥
रक्तं पीतं तथा कृष्णं नीलं च पाण्डुरारुणम् ।

<रक्तभस्मन्>
निर्गुण्डीरससंयुक्तं चपलेन समन्वितम् ॥ १.३० ॥
रक्तवर्णं भवेद्भस्म दाडिमीकुसुमोपमम् ।

<पीतभस्मन्>
भूधात्रीहस्तिशुण्डीभ्यां रसं गन्धं च मर्दयेत् ॥ १.३१ ॥
काचकूप्यां चतुर्यामं पक्वः पीतो भवेद्रसः ।

<कृष्णभस्मन्>
सूतं गन्धकसंयुक्तं कुमारीरसमर्दितम् ॥ १.३२ ॥
कृष्णवर्णं भवेद्भस्म देवानामपि दुर्लभम् ।

<श्याम-।नीलभस्मन्>
वाराहीकन्दसंयुक्तं रसकेन समन्वितम् ॥ १.३३ ॥
श्यामवर्णं भवेद्भस्म वलीपलितनाशनम् ।

<पाण्डुरारुणभस्मन्>
लवणान्तर्विलिप्तायां कूप्यां स्यात्पाण्डुरारुणम् ॥ १.३४ ॥

<मेर्चुर्य्:: मारण>
लवणाद्विंशतिर्भागाः सूतश्चाथैकभागिकः ।
काञ्जिके मर्दयित्वाग्नौ पुटनाद्भस्मतां व्रजेत् ॥ १.३५ ॥
उद्धृत्यान्यं रसं क्षिप्त्वा यथेच्छं मारयेद्रसम् ।
एवं ताम्राहिवङ्गाभ्रं मारितं स्याद्गुणप्रदम् ॥ १.३६ ॥
तदम्बुपूरिते पात्रे स्थाप्यं यामाष्टकं शनैः ।
त्यक्त्वा तोयं रसो ग्राह्यः पात्रस्थो भस्मसूतकः ॥ १.३७ ॥

<मेर्चुर्य्:: मारण>
मूषाद्वयमपामार्गबीजचूर्णैः प्रकल्पयेत् ।
पारदं तत्पुटे कृत्वा मलयूरसमर्दितम् ॥ १.३८ ॥
द्रोणपुष्प्याः प्रसूनानि विडङ्गमरिमेदकः ।
चूर्णमेषामधश्चोर्ध्वं दत्त्वा मुद्रां प्रकल्पयेत् ॥ १.३९ ॥
विधाय गोलकं सम्यङ्मृन्मूषासम्पुटे क्षिपेत् ।
शोषयेन्मुद्रितं कृत्वा पचेद्गजपुटे ततः ॥ १.४० ॥
पारदो भस्मतामित्थं पुटेनैकेन गच्छति ।
स्वाङ्गशीतं समुद्धृत्य सर्वकर्मसु योजयेत् ॥ १.४१ ॥
प्रोत्तानखर्परे चुल्ल्यां स्फटिकालेपिते क्षिपेत् ।
पुनर्नवारसे पक्वो मर्दनान्म्रियते रसः ॥ १.४२ ॥

<मेर्चुर्य्:: मृत:: परीक्षा>
अतेजा अगुरुः शुभ्रो लोहहा चाचलो रसः ।
यदा नावर्तते वह्नौ नोर्ध्वं गच्छेत्तदा मृतः ॥ १.४३ ॥

<मेर्चुर्य्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
पारदः सर्वरोगघ्नो योगवाही सरो गुरुः ।
पाण्डुताकृमिकुष्ठघ्नो वृष्यो बल्यो रसायनः ॥ १.४४ ॥
सूतो धातुरसाः सर्वे जीर्णा जीर्णा गुणाधिकाः ।

<मेर्चुर्य्:: मृत:: स्तोरगे>
दन्ते शृङ्गे मणौ वेणौ रक्षयेत्साधितं रसम् ॥ १.४५ ॥
<wएइघ्तोf द्रुग्स्>
पित्तानि षोडशांशेन विषाणामपि रक्तिका ।
गुटीरसेष्वनुक्तोऽपि ज्ञेयो विधिरयं स्वयम् ॥ १.४६ ॥

<मेर्चुर्य्:: सेवन>
सर्वरोगविनाशार्थं देहदार्ढ्यस्य हेतवे ।
शुद्धकायश्च पथ्याशी सेवेत पूज्यपूजनात् ॥ १.४७ ॥
वल्लमेकं नरेऽश्वे तु गद्याणं च गजे द्वयम् ।
दत्तः सूतो हरेद्रोगान् धातुयुग्वा निजौषधैः ॥ १.४८ ॥
रसस्य विकृतौ सत्यां मूर्छा हिक्का ज्वरोऽरतिः ।
कासः श्वासो भ्रमो मोहो दाहः कम्पश्च जायते ॥ १.४९ ॥
तच्छान्त्यै बीजपूरस्य रसं शुण्ठीं च सैन्धवम् ।
पिबेद्वा गोजले सिद्धं मूलं कर्कोटजं शुभम् ॥ १.५० ॥
यत्रागारे रसाधीशः पूज्यते बहुभक्तितः ।
तदपत्यधनैः पूर्णमाधिव्याधिविवर्जितम् ॥ १.५१ ॥

द्वितीयः अध्यायः[सम्पाद्यताम्]


<षड्लोह>
हेमरूप्यार्कवङ्गाहिलोहैर्लोहाः षडीरिताः ।

<मेतल्स्:: fअच्तितिओउस्>
अकृत्रिमा इमे घोषावर्तकाद्यास्तु कृत्रिमाः ॥ २.१ ॥

<मेतल्स्:: शुद्ध, मृत:: मेदिच्. प्रोपेर्तिएस्>
शुद्धा मृता निरुत्थाश्च सर्वरोगहराः स्मृताः ।

<मेतल्स्:: इम्पुरे:: मेदिच्. प्रोपेर्तिएस्>
अशुद्धान् हीनपाकांश्च रोगमृत्युप्रदांस्त्यजेत् ॥ २.२ ॥

<मेतल्स्:: मारण:: wइथ्मेर्चुर्य्>
लोहं सूतयुतं दोषांस्त्यजेत्सूतश्च लोहयुक् ।
अतः स्वर्णादिलोहानि विना सूतं न मारयेत् ॥ २.३ ॥

<गोल्द्:: सुब्त्य्पेस्>
स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजे ।
एतत्स्वर्णत्रयं देवभोज्यं षोडशवर्णकम् ॥ २.४ ॥
खनिजं रसवादोत्थं सुपत्त्रीकृत्य शोधितम् ।
तच्चतुर्दशवर्णाढ्यं मनुजार्हं रुजापहम् ॥ २.५ ॥

<गोल्द्:: शोधन>
सुवर्णं सप्तशो वाप्यं काञ्चनाररसे शुचिः ।

<गोल्द्:: मारण>
सुवर्णे गलिते नागं प्रक्षिपेत्षोडशांशकम् ॥ २.६ ॥
अम्लेन मर्दयित्वा तु कृत्वा तस्य च गोलकम् ।
गन्धकं गोलकसमं विनिक्षिप्याधरोत्तरम् ॥ २.७ ॥
शरावसंपुटे कृत्वा संनिरुध्य प्रतापयेत् ।
त्रिंशद्वनोत्पलैरग्नौ सप्तधा भस्मतां व्रजेत् ॥ २.८ ॥

<गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
तिक्तं कषायं ज्वरहृत्स्वादुपाकं बलावहम् ।
वयोधीःकान्तिदं वृष्यं शोषालक्ष्मीविषापहम् ॥ २.९ ॥

<सिल्वेर्:: सुब्त्य्पेस्>
कैलासे सहजं रूप्यं खनिजं कृत्रिमं भुवि ।
व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णं रसे हितम् ॥ २.१० ॥

<सिल्वेर्:: शोधन>
श्वेतागस्तिरसे रूप्यं स्वर्णवच्छुचि मारणम् ।

<सिल्वेर्:: मारण>
गन्धकाम्लकसंयोगान्नागं हित्वा क्षिपेत्त्रपु ॥ २.११ ॥
वयःशुक्रबलोत्साहकरं सर्वामयापहम् ।

<गोल्द्, सिल्वेर्:: परीक्षा:: मृत>
एतद्भस्माम्ललिप्तोऽसिस्ताम्रवर्णस्तदा मृतिः ॥ २.१२ ॥
सुवर्णमथवा रूप्यं योगे यत्र न विद्यते ।
तत्र कान्तोद्भवं लोहं क्षेप्यं तैस्तत्समं गुणैः ॥ २.१३ ॥

<चोप्पेर्:: सुब्त्य्पेस्>
द्व्यर्कौ नेपालम्लेच्छौ तु रसे नेपाल उत्तमः ।

<नेपाल:: फ्य्स्. प्रोपेर्तिएस्>
घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः ॥ २.१४ ॥

<म्लेच्छ:: फ्य्स्. प्रोपेर्तिएस्>
म्लेच्छस्तु क्षालितः कृष्णो रूक्षः स्तब्धो घनासहः ।
मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ॥ २.१५ ॥

<चोप्पेर्:: दोषस्>
ताम्रं तु विषवज्ज्ञेयं यत्नतः साध्यते हि तत् ।
एको दोषो विषे सम्यक्ताम्रे त्वष्टौ प्रकीर्तिताः ॥ २.१६ ॥
कुष्ठं रेको वमिर्भ्रान्तिस्तापो वातश्च कामला ।
देहस्य नाशनं दोषा इत्यष्टौ कथिता बुधैः ॥ २.१७ ॥

<चोप्पेर्:: शोधन>
गवां मूत्रैः पचेच्चाहस्ताम्रपत्रं दृढाग्निना ।
वारिणा क्षालयेत्पश्चादेकविंशतिधा शुचिः ॥ २.१८ ॥

<चोप्पेर्:: मारण>
पारदं गन्धकं ताम्रं सममम्लेन मर्दयेत् ।
जायते त्रिपुटाद्भस्म वालुकायन्त्रतोऽथवा ॥ २.१९ ॥

<चोप्पेर्:: मारण>
गन्धार्कौ द्व्येकभागौ च शरावसंपुटे पुटेत् ।
स्वाङ्गशीतं च संपेष्य खल्वे वस्त्रेण गालयेत् ॥ २.२० ॥
सामुद्रं तत्समं कृत्वा पुनः पुटनमाचरेत् ।
तदेव तत्क्षये देयं सामुद्रं च पुनः पुनः ॥ २.२१ ॥
कासीसस्य जलेनैव वारं वारं तु भावयेत् ।
चतुःषष्टिपुटैरित्थं निरुत्थं योगवाहिकम् ॥ २.२२ ॥
तत्ताम्रं सौरणे कन्दे पुटेत्पञ्चामृतेऽथवा ।
अष्टौ दोषांश्च पूर्वोक्तान्न करोति गुणावहम् ॥ २.२३ ॥
हन्ति गुल्मक्षयाजीर्णकासपाण्ड्वामयज्वरान् ।
स्थौल्योदरे कफं शूलमूर्ध्वाधःशोधनं परम् ॥ २.२४ ॥

<तिन्:: सुब्त्य्पेस्>
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरकं तु गुणैः श्रेष्ठं मिश्रकं न रसे हितम् ॥ २.२५ ॥
<तिन्:: शोधन>
कन्याभृङ्गरसे वङ्गनागौ शोध्यौ त्रिसप्तधा ।
अथवा ब्रह्मवृक्षोत्थे क्वाथे निर्गुण्डिजेऽथवा ॥ २.२६ ॥

<तिन्:: मारण>
मृद्भाजने द्रुते वङ्गे चिञ्चाश्वत्थत्वचो रजः ।
क्षिपेत्तस्य चतुर्थांशं लोहदर्व्या प्रचालयेत् ॥ २.२७ ॥
यावद्भस्मत्वमायाति ततः खल्वे सतालकम् ।
ब्रह्मद्रुक्वाथकल्काभ्यां मर्द्यं गजपुटे पचेत् ॥ २.२८ ॥
पुटे पुटे दशांशांशं दत्त्वैवं दशधा पुटेत् ।
वङ्गभस्म निरुत्थं तत्पाण्डुमेहगदापहम् ॥ २.२९ ॥

<तिन्:: मारण>
करीषसंपुटे वङ्गपत्रं छागशकृद्युतम् ।
म्रियते पुटमात्रेण तन्मेहान् हन्ति विंशतिम् ॥ २.३० ॥

<लेअद्:: मारण>
वङ्गवन्नागभस्मापि कृत्वादौ तत्समां शिलाम् ।
क्षिप्त्वा तुषोदकैर्मर्द्यं दद्याद्गजपुटं ततः ॥ २.३१ ॥
षष्ट्यंशं गन्धकं दत्त्वा पाच्यं षष्टिपुटावधि ।
नागभस्म निरुत्थं तद्वङ्गभस्मगुणाधिकम् ॥ २.३२ ॥

<लेअद्, तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
मृतं वङ्गं च नागं च रसभस्म समं गुणैः ।
परस्परमलाभे च योजयेत्तत्परस्परम् ॥ २.३३ ॥

<इरोन्:: सुब्त्य्पेस्>
मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदशाः ।

<मुण्ड:: सुब्त्य्पेस्>
मृदु कुण्ठं च काण्डारं त्रिविधं मुण्डमुच्यते ॥ २.३४ ॥

<तीक्ष्णलोह:: सुब्त्य्पेस्>
खरसारं च होत्रासं तारावर्तं विडं तथा ।
कान्तं लोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥ २.३५ ॥

<कान्त:: परीक्षा>
पात्रे यस्मिन्प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारतां नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणैर्नैव चान्यत् ॥ २.३६ ॥

<कान्त:: सुब्त्य्पेस्>
कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।
चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः ॥ २.३७ ॥

<इरोन्:: शोधन>
मुण्डादिसर्वलोहानि ताम्रवच्छोधयेत्सुधीः ।

<इरोन्:: पाक>
लोहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा ।
पङ्कशुष्करसौ पूर्वौ वालुकासदृशः खरः ॥ २.३८ ॥

<इरोन्:: मारण>
लोहपत्रं गन्धलिप्तं वह्नौ तप्तं पुनः पुनः ।
क्षिपेन्मीनाक्षिकानीरे यावत्तत्रैव शीर्यते ॥ २.३९ ॥
रसहिङ्गुलगन्धेन तुल्यं तन्मर्दयेद्दृढम् ।
निर्गुण्डीवृषमत्स्याक्षीरसैर्गजपुटान्मृतिः ॥ २.४० ॥

<इरोन्:: मारण:: वारितर>
लोहचूर्णं वराक्वाथे पिण्डं कृत्वा पुनः पुनः ।
षोडशाङ्गुलमाने हि निर्वातगर्तके पुटेत् ॥ २.४१ ॥
चतुःषष्टिपुटैरेव जायते पद्मरागवत् ।
निरुत्थाम्बुतरं योगवाहि स्यात्सर्वरोगहृत् ॥ २.४२ ॥

<इरोन्:: मारण:: वारितर>
जम्बूत्वचारसे तिन्दुमार्कण्डपत्रजेऽथवा ।
त्रिसप्तधातपे शोष्यं पेष्यं वारितरं भवेत् ॥ २.४३ ॥

<इरोन्:: मारण>
चिञ्चापत्रनिभं लोहपत्रं दन्तीद्रवे क्षिपेत् ।
घर्मे धृत्वा रसो देयो मृतं यावद्भवेच्च तत् ॥ २.४४ ॥

<इरोन्:: मारण:: वारितर>
मत्स्याक्षीरसमध्यस्थं लोहपत्रं विनिक्षिपेत् ।
त्रिंशद्दिनानि घर्मे तु ततो वारितरं भवेत् ॥ २.४५ ॥

<इरोन्:: मारण:: निरुत्थ, परीक्षा>
लोहमध्वाज्यगं तारं ध्मातं चेत्पूर्वमानकम् ।
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥ २.४६ ॥

<इरोन्:: अमृतीकरण (?)>
वराक्वाथेऽवशेषो तु तत्तुल्यं घृतमायसम् ।
सिता लोहमिता ताम्रे पक्वं चामृतवद्भवेत् ॥ २.४७ ॥

<लोह:: मृत:: मेदिच्. प्रोपेर्तिएस्>
ग्रहणीपाण्डुशोफार्शोज्वरगुल्मप्रमेहकान् ।
हन्ति प्लीहामयं लोहं बलबुद्धिविवर्धनम् ॥ २.४८ ॥
कुष्माण्डं तिलतैलं च माषान्नं राजिका तथा ।
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ॥ २.४९ ॥

<मण्डूर:: शोधन>
गोमूत्रे त्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा ।
स्वर्णादि सर्वलोहानां किट्टं तत्तद्गुणावहम् ॥ २.५० ॥
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ॥ २.५१ ॥

<रसक:: मारण>
लवणान्तर्गतं भाण्डे सत्त्वं खर्परसम्भवम् ।
सुखं रुद्ध्वा विपक्वं तन्म्रियते गजवह्निना ॥ २.५२ ॥

<रसक:: मृत:: मेदिच्. प्रोपेर्तिएस्>
मृतस्तु रसको रूक्षस्त्रिदोषघ्नो ज्वरापहः ।
योगवाह्यतिसारघ्नः क्लेदघ्नो विड्विबन्धकृत् ॥ २.५३ ॥

<ब्रोन्शे, ब्रस्स्:: शोधन, मारण>
कांस्यपित्तलयोः प्रोक्ते ताम्रवच्छुद्धिमारणे ।
सिता गव्ययुता देया धातुभक्षणवैकृतौ ॥ २.५४ ॥

<मेतल्स्:: fअस्त्मारण>
अथैकः पारदाद्भागो गन्धको द्विगुणस्ततः ।
तयोः समं सुवर्णादिनिरुत्थं शीघ्रमारणम् ॥ २.५५ ॥
<धातुस्:: निरुत्थ:: परीक्षा>
समध्वाज्यटङ्कणैर्गुञ्जागुडाभ्यां मृतधातवः ।
ध्माताः पिण्डकृता नैव जीवन्ति ते निरुत्थकाः ॥ २.५६ ॥

<धातु:: मारण:: निरुत्थ>
सगन्धश्चोत्थितो धातुर्मर्द्यः कन्यारसे दिनम् ।
पक्वो गजपुटो दिव्यं सर्वो याति निरुत्थताम् ॥ २.५७ ॥

<अभ्र:: सुब्त्य्पेस्>
पीतं सितासितं रक्तमेकैकं खं चतुर्विधम् ।
पिनाकं दर्दुरं नागं वज्रं चाग्नौ परीक्षयेत् ॥ २.५८ ॥

<अभ्र:: वज्र>
न पत्राणि न शब्दांश्च कुर्यात्तद्वज्रसंज्ञकम् ।

<अभ्र:: वज्र:: सत्त्वपातन>
त्रीणि ध्मातानि किट्टं हि वज्री सत्त्वं विमुञ्चति ॥ २.५९ ॥

<अभ्र:: वज्र:: सत्त्व:: मारण>
तत्सत्त्वं विधिवद्ग्राह्यं शोध्यं मार्यं च लोहवत् ।
सत्त्वाभावे तु निश्चन्द्रं रसेष्विष्टं तदुच्यते ॥ २.६० ॥

<अभ्र:: मारण:: प्रोदुच्तिओनोf निश्चन्द्रँ>
धान्याभ्रं मेघनादैर्झषनयनजलैर्जम्भलैष्टङ्कणेन खल्वे संमर्द्य गाढं तदनु गजपुटान् द्वादशैवं प्रदद्यात् ।
मीनाक्षीभृङ्गतोयैस्त्रिफलजलयुतैर्मर्दयेत्सप्तरात्रं गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात्पञ्चतां याति चाभ्रम् ॥ २.६१ ॥

<अभ्र:: निश्चन्द्र:: मेदिच्. प्रोपेर्तिएस्>
मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् ।
सचन्द्रं विषवज्ज्ञेयं मृत्युकृद्व्याघ्ररोमवत् ॥ २.६२ ॥

<अभ्र:: अमृतीकरण>
वराम्बु गोघृतं चाभ्रं कलाषड्दिक्क्रमांशकम् ।
मृद्वग्निना पचेल्लोहे चामृतीकरणं भवेत् ॥ २.६३ ॥

<अभ्र:: मृत:: मेदिच्. प्रोपेर्तिएस्>
वयःस्तम्भकारी जरामृत्युहारी बलारोग्यधारी महाकुष्ठहारी ।
मृतो मेघकः सर्वरोगेषु योज्यः सदा सूतराजस्य वीर्येण तुल्यः ॥ २.६४ ॥
क्षाराम्लं द्विदलं वर्ज्यं कर्कोटिकारवेल्लकम् ।
वृन्ताकं च करीरं च तैलं चाभ्रकसेवने ॥ २.६५ ॥

तृतीयः अध्यायः[सम्पाद्यताम्]


<महारस:: शोधन>
गन्धं विषादिनेपालं गोदुग्धेऽथ शिलाजतु ।
गोमूत्रेण च तालाद्यं शङ्खाद्यमम्लतः शुचिः ॥ ३.१ ॥

<विष:: मारण>
रसेषूक्तं विषं ग्राह्यं तुल्यं टङ्कणपेषितम् ।
तन्मृतं योगवाहि स्यात्सूताभ्रायः समं गुणैः ॥ ३.२ ॥

<विष:: मन्त्रस्>
नीलकण्ठाख्यमन्त्रेण विषं सप्ताभिमन्त्रितम् ।
औषधे च रसे चैव दातव्यं हितमिच्छता ॥ ३.३ ॥

<विष:: मेदिच्. उसे>
नानारसौषधैर्ये तु दुष्टा यान्तीह नो गदाः ।
ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः ॥ ३.४ ॥

<विष:: मेअसुरे>
श्रेष्ठमध्यावरा मात्रा अष्टषट्कचतुर्यवाः ।
अतिमात्रं यदा भुक्तं तदाज्यटङ्कणे पिबेत् ॥ ३.५ ॥
रजनीं मेघनादं वा सर्पाक्षीं वा घृतान्विताम् ।
लिहेद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम् ॥ ३.६ ॥
न देयं क्रोधिने क्लीबे पित्तार्ते राजयक्ष्मिणि ।
क्षुत्तृष्णाभ्रमघर्माध्वसेविने क्षीणरोगिणे ॥ ३.७ ॥
गुर्विणीबालवृद्धेषु न विषं राजमन्दिरे ।
रसायनरते दद्याद्घृतक्षीरहिताशिने ॥ ३.८ ॥

<उपविष>
लाङ्गलीवज्रिहेमार्कहयारिविषमुष्टिकाः ।
एतान्युपविषाण्याहुः यस्तानि रसकर्मणि ॥ ३.९ ॥

<अहिफेन:: म्य्थ्. ओरिगिन्>
समुद्रे मथ्यमाने तु वासुकेर्वदनाद्द्रुतः ।
फेनौघो व्याकुलत्वाच्च फूत्कारात्पतितः क्षितौ ॥ ३.१० ॥

<अहिफेन:: मेदिच्. प्रोपेर्तिएस्>
तेनाहिफेनमाख्यातं तिक्तं संग्राहि शोषणम् ।
मोहकृच्छ्वासकासघ्नं सेवितं त्यक्तुमक्षमम् ॥ ३.११ ॥
श्लेष्महृद्वातकृद्युक्त्या युक्तं तदमृतं विषम् ।
वीर्यस्तम्भकरं नृणां स्त्रीणां सौख्यप्रदायकम् ॥ ३.१२ ॥

<सिद्धमूली:: म्य्थ्. ओरिगिन्>
पुरा देवैश्च दैत्यैश्च मथितो रत्नसागरः ।
तस्मादमृतमुत्पन्नं देवैः पीतं न दानवैः ॥ ३.१३ ॥
तदा धन्वन्तरेर्हस्तादमृतं पतितं भुवि ।
तस्मिन् सर्वैर्लेह्यमाने दर्भैर्जिह्वा द्विधा कृता ॥ ३.१४ ॥
जिह्वासृग्विषसम्भूता सिद्धमूली महौषधी ।

<सिद्धमूली:: चोलोउर्स्>
सा चतुर्धा सिता रक्ता पीता कृष्णा प्रसूनकैः ॥ ३.१५ ॥

<सिद्धमूली:: मेदिच्. प्रोपेर्तिएस्>
आह्लादिनी बुद्धिरूपा योगे मन्त्रे च सिद्धिदा ।
सर्वरोगहरी कामजननी क्षुत्प्रबोधनी ॥ ३.१६ ॥

चतुर्थः अध्यायः[सम्पाद्यताम्]

कियन्तोऽप्यथ वक्ष्यन्ते रसाः प्रत्ययकारकाः ।
शास्त्रं दृष्ट्वा गुरोर्वक्त्रात्संप्रदायाद्यथागताः ॥ ४.१ ॥
पारदो रसकस्तालस्तुत्थं गन्धकटङ्कणम् ।
सर्वमेतत्समं शुद्धं कारवेल्ल्या रसैर्दिनम् ॥ ४.२ ॥
मर्दयेत्तेन विदध्याच्च ताम्रपात्रोदरं घनम् ।
अङ्गुलार्धार्धमानेन तत्पचेत्सिकताद्वये ॥ ४.३ ॥
यन्त्रे यावत्स्फुटन्त्येव व्रीह्यस्तस्य पृष्ठतः ।
ततः सुशीतले ग्राह्यस्ताम्रपात्रोदराद्बुधैः ॥ ४.४ ॥
तत्समं मरिचं दत्त्वा सर्वमेकत्र चूर्णयेत् ।
द्विगुञ्जं पर्णखण्डेन वातिके पैत्तिके ज्वरे ॥ ४.५ ॥
गुञ्जैकं ससितं दद्यात्त्रिगुञ्जं व्योषयुक्कफे ।
संनिपाते ज्वरे देयो वल्लैकर्माद्रकद्रवैः ॥ ४.६ ॥
त्रिदिनैविषमं तीव्रमेकद्वित्रिचतुर्थकम् ।
नाशयेच्छीतभञ्ज्याख्यो रसो रुद्रेण निर्मितः ॥ ४.७ ॥
सूतं गन्धं शिलां तालं संमथ्य निम्बुजैर्द्रवैः ।
लिप्त्वा तन्वर्कपत्राणि यन्त्रे भस्माभिधे क्षिपेत् ॥ ४.८ ॥
यामाष्टौ ज्वालयेदग्निं स्वाङ्गशीतं समुद्धरेत् ।
विषोषणं चतुर्थांशं दत्त्वा वल्लमिता गुटी ॥ ४.९ ॥
देवदालीरसैर्बद्धा रसश्चैतन्यभैरवः ।
दत्तार्द्रकरसैः सर्वसंनिपातविघातकृत् ॥ ४.१० ॥
भूमौ गतं विसंज्ञं च शीतार्तं तन्द्रितं नरम् ।
तत्क्षणाद्बोधयेद्दाहे कुर्याच्छीतोपचारकान् ॥ ४.११ ॥
वाराहच्छागमात्स्याश्वमायूरं पित्तपञ्चकम् ।
अनेन भावितश्चापि देयश्चैतन्यभैरवः ॥ ४.१२ ॥
विषं रसं कलैकांशं काचलिप्तशरावके ।
रुद्ध्वा चुल्ल्यां मन्दवह्नौ पचेद्यामद्वयं ततः ॥ ४.१३ ॥
स्वयं शीतं च गृह्णीयादुपरिष्टाच्छरावकात् ।
वायुवर्जं क्षिपेत्कूप्यां संनिपातेऽहिदंष्टके ॥ ४.१४ ॥
सूच्यग्रेण च दातव्यः क्षणाञ्जागर्ति मानवः ।
नो चेत्तालुप्रदेशे च क्षुरक्षुण्णे प्रचारयेत् ॥ ४.१५ ॥
रसगन्धकनेपाला वृद्धा दन्त्यम्बुमदिताः ।
द्वौ यामौ ज्वरनाशाय गुञ्जैका सितया सह ॥ ४.१६ ॥
पुरं टङ्कद्रयां कृष्णधूर्तबीजाष्टबल्लकम् ।
पालिकात्रितयं देयं चातुर्थिकज्वरापहम् ॥ ४.१७ ॥
ज्वरागमनवेलायां शीतवारिचतुर्घटैः ।
शिरोऽभिषिञ्च्य दातव्यं पथ्ये क्षीरं सशर्करम् ॥ ४.१८ ॥
निम्नबीजं शिलाजाजी धूमः कृष्णा समांशकम् ।
कारवेल्ल्या रसैर्भाव्यमेकविंशतिवारकान् ॥ ४.१९ ॥
यत्पार्श्वतोऽञ्जयेन्नेत्रे ज्वरं तत्पार्श्वजं जयेत् ।
अर्धनारीनटेशाह्वो रसः कौतुककारकः ॥ ४.२० ॥
हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् ।
कनकस्य तु बीजानि समांशं विजयारसैः ॥ ४.२१ ॥
मर्दयेद्याममात्रं तु चणमात्रा वटी कृता ।
ज्वरातिसारं ग्रहणीं नाशयेद्धेमसुन्दरः ॥ ४.२२ ॥
शुद्धसूतं पलं चार्कक्षीरैर्मर्द्य पुनः पुनः ।
द्विपलं शुद्धगन्धस्य महाकम्बुपलाष्टकम् ॥ ४.२३ ॥
उभे वह्निरसैर्भाव्ये पेष्ये शोष्ये दिनत्रयम् ।
मेलयेत्पूर्वसूतेन तदर्धं टङ्कणं क्षिपेत् ॥ ४.२४ ॥
अर्कक्षीरैः पुनः सर्वं यामैकं मर्दयेद्दृढम् ।
तच्छुष्कं चूर्णलिप्तेऽथ भाण्डे रुद्ध्वा पुटे पचेत् ॥ ४.२५ ॥
चतुर्गुञ्जामितं खादेन्मरिचाज्येन संयुतम् ।
देयं दध्योदनं पथ्यं विजया सगुडा निशि ॥ ४.२६ ॥
ग्रहणीदोषनाशार्थं नास्त्यनेन समं भुवि ।
ग्रहजीर्नाशयेत्सर्वा अर्कलोकेश्वरो रसः ॥ ४.२७ ॥
कटुत्रिकरसैर्भाव्यं तालमेकं चतुःशिला ।
दिनं वासारसैः पिष्ट्वा वालुकायन्त्रपाचितम् ॥ ४.२८ ॥
द्वियामान्ते समुद्धृत्य तत्तुल्यं च कटुत्रयम् ।
निर्गुण्डीमूलचूर्णं च वासारससमन्विता ॥ ४.२९ ॥
शिलातालेश्वरस्यास्य गुञ्जैका श्वासकासजित् ।
सूतं हेमाभ्रजं भस्म शिलागन्धकतालकम् ॥ ४.३० ॥
त्र्येकैकभूभवैकाख्यान् कृत्वैवं क्रमशोऽशकान् ।
वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ॥ ४.३१ ॥
पिष्ट्वा तेन मुखं रुद्ध्वा शरावे भूपुटे पचेत् ।
स्वाङ्गशीतं समुद्धृत्य कुर्यात्तं वस्त्रगालितम् ॥ ४.३२ ॥
रसो राजमृगाङ्कोऽयं चतुर्गुञ्चः क्षयापहः ।
सुवर्णं भस्मसूतं च वल्लार्धं मधुना लिहेत् ॥ ४.३३ ॥
पथ्यभुग्ब्रह्मचर्येण मृगाङ्को वा क्षयापहः ।
शिलाजतु मधुव्योषतप्त्यलोहरजांसि यः ॥ ४.३४ ॥
क्षीरभुग्लेढि तस्याशु क्षयक्षयकरो रसः ।
शुल्वश्यामास्नुहीदन्तीपथ्यानेपालकान् क्रमात् ॥ ४.३५ ॥
भूद्यवेकैकाग्नियुग्मांश्च गृहीत्वोष्णाम्बुना पिबेत् ।
अष्टोदराणि हन्त्येष विशेषेण जलोदरम् ॥ ४.३६ ॥
आध्मानगुल्मशूलघ्न उदरध्वान्तभास्करः ।
दुग्धं शङ्खवराटं च तुल्यार्कं नवनीतयुक् ॥ ४.३७ ॥
टङ्कार्धं भक्षयेत्सर्वशूलघ्नः शङ्खभास्करः ।
शुद्धं सूतं तथा गन्धं क्रमादेकद्विभागकम् ॥ ४.३८ ॥
तुल्यार्कं भावयेदार्द्ररसैश्चापि त्रिसप्तधा ।
गोलं कृत्वान्धमूषायां रुद्ध्वा गजपुटे पचेत् ॥ ४.३९ ॥
घृतं शुण्ठ्या च गुञ्जैकं शीतोदं ससितं ह्यनु ।
त्रिदोषं नाशयेच्छीघ्रं क्रियां शीतां प्रयोजयेत् ॥ ४.४० ॥
स्थूलं कृशं कृशं स्थूलं करोत्यग्निप्रदीपनम् ।
त्रिदोषात्पतितं रक्तं व्रणनाड्यभिघातजम् ॥ ४.४१ ॥
यकृत्प्लीहोत्थितं यच्च यच्च कुष्ठकरं त्वसृक् ।
शोधयेद्दुष्टरक्तं च रसो रक्तारिसंज्ञकः ॥ ४.४२ ॥
सूततारार्ककं बोलं मर्द्यमर्कपयस्त्र्यहम् ।
वल्लैकं मधुना लेह्यं स्थौल्यमाशु व्यपोहति ॥ ४.४३ ॥
द्विपलं क्षौद्रशीतोदमनुपानं पिबेत्ततः ।
वडवाग्निरसे पथ्यं दध्यादि श्लेष्मलं त्यजेत् ॥ ४.४४ ॥
सूतार्कौ गन्धकं मर्द्यं दिनं निर्गुण्डिकाद्रवैः ।
यामैकं वालुकायन्त्रे पक्त्वा देयो द्विगुञ्जकः ॥ ४.४५ ॥
बीजपूरजटाक्वाथं ससितं पाययेदनु ।
रसस्त्रिविक्रमो मूत्रकृच्छ्रोधाश्मरीप्रणुत् ॥ ४.४६ ॥
निस्तुषीकृत्य वाकुच्या बीजानां पलविंशतिम् ।
गोजलस्थां त्रिसप्ताहं लोहं पथ्यापलद्वयम् ॥ ४.४७ ॥
गृहीत्वा गोजलाच्छोष्ये सूर्यतापेऽतिनिष्ठुरे ।
काकोदुम्बरिकाद्रोणत्वचां क्वाथे त्रिसप्तकम् ॥ ४.४८ ॥
भावयेत्तस्य चूर्णस्य गन्धसूतं समं कृतम् ।
अम्लेन कज्जलीं कृत्वा सर्वमेकत्र कारयेत् ॥ ४.४९ ॥
शिग्रुमूलरसेनापि नागवल्लीदलेन च ।
भावनां त्रिदिनं दत्त्वा कर्षार्धांशां गुटीं कुरु ॥ ४.५० ॥
एकैकां भक्षयेत्प्रातः श्वेतकुष्ठोपशान्तये ।
चित्रकाङ्घ्रित्वचश्चूर्णं रात्रौ गोदुग्धके वरम् ॥ ४.५१ ॥
क्षिपेदधि विलोड्याथ ग्राहयेत्तक्रमुत्तमम् ।
तत्तक्रकुडवं चैकं मध्येऽष्टवल्लगन्धकम् ॥ ४.५२ ॥
प्रक्षिप्य गुटिकां पश्चात्प्रपिबेद्द्वित्रिसंख्यकाम् ।
नवनीतेन चाभ्यङ्गः कार्यः स्थेयमथातपे ॥ ४.५३ ॥
सर्वश्वित्रे प्रजायन्ते स्फोटकाश्चाग्निदग्धवत् ।
प्रथमे सप्तके पाको जायेताथ द्वितीयके ॥ ४.५४ ॥
रोहणं च तृतीये हि प्राप्नुवन्ति न संशयः ।
निम्बुकस्य रसोपेतं कुङ्कुमालेपनं हितम् ॥ ४.५५ ॥
सतक्रा गुटिका वापि रसस्यालेपने हिता ।
श्वित्राणां रोहणं रम्यं वर्णदं जायते भृशम् ॥ ४.५६ ॥
त्रिवेलं तक्रभक्तं च पूर्वे देयं च सप्तके ।
मकुष्ठामपि रूक्षाश्च देया जाते द्विसप्तके ॥ ४.५७ ॥
तृतीये सप्तके देया मकुष्ठास्त्रिफलाघृतम् ।
घृतमल्पं प्रदातव्यं श्वित्रकुष्ठी वरो भवेत् ॥ ४.५८ ॥
चम्पकाभं वरं देहं कान्तियुक्तं च नीरुजम् ।
प्राप्नुयाच्छ्रीयुतः सम्यङ्मनुजो भूमिमण्डले ॥ ४.५९ ॥
रसराजप्रभावेण सत्यं सत्यं च नान्यथा ।
शुद्धं सूतं मृतं लोहं ताप्यगन्धकातालकम् ।
पथ्याग्निमन्थनिर्गुण्डीत्र्यूषणं टङ्कणं विषम् ॥ ४.६० ॥
तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्रवैः ।
मुण्डीद्रवैर्दिनैकं तु गुञ्जैकं वटकीकृतम् ॥ ४.६१ ॥
भक्षयेद्वातरोगार्तो रसं स्वच्छन्दभैरवम् ।
लघुरास्नाह्वयं क्वाथं सपुरं ह्यनुपानकम् ॥ ४.६२ ॥
शुद्धं सूतं वचाक्वाथैस्त्रिदिनं मर्दयेत्ततः ।
शङ्खपुष्पीरसैस्तद्वद्गन्धकं मर्दितं क्षिपेत् ॥ ४.६३ ॥
गोमूत्रमर्दितं गोलं मूषायां तु निरोधयेत् ।
सप्तधालेप्य मृद्वस्त्रैः पुटितं स्वाङ्गशीतलम् ॥ ४.६४ ॥
चूर्णीकृतं चतुर्वल्लां समसर्षपचूर्णकम् ।
जीर्णधृतानुपानं च नस्ये स्नेहं तु सार्षपम् ॥ ४.६५ ॥
कारयेत्तेन चाभ्यङ्गं दिनानामेकविंशतिम् ।
उन्मादापस्मृती हन्ति ह्युन्मादगजकेशरी ॥ ४.६६ ॥
सूतं गन्धमयस्ताम्रमेकद्व्यर्धार्धकं पलम् ।
द्रावयेल्लोहजे पात्रे क्षिपेदेरण्डपत्त्रके ॥ ४.६७ ॥
चूर्णितं वस्त्रपूतं च लोहपात्रे पुनः पचेत् ।
जाम्बीरं बैजपूरं वा रसं पात्रमितं क्षिपेत् ॥ ४.६८ ॥
संचूर्ण्य पञ्चकोलोत्थैः कषायैश्चाम्लवेतसैः ।
भावना खलु दातव्याः पञ्चाशत्प्रमितास्ततः ॥ ४.६९ ॥
भृष्टटङ्कणचूर्णं तु दद्यात्सर्वसमानकम् ।
टङ्कणार्धं विडं दद्याद्विडतुल्यं मरीचकम् ॥ ४.७० ॥
सप्तधा भावयेत्यश्चाच्चणकक्षारवारिणा ।
एव सिद्धरसाद्वल्लद्वितयं वा चतुष्टयम् ॥ ४.७१ ॥
सैन्धवं माषमेकं तु जीरकं च द्विमाषकम् ।
तक्रेण योजितं चैतदनुपानं पिबेत्सुधीः ॥ ४.७२ ॥
भोजयेत्कण्ठपर्यन्तं गुरुमामिषभोजनम् ।
क्षिप्रं तज्जीर्यते भुक्तं पुनः काङ्क्षति भोजनम् ॥ ४.७३ ॥
घटश्रवेन्द्रभीमैश्च कुम्भयोनिचतुर्मुखैः ।
शनैश्चरेण रुद्रेण ब्रह्मणा सेवितोऽग्नये ॥ ४.७४ ॥
अस्य संसेवनादेते सर्वे जाता महाशनाः ।
अतः संसेव्यते भूपैर्महदग्निविवृद्धये ॥ ४.७५ ॥
कुर्याद्दीपनमद्भुतं पचनं दुष्टामयोच्छेदनं तुन्दस्थौल्यनिबर्हणं गरहरः शूलार्तिमूलापहः ।
गुल्मप्लीहविनाशनो बहुरुजां विध्वंसनः स्रंसनो वातग्रन्थिमहोदरापहरणः क्रव्यादनामा रसः ॥ ४.७६ ॥
सिहणक्षोणिपालाय भूरिभोज्यप्रियाय च ।
दत्तवान् भैरवानन्दो भूपो ग्रामाष्टकं ददौ ॥ ४.७७ ॥
सूतं भुजंगममृतं लवणं हरिद्रा व्योषं धनंजयजटावनिभूतधात्री ।
क्वष्टादशद्वयनिधित्रयवेदसंख्याः शोभाञ्जनार्द्रककरीरकबीजपूरैः ॥ ४.७८ ॥
निम्बूफणीश्वरलता सुपलाशतोयैर्भाव्यं विशोष्य खरले प्रपिधाय चूर्णम् ।
वस्त्रस्रुतं सकलवातगणान्निहन्ति वह्नेरपाटवमरोचकशूलवान्तीः ॥ ४.७९ ॥
सूतं गन्धं विषं शङ्खं कपर्दं टङ्कणोषणे ।
चन्द्रैकाग्निगजत्रिद्विवसुभागैर्मितं क्रमात् ॥ ४.८० ॥
जम्बीरकेन संमर्द्यं भवेदग्निकुमारकः ।
वाते मन्दानलेऽजीर्णे ज्वरश्लेष्मविषूचिके ॥ ४.८१ ॥
गुञ्जामात्रं प्रदातव्यो विण्मूत्रशिरसो ग्रहे ।
कासे श्वासे क्षये शूले सर्वरोगे तु योजयेत् ॥ ४.८२ ॥
नृसारं स्फटिका सौरं त्रयमेकत्र चूर्णयेत् ।
तत्क्षिपेन्मृन्मये कूपे शुभे हस्तमिते दृढे ॥ ४.८३ ॥
सरन्ध्रोदरकाचोत्थे कूपे तत्संनियोजयेत् ।
सप्तधा वेष्टयेत्पश्चात्तत्संधिं वस्त्रमृत्स्नया ॥ ४.८४ ॥
खर्परे वालुकापूर्णे तिर्यगौषधकूपकम् ।
अर्धं यन्त्रे निधायात्र श्रीगुरोः संप्रदायतः ॥ ४.८५ ॥
अधोमुखं द्वितीयं तु स्थाप्यं चुल्लेः पराङ्मुखे ।
अधः प्रज्वालयेदग्निं हठाद्यावद्रसः स्रवेत् ॥ ४.८६ ॥
धारयेत्काचजे पात्रे शङ्खद्रावरसं ततः ।
शाणैकं सेवयेत्पश्चाद्दन्तस्पर्शविवर्जितम् ॥ ४.८७ ॥
गुल्मोदरयकृत्प्लीहविद्रधिग्रन्थिशूलनुत् ।
बलपुष्टिप्रदो ह्येष भुक्तं जारयते क्षणात् ॥ ४.८८ ॥
विलोक्यतामहो लोका रसमाहात्म्यमद्भुतम् ।
कपर्दकाम्बुलोहानि यस्मिन् क्षिप्ते गलन्ति हि ॥ ४.८९ ॥
पारदं तत्तृतीयांशं गन्धं दत्त्वा तु मर्दयेत् ।
दशांशनवसारेण युतं चोन्मत्तवारिणा ॥ ४.९० ॥
खल्वे संमर्द्य तत्सर्वं काचकूप्यां निवेशयेत् ।
गुरूक्तसम्प्रदायेन वालुकायन्त्रमध्यगम् ॥ ४.९१ ॥
पचेत्षोडशयामांश्च मन्दमध्यहठाग्निना ।
पक्वः सुशीतलो ग्राह्यो हरगौरीरसो भवेत् ॥ ४.९२ ॥
सूतं गन्धं समं कृत्वा सर्पाक्षीरसमर्दितम् ।
पूर्ववत्पाचितं त्वन्ये हरगौरीरसं विदुः ॥ ४.९३ ॥
पारदाद्द्विगुणं गन्धं दत्त्वा कार्पासिकाद्रवैः ।
पूर्ववत्पाचितो ह्येष कामदेवरसः स्मृतः ॥ ४.९४ ॥
समांशं क्षिप्यते स्वर्णं रूप्यं ताम्रं च मर्दयेत् ।
मुसल्या चाखुपर्ण्या च मातुलुङ्गरसैस्त्र्यहम् ॥ ४.९५ ॥
मोचचिञ्चात्मगुप्ताभिस्तदा मृत्युञ्जयो रसः ।
त्रयाणां सेवनं पथ्यमुच्यते क्रमशो गुणाः ।
एकमासं सिताज्याभ्यां सदा सेव्यो नरोत्तमैः ॥ ४.९६ ॥
एवं निषेव्य सूतेन्द्रं भुञ्जीत मधुरं सदा ।
शाल्यन्नं गोपयः खण्डं सितां जाङ्गलमामिषम् ॥ ४.९७ ॥
गोधूमजान् विकारांश्च माषान्नं कदलीफलम् ।
पनसं चाथ खर्जूरं द्राक्षां च नालिकेरकम् ॥ ४.९८ ॥
सेवेत सर्वं तत्प्राज्ञो वृष्यं यत्किंचिदुच्यते ।
वलीं संवत्सराद्धन्ति पलितं च द्विहायनात् ॥ ४.९९ ॥
सेवया वज्रदेहोऽस्य द्रावद्वयेनिताशतम् ।
न रेतःसंक्षयस्तस्य षण्ढोऽपि पुरुषायते ॥ ४.१०० ॥
ऊर्ध्वलिङ्गः सदा तिष्ठेल्ललनामक्षयं व्रजेत् ।
तप्तहाटकवर्णाभः श्रीधीमेधाविभूषितः ॥ ४.१०१ ॥
हयवेगो मयूराक्षो वाराहश्रुतिरेव च ।
अपरः कामदेवोऽपि मानिनीमानमर्दनः ॥ ४.१०२ ॥
राजयक्ष्मादिरोगांश्च मेहान् जीर्णज्वरानपि ।
ग्रहणीं हन्त्यतीसारं गोतक्राद्बहुमूत्रताम् ॥ ४.१०३ ॥
सर्वरोगहरो ह्येष निजौषधानुपानतः ।
हरगौरीकामदेवरसो मृत्युञ्जयाभिधः ॥ ४.१०४ ॥
किमत्र बहुनोक्तेन जरामृत्युहरास्त्रयः ।
कज्जलीं सूतगन्धाभ्यां तुल्यमुन्मत्तबीजकम् ।
तत्तैलमर्दितं सेव्य द्विवल्लां ससितापयः ॥ ४.१०५ ॥
मेहौघं नाशयेद्वीर्यं स्तम्भयेद्द्रावयेत्स्त्रियम् ।
रसः कामप्रदो न्ःणां मानिनीमानमर्दनः ॥ ४.१०६ ॥
हेमबीजविषवङ्गसूतकं हंसपादकरं च जारणम् ।
शुद्धसूतस्त्र्यहं स्वेद्यो मन्दाग्नौ दध्नि महिषे ।
त्रुटिते त्रुटिते दद्याद्दधि तुर्येऽह्नि चोद्धरेत् ॥ ४.१०७ ॥
तस्मिन् स्वर्णं क्षिपेत्प्राज्ञश्चतुःषष्ठितमांभकम् ।
मर्दयेन्निम्बुनीरेण यावदैक्यं हि जायते ॥ ४.१०८ ॥
पुनः संस्वेद्य तं सूतं वटशुङ्गाहिवल्लिजैः ।
काकमाच्या च जीवन्त्या रसैः स्याद्यामयुग्मकात् ॥ ४.१०९ ॥
दिनं शीताम्बुकुम्भस्थं दिनैकं दध्नि महिषे ।
एवं सिद्धरसाद्वल्लं प्रत्यहं ब्रह्मचर्यधृक् ॥ ४.११० ॥
मासैकं सेवते भर्ता सितादुग्धौदनप्रियः ।
त्रिफलानिम्बकार्पासीरसैर्नारी क्रमात्पृथक् ॥ ४.१११ ॥
दिनानि सप्तसंख्यानि पीत्वा ऋतुसमागमे ।
रसं वल्लं त्र्यहं चैकं कार्पास्यम्बुसितायुतम् ॥ ४.११२ ॥
टङ्कणं स्फटिका सूतं पक्वाम्लिकरसान्वितम् ।
त्रिदिनं मधुना योनेर्लेपं शुद्धिकरं परम् ॥ ४.११३ ॥
महिष्या दधिमध्यस्थं दिवा सूतं त्रिमाषकम् ।
स्त्रीसेवासमये रात्रौ भक्षयेद्दधिसंयुतम् ॥ ४.११४ ॥
संभोगान्ते तथा स्थेयं यामार्धं संपुटेन च ।
सर्वलक्षणसम्पन्नं सूतं जनयते वरम् ॥ ४.११५ ॥
तापादिके समुत्पन्ने देयं द्राक्षासितादिकम् ।
कार्यः शीतोपचारश्च युवत्या भिषजा सदा ॥ ४.११६ ॥
आयुर्वृद्धिं बलं कान्तिं नष्टवीर्यविवर्धनम् ।
कुर्याद्रोगहरः पुत्रप्रदो रुद्रविनिर्मितः ॥ ४.११७ ॥
रसं नागाञ्जनं चन्द्रमेकैकद्व्यर्धभागकम् ।
सूक्ष्मचूर्णीकृतं नेत्रस्याञ्जनाद्दिव्यदृष्टिकृत् ॥ ४.११८ ॥
सूतं गन्धं समं शुद्धं सप्तधा भावयेत्क्रमात् ।
स्नुह्यर्कदुग्धैः श्रीखण्डद्वयपथ्योभयारसैः ॥ ४.११९ ॥
समं नेपालजं चूर्णं देयमेकत्र मर्दयेत् ।
उष्णाम्बुना वल्लयुग्मं देयमष्टगुणे गुडे ॥ ४.१२० ॥
मलाः पूर्वं जलं पश्चात्ततश्चामः शनैः शनैः ।
उदराच्च विनान्त्राणि सर्वं निर्याति किल्बिषम् ॥ ४.१२१ ॥
जाते विरेके संशुद्धे पथ्यं दध्योदनं हितम् ।
जयेज्ज्वरादिकान् रोगान् रसः सारणसुन्दरः ॥ ४.१२२ ॥
राढार्कौ मधुकं चैकसार्धद्विपञ्चभागकम् ।
टङ्कैकोऽम्बुयुतो दत्तो रसोऽयं वामकः स्मृतः ॥ ४.१२३ ॥
रसं गन्धं समं व्योषं मर्द्यमुन्मत्तकैर्दिनम् ।
उन्मत्ताख्यो रसो नाम नस्यं स्यात्सन्निपातजित् ॥ ४.१२४ ॥
ताम्रपत्रं गन्धलिप्तं वह्नौ तप्तं तु ताडितम् ।
तच्चूर्णं तक्रसंयुक्तं वल्लार्धं वामयेद्भृशम् ॥ ४.१२५ ॥
स्फटिका तुत्थनेपालं मरिचं निम्बबीजकम् ।
पुत्रजीवकमज्जा च निम्बुकेनार्कभाजने ॥ ४.१२६ ॥
भावना सप्त दातव्या गुटी गुञ्जामिताञ्जनात् ।
सन्निपातमपस्मारं विषं सर्पस्य नाशयेत् ॥ ४.१२७ ॥
आकल्लकं विषं कृष्णं हेमद्रुफलभस्मकम् ।
उद्धूलनं स्वेदहरमेकद्वित्र्यष्टभागकैः ॥ ४.१२८ ॥

पञ्चमः अध्यायः[सम्पाद्यताम्]

विषं व्योषं हरिद्राब्दं निम्बपत्रं विडङ्गकम् ।
गुटी छागाम्बुना बद्धा स्याज्जया योगवाहिका ॥ ५.१ ॥
सूतार्कयोर्विषं गन्धं विङ्गंगाग्न्यब्दकेसरम् ।
रेणुका ग्रन्थिकं बोलं सर्वेषां द्विगुणं गुडम् ॥ ५.२ ॥
कोलप्रमाणां गुटिकां भक्षयेत्प्रातरेव हि ।
कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे ॥ ५.३ ॥
शोके पाण्ड्वामये कुष्ठे ग्रहण्यर्शोभगन्दरे ।
विजयागुटिका ह्येषा रुद्रप्रोक्ताधिका गुणैः ॥ ५.४ ॥
अङ्कोलाग्नी च गन्धोषणरसविषकं पित्तभाजं क्रमात्तत्सामुद्रं चार्कदुग्धैस्त्रिभिरथ पुटितं निम्बुतोयैर्विमर्द्य ।
कृत्वा गुञ्जासमानामिषुशररसदिग्वह्निबाणेषुदिग्भिर्दद्याच्छ्लेष्मानिलार्शो ज्वरं जठरं कफेतां वटीं शङ्कराख्याम् ॥ ५.५ ॥
चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसैः कल्कितं तस्मिञ्छङ्खपलं प्रतप्तमसकृन्निर्वाप्य शीर्णावधिम् ।
हिङ्गुव्योषपलं रसामृतबलीन्निक्षिप्य निष्कांशकान् बद्धा शङ्खवटी क्षयग्रहणिकागुल्मांश्च शूलं जयेत् ॥ ५.६ ॥
रसं कृष्णाभया त्वक्षं वासा भार्गी क्रमोत्तरम् ।
तत्समं खादिरं सारं बब्बूलक्वाथभावितम् ॥ ५.७ ॥
एकविंशतिवारांश्च मधुनाक्षमिता वटी ।
कासं श्वासं क्षयं हिक्कां हन्त्येषा कासकर्तरी ॥ ५.८ ॥
व्योषग्रन्थि वचाग्नि हिंगु जरणद्वन्द्वं विषं निम्बुकं द्रावैरार्द्रकैरसेर्विमृषितं तुल्यौ मरीचोपमा ।
वर्तिः सा विनिहन्ति शूलमखिलं सर्वाङ्गजं मारुतं वह्निं चाशु करोति वाडवसमं सूर्यप्रभावाभिधा ॥ ५.९ ॥
एला सकर्पूरसिता सधात्री जातीफलं शाल्मलिगोक्षुरौ च ।
सूतेन्द्रवङ्गायसभस्म सर्वमेतत्समानं परिभावयेच्च ॥ ५.१० ॥
गुडूचिका शाल्मलिका कषायैर्निष्कार्धमाना मधुना ततश्च ।
बद्धा गुटी चन्द्रकलेति संज्ञा मेहेषु सर्वेषु नियोजनीया ॥ ५.११ ॥
हिङ्गुलं च चतुर्जातं लवङ्गौषधचन्दनम् ।
जातिजं केसरं कृष्णा त्वाकल्लमहिफेनकम् ॥ ५.१२ ॥
कस्तूरीन्दुसमं सर्वं तत्समे विजयासिते ।
क्षौद्रैः कोलमिता कार्या गुटी भोगपुरन्दरी ॥ ५.१३ ॥
शुक्रस्तम्भकरी ह्येषा बलमांसविवर्धिनी ।
नरश्चटकवद्गच्छेच्छतवारं स्थिरेन्द्रियः ॥ ५.१४ ॥
वङ्गं कासीसकं कृष्णा गुञ्जातुल्यार्द्रकाम्बुना ।
कफवातामयं हन्ति गुटी नागार्जुनाभिधा ॥ ५.१५ ॥
त्रिफला विडङ्गसोमाभल्लातकवह्निविश्वानाम् ।
अष्टौ शुक्लवचाया भागाः स्युः सद्विषस्यैकः ।
एतत्सर्वं गोजलपिष्टं वटिकास्तु चणकाभाः ।
छायाशुष्का देया त्रिद्व्येकचतुःक्रमाद्विज्ञैः ॥ ५.१६ ॥
सार्पविसूचिगदार्ते दुष्टाजीर्णहते त्रिदोषेऽपि ।
सद्यो जीवति पुरुषो मृतोऽपि गुटिकाप्रभावेण ॥ ५.१७ ॥
मूलेन पत्रेण फलेन वापि व्योषान्विता या कितवोद्भवेन ।
बद्धा गुटी सा सहसैव हन्ति सोन्माददोषत्रयदुष्टवातान् ॥ ५.१८ ॥
कट्फलाम्बुगिलं कृष्णां हिङ्गुलं बोलटङ्कणम् ।
गुडेन गुटिका शाणमिता सा नवमेऽह्नि ॥ ५.१९ ॥
उष्णोदकेन दातव्या सद्योऽलर्कविषापहा ।
गरभृङ्गोषणं चूर्णं साज्यं वा तद्विषापहम् ॥ ५.२० ॥
रसराजशुल्वगन्धकसुरतिक्तैः पीतभृङ्गमरिचैश्च ।
ब्राह्मीद्वितयरसाढ्या गुटिकाः कार्याश्चणकाभाः ॥ ५.२१ ॥
एका देया प्रथमं त्रिदोषविकलस्य मूर्छितस्यापि ।
अन्या मुहूर्तपरतः प्रहरादन्यापरा नैव ॥ ५.२२ ॥
जीवति मृतोऽपि पुरुषस्त्रिदोषजान्विततन्द्रिकायुक्तः ।
श्रीनागार्जुनगदिता गुटिका मृतसंजीवनीख्याता ॥ ५.२३ ॥
एलवालुकाभयाबोलमिन्द्रा गुग्गुलुसंयुता ।
स्नुहीक्षीरेण गुटिका शोथिनी ज्वरनाशिनी ॥ ५.२४ ॥
वरा व्योषं वरं तुत्थं यष्टी वेल्लार्कवारिजम् ।
रोध्रं रसाञ्जनं चूर्णं वर्तिः कार्या नभोऽम्बुना ॥ ५.२५ ॥
सद्योऽक्षिकोपं स्तन्येन तिमिरं रोध्रतोयतः ।
किंशुकस्य रसाद्धन्ति बिल्लं पुष्पं च रक्तताम् ॥ ५.२६ ॥
पटलं वस्तमूत्रेण स्तम्भे पाटलिपतने ।
नागार्जुनेन लिखिता सर्वनेत्रामयापहा ॥ ५.२७ ॥
व्योषं वरा वरं हिङ्गु तिक्तोग्रा नक्तमालकः ।
गौरी कटु त्वजामूत्रैश्छायाशुष्का गुटीकृता ॥ ५.२८ ॥
अपस्मारस्मृतिभ्रंशमुन्मादं शिरसो रुजम् ।
नक्तान्ध्यं तिमिरं हन्ति दोषं भूतादिकं भ्रमम् ॥ ५.२९ ॥
एकद्वित्रिचतुर्थाख्यं मञ्जनाज्ज्वरमेव च ।
सन्निपातं त्वचैतन्यं नाशयेत्सुप्रचेतनम् ॥ ५.३० ॥
सैन्धवेन युक्तं वज्रीक्षीरमग्निविपाचितम् ।
द्विवल्लमुष्णकैः पीतं विरेकाज्ज्वरनाशनम् ॥ ५.३१ ॥
लवणं भानुदुग्धेन सकृद्भावितमातपे ।
गव्येन पयसा पीतं कर्षार्धं वान्तिकारकम् ॥ ५.३२ ॥
सूतेन्द्रं बलितालकं च कुनटी खल्वे समांशं दिनं सौवीरेण विमर्द्य तेन वसनं वर्तीकृतं लेपयेत् ।
तैलेन प्रविलेपितं च बहुशो वह्निं ततो दीपयेत्तस्माद्यद्गलितं तु तैलमसितं तेनाङ्गलेपः कृतः ॥ ५.३३ ॥
जङ्घाबाहुकराग्रपादशिरसां कम्पानशेषाञ्जयेत्कुष्ठं तीव्रभगन्दरं व्रणगणान्रोगान्महागृध्रसीम् ।
अन्यान् रोगगणांश्च वातजनितान्नाडीव्रणान्दुस्तरान् ।
विख्यातं भुवनत्रये गदहरं वातारितैलं महत् ॥ ५.३४ ॥
रामठं निम्बपत्राणि फेनः सागरसंभवः ।
एतानि समभागानि तद्वद्देयं सितं विषम् ॥ ५.३५ ॥
गोमूत्रेण समायुक्तं कटुतैलं विपाचयेत् ।
तेनैव पूरयेत्कर्णं नरकुञ्जरवाजिनाम् ॥ ५.३६ ॥
कर्णरोगं निहन्त्याशु लेपनाच्छिरसो गदान् ।
नाम्ना कर्णामृतं तैलं ब्रह्मणा निर्मितं स्वयम् ॥ ५.३७ ॥
कस्तूरीन्दुश्च बाह्लीकं नखं मांसी च सर्जकम् ।
मुस्तागुरु सिता सर्वं क्रमवृद्धं समं पुरम् ॥ ५.३८ ॥
स्तोकं स्तोकं क्षिपेत्तैलं दिनैकमथ कुट्टयेत् ।
वर्तिं निर्वापयेत्दीप्तां दिव्यं धूमं विमुञ्चति ॥ ५.३९ ॥
सर्वदेवप्रियः सर्वः मन्त्रसिद्धिप्रदायकः ।
स्नाने वस्त्रे रतागारे धूपोऽयं राजवल्लभः ।
भ्वग्नितिथिमिते वर्षे चामुण्डो योगिनीपुरे ।
रससंकेतकलिकां कृतवानिष्टसिद्धिदाम् ॥ ५.४० ॥

"https://sa.wikisource.org/w/index.php?title=रससङ्केतकलिका&oldid=333642" इत्यस्माद् प्रतिप्राप्तम्