रसरत्नाकरः/खण्ड ३

विकिस्रोतः तः
Jump to navigation Jump to search


रसरत्नाकरः, ३, १[सम्पाद्यताम्]

येन सृष्टं विदा चिदात्मस्वमरुत्तेजोजलोर्वीगणाः सत्संविच्छिवशक्तिभैरवकलाः श्रीकण्ठपञ्चाननः ।
ईशो रुद्रमुरारिधातृविबुधाश् चन्द्रार्कतारागणाः सोऽयं पातु चराचरं जगदिदं निर्नामनामाधिपः ॥ ३,१.१ ॥
सूते सूतवरो वरं च कनकं शब्दात्परं स्पर्शनाद्धूमाद्विध्यति तत्क्षणाद् अघहरं संख्यां सखर्वांशतः ।
संख्याम् अर्बुदकोटिलक्षमयुतं युक्त्या सहस्रं शतं दत्ते खेगतिमक्षयं शिवपदं तस्मै परस्मै नमः ॥ ३,१.२ ॥
नत्वा श्रीपार्वतीं देवीं भैरवं सिद्धसंततिम् ।
रसरत्नाकरं वक्ष्ये देहे लोहे शिवंकरम् ॥ ३,१.३ ॥
{रसनामानि}
शिवबीजः सूतराजः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि शिवे यथा ॥ ३,१.४ ॥
दत्ते शिवपदं सिद्धिं साधकानां महोत्तमाम् ।
शिवबीजं तदाख्यातं सर्वसिद्धिप्रदायकम् ॥ ३,१.५ ॥
{mercury निरुक्ति}
यतः परशिवात्सूतस्तेन सूतः स चोदितः ।
संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः ॥ ३,१.६ ॥
रसीभवन्ति लोहानि देहा अपि सुसेवनात् ।
रसेन्द्रस् तेन विख्यातो द्रवत्वाच्च रसः स्मृतः ॥ ३,१.७ ॥
रसशास्त्रेषु सर्वेषु शम्भुना सूचितं पुरा ।
रसो रसायनं दिव्यं सूचनान्नैव बुध्यते ॥ ३,१.८ ॥
सिद्धैः शिवमुखात् प्राप्तं तेषां सिद्धिस्तु साधनात् ।
सम्प्रदायक्रमो युक्तिस्तैः स्वशास्त्रेषु गोपिता ॥ ३,१.९ ॥
मयापि तन्मुखात्प्राप्तं साधितं बहुधा ततः ।
रसशास्त्राणि सर्वाणि समालोक्य यथाक्रमम् ॥ ३,१.१० ॥
साधकानां हितार्थाय प्रकटीक्रियतेऽधुना ।
न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः ॥ ३,१.११ ॥
शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् ।
{आचार्य}
आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः ॥ ३,१.१२ ॥
मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।
देवीभक्तः सदा धीरो देवतायागतत्परः ॥ ३,१.१३ ॥
सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि ।
एवं लक्षणसंयुक्तो रसविद्यागुरुर् भवेत् ॥ ३,१.१४ ॥
{शिष्य}
गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ।
निरालसाः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥ ३,१.१५ ॥
दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ।
अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ॥ ३,१.१६ ॥
इत्येवं लक्षणैर्युक्ताः शिष्याः स्यू रससिद्धये ।
{अनुचराः}
सहायाः सोद्यमाः सर्वे यथा शिष्यास्ततोऽधिकाः ॥ ३,१.१७ ॥
कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि ।
{बद् अल्छेमिस्त्स्}
नास्तिका ये दुराचाराश्चुम्बका गुरुतल्पगाः ॥ ३,१.१८ ॥
विद्यां गृहीतुमिच्छन्ति चौर्येण च बलाच्छलात् ।
न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ॥ ३,१.१९ ॥
कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् ।
इह लोके सुखं नास्ति परलोके तथैव च ॥ ३,१.२० ॥
तस्माद् भक्तिबलादेव संतुष्यति यथा गुरुः ।
तथा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये ॥ ३,१.२१ ॥
हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् ।
{रसशाला}
आतङ्करहिते देशे धर्मराज्ये मनोरमे ॥ ३,१.२२ ॥
उमामहेश्वरोपेते समृद्धे नगरे शुभे ।
कर्तव्यं साधनं तत्र रसराजस्य धीमता ॥ ३,१.२३ ॥
अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ।
तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा ॥ ३,१.२४ ॥
सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता ।
{रसमण्डप}
तत्समीपे समे दीर्घे कर्तव्यं रसमण्डपम् ॥ ३,१.२५ ॥
अतिगुप्तं सुविस्तीर्णकपाटार्गलभूषितम् ।
ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् ॥ ३,१.२६ ॥
भेरीकाकलघण्टादिशृङ्गिनादविनादितम् ।
भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा ॥ ३,१.२७ ॥
तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता ।
{रसलिङ्ग}
निष्कत्रयं हेमपत्त्रं रसेन्द्रो नवनिष्ककम् ॥ ३,१.२८ ॥
अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् ।
दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ॥ ३,१.२९ ॥
{रसलिङ्ग:: wओर्स्हिप्}
तल्लिङ्गं पूजयेत्तत्र सुशुभैर् उपचारकैः ।
लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ॥ ३,१.३० ॥
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद् भवेत् ।
ब्रह्महत्यासहस्राणि गोहत्याप्रयुतान्यपि ॥ ३,१.३१ ॥
तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ।
स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् ।
वाङ्मायां श्रीमद्घोरेण मन्त्रराजेन वार्चयेत् ॥ ३,१.३२ ॥
अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ॥ ३,१.३३ ॥
प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ।
तस्योत्सङ्गे महादेवीम् एकवक्त्रां चतुर्भुजाम् ॥ ३,१.३४ ॥
अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् ।
दधन्तीं तप्तहेमाभां पीतवस्त्रां विचिन्तयेत् ॥ ३,१.३५ ॥
वाङ्माया श्री कामराजशक्तिर् बीजरसाङ्कुशा ।
यै नमो द्वादशैतेषां कामविद्या रसाङ्कुशा ॥ ३,१.३६ ॥
अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः ।
नन्दिभृङ्गिमहाकालान्पूजयेत् पूर्वदिक्क्रमात् ॥ ३,१.३७ ॥
पूजयेन्नाममन्त्रैस्तु प्रणवादिनमोऽन्तकैः ।
एवं नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥ ३,१.३८ ॥
{रसदीक्षा}
रसदीक्षा शिवेनोक्ता दातव्या साधकाय वै ।
यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥ ३,१.३९ ॥
सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते ।
कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥ ३,१.४० ॥
स्थापयेद् रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् ।
गन्धपुष्पाक्षतधूपदीपैर् नैवेद्यतोऽर्चयेत् ॥ ३,१.४१ ॥
पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे ।
तिलाज्यैः पायसैः पुष्पैरष्टाधिकशतैः पृथक् ॥ ३,१.४२ ॥
अघोरेण रसाङ्कुश्या होमान्ते शिष्यमावहेत् ।
काकिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥ ३,१.४३ ॥
{काकिनी (देf.)}
यस्याः संकुचिताः केशाः श्यामा या पद्मलोचना ।
सुरूपा तरुणी चित्रा विस्तीर्णजघना शुभा ॥ ३,१.४४ ॥
संकीर्णरदना पीनस्तनभारेण चानता ।
चुम्बनालिङ्गनस्पर्शकोमला मृदुभाषिणी ॥ ३,१.४५ ॥
अश्वत्थपत्त्रसदृशयोनिदेशेन शोभिता ।
कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ ३,१.४६ ॥
रसबन्धे प्रयोगे च उत्तमा रससाधने ।
{काकिणी:: substitute}
तदभावे सुरूपा तु या काचित् तरुणाङ्गना ॥ ३,१.४७ ॥
तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् ।
कर्षैकैकं प्रभाते तु सा भवेत्काकिनीसमा ॥ ३,१.४८ ॥
{रसदीक्षा (चोन्त्.)}
एवं शक्तियुतो योऽसौ दीक्षयेत्तं गुरूत्तमः ।
सुस्नातम् अभिषिञ्चेत विमलैः कलशोदकैः ॥ ३,१.४९ ॥
अघोरमङ्कुशीं विद्यां दद्याच्छिष्याय सद्गुरुः ।
यथाशक्त्याथ शिष्येण दातव्या गुरुदक्षिणा ॥ ३,१.५० ॥
अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् ।
दशांशेन हुनेत् कुण्डे त्रिकोणे हस्तमात्रके ॥ ३,१.५१ ॥
कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् ।
जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् ।
कृत्वाथ प्रविशेच्छालां शुभां लिप्तां सुवेदिकाम् ॥ ३,१.५२ ॥
षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् ।
वेदिकायां लिखेत्सम्यक् तद्बहिश्चाष्टपत्त्रकम् ॥ ३,१.५३ ॥
कमलं चतुरस्रं च चतुर्द्वारेषु शोभितम् ।
कर्णिकायां न्यसेत्खल्वं लोहजं स्वर्णरेखितम् ॥ ३,१.५४ ॥
तन्मध्ये रसराजं तु पलानां शतमात्रकम् ।
पञ्चाशत्पञ्चविंशं वा पूजयेद् रसलिङ्गवत् ॥ ३,१.५५ ॥
वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।
भूनागं शक्तयश्चैताः षट्सु पत्त्रेषु पूजयेत् ॥ ३,१.५६ ॥
{उपरसाः}
गन्धतालककासीसशिलाकङ्कुष्ठभूखगम् ।
राजावर्तो गैरिकं च ख्याता उपरसा अमी ॥ ३,१.५७ ॥
{उपरस:: wओर्स्हिप्}
पूज्या अष्टदलेष्वेते पूर्वादीशान्तगाः क्रमात् ।
{महारसाः}
रसकं विमला ताप्यं चपला तुत्थमञ्जनम् ॥ ३,१.५८ ॥
हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः ।
पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥ ३,१.५९ ॥
पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके ।
पश्चिमे वङ्गकान्तौ च उत्तरे तीक्ष्णमुण्डके ॥ ३,१.६० ॥
सर्वमेतमघोरेण पूजयेद् अङ्कुशान्वितम् ।
{आउस्स्तत्तुन्ग् देस् आल्छेमिस्तेन्}
विडकाञ्जिकयन्त्राणि क्षारमृल्लवणानि च ॥ ३,१.६१ ॥
कोष्ठी मूषा वङ्कनाली तुषाङ्गारवनोपलाः ।
भस्त्रिका दंशकान् एका शिला खल्वोऽप्युदूखलम् ॥ ३,१.६२ ॥
स्वर्णकारोपकरणं समस्ततुलनानि च ।
मृत्काष्ठताम्रलोहाद्यपात्राणि विविधानि च ॥ ३,१.६३ ॥
दिव्यौषधानि वर्गाश्च रञ्जकं स्नेहनानि च ।
एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥ ३,१.६४ ॥
वाङ्मायां हें ततः क्ष्में च क्ष्मश्च पञ्चाक्षरो मनुः ।
अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् ॥ ३,१.६५ ॥
{रससिद्धस्}
सर्वेषां रससिद्धानां नामानि कीर्तयेत्तदा ।
व्यालाचार्यश्चन्द्रसेनः सुबुद्धिर्नरवाहनः ॥ ३,१.६६ ॥
नागार्जुनो रत्नघोषः सुरानन्दो यशोधरः ।
इन्द्रद्युम्नश्च माण्डव्यश्चर्पटिः शूरसेनकः ॥ ३,१.६७ ॥
वाडबो नागबुद्धिश्च खण्डः कापालिको हरः ।
कामली तात्त्विकः शम्भुर्लोको लम्पटशारदौ ॥ ३,१.६८ ॥
बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः ।
एते सर्वे तु भूपेन्द्रा रससिद्धा महाबलाः ॥ ३,१.६९ ॥
चरन्ति सर्वलोकेषु निर्जरामरणाः सदा ।
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ॥ ३,१.७० ॥
वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसायनम् ।
हर्षयेद् द्विजदेवांश्च तर्पयेदिष्टदेवताम् ॥ ३,१.७१ ॥
कुमारीयोगिनीयोगिमुनिमायिकसाधकान् ।
तर्पयेत्पूजयेद् भक्त्या निजशक्त्यनुसारतः ॥ ३,१.७२ ॥
इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् ।
सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥ ३,१.७३ ॥
अन्यथा चेद्विमूढात्मा मन्त्रदीक्षाक्रमं विना ।
कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥ ३,१.७४ ॥
नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि ।
तस्मात् सर्वप्रयत्नेन शास्त्रोक्तां कारयेत् क्रियाम् ॥ ३,१.७५ ॥
सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मणि कोविदा रसपरास्त्वाढ्या जनैश्चार्थिताः ।
मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधीकोविदास्तेषां सिध्यति नान्यथा विधिबलात् श्री पारदः पारदः ॥ ३,१.७६ ॥


रसरत्नाकरः, ३, २[सम्पाद्यताम्]

भक्त्या शास्त्रविचारणादनुदिनं पूजाविधेः पालनात् स्वात्मानन्दनिमज्जनात् परहितात् कार्यक्रियागोपनात् ।
नित्यं सद्गुरुसेवनाद् अनुभवात् सूतस्य सद्भावनाद् दास्यन्ते निजरश्मयो वरबलात् सत्सम्प्रदायात्स्फुटम् ॥ ३,२.१ ॥
रसादिलोहपर्यन्तं शोधने मारणे हितम् ।
भावनायां क्वचिच् चैव नानावर्गो निगद्यते ॥ ३,२.२ ॥
{देfऔल्त् वलुएस्}
अङ्गे नोक्ते भवेन्मूलं द्रवः सर्वाङ्गतो भवेत् ।
अमात्रायां समा मात्रा विज्ञेया रसकर्मणि ॥ ३,२.३ ॥
{क्षारवर्ग}
तिलापामार्गकदलीचित्रकार्द्रकमूलकम् ।
शिग्रुमोक्षपलाशं च सर्वमन्तःपुटे दहेत् ॥ ३,२.४ ॥
समालोड्य जलैर्वस्त्रैर्बद्ध्वा ग्राह्यमधोजलम् ।
शोधयेत् पाचयेदग्नौ मृद्भाण्डेन तु तज्जलम् ॥ ३,२.५ ॥
ग्राह्यं क्षारावशेषं तद् वृक्षक्षारमिदं स्मृतम् ।
{श्वेतवर्ग, शुक्लवर्ग}
चुन्नं कूर्पं शङ्खशुक्तिवराटैः शुक्लवर्गकः ॥ ३,२.६ ॥
{विड्वर्ग}
कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ।
{अम्लवर्ग}
चाङ्गेरी चणकाम्लं तु मातुलुङ्गाम्लवेतसम् ॥ ३,२.७ ॥
चिञ्चानारङ्गजम्बीरमम्लवर्ग इति स्मृतः ।
{लवणपञ्चक}
सामुद्रं सैन्धवं काचं चुल्लिका च सुवर्चलम् ॥ ३,२.८ ॥
चूलिकानवसारः स्याद् एतल्लवणपञ्चकम् ।
{त्रिक्षार}
सज्जीक्षारं यवक्षारं टङ्कणं च तृतीयकम् ॥ ३,२.९ ॥
{मूत्रवर्ग}
क्षारत्रयमिदं ख्यातम् अजाश्वमहिषीगवाम् ।
नारीमेषीखरोष्ट्राणां मूत्रवर्गो गजस्य च ॥ ३,२.१० ॥
{मित्रपञ्चक}
मध्वाज्यटङ्कणं गुञ्जा गुडः स्यान् मित्रपञ्चकम् ।
{पित्तवर्ग}
नराश्वशिखिगोमत्स्यपित्तानि पित्तवर्गके ॥ ३,२.११ ॥
{वसावर्ग}
मत्स्याहिनरमेषीणां शिखिनां च वसा मता ।
{रक्तवर्ग}
मञ्जिष्ठा कुङ्कुमं लाक्षा दाडिमं रक्तचन्दनम् ॥ ३,२.१२ ॥
बन्धूकं करवीरं च रक्तवर्गो ह्ययं भवेत् ।
{पीतवर्ग}
कुसुम्भं किंशुकं रात्रिः पतंगं मदयन्तिका ॥ ३,२.१३ ॥
पीतवर्गो ह्ययं ख्यातो दिव्यौषधिगणं शृणु ।
{दिव्यौषधिगण}
अजकर्णी शङ्खपुष्पी रुदन्ती काकतुण्डिका ॥ ३,२.१४ ॥
हंसपादी व्याघ्रनखी चाण्डाली क्षीरकन्दकः ।
वन्ध्याकर्कोटकी रम्भा गोजिह्वा कोकिलाक्षकः ॥ ३,२.१५ ॥
शाकवृक्षो हेमवल्ली पातालगरुडी शमी ।
कटुतुम्बी वज्रलता सूरणं वनसूरणम् ॥ ३,२.१६ ॥
मेषशृङ्गी चक्रमर्दो जलकुम्भी शतावरी ।
गुञ्जा कोशातकी नीली आखुकर्णी त्रिपर्णिका ॥ ३,२.१७ ॥
कुक्कुटी कृष्णतुलसी पुङ्खा श्वेतापराजिता ।
गरुडी लाङ्गली ब्राह्मी चाङ्गेरी पद्मचारिणी ॥ ३,२.१८ ॥
{वज्रशोधनम् (१)}
गृहीत्वाथ शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।
महिषीविष्ठया लिप्त्वा तुलाग्नौ च पुटे पचेत् ॥ ३,२.१९ ॥
अहोरात्रात्समुद्धृत्य हयमूत्रैर्निषेचयेत् ।
व्याघ्रीकन्दे पुनः क्षिप्त्वा वज्रकंदोदरे क्षिपेत् ।
हयमूत्रैर् निषिञ्च्याच्च पुटेत्सिञ्च्याच्च पूर्ववत् ॥ ३,२.२० ॥
एवं सप्तदिनैः शुद्धं वज्रं स्यान्नात्र संशयः ।
{वज्रशोधनम् (२)}
कुलत्थकोद्रवक्वाथहयमूत्रस्नुहीपयः ॥ ३,२.२१ ॥
क्षिप्त्वा भाण्डे क्षिपेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ।
दोलायंत्रे दिवारात्रौ समुद्धृत्य पुनः क्षिपेत् ॥ ३,२.२२ ॥
व्याघ्रीकन्दं महाकन्दे क्षिप्त्वा गजपुटे पचेत् ।
तत्पक्वं काञ्चनीद्रावैः सेचयेच्छुद्धिमाप्नुयात् ।
{वज्रशोधनम् (३)}
आखुकर्णी मेघनादः प्रियङ्गुर्मेषशृङ्गिका ।
अम्लवेतसनिर्गुण्डीकुलत्थकोद्रवाः शमी ॥ ३,२.२३ ॥
मुनिश्च हयमूत्रेण कषायं कारयेच्छुभम् ।
जम्बीरे सूरणे वाथ क्षिप्त्वा वज्रं दिनं पचेत् ॥ ३,२.२४ ॥
पूर्वक्वाथेन दोलायां शुद्धिमाप्नोति नान्यथा ।
{वज्र:: मारण}
शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्तु तत् ॥ ३,२.२५ ॥
अग्निवर्णं क्षिपेन्मूत्रे गर्दभोत्थे पुनः पुनः ।
लेपितं धामितं तद्वदेवं कुर्यात् त्रिसप्तधा ॥ ३,२.२६ ॥
{वज्र:: मारण}
तालकं मत्कुणैः पिष्ट्वा गोले तस्मिन्क्षिपेत्तु तत् ।
रुद्ध्वा मूषां धमेद् दार्ढ्यात् हयमूत्रे विनिक्षिपेत् ॥ ३,२.२७ ॥
समुद्धृत्य पुनस्तद्वत् सप्तवारान्मृतो भवेत् ।
{वज्रमारणम् (३)}
मेषशृंगी भुजगास्थि कूर्मपृष्ठं शिलाजतु ॥ ३,२.२८ ॥
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ।
त्रिक्षारं पंचलवणं मेषशृङ्गीन्द्रवारुणी ॥ ३,२.२९ ॥
वज्रवल्ली मूषकर्णी बदरीकुड्मलानि च ।
मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणाः ॥ ३,२.३० ॥
पञ्चाङ्गां शरपुङ्खां च हस्तिनीरं नृछागयोः ।
पेटारीबीजं स्त्रीपुष्पं पारावतमलं शिलाम् ॥ ३,२.३१ ॥
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं निम्बकस्य च ।
धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा चाजमूत्रकम् ॥ ३,२.३२ ॥
हंसपादी वज्रकन्दं बृहतीफलसूरणे ।
गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् ॥ ३,२.३३ ॥
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ।
तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् ॥ ३,२.३४ ॥
कुलत्थं कोद्रवं पिष्ट्वा हयमूत्रैर्विलोडयेत् ।
तन्मध्ये सेचयेत्तप्तां मूषां पुटविनिर्गताम् ॥ ३,२.३५ ॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
आदाय पूर्वजं वज्रताले मत्कुणपेषिते ॥ ३,२.३६ ॥
गोलके निक्षिपेद्रुद्ध्वा मूषां तीव्रानले धमेत् ।
इत्येवं सप्तधा धाम्यं हयमूत्रैर् निषेचयेत् ॥ ३,२.३७ ॥
अनेन क्रमयोगेन मृतं भवति निश्चितम् ।
तं मृतं चूर्णयेत्खल्वे सिद्धयोग उदाहृतः ॥ ३,२.३८ ॥
{mercury शोधन}
भ्रामकस्य मुखं ताप्यं पेटारीबीजटङ्कणे ।
क्षारं चोत्तरवारुण्या गन्धकं तालकं शमी ॥ ३,२.३९ ॥
भूधरस्थं पुटैकेन समुद्धृत्य विमर्दयेत् ।
पूर्ववत्पूर्वजैर्द्रावैस्तद्वद् रुद्ध्वा च पाचयेत् ॥ ३,२.४० ॥
पुनर्मर्द्यं पुनः पाच्यं दशवारं च पूर्ववत् ।
पातयेत्पातनायंत्रे सम्यक् शुद्धो भवेद्रसः ॥ ३,२.४१ ॥
{mercury शोधन}
रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थैर्द्रवैर्यामं पात्यं पातनयन्त्रके ॥ ३,२.४२ ॥
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
{mercury शोधन}
अथवा पारदं मर्द्यं तप्तखल्वे दिनावधि ।
कुमारीरजनीचुन्नैः पात्यं पातनयन्त्रके ॥ ३,२.४३ ॥
कन्याग्नित्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
पुनर्मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
इत्येवं सप्तधा कुर्यात् सम्यक् शुद्धो भवेद्रसः ॥ ३,२.४४ ॥
{mercury मर्दन:: अप्प्लिचतिओन्}
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ।
शोधने चारणे चैव जारणे च विशेषतः ।
मूर्छने मारणे चैव बन्धने च प्रशस्यते ॥ ३,२.४५ ॥
{तप्तखल्व}
अजाशकृत्तुषाग्निं च भूगर्ते त्रितयं क्षिपेत् ।
तस्योपरि स्थितं खल्वं तप्तखल्वमिदं भवेत् ॥ ३,२.४६ ॥
खल्वं लोहमयं शस्तं मर्दकं चैव लोहजम् ।
तदभावे शिलोत्थं वा योग्यं खल्वं च मर्दकम् ॥ ३,२.४७ ॥
{mercury हिङ्गुलाकृष्ट}
अथवा हिंगुलात् सूतं ग्राहयेत्तन्निगद्यते ।
गोमूत्रैर् माहिषैर् मूत्रैस्तिलतैलसुराम्लकैः ॥ ३,२.४८ ॥
सप्ताहं हिंगुलं पाच्यं लोहपात्रे क्रमाग्निना ।
चालयेल्लोहदण्डेन द्रावं दत्त्वा पुनः पुनः ॥ ३,२.४९ ॥
सद्रवं तं समादाय शिखिपित्तेन भावयेत् ।
दिनान्ते पातनायन्त्रे पातयेच्चण्डवह्निना ॥ ३,२.५० ॥
सप्तकञ्चुकनिर्मुक्तः ख्यातोऽयं शुद्धसूतकः ॥ ३,२.५१ ॥
कन्याभिस्त्रिफलाभिश्च पुनर्मर्द्यं च पातयेत् ।
इत्येवं सप्तधा कुर्यात् सम्यक् शुद्धो भवेद् रसः ॥ ३,२.५२ ॥
{mercury हिङ्गुलाकृष्ट}
दिनैकं हिङ्गुलं खल्वे मर्द्यमम्लेन केनचित् ।
पातयेत् पातनायंत्रे दिनान्ते तत्समुद्धरेत् ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकार्यकृत् ॥ ३,२.५३ ॥
सर्वसिद्धमतमेतदीरितं सूतशुद्धिकरमद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥ ३,२.५४ ॥


रसरत्नाकरः, ३, ३[सम्पाद्यताम्]

षट्काष्टकं ह्यष्टकमष्टकं च शोध्यं विमर्द्यं च यथोदितं तत् ।
वज्रादिलोहान्तकमुक्तपूर्वं तद्वक्ष्यते सूतवरस्य सिद्ध्यै ॥ ३,३.१ ॥
{वज्र:: subtypes}
श्वेता रक्ताः पीतकृष्णा द्विजाद्या वज्रजातयः ।
पुंस्त्रीनपुंसकाश् चेति लक्षणेन तु लक्षयेत् ॥ ३,३.२ ॥
{पुंवज्र:: परीक्षा}
वृत्ताः फलकसम्पूर्णास् तेजस्वन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ ३,३.३ ॥
{स्त्रीवज्र:: परीक्षा}
रेखाबिन्दुसमायुक्ताः षडस्रास्ताः स्त्रियः स्मृताः ।
{नपुंसक:: परीक्षा}
त्रिकोणं पत्त्रदेहं यद्दीर्घं यत्स्यान्नपुंसकम् ॥ ३,३.४ ॥
सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रा देहसिद्ध्यर्थं क्रामकं स्यान्नपुंसकम् ॥ ३,३.५ ॥
{दिव्यौषधि}
अजामारी काकमाची देवदालीन्द्रवारुणी ।
काकजङ्घा शिखिशिखा सर्पाक्षी नागवल्लिका ॥ ३,३.६ ॥
मीनाक्षी कृष्णधत्तूरो बला नागवल्ली जया ।
मुण्डी महाबला पूगी त्रिविधं चित्रकं निशा ॥ ३,३.७ ॥
मूर्वा काञ्चाननं कन्या पेटारी सूर्यवर्तकः ।
विष्णुक्रान्ता कारवल्ली वाकुची सिन्दुवारिका ॥ ३,३.८ ॥
स्वर्णपुष्पी खण्डजारी मञ्जिष्ठा पीलुकं वचा ।
स्नुही रक्तस्नुही बिल्वं कार्पासः कंगुणी घना ॥ ३,३.९ ॥
पलाशाङ्कोलविजया मेघनादार्कसर्षपाः ।
ब्रह्मदण्डी महाराष्ट्री श्वेता रक्ता पुनर्नवा ॥ ३,३.१० ॥
उदुम्बरसोमलता कुम्भी पुष्करमूलकम् ।
तिलपर्णी कृष्णजीरा वृश्चिकाली च कालिका ॥ ३,३.११ ॥
करवीरोऽग्निदमनी बृहती भूमिपाटली ।
यवचिञ्ची चन्द्रलता मर्कटी वनराजकम् ॥ ३,३.१२ ॥
बदरी लज्जरी लाक्षा चणा वर्तुलपत्रका ।
अपामार्गो भूकदम्बो विषमुष्ट्येकवीरकः ॥ ३,३.१३ ॥
गोरम्भा कदली जाती मुसली सहदेविका ।
एरण्डः सैन्धवं पथ्या शुंठी मण्डूकपर्णिका ॥ ३,३.१४ ॥
मरूवको हिंगु वालो लक्ष्मणा हस्तिमूलिका ।
क्षीरवृक्षाश्च ये सर्वे तथा नानाविधं विषम् ॥ ३,३.१५ ॥
दिव्यौषधिगणः ख्यातो रसराजस्य साधने ।
व्यस्तं वाथ समस्तं वा यथालाभं नियोजयेत् ॥ ३,३.१६ ॥
{विषवर्गः}
तीव्रगन्धरसस्पर्शैर्विविधैस्तु वनोद्भवैः ।
मर्दनात्स्वेदनात्सूतो म्रियते बध्यतेऽपि च ॥ ३,३.१७ ॥
रक्तशृङ्गी कालकूटं हारिद्रं सक्तूकं तथा ।
मौस्तिकं विषवर्गः स्यात् मूषाकरणमुच्यते ।
{वज्रमूषा:: production}
तुषं वस्त्रं समं दग्धं तत्पादांशा च मृत्तिका ।
कूपीपाषाणपादं च वज्रवल्ल्या द्रवैर्दिनम् ॥ ३,३.१८ ॥
मर्दयेत् कारयेन्मूषां वज्राख्यां रसबन्धकाम् ।
{वज्रमूषा (२)}
वल्मीकमृत्तिकाङ्गाराः पुराणं लोहकिट्टकम् ॥ ३,३.१९ ॥
श्वेतपाषाणकं चैतत् सर्वं चूर्ण्यं समं समम् ।
सर्वतुल्यं तुषं दग्धं सर्वं तोयैश्च मर्दयेत् ॥ ३,३.२० ॥
मूषासंपुटकं कुर्यात् सन्धिं लिप्याच्च तेन वै ।
सर्वकार्यकरा एषा वज्रमूषा महाबला ॥ ३,३.२१ ॥
{वज्रमूषा (३)}
गारा दग्धास्तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
गजाश्वानां मलं दग्धं यावत्तत् कृष्णतां गतम् ॥ ३,३.२२ ॥
पाषाणभेदीपत्राणि कृष्णा मृच् च समं समम् ।
वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा शोषयेद् दृढम् ॥ ३,३.२३ ॥
तेन कोष्ठं वङ्कनालं वज्रमूषां च कारयेत् ।
वर्तुला गोस्तनाकारा वज्रमूषा प्रकीर्तिता ॥ ३,३.२४ ॥
मूर्छने मारणे बन्धे द्वंद्वमेलापके हिता ।
सैव छिद्रान्विता मध्यगम्भीरा सारणोचिता ॥ ३,३.२५ ॥
प्रकटा शरावकाकारा बीजनिर्वापणे हिता ।
{वज्र:: मारण}
सूतं धान्याभ्रकं तुल्यं दिनं पुनर्नवाद्रवैः ।
मर्दितं तप्तखल्वे तु वज्रमूषान्धितं पचेत् ॥ ३,३.२६ ॥
चिञ्चाबीजं मेषशृंगी स्त्रीपुष्पं चाम्लवेतसम् ।
पञ्चाङ्गं शरपुङ्खायाः शशदन्ताः शिलाजतु ॥ ३,३.२७ ॥
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ।
स्नुह्यर्कोन्मत्तवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ॥ ३,३.२८ ॥
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा मूषां धमेद् दृढम् ।
गुडूचीं सैन्धवं हिंगु समुस्तोत्तरवारुणीम् ॥ ३,३.२९ ॥
क्वाथैः कौलत्थकैः पिष्ट्वा तस्मिन्द्रावे निषेचयेत् ।
तद्वज्रं पूर्ववद्गोले क्षिप्त्वा रुद्ध्वा धमेत्तथा ॥ ३,३.३० ॥
सेचनान्तं पुनः कुर्यादेकविंशतिवारकम् ।
तालमत्कुणयोगेन सप्तवारं पुनर्धमेत् ॥ ३,३.३१ ॥
सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् ।
{वज्र:: मारण}
त्रिवर्षरूढकार्पासमूलमादाय पेषयेत् ॥ ३,३.३२ ॥
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ।
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ॥ ३,३.३३ ॥
एवं सप्तपुटैः पक्व एकैकेन मृतो भवेत् ।
{वज्रमारणम् (६)}
तालकासीससौराष्ट्रयोर् ह्यपामार्गस्य भस्म च ॥ ३,३.३४ ॥
पिष्ट्वा कौलत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ।
क्षिप्त्वा त्रिसप्तवाराणि म्रियते नात्र संशयः ॥ ३,३.३५ ॥
{वज्रमारणम् (७)}
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ।
तद्गोलके क्षिपेद्वज्रमन्धमूषागतं धमेत् ॥ ३,३.३६ ॥
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ।
रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तकम् ॥ ३,३.३७ ॥
म्रियते नात्र सन्देहः सर्वकर्मसु योजयेत् ।
{वज्रमारणम् (८)}
उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ॥ ३,३.३८ ॥
क्षणं पिष्ट्वा तु तद्गोले वज्रं क्षिप्त्वा पचेदनु ।
नृतैले गन्धतैले वा म्रियते नात्र संशयः ॥ ३,३.३९ ॥
{वज्रमारणम् (९)}
भूनागं गन्धकं वाथ नारीस्तन्येन पेषयेत् ।
तद्गोलस्य पचेद्वज्रं पूर्वतैले मृतं भवेत् ॥ ३,३.४० ॥
{वज्रमारणम् (१०)}
स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ।
वज्रं निरुध्य मूषां तां शुष्कां तीव्राग्निना धमेत् ॥ ३,३.४१ ॥
तप्तमश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ।
इत्येवं सप्तधा कार्यं ततस्तालकमत्कुणाः ॥ ३,३.४२ ॥
कृत्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ।
धामितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ॥ ३,३.४३ ॥
{वज्रमारणम् (११)}
वज्रं मत्कुणरक्तेषु क्षिप्त्वा लिप्त्वातपे क्षिपेत् ।
शुष्कं लेप्यं पुनः शोष्यं यावत् सप्तदिनावधि ॥ ३,३.४४ ॥
विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत् पुनः पुनः ।
तप्तं तप्तं तु तद्वज्रं शतवारान्मृतं भवेत् ॥ ३,३.४५ ॥
{वज्रमारणम् (१२)}
गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ।
पुनः स्त्रीरजसालोड्य तस्मिन्वज्रं सुतापितम् ॥ ३,३.४६ ॥
सेचयेत्तापयेदेवं मृतं स्यात्तु त्रिसप्तधा ।
{वज्र:: मृदूकरण}
मातुलुङ्गगतं वज्रं रुद्ध्वा बाह्ये मृदा लिपेत् ।
पचेत् पुटे समुद्धृत्य तद्वच्छतपुटैः पचेत् ॥ ३,३.४७ ॥
नागवल्ल्या द्रवैर् लिप्तं तत्पत्रेणैव वेष्टितम् ।
जानुमध्यस्थितं यामं तद्वज्रं मृदुतां व्रजेत् ॥ ३,३.४८ ॥
{वज्रौदनं वज्रमृदूकरणम् (२)}
मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् ।
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥ ३,३.४९ ॥
कुलत्थकोद्रवक्वाथैस् त्रैफले वा कषायके ।
अहोरात्रात् समुद्धृत्य जम्बीरे तु पुनः क्षिपेत् ॥ ३,३.५० ॥
मातृवाहकजीवे वा क्षिप्त्वा पक्त्वा च पूर्ववत् ।
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥ ३,३.५१ ॥
बदरीवटनिम्बानाम् अङ्कुराणि समाहरेत् ।
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥ ३,३.५२ ॥
अश्वत्थपत्रकैर् वेष्ट्यं तद्गोलं जानुमध्यगम् ।
दिनं वा धारयेत् कक्षे मृदुर्भवति निश्चितम् ॥ ३,३.५३ ॥
{वज्रमृदूकरणम् (३)}
पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥ ३,३.५४ ॥
नागवल्लीद्रवैश्चैव वेष्टितं धान्यराशिगम् ।
मासान्ते तत्समुद्धृत्य नागवल्ल्या द्रवैर्लिपेत् ।
तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ॥ ३,३.५५ ॥
{वज्रमृदूकरणम् (४)}
कान्तपाषाणवज्रं वा चूर्णं वा कान्तलोहजम् ॥ ३,३.५६ ॥
ससूतम् अम्लयोगेन दिनमेकं विमर्दयेत् ।
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोलजैः ॥ ३,३.५७ ॥
पत्रैः पिष्टैस्तु संवेष्ट्य नागवल्लीदलैस्ततः ।
वेष्ट्यं तज्जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥ ३,३.५८ ॥
{वर्जमृदूकरणम् (५)}
एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।
मासमात्रात्समुद्धृत्य जानुमध्ये तु पूर्ववत् ॥ ३,३.५९ ॥
कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।
{वज्रमृदूकरणम् (६)}
वज्रं तित्तिरमांसेन वेष्टयेन्निक्षिपेन्मुखे ॥ ३,३.६० ॥
अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।
निखनेद्धस्तमात्रायां भूमौ मासात्समुद्धरेत् ॥ ३,३.६१ ॥
मण्डूकसंपुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।
तद्वज्रं पूर्वगोलस्थं जानुमध्ये गतं दिनम् ॥ ३,३.६२ ॥
भवेद्वज्रौदनं साक्षान्मार्यं पश्चाच्च योजयेत् ।
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥ ३,३.६३ ॥
{वैक्रान्तशोधनम्}
त्रिक्षारैः पञ्चलवणैर् वसामूत्राम्लकोद्रवैः ।
मत्स्यपित्तैस्तैलघृतैः कुलत्थैः काञ्जिकान्वितैः ॥ ३,३.६४ ॥
सप्ताहं दोलकायन्त्रे व्याघ्रीकन्दगतं पचेत् ।
सप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ॥ ३,३.६५ ॥
{उपरसानां शोधनम्}
जम्बीराणां द्रवे मग्नमातपे धारयेद्दिनम् ।
शुध्यन्ति टङ्कणं शंखो वराटाञ्जनगैरिकम् ।
कासीसं भूखगं चैव शुद्धं योगेषु योजयेत् ॥ ३,३.६६ ॥
{गन्धकशुद्धिः (१)}
यामैकं गन्धकं मर्द्यं द्रवैर् निम्बाजगन्धयोः ।
शृङ्गीधत्तूरयोर्वाथ तिलपर्ण्याश्च वा द्रवैः ।
तदादाय घृतैस्तुल्यं लोहपात्रे क्षणं पचेत् ॥ ३,३.६७ ॥
लघ्वग्निना द्रुतं तद्वै अजाक्षीरे विनिक्षिपेत् ।
इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकम् ॥ ३,३.६८ ॥
{गन्धकशोधनम् (२)}
करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥ ३,३.६९ ॥
क्षिप्त्वा तस्य मुखं रुद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।
गन्धकं धूर्तजैर् द्रावैर्दिनं भाव्यं विशोषयेत् ॥ ३,३.७० ॥
तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधारयेत् ।
आच्छाद्य च शरावेण पृष्ठे देयं पुटं लघु ॥ ३,३.७१ ॥
द्रुतं गन्धं समादाय भाव्यं धत्तूरजैर्द्रवैः ।
तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥ ३,३.७२ ॥
आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।
ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥ ३,३.७३ ॥
भावयेद्भृङ्गजैर्द्रावैः सप्ताहम् आतपे खरे ।
तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥ ३,३.७४ ॥
घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।
भृङ्गराजद्रवान्तस्थं सम्यक् शुद्धं भवेत्तु तत् ॥ ३,३.७५ ॥
{गन्धतैल}
अथ शुद्धस्य गन्धस्य तैलपातनमुच्यते ।
अम्लपर्णी देवदाली दाडिमं मातुलुङ्गकम् ॥ ३,३.७६ ॥
नारङ्गं वा यथालाभं द्रवमेकस्य चाहरेत् ।
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥ ३,३.७७ ॥
एताभ्यां गन्धकं भाव्यं घर्मे वारत्रयं पुनः ।
धत्तूरस्तुलसी कृष्णा लशुनं देवदालिका ॥ ३,३.७८ ॥
शिग्रुमूलं काकमाची कर्पूरं शङ्खपुष्पिका ।
कृष्णागुरु च कस्तूरी वन्ध्याकर्कोटकी समम् ॥ ३,३.७९ ॥
मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।
अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥ ३,३.८० ॥
त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् ।
इदं गन्धकतैलं स्यात्तत्तद्योगेषु योजयेत् ॥ ३,३.८१ ॥
{हरितालशुद्धिः (१)}
सचूर्णेणारनालेन दोलायन्त्रेण तालकम् ।
दिनं पक्वं विचूर्ण्याथ भाव्यं कूष्माण्डजैर्द्रवैः ॥ ३,३.८२ ॥
शोष्यं पेष्यं पुनर्भाव्यं शतवारं विशुद्धये ।
{हरितालशुद्धिः (२)}
तालकं कणशः कृत्वा तालात् पादांशटङ्कणम् ॥ ३,३.८३ ॥
द्वयं जम्बीरजैर् द्रावैः क्षालयेत्काञ्जिकैस्तथा ।
तच्छुष्कं पोटलीबद्धं सचूर्णे काञ्जिके पचेत् ॥ ३,३.८४ ॥
द्विदिनं दोलकायन्त्रे तद्वत्कूष्माण्डजैर्द्रवैः ।
पाचितं शुद्धिमायाति तालं सर्वत्र योजयेत् ॥ ३,३.८५ ॥
{विमलशुद्धिः}
सुवर्णवर्णं विमलं ताप्यं वा कणशः कृतम् ।
पुनर्नवायाः कल्कस्थं कौलत्थे स्वेदयेज्जले ॥ ३,३.८६ ॥
सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोटलीकृतम् ।
दोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥ ३,३.८७ ॥
{रसकशुद्धिः}
रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् ।
तैरेव दिनमेकं तु मर्दयेच्छुद्धिम् आप्नुयात् ॥ ३,३.८८ ॥
{उपरस:: शोधन}
पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।
अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥ ३,३.८९ ॥
यवसूरणभूधात्रीमाण्डूकीकरवीरकैः ।
कारवल्लीक्षीरकन्दरक्तोत्पलशमीवनैः ॥ ३,३.९० ॥
मेषशृङ्ग्या चोष्ट्रवसाशक्रवारुणिटङ्कणैः ।
तैलमत्स्यवसाव्योषैर् द्रवैरेतैः सकाञ्जिकैः ॥ ३,३.९१ ॥
एतैः समस्तैर्व्यस्तैर्वा दोलायन्त्रे दिनत्रयम् ।
अभ्रपत्राद्युपरसान् शुद्धिहेतोस्तु पाचयेत् ॥ ३,३.९२ ॥
{उपरस:: शोधन}
सूर्यावर्तो वज्रकन्दः कदली देवदालिका ।
शिग्रुः कोशातकी वन्ध्या काकमाची च वालुकम् ॥ ३,३.९३ ॥
आसामेकरसेनैव त्रिक्षारपटुपञ्चकम् ।
भावयेदम्लवर्गेण तीव्रघर्मे दिनावधि ॥ ३,३.९४ ॥
एतत्कल्केन संलेप्यमभ्रकं वज्रमाक्षिकम् ।
वैक्रांतं सस्यकं तालं कान्तपाषाणम् अञ्जनम् ॥ ३,३.९५ ॥
विमलां च शिलां तुत्थमन्यानुपरसांस्तथा ।
दोलायन्त्रे सारनाले पूर्वकल्कयुते पचेत् ।
तीव्रानले दिनैकेन शुद्धिमायान्ति तानि वै ॥ ३,३.९६ ॥
{धान्याभ्रकरणम्}
शुद्धमभ्रं भिन्नपत्रं कृत्वा व्रीहियुते दृढे ।
वस्त्रे बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत् ॥ ३,३.९७ ॥
हस्ताभ्यां स्वयमायाति यावदम्लान्तरे तु तत् ।
द्रवं त्यक्त्वा तु तच्छोष्यं दिनं धान्याभ्रकं भवेत् ॥ ३,३.९८ ॥
{अभ्र:: मारण:: निश्चन्द्र}
एतद्धान्याभ्रकं मर्द्यं भानुदुग्धैर् दिनावधि ।
कृत्वा पूपं भानुपत्रैर्वेष्टितं पाचयेत्पुटे ॥ ३,३.९९ ॥
इत्येवं दशधा पाच्यं दुग्धैर्भाव्यं पुनः पुनः ।
ततो वटजटाक्वाथैर्मर्द्यं दशपुटैः पचेत् ॥ ३,३.१०० ॥
सघृतैर् महिषीक्षीरैर्मर्द्यं देयं पुटत्रयम् ।
निश्चन्द्रं जायते ह्यभ्रं योजनीयं रसायने ॥ ३,३.१०१ ॥
{अभ्रकभस्म (२)}
पुनर्नवाद्यौषधानि ख्यातानि ह्यभ्रशोधने ॥ ३,३.१०२ ॥
धान्याभ्रकं तु तैरेव त्रिदिनं तु पुटे पचेत् ।
पूर्ववत्क्रमयोगेन म्रियते पञ्चभिः पुटैः ॥ ३,३.१०३ ॥
{Metals शोधन}
तैले तक्रे गवां मूत्रे काञ्जिके रविदुग्धके ।
कुलत्थानां कषाये च जम्बीराणां द्रवे तथा ॥ ३,३.१०४ ॥
तप्त्वा तप्त्वा निषिञ्चेद् एकैकस्मिंस्तु सप्तधा ।
स्वर्णादिलोहपत्राणि शुद्धिमायान्ति निश्चितम् ॥ ३,३.१०५ ॥
{Lead, Tin:: शोधन}
द्राविते नागवङ्गे च पचेत्तद्वद्विशुद्धये ।
{ब्रोन्शे, copper:: शोधन}
त्रिक्षारं पंचलवणं जम्बीराम्लेन सप्तधा ॥ ३,३.१०६ ॥
भावयेदातपे तीव्रे तत्कल्केन विलेप्य च ।
घोषारताम्रपत्राणां शुद्ध्यै गजपुटे पचेत् ॥ ३,३.१०७ ॥
{Lead:: मारण}
लोहपात्रे पचेन्नागं तुल्यं यावद्द्रुतं भवेत् ।
चाल्यं पलाशदण्डेन भस्मीभूतं समुद्धरेत् ॥ ३,३.१०८ ॥
भस्मतुल्यां शिलां तस्मिन्क्षिप्त्वा चाम्लेन केनचित् ।
पेषयेद्याममात्रं तु रुद्ध्वा गजपुटे पचेत् ॥ ३,३.१०९ ॥
स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् ।
अम्लेन याममात्रं च रुद्ध्वा पचेच्च पूर्ववत् ।
एवं षष्टिपुटैः पक्वो मृतो भवति पन्नगः ॥ ३,३.११० ॥
{Iron (gen.):: मारण}
नारीस्तन्येन सम्पिष्टं हिङ्गूलं पलपञ्चकम् ॥ ३,३.१११ ॥
तेन लोहस्य पत्राणि लेपयेत् पलपञ्चकम् ।
रुद्ध्वा गजपुटे पच्यात् कषायैस्त्रैफलैः पुनः ॥ ३,३.११२ ॥
जम्बीरैर् आरनालैर्वा विंशांशदरदेन च ।
पिष्ट्वा रुद्ध्वा पुटेल्लोहं तद्वत्पाच्यं पुनः पुनः ॥ ३,३.११३ ॥
चत्वारिंशत्पुटैरेव तीक्ष्णं कान्तं च मुण्डकम् ।
म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥ ३,३.११४ ॥
{वङ्गभस्म}
लोहपात्रे द्रुते वङ्गे पादांशं तालकं क्षिपेत् ।
चाल्यम् अश्वत्थदण्डेन जातं भस्म समुद्धरेत् ॥ ३,३.११५ ॥
तद्भस्म हरितालं तु तुल्यमम्लेन मर्दयेत् ।
पलाशकद्रवैर्वाथ यामान्ते चोद्धृतं पुटेत् ॥ ३,३.११६ ॥
उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।
पूर्वद्रावैस्तु यामैकं रुद्ध्वा गजपुटे पचेत् ।
चत्वारिंशत्पुटैरेवं पक्वं स्यान्मृतवङ्गकम् ॥ ३,३.११७ ॥
{copper:: मारण}
कण्टवेधीकृतं ताम्रपत्रं तुल्यांशगन्धकैः ॥ ३,३.११८ ॥
अम्लपिष्टैः प्रलिप्याथ रुद्ध्वा गजपुटे पचेत् ।
उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् ॥ ३,३.११९ ॥
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटेत् पुनः ।
एवं चतुःपुटैः पच्याद्गन्धो देयः पुटे पुटे ॥ ३,३.१२० ॥
मातुलुङ्गद्रवैरेवं पुटमेकं प्रदापयेत् ।
सितशर्करया पञ्चपुटं देयं मृतं भवेत् ॥ ३,३.१२१ ॥
{Silver:: मारण}
माक्षिकेनाम्लपिष्टेन तत्तुल्यं तारपत्रकम् ।
लिप्त्वा रुद्ध्वा पुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ॥ ३,३.१२२ ॥
कणामाक्षिकसिन्धूत्थभूधात्र्यश्च समं समम् ।
पूर्वचूर्णेन तुल्यांशमिदमम्लेन मर्दयेत् ॥ ३,३.१२३ ॥
रुद्ध्वा गजपुटे पच्यात्तैरेव मर्दयेत्पुटेत् ।
एवं सप्तपुटैः पक्वं तारं भस्मत्वमाप्नुयात् ॥ ३,३.१२४ ॥
{Gold:: मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा तेन समांशेन स्वर्णपत्राणि लेपयेत् ॥ ३,३.१२५ ॥
रुद्ध्वा गजपुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ।
तस्मिन्नेवं मृतं नागमष्टमांशेन लेपयेत् ॥ ३,३.१२६ ॥
यामैकं मर्दयेद् अम्लै रुद्ध्वा गजपुटे पचेत् ।
एवमष्टपुटैः पक्वं मृतं भवति हाटकम् ।
{ब्रस्स्, ब्रोन्शे:: मारण}
आरे घोषे प्रकर्तव्यं ताम्रवन्मारणं परम् ॥ ३,३.१२७ ॥
विविधपरमयोगैर् युक्तिर्युक्तैः प्रसिद्धैरनुभवपथदृष्टैः शोधनं मारणं च ।
पविबलिगगनानां सर्वलोहे विशेषाद् गदितमिह हितार्थं वार्तिकानां विभूत्यै ॥ ३,३.१२८ ॥


रसरत्नाकरः, ३, ४[सम्पाद्यताम्]

सम्यक् सिद्धमतान्तरैः समुचितैः सत्संप्रदायैः शुभैः ख्यातैर् गन्धकजारणादिविविधैर्योगैः सुसिद्धैः क्रमात् ।
यद्दृष्टं सुलभं सुवर्णकरणं तारस्य संरंजनात् ।
सत्यं सज्जनरक्षणातुरतया संतन्यते तत्त्वतः ॥ ३,४.१ ॥
{गन्धपिष्टि}
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेत्खल्वे मर्दकेन शनैः शनैः ॥ ३,४.२ ॥
कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ।
{स्वर्णपिष्टि}
भागत्रयं शुद्धसूतं भागैकं शुद्धहाटकम् ॥ ३,४.३ ॥
अम्लेन मर्दयेद्यामं ख्यातेयं स्वर्णपिष्टिका ।
{sulfur:: षड्गुणजारण}
गन्धपिष्टिं हेमपिष्ट्या समया वेष्टयेद्बहिः ॥ ३,४.४ ॥
वस्त्रेण वेष्टयेद् गाढं सूताख्ये लोहसंपुटे ।
निधाय पोटलीमध्ये सर्वतुल्यं च गन्धकम् ॥ ३,४.५ ॥
क्षिप्त्वा निरोधयेत्संधिं मृल्लोणेन च रोधयेत् ।
भूधराख्ये पुटे पक्त्वा जीर्णे गन्धं पुनः क्षिपेत् ॥ ३,४.६ ॥
षड्गुणे गन्धके जीर्णे शनैर्वस्त्रं निवारयेत् ।
पुनः पुनः समं गन्धं दत्त्वा जार्यं शनैः शनैः ॥ ३,४.७ ॥
निःशेषं नैव कर्तव्यं प्रमादाद्याति सूतकः ।
एवं शतगुणे जीर्णे यन्त्रादुद्धृत्य पिष्टिकाम् ॥ ३,४.८ ॥
{वेध:: Silver => Gold}
तत्तुल्ये संपुटे हेम्नि रुद्ध्वा बाह्ये च वेष्टयेत् ।
कुमारीद्रवपिष्टेन काचेनाङ्गुलमात्रकम् ॥ ३,४.९ ॥
तद्बहिष्टङ्कणेनैव लोणमृत्तिकया ततः ।
वेष्ट्यम् अङ्गुलितैलेन सूर्यतापेन शोषितम् ॥ ३,४.१० ॥
कोष्ठीयन्त्रे गतं धाम्यं वङ्कनाले दृढाग्निना ।
तत्खोटं जायते दिव्यं सिन्दूरारुणसंनिभम् ॥ ३,४.११ ॥
तेन वेधस्तु तारस्य द्रुतस्य शतभागतः ।
देयः संजायते स्वर्णं सिद्धयोग उदाहृतः ॥ ३,४.१२ ॥
{गन्धपिष्टि}
गन्धकं शोधितं चूर्ण्यं सप्तधा कनकद्रवैः ।
भावयेदातपे तद्वन्नारीणां रजसा पुनः ॥ ३,४.१३ ॥
तद् गन्धं कर्षमेकं तु नरपित्तेन लोलितम् ।
पलैकं पारदं शुद्धम् आतपे खर्परे क्षिपेत् ॥ ३,४.१४ ॥
तत्पृष्ठे लोलितं गन्धं क्षिप्त्वाङ्गुष्ठेन मर्दयेत् ।
पिष्टिका जायते दिव्या सर्वकामफलप्रदा ॥ ३,४.१५ ॥
{गन्धपिष्टि}
तिलपर्णीरसेनैव सप्तधा शुद्धगंधकम् ।
भावयेत्पेषयेत्तच्च छायाशुष्कं पुनः पुनः ॥ ३,४.१६ ॥
शुद्धं सूतं पलैकं च मूषायां हि निधापयेत् ।
शुद्धस्वर्णस्य गुलिकां निष्कमात्रां विनिक्षिपेत् ॥ ३,४.१७ ॥
तां मूषां वालुकायन्त्रे स्थापयेत्पूर्वगन्धकम् ।
त्रुटिशस्त्रुटिशो दत्त्वा चुल्ल्यां मन्दाग्निना पचेत् ॥ ३,४.१८ ॥
पादांशे गन्धके जीर्णे जायते गन्धपिष्टिका ।
गन्धपिष्टिः पृथग्ग्राह्या स्वर्णस्य गुलिकां विना ॥ ३,४.१९ ॥
{गन्धपिष्टि}
छायायां गन्धकं भाव्यं शतधा मर्कटीद्रवैः ।
घर्मे मृत्खर्परे सूतं क्षिपेत् किंचिच् च गन्धकम् ॥ ३,४.२० ॥
मर्कटीद्रवसंयुक्तं जीर्णे गन्धे द्रवं पुनः ।
देयं पादांशकं यावद्गन्धकं सद्रवं क्रमात् ॥ ३,४.२१ ॥
जायते पिष्टिका दिव्या सर्वकामफलप्रदा ।
{गन्धपिष्टि}
गन्धकं सूक्ष्मचूर्णं तु काञ्जिकैः क्षालयेत्त्रिधा ॥ ३,४.२२ ॥
त्रिधा जम्बीरजैर्द्रावैर्हंसपाद्याश्च सप्तधा ।
कर्पूरं च पृथग्भाव्यं श्वेताद्रिकर्णिकाद्रवैः ॥ ३,४.२३ ॥
आतपे त्रीणि वाराणि ततो जारणमारभेत् ।
द्विगुञ्जामात्रकर्पूरैर् यन्त्रगर्भं प्रलेपयेत् ॥ ३,४.२४ ॥
तद्गर्भे भावितं गन्धं सार्धनिष्कं प्रदापयेत् ।
शुद्धसूतं पलं चार्धं कर्पूरं पूर्वतुल्यकम् ॥ ३,४.२५ ॥
पूर्वतुल्यं ततो गन्धं क्रमेणाथ प्रदापयेत् ।
श्वेताद्रिकर्णिकामूलं गोमूत्रेण प्रपेषयेत् ॥ ३,४.२६ ॥
आच्छाद्य तेन कल्केन शरावेण निरुध्य च ।
पाचयेन्नलिकायन्त्रे दिनान्ते तं समुद्धरेत् ॥ ३,४.२७ ॥
कर्पूरादि पुनर्देयं तद्वज्जार्यं दिनावधि ।
इत्येवं तु पुनः कुर्याज्जायते गन्धपिष्टिका ॥ ३,४.२८ ॥
{गन्धपिष्टि}
पारदस्य पलैकं तु कर्षैकं शुद्धगन्धकम् ।
स्निग्धखल्वे कराङ्गुल्या देवदालीद्रवे प्लुतम् ॥ ३,४.२९ ॥
मर्दयेदातपे तीव्रे जायते गन्धपिष्टिका ।
{गन्धपिष्टि}
शुद्धसूतं पलैकं तु कर्षार्धं शुद्धगन्धकम् ॥ ३,४.३० ॥
निधाय ताम्रखल्वे तु तदधोऽग्निं मृदुं क्षिपेत् ।
कराङ्गुष्ठेन संमर्द्य यामाद्भवति पिष्टिका ॥ ३,४.३१ ॥
{गन्धपिष्टि:: स्तम्भन}
तिक्तकोशातकीबीजं चाण्डालीकन्द एव च ।
नारीस्तन्येन सम्पिष्य लेपयेद् गन्धपिष्टिकाम् ॥ ३,४.३२ ॥
निक्षिपेत्सूरणे कन्दे क्षीरकन्दोदरे तथा ।
वन्ध्याकर्कोटकीवज्रकन्दे वा कुडुहुञ्जिके ॥ ३,४.३३ ॥
मुखं कन्दस्य मज्जाभी रुद्ध्वा कन्दं मृदा लिपेत् ।
पुटयेद्भूधरे यन्त्रे करीषाग्नौ दिनावधि ॥ ३,४.३४ ॥
ऊर्ध्वाधः परिवर्तेन यथा कन्दो न दह्यते ।
ततः पिष्टीं समुद्धृत्य स्तम्भिता जायते ध्रुवम् ॥ ३,४.३५ ॥
{गन्धपिष्टि:: स्तम्भित:: जारण}
अथास्या जारणा कार्या स्तनाख्ये लोहसंपुटे ।
निधाय जारयेद्गन्धं तुल्यं तुल्यं तु भूधरे ॥ ३,४.३६ ॥
जीर्णे गन्धे पुनर्देयं यन्त्रे जार्यं च पूर्ववत् ।
एवं शतगुणं जार्यं जीर्णे यन्त्रात्समुद्धरेत् ॥ ३,४.३७ ॥
सर्वासां गन्धपिष्टीनां रञ्जनं स्यात्तु जारणात् ।
{गन्धपिष्टि:: मारण}
दिव्यौषधगणद्रावैः पिष्टिः खल्वे विमर्दयेत् ।
दिनान्ते गोलकं कृत्वा बीजैर् दिव्यगणोद्भवैः ॥ ३,४.३८ ॥
लेपयेद्वज्रमूषां तु गोलं तत्र निरोधयेत् ।
दिनैकं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ ३,४.३९ ॥
समुद्धृत्य पुनर्मर्द्यं पूर्वद्रावैस्तु पूर्ववत् ।
पुटान्तं कारयेद् एवं दशवारं पुनः पुनः ॥ ३,४.४० ॥
{गन्धपिष्टि:: वेध:: Silver => Gold}
म्रियते नात्र संदेहो गन्धपिष्ट्यास् ततः पुनः ।
मृतपिष्टिपलैकं तु पेषयेद्वासकद्रवैः ॥ ३,४.४१ ॥
तत्कल्कैर्नागपत्रं तु लेपयित्वा पलाष्टकम् ।
छायाशुष्कं न्यसेत्पिण्डे वासापत्रसमुद्भवे ॥ ३,४.४२ ॥
तं पिण्डं संपुटे रुद्ध्वा पुटेदारण्यकोत्पलैः ।
समुद्धृत्य पुनर्देया पलैका मृतपिष्टिका ॥ ३,४.४३ ॥
वासाद्रावैर्दिनं मर्द्यं तं गोलं वेष्टयेत्पुनः ।
वासापत्रोत्थपिण्डेन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.४४ ॥
एवं पुनः पुनः कुर्याद्रक्तवर्णं मृतं भवेत् ।
तन्नागं पलमात्रं तु यामैकं वासकद्रवैः ॥ ३,४.४५ ॥
मर्दितं लेपयेत्तेन ताम्रपत्रं पलाष्टकम् ।
दिनैकं पाचनायन्त्रे पाचयेन्म्रियते ध्रुवम् ॥ ३,४.४६ ॥
षोडशांशेन तेनैव तारे वेधं प्रदापयेत् ।
तत्तारं जायते स्वर्णं जाम्बूनदसमप्रभम् ॥ ३,४.४७ ॥
यया कया गन्धपिष्ट्या स्तम्भनं जारणं विना ।
पूर्ववत्क्रमयोगेन दिव्यं भवति काञ्चनम् ॥ ३,४.४८ ॥
{वेध:: Silver => Gold}
अर्जुनस्य त्वचो भस्म वासाभस्म समं समम् ।
गृहकन्याद्रवैर्मर्द्यं दिनैकं तेन लेपयेत् ॥ ३,४.४९ ॥
कण्टवेध्यं नागपत्रं रुद्ध्वा लघुपुटे पचेत् ।
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः सभस्मकैः ॥ ३,४.५० ॥
रुद्ध्वा गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ।
एवं शतपुटैः पाच्यं भस्म द्रावैश्च मर्दयेत् ॥ ३,४.५१ ॥
तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा गजपुटे पक्त्वा पुनर्लिप्त्वा पुटे पचेत् ॥ ३,४.५२ ॥
इत्येवं तु त्रिधा कुर्यात्तारमायाति काञ्चनम् ।
{वेध:: Silver => Gold}
लोहपात्रे द्रुते नागे चूर्णितं रसकं समम् ॥ ३,४.५३ ॥
क्षिप्त्वा चुल्ल्यां पचेद्यामं चाल्यं पाषाणमुष्टिना ।
यामान्ते हिङ्गुलं क्षेप्यं चूर्णितं नागतुल्यकम् ॥ ३,४.५४ ॥
सुसूक्ष्मं मर्दयेत्तावत् दृढं पाषाणमुष्टिना ।
पचेच्चण्डाग्निना तावद्दिनानामेकविंशतिम् ॥ ३,४.५५ ॥
जायते कुङ्कुमाभं तु तारं तेनैव वेधयेत् ।
चतुःषष्टितमांशेन दिव्यं भवति काञ्चनम् ॥ ३,४.५६ ॥
{वेध:: Silver => Gold}
द्रावयेत्खर्परे नागं पादांशं तत्र निक्षिपेत् ।
चिञ्चाश्वत्थत्वचः क्षारं लोहदर्व्या विमर्दयेत् ॥ ३,४.५७ ॥
यामान्ते तत्समुद्धृत्य वज्रीक्षीरैर्दिनावधि ।
मर्द्यं खल्वे समुद्धृत्य मृद्भाण्डान्तर्निरोधयेत् ॥ ३,४.५८ ॥
पचेद्रात्रौ चतुर्यामं चुल्ल्यां चण्डाग्निना पुनः ।
उद्धृत्य मर्दयेत्खल्वे वज्रीक्षीरैर्दिनावधि ॥ ३,४.५९ ॥
रात्रौ पाच्यं दिवा मर्द्यं यावत् षण्मासमेव च ।
यथा न पतते तस्मिञ्जलं धूलिस्तु रक्षयेत् ।
सहस्रांशे धृते शरे वेधे दत्ते सुकाञ्चनम् ॥ ३,४.६० ॥
{वेध:: Silver => Gold}
शिलागन्धककर्पूरकुङ्कुमं मर्दयेत्समम् ।
जम्बीरोत्थद्रवैर्यामं तत्समं नागपत्रकम् ॥ ३,४.६१ ॥
लिप्त्वा लिप्त्वा पुटैः पच्याद् यावच्छष्टिपुटी भवेत् ॥ ३,४.६२ ॥
तन्नागं विद्युदाभासं जायते तेन वेधयेत् ।
चतुःषष्टितमांशेन तारमायाति काञ्चनम् ।
{वेध:: Silver => Gold}
तीक्ष्णं शुल्बं नागवङ्गौ द्रुतं नागं तु तुत्थकम् ।
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ ३,४.६३ ॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ ३,४.६४ ॥
{तारारिष्ट}
शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेत् हठात् ।
तत्खोटं सिद्धचूर्णं च मर्द्यं पाच्यं च पूर्ववत् ॥ ३,४.६५ ॥
तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रयं कृते ॥ ३,४.६६ ॥
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।
{तारारिष्ट}
वङ्गनागसमं कान्तमथवा ताम्रनागकम् ॥ ३,४.६७ ॥
माक्षिकं शुल्बतीक्ष्णं वा शुल्बनागं सवङ्गकम् ।
एते योगास्तु चत्वारः पृथक् चूर्णानि कारयेत् ॥ ३,४.६८ ॥
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।
मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥ ३,४.६९ ॥
पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।
तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥ ३,४.७० ॥
{वेध:: Silver => Gold}
शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।
नागचूर्णं च भागैकमन्धमूषागतं धमेत् ॥ ३,४.७१ ॥
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।
कर्तव्यं पूर्ववत्प्राज्ञैस्तामादाय विमर्दयेत् ॥ ३,४.७२ ॥
मधुना याममात्रं तु तेन लेपं तु कारयेत् ।
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ ३,४.७३ ॥
रुद्ध्वा गजपुटे पच्याद् दिव्यं भवति काञ्चनम् ।
{वेध:: Silver => Gold}
मूलपत्रफलं बिल्वाच्छाकवृक्षाच्च तत्त्रयम् ।
शिग्रुमूलं रसं चैतन्मर्दयेत्किंशुकद्रवैः ॥ ३,४.७४ ॥
अनेन नागचूर्णं तु मर्द्यं मर्द्यं पुटे पचेत् ।
एवं शतपुटैः पक्वं जायते पद्मरागवत् ॥ ३,४.७५ ॥
तेनैव तारपत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,४.७६ ॥
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{वेध:: Silver => Gold}
राजावर्तं हिंगुलकं कंकुष्ठं च प्रवालकम् ॥ ३,४.७७ ॥
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ ३,४.७८ ॥
अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।
पूर्ववत् कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ ३,४.७९ ॥
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।
एवं वारत्रयं कुर्याद् दिव्यं भवति काञ्चनम् ॥ ३,४.८० ॥
{वेध:: Silver => Gold (wइथ् तारारिष्ट)}
माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।
एतानि समभागानि द्विभागं रसकं भवेत् ॥ ३,४.८१ ॥
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपञ्चकम् ॥ ३,४.८२ ॥
दत्त्वा तु मर्दयेत् खल्वे तारारिष्टं तु लेपयेत् ।
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.८३ ॥
अर्धकल्केन लेप्याथ पादकल्केन वा पुनः ।
एवं पुटत्रयं देयं दिव्यं भवति काञ्चनम् ॥ ३,४.८४ ॥
{वेध:: Silver => Gold (wइथ् तारारिष्ट)}
रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।
सिद्धचूर्णेन संयुक्तं पुटान्तं पूर्ववत् कृतम् ॥ ३,४.८५ ॥
तेनैव मधुनोक्तेन तारारिष्टं प्रलेपयेत् ।
रुद्ध्वा रुद्ध्वा पुटे पच्यात् त्रिधा भवति काञ्चनम् ॥ ३,४.८६ ॥
{वेध:: Silver => Gold (wइथ् Lead)}
गंधकं तालकं शुल्वं समहिंगुलपेषितम् ।
मातुलुङ्गद्रवैः सार्धं नागपत्राणि तेन वै ॥ ३,४.८७ ॥
लिप्त्वा रुद्ध्वा पुटे पच्यात्पुनस्तेनैव मर्दयेत् ।
एवं षष्टिपुटैः पक्वो नागः स्यात्कुङ्कुमप्रभः ॥ ३,४.८८ ॥
तेन तारस्य पत्राणि मधुलिप्तानि लेपयेत् ।
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारत्रये कृते ॥ ३,४.८९ ॥
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{वेध:: Lead => Gold}
लाङ्गली गिरिकर्ण्यग्निः करवीरजमूलकम् ।
सौवीरं टङ्कणं स्तन्यैः पिष्ट्वा पिण्डं प्रकल्पयेत् ॥ ३,४.९० ॥
चतुर्धा विमला शुद्धा तेष्वेका पलमात्रकम् ।
द्विपलं पारदं शुद्धं शुद्धं हेमपलत्रयम् ॥ ३,४.९१ ॥
यामैकं मर्दयेत् सर्वं पूर्वपिण्डोदरे क्षिपेत् ।
तत्पिण्डं वज्रमूषायां रुद्ध्वा धाम्यं हठाग्निना ।
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ॥ ३,४.९२ ॥
तन्नागेन शतांशेन द्रुतं शुल्बं तु वेधयेत् ।
तत्खोटं शतमांशेन द्रुतं नागं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,४.९३ ॥
{वेध:: Silver => Gold}
पारदं कुङ्कुमं गन्धं स्त्रीपुष्पेण दिनावधि ।
मर्दयेत्तुल्यतुल्यांशं तेन कल्केन साधयेत् ॥ ३,४.९४ ॥
शुद्धानि तारपत्राणि लिप्त्वा रुद्ध्वा धमेद्धठात् ।
पत्रं कृत्वा पुनर्लेप्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ ३,४.९५ ॥
इत्येवं सप्तधा कुर्याल्लेपनं द्रावणं क्रमात् ।
ततस्तस्यैव पत्राणि तेन कल्केन लेपयेत् ॥ ३,४.९६ ॥
उद्घाटं द्रावयेत्तं च द्रुतमाज्ये विनिक्षिपेत् ।
सप्ताहं धारयेत्तस्मिन्दिव्यं भवति काञ्चनम् ॥ ३,४.९७ ॥
{वेध:: Silver => Gold}
कुङ्कुमं गन्धकं सूतं मञ्जिष्ठा तत्समं समम् ।
शाकवृक्षफलद्रावैः सुपक्वैर् मर्दयेद् दिनम् ॥ ३,४.९८ ॥
तेन तारस्य पत्राणि प्रलिप्तानि विशोषयेत् ।
आवर्त्य ढालयेत्तस्मिंस्तेन कल्केन भावितम् ॥ ३,४.९९ ॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
तत्तारं जायते स्वर्णं सम्यग्द्वादशवर्णकम् ॥ ३,४.१०० ॥
{वेध:: Silver => Gold}
पारदं कान्तपाषाणं गन्धकं रक्तचन्दनम् ।
रुदन्तीद्रवसंयुक्तं दिनमेकं विमर्दयेत् ॥ ३,४.१०१ ॥
तेन तारस्य पत्राणि प्रविलिप्तानि शोषयेत् ।
धामयेदन्धमूषायामेवं कुर्यात्त्रिसप्तधा ॥ ३,४.१०२ ॥
शाकवृक्षस्य मूलं तु भाव्यं तत्पत्रजैर्द्रवैः ।
रक्ताश्वमारजैश्चैव पृथग्भाव्यं त्रिधा त्रिधा ॥ ३,४.१०३ ॥
अनेन पूर्वतारस्य द्रुतस्य प्रतिवापनम् ।
दापयेत्सप्तवारं तु दिव्यं भवति काञ्चनम् ॥ ३,४.१०४ ॥
{सिद्धचूर्ण}
गन्धकं गन्धमूली च रविदुग्धेन मर्दयेत् ।
मृण्मये संपुटे रुद्ध्वा मासं भूमौ विनिक्षिपेत् ॥ ३,४.१०५ ॥
उद्धृत्य तेन तारस्य पत्रलेपं तु कारयेत् ।
पूर्वतारे द्रुते देयः प्रतिवापः पुनः पुनः ॥ ३,४.१०६ ॥
सप्तविंशतिमे वापे तत्तारं काञ्चनं भवेत् ।
{सिद्धचूर्ण}
शुद्धसूतसमं गन्धं खल्वे मर्द्यं दिनावधि ॥ ३,४.१०७ ॥
जायते कज्जली श्रेष्ठा सर्वकार्यकरी शुभा ।
कज्जली टङ्कणं ताप्यं प्रत्येकं कर्षमात्रकम् ॥ ३,४.१०८ ॥
कर्षद्वयं शुद्धगन्धं यामं सर्वं विचूर्णयेत् ।
सिद्धचूर्णमिदं ख्यातं भवेत् पादादिकं पलम् ॥ ३,४.१०९ ॥
यत्र यत्र मिलत्येतत्तत्र चूर्णं पलं पलम् ।
योजयेल्लोहवादेषु तदिदानीं निगद्यते ॥ ३,४.११० ॥
{वेध, रञ्जन:: Silver => Gold}
ताम्रतीक्ष्णारकान्तानां चूर्णम् एकस्य चाहरेत् ।
यथा लोहे पलैकं तु सिद्धचूर्णेन संयुतम् ॥ ३,४.१११ ॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं भवेत्तु तत् ।
तुल्यैर्भूनागजीवैर्वा गन्धकेन समेन वा ॥ ३,४.११२ ॥
मर्दयेन्मातुलुङ्गाम्लैः पूर्वखोटं दिनावधि ।
तत्पिण्डं पक्वमूषायां रुद्ध्वा गजपुटे पचेत् ॥ ३,४.११३ ॥
आरण्योपलकैरेवं पुटं दद्याच्चतुर्दश ।
इन्द्रगोपकसंकाशं जायते पूजयेच्छिवम् ॥ ३,४.११४ ॥
क्षौद्रयुक्तेन तेनैव तारपत्राणि लेपयेत् ।
रुद्ध्वा धमेत्पुटेद्वाथ एवं वारत्रये कृते ॥ ३,४.११५ ॥
जायते कनकं दिव्यं सिद्धोऽयं ताररञ्जकः ।
इत्येवं सर्वयोगानामत्रत्यानां पृथक् पृथक् ॥ ३,४.११६ ॥
सिद्धचूर्णेन संयुक्तं कर्तव्यं विधिना बुधैः ।
{वेध:: Silver => Gold}
शुल्बं नागं समं धाम्यं समं वा शुल्ववङ्गकम् ॥ ३,४.११७ ॥
आवर्तते तु तच्चूर्णं सिद्धचूर्णेन पूर्ववत् ।
शुल्बं नागं वङ्गघोषं यथेष्टैकं विचूर्णयेत् ॥ ३,४.११८ ॥
तत्समं तीक्ष्णचूर्णं च त्वन्धमूषागतं धमेत् ।
एतत्खोटं विचूर्ण्याथ सिद्धचूर्णेन संयुतम् ॥ ३,४.११९ ॥
पूर्ववत् क्रमयोगेन तारमायाति काञ्चनम् ।
{??}
शुल्बस्य भागत्रितयमेकैकं नागवङ्गयोः ॥ ३,४.१२० ॥
समावर्त्य विचूर्ण्याथ सिद्धचूर्णेन पूर्ववत् ।
नागमेकं द्वयं शुल्बं तच्छुल्वेनैव पन्नगम् ॥ ३,४.१२१ ॥
रुद्ध्वा ध्मातं च तच्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।
सिद्धचूर्णत्रयो भागा भागैकं हेमगैरिकम् ॥ ३,४.१२२ ॥
रुद्ध्वा ध्मातं पुनश्चूर्ण्य सिद्धचूर्णेन पूर्ववत् ।
{वेध:: Silver => Gold}
गन्धकेन हतं शुल्वं माक्षिकं च समं समम् ॥ ३,४.१२३ ॥
हंसपाच्चित्रकद्रावैर् दिनमेकं विमर्दयेत् ।
तेनैव तारपत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,४.१२४ ॥
तम् उद्धृत्य धमेत्पश्चात्कृत्वा पत्राणि लेपयेत् ।
पूर्वकल्केन रुद्ध्वाथ पुटं दत्त्वा समुद्धरेत् ॥ ३,४.१२५ ॥
इत्येवं दशधा कुर्यात्तारमायाति काञ्चनम् ।
{Silver:: रञ्जन}
तीक्ष्णं द्वयं त्रयं घोषमारं भागचतुष्टयम् ॥ ३,४.१२६ ॥
नवभागं ताम्रचूर्णं नागं च नवभागकम् ।
अंधमूषागतं ध्मातं तत् खोटं सूक्ष्मचूर्णितम् ॥ ३,४.१२७ ॥
सिद्धचूर्णेन संयुक्तं पूर्ववत् ताररञ्जनम् ।
{??}
मृतनागसमं तुत्थं द्वाभ्यां तुल्यं च माक्षिकम् ॥ ३,४.१२८ ॥
केवलं मृतनागं वा सिद्धचूर्णेन पूर्ववत् ।
{वेध:: Silver => Gold}
नागाभ्रं वाथ वङ्गाभ्रमन्धयित्वा धमेद्धठात् ॥ ३,४.१२९ ॥
तत्खोटं सूक्ष्मचूर्णं तु सिद्धचूर्णेन संयुतम् ।
पूर्ववत् क्रमयोगेन तारमायाति काञ्चनम् ॥ ३,४.१३० ॥
{वेध:: Silver => Gold}
तीक्ष्णं शुल्बं नागवङ्गं मृतं नागं तु तुत्थकम् ।
चूर्णितं भागमेकैकं द्वौ भागौ हेममाक्षिकम् ॥ ३,४.१३१ ॥
वज्रमूषागतं रुद्ध्वा ध्मातं खोटं सुचूर्णितम् ।
सिद्धचूर्णेन संयुक्तं तारमायाति काञ्चनम् ॥ ३,४.१३२ ॥
{तारारिष्ट:: production}
शुल्बचूर्णं तीक्ष्णचूर्णं तुल्यं रुद्ध्वा धमेद्धठात् ।
तत् खोटं सिद्धचूर्णं तु मर्द्यं पाच्यं च पूर्ववत् ॥ ३,४.१३३ ॥
तेनैव मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,४.१३४ ॥
पीतवर्णं भवेत्तत्तु तारारिष्टं निगद्यते ।
{तारारिष्ट:: production}
वङ्गं नागं समं कान्तमथवा ताम्रनागकम् ॥ ३,४.१३५ ॥
माक्षिकं शुल्बतीक्ष्णं च शुल्वं नागं सवङ्गकम् ।
एते योगास्तु चत्वारः पृथक् चूर्णानि कारयेत् ॥ ३,४.१३६ ॥
पृथग्ध्मातानि खोटानि सिद्धचूर्णयुतानि च ।
मर्दनादिपुटान्तानि तारारिष्टकराणि वै ॥ ३,४.१३७ ॥
{वेध:: Silver => Gold (wइथ् तारारिष्ट)}
पूर्ववल्लेपयोगेन प्रत्येकेन तु कारयेत् ।
तारारिष्टस्य तस्यैव स्वर्णीकरणमुच्यते ॥ ३,४.१३८ ॥
{वेध:: Silver => Gold (wइथ् तारारिष्ट)}
शुद्धवैक्रान्तभागैकं किंवा वैक्रान्तसत्त्वकम् ।
नागचूर्णं तु भागैकमन्धमूषागतं धमेत् ॥ ३,४.१३९ ॥
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ।
कर्तव्यं पूर्ववत्प्राज्ञैस्तमादाय विमर्दयेत् ॥ ३,४.१४० ॥
मधुना याममात्रं तु तेन लेपं तु कारयेत् ।
शतांशेन तु पत्राणां तारारिष्टस्य यत्नतः ॥ ३,४.१४१ ॥
रुद्ध्वा गजपुटे पक्त्वा दिव्यं भवति काञ्चनम् ।
{वेध:: Silver => Gold (wइथ् तारारिष्ट)}
राजावर्तं हिङ्गुलकं कंकुष्ठं च प्रवालकम् ॥ ३,४.१४२ ॥
प्रत्येकं कर्षमात्रं स्याद्रसकस्य पलं तथा ।
सूक्ष्मचूर्णं कृतं सर्वं सिद्धचूर्णेन संयुतम् ॥ ३,४.१४३ ॥
अन्धमूषागतं ध्मातं मर्दनादिपुटान्तकम् ।
पूर्ववत् कारयेत्पश्चान्मधुना सह मिश्रयेत् ॥ ३,४.१४४ ॥
तारारिष्टस्य पत्राणि लेपयित्वा पुटे पचेत् ।
एवं वारत्रयं कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,४.१४५ ॥
{वेध:: Silver => Gold (wइथ् तारारिष्ट)}
माक्षिकं दरदं तुत्थं राजावर्तं प्रवालकम् ।
एतानि समभागानि द्विभागो रसको भवेत् ॥ ३,४.१४६ ॥
मेषीक्षीरेण तत्सर्वं दिनमेकं विमर्दयेत् ।
छायाशुष्कं तु तत्कृत्वा तुल्यांशं मित्रपंचकम् ॥ ३,४.१४७ ॥
दत्त्वा तु मर्दयेत् खल्वे तारारिष्टं तु लेपयेत् ।
प्रथमं समकल्केन रुद्ध्वा गजपुटे पचेत् ॥ ३,४.१४८ ॥
अर्धकल्केन लेप्योऽथ पादकल्केन वै पुनः ।
एवं पुटत्रये दत्ते दिव्यं भवति कांचनम् ॥ ३,४.१४९ ॥
{वेध:: Silver => Gold (wइथ् तारारिष्ट)}
रसकं नागसंतुल्यं रुद्ध्वा खोटं प्रकारयेत् ।
सिद्धचूर्णेन संयुक्तं पुटान्ते पूर्ववत्कृतम् ॥ ३,४.१५० ॥
तेनैव मधुनाक्तेन तारारिष्टं प्रलेपयेत् ।
रुद्ध्वा रुद्ध्वा पुटैः पच्यात्त्रिधा भवति काञ्चनम् ॥ ३,४.१५१ ॥
{वेध:: Silver => Gold (wइथ् copper)}
शुल्बपत्राणि तप्तानि आरनाले विनिक्षिपेत् ।
पुनः पाच्यं पुनः क्षेप्यं यावत्तत्रैव शीर्यते ॥ ३,४.१५२ ॥
तत्पत्रमारनालस्थं क्षालयेदारनालकैः ।
पादांशं टङ्कणं दत्त्वा याममम्लेन पेषयेत् ॥ ३,४.१५३ ॥
रुद्ध्वा लघुपुटैः पच्यादेवं शतपुटैः पचेत् ।
मध्वाज्यं टङ्कणः पश्चात्पच्याद्रुद्ध्वा धमेद्धठात् ॥ ३,४.१५४ ॥
तच्छुल्बं कालिकाहीनं जायते शुकतुण्डवत् ।
तच्छुल्बं त्रिगुणं तारे निर्वाप्यं काञ्चनं भवेत् ॥ ३,४.१५५ ॥
{वेध:: Silver => Gold}
शिग्रुपत्रसमैः पत्रैर्मूलैः प्रवालसंनिभैः ।
ज्ञेया दिव्यौषधी सिद्धा नाम्ना सा कीटमारिणी ॥ ३,४.१५६ ॥
तद्द्रवैः पारदो मर्द्यो यावत्सप्तदिनावधि ।
तेनैव तारपत्राणि प्रलिप्तानि विशोषयेत् ॥ ३,४.१५७ ॥
रुद्ध्वा गजपुटे पच्यादेवं कुर्यात्त्रिसप्तधा ।
जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ॥ ३,४.१५८ ॥
{वेध:: Silver => Gold}
शुद्धसूतसमा राजी सूतपादं च गन्धकम् ।
मृद्भाण्डे पाचयेच्चुल्ल्यां धत्तूरद्रवसंयुतम् ॥ ३,४.१५९ ॥
वासाकाष्ठेन तन्मर्द्यं द्रवो देयः पुनः पुनः ।
एवं दिनत्रयं कुर्याज्जायते भस्मसूतकः ॥ ३,४.१६० ॥
तन्मर्द्यं मातुलुङ्गाम्लैर्दिनमेकं तु तेन वै ।
चतुःषष्टितमांशेन तारपत्राणि लेपयेत् ॥ ३,४.१६१ ॥
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ।
तत्तारं जायते स्वर्णं महादेवेन भाषितम् ॥ ३,४.१६२ ॥
तारस्य रञ्जनमिदं सुखभोगहेतुं कृत्वा विवेकमतिभिर्भुवने जनानाम् ।
देयं सदा सकलकीर्तिशुभाप्तिसिद्ध्यै नो चेद्वने वसतिरेव परा हि धन्या ॥ ३,४.१६३ ॥


रसरत्नाकरः, ३, ५[सम्पाद्यताम्]

महारसैश्चोपरसैः ससूतैर् हेम्नो दलं रञ्जनमत्र युक्त्या ।
नानाविधं वर्णविवर्धनं च तत्कथ्यते वार्त्तिकभुक्तियोग्यम् ॥ ३,५.१ ॥
{Gold:: from सितस्वर्ण}
वैक्रान्तसत्त्वभागैकं शुद्धवैक्रान्तमेव वा ।
कांस्याख्या विमला वापि हेमाख्या विमलापि वा ॥ ३,५.२ ॥
समेन नागचूर्णेन अन्धमूषागतं धमेत् ।
सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ॥ ३,५.३ ॥
आदाय मधुना पेष्यं याममात्रं प्रयत्नतः ।
स्वर्णं तारं समं द्राव्यं तेन पत्राणि कारयेत् ॥ ३,५.४ ॥
सितस्वर्णमिदं ख्यातं पूर्वकल्केन लेपयेत् ।
रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥ ३,५.५ ॥
जायते कनकं दिव्यं सेचयेल्लवणोदकैः ।
लोहसंक्रान्तिनुत्त्यर्थं सेच्यं ब्राह्मीद्रवेण वा ॥ ३,५.६ ॥
एवं विमलनागाभ्यां पृथग्योग उदाहृतः ।
{Gold:: from सितस्वर्ण}
नागवैक्रान्तयोगेन मधूच्छिष्टेन लेपयेत् ॥ ३,५.७ ॥
सहस्रांशे सिते हेमे दिव्यं भवति काञ्चनम् ।
{सितस्वर्ण => Gold}
मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ॥ ३,५.८ ॥
शतधा तत्प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।
अनेन सितस्वर्णस्य पत्रं लिप्त्वा पुटे पचेत् ॥ ३,५.९ ॥
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ।
{सितस्वर्ण => Gold}
नागचूर्णं ताप्यचूर्णं नागवैक्रान्तमेव वा ॥ ३,५.१० ॥
अंधमूषागतं खोटं सिद्धचूर्णेन संयुतम् ।
मर्दनं पुटपाकं च पूर्ववत् कारयेत् क्रमात् ॥ ३,५.११ ॥
तेनैव मधुनाक्तेन शुद्धं हाटकपत्रकम् ।
लिप्त्वा लिप्त्वा पुटैः पच्याद्यावत् कुङ्कुमसंनिभम् ॥ ३,५.१२ ॥
एतत्स्वर्णशतांशेन सितस्वर्णं तु वेधयेत् ।
जायते कनकं दिव्यं रक्तवर्गेण सेचयेत् ॥ ३,५.१३ ॥
{सितस्वर्ण => Gold}
वैक्रान्तं नागचूर्णं च पुटान्तं पूर्ववत्कृतम् ।
शतांशे नैव वेधंतु सितहेमेन पूर्ववत् ॥ ३,५.१४ ॥
लेपनात्पुटपाकाच्च दिव्यं भवति कांचनम् ।
{सितस्वर्ण => Gold}
माक्षिकस्य समांशेन राजावर्तं दिनत्रयम् ॥ ३,५.१५ ॥
मातुलुङ्गद्रवैर्मर्द्य तेन पत्राणि लेपयेत् ।
पूर्वाक्तसितस्वर्णस्य रुद्ध्वा गजपुटे पचेत् ॥ ३,५.१६ ॥
पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ।
{Silver => Gold}
राजावर्तं च सिन्दूरं पारावतमलं समम् ॥ ३,५.१७ ॥
अशीत्यंशेन कुरुते स्वर्णं रौप्यं च पूर्ववत् ।
{mixture of Gold and Silver => Gold}
रसैः शिरीषपुष्पस्य आर्द्रकस्य रसैः समैः ॥ ३,५.१८ ॥
भावयेत्सप्तवाराणि राजावर्तं सुचूर्णितम् ।
तेनैव शतमांशेन स्वर्णतारं द्रुतं समम् ॥ ३,५.१९ ॥
वेधयेत्पूर्ववत् सिद्धं दिव्यं भवति काञ्चनम् ।
{mixture of Gold and Silver => Gold}
कङ्कुष्ठं विमला ताप्यं रसकं दरदं शिला ॥ ३,५.२० ॥
राजावर्तं प्रवालं च काङ्क्षीगैरिकटङ्कणम् ।
सैन्धवं चूर्णयेत्तुल्यमशीत्यंशेन वापयेत् ॥ ३,५.२१ ॥
द्रुते समे स्वर्णतारे पूर्ववत् सेचयेत् क्रमात् ।
त्रिवारं वापयेदेवं दिव्यं भवति काञ्चनम् ॥ ३,५.२२ ॥
{बीज:: पक्व:: production}
गैरिकं च प्रवालं च काकमाच्या द्रवैः समम् ।
यामं मर्द्यं तु तद्रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ ३,५.२३ ॥
इत्येवं तु त्रिधा कुर्यान्मर्दनं पुटपाचनम् ।
तदर्धं हिङ्गुलं शुद्धं क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ ३,५.२४ ॥
काञ्जिकैर्याममात्रं तु पुटेनैकेन पाचयेत् ।
अस्य कल्कस्य भागैकं भागाश्चत्वारि हाटकम् ॥ ३,५.२५ ॥
अन्धमूषागतं ध्मातं समादाय विचूर्णयेत् ।
पूर्ववत् पूर्वकल्केन रुद्ध्वा देयं पुटं पुनः ॥ ३,५.२६ ॥
एवं चतुःपुटैः पक्वं स्वर्णं गुञ्जानिभं भवेत् ।
पक्वबीजमिदं सिद्धं तत्तत्कर्मणि योजयेत् ॥ ३,५.२७ ॥
{सितस्वर्ण => Gold}
अनेन षोडशांशेन सितस्वर्णं तु वेधयेत् ।
सेचयेत् कुङ्कुणीतैले रक्तवर्गेण वापितम् ॥ ३,५.२८ ॥
पुनर्वेध्यं पुनः सेच्यं षोडशांशेन बुद्धिमान् ।
एवं वारत्रयं वेध्यं दिव्यं भवति काञ्चनम् ॥ ३,५.२९ ॥
{Gold:: रञ्जन:: दशवर्ण}
पूर्वोक्तपक्वबीजेन वेधयेदष्टवर्गकम् ।
तत्स्वर्णं दशवर्णं स्यात्पुटे दत्ते न हीयते ॥ ३,५.३० ॥
{Gold:: रक्ती (रञ्जन)}
निष्काः षोडश तुत्थस्य सूतहिङ्गुलगन्धकम् ।
टङ्कणं च तथैकैकं योज्यं निष्कचतुष्टयम् ॥ ३,५.३१ ॥
सर्वमेतद्दिनं मर्द्यं त्रिधारस्नुक्पयोऽन्वितम् ।
निष्कमात्रां वटीं कृत्वा श्रेष्ठे स्वर्णे द्रुते क्षिपेत् ॥ ३,५.३२ ॥
एकैकं निष्कमात्रं तु मूषामध्ये दिनं धमेत् ।
जीर्णे जीर्णे पुनर्देया एवं सर्वाः प्रदापयेत् ॥ ३,५.३३ ॥
गुञ्जावर्णं भवेत्स्वर्णं ख्यातेयं हेमरक्तिका ।
{Gold:: रञ्जन:: अष्टवर्ण => दशवर्ण}
अष्टवर्णसुवर्णस्य द्रावितस्य दशांशतः ॥ ३,५.३४ ॥
क्षिपेत्तज्जायते सत्यं दशवर्णं तु शोभनम् ।
{Gold:: रञ्जन:: अष्टवर्ण => दशवर्ण}
ताम्रतुल्येन नागेन शोधयेद्धमनेन च ॥ ३,५.३५ ॥
ताम्रतुल्यं शुद्धहेम समावर्त्य तु पत्त्रयेत् ।
इष्टिका तुवरी चैव खटिका लवणं तथा ॥ ३,५.३६ ॥
गैरिकं भागवृद्ध्यांशमारनालेन पेषयेत् ।
तेन लिप्त्वा पूर्वपत्रं रुद्ध्वा गजपुटे पचेत् ॥ ३,५.३७ ॥
एवं पुनः पुनः पाच्यं यावत्स्वर्णावशेषितम् ।
तत्स्वर्णं ताम्रसंयुक्तं समावर्त्य तु पत्त्रयेत् ॥ ३,५.३८ ॥
पूर्ववत् पुटपाकेन पचेत्स्वर्णावशेषितम् ।
इत्येवं षड्गुणं ताम्रं स्वर्णे बाह्यं क्रमेण तु ॥ ३,५.३९ ॥
तत्सर्वं जायते दिव्यं पद्मरागसमप्रभम् ।
षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ॥ ३,५.४० ॥
तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ।
{Gold:: रञ्जन:: अष्टवर्ण => दशवर्ण}
समं ताप्यं ताम्रचूर्णं ताप्यार्धं लोहचूर्णकम् ॥ ३,५.४१ ॥
कन्याद्रावैः क्षणं मर्द्य घर्मे तेनैव भावयेत् ।
एवं वारांश्चतुःषष्टिस् ततः शुष्कं विचूर्णयेत् ॥ ३,५.४२ ॥
षोडशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।
तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ॥ ३,५.४३ ॥
{Gold:: रञ्जन:: अष्टवर्ण => दशवर्ण}
रसकं घोषताम्रं च काचं श्वेतं नृकेशकम् ।
पलानि पञ्चपञ्चैव प्रत्येकं चूर्णयेत् पृथक् ॥ ३,५.४४ ॥
रसकात्त्रिगुणं योज्यं तीक्ष्णचूर्णं पुनस्ततः ।
गन्धकं रसकं कांस्यमाक्षिकं चाष्टनिष्ककम् ॥ ३,५.४५ ॥
विंशनिष्कं धूमसारं सर्वमेतद्दिनावधि ।
मर्द्यं जम्बीरजैर्द्रावैः कर्षांशं वटकीकृतम् ॥ ३,५.४६ ॥
कोष्ठीयन्त्रे हठाद्धाम्यं यावत्ताम्रावशेषितम् ।
षड्गुणम् तस्य ताम्रस्य सीसे वाह्यं धमन्धमन् ॥ ३,५.४७ ॥
षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।
दशवर्णं भवेत्तत्तु नात्र कार्या विचारणा ॥ ३,५.४८ ॥
{copper:: रेमोविन्ग् कालिका}
अथान्यस्य च ताम्रस्य नागशुद्धस्य कारयेत् ।
निर्गुण्डिकारसेनैव पञ्चाशद्वारढालनम् ॥ ३,५.४९ ॥
कुष्माण्डस्य रसेनैव सप्तवारं तु ढालनम् ।
निशायुक्तेन तक्रेण सप्तवारं तु ढालनम् ।
एवं ताम्रं द्रुतं ढाल्यं कालिकारहितं भवेत् ॥ ३,५.५० ॥
{copper, Silver, Gold => Gold}
एतत्ताम्रं त्रिभागं स्याद्भागाः पञ्चैव हाटकम् ।
रौप्यं भागद्वयं शुद्धं सर्वमावर्तयेत्ततः ॥ ३,५.५१ ॥
जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ।
{Gold:: रञ्जन:: Vएर्बेस्सेरुन्ग् उम् श्wएइ Fअर्ब्स्तुfएन्}
अङ्कोल्लकाष्ठं प्रज्वाल्य आरण्योपलचूर्णकम् ॥ ३,५.५२ ॥
अङ्कोल्लबीजचूर्णं तु ज्वलत्काष्ठोपरि क्षिपेत् ।
तदङ्गारान् समादाय शीतलांश्च पुनर्धमेत् ॥ ३,५.५३ ॥
अङ्कोल्लबीजचूर्णं तु क्षिप्त्वा वस्त्रेण बन्धयेत् ।
तद्धूमैः स्वर्णपत्राणि दशवर्णानि धूपयेत् ॥ ३,५.५४ ॥
द्रावयित्वा क्षिपेत्तैले पुत्रजीवोत्थिते पुनः ।
एवं वारद्वये क्षिप्ते वर्धते वर्णकद्वयम् ॥ ३,५.५५ ॥
अल्पाल्पयुक्ति विभवैः सुखसाध्ययोगैर् अल्पाल्पकर्मविधिना बहुभिर्विशेषैः ।
लाभार्थपाददशमांशकरोपदेशः प्रोक्तो मया सकललोकहिताय सत्यम् ॥ ३,५.५६ ॥


रसरत्नाकरः, ३, ६[सम्पाद्यताम्]

नानारक्तसुपीतपुष्पनिचयाद् आदाय सारं निजम् ।
तस्मिञ्छोधितपन्नगं द्रुतमतः संढाल्यं वारं शतम् ।
पश्चाद्रञ्जनवेधनं च विधिना चन्द्रार्कताम्रस्य यत् ।
तत्सर्वं गुरुशास्त्रतः स्वमतिना संकथ्यते सांप्रतम् ॥ ३,६.१ ॥
{mercury रक्तपारद:: production}
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।
तस्याः षोडशभागा वै भागैकं मृतवज्रकम् ॥ ३,६.२ ॥
देवदाल्याः शङ्खपुष्प्या द्रवैर्मर्द्य दिनत्रयम् ।
पचेत्कच्छपयन्त्रस्थं पुटैकेन समुद्धरेत् ॥ ३,६.३ ॥
यामैकं पूर्वजैर्द्रावैर्मर्द्य तत्पूर्ववत्पुटेत् ।
एवं सप्तपुटैः पक्वो यामं मर्द्यश्च तैर्द्रवैः ॥ ३,६.४ ॥
दिनैकं पातनायन्त्रे पाचयेल्लघुनाग्निना ।
पुनर्मर्द्यं पुनः पाच्यं यावदूर्ध्वं न गच्छति ॥ ३,६.५ ॥
अधोयन्त्रे यदा तिष्ठेत्तदा स्याद् रक्तपारदः ।
{Lead => Gold}
रक्तपारदभागैकं द्वयं कृष्णाभ्रसत्त्वकम् ॥ ३,६.६ ॥
टङ्कणस्य च भागैकं सर्वं मर्द्यं दिनावधि ।
वज्रीक्षीरैस्तु तत्पिण्डं रुद्ध्वा गजपुटे पचेत् ॥ ३,६.७ ॥
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
षोडशांशेन नागस्य वेधे दत्ते च काञ्चनम् ॥ ३,६.८ ॥
जायते दिव्यरूपाढ्यं देवाभरणमुत्तमम् ।
{Lead => Gold}
शाककिंशुककोरण्टद्रवैः कङ्गुणितैलतः ॥ ३,६.९ ॥
मर्दयेन्नागचूर्णं तु दिनं संपुटगं पचेत् ।
सम्यग्गजपुटेनैव मर्द्य पाच्यं पुनः पुनः ॥ ३,६.१० ॥
चत्वारिंशत्पुटैः सिध्यं दिव्यं भवति काञ्चनम् ।
{Lead => Gold}
रसकं कुङ्कुमं तुत्थं बालवत्सपुरीषकम् ॥ ३,६.११ ॥
पीताभ्रकं विषं तुल्यं मातुलुङ्गद्रवैर्दिनम् ।
मर्दितं छायया शुष्कं मधुना सह कल्कयेत् ॥ ३,६.१२ ॥
तेन नागस्य पत्राणि लिप्त्वा शोष्याणि छायया ।
अन्धमूषागतं ध्मातं शाकपत्रद्रवे ततः ॥ ३,६.१३ ॥
सेचयेद् उद्धरेत् पश्चात् प्रकटं द्रावयेत्पुनः ।
शाकपत्रद्रवैः सेच्यं पुनर्द्राव्यं च सेचयेत् ॥ ३,६.१४ ॥
इत्येवं सप्तधा कुर्यात्पुनः पत्राणि कारयेत् ।
लेपयेत्पूर्ववच्छोष्यं रुद्ध्वा धाम्यं च पूर्ववत् ॥ ३,६.१५ ॥
सेचनं द्रावणं चैव सप्तवाराणि कारयेत् ।
इत्येवं सप्तधा कुर्याल्लेपादि द्रावणान्तकम् ॥ ३,६.१६ ॥
तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{Lead => Gold}
दग्धं तु चुन्नपाषाणम् आरनाले विनिक्षिपेत् ॥ ३,६.१७ ॥
मृत्पात्रे लोलितं स्थाप्यं दिवारात्रं प्रयत्नतः ।
तत्स्वच्छं ग्राहयेद्द्रावं तद्द्रावैः शाककुड्मलान् ॥ ३,६.१८ ॥
पेषयेत्तेन कल्केन नागचूर्णं विमर्दयेत् ।
यामान्ते शोषयेद्घर्मे पुनर्मर्द्य च शोषयेत् ॥ ३,६.१९ ॥
इत्येवं दशधा कुर्यात्तद्गोलं निक्षिपेत्पुनः ।
शाकदण्डस्य सार्द्रस्य गर्भे तेनैव रोधयेत् ॥ ३,६.२० ॥
मृदा लिप्तं तु तच्छुष्कं सम्यग्गजपुटे पचेत् ।
समुद्धृत्य भवेत् पीतं स्तम्भनं चास्य कथ्यते ॥ ३,६.२१ ॥
{Lead => Gold}
गोमूत्रैः क्षालयेद् आदौ भूनागाञ्जीवसंयुतान् ।
सौवीराञ्जनमेतेषु तुल्यं क्षिप्त्वा विमर्दयेत् ॥ ३,६.२२ ॥
दिनैकं महिषीमूत्रैर्जातं गोलं समुद्धरेत् ।
तस्मात्पातालयन्त्रेण ग्राह्यं तैलं प्रयत्नतः ॥ ३,६.२३ ॥
तस्मिंस्तैले पूर्वनागमथवा शुद्धनागकम् ।
द्रावितं द्रावितं क्षेप्यमेकविंशतिवारकम् ॥ ३,६.२४ ॥
तन्नागं जायते दिव्यं जाम्बूनदसमप्रभम् ।
{Lead => Gold}
शुद्धनागस्य चूर्णं तु समं भूनागचूर्णकम् ॥ ३,६.२५ ॥
शाककिंशुककोरण्टपुष्पाणां ग्राहयेद्रसम् ।
यथालाभेन तद्द्रावैर्दिनमेकं विमर्दयेत् ॥ ३,६.२६ ॥
अंधमूषागतं धाम्यं ततश्चूर्णं तु कारयेत् ।
पूर्ववन्मर्दितं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,६.२७ ॥
जायते कनकं दिव्यं तन्नागं देवभूषणम् ।
{copper => Gold}
शुद्धनागपलैकेन मूषा कार्या सुवर्तुला ॥ ३,६.२८ ॥
पलं शुद्धरसं तस्यां क्षिपेद्गन्धं पलद्वयम् ।
तां मूषां मृण्मये पात्रे धारयेदातपे खरे ॥ ३,६.२९ ॥
दिनं जम्बीरनीरेण काकमाचीद्रवैर्दिनम् ।
कासमर्दरसैश्चाहो दिनं धत्तूरजैर्द्रवैः ॥ ३,६.३० ॥
क्रमेण भावयेदेवं घर्मे दिनचतुष्टयम् ।
मृत्पात्रात्सर्वमुद्धृत्य यथा किंचिन् न गच्छति ॥ ३,६.३१ ॥
पिष्ट्वा धत्तूरजैर्द्रावैः करञ्जस्य तु बीजकम् ।
तेनैवाङ्गुलमात्रं तु मूषागर्भं प्रलेपयेत् ॥ ३,६.३२ ॥
पूर्वे पिण्डं क्षिपेत्तत्र पलैकं चाथ गन्धकम् ।
भूनागानां द्रवं तत्र निक्षिपेन्निष्कपञ्चकम् ॥ ३,६.३३ ॥
विधाय लेपकल्केन ततो मूषां निरुध्य च ।
भूधरे दिनमेकं तु करीषाग्नौ विपाचयेत् ॥ ३,६.३४ ॥
स्वाङ्गशीतं समुद्धृत्य मूषायां पूर्ववत्क्षिपेत् ।
लेपं गन्धं च भूनागं पूर्ववच्च पुटे पचेत् ॥ ३,६.३५ ॥
एवं विंशगुणं यावज्जार्यं गन्धं सुसाधितम् ।
सार्धं पलद्वयं तालं रसकं चापि तत्समम् ॥ ३,६.३६ ॥
पलैकं टङ्कणं पिष्ट्वा द्विधा कुर्यात्त्रयं पृथक् ।
काचकूप्यन्तरे क्षिप्त्वा तालकार्धं ततः क्षिपेत् ॥ ३,६.३७ ॥
रसकं टङ्कणं पश्चात्सिद्धं पूर्वरसं पुनः ।
टङ्कणं रसकं तालं क्रमाद् दद्यात् पुनस्त्रयम् ॥ ३,६.३८ ॥
काचकूप्या मुखं दीपतप्तं स्वाङ्गन वेष्टयेत् ।
अथवा काचकीलेन रुद्ध्वा मृल्लवणेन च ॥ ३,६.३९ ॥
कूपिकां च मृदा लेप्य सर्वत्राङ्गुलमात्रकम् ।
तां शुष्कां भूधरे यन्त्रे क्षिप्त्वा पूर्वं च खर्परम् ॥ ३,६.४० ॥
दत्त्वा मृदा लिपेत्संधिं देयं गजपुटं पुनः ।
स्वाङ्गशीतं समुद्धृत्य बलिं पूजां च कारयेत् ॥ ३,६.४१ ॥
चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।
स्वर्णं भवति रूपाढ्यं सिद्धयोग उदाहृतः ॥ ३,६.४२ ॥
{चन्द्रार्क => Gold}
पलानि दश गन्धस्य सूतकस्यैकविंशतिः ।
महाकालस्य बीजोत्थतैलं पञ्चपलं भवेत् ॥ ३,६.४३ ॥
सर्वं स्निग्धघटे रुद्ध्वा पाचयेन्मृदुवह्निना ।
माषपिष्टप्रलेपेन यथा धूमो न गच्छति ॥ ३,६.४४ ॥
स सूतो जायते खोटश्चन्द्रार्के द्राविते क्षिपेत् ।
सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ ३,६.४५ ॥
{copper => Gold}
पारदं गंधकं तुल्यं देवदालीद्रवैर्दिनम् ।
मर्दितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ ३,६.४६ ॥
आवर्त्य चान्धमूषायां समुद्धृत्य ततः पुनः ।
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ॥ ३,६.४७ ॥
तद्द्रवे पूर्वशुल्बं तु द्रावितं द्रावितं क्षिपेत् ।
इत्येवं शतधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,६.४८ ॥
{copper => Gold}
पीतगन्धकचूर्णं तु नागवल्ल्या द्रवैस्त्र्यहम् ।
भावितं तेन ताम्रस्य पत्रलेपं तु कारयेत् ॥ ३,६.४९ ॥
शुष्कं रुद्ध्वा पुटे पच्यादारण्योपलकैः शुभैः ।
शाकवृक्षत्वचा मर्द्यं द्रवै रक्ताश्वमारकैः ॥ ३,६.५० ॥
पूर्वताम्रस्य पत्राणि कल्केनानेन लेपयेत् ।
रुद्ध्वा तीव्राग्निना धाम्यमेवं वारशते कृते ॥ ३,६.५१ ॥
तत्ताम्रं जायते स्वर्णं जाम्बूनदसमप्रभम् ।
{copper => Gold}
काञ्चनीमूलचूर्णं तु हरितालं मनःशिला ॥ ३,६.५२ ॥
टङ्कणं माक्षिकं तुल्यं वासापुष्पद्रवैस् त्र्यहम् ।
मर्दितं लेपयेत्तेन ताम्रपात्रं सुशोधितम् ॥ ३,६.५३ ॥
शनैर्मन्दाग्निना ताप्यं शुष्कलेपं च दापयेत् ।
पुनस्ताप्यं पुनर्लेप्यं सप्तधेत्थं प्रयत्नतः ॥ ३,६.५४ ॥
ततस्तीव्राग्निना धाम्यं जायते काञ्चनं शुभम् ।
{copper, Silver => Gold}
तालं ताप्यं दरदकुनटीं सूतकं सार्धभागम् ॥ ३,६.५५ ॥
खल्वे कृत्वा त्रिदिनमथितं काकमाच्या द्रवेत् ।
तेनालेप्यं रविशशिदलं खर्परे वह्निपक्वम् ॥ ३,६.५६ ॥
शुल्बातीतं भवति कनकं सौबलं पान्थिकानाम् ।
{copper => Gold}
ज्वालामुखीद्रवैर्मर्द्यं पलैकं शुद्धपारदम् ॥ ३,६.५७ ॥
दिनान्ते निक्षिपेत्तस्मिन्पादांशं मृतमभ्रकम् ।
ताम्रचूर्णस्य पादांशं पादांशं फुल्लतोरिका ॥ ३,६.५८ ॥
सर्वं ज्वालामुखीद्रावैर्मर्दयेद्दिनसप्तकम् ।
तद्गोलं वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,६.५९ ॥
तत्खोटं भागमेकं तु शुद्धताम्रं चतुष्टयम् ।
अंधमूषागतं धाम्यं समुद्धृत्य ततः पुनः ॥ ३,६.६० ॥
द्राव्यं प्रकटमूषायां पुत्रजीवोत्थतैलके ।
ढालयेच्च पुनर्द्राव्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,६.६१ ॥
जायते कनकं दिव्यं नात्र कार्या विचारणा ।
{copper => Gold}
गन्धकं श्वेतपालाशफलद्रावैर्विभावयेत् ॥ ३,६.६२ ॥
शतवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।
शतवारं प्रयत्नेन तेन पत्राणि लेपयेत् ॥ ३,६.६३ ॥
सम्यक् शुद्धस्य ताम्रस्य रुद्ध्वा गजपुटे पचेत् ।
समुद्धृत्य पुनर्धाम्यं ततः पत्राणि कारयेत् ॥ ३,६.६४ ॥
पुनर्लेप्यं पुनः पाच्यं पुनरावर्तयेत् क्रमात् ।
एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥ ३,६.६५ ॥
{Silver, copper => अष्टवर्ण Gold}
भागा द्वादश तारस्य शुल्वस्य भागषोडश ।
आवर्त्य कारयेत्पत्रं लिप्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,६.६६ ॥
महिन्दीपत्रनिर्यासैरेवं वाराणि षोडश ।
रसगन्धशिला भागान्क्रमवृद्ध्या विमर्दयेत् ॥ ३,६.६७ ॥
दिनमङ्कोलतैलेन पूर्ववच्च क्रमेण तु ।
लिप्त्वा रुद्ध्वा धमेद्गाढं पुनः पत्रं च कारयेत् ॥ ३,६.६८ ॥
पुनर्लेप्यं पुनःपाच्यं यावत्कांस्यं क्षयं व्रजेत् ।
अष्टवर्णं भवेद्धेम नात्र कार्या विचारणा ॥ ३,६.६९ ॥
{मेर्चुर्य् => Gold}
औषधी करुणी नाम प्रावृट्काले प्रजायते ।
नीलपुष्पा श्वेतपत्रा पिच्छिलातिरसा तु सा ॥ ३,६.७० ॥
तद्द्रवं पारदे शुद्धे धाम्यमाने विनिक्षिपेत् ।
वज्रमूषास्थिते चैव यावत्सप्तदिनावधि ॥ ३,६.७१ ॥
जायते कनकं दिव्यं रस एव न संशयः ।
{मेर्चुर्य्, Lead, Gold => Gold}
पलं सूतं पलं गन्धं कृष्णोन्मत्तद्रवैस् त्र्यहम् ॥ ३,६.७२ ॥
मर्दितं वज्रमूषायां रुद्ध्वा वक्त्रं पिधाय च ।
दिनान्ते तत्समुद्धृत्य तद्वन्मर्द्यं च पाचयेत् ॥ ३,६.७३ ॥
एवं सप्तदिनं कुर्यान्मृतो भवति वै रसः ।
तद्रसं पन्नगं स्वर्णं चन्द्रार्कैर् वेष्टयेत् क्रमात् ॥ ३,६.७४ ॥
समांशं चान्धितं धाम्यं दिव्यं भवति काञ्चनम् ।
{चक्रयन्त्र}
गर्तामध्ये रसमूषा बाह्यगर्ते सर्वतोऽग्निः ॥ ३,६.७५ ॥
चक्रयन्त्रमिदं प्रोक्तं सर्वशास्त्रार्थकोविदैः ।
{copper => Gold}
माक्षिकं रसकं तुल्यं रसकार्धं च सैन्धवम् ।
मातुलुङ्गैर्दिनं मर्द्यं मृद्भाण्डे पाचयेद् दिनम् ॥ ३,६.७६ ॥
यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां विपाचयेत् ।
सिताक्षौद्रेण संयुक्तं तत्कल्कं मर्दयेद्दिनम् ॥ ३,६.७७ ॥
पुनर्मृत्खर्परे पच्याद्गोक्षीरेण समायुतम् ।
चालयन् दिनमेकं तु अवतार्य विलेपयेत् ॥ ३,६.७८ ॥
शुद्धानि शुल्वपत्राणि रुद्ध्वा तीव्राग्निना धमेत् ।
ततः पत्त्रीकृतं लेप्यं तद्वद्धाम्यं दृढाग्निना ॥ ३,६.७९ ॥
इत्येवं च पुनः कुर्यात्पीतवर्णं भवेत्तु तत् ।
मुनिपुष्पैस्त्र्यहं भाव्या अतिरक्ता मनःशिला ॥ ३,६.८० ॥
अनया पूर्वशुल्बं तु पत्रं कृत्वा प्रलेपयेत् ।
अन्धमूषागतं ध्मातं कङ्गुणीतैलके क्षिपेत् ॥ ३,६.८१ ॥
इत्येवं तु त्रिधा कुर्याद्दिव्यं भवति काञ्चनम् ।
{तारारिष्ट => Gold}
अनेनैव प्रकारेण तारारिष्टं तु रञ्जयेत् ॥ ३,६.८२ ॥
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ।
{sulfur:: पिष्टी}
शुद्धसूतपलकं तु कर्षैकं गन्धकस्य च ॥ ३,६.८३ ॥
स्निग्धखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ।
मर्दयेत्तु कराङ्गुल्या जायते गन्धपिष्टिका ॥ ३,६.८४ ॥
{मेर्चुर्य् (खोट), चन्द्रार्क => Gold}
धान्याभ्रकस्य भागैकं भागाष्टौ शुद्धपारदम् ।
कुण्डगोलकसंयुक्तं मर्दनात्पिष्टिका भवेत् ॥ ३,६.८५ ॥
एतत्पिष्टिद्वयं मर्द्य जम्बीरोत्थैर्द्रवैर्दिनम् ।
पालाशमूलक्वाथेन मर्दयेच्च दिनत्रयम् ॥ ३,६.८६ ॥
ब्रह्ममूलं गुडं गुञ्जाम् ऊर्णा टङ्कणकं समम् ।
पिष्ट्वा क्षौद्रेण संयुक्तं पूर्वपिण्डं विलेपयेत् ॥ ३,६.८७ ॥
रुद्ध्वा तीव्राग्निना धाम्यं खोटो भवति तद्रसः ।
पाच्यं प्रकटमूषायां काचं टङ्कणकं क्षिपेत् ॥ ३,६.८८ ॥
एवं पुनः पुनः शोध्यं यावद्भवति निर्मलम् ।
ततश्च प्रकटं धाम्यं दत्त्वा नागं पुनः पुनः ॥ ३,६.८९ ॥
त्रिगुणं वाहयेदेवं रसराजस्य पन्नगम् ।
कृष्णाभ्रैः पुटितैरेव तत्खोटं रञ्जयेत् क्रमात् ॥ ३,६.९० ॥
मूषायां धाम्यमानं तच्छतवारं पुनः पुनः ।
दत्त्वा दत्त्वाभ्रकं कृष्णं रञ्जितो जायते ध्रुवम् ॥ ३,६.९१ ॥
सहस्रांशेन तेनैव चन्द्रार्कं काञ्चनं भवेत् ।
{मेर्चुर्य् (खोट), Lead => Gold}
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ॥ ३,६.९२ ॥
पलैकं मर्दयेत्तस्या जम्बीराणां द्रवैर्दिनम् ।
ब्रह्मक्वाथैस्त्र्यहं पश्चात्तत्समं गुडटङ्कणम् ॥ ३,६.९३ ॥
ऊर्णां गुञ्जां क्षिपेत्तस्मिन्सर्वमेकत्र मर्दयेत् ।
छायाशुष्कां वटीं कुर्यान्महदग्निगतां धमेत् ॥ ३,६.९४ ॥
तं खाठं शोधयेत्पश्चात् श्वेतटङ्कणकाचकैः ।
शोधयेद्धमनेनैव खोटो भवति निर्मलः ॥ ३,६.९५ ॥
तं खोटं कुटिलं गन्धं प्रतिकर्षं प्रलेपयेत् ।
अन्धमूषागतं धाम्यं यावत्खोटावशेषितम् ॥ ३,६.९६ ॥
अनेन क्रमयोगेन वङ्गं निर्वाप्य षड्गुणम् ।
ततो गन्धं च नागं च वाहयेत् षड्गुणं पुनः ॥ ३,६.९७ ॥
शुल्बचूर्णं पलैकं तु सिद्धचूर्णेन संयुतम् ।
रुद्ध्वा तं च धमेत् खोटं गंधकं तेन मर्दयेत् ॥ ३,६.९८ ॥
रुद्ध्वा गजपुटे पच्यादेवं वारांश्चतुर्दश ।
अनेन पूर्ववत्खोटं द्रावितं योजयेच्छनैः ॥ ३,६.९९ ॥
यावत्कुङ्कुमवर्णं स्यात्तावद्रञ्ज्यं क्षिपन्क्षिपन् ।
ततः स्वर्णं च गन्धं च खोटं तुल्यं पृथक्पृथक् ॥ ३,६.१०० ॥
ततो रुद्ध्वा धमेत्तीव्रं यावत्खोटावशेषितम् ।
इत्येवं त्रिगुणं वाह्यं स्वर्णं गन्धकसंयुतम् ॥ ३,६.१०१ ॥
पुनः स्वर्णेन तुल्येन समावर्तं तु कारयेत् ।
पुनर्द्विगुणहेम्ना तु त्रिगुणेन ततः पुनः ॥ ३,६.१०२ ॥
त्रिधैव सारितः सूतः सहस्रांशेन विध्यते ।
द्रुतं शुल्बं न संदेहो दिव्यं भवति काञ्चनम् ॥ ३,६.१०३ ॥
{Gold:: रञ्जन:: सितस्वर्ण => षड्वर्ण}
पूर्वं यच्छोधितं खोटम् आवर्त्यं स्वर्णतुल्यकम् ।
सूक्ष्मचूर्णं ततः कृत्वा त्रिगुणे शुद्धपारदे ॥ ३,६.१०४ ॥
दत्त्वा निरुध्य मूषायां स्वेदयेन्मृदुवह्निना ।
तस्यैव द्रवते गर्भे तावत्स्वेद्यं प्रयत्नतः ॥ ३,६.१०५ ॥
अथवा दोलिकायन्त्रे स्वेदयेद् द्रुतसूतकम् ।
अनेन शतमांशेन सितं स्वर्णं विलेपयेत् ॥ ३,६.१०६ ॥
त्रिदिनं दोलिकायन्त्रे अर्कपत्रैश्च वेष्टितम् ।
काञ्जिकैः स्वेदयेत्तं तु अन्धमूषागतं धमेत् ॥ ३,६.१०७ ॥
स्वर्णं भवति रूपाढ्यं षड्वर्णोत्कर्षणं परम् ।
{Gold:: रञ्जन:: => षड्वर्ण}
शोधितं सूतखोटं च भागमेकं समाहरेत् ॥ ३,६.१०८ ॥
स्वर्णं षोडशभागं स्यादन्धमूषागतं धमेत् ।
पूर्ववत्क्रमयोगेन वेधयेद्रसगर्भकः ॥ ३,६.१०९ ॥
तेनैव शतमांशेन षड्वर्णं पूर्ववद्भवेत् ।
{रञ्जन:: Lead => copper => Silver => Gold}
अर्कक्षीरेण धान्याभ्रं यामं पिष्ट्वा तथान्ध्रयेत् ॥ ३,६.११० ॥
कपोताख्ये पुटे पच्यात्पुनर्मर्द्यं पुनः पचेत् ।
एवं विंशपुटैः पक्वं तदभ्रं षोडशांशकम् ॥ ३,६.१११ ॥
शुद्धसूते प्रदातव्यं पक्वमूषोदरेण तत् ।
अर्कपत्रद्रवैः पूर्वं रुद्ध्वा स्वेद्यं दिनत्रयम् ॥ ३,६.११२ ॥
तुषाग्निना प्रयत्नेन समुद्धृत्याथ निक्षिपेत् ।
तस्मिन्नभ्रं द्रवं चैव दत्त्वा तद्वत्पचेत् त्र्यहम् ॥ ३,६.११३ ॥
इत्येवं जारयेत्सूते यावत्तुल्याभ्रकं भवेत् ।
तिलपर्णीरसेनैव तत्सूतं चाभ्रकं पुनः ॥ ३,६.११४ ॥
मर्दयेत्तप्तखल्वे तु यावद्भवति गोलकः ।
पृथक्सूतेन तुल्येन गन्धपिष्टीं तु कारयेत् ॥ ३,६.११५ ॥
स्तम्भिता गन्धपिष्टी या गन्धजारणवर्जिता ।
तत्पिष्टी स्वर्णपिष्टी च रसाभ्रं गोलकं तथा ॥ ३,६.११६ ॥
समांशं त्रितयं मर्द्यं द्रवैः कार्पासजैर्दिनम् ।
तद्गोलं वर्तुलं कृत्वा वस्त्रे बद्ध्वाथ शोषयेत् ॥ ३,६.११७ ॥
पाचयेद् गन्धतैलं तु यावत्कुङ्कुमसंनिभम् ।
संजातं तत्समुद्धृत्य पिष्ट्वा निर्गुण्डिजैर्द्रवैः ॥ ३,६.११८ ॥
तेनैव चाष्टमांशेन नागपत्राणि लेपयेत् ।
पिष्ट्वा कार्पासपत्राणि तत्कल्केन च लेपयेत् ॥ ३,६.११९ ॥
नागपत्राणि रुद्ध्वाथ भूधराख्ये पुटे पचेत् ।
समुद्धृत्य पुनर्लेप्यमष्टमांशेन तेन वै ॥ ३,६.१२० ॥
कार्पासपत्रकल्केन लिप्त्वा रुद्ध्वा पुटे पचेत् ।
ऊर्ध्वाधः परिवर्तेन अहोरात्रात्समुद्धरेत् ॥ ३,६.१२१ ॥
अष्टमांशं पुनर्दत्त्वा पूर्वकल्कं च मर्दयेत् ।
दिनं निर्गुण्डिजैर्द्रावैस्तद्गोलं लेपयेद्बहिः ॥ ३,६.१२२ ॥
कार्पासपत्रकल्केन रुद्ध्वा गजपुटे पचेत् ।
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ ३,६.१२३ ॥
म्रियते कुङ्कुमाभं तन्नागं दशपुटैः क्रमात् ।
अनेन चाष्टमांशेन द्रुतं शुल्बं तु वेधयेत् ॥ ३,६.१२४ ॥
तेन शुल्बेन तारं तु अष्टमांशेन वेधयेत् ।
जायते कनकं शुल्बं देवाभरणमुत्तमम् ।
नागरञ्जनमिदं विशेषतः शुल्बसूतरविचन्द्रवेधनम् ।
धर्मकामसुखभाजनैर् जनैः साध्यताम् अखिललोकरक्षणे ॥ ३,६.१२५ ॥


रसरत्नाकरः, ३, ७[सम्पाद्यताम्]

धातुसत्त्वयुतपिष्टिकाक्रमस्तम्भनं च निगडेन लेपनम् ।
खोटबन्धकृतविद्रुतिं तथा वेधयुक्तिरखिला निगद्यते ॥ ३,७.१ ॥
{पिष्टिगोलम्}
दिव्यौषधद्रवैर् मर्द्यं तप्तखल्वे दिनत्रयम् ।
शुद्धं सूतं ततो घर्मे शोष्यं स्वच्छं समाहरेत् ॥ ३,७.२ ॥
स्वर्णनागार्ककान्तं च तीक्ष्णं वङ्गं च रूप्यकम् ।
यथेष्टैकं विचूर्ण्यादौ व्योमसत्त्वम् अथापि वा ॥ ३,७.३ ॥
पूर्वसूतेन संतुल्यं याममम्लेन मर्दयेत् ।
महारसाष्टकादेकं सूततुल्यं विनिक्षिपेत् ॥ ३,७.४ ॥
दिव्यौषधीद्रवैरेव यामात्स्विन्नातपे खरे ।
मर्दयेत्खल्वके गाढं तद्गोलं वस्त्रवेष्टितम् ॥ ३,७.५ ॥
गन्धतैले दिनं पच्यात्ततो वस्त्रात्समुद्धरेत् ।
पिष्टिगोलमिदं ख्यातं तथान्यमतमुच्यते ॥ ३,७.६ ॥
{पिष्टिगोल}
पूर्वं यन्मर्दितं सूतं तस्य भागत्रयं भवेत् ।
नागद्वयं यथेष्टैकं तस्मिन्नागं विनिक्षिपेत् ॥ ३,७.७ ॥
वैक्रान्तं कुण्डगोलं च दिव्यौषधिद्रवं तथा ।
मर्द्यं यामत्रयं खल्वे छायाशुष्कं तु गोलकम् ॥ ३,७.८ ॥
कृत्वाथ बन्धयेद्वस्त्रे गन्धतैले दिनं पचेत् ।
वस्त्रमध्यात्समुद्धृत्य पिष्टिगोलमिदं भवेत् ॥ ३,७.९ ॥
{पिष्टिगोल:: निगड}
अथास्य पिष्टिगोलस्य निगडः प्रोच्यते शुभः ।
गुग्गुलुं ब्रह्मबीजानि तैस्तुल्यं चैव सैन्धवम् ॥ ३,७.१० ॥
स्नुह्यर्कपयसा मर्द्यं निगडोऽयं महोत्तमः ।
{पिष्टिगोल:: निगड}
पालाशं कोकिलाक्षस्य बीजानि सैन्धवं तथा ॥ ३,७.११ ॥
उन्मत्तनीलिजैर् द्रावैर्मर्द्यः स्यान्निगडोत्तमः ।
{पिष्टिगोल:: निगड}
अभ्रकं सैन्धवं ताप्यं वालूमृल्लोहकिट्टकम् ।
स्नुह्यर्कपयसा पिष्टं यामान्ते निगडो भवेत् ॥ ३,७.१२ ॥
{पिष्टिगोल:: निगड}
वाकुचीब्रह्मधत्तूरबीजानि चाम्लवेतसम् ॥ ३,७.१३ ॥
काकविट्कदलीकन्दतालगन्धमनःशिला ।
गुग्गुलुं पञ्चलोणानि गोजिह्वा कोकिलाक्षकम् ॥ ३,७.१४ ॥
तिक्तकोशातकी नीली विषमुष्टीन्द्रवारुणी ।
जीरद्वयं कर्कटास्थि स्त्रीरजोमूत्रमिश्रितम् ॥ ३,७.१५ ॥
स्नुह्यर्कक्षीरतैलैश्च मर्द्यं यामद्वयं दृढम् ।
व्यस्तं वाथ समस्तं वा निगडोऽयं महोत्तमः ।
{mercury खोट}
एतेष्वेकेन तद्गोलं लेप्यमङ्गुलमात्रकम् ॥ ३,७.१६ ॥
मूषायां बिल्वमात्रायां लोणं किंचिदधः क्षिपेत् ॥ ३,७.१७ ॥
लिप्तं गोलं क्षिपेत् तस्याम् ऊर्ध्वं लोणं च दापयेत् ।
रुद्ध्वा मृल्लवणैः सन्धिं सर्वतो दग्धशङ्खकैः ॥ ३,७.१८ ॥
मूषालेपः प्रकर्तव्यः छायाशुष्कं तु कारयेत् ।
करीषाग्नौ दिवारात्रौ त्रिरात्रं वा तुषाग्निना ॥ ३,७.१९ ॥
मृदुना स्वेदयेत्पश्चात्समुद्धृत्याथ लेपयेत् ।
सम्यङ्निगडकल्केन पूर्वमूषां निरोधयेत् ॥ ३,७.२० ॥
ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा लेप्या च पूर्ववत् ।
छायाशुष्कं धमेद्गाढं रसो भवति खोटताम् ॥ ३,७.२१ ॥
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा धमेद् दृढम् ।
तच्छुद्धं जायते खोटम् अभीक्ष्णं नात्र संशयः ॥ ३,७.२२ ॥
इत्येवं सर्वसत्त्वैश्च पिष्टिकां कारयेत्पृथक् ।
पूर्ववत्क्रमयोगेन खोटो भवति तद्रसः ॥ ३,७.२३ ॥
{mercury खोट}
भागद्वयं सुवर्णस्य त्रिभागं पारदस्य च ।
पूर्ववत्कारयेत्पिष्टीं तद्वत्खोटं च शोधयेत् ॥ ३,७.२४ ॥
इत्येवं पिष्टिखोटानि कृत्वा सर्वत्र योजयेत् ।
{विडवटी}
तत्खोटं स्वर्णसंतुल्यं समावर्तं तु कारयेत् ।
माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥ ३,७.२५ ॥
भूनागैर्मर्दयेद्यामं चणमात्रवटीकृतम् ।
एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥ ३,७.२६ ॥
एकैकं वाहयेत्सूते धाम्यमाने पुनः पुनः ।
एवं दशगुणं हेम जारयेत्तत्क्रमेण तु ॥ ३,७.२७ ॥
प्रकाशमूषागर्भे तु ग्रसते वडवानलः ।
{mercury रञ्जन, => शतवेधिन्}
माक्षिकं दरदं गन्धं राजावर्तं प्रवालकम् ।
शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥ ३,७.२८ ॥
वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।
भावयेद्दिवसान्पञ्च सूर्यतापे पुनः पुनः ॥ ३,७.२९ ॥
जारितं सूतखोटं तु कल्केनानेन संयुतम् ।
वालुकाहण्डिमध्यस्थं श्रावसंपुटमध्यगम् ॥ ३,७.३० ॥
त्रिदिनं पाचयेच्चुल्ल्यां कल्कं देयं पुनः पुनः ।
रञ्जितो जायते सूतः शतवेधी न संशयः ॥ ३,७.३१ ॥
तारे ताम्रे भुजङ्गे वा चन्द्रार्के वाथ योजयेत् ।
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥ ३,७.३२ ॥
{द्रुतसूत}
पिष्टिखोटं सूक्ष्मचूर्णं स्त्रीपुष्पेण तु भावयेत् ।
दिनत्रयं खरे घर्मे शुक्तौ वा नालिकेरजे ॥ ३,७.३३ ॥
मीनाक्षी कदलीकन्दं श्वेता रक्ता पुनर्नवा ।
शिलाजतु ससिन्धूत्थं नारीपुष्पेण मर्दयेत् ॥ ३,७.३४ ॥
पूर्ववद्भावितं खोटं तस्मिन्पिण्डे विनिक्षिपेत् ।
पूर्ववद्भावितं खोटं तस्मिन्पिण्डं विनिक्षिपेत् ॥ ३,७.३५ ॥
मुखं तत्पिण्डकल्केन रुद्ध्वा पिण्डं च बन्धयेत् ।
भूर्जपत्त्रं त्र्यहं पच्याद्दोलायन्त्रे सकाञ्जिके ॥ ३,७.३६ ॥
द्रुतं सूतं भवेत्साक्षात्पुनस्तस्मिंश्च दापयेत् ।
पूर्ववद्भावितं खोटं खोटपादं पुनः पुनः ॥ ३,७.३७ ॥
निक्षिपेत्पूर्वपिण्डे तु तद्वत्पच्याद्दिनत्रयम् ।
एवं पुनः पुनर्देयं पिष्टिं खोटं सुभावितम् ॥ ३,७.३८ ॥
आरोटस्य समं यावत्तावद् देयं द्रुतं भवेत् ।
{द्रुतसूत}
आर्द्रकं मूलकं शुण्ठी लशुनं हिङ्गुमाक्षिकम् ॥ ३,७.३९ ॥
त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसगन्धकम् ।
अम्लवर्गेण संयुक्तं मर्द्यं पिण्डं तु कल्पयेत् ॥ ३,७.४० ॥
तस्मिन् पिण्डे यथा पूर्वं द्रुतं सूतं तु कारयेत् ।
मार्जारी चेश्वरी गुञ्जा कुक्कुटी क्षीरकन्दकम् ॥ ३,७.४१ ॥
एतेषां पिण्डमध्ये तु पूर्ववद्भावयेद्रसम् ।
द्रुतसूतमिदं ख्यातं सर्वकर्मसु योजयेत् ॥ ३,७.४२ ॥
{चन्द्रार्क => Gold (wइथ् द्रुतसूत)}
द्रुतसूतस्य भागौ द्वावेकं कृष्णाभ्रसत्त्वकम् ।
भागं रसकसत्त्वस्य कृष्णोन्मत्तद्रवैर्दिनम् ॥ ३,७.४३ ॥
मर्दितं कारयेद्गोलं गोलपादं मृतं पविम् ।
दत्त्वाथ मर्दयेद्यामं सर्वमुन्मत्तवारिणा ॥ ३,७.४४ ॥
रुद्ध्वाथ भूधरे पच्यात्पुटैकेन समुद्धरेत् ।
पूर्वांशं द्रुतसूतं तु तं दत्त्वा मर्दयेत्पुनः ॥ ३,७.४५ ॥
धत्तूरोत्थद्रवैर्यामं तद्वत्पच्याच्च भूधरे ।
इत्येवं सप्तवाराणि सूतं दत्त्वा पुनः पुनः ॥ ३,७.४६ ॥
भूधरे पाचयेद्यन्त्रे भस्मीभवति तद्रसः ।
तेनैव शतभागेन क्षौद्रेण सह पेषयेत् ॥ ३,७.४७ ॥
चन्द्रार्कजातपत्राणि अन्धमूषागतं धमेत् ।
स्वर्णं भवति रूपाढ्यं जाम्बूनदसमप्रभम् ॥ ३,७.४८ ॥
{Lead => Gold}
तद्भस्म गन्धकं तुल्यमन्धमूषागतं धमेत् ।
वेध्यं तेन शतांशेन नागं भवति काञ्चनम् ॥ ३,७.४९ ॥
{चन्द्रार्क => Gold}
रसकाभ्रकयोः सत्त्वं द्रुतं सत्त्वं समं समम् ।
त्रयाणां पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.५० ॥
मर्द्यमुन्मत्तकद्रावैर्दिनैकं चान्धितं धमेत् ।
तत्खोटं चूर्णितं मर्द्यं मातुलुङ्गाम्लगन्धकैः ॥ ३,७.५१ ॥
रुद्ध्वा गजपुटे पच्यादेवं वारांस्त्रयोदश ।
मर्द्यं मर्द्यं पचेद्रुद्ध्वा आरण्योत्पलकैः क्रमात् ॥ ३,७.५२ ॥
चन्द्रार्कशतभागेन मधुनाक्तेन तेन वै ।
लिप्त्वा रुद्ध्वा धमेद्गाढं स्वर्णं भवति शोभनम् ॥ ३,७.५३ ॥
{copper => Gold}
रसकाभ्रकयोः सत्त्वं द्रुतसूतं च टङ्कणम् ।
सर्वमेतत्समं मर्द्य कृष्णोन्मत्तद्रवैर् दिनम् ॥ ३,७.५४ ॥
छायाशुष्कां वटीं कृत्वा महदग्निगतां धमेत् ।
तत्खोटं शोधयेत्पश्चात् सितकाचेन टङ्कणैः ॥ ३,७.५५ ॥
स्वर्णेन च समावर्त्य समेन जारयेत्ततः ।
पूर्वा विडवटी या तु तामेकैकां प्रदापयेत् ॥ ३,७.५६ ॥
धमन्प्रकटमूषायां यावत्सूतावशेषितम् ।
ततः शुद्धसुवर्णेन सारयेत्सारणात्रयम् ॥ ३,७.५७ ॥
वेध्यं तेन शतांशेन शुल्वं भवति काञ्चनम् ।
{Silver => Gold}
भागैकं द्रुतसूतस्य सारणायन्त्रके क्षिपेत् ॥ ३,७.५८ ॥
तस्माच्चतुर्गुणं नागं शुद्धं तद्द्रावितं पृथक् ।
तस्मिन्यन्त्रे विनिक्षिप्य जातं खोटं समाहरेत् ॥ ३,७.५९ ॥
तत्तुल्यं माक्षिकं शुद्धमेकीकृत्य विमर्दयेत् ।
दिनं धत्तूरजैर् द्रावैर्मृद्भाण्डे पाचयेत्ततः ॥ ३,७.६० ॥
यावत्कुङ्कुमवर्णं स्यात् तावच्चुल्ल्यां समुद्धरेत् ।
एतस्यैव पलैकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.६१ ॥
रुद्ध्वा ध्माते भवेत्खोटं मध्वम्लैर्मर्दयेद्दिनम् ।
आरण्योत्पलकैरेव रुद्ध्वा मधुपुटैः पचेत् ॥ ३,७.६२ ॥
अनेन मधुयुक्तेन तारपत्राणि लेपयेत् ।
रुद्ध्वा धाम्यं पुनर्लेप्यं त्रिभिर्वारैस्तु काञ्चनम् ॥ ३,७.६३ ॥
जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ।
माक्षिकस्य त्वभावे तु वैक्रान्तं वात्र योजयेत् ॥ ३,७.६४ ॥
{मृत Lead, Silver => Gold}
द्रुतसूतं हिङ्गुलं च कङ्कुष्ठं गन्धकं शिला ।
एकद्वित्रिचतुःपञ्चपलानि क्रमतो भवेत् ॥ ३,७.६५ ॥
गोपित्तेन तु तत्सर्वं मर्द्यं यामचतुष्टयम् ।
शुद्धानि नागपत्राणि सममानेन लेपयेत् ॥ ३,७.६६ ॥
रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
समेन पूर्वकल्केन रुद्ध्वा तद्वत्पुटे पचेत् ॥ ३,७.६७ ॥
एवं शतपुटैः पक्वो म्रियते पन्नगो ध्रुवम् ।
अनेन शतभागेन तारवेधात्तु काञ्चनम् ॥ ३,७.६८ ॥
{Silver (+ मृतनाग and Gold) => Gold}
तेन वा मृतनागेन ह्यम्लपिष्टेन लेपयेत् ।
समांशं स्वर्णपत्रं तु रुद्ध्वा गजपुटे पचेत् ॥ ३,७.६९ ॥
नागं पुनः पुनर्देयमेवं देयं पुटत्रयम् ।
अनेन मृतहेम्ना तु द्रुतं तारं तु वेधयेत् ॥ ३,७.७० ॥
सहस्रांशेन तत्सिद्धं दिव्यं भवति कांचनम् ॥ ३,७.७१ ॥
{mercury खोटबन्ध}
द्रवैस् तुम्बरुवल्ल्यास्तु धान्याभ्रं सप्तधातपे ।
भावयेत् खोटयेत् पश्चात् कर्षैके द्रुतसूतके ॥ ३,७.७२ ॥
माषमात्रं क्षिपेदेतत्तप्तखल्वे विमर्दयेत् ।
गोस्तनाकारमूषायां क्षिप्त्वा मृद्वग्निना पचेत् ।
वालुकायन्त्रमध्ये तु जीर्णे वापं पुनः क्षिपेत् ।
इत्येवं जारयेत्तुल्यं खोटबद्धो भवेद्रसः ॥ ३,७.७३ ॥
{copper => Gold}
अस्य बद्धस्य माषैकं माषार्धं शुद्धहाटकम् ।
शुद्धसूतस्य माषार्धं सर्वमेकत्र मर्दयेत् ॥ ३,७.७४ ॥
त्रिदिनं मातुलुङ्गाम्लैर् एतत्कल्केन लेपयेत् ।
कर्षैकं नागपत्राणि वृश्चिकाल्यास्तथा द्रवैः ॥ ३,७.७५ ॥
लिप्त्वा तत् पातनायन्त्रे पाचयेद्दिवसत्रयम् ।
पिष्ट्वा दिनावधि ॥ ३,७.७६ ॥
अनेन तारपत्राणि कर्षमेकं प्रलेपयेत् ।
पूर्ववत् पातनायन्त्रे पाचयेद्दिवसत्रयम् ॥ ३,७.७७ ॥
अनेनैव द्रुतं शुल्बं सहस्रांशेन वेधयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,७.७८ ॥
{mercury मारण:: wहिते colour}
क्षीरेणोत्तरवारुण्यास् त्रिदिनं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे व तं [... औ५ Zएइछेन्झ्] ॥ ३,७.७९ ॥
करीषाग्नौ दिवारात्रौ त्रिदिनं वा तुषाग्निना ।
समुद्धृत्य पुनर्मर्द्यं तद्वद्रुद्ध्वाथ पाचयेत् ॥ ३,७.८० ॥
तद्वन्मर्द्यं पुनः पाच्यं म्रियते पाण्डुरो रसः ।
{चन्द्रार्क => Gold}
आर्द्रकं तुवरी सिन्धुकङ्गुणीतैलकं मधु ॥ ३,७.८१ ॥
अम्लवेतसमेतैस्तु तद्रसं मर्दयेद्दिनम् ।
गोलकं बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ॥ ३,७.८२ ॥
कङ्गुणीतैलमध्ये तु बद्धो भवति तद्रसः ।
तद्रसं हाटकं नागं समं रुद्ध्वा धमेद् दृढम् ॥ ३,७.८३ ॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
अम्लैर्मर्द्यं भवेद्गोलं काञ्जिकैः स्वेदयेद्दिनम् ॥ ३,७.८४ ॥
गंधकस्य त्रयो भागा गंधतुल्यं सुवर्चलम् ।
कृष्णाभ्रकं तु भागैकं सर्वं स्तन्येन पेषयेत् ॥ ३,७.८५ ॥
अनेन लेपितं गोलम् अंधमूषागतं धमेत् ।
यावत् सूतावशेषं स्यात्तावद्धाम्यं पुनः पुनः ॥ ३,७.८६ ॥
पूर्वचूर्णं पुनर्दत्त्वा तद्वज्जार्यं क्रमेण तु ।
इत्येवं हाटकं यावज्जारितं त्रिगुणं भवेत् ॥ ३,७.८७ ॥
स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।
चन्द्रार्कं वेधयेत्तेन शतांशात् कांचनं भवेत् ॥ ३,७.८८ ॥
{copper => Gold}
पिष्टीखोटसमं स्वर्णं स्वर्णतुल्यं च पन्नगम् ।
कान्तलोहं व्योमसत्त्वम् एकैकं पन्नगार्धकम् ॥ ३,७.८९ ॥
एकीकृत्य धमेत्तावद्यावत्स्वर्णावशेषितम् ।
दत्त्वा विडवटीं चैव सारयेत्सारणात्रयम् ॥ ३,७.९० ॥
शतांशेन ह्यनेनैव शुल्बं भवति काञ्चनम् ।
{mercury बन्ध:: खोट}
सुवर्णं रजतं ताम्रं कान्तं तीक्ष्णं च माक्षिकम् ।
कृष्णाभ्रकस्य सत्त्वं च समं रुद्ध्वा धमेद् दृढम् ॥ ३,७.९१ ॥
तत्खोटं सूक्ष्मचूर्णं तु पादांशं द्रुतपारदम् ।
दत्त्वाथ मर्दयेदम्लैर्यावद्भवति गोलकम् ॥ ३,७.९२ ॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ ३,७.९३ ॥
रुद्ध्वाथ भूधरे पच्याद्दिनान्ते तु समुद्धरेत् ।
तन्मध्ये द्रुतसूतं च पुनः कन्यासु मर्दयेत् ॥ ३,७.९४ ॥
पूर्ववद् भूधरे पच्यादेवं देयं तु सप्तधा ।
द्रुतसूतं क्रमेणैव मर्दनं च पुटं तथा ॥ ३,७.९५ ॥
तद्भस्म गंधतुल्यं च ह्यंधमूषागतं धमेत् ।
जायते खोटबद्धं तु रञ्जनं चास्य कथ्यते ॥ ३,७.९६ ॥
{तारारिष्ट, चन्द्रार्क, माक्षिक => Gold}
कृष्णाभ्रसत्त्वं वङ्गं च द्वंद्वं मेलापयेद् द्रुतम् ।
तुल्यांशमंधमूषायां ध्मातं खोटं भवेत्तु तत् ॥ ३,७.९७ ॥
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ।
मर्दयेद् गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ ३,७.९८ ॥
पुनर्मर्द्यं पुनः पाच्यम् एवं वारांश्चतुर्दश ।
अनेन पूर्वखोटे तु द्रावितं रञ्जयेत् क्रमात् ॥ ३,७.९९ ॥
रञ्जयेच्छतवाराणि भवेत्कुंकुमसन्निभम् ।
सुवर्णेन समावर्त्य सारयेत्सारणात्रयम् ॥ ३,७.१०० ॥
सहस्रांशेन तेनैव तारारिष्टं च वेधयेत् ।
चन्द्रार्कं ताप्यशुल्बं तु दिव्यं भवति कांचनम् ॥ ३,७.१०१ ॥
{Lead, सिल्बेर् => Gold}
तीक्ष्णं शुल्बं समं चूर्ण्य वज्रमूषान्धितं धमेत् ।
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,७.१०२ ॥
मर्दयेद् गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ ३,७.१०३ ॥
तद्देयं द्राविते स्वर्णे शतवारं पुनः पुनः ।
पक्वबीजं भवेत्तत्तु द्रुतसूते समं दिनम् ॥ ३,७.१०४ ॥
मर्दयेदम्लयोगेन तस्य भागचतुष्टयम् ।
एवं वज्रस्य भागैकं तप्तखल्वे दिनावधि ॥ ३,७.१०५ ॥
मर्दयेत् कन्यकाद्रावैस्तद्रुद्ध्वा भूधरे पचेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटे ततः ॥ ३,७.१०६ ॥
इत्येवं सप्तधा देयं द्रुतसूतं पुटान्तकम् ।
ततस्तं मर्दयेद् अम्लै रुद्ध्वा मूषां पुटेत्तथा ॥ ३,७.१०७ ॥
पुनर्मर्द्यं पुनः पाच्यं षष्ट्याधिकशतत्रयम् ।
पुटं देयं प्रयत्नेन जायते सिन्दूरप्रभम् ॥ ३,७.१०८ ॥
सहस्रांशेन नागस्य द्रुतस्य रजतस्य च ।
देयो वेधो भवेत्स्वर्णं दिव्याभरणमुत्तमम् ॥ ३,७.१०९ ॥
{Silver => Gold}
गंधकं सूक्ष्मचूर्णं तु चणकाम्लेन भावयेत् ।
शतवारं प्रयत्नेन स्त्रीपुष्पेण तु सप्तधा ॥ ३,७.११० ॥
द्रुतपारदमध्ये तु किंचित्कर्पूरसंयुतम् ।
गंधकं दापयेद् घर्मे वापयेत्ताम्रखल्वके ॥ ३,७.१११ ॥
कर्पूरं गंधकं चैव किंचित्किंचित्पुनः पुनः ।
त्रिसप्ताहं प्रदातव्यं जायते गन्धपिष्टिका ॥ ३,७.११२ ॥
कटुकोशातकीबीजं चाण्डालीकन्दसंयुतम् ।
स्तन्येन पेषितं तुल्यं पिष्टीं तेन प्रलेपयेत् ॥ ३,७.११३ ॥
बाह्ये तु मृत्तिका लेप्या सर्वतोऽङ्गुलमात्रकम् ।
शोषितं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥ ३,७.११४ ॥
जायते स्तम्भितं गोलं समुद्धृत्याथ तं पुनः ।
तुल्यांशे संपुटे हेम्नि लिप्त्वा मूषान्धितं धमेत् ॥ ३,७.११५ ॥
अनेन चाष्टमांशेन तारे वेधं प्रदापयेत् ।
तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ॥ ३,७.११६ ॥
{चन्द्रार्क => Gold}
अथवा स्तम्भितं गोलं स्वर्णं संपुटवर्जितम् ।
तस्यैव भागाश्चत्वारो भागैकं मृतवज्रकम् ॥ ३,७.११७ ॥
मर्दयेत्कन्यकाद्रावैर्दिनमेकं ततः पुनः ।
अन्धितं भूधरे पच्याद्यावद्यामचतुष्टयम् ॥ ३,७.११८ ॥
समुद्धृत्य पुनस्तस्मिन्पूर्वांशं पूर्वसूतकम् ।
दत्त्वा मर्द्यं पुटेत्तद्वदेवं कुर्यात् त्रिसप्तधा ॥ ३,७.११९ ॥
तस्मिन् भस्मपलमेकं पारदं गंधकस्य तु ।
अंधमूषागतं ध्मातं तत्खोटं पन्नगं समम् ॥ ३,७.१२० ॥
पन्नगस्य समं स्वर्णं त्रयाणां त्रिगुणं क्षिपेत् ।
द्रुतं च तत्सर्वमम्लवर्गेण मर्दयेत् ॥ ३,७.१२१ ॥
दिनान्ते वज्रमूषायां रुद्ध्वा धाम्यं प्रयत्नतः ।
जायते पन्नगं स्वर्णं त्रयोत्थं जायते क्रमात् ॥ ३,७.१२२ ॥
सारयेच्च त्रिधा हेम चन्द्रार्कं वेधयेत्ततः ।
सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥ ३,७.१२३ ॥
{सितस्वर्ण => Gold}
हेमार्कतीक्ष्णचूर्णं च समं रुद्ध्वा धमेद् दृढम् ।
तत्खोटं भागमेकं तु त्रिभागं द्रुतसूतकम् ॥ ३,७.१२४ ॥
मर्दयेद् गंधकाम्लेन रुद्ध्वा सम्यक्पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥ ३,७.१२५ ॥
अनेन शतमांशेन सितहेम च वेधयेत् ।
जायते कनकं दिव्यं कङ्गुणीतैलसेचनात् ॥ ३,७.१२६ ॥
बद्धे द्रुते रसवरे वरहेम्नि जीर्णे दृष्टो मया दशगुणः सुखसाध्यलाभः ।
वज्रे मृते गगनसत्त्वयुते नराणां तत्रैव भूरिगुणितं फलमस्ति सत्यम् ॥ ३,७.१२७ ॥


रसरत्नाकरः, ३, ८[सम्पाद्यताम्]

{Tin:: शोधन}
कार्पासार्ककरञ्जधूर्तमुनिजैर् भल्लातगुञ्जाग्निजैः स्नुग्वज्रीपयसा च सूरणभवैर्द्रावैश्च मूलैः फलैः ।
तक्राक्तैर्बहुतप्तखर्परगतं वङ्गं निषिञ्च्यान्मुहुर् यावत्पञ्चदिनं तद् एव विमलं वादे सदा योजयेत् ॥ ३,८.१ ॥
{Tin:: शोधन}
अथवा वङ्गचूर्णं तु माषैर्भल्लातजैः फलैः ।
समं खल्वे दिनं मर्द्यं भल्लाततैलसंयुतम् ॥ ३,८.२ ॥
तत्पिण्डं माहिषे शृङ्गे क्षिप्त्वा रुद्ध्वा महापुटे ।
पचेत्तस्मात्समुद्धृत्य पुनस्तद्वच्च मर्दयेत् ॥ ३,८.३ ॥
इत्येवं सप्तधा कुर्यात् खोटं पाकं च मर्दनम् ।
तद्वङ्गं मलनिर्मुक्तं स्तम्भकर्मणि योजयेत् ॥ ३,८.४ ॥
{Tin:: स्तम्भन}
तीक्ष्णपाषाणसत्त्वं च द्रुतवङ्गे द्रुतं क्षिपेत् ।
चतुःषष्टितमांशेन स्तम्भमायाति निश्चितम् ॥ ३,८.५ ॥
{Tin=> Silver}
श्वेताभ्रं श्वेतकाचं च टंकणं शङ्खपुष्पिका ।
विषं च तुल्यतुल्यांशं चूर्णं भाव्यं त्रिसप्तधा ॥ ३,८.६ ॥
काकमाचीद्रवैः क्षीरैः स्नुह्यर्कैश्चातपे खरे ।
द्रुते वङ्गे प्रदातव्यं प्रतिवापं च सेचयेत् ॥ ३,८.७ ॥
पुत्रजीवोत्थतैलेन सप्तवारं पुनः पुनः ।
तत्तारं जायते दिव्यं यावच्चन्द्रार्कतारकम् ॥ ३,८.८ ॥
{Tin => Silver}
श्वेताभ्रं श्वेतकाचं च विषसैन्धवटंकणम् ।
स्नुहीक्षीरैर्दिनं मर्द्यं श्वेतवङ्गस्य पत्रकम् ॥ ३,८.९ ॥
लेप्यं पादांशकल्केन चांधमूषागतं धमेत् ।
आदाय द्रावयेद् भूमौ पूर्वतैलेन सेचयेत् ॥ ३,८.१० ॥
पत्रादिलेपसेकं च सप्तवाराणि सेचयेत् ।
तद् वङ्गं जायते तारं शंखकुन्देन्दुसन्निभम् ॥ ३,८.११ ॥
{Tin => Silver}
समं तालं शिलां पिष्ट्वा देवदाल्या द्रवैर्दिनम् ।
द्रवैर् ईश्वरलिङ्ग्याश्च दिनमेकं विमर्दयेत् ॥ ३,८.१२ ॥
नागं वङ्गं समं द्राव्यं तच्चूर्णं पलपञ्चकम् ।
पूर्वकल्केन संतुल्यं समालोड्यान्धितं पुटेत् ॥ ३,८.१३ ॥
एवं पुनः पुनः पाच्यं पूर्वकल्केन संयुतम् ।
भवेत्षष्टिपुटैः सिद्धं वङ्गस्तम्भकरं परम् ॥ ३,८.१४ ॥
शतमांशेन दातव्यं वेधात्तारं करोत्यलम् ॥ ३,८.१५ ॥
{Tin => Silver}
सूतकं तालमेकैकं नृकपालं द्विभागकम् ।
सर्वतुल्यं विषं योज्यं पञ्चाङ्गं रक्तचित्रकात् ॥ ३,८.१६ ॥
विषतुल्यं क्षिपेच्चूर्णं वज्रीक्षीरेण भावितम् ।
मासमात्रं दिवारात्रौ तद्वापं षोडशांशतः ॥ ३,८.१७ ॥
दत्ते वारत्रयं वङ्गे तारं भवति शोभनम् ॥ ३,८.१८ ॥
{Tin => Silver}
गोरम्भा ह्यौषधी नाम नरमूत्रेण पेषयेत् ।
तेन पिण्डद्वयं कृत्वा तत्रैकस्योपरि क्षिपेत् ॥ ३,८.१९ ॥
क्षारत्रयस्य चूर्णं तु तत्पृष्ठे वङ्गचूर्णकम् ।
क्षारत्रयं ततो दत्त्वा पिण्डं तस्योपरि क्षिपेत् ॥ ३,८.२० ॥
मुखं बद्ध्वा पुटे पच्यात्स्वाङ्गशीतं समुद्धरेत् ।
एवं वारत्रयं कुर्यात्तारं भवति शोभनम् ॥ ३,८.२१ ॥
वसन्ते जायते सा तु गोरम्भा पीतपुष्पिका ।
तस्या मध्यमकाण्डार्धे श्वेतकार्पासवद्भवेत् ॥ ३,८.२२ ॥
वसन्तपुष्पिकां वापि तदभावे नियोजयेत् ।
बाला नाम समाख्याता कट्या धूलीसमा तथा ॥ ३,८.२३ ॥
{Tin => Silver}
श्वेतपालाशपुष्पाणि छायाशुष्काणि चूर्णयेत् ।
एकविंशतिवारेण मेषीक्षीरेण भावयेत् ॥ ३,८.२४ ॥
तच्चूर्णं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ।
तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ॥ ३,८.२५ ॥
{Tin => Silver}
तत्पुष्पं हरितालं च मेषीदुग्धेन पेषयेत् ।
तद्वापं षोडशांशेन द्रुते वङ्गे प्रदापयेत् ॥ ३,८.२६ ॥
तारं भवति रूपाढ्यं शंखकुन्देन्दुसन्निभम् ।
{Tin => Silver}
तक्रेण तानि पुष्पाणि भावयित्वा त्रिसप्तधा ॥ ३,८.२७ ॥
तेन कल्केन वङ्गस्य पत्राणि परिलेपयेत् ।
अंधमूषागतं धाम्यमेवं कुर्यात्त्रिसप्तधा ॥ ३,८.२८ ॥
तत्तारं जायते दिव्यं धर्मकामफलप्रदम् ।
{Tin => Silver}
रसो मूषकपाषाणं फट्किरी नीलम् अञ्जनम् ॥ ३,८.२९ ॥
अगस्तिपत्रनिर्यासैः सर्वं मर्द्यं दिनावधि ।
भाण्डमध्ये निधायाथ पाचयेद्दीपवह्निना ॥ ३,८.३० ॥
अगस्तिपत्रनिर्यासं जीर्णे जीर्णे प्रदापयेत् ।
दिनान्ते तत्समुद्धृत्य द्रुते वङ्गे प्रदापयेत् ॥ ३,८.३१ ॥
त्रिंशदंशेन तत्तारं जायते देवभूषणम् ।
{Tin => Silver}
तारेण द्वंद्वयेद्वज्रं स्वर्णेन द्वंद्वितं यथा ॥ ३,८.३२ ॥
अस्य द्वंद्वस्य भागौ द्वौ त्रिभागं शुद्धपारदम् ।
अम्लेन मर्दयेत् तावद्यावद्भवति गोलकम् ॥ ३,८.३३ ॥
मेषशृङ्ग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।
अनेन वेष्टयेद् गोलं तद्बहिर्निगडेन च ॥ ३,८.३४ ॥
स्वेदादिधमनान्तं च कर्तव्यं हेमपिष्टिवत् ।
उत्तरावारुणीक्षीरैस् तत्खोटं च प्रलेपयेत् ॥ ३,८.३५ ॥
मूषामध्ये निधायाथ तारं दत्त्वा समं समम् ।
दत्त्वा विडवटीं चैव धमेत्सूतावशेषितम् ॥ ३,८.३६ ॥
एवं पुनः पुनस् ताप्यम् एकविंशतिवारकम् ।
दत्त्वा समं समं जार्यं त्रिधा तारेण सारयेत् ॥ ३,८.३७ ॥
इदमेव सहस्रांशं द्रुते वङ्गे विनिक्षिपेत् ।
तद् वङ्गं जायते तारं वङ्गस्तम्भं शिवोदितम् ॥ ३,८.३८ ॥
{Tin => Silver}
रक्तपारदभागैकं भागैकं शंखचूर्णकम् ।
श्वेताभ्रकस्य सत्त्वं च सम्यग्भागद्वयं भवेत् ॥ ३,८.३९ ॥
टंकणस्य च भागैकं सर्वमेतद्दिनत्रयम् ।
वज्रीक्षीरेण संमर्द्यमेवं वारांश्चतुर्दश ॥ ३,८.४० ॥
अनेन शतमांशेन द्रुतं वङ्गं च वेधयेत् ।
स्तम्भते नात्र संदेहस्तारं भवति शोभनम् ॥ ३,८.४१ ॥
{Tin => Silver}
हेमसूताद्यथा जातं पिष्टीखोटं तु शोभनम् ।
तथैव तारसूतेन पिष्टीखोटं तु कारयेत् ॥ ३,८.४२ ॥
तत्खोटं तारवङ्गं च सत्त्वं श्वेताभ्रजं समम् ।
जार्यं विडवटीं दत्त्वा यावत्खोटावशेषितम् ॥ ३,८.४३ ॥
जारणेन त्रिधा सार्यं द्रुते शुल्बे नियोजयेत् ।
शतांशेन तु तत्तारं जायते शंभुभाषितम् ॥ ३,८.४४ ॥
{Tin => Silver}
द्रुतं सूतं तीक्ष्णचूर्णं समांशं तप्तखल्वके ।
टेण्टूछल्लीद्रवैर् मर्द्यं यावद्भवति गोलकम् ॥ ३,८.४५ ॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
तप्तखल्वे दिनं मर्द्यं टेण्टूछल्लीरसैर् नवैः ॥ ३,८.४६ ॥
अन्धितं भूधरे पच्याद्दिनान्ते तत्समुद्धरेत् ।
पूर्वतुल्यं द्रुतं सूतं दत्त्वा मर्द्यं च पूर्ववत् ॥ ३,८.४७ ॥
पूर्ववद् भूधरे पच्यादित्येवं सप्तधा क्रमात् ।
द्रुतसूतं प्रदातव्यं मर्दनं च पुटं क्रमात् ॥ ३,८.४८ ॥
अनेन षोडशांशेन द्रुतं वङ्गं तु वेधयेत् ।
जायते दिव्यरूपाढ्यं तारं कुन्देन्दुसन्निभम् ॥ ३,८.४९ ॥
{Tin => Silver}
षोडशांशेन यद्दत्तं वङ्गं तस्यापरो विधिः ।
तत्तुल्यं गंधकं रुद्ध्वा ध्माते खोटं प्रजायते ॥ ३,८.५० ॥
तत्खोटं तीक्ष्णचूर्णं च समभागं प्रकल्पयेत् ।
ताभ्यां तुल्यं द्रुतं सूतं तत्सर्वं तप्तखल्वके ॥ ३,८.५१ ॥
मर्दयेट्टेण्टुजद्रावैर् यावद्भवति गोलकम् ।
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ॥ ३,८.५२ ॥
पूर्वांशं द्रुतसूतं च दत्त्वा तद्वच्च मर्दयेत् ।
तं रुद्ध्वा च पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥ ३,८.५३ ॥
अंधमूषागतं धाम्यं तत्खोटं जायते रसः ।
तुल्येन तीक्ष्णचूर्णेन मर्दयेच्चान्धितं धमेत् ॥ ३,८.५४ ॥
अनेन क्रमयोगेन तीक्ष्णं देयं पुनः पुनः ।
यावत् सप्तगुणं तीक्ष्णं दत्त्वा दत्त्वा धमेद्धि तत् ॥ ३,८.५५ ॥
तं खोटं सारयेत्पश्चात्क्षारेणैव त्रिधा क्रमात् ।
लक्षांशेनैव तेनैव वङ्गवेधं प्रदापयेत् ।
शंखकुन्देन्दुसंकाशं तारं भवति शोभनम् ॥ ३,८.५६ ॥
{copper => Silver}
मधुसंजीवनीं पिष्ट्वा गर्दभस्य तु मूत्रतः ।
सप्ताहं तेन मूत्रेण भावयित्वा ततः पुनः ॥ ३,८.५७ ॥
तेनैव मर्दयेत्सूतं तप्तखल्वे दिनत्रयम् ।
तत्तुल्यं गंधकं दत्त्वा ह्यंधमूषागतं धमेत् ॥ ३,८.५८ ॥
तत्खोटं जायते दिव्यं रञ्जनं तस्य कथ्यते ।
वङ्गं श्वेताभ्रसत्त्वं च द्वंद्वमेलापसंयुतम् ॥ ३,८.५९ ॥
मूषामध्ये तु तत्खोटं पलमात्रं विचूर्णयेत् ।
मर्दयेद् गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥ ३,८.६० ॥
पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ।
अनेन पूर्वखोटं तु रञ्जयेत्सप्तवारकम् ॥ ३,८.६१ ॥
यथा वङ्गाभ्रकेनैव तथा नागाभ्रकैः पुनः ।
रञ्जयेत्सप्तवाराणि सूक्ष्मचूर्णं तु कारयेत् ॥ ३,८.६२ ॥
द्रुतसूतेन संयुक्तं द्रावयेत् पूर्ववत् क्रमात् ।
द्रुतस्य जारयेत्तारं दोलास्वेदेन यत्नतः ॥ ३,८.६३ ॥
त्रिषड्गुणं यदा तारं जीर्णं भवति पारदे ।
सारयेत्सारणास्तिस्रः सहस्रांशेन वेधयेत् ॥ ३,८.६४ ॥
द्रुतं शुल्बं भवेत्तारं शंखकुन्देन्दुसन्निभम् ॥ ३,८.६५ ॥
{copper => Silver}
श्वेताभ्रकस्य सत्त्वं तु कान्तसत्त्वं तथायसम् ।
वङ्गं तारं च वैक्रांतं कदम्बं नागमेव च ॥ ३,८.६६ ॥
तुल्यांशमंधमूषायां ध्माते खोटं विचूर्णयेत् ।
द्रुतसूतेन संमर्द्यं यावदम्लेन गोलकम् ॥ ३,८.६७ ॥
गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।
मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥ ३,८.६८ ॥
रुद्ध्वाथ भूधरे पच्यादेवं कुर्यात्त्रिसप्तधा ।
तत्तुल्यं गंधकं दत्त्वा चांधमूषागतं धमेत् ॥ ३,८.६९ ॥
रजतेन समावर्त्य सारणात्रयसारितम् ।
सहस्रांशेन शुल्बस्य द्रुतस्योपरि दापयेत् ॥ ३,८.७० ॥
तत्तारं जायते दिव्यं पुटे दत्ते न हीयते ॥ ३,८.७१ ॥
{copper Oऋ Tin => Silver}
वज्रेण सारितं यत्तु सूतभस्म पुरा कृतम् ।
तेनैव चाम्लपिष्टेन तारपत्रं चतुर्गुणम् ॥ ३,८.७२ ॥
लिप्त्वा रुद्ध्वा पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पादांशं भस्मसूतं च दत्त्वा रुद्ध्वा पुटे पचेत् ॥ ३,८.७३ ॥
एवं चतुःपुटैः पक्वं तत्तारं म्रियते ध्रुवम् ।
तेनैव षोडशांशेन द्रुतं ताम्रं तु वेधयेत् ।
अथवा द्रावितं वङ्गं तारं भवति शोभनम् ॥ ३,८.७४ ॥
{copper => Silver}
तारवन्मारयेद् वङ्गं तेन ताम्रं तु वेधयेत् ।
तत्तारं जायते दिव्यं षोडशांशे न संशयः ॥ ३,८.७५ ॥
{copper => Silver}
शुद्धसूतसमां राजीं मर्दयेत्कन्यकाद्रवैः ।
त्रिदिनं तप्तखल्वे तु तत्सूतं खर्परोदरे ॥ ३,८.७६ ॥
चुल्ल्यां चण्डाग्निना पाच्यं प्रक्षिपेत्कन्यकाद्रवैः ।
त्रिदिनान्ते समुद्धृत्य सैन्धवं तच्चतुर्गुणम् ॥ ३,८.७७ ॥
दत्त्वा विमर्दयेद्यामं पातनायन्त्रके पचेत् ।
चतुर्यामात्समुद्धृत्य क्षालयेदारनालकैः ॥ ३,८.७८ ॥
अधःस्थितं समादद्यात् शुद्धः स्यात्पारदः शुभः ।
एतत्सूतं मृतं वङ्गं श्वेताभ्रसत्त्वटङ्कणम् ॥ ३,८.७९ ॥
विषं च तुल्यतुल्यांशं तालसत्त्वं चतुःसमम् ।
मर्द्यं स्नुह्यर्कसत्त्वाभ्यां खल्वके दिवसत्रयम् ॥ ३,८.८० ॥
तद्वटीः काचकूप्यान्तः क्षिप्त्वा कूपीं मृदा लिपेत् ।
सच्छिद्रवालुकायन्त्रे हण्डीं मन्दाग्निना पचेत् ॥ ३,८.८१ ॥
शुष्के द्रावे मुखं रुद्ध्वा शनैर्यामाष्टकं पचेत् ।
स्वाङ्गशीतं समुद्धृत्य द्रुतं शुल्बं तु वेधयेत् ।
चतुःषष्टितमांशेन तारं भवति शोभनम् ॥ ३,८.८२ ॥
{Tin + Silver + copper => Silver}
पलं सूतं पलं तालं तालस्थानेऽथवा शिला ।
कृष्णोन्मत्तद्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् ॥ ३,८.८३ ॥
वज्रमूषागतं रुद्ध्वा चक्रयन्त्रे दिनं पचेत् ।
पुनर्मर्द्यं पुनः पाच्यमेवं सप्तविधे कृते ॥ ३,८.८४ ॥
तन्मृतं वङ्गतारार्कैः क्रमेणावेष्टयेत्समैः ।
रुद्ध्वा तीव्राग्निना धाम्यं तारं भवति शोभनम् ॥ ३,८.८५ ॥
{copper + Silver => Silver}
शुद्धसूतत्रयो भागा भागैकं ताम्रपत्रकम् ।
स्त्रीस्तन्ये मर्दयेद्यामं जायते तारपिष्टिका ॥ ३,८.८६ ॥
बीजान्युत्तरवारुण्याः स्त्रीस्तन्येन तु पेषयेत् ।
तेनैव लेपयेत्पिष्टीं वज्रमूषां निरोधयेत् ॥ ३,८.८७ ॥
दिनैकं भूधरे पच्यात्पुनर्लिप्त्वा च पाचयेत् ।
इत्येवं सप्तधा पाच्यं पिष्टीस्तम्भो भवेद् दृढः ॥ ३,८.८८ ॥
द्वात्रिंशांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।
दशांशं च क्षिपेत्तारं रौप्यं भवति शोभनम् ॥ ३,८.८९ ॥
{copper + Silver => Silver}
शृङ्गाटी शंखचूर्णं तु गोमूत्रैः सारनालकैः ।
पिष्ट्वा तत्कल्कमध्ये तु तप्तं तप्तं निषिञ्चयेत् ॥ ३,८.९० ॥
शुल्बपत्रं भवेद्यावज्जीर्णं तच्च समुद्धरेत् ।
मध्वाज्यटंकणैः सार्धं मूषामध्ये गतं धमेत् ॥ ३,८.९१ ॥
तारार्धेन समावर्त्य शुद्धं तारं भवेत्तु तत् ॥ ३,८.९२ ॥
{copper:: दलयोग्य}
अर्कापामार्गकदलीक्षारमम्लेन लोलितम् ।
तेन लिप्तं ताम्रपत्रं धाम्यं मूषागतं पुनः ॥ ३,८.९३ ॥
पत्रं कृत्वा प्रलिप्याथ तद्वद् धाम्यं पुनः पुनः ।
इत्येवं सप्तधा कुर्यात् वादे स्याद्दलयोग्यकम् ॥ ३,८.९४ ॥
{copper:: दलयोग्य}
अथवा ताम्रपत्राणि सुतप्तानि निषेचयेत् ।
लोणारनालमध्ये तु शतधा पूर्ववद्भवेत् ॥ ३,८.९५ ॥
पलाशमूलजं क्षारं फट्किरी चाम्लपेषितम् ।
ताम्रपत्राणि संलिप्य द्रावयेत्पत्त्रयेत्पुनः ॥ ३,८.९६ ॥
इत्येवं सप्तधा कुर्याद्दलयोग्यं भवेत्तु तत् ॥ ३,८.९७ ॥
{copper + Silver => Silver}
सुशुद्धं तालकं सूतं सामुद्रलवणं समम् ।
द्वियामं मर्दयेत्खल्वे नवभाण्डगतं पचेत् ॥ ३,८.९८ ॥
मन्दाग्नौ चालयेत्तावद्यावत्कृष्टिर्भवेत्तु तत् ।
ततः समुद्रलवणं तालांशं मर्दयेत्पृथक् ॥ ३,८.९९ ॥
यावच्चिटचिटीशब्दो निवर्तेत समाहरेत् ।
चूर्णितं मृण्मये यन्त्रे लवणार्धमथो क्षिपेत् ॥ ३,८.१०० ॥
तत्पृष्ठे पूर्वत्रितयं तन्मध्ये लवणार्धकम् ।
क्षिप्त्वा मृल्लवणैः संधिं लिप्त्वा शुष्कं विचूर्णयेत् ॥ ३,८.१०१ ॥
यामद्वादशपर्यन्तं भाण्डपृष्ठे दृढाग्निना ।
तत्सत्त्वं मृतसूताभम् ऊर्ध्वलग्नं समाहरेत् ॥ ३,८.१०२ ॥
बद्ध्वा वस्त्रेण दण्डाग्रे कुन्तवेधं नियोजयेत् ।
दशांशे तु द्रुते ताम्रे ढालयेद्दधिगोमये ।
तारार्धेन समावर्त्य शंखकुन्देन्दुसन्निभम् ॥ ३,८.१०३ ॥
{Silver:: production}
इत्येवं मर्दयेन्नागं कान्तलोहाष्टभागकम् ।
मूषायां द्वंद्वलिप्तायां सर्वचूर्णं दृढं धमेत् ।
तत्खोटं समतारेण द्रावितं तारतां व्रजेत् ॥ ३,८.१०४ ॥
{Silver:: रञ्जन}
ताम्रायस्कांतनागं च चूर्णितं पूर्ववद्धमेत् ।
तारार्धेन समावर्त्य तारं भवति शोभनम् ॥ ३,८.१०५ ॥
{Silver:: रञ्जन, optimising the colour}
तारं बंगं तथा कांस्यं समं द्राव्यं सटङ्कणम् ।
अस्य खोटस्य भागैकं त्रिभागं शुद्धताम्रकम् ॥ ३,८.१०६ ॥
समावर्त्य कृतं खोटं समे तारे विमिश्रयेत् ।
तत्तारं जायते शुद्धं हिमकुंदेन्दुसन्निभम् ॥ ३,८.१०७ ॥
{Silver:: रञ्जन, optimising the colour}
मुण्डलोहस्य चूर्णं तु ग्राहयेद्भागपञ्चकम् ।
तद्गर्भे तालसत्त्वं तु भागैकं संनिवेशयेत् ॥ ३,८.१०८ ॥
टंकणं श्वेतकाचं च ऊर्ध्वं दत्त्वा निरोधयेत् ।
ध्मातं तीव्रं तु संचूर्ण्य पुनः सत्त्वं तु दापयेत् ॥ ३,८.१०९ ॥
काचं टंकणकं दत्त्वा मूषायां चान्धितं धमेत् ।
इत्येवं पञ्चधा कुर्यात् सत्त्वं दत्त्वा पुनः पुनः ॥ ३,८.११० ॥
तत्तुल्यं शुद्धतारं च मृतोत्थं बंगभस्मकम् ।
त्रितयं तु समावर्त्य ताम्रारे द्राविते समे ॥ ३,८.१११ ॥
वेधो देयो दशांशेन बीजं पादं च योजयेत् ।
तत्तारं जायते दिव्यं शंखकुंदेन्दुसन्निभम् ॥ ३,८.११२ ॥
{Silver:: रञ्जन}
शुद्धसूतं मृतं बंगं श्वेताभ्रं टंकणं समम् ।
तथा मूषकपाषाणं पञ्चानां च चतुर्गुणम् ॥ ३,८.११३ ॥
योजयेत्तालकं शुद्धं स्नुह्यर्कपयसा दृढम् ।
सर्वं दिनत्रयं मर्द्यं काचकूप्यां निवेशयेत् ॥ ३,८.११४ ॥
सम्यङ् मृद्वस्त्रलिप्तायां सुशुष्कायां पचेत्ततः ।
सच्छिद्रे वालुकायन्त्रे कूप्यामारोपितं पचेत् ॥ ३,८.११५ ॥
शुष्के द्रवे मुखं रुद्ध्वा लोणमृत्तिकया दृढम् ।
ततश्चण्डाग्निना पच्याद्यावत् षोडशयामकम् ॥ ३,८.११६ ॥
स्वांगशीतं समुद्धृत्य स्फोटयेत्काचकूपिकाम् ।
ऊर्ध्वलग्नं तालसत्त्वं संग्राह्य तेन वेधयेत् ॥ ३,८.११७ ॥
षोडशांशेन शुल्बं तु ढालयेद्दधिगोमये ।
ततः शुद्धेन तारेण समावर्त्य समेन तु ।
तत्तारं जायते शुद्धं हिमकुन्देन्दुसन्निभम् ।
{copper => Silver}
तालकं साबुणीतुल्यं पिष्ट्वा भ्रष्टं च खर्परे ॥ ३,८.११८ ॥
चालयन्नेव लघ्वग्नौ यावत्कृष्णं भवेत्तु तत् ।
मृल्लिप्तकाचकूप्यान्तः क्षिप्त्वा तस्यां क्षिपेत्पुनः ॥ ३,८.११९ ॥
भर्जितं लवणं चैव तालकाद्दशमांशकम् ।
पूर्ववद्वालुकायन्त्रे पक्त्वा सत्त्वं समाहरेत् ॥ ३,८.१२० ॥
साबुणीसत्त्वपादांशं दत्त्वा पिष्ट्वा पचेत्पुनः ।
पूर्ववद् वालुकायन्त्रे कूपिकामष्टयामकम् ॥ ३,८.१२१ ॥
तत्सत्त्वं तिलतैलं च समांशे पिशिते पचेत् ।
चालयेल्लोहपात्रे तु तैलं यावत्तु जीर्यते ॥ ३,८.१२२ ॥
इत्येवं सप्तधा पाच्यं समं तैले पुनः पुनः ।
तद्वच्च सप्तधा पाच्यं सिद्धं कथकेन समं समम् ॥ ३,८.१२३ ॥
चतुःषष्टितमांशेन द्रुतं शुल्बं तु वेधयेत् ।
वेधयेत् कुन्तवेधेन ढालयेद्दधिगोमये ।
पादांशं दापयेद् बीजं तारं भवति शोभनम् ॥ ३,८.१२४ ॥
{Silver:: शोधन (?)॑ copper + Silver => Silver (?)}
टंकणं शुद्धतालस्य दशांशेन दापयेत् ।
मेषीक्षीरैस्तथाज्यैश्च खल्वे मर्द्यं दिनत्रयम् ॥ ३,८.१२५ ॥
दिनमेरंडतैलेन मर्द्यं कूप्यां निवेशयेत् ।
पूर्ववत्पाचयेद्यंत्रे द्रवे शुष्के निवेशयेत् ॥ ३,८.१२६ ॥
ग्राह्यं षोडशयामान्ते सत्त्वं मृदुतरं महत् ।
षोडशांशेन तेनैव शुल्बकं तेन वेधयेत् ॥ ३,८.१२७ ॥
तारार्धं च द्रुतं द्राव्यं शुद्धं भवति पूर्ववत् ॥ ३,८.१२८ ॥
{copper + Silver => Silver}
षण् निष्कं ताम्रमावर्त्य आखुपाषाणनिष्ककम् ।
प्रदेयं कुंतवेधेन ह्यर्धबीजं भवेद्दलम् ॥ ३,८.१२९ ॥
तालकं टंकणं सर्जिक्षारं चैवापामार्गजम् ।
वज्रिदुग्धैः समं मर्द्यं खल्वे यामचतुष्टयम् ॥ ३,८.१३० ॥
अनेन चार्धभागेन ताम्रपत्राणि लेपयेत् ।
अंधमूषागतं ध्मातम् एवं वारत्रये कृते ।
तारार्धेन समावर्त्य शुद्धतारं भवेत्तु तत् ॥ ३,८.१३१ ॥
{copper => Silver}
गुंजाकार्पासशिग्रूणां तैलमेकस्य चाहरेत् ।
तस्मिंस्तैले द्रुतं ताम्रं ढालयेच्च त्रिसप्तधा ॥ ३,८.१३२ ॥
षडंशं दापयेद् बीजं शुद्धतारं भवेत्तु तत् ।
शिग्रुमूलप्रलिप्तायां मूषायां द्रावयेत्ततः ॥ ३,८.१३३ ॥
{Silver, Gold:: मृदूकरण}
अर्कापामार्गकदलीभस्मतोयेन लोलयेत् ।
तद्वस्त्रगलितं ग्राह्यं स्वच्छं तोयं तदातपे ॥ ३,८.१३४ ॥
शोषितं लवणं तस्मात्समादाय प्रयत्नतः ।
रौप्ये वा यदि वा स्वर्णे द्राविते शतमांशतः ॥ ३,८.१३५ ॥
तदेव दापयेद्वाप्यं ढालयेत्तिलतैलके ।
इत्येवं तु त्रिधा कुर्याद् अत्यन्तं मृदुतां व्रजेत् ॥ ३,८.१३६ ॥
{मृदूकरण}
अश्वगोमहिषीणां च खुरं शृङ्गं समाहरेत् ।
तच्चूर्णवापमात्रेण अत्यन्तं मृदुतां व्रजेत् ॥ ३,८.१३७ ॥
{मृदूकरण}
गजदन्तस्य चूर्णं वा शुष्कं वाथ नृणां मलम् ।
कठिने दापयेद्वापं भवेन्मृदुतरं महत् ॥ ३,८.१३८ ॥
{दल (?):: निर्मलीकरण (?)}
नानाविधानि कार्याणि भूषणानि दलेन वै ।
श्वेतं रक्तं च वर्षाभूमूलं पिष्ट्वारनालकैः ॥ ३,८.१३९ ॥
पिष्ट्वाथ लवणं किंचित् क्षिप्त्वा तत्रैव पेषयेत् ।
तत्किंचिद्दलजातं तु घटिकार्धात्समुद्धरेत् ॥ ३,८.१४० ॥
घर्षयन् लवणाम्लाभ्यां धाम्यमग्नौ पुनः पचेत् ।
इत्येवं तु त्रिधा कुर्यात् दलं भवति निर्मलम् ॥ ३,८.१४१ ॥
{दल (?):: निर्मलीकरण (?)}
फट्करीचूर्णमादाय खर्परे ह्यधरोत्तरम् ।
दत्त्वा दलस्य संरुध्य सम्यग्गजपुटे पचेत् ॥ ३,८.१४२ ॥
आदाय रज्जुकां बद्ध्वा दोलायंत्रे दिनं पचेत् ।
चिञ्चारनालभाण्डे तु शुभ्रं भवति शंखवत् ॥ ३,८.१४३ ॥
अभिनवसुखसाध्यैः साधने युक्तिगर्भैर्गदितमिह सुसिद्धं स्तम्भनं शुद्धबंगे ।
सुगममपि च तारं सूतशुल्बारयोगैः दलम् अतिमलहीनं वार्तिकानां हितार्थम् ॥ ३,८.१४४ ॥


रसरत्नाकरः, ३, ९[सम्पाद्यताम्]

वज्रेण हेममिलितेन तु रञ्जितेन सूतेन हेममिलितेन सुरञ्जितेन ।
योगैः सुसुन्दरतरैः कनकाद्रिकूटं कृत्वाथ शक्रपदहेतुमखांश्च कुर्यात् ॥ ३,९.१ ॥
{द्वन्द्वमेलापन}
अयस्कांतमुखं गुंजां तयोर्द्विगुणगंधकम् ।
स्त्रीस्तन्यैः पेषितं लेप्यं मूषायां द्वंद्वमेलकम् ॥ ३,९.२ ॥
{द्वन्द्वमेलन:: वज्र}
गंधशशदन्ताश्च भ्रामकस्य मुखं तथा ।
अम्लवेतसः शिलाधातुः सर्वं तुल्यं प्रपेषयेत् ॥ ३,९.३ ॥
मूषालेपेन तेनैव वज्रद्वंद्वं मिलत्यलम् ॥ ३,९.४ ॥
{वज्रद्वन्द्वमेलापन (३)}
महिषीकर्णनेत्रोत्थमलं चूर्णं च टंकणम् ।
स्त्रीस्तन्यं कर्कटास्थीनि शिलाजतु समं समम् ।
पिष्ट्वा मूषां प्रलेपेन वज्रद्वन्द्वेषु मेलकम् ॥ ३,९.५ ॥
{वज्रद्वन्द्वमेलापन (४)}
भ्रमरास्थिनृकेशांश्च टंकणं कांतजं मुखम् ।
बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् ।
तत्कल्कलिप्तमूषायां वज्रद्वंद्वं मिलत्यलम् ॥ ३,९.६ ॥
{वज्रसूतमेलापन}
भूनागं कांतपाषाणं माक्षिकं टंकणं मधु ।
स्नुक्पयःकर्कटास्थीनि काचमर्कपयः समम् ॥ ३,९.७ ॥
स्त्रीस्तन्यैः पेषितं सर्वं मूषालेपं तु कारयेत् ।
तन्मध्यस्थं वज्रसूतं हठाद्ध्माते मिलत्यलम् ॥ ३,९.८ ॥
{स्वर्णवज्रमेलापन (द्वन्दखोट)}
मृतवज्रस्य चत्वारो भागा द्वादशहाटकम् ।
नागस्य च त्रयो भागाः षट् शुद्धस्य च पारदात् ॥ ३,९.९ ॥
एकीकृत्य तु तन्मर्द्यं दिनमम्लेन केनचित् ।
तप्तखल्वे तु तत्कल्कं समुद्धृत्य निरोधयेत् ॥ ३,९.१० ॥
मूषायां द्वन्द्वलिप्तायां हठाद्ध्माते मिलत्यलम् ॥ ३,९.११ ॥
{स्वर्णवज्रमेलापन (२)}
क्षारैरुत्पलसारिण्या मृतं वज्रं विभावयेत् ।
दिनैकं शोधितं पिष्टम् एकैकां कारयेद्वटीम् ॥ ३,९.१२ ॥
त्रिभागं पारदं चैव भागाश्चत्वारि हाटकम् ।
अम्लेन कारयेत्पिष्टीं तद्गर्भे तां क्षिपेद्वटीम् ॥ ३,९.१३ ॥
भूर्जपत्रेण तद्बद्ध्वा धान्यराशौ विनिक्षिपेत् ।
पक्षमात्रात्समुद्धृत्य पूर्वमूषागतं धमेत् ॥ ३,९.१४ ॥
मिलत्येव न संदेहो धाम्यमानं पुनः पुनः ॥ ३,९.१५ ॥
{स्वर्णवज्रमेलापन (द्वन्द्वखोट, २)}
मृतवज्रस्य भागैकं स्वर्णपत्रेण वेष्टयेत् ।
सम्यक् षोडशभागेन मूषायां पूर्ववत्क्षिपेत् ॥ ३,९.१६ ॥
स्वर्णतुल्यं सितं काचम् अथवा नृकपालकम् ।
चूर्णयित्वा क्षिपेत्तस्यां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,९.१७ ॥
समुद्धृत्य पुनर्देयं काचं वा नृकपालकम् ।
लिप्त्वा मूषां धमेत्तदेवं मूषासु सप्तसु ॥ ३,९.१८ ॥
हेम्ना मिलति तद्वज्रम् इत्येवं मेलयेत्पुनः ।
यावन्मिलति पादांशं सुवर्णे मृतवज्रकम् ॥ ३,९.१९ ॥
{copper => Gold}
द्विभागं द्वंद्वखोटस्य त्रिभागं द्रुतसूतकम् ।
मर्दयेदम्लयोगेन दिनान्ते तं च गोलकम् ॥ ३,९.२० ॥
मेषशृंग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।
अनेन वेधयेद् गोलं तद्बहिर्निगलेन च ॥ ३,९.२१ ॥
स्वेदादिमेलनान्तं च कारयेद्धेमपिष्टिवत् ।
मेषशृंगीभवैः क्षारैस्तत्खोटं मर्दयेत्क्षणम् ॥ ३,९.२२ ॥
मूषान्तर्लेपयेत्तेन तत्तुल्यं हाटकं क्षिपेत् ।
यावज्जीर्णं धमेत्तावत्पुनः स्वर्णं च दापयेत् ॥ ३,९.२३ ॥
जारयेद्धमनेनैव दत्त्वा विडवटीं क्रमात् ।
एवं विंशगुणं यावत्तावत्स्वर्णं च जारयेत् ॥ ३,९.२४ ॥
स्वर्णेन तु समावर्त्य सारणात्रययोगतः ।
तेनैव वेधयेच्छुल्बं सहस्रांशेन कांचनम् ।
जायते दिव्यरूपाढ्यं जांबूनदसमप्रभम् ॥ ३,९.२५ ॥
{सितस्वर्ण => Gold}
वज्रमूषागतं ध्मातं द्वंद्वखोटं हठाग्निना ।
माक्षिकाद्धौतसत्त्वं वा सत्त्वं वा माक्षिकोद्भवम् ॥ ३,९.२६ ॥
स्तोकं स्तोकं क्षिपेत्तस्मिन्ध्माते जीर्णे पुनः पुनः ।
यावत्तत्कुंकुमाभं स्यात्तावद्वज्रं समुद्धरेत् ॥ ३,९.२७ ॥
लक्षांशेन तु तेनैव सितहेमं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,९.२८ ॥
{सितस्वर्ण => Gold}
वैक्रांतं माक्षिकं तुत्थं रसकाञ्जनगैरिकम् ।
विमला चैव वैडूर्यम् एतेष्वेकं पलार्धकम् ॥ ३,९.२९ ॥
नागबंगार्ककेष्वेकं यथालाभं पलार्धकम् ।
द्वंद्वचूर्णं ततो रुद्ध्वा वज्रमूषागतं धमेत् ॥ ३,९.३० ॥
पूर्ववद् गंधकाम्लेन मर्द्यं रुद्ध्वा पुटे पचेत् ।
चतुर्दशपुटैरेवं बालार्कसदृशं भवेत् ॥ ३,९.३१ ॥
अनेन वज्रखोटं तु यथापूर्वं तु रञ्जयेत् ।
तद्वद्वध्यं सितं हेम लक्षांशात्कांचनं भवेत् ॥ ३,९.३२ ॥
अथवा द्वंद्वखोटं तु सूक्ष्मचूर्णं तु कारयेत् ।
एतत्खोटं शुद्धचूर्णम् अंधमूषागतं धमेत् ॥ ३,९.३३ ॥
आरोटरसतस्तुल्यं जम्बीरैर्मर्दयेत् दिनम् ।
वस्त्रे बद्ध्वा दिनं स्वेद्यं दोलायंत्रे सकांजिके ॥ ३,९.३४ ॥
सवस्त्रं पाचयेत्पश्चाद् गन्धतैले दिनावधि ।
ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत् ॥ ३,९.३५ ॥
स्वेदादिधमनान्तं च कारयेद्धेमपिष्टिवत् ।
तत्खोटं तु समुद्धृत्य रञ्जयेत्तन् निगद्यते ॥ ३,९.३६ ॥
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।
तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥ ३,९.३७ ॥
चूर्णं रुद्ध्वा धमेद् गाढं तत्खोटं मर्दयेत्पुनः ।
पूर्ववद्गंधकाम्लेन पुटान्दद्याच्चतुर्दश ॥ ३,९.३८ ॥
अनेन पूर्वखोटं तु मूषामध्ये च पूर्ववत् ।
यावत्कुंकुमवर्णं स्यात्तावद्वारं शनैः शनैः ॥ ३,९.३९ ॥
स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।
अनेन लक्षभागेन द्रुतं शुल्वं तु वेधयेत् ॥ ३,९.४० ॥
जायते कनकं दिव्यं सत्यं शंकरभाषितम् ॥ ३,९.४१ ॥
{mercury रेद् भस्मन्}
कर्षैकं द्रुतसूतस्य ह्यष्टगुंजं तु हाटकम् ।
चतुर्गुंजं मृतं वज्रं हंसपाद्या द्रवैर्दिनम् ॥ ३,९.४२ ॥
मर्दयेत्तप्तखल्वे तु वज्रमूषान्धितं पचेत् ।
भूधराख्यपुटैकेन समुद्धृत्याथ मर्दयेत् ॥ ३,९.४३ ॥
हंसपाद्या द्रवैरेवं तप्तखल्वे दिनावधि ।
पूर्ववद्भूधरे पच्यादेवं शतपुटैः पचेत् ॥ ३,९.४४ ॥
रक्तवर्णं भवेद् भस्म सर्वयोगेषु योजयेत् ॥ ३,९.४५ ॥
{mercury जारण:: of अभ्र}
द्रवैर्वर्तुलपत्रायाः सोमवल्ल्या द्रवैश्च वा ।
धान्याभ्रं सप्तधा भाव्यं ततो जारणमारभेत् ॥ ३,९.४६ ॥
गोस्तनाकारमूषायां सूतं शुद्धं विनिक्षिपेत् ।
पूर्वाभ्रं षोडशांशं च मूषायां चणकद्रवैः ॥ ३,९.४७ ॥
वालुकाभाण्डमध्ये तु चुल्ल्यां मृद्वग्निना पचेत् ।
अभ्रके चणकद्रावं जीर्णे जीर्णे क्षिपेत्पुनः ॥ ३,९.४८ ॥
इत्येवं जारयेत्तुल्यं पारदे गगनं क्रमात् ।
{अभ्र:: पिष्टी}
सोमवल्लीरसैर्यामं मर्द्यं धान्याभ्रकं ततः ॥ ३,९.४९ ॥
रुद्ध्वा वनोत्पलैर् दद्यात् क्रमाद् एवं पुटत्रयम् ।
सप्तधा भावयेद् घर्मे सोमवल्ल्या द्रवैर्दिनम् ॥ ३,९.५० ॥
श्वेतायाः शरपुङ्खाया मूलैर्गोक्षीरघर्षितैः ।
कल्कितैर्मृण्मयं पात्रं लिप्त्वा तत्राभ्रकं क्षिपेत् ॥ ३,९.५१ ॥
तन्मध्ये निक्षिपेत्सूतं तत्पृष्ठे चाभ्रकं पुनः ।
सोमवल्लीद्रवैः पूर्वं तत्पात्रं चातपे खरे ॥ ३,९.५२ ॥
धारयेच्चरते दीर्घं जायते व्योमपिष्टिका ।
{copper => Gold॑ कोटिवेध}
पूर्वोक्ता गन्धपिष्टी या स्तम्भिता जारणं विना ॥ ३,९.५३ ॥
तथा ह्यभ्रकपिष्टी च अभ्रसत्त्वं तृतीयकम् ।
चतुर्थं रक्तभस्मापि पूर्वं वज्रेण यत्कृतम् ॥ ३,९.५४ ॥
चत्वारः प्रतिकर्षांशं जारितं पारदं पलम् ।
सर्वमेतत्तप्तखल्वे हंसपाद्या द्रवैर्दिनम् ॥ ३,९.५५ ॥
मर्दितं तत्समुद्धृत्य पचेत्कच्छपयंत्रके ।
यावत्सूतावशेषं तु तावज्जार्यं पुटेन वै ॥ ३,९.५६ ॥
अस्य सूतस्य तुल्यांशं वज्रद्वंद्वं नियोजयेत् ।
दोलास्वेदेन पक्तव्यं यावद् भवति गोलकम् ॥ ३,९.५७ ॥
जारयेत्कच्छपे यंत्रे यावत्सूतावशेषितम् ।
इत्येवं षड्गुणं जार्यं वज्रद्वंद्वं प्रयत्नतः ॥ ३,९.५८ ॥
तेनैव वज्रद्वंद्वेन सारयेत्सारणात्रयम् ।
अनेन कोटिभागेन द्रुतं शुल्बं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.५९ ॥
{चन्द्रार्क => Gold}
भागैकं मृतवज्रस्य शुद्धसूतस्य षोडश ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनावधि ॥ ३,९.६० ॥
पक्वबीजस्य पत्राणि तुल्यान्येतेन लेपयेत् ।
सुपक्वभानुपत्रैस्तु लिप्तपत्राणि वेष्टयेत् ॥ ३,९.६१ ॥
शरावसंपुटे रुद्ध्वा निखनेच्चुल्लिमध्यतः ।
त्रिदिनं ज्वालयेत्तत्र वह्निमल्पाल्पशः क्रमात् ॥ ३,९.६२ ॥
ततो निगडलिप्तायां मूषायां तेन रोधयेत् ।
कारीषवह्निना पच्यात् अहोरात्रात्समुद्धरेत् ॥ ३,९.६३ ॥
मधुना मर्दयेत्किंचित् ततस्तेन शतांशतः ।
लिप्त्वा चन्द्रार्कपत्राणि ह्यंधमूषागतं धमेत् ।
स्वर्णं भवति रूपाढ्यं सत्यं शंकरभाषितम् ॥ ३,९.६४ ॥
{copper => Gold}
मृतवज्रस्य भागैकं भागैकं हाटकस्य च ।
त्रिभागं द्रुतसूतस्य सर्वं स्तन्येन मर्दयेत् ॥ ३,९.६५ ॥
तद्गोलं बन्धयेद्वस्त्रे गन्धतैले त्र्यहं पचेत् ।
ततस्तुल्येन स्वर्णेन समावर्तं तु कारयेत् ॥ ३,९.६६ ॥
दत्त्वा विडवटीं चैव एकविंशतिवारकम् ।
एकविंशगुणे जीर्णे सारयेत्सारणात्रयम् ॥ ३,९.६७ ॥
सहस्रांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.६८ ॥
{Silver, copper => Gold}
शुद्धसूतं मृतं वज्रं हंसपाद्या द्रवैः समम् ।
मर्दयेत्तप्तखल्वे तु त्रिदिनान्ते समुद्धरेत् ॥ ३,९.६९ ॥
बीजैर् दिव्यौषधानां च पिष्ट्वा मूषां प्रलेपयेत् ।
तत्र पूर्वरसं क्षिप्त्वा रुद्ध्वा तत् करिषाग्निना ॥ ३,९.७० ॥
समुद्धृत्य पुनस्तस्मिन् शुद्धसूतं समं क्षिपेत् ।
हंसपाद्या द्रवैर्मर्द्यं पूर्ववद् दिवसत्रयम् ॥ ३,९.७१ ॥
तद्गोलं पूर्वमूषायां रुद्ध्वा गजपुटे पचेत् ।
जायते भस्म सूतोऽयं सर्वकर्मसु योजयेत् ॥ ३,९.७२ ॥
अस्य तुल्यं शुद्धसूतं सूतपादं च टंकणम् ।
सर्वमम्लैर्दिनं मर्द्यं कृत्वा गोलं समुद्धरेत् ॥ ३,९.७३ ॥
रक्तकार्पासयोर्बीजं राजिका यवचिञ्चिका ।
वन्ध्याकर्कोटकी चैव पिष्ट्वा गोलं प्रलेपयेत् ॥ ३,९.७४ ॥
ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा मूषां विशोषयेत् ।
कारीषाग्नौ दिवारात्रौ पाचयित्वा समुद्धरेत् ॥ ३,९.७५ ॥
पूर्वकल्केन तद्गोलं क्षिप्त्वा रुद्ध्वाथ पूर्ववत् ।
पुटे पच्याद्दिवारात्रौ एवं कुर्याच्च सप्तधा ॥ ३,९.७६ ॥
ततस्तेनैव कल्केन लिप्त्वा रुद्ध्वाथ शोषयेत् ।
सम्यग्गजपुटे पच्यात्ततो मूषागतं धमेत् ॥ ३,९.७७ ॥
शतमांशेन तेनैव चन्द्रार्कौ वेधयेद् द्रुतम् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.७८ ॥
{चन्द्रार्क => Gold}
अथवा भस्मसूतं तत्कार्यं टंकणसंयुतम् ।
अंधमूषागतं ध्मातं खोटं भवति शोभनम् ॥ ३,९.७९ ॥
खोटतुल्यं शुद्धहेम सर्वमेकत्र द्रावयेत् ।
चन्द्रार्कं वेधयेत्तेन पूर्ववत्कांचनं भवेत् ॥ ३,९.८० ॥
{शतवेधिकल्कः - तारे ताम्रे}
वज्रभस्म स्नुहीक्षीरैर्दिनम् एकं विमर्दयेत् ।
रुद्ध्वा गजपुटे पच्यात् एवं शतपुटैः पचेत् ॥ ३,९.८१ ॥
तत्तुल्यं पारदं शुद्धं क्षिप्त्वा मर्द्यं दिनत्रयम् ।
देवदाल्या द्रवैरेवं तद्गोलं चान्धितं पुटेत् ॥ ३,९.८२ ॥
कारीषाग्नौ दिवारात्रौ समुद्धृत्याथ मर्दयेत् ।
देवदाल्या द्रवैस् त्र्यहं तद्वद्रुद्ध्वा पुटे पचेत् ॥ ३,९.८३ ॥
एवं दशपुटैः पाच्यं वज्रतुल्यं च हाटकम् ।
क्षिप्त्वा कांचनकद्रावैर् मर्दयेद्दिवसत्रयम् ॥ ३,९.८४ ॥
पूर्ववत्पुटपाकेन एवं दशपुटैः पचेत् ।
स्वर्णतुल्यं ततस्तीक्ष्णं चूर्णं कृत्वा नियोजयेत् ॥ ३,९.८५ ॥
मर्दयेत्त्रिफलाद्रावैस् तत्सर्वं दिवसत्रयम् ।
पुटयेत्पूर्वयोगेन एवं दशपुटैः पचेत् ॥ ३,९.८६ ॥
तीक्ष्णतुल्यं मृतं नागं दत्त्वा सर्वं विमर्दयेत् ।
वासारक्ताश्वमारोत्थद्रावैः खल्वे दिनत्रयम् ॥ ३,९.८७ ॥
रुद्ध्वा गजपुटे पच्यात् पुनर्मर्द्यं च पाचयेत् ।
एवं दशपुटैः पक्वं समुद्धृत्याथ मर्दयेत् ॥ ३,९.८८ ॥
अम्लवर्गेण तत्सर्वं मर्द्यं यामचतुष्टयम् ।
रुद्ध्वा गजपुटे पच्यात् पुनर्मर्द्यं च पाचयेत् ॥ ३,९.८९ ॥
एवं दशपुटैः पाच्यं सिन्दूरसदृशं भवेत् ।
अनेन शतमांशेन चन्द्रार्कं वेधयेद् द्रुतम् ॥ ३,९.९० ॥
अथवा मधुनाक्तेन चन्द्रार्कौ लेपयेत्ततः ।
जायते कनकं दिव्यं पुटे दत्ते न हीयते ॥ ३,९.९१ ॥
अथवा तारपत्राणि मधुनाक्तेन लेपयेत् ।
चतुःषष्टितमांशेन दिव्यं भवति कांचनम् ॥ ३,९.९२ ॥
{चन्द्रार्क => Gold (शतवेधिकल्कः)}
चतुःषष्टिगुणं सूतं भागैकं मृतवज्रकम् ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ ३,९.९३ ॥
भागत्रयं हेमपत्रम् अनेनैव प्रलेपयेत् ।
रुद्ध्वाथ भूधरे पच्यात्समुद्धृत्याथ मर्दयेत् ॥ ३,९.९४ ॥
शुद्धेन सूतराजेन त्रिगुणेन च संयुतम् ।
अम्लवर्गैस्त्र्यहं मर्द्यं रुद्ध्वाथ भूधरे पुटेत् ॥ ३,९.९५ ॥
पुनर्मर्द्यं पुनः पाच्यम् एकविंशतिवारकम् ।
अनेन शतमांशेन चंद्रार्कं मधुना सह ॥ ३,९.९६ ॥
लिप्त्वा रुद्ध्वा धमेद् गाढं दिव्यं भवति काञ्चनम् ॥ ३,९.९७ ॥
{Silver => Gold (षोडशवेधिकल्कः)}
पूर्वोक्तभस्मसूतेन अम्लपिष्टेन लेपयेत् ।
चतुर्गुणं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ।
पादांशेन पुनस्तस्मिन् भस्मसूतं नियोजयेत् ॥ ३,९.९८ ॥
मर्दयेदम्लवर्गेण तद्वद्रुद्ध्वा पुटे पचेत् ।
एवं चतुःपुटैः पक्वं म्रियते हाटकं शुभम् ॥ ३,९.९९ ॥
तेनैव षोडशांशेन द्रुतं तारं तु वेधयेत् ।
अथवा पत्रलेपेन दिव्यं भवति कांचनम् ॥ ३,९.१०० ॥
{copper => Gold॑ शतवेधिकल्कः}
मृतवज्रस्य भागैकं शुद्धसूतस्य षोडश ।
देवदालीशङ्खपुष्पीरसैर् मर्द्यं दिनत्रयम् ॥ ३,९.१०१ ॥
वज्रमूषागतं रुद्ध्वा दिनैकं भूधरे पचेत् ।
समुद्धृत्याथ तद्द्रावैर्दिनं मर्द्यं निरुध्य च ॥ ३,९.१०२ ॥
दिनैकं भूधरे पच्यात् तद्वन्मर्द्यं च पाचयेत् ।
इत्येवं सप्तधा कुर्याज्जायते भस्मसूतकम् ॥ ३,९.१०३ ॥
तद्भस्मसूतकं तुल्यं वज्रमूषान्धितं धमेत् ।
तत् खोटं जायते दिव्यं रञ्जयेत्तन्निगद्यते ॥ ३,९.१०४ ॥
तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।
तत् खोटं सिद्धचूर्णं तु गंधकाम्लेन मर्दयेत् ॥ ३,९.१०५ ॥
पूर्ववत्क्रमयोगेन पुटान्दद्याच्चतुर्दश ।
अनेन पूर्वखोटं तु द्रुतं वाप्यं पुनः पुनः ॥ ३,९.१०६ ॥
तद्भस्म गंधकं तुल्यं वज्रमूषान्धितं धमेत् ।
दशवारेण तत् खोटं जायते कुंकुमप्रभम् ॥ ३,९.१०७ ॥
स्वर्णेन च त्रिधा सार्यं शतवेधी भवेच्च तत् ।
द्रुतशुल्बे प्रदातव्यं दिव्यं भवति कांचनम् ॥ ३,९.१०८ ॥
{तारारिष्ट => Gold (सहस्रवेधिकल्कः)}
पूर्वोक्तं भस्मसूतं तु पलैकं समपन्नगम् ।
कांतपात्रगतं मर्द्यं दिनैकं लोहमुष्टिना ॥ ३,९.१०९ ॥
मृद्वग्निना तु तत्पात्रे मर्दयेत्पाचयेच्छनैः ।
यावन्मिश्रं समुद्धृत्य रुद्ध्वा गजपुटे पचेत् ॥ ३,९.११० ॥
मर्द्यं वासारसैः पच्यादेवं वारचतुर्दश ।
गोपित्तेन पुनर्मर्द्यं देयं पुटचतुर्दश ॥ ३,९.१११ ॥
तत्तुल्यं स्वर्णचूर्णं च दत्त्वा पित्तेन मर्दयेत् ।
दिनान्ते तत्समुद्धृत्य क्रामणेन समायुतम् ॥ ३,९.११२ ॥
सहस्रांशेन तेनैवं तारारिष्टं तु वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,९.११३ ॥
नागस्थाने यदा बंगं पूर्ववत्क्रमयोगतः ।
तारचूर्णेन संयुक्तं शुल्बे वेधं प्रदापयेत् ।
सहस्रांशेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,९.११४ ॥
{copper => Gold}
द्रुतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ।
मृतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ॥ ३,९.११५ ॥
दिव्ययोगवरैः खोटं पूर्वं नानाविधं तु यत् ।
प्रोक्तं तत्खोटमेकं तु द्रावयेत्पिष्टिखोटवत् ॥ ३,९.११६ ॥
द्रुतं तु पारदं दिव्यं मृत्युदारिद्र्यनाशनम् ।
अथास्य द्रुतसूतस्य जारयेत्पक्वबीजकम् ॥ ३,९.११७ ॥
क्रमेण षड्गुणं यावत्कच्छपाख्ये विडान्विते ।
वक्ष्यमाणप्रकारेण व्योमसत्त्वं यथा जरेत् ॥ ३,९.११८ ॥
जारितं तत्त्रिधा सार्यं पक्वबीजेन वै क्रमात् ।
अनेन कोटिमांशेन द्रुतशुल्बं तु वेधयेत् ॥ ३,९.११९ ॥
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,९.१२० ॥
{वज्र:: द्रावण}
अथास्य कोटिवेधस्य रसेन्द्रस्यापरो विधिः ।
विष्णुक्रान्ता च चक्राङ्का कण्टारी चैव चिञ्चिका ॥ ३,९.१२१ ॥
एतासां द्रवमादाय मूषालेपं तु कारयेत् ।
तस्यां पूर्वरसं क्षिप्त्वा धमेद् द्रावं क्षिपन् क्षिपन् ॥ ३,९.१२२ ॥
वज्रं तत्रैव दातव्यं द्रवत्येव न संशयः ।
{mercury शब्दवेधिन्}
ततस्तस्मात्समुद्धृत्य दोलायंत्रे त्र्यहं पचेत् ॥ ३,९.१२३ ॥
उद्धृत्य विडलिप्तायां मूषायां प्रकटं धमेत् ।
ग्रसन्त्येव न संदेहस् तीव्रध्मातानलेन च ॥ ३,९.१२४ ॥
वज्रं वा पद्मरागं वा जार्यं दशगुणे रसे ।
कारयेद्वज्रबीजेन शब्दवेधी भवेद्रसः ॥ ३,९.१२५ ॥
{सप्फिरे:: द्रावण}
अथवा मारिते तस्मिन् जारणं सारयेत्पुनः ।
उच्चटा मीननयना सर्पाक्षी रक्तचित्रकम् ॥ ३,९.१२६ ॥
एतासां निक्षिपेद् द्रावं द्रुते मूषागते रसे ।
इन्द्रनीलं क्षिपेत्तत्र द्रवत्येव न संशयः ॥ ३,९.१२७ ॥
{सप्फिरे:: => खेचरी}
पूर्ववत्स्वेदनेनैव विडयोगेन जारयेत् ।
इत्येवं त्रिगुणं जार्यम् इन्द्रनीलं क्रमेण तु ॥ ३,९.१२८ ॥
तद्रसं वक्त्रमध्ये तु यः करोति नरोत्तमः ।
स पूज्यो देवदेवानां खेचरत्वेन मोदते ॥ ३,९.१२९ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ।
जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ॥ ३,९.१३० ॥
इत्येवं विष्टिखोटं परिरसम् अपरं संकरैः खोटबद्धं जातं तद्द्रावितं वै मृतमथ विमलं स्वर्णराशिं करोति ।
किंवा सा पक्वबीजं ग्रसति यदि द्रुतो जायते कोटिवेधी वज्राभ्रं रत्नजातं चरति यदि रसः खेचरत्वं प्रदत्ते ॥ ३,९.१३१ ॥


रसरत्नाकरः, ३, १०[सम्पाद्यताम्]

लोहैर् महारसवरैर् विडपक्वबीजं कृत्वाथ पारदवरे विधिवच्च जार्यम् ।
योज्यं तथा सकलसारणकर्मयोगे तद्वक्ष्यते विविधबीजविडाधिकारम् ॥ ३,१०.१ ॥
{पक्वबीज (१)}
ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः ।
साम्लेन ताप्यकल्केन धमेत्स्वर्णावशेषितम् ॥ ३,१०.२ ॥
एवं दशगुणं वाह्यं ताप्यं वा तुत्थसत्त्वकम् ।
पक्वबीजमिदं ख्यातं स्वर्णशेषं समाहरेत् ॥ ३,१०.३ ॥
{पक्वबीज}
नागाभ्रं द्वंद्वितं तुल्यं स्वर्णे वाह्यं द्विषड्गुणम् ।
पूर्ववत्स्वर्णशेषं तु ग्राह्यं स्यात्पक्वबीजकम् ॥ ३,१०.४ ॥
{पक्वबीज (३)}
स्वर्णं पीताभ्रसत्त्वं च तुल्यांशं द्वंद्वितं धमेत् ।
ताप्यं तालकवापेन स्वर्णशेषं समाहरेत् ।
एवं दशगुणं सत्त्वं वाह्यं स्यात्पक्वबीजकम् ॥ ३,१०.५ ॥
{पक्वबीज (४)}
रसकाभ्रकयोः सत्त्वं ताम्रं नागं क्रमोत्तरम् ॥ ३,१०.६ ॥
चूर्णितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं माक्षिकं तुत्थम् अम्लैः पिष्ट्वा पुटे पचेत् ॥ ३,१०.७ ॥
समुद्धृत्य पुनश्चाम्लैर्मर्द्यं रुद्ध्वा पुटे पचेत् ।
एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे तु वाहयेत् ।
धमेद्दशगुणं यावत् तावत् स्यात् पक्वबीजकम् ॥ ३,१०.८ ॥
{बीज:: from Lead}
लोहस्य कुट्यमानस्य सुतप्तस्य दलानि वै ।
पतन्ति तानि स्वीकृत्य ख्यातोऽयं लोहपर्पटः ॥ ३,१०.९ ॥
लोहपर्पटमाक्षीकं कंकुष्ठं विमलाभ्रकम् ।
मृतशुल्बं शिलासूतं दरदार्कस्नुहीपयः ॥ ३,१०.१० ॥
एतैः समं नागचूर्णं मर्द्यं रुद्ध्वा पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्वारांश्चतुर्दश ॥ ३,१०.११ ॥
एवं शतगुणं वाह्यं शुद्धहेम्नि धमन् धमन् ।
तत्स्वर्णं नागबीजं स्याद्गोरोचननिभं भवेत् ॥ ३,१०.१२ ॥
{बीज:: from Lead:: पक्व:: रञ्जन}
खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि हि ।
क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत् ॥ ३,१०.१३ ॥
चतुर्यामात्तु तद् भस्म जातं पात्रात्समुद्धरेत् ।
रुद्ध्वा गजपुटे पच्यात् पादांशं गंधकं पुनः ॥ ३,१०.१४ ॥
दत्त्वाम्लमर्दितं पच्यादेवं वारांश्चतुर्दश ।
रक्तवर्णं भवेद्भस्म तद्भागं खर्परे क्षिपेत् ॥ ३,१०.१५ ॥
भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् ।
पञ्चाङ्गं वासकाचूर्णं त्वक्चूर्णं चार्जुनस्य वै ॥ ३,१०.१६ ॥
शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् ।
नागिनी नागकन्या च कुमारी चाहिमारकम् ॥ ३,१०.१७ ॥
सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् ।
सर्वं चतुर्गुणैर् मूत्रैश्छागजैः क्वाथमाचरेत् ॥ ३,१०.१८ ॥
पूर्वोक्तनागभूतैश्च खर्परस्थस्य संक्षिपेत् ।
चालयेत्पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि ॥ ३,१०.१९ ॥
यत्नेन मृतनागेन वापो देयो द्रुतस्य च ।
पक्वबीजस्य वारांस्त्रीन् रञ्जितं जायते शुभम् ॥ ३,१०.२० ॥
{Lead:: मृत:: अल्छेम्. use}
दलानां चैव बीजानां पिष्टीस्तम्भे विशेषतः ।
उच्चाटे क्रामणे योज्यं पूर्वोक्तं मृतनागकम् ॥ ३,१०.२१ ॥
{बीज:: पक्व:: रञ्जन}
मञ्जिष्ठा ब्रह्मपुष्पं च पुष्पं च करवीरकम् ॥ ३,१०.२२ ॥
सर्वासां वृक्षजातीनां रक्तपुष्पाणि चाहरेत् ।
खादिरं देवदारुं च द्विनिशा रक्तचन्दनम् ॥ ३,१०.२३ ॥
सर्वं लाक्षारसैः पिष्ट्वा क्षिप्त्वा तैलं चतुर्गुणम् ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
त्रिसप्तधा पक्वबीजं रञ्जते जायते शुभम् ॥ ३,१०.२४ ॥
{बीज:: पक्व, रञ्जित:: अल्छेम्. use}
गर्भद्रावैः प्रयोक्तव्यं तथा सर्वत्र सारणे ।
समेन जारयेत्सूतं द्विगुणेन तु सारयेत् ॥ ३,१०.२५ ॥
त्रिगुणेन ह्यनेनैव कर्तव्यं प्रतिसारणम् ।
सारितं क्रामणेनैव वेधकाले नियोजयेत् ॥ ३,१०.२६ ॥
{बीज:: from Silver}
विमला तीक्ष्णचूर्णं च सत्त्वं श्वेताभ्रकस्य च ।
रसकं तारमाक्षीकं समभागं विचूर्णयेत् ॥ ३,१०.२७ ॥
चूर्णाच्चतुर्गुणं वङ्गं द्वंद्वमेलापकं धमेत् ।
मर्दयेदम्लयोगेन रुद्ध्वा गजपुटे पचेत् ॥ ३,१०.२८ ॥
एवं पञ्चपुटैः पक्वं ततस्तारे तु वाहयेत् ।
धमन्दशगुणं यावत्तत्तारं तारबीजकम् ॥ ३,१०.२९ ॥
{बीज:: from Silver}
ताप्येन मारयेद् बंगं यथा तालेन मारितम् ।
तद् द्वात्रिंशगुणं तारे वाहयेत्तालवापतः ।
ताम्रबीजं तु तच्छ्रेष्ठं सारणे रञ्जने हितम् ॥ ३,१०.३० ॥
{बीज:: from Silver}
कुटिलं विमला तीक्ष्णं समं चूर्णं प्रकल्पयेत् ।
ध्मातव्यं द्वंद्वलिप्तायां खोटमम्लेन पेषितम् ॥ ३,१०.३१ ॥
पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।
यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ॥ ३,१०.३२ ॥
{बीज:: from Silver}
बंगं श्वेताभ्रसत्त्वं च तारमाक्षिकसत्त्वकम् ।
द्वंद्वमूषागतं धाम्यं त्रितयं चूर्णितं समम् ॥ ३,१०.३३ ॥
वाह्यं दशगुणं तारे तारमाक्षिकवापतः ।
तत्तारं जायते बीजं सर्वकार्यकरक्षमम् ॥ ३,१०.३४ ॥
{तारबीजरञ्जन}
यथाप्राप्तैः श्वेतपुष्पैर् नानावृक्षसमुद्भवैः ॥ ३,१०.३५ ॥
रसं चतुर्गुणं योज्यं कङ्गुणीतैलवापतः ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ॥ ३,१०.३६ ॥
द्रावितं तारबीजं तु एकविंशतिवारकम् ।
रञ्जितं जायते तत्तु रसराजस्य रञ्जकम् ॥ ३,१०.३७ ॥
{सारणातैल}
ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ।
तैलमेकं समादाय मण्डूकवसया समम् ॥ ३,१०.३८ ॥
कूर्मसूकरमेषाहिजलूकामत्स्यजापि वा ।
एतेष्वेका वसा ग्राह्या पूर्वतैलं समाहरेत् ॥ ३,१०.३९ ॥
रक्तवर्गं पीतवर्गं कार्यं क्षीरैश्चतुर्गुणैः ।
पुष्पाणां रक्तपीतानाम् एकैकानां द्रवं हरेत् ॥ ३,१०.४० ॥
एतद्द्वंद्वविभागं स्यात्पूर्वक्वाथचतुष्टयम् ।
पाटलीकाकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा ॥ ३,१०.४१ ॥
प्रत्येकं भागमेकैकं पूर्वतैलवसायुतम् ।
योज्यं भागद्वयं तत्र भूलतामलताप्यकम् ॥ ३,१०.४२ ॥
द्वन्द्वमेलापयोर् एकं तैलात् षोडशकांशकम् ।
प्रत्येकं योजयेत्तस्मिन् सर्वमेकत्र पाचयेत् ॥ ३,१०.४३ ॥
ग्राह्यं तैलावशेषं तु वस्त्रपूतं सुरक्षयेत् ।
विख्यातं सारणातैलं रसराजस्य कर्मणि ॥ ३,१०.४४ ॥
{क्रामण:: substances for ~}
नागं वङ्गं मृतं तुल्यमम्लेन च वटीकृतम् ।
क्रामणार्थे प्रयोक्तव्यं वेधकाले रसस्य तु ॥ ३,१०.४५ ॥
{क्रामण:: substances for }
सौराष्ट्रीं भावयेद् घर्मे गवां पित्तैः त्रिधाततः ।
तत्सत्त्वं सोमवद् ग्राह्यं क्रामकं योजयेद्रसे ॥ ३,१०.४६ ॥
{क्रामण:: substances for ~}
मनःशिला विषं ताप्यं महिषीकर्णजं मलम् ।
काकविट् खररक्तं च क्रामणं स्नुक्पयोऽन्वितम् ॥ ३,१०.४७ ॥
{क्रामण:: substances for ~}
नररक्तार्कदुग्धं च टंकणं भूलता शिला ।
समांशं क्रामकं योज्यं वेधकाले रसस्य तु ॥ ३,१०.४८ ॥
{क्रामणसत्त्व (५)}
इन्द्रगोपं विषं कांतं नररक्तं स्नुहीपयः ।
रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् ।
क्रामकं क्षेपलेपाभ्यां वेधकाले नियोजयेत् ॥ ३,१०.४९ ॥
{क्रामण:: substances for ~॑ वेध:: ँ}
रसं धान्याभ्रकं सत्त्वं काकविट् हरितालकम् ।
नयनं सहदेवानां भूनागश्च समं समम् ॥ ३,१०.५० ॥
पिण्डितं क्रामणे सिद्धं क्षेपे लेपे नियोजयेत् ॥ ३,१०.५१ ॥
{क्रामणसत्त्व (७)}
कदलीकन्दसौवीरं कण्टकारीरसप्लुतम् ।
क्रामणं सर्वधातूनां सर्वद्वंद्वेषु मेलनम् ॥ ३,१०.५२ ॥
क्रामणेन विना सूतो न क्रमेद्देहलोहयोः ।
उक्तस्थानेषु योगेषु तस्मात् सर्वेषु योजयेत् ॥ ३,१०.५३ ॥
{महाविड}
दग्धं शंखं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं रुद्ध्वा रुद्ध्वाथ संपुटे ॥ ३,१०.५४ ॥
तत्समं टंकणं क्षिप्त्वा ह्यम्लवर्गेण भावयेत् ।
राजावर्तं प्रवालं च दरदं गंधकं शिला ॥ ३,१०.५५ ॥
पञ्चानां तु समं चूर्णं शङ्खतुल्यं नियोजयेत् ।
सर्वं तदम्लवर्गेण मर्दयेद्दिवसत्रयम् ॥ ३,१०.५६ ॥
अयं महाविडः ख्यातः खोटानां जारणे हितः ।
मूषालेपं तु सर्वत्र जारणे योजयेत्सदा ॥ ३,१०.५७ ॥
तत्क्षणाज्जरते सूतो वज्रादीनि न संशयः ॥ ३,१०.५८ ॥
{विड (२)}
त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् ।
इन्द्रगोपं घनं शिग्रु सूरणं वनसूरणम् ॥ ३,१०.५९ ॥
भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे ।
अनेन मर्दितः सूतो भक्षयेद् अष्टलोहकम् ॥ ३,१०.६० ॥
{विड (३)}
व्योषं गंधकं कासीसं स्वर्णपुष्पी सुवर्चलम् ।
सर्जी टंकणं सौवीरं सैन्धवं शिग्रुजैर्द्रवैः ।
दशाहं भावयेद् घर्मे विडोऽयं जारणे हितः ॥ ३,१०.६१ ॥
{विड (४)}
दग्धशङ्खं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं जारणे विडमुत्तमम् ॥ ३,१०.६२ ॥
{विड (५)}
त्रिक्षारं पञ्चलवणम् अम्लवेतससंयुतम् ।
अनेन मर्दयेत्सूतमभ्रसत्त्वं चरत्यलम् ॥ ३,१०.६३ ॥
{विड (६)}
गोमूत्रं गंधकं घर्मे शतवारं विभावयेत् ।
शिग्रुमूलद्रवैस् तद्वद् दग्धं शङ्खं विभावयेत् ॥ ३,१०.६४ ॥
एतद्गंधकशंखाभ्यां समांशं विषसैन्धवम् ।
एतैर्विमर्दितं सूतं ग्रसते सर्वलोहकम् ॥ ३,१०.६५ ॥
{वह्निमुखो विड (७)}
टंकणं शतधा भाव्यं द्रवैः पालाशवृक्षजैः ।
विडो वह्निमुखो नाम हितः सर्वस्य जारणे ॥ ३,१०.६६ ॥
{विड (८)}
गंधकं नवसारं वा मुखं कांतस्य चातपे ।
शतधा मूत्रवर्गेण भावितं स्याद् विडं पृथक् ॥ ३,१०.६७ ॥
{ज्वालामुखो विडः (९)}
त्रिक्षारं गंधकं तालं भूखगं नवसारकम् ।
सैंधवं च समं सर्वं मूत्रवर्गैर्दिनं पचेत् ॥ ३,१०.६८ ॥
ज्वालामुखो विडो नाम हितः सर्वत्र जारणे ॥ ३,१०.६९ ॥
{विड (१०)}
गंधकं शतधा भाव्यं वनशिग्रुशिफाद्रवैः ।
जम्बीरैर्नवसारं वा भावितं स्याद्विडं पृथक् ॥ ३,१०.७० ॥
{विड:: वडवानल}
वासकैरंडकदली देवदाली पुनर्नवा ।
वासापालाशनिचुलं तिलं काञ्चनमोक्षकम् ॥ ३,१०.७१ ॥
एतान् समूलान् आदाय नातिशुष्कान् विखण्डयेत् ।
पञ्चाङ्गं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥ ३,१०.७२ ॥
एतत्क्षारैः पूर्वकल्कं मूत्रवर्गेण भावयेत् ।
वस्त्रपूतं द्रवं पच्यात् मृद्वग्नौ लोहपात्रके ॥ ३,१०.७३ ॥
बाष्पाणां बुद्बुदानां च बहूनाम् उद्गमो यदा ।
तदा कासीसं सौराष्ट्री क्षारत्रयं कटुत्रयम् ॥ ३,१०.७४ ॥
गंधकं पंचलवणं नवसारं च हिंगुलम् ।
एतेषां निक्षिपेच्चूर्णं तस्मिन्पात्रेऽथ चालयेत् ॥ ३,१०.७५ ॥
गुडपाकं समुत्तार्य लोहसंपुटके क्षिपेत् ।
सप्ताहं भूमिगर्भेऽथ धान्यराशौ तथा पुनः ।
सप्ताहं संस्थितः सिद्धो विडोऽयं वडवानलः ॥ ३,१०.७६ ॥
{विड:: for सत्त्वजारण}
भावयेन्निचुलक्षारं देवदालीदलद्रवैः ।
एकविंशतिवारं तु बिडोऽयं सत्त्वजारणे ॥ ३,१०.७७ ॥
{विड:: तीव्रानल}
देवदालीशिफाबीजं गुंजासैंधवटंकणम् ।
समांशं निचुलक्षारमम्लवर्गेण सप्तधा ॥ ३,१०.७८ ॥
कोशातकीदलरसैर्भावयेद्दिनसप्तकम् ।
तीव्रानलो नाम बिडो विहितो हेमजारणे ॥ ३,१०.७९ ॥
{विड:: for जारण of Gold}
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रलोलितम् ।
वस्त्रपूतं द्रवं ग्राह्यं गंधकं तेन भावयेत् ॥ ३,१०.८० ॥
शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ ३,१०.८१ ॥
{विड:: for जारण of Gold}
त्रिक्षारं पंचलवणं शङ्खं तालं मनःशिला ।
दिनैकमम्लवर्गेण पक्वं स्याद्धेमजारणे ॥ ३,१०.८२ ॥
{विड:: for जारण of Gold}
गंधकं नवसारं च जम्बीराम्लेन मर्दयेत् ।
शतवारं खरे घर्मे बिडोऽयं हेमजारणे ॥ ३,१०.८३ ॥
{विड:: for जारण}
कन्याहयारिधत्तूरद्रवैर्भाव्यं तु गंधकम् ।
शतधा तं खरे घर्मे विडोऽयं सर्वजारणे ॥ ३,१०.८४ ॥
अनेन ग्रसते शीघ्रं शुक्तिसंभवसंपुटे ॥ ३,१०.८५ ॥
{विड:: for इम्प्रोवेमेन्त् of ग्रासन}
सैंधवं गंधकं तुल्यं ताम्रवल्लीद्रवैः प्लुतम् ।
अनेन बिडयोगेन गगनं ग्रसते रसः ॥ ३,१०.८६ ॥
{सिद्धविड}
शिलागंधकसिन्धूत्थं प्रत्येकं च पलं पलम् ।
पलत्रयं च भूनागं सर्वमेकत्र मर्दयेत् ॥ ३,१०.८७ ॥
शोषयेच्च पुनर्देयं भूनागानां पलत्रयम् ।
तद्वन्मर्द्यं पुनः शोष्यं पाचयेन्मन्दवह्निना ॥ ३,१०.८८ ॥
एवम् अष्टगुणं दत्त्वा मर्द्यं पाच्यं विचूर्णयेत् ।
अयं सिद्धविडो योज्यो जारणे हेमकर्मणि ॥ ३,१०.८९ ॥
सम्यक् संस्कृतगंधकाद्युपरसं सत्त्वं ततो व्योमजं पश्चान्माक्षिकसत्त्वहाटकवरं गर्भद्रुतौ द्रावितम् ।
रागै रञ्जितबीजजालम् अखिलं बाह्यां द्रुतिं द्वंद्वितां सूते सर्वमिदं क्रमेण विधिना सिद्धैर्बिडैर्जारयेत् ॥ ३,१०.९० ॥


रसरत्नाकरः, ३, ११[सम्पाद्यताम्]

{रसस्य १८ संस्काराः}
सिद्धैः सूतवरस्य कर्म विविधं ख्यातं विचित्रैः क्रमैः साध्यासाध्यविवेकतो ह्य् अनुभवन् दृष्ट्वा समस्तं मया ।
युक्त्याष्टादशधा विशेषविधिना स्वेदादिवेधान्तकं दक्षाणां सुखसाध्यमेव सुखदं संतन्यते साम्प्रतम् ॥ ३,११.१ ॥
{१८ संस्कारस्}
स्वेदनं मर्दनं मूर्छोत्थापनं पातनं त्रिधा ।
निरोधनं नियामश्च दीपनं चानुवासनम् ॥ ३,११.२ ॥
जारणं चारणं चैव गर्भबाह्यद्रुतिस् तथा ।
रञ्जनं सारणं चानुसारणा प्रतिसारणा क्रामणं देहलोहेषु ॥ ३,११.३ ॥
{काञ्जिक:: production}
नानाधान्यैर्यथाप्राप्तैस् तुषवर्जैर् जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ ३,११.४ ॥
तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ ३,११.५ ॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् ।
समूलं खण्डयित्वा तु यथालाभं निवेशयेत् ॥ ३,११.६ ॥
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
{काञ्ज्क:: use}
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ।
{काञ्जिक:: substituted by आरनाल}
अत्यम्लम् आरनालं वा तदभावे नियोजयेत् ॥ ३,११.७ ॥
{स्वेदनम्}
त्र्यूषणं लवणं राजी चित्रकं त्रिफलार्द्रकम् ।
महाबला नागबला मेघनादः पुनर्नवा ॥ ३,११.८ ॥
मेषशृङ्गी चित्रकं च नवसारं समं समम् ।
एतत् समस्तं व्यस्तं वा पूर्वाम्लेनैव मर्दयेत् ॥ ३,११.९ ॥
तत्कल्केन लिम्पेद् वस्त्रे यावद् अङ्गुलमात्रकम् ।
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा पच्याद्दिनत्रयम् ।
दोलायन्त्रेऽम्लसंयुक्ते स्वेदितो जायते रसः ॥ ३,११.१० ॥
{मर्दनम्}
प्रक्षाल्य काञ्जिकैः सोष्णैस् तमादाय विमर्दयेत् ।
अत्यम्लम् आरनालं तत्तदभावे नियोजयेत् ॥ ३,११.११ ॥
गृहधूमेष्टिकाचूर्णं दग्धोर्णा लवणं गुडम् ।
राजिका त्रिफला कन्या चित्रकं बृहती कणा ॥ ३,११.१२ ॥
वन्ध्याकर्कोटकी चाथ व्यस्तं वाथ समस्तकम् ।
क्वाथयेदारनालेन तेन मर्द्यं त्र्यहं रसम् ।
प्रक्षाल्य काञ्जिकेनैव समादाय विमूर्छयेत् ॥ ३,११.१३ ॥
{मूर्छनम्}
मेषशृङ्गी कृष्णधूर्तो बला श्वेतापराजिता ॥ ३,११.१४ ॥
कन्याग्नित्रिफला चैव सर्पाक्षी सूरणं वचा ।
गोजिह्वा चाङ्गुली नीली मुरुण्डी क्षीरकन्दकम् ॥ ३,११.१५ ॥
राजिका काकमाची च रविक्षीरं च काञ्चनम् ।
व्यस्तानां वा समस्तानां द्रावैश्चैषां विमर्दयेत् ॥ ३,११.१६ ॥
यामैकं रसराजं च मूषायां संनिरोधयेत् ।
पुटैकेन पचेत्तं तु भूधरे वाथ मर्दयेत् ॥ ३,११.१७ ॥
सर्वद्रावैर् यथापूर्वं रुद्ध्वा रुद्ध्वा विपाचयेत् ।
इत्येवं सप्तधा कुर्याज्जायते मूर्छितो रसः ॥ ३,११.१८ ॥
{उत्थापनम्}
जलैः सोष्णारनालैर् वा लोलनादुत्थितो भवेत् ।
अथवा पातनायन्त्रे पाचनादुत्थितो भवेत् ।
एवमुत्थापितः सूतस्त्रिधा पात्यः क्रमेण तु ॥ ३,११.१९ ॥
{ऊर्ध्वपातनम्}
काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् ।
अङ्कोली राजवृक्षश्च तिलपर्णी कुमारिका ॥ ३,११.२० ॥
मण्डूकी चित्रकं पाठा काकजङ्घा शतावरी ।
भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका ॥ ३,११.२१ ॥
शणपुष्प्यार्द्रकं शृङ्गी गोजिह्वा क्षीरकन्दकम् ।
नीली चैषां समस्तानां व्यस्तानां च द्रवैर्दिनम् ॥ ३,११.२२ ॥
ताम्रपादयुतं सूतं मर्दयेदम्लकैः सह ।
तत्पिष्टः पातयेद्यन्त्रे चोर्ध्वपातनके पुनः ॥ ३,११.२३ ॥
आदाय मर्दयेत्तद्वत्ताम्रचूर्णेन संयुतम् ।
पातयेन्मर्दयेच्चैव ताम्रं दत्त्वा पुनः पुनः ।
इत्येवं सप्तधा कुर्यान्मर्दनं पातनं क्रमात् ॥ ३,११.२४ ॥
ऊर्ध्वलग्नं समादाय अधःपातेन पातयेत् ॥ ३,११.२५ ॥
{अधःपातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
सूततुल्यं तु तत्सर्वं काञ्जिकैर् मर्दयेद्दिनम् ॥ ३,११.२६ ॥
तेन लिम्पेद् ऊर्ध्वभाण्डं पृष्ठे देयं पुटं लघु ।
अधःपातनयन्त्रे तु पातितं तु समुद्धरेत् ॥ ३,११.२७ ॥
{तिर्यक्पातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
धान्याभ्रकं रसं सर्वं मर्दयेदारनालकैः ॥ ३,११.२८ ॥
नष्टपिष्टं तु तत् पात्यं तिर्यग्यन्त्रे दृढाग्निना ॥ ३,११.२९ ॥
{निरोधनम्}
लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित् क्षिप्त्वा श्रावेण रोधयेत् ।
ऊर्ध्वं लघुपुटं देयं लब्ध्वाप्यधो भवेद्रसः ॥ ३,११.३० ॥
{दीपनम्}
त्रिक्षारं पञ्चलवणं भूखगं शिग्रुमूलकम् ।
स्वर्णपुष्पी च कासीसं मरिचं राजिका मधु ॥ ३,११.३१ ॥
क्षीरकन्दो जया कन्या विजया गिरिकर्णिका ।
काकजङ्घा शोणपुष्पी पातालगरुडी कणा ॥ ३,११.३२ ॥
वन्ध्याकर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् ।
पेषयेदम्लवर्गेण तद्द्रवैर्मर्दयेद्रसम् ॥ ३,११.३३ ॥
दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ।
पूर्वद्रावैर्घटे पूर्णे ग्रासार्थी जायते रसः ॥ ३,११.३४ ॥
{अनुवासनम्}
दीपितं रसराजं तु जम्बीररससंयुतम् ।
दिनैकं धारयेद् घर्मे मृत्पात्रे वासितो भवेत् ॥ ३,११.३५ ॥
स्वेदनादिशुभकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ।
अष्टमांशम् अवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥ ३,११.३६ ॥


रसरत्नाकरः, ३, १२[सम्पाद्यताम्]

समुखविमुखसूते जारणार्थं प्रवक्ष्ये विविधसुलभयोगैर्भोजनं गंधकस्य ।
तदनु च घनचूर्णैर्भोजनं पाचनं स्यात् निखिलसूतविभूत्यै वार्तिकानां सुखाय ॥ ३,१२.१ ॥
{मेर्चुर्:: जारण of sulfur}
गंधकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः ।
भावयेद्वाथ वृन्ताकरसेनैव तु सप्तधा ॥ ३,१२.२ ॥
पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् ।
कर्षकं भावितं गंधं कर्पूरं माषमात्रकम् ॥ ३,१२.३ ॥
क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् ।
दीपाग्निना दिनं पच्यान्मुखमुद्घाटयेत्पुनः ॥ ३,१२.४ ॥
जीर्णे गंधं च कर्पूरं दत्त्वा तद्वच्च जारयेत् ।
एवं शतगुणे जीर्णे गंधकं जारयेद्रसे ॥ ३,१२.५ ॥
{mercury जारण of sulfur}
कासीसं चैव सौराष्ट्री सज्जीक्षारेण मोदकम् ।
शिग्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै ॥ ३,१२.६ ॥
सप्ताहं चूर्णितं गंधं तं गंधं जारयेत्पुनः ।
इष्टिकागर्तमध्ये तु सम्यक् शुद्धरसं क्षिपेत् ॥ ३,१२.७ ॥
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं गंधकं दत्त्वा श्रावकेण निरोधयेत् ॥ ३,१२.८ ॥
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
एवं शतगुणं जार्यं गंधकं पारदे शनैः ॥ ३,१२.९ ॥
{mercury जारण of पक्वबीज}
तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् ।
पादांशकं पक्वबीजं दत्त्वाम्लैर्मर्दयेद्दिनम् ॥ ३,१२.१० ॥
तं क्षिपेच्चारणायन्त्रे जंबीररससंयुतम् ।
तं यंत्रं धारयेद् घर्मे जारितो जायते रसः ॥ ३,१२.११ ॥
{mercury जारण of पक्वबीज}
सविडं कलयेद्यंत्रे दिनैकं तु पुटे पचेत् ।
जारितं स्यात्पुनर्बीजं दत्त्वा जार्यं च पूर्ववत् ।
जारयेच्च पुनस्तद्वदेवं जार्यं समं क्रमात् ॥ ३,१२.१२ ॥
{mercury सारणा wइथ् पक्वबीज}
जारितं सारणायन्त्रे क्षिपेत्तैलं वसान्वितम् ।
द्रावितं नालमूषायां पक्वबीजरसान्वितम् ॥ ३,१२.१३ ॥
तद्यंत्रे धारयेदेवं सारितो जारयेद्रसः ।
सारितं तत्पुनर्मर्द्यं पूर्ववद् बिडसंयुतम् ॥ ३,१२.१४ ॥
जारयेत्कच्छपे यंत्रे जीर्णे बीजे तु सारयेत् ।
पूर्ववत् सारणायन्त्रे बीजेन द्विगुणेन वै ॥ ३,१२.१५ ॥
पुनस्तं जारयेत्तद्वत्तथैव प्रतिसारयेत् ।
त्रिगुणेन तु बीजेन पूर्ववज्जारयेत्पुनः ॥ ३,१२.१६ ॥
{mercury मुख:: ँबन्धन}
तद्रसं तालकं तुल्यं तैलं धत्तूरसंभवम् ।
दिव्यौषधीगणद्रावं सर्वं मर्द्यं दिनावधि ॥ ३,१२.१७ ॥
वज्रमूषान्धितं पच्यात्करीषाग्नौ दिनावधि ।
पुनर्दिव्यौषधीद्रावैर्मर्द्यं पाच्यं दिनावधि ।
इत्येवं च पुनः कुर्यात्सूतो बद्धमुखो भवेत् ॥ ३,१२.१८ ॥
{रसबन्धनम्}
तं रसं धौतमाक्षीकं तीक्ष्णं शुल्बं रसः शशी ।
समांशं देवदाल्युत्थद्रवैर्मर्द्यं दिनावधि ॥ ३,१२.१९ ॥
त्रिदिनं मधुसर्पिर्भ्यां मर्दितं गोलकीकृतम् ।
वज्रमूषागतं रुद्ध्वा शोष्यं तीव्राग्निना धमेत् ॥ ३,१२.२० ॥
खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः ।
तत्खोटं टंकणैः काचैः शोधयेद्वै धमन्धमन् ॥ ३,१२.२१ ॥
तेजःपुञ्जो रसो बद्धो बालार्कसदृशो भवेत् ॥ ३,१२.२२ ॥
{Silver => Gold}
तद्रसं सिक्थकेनैव वेष्टयित्वा प्रपूजयेत् ।
शतांशं तु द्रुते तारे क्रामणेनैव संयुतम् ॥ ३,१२.२३ ॥
तत्तारं जायते स्वर्णं जांबूनदसमप्रभम् ।
अष्टानवतिभागं स्यादित्येवं वेधको मतः ॥ ३,१२.२४ ॥
{mercury मुखकरण}
अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखं क्रमात् ।
येन व्योमादिवैक्रान्तं चरत्याश्वभिषेचितम् ॥ ३,१२.२५ ॥
अम्लवेतसजंबीरबीजपूरकभूखगैः ।
त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् ।
तप्तखल्वे दिनं मर्द्यं सूतस्येत्थं मुखं भवेत् ॥ ३,१२.२६ ॥
{mercury मुखकरण}
मध्यगर्तसमायुक्तं कारयेदिष्टिकाद्वयम् ।
धान्याभ्रं गंधकं शुद्धं प्रत्येकं दशनिष्ककम् ॥ ३,१२.२७ ॥
यामं जम्बीरजैर्द्रावैर् मर्द्यं तेनैव लेपयेत् ।
गर्तद्वयं समांशेन ह्यधोगर्तं सुशोधितम् ॥ ३,१२.२८ ॥
विंशनिष्कं क्षिपेत्सूतम् ऊर्ध्वं देयापरेष्टिका ।
लिप्त्वा मृल्लवणैः संधिं दीप्ताग्निं ज्वालयेदधः ॥ ३,१२.२९ ॥
अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि ।
स्वांगशीतं समुद्धृत्य रसं किट्टविवर्जितम् ।
इत्येवं तु त्रिधा कुर्याद्रसस्य तु मुखं भवेत् ॥ ३,१२.३० ॥
{mercury मुखकरण}
वंशनालान्धितं सूतं भाण्डे गोमूत्रपूरिते ।
त्रिसप्ताहं पचेच्चुल्ल्यां सूतस्येत्थं मुखं भवेत् ॥ ३,१२.३१ ॥
{परल्लेल् बेत्wएएन् संस्कारस् and रितुअल्}
समुखे निर्मुखे सूते वक्ष्यते जारणं क्रमात् ।
खल्वपीतं रसो लिङ्गं मर्दनं मार्जनं स्मृतम् ॥ ३,१२.३२ ॥
नानौषधीरसैः स्नानं सत्त्वैर्बीजैः प्रपूजनम् ।
स्वर्णादिरत्नजातैश्च उपहारं प्रकल्पयेत् ॥ ३,१२.३३ ॥
नैवेद्यं रञ्जनं दिव्यं सारणा स्याद्विसर्जनम् ।
वेधनं देहलोहेषु सम्यक्पूजाविधेः फलम् ॥ ३,१२.३४ ॥
यावद्दिनानि वह्नौ तु धारणे जार्यते रसः ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ ३,१२.३५ ॥
यत्किंचिद्रसराजस्य साधनार्थे व्ययो भवेत् ।
तत्सर्वं कोटिगुणितं दत्ते श्री भैरवी ध्रुवम् ॥ ३,१२.३६ ॥
साधकानां सुधीराणाम् इह लोके परत्र च ।
अतो भूपैर्वार्तिकेन्द्रैः साध्यः स्याद् भुक्तिमुक्तिदः ॥ ३,१२.३७ ॥
{अभ्र:: प्रेपरतिओन् for चारण}
अर्कक्षीरेण धान्याभ्रं दिनं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यात् क्षीरैर्यामं विमर्दयेत् ॥ ३,१२.३८ ॥
रुद्ध्वाधः पूर्ववत्पच्यादेवं वारचतुष्टयम् ।
त्रिधा च मूलकद्रावै रम्भाकन्दद्रवैस्त्रिधा ॥ ३,१२.३९ ॥
अपामार्गकाकमाचीमीनाक्षीभृङ्गराण्मुनिः ।
पुनर्नवा मेघनादो विदारिश्चित्रकं तथा ॥ ३,१२.४० ॥
क्रमाद् एषां द्रवैरेव मर्दनं पुटपाचनम् ।
एकैकेनैकवारं च दत्त्वा तद्भावयेत्पुनः ॥ ३,१२.४१ ॥
शतावरी तालमूली कदली तण्डुलीयकम् ।
अर्कः पुनर्नवा शिग्रुर्यवचिञ्चा ह्यनुक्रमात् ॥ ३,१२.४२ ॥
प्रतिद्रवैर् दिनैकं तु भावितं चारणे हितम् ॥ ३,१२.४३ ॥
{अभ्र:: Vओर्बेरेइतुन्ग् औf चारण}
अर्कक्षीरैस्तु धान्याभ्रं यामं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यादेवं वारांश्चतुर्दश ॥ ३,१२.४४ ॥
कदली मुसली शिग्रुर्वन्ध्याङ्कोल्लार्कपीलुकम् ।
नागवल्ली कुबेराक्षी भूम्यपामार्गतुम्बरुः ॥ ३,१२.४५ ॥
एषामेकद्रवं ग्राह्यं कांजिके व्योमसंयुतम् ।
सर्वमेतत्क्षिपेद् भाण्डे तन्मध्ये पाचयेत् त्र्यहम् ॥ ३,१२.४६ ॥
पूर्वाभ्रं दोलिकायन्त्रे समुद्धृत्याथ शोषयेत् ।
कासीसं तुवरी सिन्धुष्टंकणं च समं समम् ॥ ३,१२.४७ ॥
सर्वमेतद्दशांशं तु क्षिप्त्वा तस्मिन्विमर्दयेत् ।
दिनैकं तप्तखल्वे तु क्षिप्त्वा तस्मिन्विमर्दयेत् ॥ ३,१२.४८ ॥
दिनैकं तप्तखल्वे तु तदभ्रं चारणे हितम् ॥ ३,१२.४९ ॥
{अभ्र:: प्रेपरतिओन् for चारण}
शतवारं द्रुतं नागं मुण्डीद्रावे विनिक्षिपेत् ।
तेन द्रावेण धान्याभ्रं मर्दितं सप्तधा पुटेत् ।
मर्द्यं मर्द्यं निरुध्याथ कपोताख्ये पुटे पचेत् ॥ ३,१२.५० ॥
तत्तुल्यं गंधकं दत्त्वा पूर्वोक्तैर्मुण्डिकाद्रवैः ॥ ३,१२.५१ ॥
सस्तन्यैर् बीजपूरोत्थैर् द्रावैर्भाव्यं दिनावधि ।
एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥ ३,१२.५२ ॥
{सिद्धमूली}
व्याघ्रपादी हंसपादी कदल्यग्निकुमारिकाः ।
बृहती लाङ्गली वज्री खण्डजारीन्द्रवारुणी ॥ ३,१२.५३ ॥
वन्ध्याकर्कोटकी मूषा सर्पाक्षी शङ्खपुष्पिका ।
मण्डूकी अग्निमथनो विख्याता सिद्धमूलिका ॥ ३,१२.५४ ॥
एताः समस्ता व्यस्ता वा चोक्तस्थाने नियोजयेत् ॥ ३,१२.५५ ॥
{mercury समुख:: चारण of अभ्र}
अथातः समुखे सूते पूर्वाभ्रं षोडशांशकम् ।
दत्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीद्रवैर्दिनम् ॥ ३,१२.५६ ॥
ततस्तं चारणायंत्रे जंबीररससंयुतम् ।
घर्मे धार्यं दिनैकं तु चरत्येव न संशयः ॥ ३,१२.५७ ॥
{mercury लक्ष-/कोटिवेधिन्}
चारितं बन्धयेद्वस्त्रे दोलायंत्रे दिनावधि ।
सिद्धमूलीद्रवैर्युक्तैः पातनाज्जीर्यते ह्यलम् ॥ ३,१२.५८ ॥
अजीर्णं चेत्पचेद्यंत्रे कच्छपाख्ये दिनावधि ।
अष्टमांशं विडं दत्त्वा चरत्येव न संशयः ॥ ३,१२.५९ ॥
अनेन क्रमयोगेन चार्यं जार्यं पुनः पुनः ।
जीर्णे शतगुणे सम्यक् सहस्रांशेन विध्यति ॥ ३,१२.६० ॥
सहस्रगुणिते जीर्णे लक्षवेधी भवेद्रसः ।
तद्वल्लक्षगुणे जीर्णे कोटिवेधी भवेद्रसः ॥ ३,१२.६१ ॥
कृष्णाभ्रं वा सुवर्णं वा यथाशक्त्या तु जारयेत् ।
पूर्ववत्क्रमयोगेन फलं स्यादुभयोः समम् ॥ ३,१२.६२ ॥
{mercury for production of Silver}
अनेनैव क्रमेणैव तारं वा श्वेतमभ्रकम् ।
जारयेत्तु यथाशक्त्या तारकर्मणि शस्यते ॥ ३,१२.६३ ॥
{mercury मुखबन्धन, कोटिवेधिन्}
पूर्ववत् पक्वबीजेन सारणादि यथाक्रमम् ।
कर्तव्यं रसराजस्य वेधनं क्रामणं तथा ॥ ३,१२.६४ ॥
चंद्रार्कं जारयेत्सर्वं ताम्रं वा तारकर्मणि ।
एवं शतगुणे जीर्णे सहस्रांशेन वेधयेत् ॥ ३,१२.६५ ॥
सहस्रगुणिते जीर्णे पूर्ववत्सारणात्रयम् ।
कृत्वा जार्यं पुनस्तद्वच्चारयेच्च त्रिधा पुनः ॥ ३,१२.६६ ॥
इत्येवं च पुनः सार्यं पुनः सार्यं च जारयेत् ।
मुखबन्धादिवेधान्तं कारयेत्पूर्ववद्रसे ॥ ३,१२.६७ ॥
तेनैव लक्षभागेन दिव्यं भवति कांचनम् ।
यदा लक्षगुणे जीर्णे त्रिधा सार्यं च जारयेत् ॥ ३,१२.६८ ॥
इत्येवं सप्तधा कार्यं बन्धयेच्च ततो मुखम् ।
पूर्ववत्क्रामणान्तं च कृतोऽसौ जायते रसः ॥ ३,१२.६९ ॥
कोटिवेधी तु चंद्रार्के सत्यं शंकरभाषितम् ॥ ३,१२.७० ॥
{mercury निर्मुख:: चारण}
अथ निर्मुखसूतस्य वक्ष्ये चारणजारणे ।
शुद्धसूते तु वैक्रांतं मारितं षोडशांशकम् ॥ ३,१२.७१ ॥
क्षिप्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीरसैस्त्र्यहम् ।
संस्कारेण ह्यनेनैव निर्मुखश्चरति ध्रुवम् ॥ ३,१२.७२ ॥
{mercury चारण:: निर्मुख}
अथवा तप्तखल्वे तु भूलतासंयुतं रसम् ।
मर्दयेत्त्रिदिनं पश्चात्पात्यं पातनयन्त्रके ॥ ३,१२.७३ ॥
संस्कारेण ह्यनेनापि निर्मुखं चरति क्षणात् ॥ ३,१२.७४ ॥
{mercury जारण:: निर्मुख}
अस्यैव जारणायोग्यो व्योमसंस्कार उच्यते ।
धान्याभ्रमम्लवर्गेण दोलायंत्रे त्र्यहं पचेत् ।
स्नुहीक्षीरैस्ततो मर्द्यं यामैकं चान्धितं धमेत् ॥ ३,१२.७५ ॥
कपोताख्यपुटैकेन तमादायाथ मर्दयेत् ।
मूलकं कदलीकन्दं मीनाक्षी काकमाचिका ॥ ३,१२.७६ ॥
मुनिर् आर्द्रकवर्षाभूमेघनादापामार्गकम् ।
एरण्डश्च द्रवैरेषां पृथग्देयं पुटं लघु ॥ ३,१२.७७ ॥
दोलायंत्रे ततः पच्याद्वज्रीक्षीरैर्दिनावधि ।
वचा निम्बं धूमसारं कासीसं च सुचूर्णितम् ॥ ३,१२.७८ ॥
अभ्रस्य षोडशांशेन प्रत्येकं मिश्रयेत्ततः ।
मर्दयेत्ताम्रखल्वे तु चणकाम्लैर्दिनावधि ॥ ३,१२.७९ ॥
नवसारैरयःपात्रं लेपयेत्तत्र निक्षिपेत् ।
पारदं साधितं साभ्रं चणकाम्लं च कांजिकम् ॥ ३,१२.८० ॥
मृद्वग्निना पचेच्चुल्ल्यां रसश्चरति तत्क्षणात् ।
जारयेत्पूर्वयोगेन ततश्चार्यं च जारयेत् ॥ ३,१२.८१ ॥
मात्रा युक्तिर् यथापूर्वं सेयं निर्मुखजारणा ।
कृष्णाभ्रकं सुवर्णं च जार्यं स्याद्धेमकर्मणि ॥ ३,१२.८२ ॥
तारं वा श्वेतमभ्रं वा जार्यं स्यात्तारकर्मणि ।
सारणादिक्रामणान्तं यथापूर्वं तु जारयेत् ॥ ३,१२.८३ ॥
कर्तव्यं सूतराजे तु तद्वद् भवति कांचनम् ।
श्वेतेन जारयेत् श्वेतं यथाबीजं तथाङ्कुरम् ॥ ३,१२.८४ ॥
प्रोक्तं यथा सुगमसाधितपीतगंधं कृष्णाभ्रहेमरजतं सितमभ्रकं च ।
संसार्य तद्रसवरे वरवार्तिकेन्द्रः कुर्यान्महाकनकभारसहस्रसंख्यम् ॥ ३,१२.८५ ॥


रसरत्नाकरः, ३, १३[सम्पाद्यताम्]

दृष्टयोगफलसिद्धिदं ध्रुवं पारदस्य वरजारणे हितम् ।
सत्त्वपातनम् अनेकयोगतो द्वंद्वमेलम् अभिषेकम् आर्यकम् ॥ ३,१३.१ ॥
{अभ्र:: शोधन}
मुस्ताक्वाथेन सप्ताहं कुर्याद्धान्याभ्रकं प्लुतम् ।
शिग्रुसूरणरम्भानां कंदस्यैकस्य च द्रवैः ॥ ३,१३.२ ॥
पेटारीमूलजंबीरद्रावैर्वाप्यं परिप्लुतम् ।
इत्थं प्लुतस्याभ्रकस्य पादांशं टंकणं क्षिपेत् ॥ ३,१३.३ ॥
दिनैकं मर्दयेत्खल्वे युक्तमम्लेन केनचित् ॥ ३,१३.४ ॥
{कान्तलोह, माक्षिक, उपरस:: सत्त्व:: पातन}
गुञ्जागुग्गुलुलाक्षोर्णासर्जीसर्जरसं गुडम् ।
क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम् ॥ ३,१३.५ ॥
भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवा ।
धत्तूरो लाङ्गली पाठा बला गंधकतिक्तकम् ॥ ३,१३.६ ॥
गोक्षीरं पंचलवणं सर्पवृश्चिकविषं मधु ।
षड्बिन्दुः क्षुद्रशम्बूकमस्थीनि शशकस्य च ॥ ३,१३.७ ॥
पारावतमलं त्र्यूषम् इंद्रगोपं च शिग्रुकम् ।
गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत् ॥ ३,१३.८ ॥
एतद्व्यस्तं समस्तं वा याममात्रेण पिण्डितम् ।
अस्य पिण्डस्य भागैकं द्विभागं शोधिताभ्रकम् ॥ ३,१३.९ ॥
पञ्चमाहिषभागैकं सर्वमेकत्र लोलयेत् ।
कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः ॥ ३,१३.१० ॥
खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपन् क्षिपन् ।
वटिकाः पञ्चपञ्चैव वङ्कनालेन संधमन् ॥ ३,१३.११ ॥
समाप्तौ किट्टमादाय स्फोटयेत्स्वाङ्गशीतलम् ।
वर्तुलं सत्त्वमादाय शेषकिट्टं विचूर्णयेत् ॥ ३,१३.१२ ॥
चूर्णादर्धं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् ।
एकीकृत्य धमेत्तद्वत्सत्त्वं तत्तत्समाहरेत् ॥ ३,१३.१३ ॥
इत्येवं च पुनः कुर्यात्त्रिधा सत्त्वं विमुञ्चति ।
अनेन क्रमयोगेन कान्तसत्त्वं च माक्षिकम् ॥ ३,१३.१४ ॥
कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका ।
मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक् पृथक् ॥ ३,१३.१५ ॥
{अभ्र:: सत्त्व:: मृदूकरण}
अभ्रसत्त्वं समादाय समांशं काचटंकणम् ।
दत्त्वा दत्त्वा त्रिवारं तु वज्रमूषागतं धमेत् ॥ ३,१३.१६ ॥
अम्लवर्गं स्नुहीपत्रं चिञ्चाबीजं सवल्कलम् ।
कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् ॥ ३,१३.१७ ॥
मृदुशुभ्रं भवेत्सत्त्वं सप्तवारं निषेचयेत् ॥ ३,१३.१८ ॥
{अभ्र:: सत्त्व:: पातन}
धान्याभ्रं दशभागं स्यात् शुद्धनागं त्रिभागकम् ।
टंकणं माक्षिकं सूतं भागैकैकं सुशोधितम् ॥ ३,१३.१९ ॥
ऊर्णा सर्जी यवक्षारं भागं भागं विमिश्रयेत् ।
मर्द्यं मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि ॥ ३,१३.२० ॥
अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ।
कृत्वादाय मृदु साक्षान्निर्मलं योजयेदधः ॥ ३,१३.२१ ॥
{माक्षिक:: सत्त्वम्:: पातन}
दोलायंत्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ।
चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे दिनं पचेत् ॥ ३,१३.२२ ॥
आदाय भावयेद् घर्मे वज्रीक्षीरैर्दिनावधि ।
गृहधूमैर्घृतैः क्षौद्रैः संयुक्तं मर्दयेद्दिनम् ॥ ३,१३.२३ ॥
अंधमूषागतं ध्मातं सत्त्वं गुंजानिभं भवेत् ॥ ३,१३.२४ ॥
{माक्षिक:: सत्त्व:: पातन}
कदलीकंदतोयेन माक्षिकं शतधातपे ।
भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ।
पूर्ववद्धमनात्सत्त्वम् इंद्रगोपनिभं भवेत् ॥ ३,१३.२५ ॥
{माक्षिक:: सत्त्वम्:: पातन}
स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् ।
कंकुष्ठं टंकणं चैव प्रतिपादांशमिश्रितम् ॥ ३,१३.२६ ॥
मूकमूषागतं ध्मातं सत्त्वं मणिनिभं भवेत् ॥ ३,१३.२७ ॥
{माक्षिक:: सत्त्व:: पातन}
कदलीकंदतुलसीजंबीराणां द्रवैः क्रमात् ।
भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ।
रुद्ध्वा ध्माते पतेत्सत्त्वं शुकसंनिभं शुभम् ॥ ३,१३.२८ ॥
{माक्षिक:: सत्त्व:: पातन}
मूत्रवर्गाम्लवर्गैश्च द्विसप्ताहं विभावयेत् ।
माक्षिकं तीव्रघर्मेण दिनैरम्लैश्च मर्दयेत् ॥ ३,१३.२९ ॥
मित्रपञ्चकसंयुक्तैर्वटी कृत्वा धमेद् दृढम् ।
व्योमवद् वंकनालेन सत्त्वं शुल्बनिभं भवेत् ॥ ३,१३.३० ॥
{माक्षिक:: सत्त्व:: पातन}
स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।
मित्रपंचकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥ ३,१३.३१ ॥
भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।
मृद्वग्निना पचेद्यामं यावद्भवति गोलकम् ।
सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद् भवेत् ॥ ३,१३.३२ ॥
{विमल:: सत्त्व:: पातन}
विमलानां च शुद्धानां सम्यक्स्यात्ताप्यवद्विधिः ॥ ३,१३.३३ ॥
{माक्षिक:: सत्त्व:: धौतसत्त्व}
सुशुद्धं माक्षिकं चूर्णं मर्द्यमम्लेन केनचित् ।
क्षालयेदारनालैस्तु ह्यधस्थं स्वर्णचूर्णवत् ॥ ३,१३.३४ ॥
जायते तत्समुद्धृत्य धौतसत्त्वमिदं भवेत् ।
योजयेद्वापने चैव बीजानां यत्र यत्र वै ॥ ३,१३.३५ ॥
{माक्षिक:: सत्त्व:: पातन}
माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् ।
पूर्ववद्धमनेनैव सत्त्वं लाक्षानिभं भवेत् ॥ ३,१३.३६ ॥
{मनःशिला:: सत्त्व:: पातन}
अगस्त्यशिग्रुजैस्तोयैस् त्र्यहं भाव्या मनःशिला ।
तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ।
{मनःशिला:: सत्त्व:: पातन}
गोमूत्रैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला ।
तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥ ३,१३.३७ ॥
दिनान्ते मर्दयेद्यामं मित्रपंचकसंयुतम् ।
गुटिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ।
सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकया लिम्पेत् ॥ ३,१३.३८ ॥
शुष्कां तां वालुकायंत्रे शनैर्मृद्वग्निना पचेत् ।
शुष्के द्रवे निरुध्याथ सम्यक् मृल्लवणैर्मुखम् ॥ ३,१३.३९ ॥
चण्डाग्निना पचेत्तावद्यावद् द्वादशयामकम् ।
स्वांगशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥ ३,१३.४० ॥
ऊर्ध्वलग्नं शिलासत्त्वं बालार्ककिरणोपमम् ॥ ३,१३.४१ ॥
{हरिताल:: सत्त्व:: पातन}
भागाः षोडश तालस्य विषं पारदटंकणम् ।
श्वेताभ्रबंगयोश्चूर्णं प्रतिभागं विमिश्रयेत् ॥ ३,१३.४२ ॥
सर्वं स्नुह्यर्कपयसा मर्दयेद्दिवसत्रयम् ।
शिलावद् ग्राहयेत्सत्त्वं तालकात्स्फटिकोपमम् ॥ ३,१३.४३ ॥
{हरिताल:: सत्त्व:: पातन}
स्नुक्क्षीरकटुतुम्ब्युत्थैस् तालं भाव्यं द्विसप्तधा ॥ ३,१३.४४ ॥
तिलसर्षपशिग्रूणि लवणं मित्रपंचकम् ।
एभिस्तुल्यं पूर्वतालं दिनमेकं विमर्दयेत् ॥ ३,१३.४५ ॥
छिद्रमूषागतं ध्मातं भूधरे सत्त्वमाहरेत् ॥ ३,१३.४६ ॥
{हरिताल:: सत्त्व:: पातन}
लाक्षा राजी गुडं शिग्रुष्टंकणं लवणं तिलाः ।
एभिस्तुल्यं शुद्धतालं मर्दयेद्रविदुग्धकैः ॥ ३,१३.४७ ॥
दिनं वा वज्रिणीदुग्धैः कुष्माण्डस्य द्रवैस्तथा ।
तेन कल्केन लिप्तांतश्छिद्रमूषां निरोधयेत् ॥ ३,१३.४८ ॥
पुटाद्वा धमनाद् ग्राह्यं सत्त्वं पातालयन्त्रके ॥ ३,१३.४९ ॥
{हरिताल:: सत्त्व:: पातन}
तालकादष्टमांशेन देयं सूतं च टंकणम् ।
कुष्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्यं दिनत्रयम् ।
तद्गोलं छिद्रमूषांतर्ग्राह्यं सत्त्वं च पूर्ववत् ॥ ३,१३.५० ॥
{तुत्थ:: सत्त्व:: पातन}
लाक्षाभया च भूनागं गृहधूमं जटाकणा ।
निशाटंकणमध्वाज्यान्येभिस्तुल्यं च तुत्थकम् ॥ ३,१३.५१ ॥
सर्वं मर्द्यमजाक्षीरैर् अन्धमूषागतं धमेत् ।
सत्त्वं किंशुकपुष्पाभं जायते नात्र संशयः ॥ ३,१३.५२ ॥
{तुत्थ:: सत्त्व:: पातन}
हरिद्रासूरणाङ्कोल्लं तण्डुली गंधकं गुडम् ।
मध्वाज्यटंकणं तुल्यं तुत्थमेभिः समं भवेत् ॥ ३,१३.५३ ॥
स्तन्येन मर्दयेत्सर्वं छिद्रमूषां विलेपयेत् ।
रुद्ध्वा पातालयंत्रेण ध्माते सत्त्वं विमुञ्चति ॥ ३,१३.५४ ॥
{तुत्थ:: सत्त्व:: पातन}
तुत्थस्य टंकणं पादं चूर्णयेन्मधुसर्पिषा ।
तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।
धामिते मुञ्चते सत्त्वं कीरतुण्डसमप्रभम् ॥ ३,१३.५५ ॥
{वरनागसत्त्व}
सौवीरं तीक्ष्णचूर्णं च मूषायामन्धयेत् समम् ।
हठाद् ध्माते भवेत्सत्त्वं वरनागं तदुच्यते ॥ ३,१३.५६ ॥
{रसक:: सत्त्व:: पातन}
क्षाराम्लं स्नेहपित्तैश्च क्रमाद् भाव्यं दिनं दिनम् ।
पुष्पाणां रक्तपीतानां रसैर्भाव्यं दिनद्वयम् ॥ ३,१३.५७ ॥
रसकं चूर्णयेत्पश्चादूर्णा लाक्षा निशाभया ।
टंकणं शिग्रुधूमं च भूनागं सप्तमं भवेत् ॥ ३,१३.५८ ॥
एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् ।
याममेतेन कल्केन लेप्या वार्ताकमूषिका ॥ ३,१३.५९ ॥
शुष्का चार्धमुखाङ्गारैर्ध्माते सत्त्वं समाहरेत् ॥ ३,१३.६० ॥
{रसक:: सत्त्व:: पातन}
रसकस्यैकभागं तु त्रिफलामित्रपंचकम् ।
रजनीगृहधूमं च दशानामेकभागकम् ॥ ३,१३.६१ ॥
अजाक्षीरैर्दिनं मर्द्यम् अथवाम्लेन केनचित् ।
पूर्ववद् ग्राहयेत्सत्त्वं रसकात्कुटिलप्रभम् ॥ ३,१३.६२ ॥
{वैक्रान्त:: सत्त्व:: पातन}
वन्ध्याचूर्णं च वैक्रांतं छायाया मर्दयेत्समम् ।
अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद् भवेत् ॥ ३,१३.६३ ॥
{वैक्रान्त:: सत्त्व:: पातन}
मोक्षमोरटपालाशक्षारं गोमूत्रगालितम् ।
गृहीतमातपे शुष्कं वज्रकन्दं च टंकणम् ॥ ३,१३.६४ ॥
लाक्षा शिखिशिखातुल्यं वैक्रांतं सर्वतुल्यकम् ।
मेषशृंगीद्रवैर् मर्द्यम् एतत्सर्वं दिनावधि ॥ ३,१३.६५ ॥
पिण्डितं मूकमूषांतः कृत्वा धाम्यं हठाग्निना ।
तत्रैव मुञ्चते सत्त्वं वैक्रांतं रसबन्धकम् ॥ ३,१३.६६ ॥
{वैक्रान्त:: सत्त्व:: पातन}
वैक्रांतानां पलैकं तु कर्षैकं टंकणस्य च ।
रविक्षीरैर्दिनं भाव्यमथ शिग्रुद्रवैर्दिनम् ॥ ३,१३.६७ ॥
गुंजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् ।
एतेन गुलिकां कृत्वा कोष्ठीयन्त्रे धमेद् दृढम् ॥ ३,१३.६८ ॥
शंखकुन्देन्दुसंकाशं सत्त्वं वैक्रांतजं भवेत् ॥ ३,१३.६९ ॥
{वैक्रान्त:: सत्त्व:: पातन}
वैक्रांतं वज्रकंदं च समं स्नुक्पयसा समम् ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ।
पूर्ववद्धमनात् सत्त्वम् इंद्रगोपनिभं भवेत् ॥ ३,१३.७० ॥
{गैरिक:: सत्त्व:: पातन}
गैरिकं रक्तवर्गेण पीतवर्गेण भावितम् ।
सप्ताहं मर्दयेद्यामं मित्रपंचकसंयुतम् ।
तद्वटी कोष्ठिकायंत्रे सत्त्वं मुञ्चति निर्मलम् ॥ ३,१३.७१ ॥
{सौराष्ट्री:: सत्त्व:: पातन}
सिता सिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् ।
शतवारं प्रयत्नेन मित्रपंचकसंयुतम् ।
धमनान्मुञ्चते सत्त्वं क्रामकं कोष्ठियंत्रके ॥ ३,१३.७२ ॥
{सस्यक:: सत्त्व:: पातन}
सस्यकं चूर्णितं भाव्यं दिनं शशकरक्तकैः ।
स्त्रीमूत्रैर्वाथ गोमूत्रैस्तत्पादांशां निशां क्षिपेत् ।
मर्द्यं करंजतैलेन यामैकं गोलकं च तत् ॥ ३,१३.७३ ॥
अंधमूषागतं धाम्यं घटिकार्धं दृढाग्निना ।
इंद्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ ३,१३.७४ ॥
{कासीस:: सत्त्व:: पातन}
चतुर्विधं तु कासीसं रक्तं पीतं सितासितम् ।
मर्दयेत् पित्तवर्गेण तिक्तकोशातकीद्रवैः ॥ ३,१३.७५ ॥
कासमर्दद्रवैश्चैव मित्रपंचकसंयुतैः ।
तद्वटीः कोष्ठिकायंत्रे ध्माते सत्त्वं विमुञ्चति ॥ ३,१३.७६ ॥
{राजावर्त:: सत्त्व:: पातन}
राजावर्तमयः पात्रे पाचयेन्माहिषैर्घृतैः ।
पयोभिश्च दिनं पच्यान्मित्रपंचकसंयुतम् ॥ ३,१३.७७ ॥
रजन्याः पञ्चगव्येन पिण्डीबद्धं तु कारयेत् ।
खदिरांगारसंयोगात् कोष्ठ्यां सत्त्वं विमुञ्चति ॥ ३,१३.७८ ॥
{स्रोतोञ्जन:: परीक्षा}
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घर्षणे गैरिकच्छायं स्रोतोंजनमिदं भवेत् ॥ ३,१३.७९ ॥
{स्रोतोञ्जन:: सत्त्व:: पातन}
राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोंजनादपि ॥ ३,१३.८० ॥
{द्वन्द्वम्. of व्योमसत्त्व and minerals}
व्योमसत्त्वस्य चूर्णं तु यत्किंचिद्धातुचूर्णकम् ।
द्वन्द्वमेलापलिप्तायां मूषायां तद् द्वयं समम् ॥ ३,१३.८१ ॥
ध्मातव्यम् अरिवर्गेण क्षिप्ते मिलति तत्क्षणम् ॥ ३,१३.८२ ॥
{सत्त्व:: मेलापन}
विषं टङ्कणगुंजाश्च खुरं शृङ्गं च भेषजम् ।
मण्डूकवसया पिष्ट्वा मूषालेपं तु कारयेत् ॥ ३,१३.८३ ॥
तस्यां मिलति सत्त्वानि चूर्णानि विविधानि च ।
{द्वन्द्वमेल्.:: लेप for ँ}
त्रिक्षारं धातकीपुष्पं गुग्गुलुं च समं समम् ।
स्त्रीस्तन्यैः पेषितो लेपो द्वंद्वमेलापने हितः ॥ ३,१३.८४ ॥
{सर्वसत्त्वमेलापन (२)}
वर्षाभूः कदलीकंदः काकमाची पुनर्नवा ।
गुंजा नरकपालं च टंकणं पेषयेत्समम् ।
अनेन पूर्ववल्लेपाद्धेमाभ्रं मिलति क्षणात् ॥ ३,१३.८५ ॥
{मेलापन:: metals, सत्त्व and/or महारसस्}
तारं च व्योमसत्त्वं च अनेनैव तु मेलयेत् ।
लाङ्गली चमरीकेशान्कुशकार्पासयोः फलम् ॥ ३,१३.८६ ॥
भूलताम् इंद्रगोपं च पाषाणभेदिका समम् ।
नारीस्तन्येन संपेष्य मूषालेपं तु कारयेत् ॥ ३,१३.८७ ॥
सर्वलोहानि सत्त्वानि तथा चैव महारसाः ।
मिलन्ति नात्र संदेहस् तीव्रध्मानानलेन तु ॥ ३,१३.८८ ॥
{द्वन्द्वमेलापक}
विषं छुछुन्दरीमांसं टंकणं समपेषितम् ।
मूषालेपमनेनैव कृत्वा तत्र विनिक्षिपेत् ।
यत्किंचिद् द्वंद्वयोगं तु धमनेन मिलत्यलम् ॥ ३,१३.८९ ॥
{द्वन्द्वमेलापक}
कङ्गुणीतैलसम्पिष्टमपामार्गस्य भस्मकम् ।
तेन प्रलिप्तायां द्वंद्वं क्षिप्त्वा धमेद्धठात् ।
मिलत्येव न संदेहस्तत्तन्मारकवापनात् ॥ ३,१३.९० ॥
{अभ्र:: production of अभ्र-metala-compounds}
हेमाभ्रं नागताप्याभ्रं शुल्बाभ्रं गंधकेन च ।
सिन्धूत्थहिंगुलाभ्यां तु तीक्ष्णाभ्रं धमनाद् दृढम् ॥ ३,१३.९१ ॥
नागाभ्रं शिलया युक्तं वङ्गाभ्रं तालकेन च ।
ताराभ्रं बंगतालाभ्यां तालवत्सर्वसत्त्वकम् ॥ ३,१३.९२ ॥
{अभ्र:: वङ्गाभ्र}
मिलत्येव न संदेहः पूर्वमूषागतं क्षणात् ।
श्वेताभ्रकस्य सत्त्वं तु वङ्गचूर्णं समं समम् ॥ ३,१३.९३ ॥
कदलीकंदतोयेन मर्दयेट्टंकणैः सह ।
अंधमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ३,१३.९४ ॥
{अभ्र:: वङ्गाभ्र}
गुंजा नरकपालं च टंकणं वनशिग्रुकम् ।
स्त्रीस्तन्येन समं पिष्ट्वा मूषालेपं तु कारयेत् ॥ ३,१३.९५ ॥
बंगं श्वेताभ्रसत्त्वं च चूर्णितं तत्र निक्षिपेत् ।
रुद्ध्वा ध्माते मिलत्येव तारकर्मणि जारयेत् ॥ ३,१३.९६ ॥
{अभ्र:: वङ्गाभ्र}
अभ्रसत्त्वं विचूर्ण्यादौ तत्पादांशं तु टंकणम् ।
पारदं टंकणांशं च काकमाचीद्रवैर्दिनम् ॥ ३,१३.९७ ॥
पिष्ट्वा तद् गोलकं पेष्यमभ्रांशैर्वङ्गपत्रकैः ।
पूर्वमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ ३,१३.९८ ॥
{अभिषेक (१)}
सम्यगावर्तितं नागं पलैकं कांजिके क्षिपेत् ।
पलानां शतमात्रे तु शतवारं द्रुतं द्रुतम् ॥ ३,१३.९९ ॥
अनेन कांजिकेनैव शतवारं विभावयेत् ।
यत्किंचिच् चारणावस्तु ततस्तं जारयेद्रसे ।
अभिषेको ह्ययं ख्यातः कथ्यते तु मतान्तरम् ॥ ३,१३.१०० ॥
{अभिषेक (२)}
त्रिक्षारं पंचलवणं काङ्क्षीकासीसगंधकम् ।
माहिषं कांजिकैर्युक्तं ताम्रपात्रे दिनत्रयम् ॥ ३,१३.१०१ ॥
स्थितं घर्मे पुनस्तस्मिन् द्रुतं नागं विनिक्षिपेत् ।
तारकर्मणि बंगं वा शतवाराणि सेचयेत् ॥ ३,१३.१०२ ॥
तद्द्रवं ताम्रपात्रस्थम् अभिषेकं विदुर् बुधाः ।
अनेन चारणावस्तु शतवाराणि भावयेत् ॥ ३,१३.१०३ ॥
{सारणायां संकेतः}
द्वंद्वितं व्योमसत्त्वं च बीजानि विविधानि च ।
द्वंद्वितं वज्रबीजं च भावितं सारयेत्सदा ॥ ३,१३.१०४ ॥
स्वर्णादि लोहमखिलं कृतशुद्धचूर्णं योज्यं पृथग्गगनसत्त्ववरे समांशम् ।
तद्द्वंद्वितं चरति सूतवरोऽभिषिक्तं विप्रो यथा मधुरपायसमाज्ययुक्तम् ॥ ३,१३.१०५ ॥


रसरत्नाकरः, ३, १४[सम्पाद्यताम्]

सूतेन सत्त्वरचितेन च जारितेन पक्वाख्यबीजगुणसंख्यसुसारितेन ।
विज्ञाय यस्तु मतिमान् स तु वार्तिकेन्द्रश्चंद्रार्कवेधविधिना कनकं करोति ॥ ३,१४.१ ॥
{mercury चारण}
स्वर्णे नागं समावर्त्य माषमात्रं तु घर्षयेत् ।
तप्तखल्वे ततस्तस्मिन्पलमेकं रसं क्षिपेत् ॥ ३,१४.२ ॥
सिद्धमूलीद्रवं दत्त्वा मर्दयेत्कांजिकैर्दिनम् ।
घर्मे वा तप्तखल्वे वा ततो ग्रासं तु दापयेत् ॥ ३,१४.३ ॥
चतुःषष्ट्यंशकं पूर्वं द्वंद्वं सत्त्वं विभावितम् ।
दत्त्वा मर्द्यं दिनैकं तु चारणायंत्रके क्षिपेत् ॥ ३,१४.४ ॥
सजम्बीरैर्दिनं घर्मे धारितं चरति ध्रुवम् ॥ ३,१४.५ ॥
{mercury जारण}
जारणम् त्रिक्षारं पंचलवणम् अम्लवर्गे स्नुहीपयः ।
गोमूत्रैर्लोलयेत्सर्वं तेन वस्त्रं घनं लिपेत् ॥ ३,१४.६ ॥
तन्मध्ये जारितं सूतं बद्ध्वा भूर्जेन वेष्टयेत् ।
सिद्धमूल्यम्लसंयुक्तं दोलायंत्रे त्र्यहं पचेत् ॥ ३,१४.७ ॥
उद्धृत्योष्णारनालेन क्षालयेल्लोहपात्रके ।
वस्त्रपूतं ततः कृत्वा सोष्णपात्रे विमर्दयेत् ॥ ३,१४.८ ॥
हस्तेनैव भवेद्यावत् सुधौतं पारदं पुनः ।
चतुर्गुणेन वस्त्रेण क्षालयेन्निर्मलो भवेत् ॥ ३,१४.९ ॥
अजीर्णे च पुनर्मर्द्यमम्लं दत्त्वा दिनावधि ।
दोलायां स्वेदयेत्तद्वद् भवेज्जीर्णं न संशयः ॥ ३,१४.१० ॥
{mercury प्रेपरतिओन् for ग्रासन}
इष्टिका गुडदग्धोर्णा गृहधूमं च सर्जिका ।
सैंधवेन युतं सर्वं षोडशांशं रसस्य तु ॥ ३,१४.११ ॥
दत्त्वा ततोऽम्लवर्गेण घर्मे मर्द्यं दिनावधि ।
इष्टिकादम्लवर्गेण दोलायंत्रे दिनं पचेत् ।
जीर्णे जीर्णे त्विदं कुर्याद् ग्रासग्राही भवेद्रसः ॥ ३,१४.१२ ॥
{mercury जारण of बीजस्}
द्वात्रिंशांशं ततो ग्रासं दत्त्वा चार्यं च जारयेत् ।
पूर्ववत्स्वेदनान्तं च कृत्वा ग्रासं तृतीयकम् ॥ ३,१४.१३ ॥
षोडशांशं प्रदातव्यं तज्जीर्णे चाष्टमांशकम् ।
जारयेत्पूर्वयोगेन ह्येवं ग्रासचतुष्टयम् ॥ ३,१४.१४ ॥
ततः कच्छपयन्त्रेण जारयेत्तन्निगद्यते ।
ऊर्ध्वाधश्चाष्टमांशेन ग्रासे ग्रासे बिडं क्षिपेत् ॥ ३,१४.१५ ॥
चतुर्थांशं ततो ग्रासं ग्रासं देयं समं पुनः ।
जीर्णे जीर्णे समं देयमेवं जार्यं च षड्गुणम् ॥ ३,१४.१६ ॥
रागाणां ग्रहणार्थं च ग्रासे ग्रासे तु पूर्ववत् ।
इत्येवं द्वंद्वयोगानां सत्त्वानां च विशेषतः ॥ ३,१४.१७ ॥
स्वर्णादिसर्वलोहानां बीजानां जारणाहितम् ।
कर्तव्यं वक्ष्यते तत्र मात्रायुक्तिश्च पूर्ववत् ॥ ३,१४.१८ ॥
{mercury जारण of द्वन्द्वस्}
अभावे व्योमसत्त्वस्य कान्तपाषाणसत्त्वकम् ।
तीक्ष्णपाषाणसत्त्वं वा द्वंद्वितं व्योमसत्त्ववत् ॥ ३,१४.१९ ॥
जारयेत्पूर्वयोगेन सर्वेषां स्यात्फलं समम् ।
इत्येवं षड्गुणं द्वंद्वं यत्किंचिज् जारयेद्रसे ॥ ३,१४.२० ॥
{सिद्धबीज:: प्रेपरतिओन्}
जारितं सिद्धबीजेन सारयेत्तन्निगद्यते ।
ताप्यसत्त्वं घोषताम्रं शुद्धहेम समं समम् ॥ ३,१४.२१ ॥
आवर्त्य द्वंद्वलिप्तायां मूषायामन्धितं पुनः ।
समुद्धृत्य पुनर्धाम्यं मूषायां प्रकटं धमेत् ॥ ३,१४.२२ ॥
माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।
स्वर्णशेषं भवेद्यावत्तावत्पाच्यं च तत्पुनः ॥ ३,१४.२३ ॥
पूर्ववच्च धमेत्तावद्यावत्स्वर्णावशेषितम् ।
ताप्यसत्त्वेन ताम्रेण द्वंद्वमेवं पुनः पुनः ॥ ३,१४.२४ ॥
षड्वारं धमनेनैव ग्राह्यं स्वर्णावशेषितम् ।
सिद्धबीजमिदं ख्यातं दाडिमीपुष्पवद् भवेत् ॥ ३,१४.२५ ॥
अनेन सिद्धबीजेन पूर्ववत्सारणात्रयम् ।
कृत्वाथ जारयेत्तद्वज्जीर्णे बद्ध्वा मुखं तथा ॥ ३,१४.२६ ॥
बन्धनं शोधनं चैव क्रामणं चैव पूर्ववत् ।
चंद्रार्के द्राविते योज्यं सहस्रांशेन कांचनम् ॥ ३,१४.२७ ॥
{mercury जारण of sulfur}
अथातः शुद्धसूतस्य जारणे पूर्वभावितम् ।
अथ शुद्धस्य सत्त्वस्य जारयेत्पूर्वभाषितम् ।
गंधकं तु तुलायन्त्रे पश्चात्सर्वं ग्रसत्यलम् ॥ ३,१४.२८ ॥
मुखनालान्विता ऊर्ध्ववक्त्रा स्याद् द्वादशाङ्गुला ।
दृढा लोहमयी कुर्यादनया सदृशी परा ॥ ३,१४.२९ ॥
एकस्यां निक्षिपेत्सूतम् अन्यस्यां गंधकं समम् ।
एकस्या मुखमध्ये तु ह्यपरस्या मुखं क्षिपेत् ॥ ३,१४.३० ॥
लिप्त्वा मृल्लवणैः संधिं गंधकाधः पुटं लघु ।
रसस्याधो जलं स्थाप्यं गंधधूमं पिबत्यलम् ॥ ३,१४.३१ ॥
जीर्णे गंधे समुद्घाट्य तुल्यं गंधं च दापयेत् ।
इत्येवं षोडशगुणं गंधं जार्यं पुनः पुनः ॥ ३,१४.३२ ॥
जारितः सूतराजोऽयं वासनामुखितो भवेत् ॥ ३,१४.३३ ॥
{mercury वासनामुखित:: ?}
व्योमसत्त्वं ताप्यसत्त्वं शुल्बं शुद्धं समं समम् ।
आवर्त्य द्वंद्वलिप्तायां मूषायामथ चूर्णयेत् ॥ ३,१४.३४ ॥
भावयेदभिषेकेण पूर्ववत्शतवारकम् ।
पूर्ववच्चारयेदेतद्वासनामुखिते रसे ॥ ३,१४.३५ ॥
तद्वज्जार्यं प्रयत्नेन यावद् भवति षड्गुणम् ।
तत्सूते सारितं जार्यं सिद्धबीजं तु पूर्ववत् ॥ ३,१४.३६ ॥
मुखं च बंधनं कृत्वा वेधायान्तं प्रदापयेत् ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ।
सहस्रांशेन तत्सत्यं रसोऽयं कामरूपकः ॥ ३,१४.३७ ॥
{Silver => Gold}
पूर्ववत् शुद्धसूतस्य पूर्वसंस्कृतगंधकम् ।
जारयेत् षड्गुणं सम्यक् तुलायंत्रेण पूर्ववत् ॥ ३,१४.३८ ॥
तिक्तकोशातकीद्रावं लांगलीद्रावसंयुतम् ।
दापयेत्पूर्वसूतस्य खल्वे मर्द्यं दिनावधि ॥ ३,१४.३९ ॥
पादांशं पक्वबीजं च चारयित्वाथ जारयेत् ।
पूर्ववद् बिडयोगेन एवं जार्यं समक्रमात् ॥ ३,१४.४० ॥
त्रिधाथ पक्वबीजं तु सारयित्वाथ जारयेत् ।
तारे वेधं शतांशेन दापयेत्काञ्चनं भवेत् ॥ ३,१४.४१ ॥
{शतांशविधि॑ production of Gold}
तारं स्यादष्टानवतिभागाः स्वर्णस्य भागकम् ।
भागैकं वेधकं सूतं संख्येयं शतवेधके ॥ ३,१४.४२ ॥
{Gold:: production}
रसकस्य तु यत्सत्त्वं चूर्णितं वाभिषेकितम् ।
पूर्ववत् क्रमयोगेन रसे चार्यं च जारयेत् ॥ ३,१४.४३ ॥
यावद् अष्टगुणं पश्चात् समं कृष्णाभ्रसत्त्वकम् ।
चार्यं जार्यं क्रमेणैव पक्वबीजं चतुर्गुणम् ॥ ३,१४.४४ ॥
जारयेच्च पुनः सूते कच्छपाख्ये विडान्विते ।
रागग्रहणपर्यन्तं कृत्वा प्रक्षाल्य तं रसम् ॥ ३,१४.४५ ॥
उन्मत्तमुनिपत्राणि रजनी काकमाचिका ।
धान्याम्लैः पेषयेत्तुल्यं तद्द्रवैर्मर्दयेद्रसम् ॥ ३,१४.४६ ॥
सप्ताहं तप्तखल्वे तु कच्छपे तु दिनं पचेत् ।
ततो दिव्यौषधैरेव मर्दयेद्दिवसत्रयम् ॥ ३,१४.४७ ॥
तं रुद्ध्वा वज्रमूषायां त्रिदिनं तुषवह्निना ।
स्वेदितं च पुनर्मर्द्यं तद्वद्रुद्ध्वा धमेद् दृढम् ॥ ३,१४.४८ ॥
कुक्कुटाण्डनिभं बद्धं जायते चूर्णयेत्पुनः ।
ब्रह्मपुष्पद्रवमर्द्यं दिनैकं चान्धयेत्पुनः ॥ ३,१४.४९ ॥
पचेद् गजपुटेऽप्येवं देयं पुटचतुष्टयम् ।
वृश्चिकाल्या द्रवैरेवं तद्वत्पुटचतुष्टयम् ॥ ३,१४.५० ॥
कुंकुमसुरसेनैव तद्वत्पुटचतुष्टयम् ।
मातुलुङ्गरसेनैकं पुटं दत्त्वा समाहरेत् ॥ ३,१४.५१ ॥
सहस्रांशेन तेनैव तं शुल्बं तु वेधयेत् ।
शुद्धं वा द्रावितं नागं वेधं स्यात्क्रामणेन वै ।
तत्सर्वं जायते स्वर्णं देवाभरणमुत्तमम् ॥ ३,१४.५२ ॥
{बीज:: of Gold}
स्वर्णार्कं तीक्ष्णनागं च सम्यक् सस्याभ्रकस्य च ।
वैक्रांतस्य च सत्त्वं च चूर्णं कुर्यात्समं समम् ॥ ३,१४.५३ ॥
द्वन्द्वमेलापलिप्तायां मूषायामन्धितं धमेत् ।
समुद्धृत्य तु तत्खोटं मूषायां प्रकटं धमेत् ॥ ३,१४.५४ ॥
वापो माक्षिकचूर्णेन दत्ते देयः शनैः शनैः ।
यावत्स्वर्णावशेषं स्याद् अर्कायां दापयेत्पुनः ॥ ३,१४.५५ ॥
पूर्ववत्क्रमयोगेन धमेत्स्वर्णावशेषितम् ।
इत्येवं च पुनः कुर्याज्जायते स्वर्णबीजकम् ॥ ३,१४.५६ ॥
{बीज:: from Gold}
अभ्रसत्त्वायसं ताम्रं चूर्णं कृत्वा समं समम् ।
शुद्धताप्यस्य चूर्णं च ताम्रस्य द्विगुणं भवेत् ॥ ३,१४.५७ ॥
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ।
तत्खोटं सूक्ष्मचूर्णं च रुद्ध्वा गजपुटे पचेत् ॥ ३,१४.५८ ॥
एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे च वाहयेत् ।
धमेत्प्रकटमूषायां यावद्दशगुणं शनैः ॥ ३,१४.५९ ॥
ताप्यचूर्णं प्रदातव्यं किंचित्किंचित्तु वापयेत् ।
स्वर्णशेषं समुद्धृत्य स्यादिदं स्वर्णबीजकम् ॥ ३,१४.६० ॥
{चन्द्रार्क => Gold}
स्वर्णबीजं समं सूते जारयेदभ्रसत्त्ववत् ।
ततस्तेन शतांशेन मधुनाक्तेन लेपयेत् ॥ ३,१४.६१ ॥
समं चंद्रार्कपत्राणि वेष्टयेच्चार्कपत्रकैः ।
दोलायंत्रे सारनाले दशाहं पाचयेच्छनैः ॥ ३,१४.६२ ॥
उद्धृत्यावर्तयेत्तानि दिव्यं भवति कांचनम् ॥ ३,१४.६३ ॥
{बीज:: from Gold}
मृततीक्ष्णार्कभागं च ताप्यचूर्णं समम् ।
एतद्वाह्यं द्रुते स्वर्णे यावद्दशगुणं शनैः ।
स्वर्णशेषं समादाय स्यादिदं स्वर्णबीजकम् ॥ ३,१४.६४ ॥
{बीज:: from Gold}
तीक्ष्णं कांतं मृतं चैव शुल्वं तारं समं समम् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,१४.६५ ॥
तत्खोटं द्राविते स्वर्णे वाह्यं दशगुणैः शनैः ।
पूर्ववत्ताप्यचूर्णेन स्वर्णबीजमिदं परम् ॥ ३,१४.६६ ॥
{Silver => Gold}
यथेष्टं स्वर्णबीजैकं पादांशं जारयेद्रसे ।
पूर्ववत्क्रमयोगेन सत्त्वबीजेन सारयेत् ॥ ३,१४.६७ ॥
सारिते जारयेत्तद्वदनुसार्येण जारयेत् ।
प्रतिसार्य ततो जार्यं मुखं बद्ध्वा च बन्धयेत् ॥ ३,१४.६८ ॥
पञ्चांशं दशयोगेन तारे वेधं प्रदापयेत् ।
क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥ ३,१४.६९ ॥
{Silver => Gold}
नागं रसकसत्त्वं च ताम्रं भागं क्रमोत्तरम् ।
ध्मापितं वाहयेत्स्वर्णे षड्गुणं वापयेच्छनैः ॥ ३,१४.७० ॥
स्वर्णशेषं तु तज्जार्यं समांशं पारदे क्रमात् ।
यथापूर्वं मारणादिबंधनान्तं च कारयेत् ॥ ३,१४.७१ ॥
अनेन षष्टिभागेन पूर्ववत्कांचनं भवेत् ॥ ३,१४.७२ ॥
{चन्द्रार्क => स्वर्ण}
ताप्येन मारयेच्छुल्बं यथागंधेन मारितम् ।
तत्ताम्रं वाहयेन्नागे मूषामध्ये धमन् धमन् ॥ ३,१४.७३ ॥
शनैः शतगुणं यावत्ताप्यचूर्णं क्षिपन्क्षिपन् ।
तत्ताम्रं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् ॥ ३,१४.७४ ॥
स्वर्णशेषं तु तद्बीजं समांशं जारयेद्रसे ।
अनेनैव तु बीजेन सारयेज्जारयेत्पुनः ॥ ३,१४.७५ ॥
पूर्ववत् क्रमयोगेन बंधनान्तं च कारयेत् ।
क्रामणेन समायुक्तं सहस्रांशेन वेधयेत् ।
चंद्रार्कं जायते स्वर्णं देवाभरणमुत्तमम् ॥ ३,१४.७६ ॥
{Silver => Gold}
रसकाभ्रकयोः सत्त्वं ताम्रचूर्णं क्रमोत्तरम् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा ध्माते समुद्धरन् ॥ ३,१४.७७ ॥
तत्खोटांशं ताप्यचूर्णं दत्त्वा चाम्लेन मर्दयेत् ।
रुद्ध्वा लघुपुटे पच्यादेवं पञ्चपुटैः पचेत् ॥ ३,१४.७८ ॥
तच्चूर्णं वाहयेत्स्वर्णे धाम्यमाने शनैः शनैः ।
सहस्रगुणितं यावत्तद्बीजं जारयेद्रसे ॥ ३,१४.७९ ॥
यावच्छतगुणं यत्नादनेनैव तु सारयेत् ।
जारणं सारणं चैव बंधनान्तं च पूर्ववत् ॥ ३,१४.८० ॥
कृत्वाथ लक्षभागेन तारं भवति कांचनम् ॥ ३,१४.८१ ॥
{Silver => Gold}
अभ्रसत्त्वं रविं नागं क्रमवृद्ध्या विचूर्णयेत् ।
मूषायां द्वंद्वलिप्तायां रुद्ध्वा तीव्राग्निना धमेत् ॥ ३,१४.८२ ॥
तत्समं ताप्यचूर्णं तु सर्वमम्लेन मर्दयेत् ।
रुद्ध्वा पञ्चपुटैः पच्यात् तच्चूर्णं वाहयेद् द्रुतम् ॥ ३,१४.८३ ॥
स्वर्णे शतं यावत्तावत्स्वर्णं च जारयेत् ।
युक्त्या शतगुणं यावत्त्रिधानेनैव सारयेत् ॥ ३,१४.८४ ॥
सारिते जारणं कुर्याद् बंधनान्तं च पूर्ववत् ।
अयुतांशेन तेनैव तारं भवति कांचनम् ॥ ३,१४.८५ ॥
{चन्द्रार्क => Gold}
अथवा पूर्वचूर्णं तु सहस्रगुणितं द्रुते ।
स्वर्णे वाह्यं क्रमेणैव तद्बीजं जारयेद्रसे ॥ ३,१४.८६ ॥
सहस्रगुणितं यावत् त्रिधा तेनैव सारयेत् ।
सारितं जारयेत्पश्चात् पुनः सार्यं च जारयेत् ॥ ३,१४.८७ ॥
सप्तशृङ्खलिकायोगात्सारितं जारयेद् बुधः ।
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥ ३,१४.८८ ॥
{copper => Silver}
विमला तालकं तीक्ष्णं भागवृद्ध्या विचूर्णयेत् ।
मूषायां द्वंद्वलिप्तायां तत्खोटं सुविचूर्णयेत् ॥ ३,१४.८९ ॥
अम्लैर्मर्द्यं पुटे पच्यादित्येवं पंचधा पुटेत् ।
तारे दशगुणं वाह्यं तालचूर्णं क्षिपन्क्षिपन् ॥ ३,१४.९० ॥
एतद् बीजं समं सूते जारयेत् पूर्ववत् क्रमात् ।
ततस्तु तारबीजेन सारयेत्सारणात्रयम् ॥ ३,१४.९१ ॥
तेनैव तु शतांशेन द्रुतं ताम्रं तु वेधयेत् ।
शंखकुंदेन्दुसंकाशं तारं भवति शोभनम् ॥ ३,१४.९२ ॥
{copper => Silver}
मृतबंगं तालसत्त्वं समं चूर्णं प्रकल्पयेत् ।
द्विरष्टगुणितं तारे वाहयेत्तं धमन् धमन् ॥ ३,१४.९३ ॥
तद्बीजं जारयेत्सूते यावद्दशगुणं क्रमात् ।
ततस्तं तारबीजेन सारयेत्सारणात्रयम् ॥ ३,१४.९४ ॥
सहस्रांशेन चानेन ताम्रवेधं प्रदापयेत् ।
तत्ताम्रं जायते तारं शंखकुंदेन्दुसन्निभम् ॥ ३,१४.९५ ॥
{mercury शतवेधिन्}
श्वेताभ्रतालयोः सत्त्वं रसकस्य च सत्त्वकम् ।
चतुर्थं तारमाक्षीकं समं चूर्णं प्रकल्पयेत् ॥ ३,१४.९६ ॥
चूर्णतुल्यं बंगचूर्णं सर्वमेकत्र तं धमेत् ।
द्वंद्वमेलापलिप्तायां जातं खोटं विचूर्णयेत् ॥ ३,१४.९७ ॥
अम्लपिष्टं पुटे पच्यादित्येवं पंचधा पुटेत् ।
तच्चूर्णं वाहयेत्तारे यावद्दशगुणं धमेत् ॥ ३,१४.९८ ॥
तत्तारं रसराजस्य समं जार्यं क्रमेण वै ।
पूर्ववच्च त्रिधा सार्यं शतवेधी भवेद्रसः ॥ ३,१४.९९ ॥
{copper => Silver}
एवं सत्त्वाभ्रसत्त्वं च चूर्णं द्वंद्वं च पूर्ववत् ।
पादांशं तालकं दत्त्वा अम्लैः पिष्ट्वा निरुध्य च ॥ ३,१४.१०० ॥
पचेत्पञ्चपुटैरेवं तारे वाह्यं द्विषड्गुणम् ।
एतद्बीजं समं जार्यं प्रत्येकं दशभागकम् ॥ ३,१४.१०१ ॥
बंगं श्वेताभ्रसत्त्वं च प्रत्येकं दशभागकम् ।
ताराख्या विमला तीक्ष्णं प्रत्येकं पञ्चभागिकम् ॥ ३,१४.१०२ ॥
द्वंद्वमेलापलिप्तायां मूषायां तं धमेद् दृढम् ।
अम्लपिष्टं पुटे पाच्यं पञ्चवारं पुनः पुनः ॥ ३,१४.१०३ ॥
तद्वाह्यं तारभागस्य तारचूर्णं क्षिपन् क्षिपन् ।
तद्बीजं रसराजस्य जार्यं शतगुणं क्रमात् ॥ ३,१४.१०४ ॥
सारयेत्तारबीजेन विधिना सारणात्रयम् ।
अनेनैवायुतांशेन द्रुतं ताम्रं तु वेधयेत् ।
जायते रजतं दिव्यं शंखकुन्देन्दुसन्निभम् ॥ ३,१४.१०५ ॥
इत्थं रसे कनकबीजमनन्तयोगैः कृत्वा भिषक् तमखिलं विधिवच्च जार्यम् ।
तेनैव हेमनिचयं रजतं च कृत्वा दारिद्र्यदाहमखिलेषु जनेषु कुर्यात् ॥ ३,१४.१०६ ॥


रसरत्नाकरः, ३, १५[सम्पाद्यताम्]

गर्भयोग्यमथ बीजसाधनमनेकयोगतो रञ्जने हितम् ।
जारितस्य नरपारदस्य वै तत्समस्तमधुना निगद्यते ॥ ३,१५.१ ॥
{बीज:: प्रेपरतिओन्}
गंधकं माक्षिकं नागं सर्वं तुल्यं विचूर्णयेत् ।
त्रिगुणं वाहयेत्स्वर्णं द्रावितं तु धमन् धमन् ॥ ३,१५.२ ॥
पूतिबीजमिदं स्थूलं गर्भे द्रवति तत्क्षणात् ॥ ३,१५.३ ॥
{बीज:: प्रेपरतिओन्}
नागं स्वर्णं समं ताप्यं शिलाचूर्णं क्षिपन् क्षिपन् ।
जीर्णे नागे पुनर्देयम् एवं वारत्रयं शनैः ।
एतद् बीजं द्रवत्येव रसगर्भे तु मर्दनात् ॥ ३,१५.४ ॥
{बीजसाधनम् (३)}
ताप्यसत्त्वं सुवर्णं च धमेत्ताप्यं क्षिपन्क्षिपन् ।
इत्येवं त्रिगुणं वाह्यं ताप्यसत्त्वं च हाटके ।
तद्बीजं रसराजस्य गर्भे द्रवति तत्क्षणम् ॥ ३,१५.५ ॥
{बीजसाधन (४)}
ताप्यसत्त्वं सुवर्णं च समांशं द्रावयेत्ततः ।
कण्टवेधीकृतं पत्रं गंधेन लवणेन च ॥ ३,१५.६ ॥
क्षिप्त्वा साम्लेन तत्पच्यात्पुटे हेमावशेषितम् ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ ३,१५.७ ॥
{बीजसाधन (५)}
सैन्धवेन समं ताप्यमम्लैर्मर्द्यं पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्द्वादशवारकम् ॥ ३,१५.८ ॥
अस्य तुल्यं मृतं नागं सर्वमम्लेन पेषयेत् ।
अनेन स्वर्णपत्राणि लिप्त्वा लिप्त्वा धमेद् दृढम् ॥ ३,१५.९ ॥
द्रुतं च वापयेत्तं तु सप्तवारं पुनः पुनः ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥ ३,१५.१० ॥
{बीजसाधन (६)}
शिला सौवर्चलं ताप्यगंधकासीसटंकणम् ।
मर्दयेच्चणकाम्लैश्च सर्वमेतद्दिनावधि ॥ ३,१५.११ ॥
रसस्यैतत् षोडशांशं दत्त्वा बीजं च दापयेत् ।
मुच्यते यत्र यत्रैव तत्तद् द्रवति तत्क्षणात् ॥ ३,१५.१२ ॥
{mercury ग्रास of अ बीज}
अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ।
टंकणं च यवक्षारं कासीसं च सुवर्चलम् ॥ ३,१५.१३ ॥
सामुद्रं सैंधवं राजी माक्षिकं नवसारकम् ।
कर्पूरं कांजिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ॥ ३,१५.१४ ॥
मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ।
लेपमङ्गुलमानेन मूषायन्त्रमिदं भवेत् ॥ ३,१५.१५ ॥
गर्भद्रावितबीजात्तु सूतमत्र विनिक्षिपेत् ।
रुद्ध्वा स्वेद्यं दिनैकं तु कारीषाग्नौ ग्रसत्यलम् ॥ ३,१५.१६ ॥
{मेर्चुर्य् (?):: रञ्जन (?)}
ताप्यसत्त्वाभ्रयोः सत्त्वं द्वंद्वितं द्रावयेत्पुनः ।
मृतशुल्बं ताप्यचूर्णं तस्मिन्वाह्यं शनैः शनैः ॥ ३,१५.१७ ॥
त्रिगुणे वाहिते तस्मिन् रञ्जितं वाहितं तु तत् ॥ ३,१५.१८ ॥
{mercury रञ्जन (of ँ)}
गोमूत्रै रक्तवर्गं तु पिष्ट्वा तेनैव भावयेत् ।
हिङ्गुलं माक्षिकं गंधं शिलाचूर्णं समं समम् ॥ ३,१५.१९ ॥
भावितं सप्तवाराणि शोष्यं पेष्यं पुनः पुनः ।
तीक्ष्णं ताम्रं समं चूर्ण्य पूर्ववद् द्वंद्वमेलितम् ॥ ३,१५.२० ॥
तस्मिन् द्रुतं पूर्वचूर्णं वापयित्वाथ सेचयेत् ।
रक्तवर्गसमायुक्ते तैले ज्योतिष्मतीभवे ।
इत्येवं दशधा कुर्यात्स्यादिदं रसरञ्जकम् ॥ ३,१५.२१ ॥
{रसरञ्जकम् (३)}
रक्तवर्गेण गोमूत्रैर्भावयेद्दरदं त्रिधा ।
समांशे विमले ताम्रे द्राविते वाहयेद्धमन् ।
सप्तधा दरदं तं तु स्यादिदं रसरञ्जकम् ॥ ३,१५.२२ ॥
{रसरञ्जकम् (४)}
स्वर्णनागं व्योमसत्त्वं समांशं द्वंद्वमेलितम् ।
शिला गैरिकं माक्षीकं रसकं रक्तवर्गकम् ॥ ३,१५.२३ ॥
समांशं चूर्णयेत्सर्वं वापो देयो ह्यनेन वै ।
पूर्वद्वंद्वितखोटस्य द्रावितस्य पुनः पुनः ॥ ३,१५.२४ ॥
दशवारं कृते वापे रञ्जकोऽयं रसस्य च ॥ ३,१५.२५ ॥
{Lead => Gold}
यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।
विंशवारं प्रयत्नेन तेन कल्केन लेपयेत् ॥ ३,१५.२६ ॥
नागपत्रं पुटे पच्याद् यावच्चूर्णमुपागतम् ।
रसकस्य तु भागांस्त्रीन्भागैकं दरदस्य च ॥ ३,१५.२७ ॥
शिलागंधविषाणां च त्रयाणामेकभागकम् ।
पेषयेन्मातुलुंगाम्लैस्तेन कल्केन लेपयेत् ॥ ३,१५.२८ ॥
मूषागर्भे क्षिपेत्तत्र पूर्वनागं क्षिपेत्ततः ।
द्रुतं यावत्समुद्धृत्य लिप्त्वा मूषां पुनर्धमेत् ॥ ३,१५.२९ ॥
इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।
{तारारिष्ट, Lead, copper => Gold}
पीताभ्रकस्य सत्त्वं तु पूर्वनागं च तत्समम् ॥ ३,१५.३० ॥
द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।
समुखे सूतराजे तु पूर्ववत् षड्गुणं क्रमात् ॥ ३,१५.३१ ॥
ततस्तस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ।
पादांशं दापयेत्खल्वे मातुलुंगद्रवैः सह ॥ ३,१५.३२ ॥
मर्दयेच्चणकाम्लैर्वा गर्भद्रावणकेन वा ।
द्रवत्येव तु तद्गर्भे मूषायन्त्रेऽथ जारयेत् ॥ ३,१५.३३ ॥
इत्येवं द्रावितं जार्यं यावद् बीजसमं रसे ।
सारणादित्रयेणान्तं पूर्ववत्कारयेत् क्रमात् ॥ ३,१५.३४ ॥
तारारिष्टमहिं शुल्बं यथेष्टैकं तु वेधयेत् ।
सहस्रांशेन तेनैव दिव्यं भवति कांचनम् ॥ ३,१५.३५ ॥
{चन्द्रार्क => Gold}
स्वर्णेन द्वंद्वितं वज्रं पूर्ववच्चाभिषेकितम् ।
जारयेत्समुखे सूते समांशम् अभ्रसत्त्ववत् ॥ ३,१५.३६ ॥
जारितं जारयेत्तेन स्वर्णवज्रेण वै त्रिधा ।
मुखं बद्ध्वा रसं बद्ध्वा क्रामणेन तु योजयेत् ।
चंद्रार्के तु सहस्रांशं दिव्यं भवति कांचनम् ॥ ३,१५.३७ ॥
{गन्धनागद्रुतिः}
वृषस्य मूत्रमादाय गजस्य महिषस्य वा ।
तन्मध्ये सूतनागं तु द्रावितं सप्तधा क्षिपेत् ॥ ३,१५.३८ ॥
ततस्तस्यैव पत्राणि कण्टवेध्यानि कारयेत् ।
गंधकं चूर्णितं शुद्धं पत्राणां तु चतुर्गुणम् ॥ ३,१५.३९ ॥
अलक्तकेन संसिक्तं कार्पासपत्रवत्कृतम् ।
तस्य शुष्कस्य पृष्ठे तु नररोमाणि दापयेत् ॥ ३,१५.४० ॥
तत्पृष्ठे चूर्णितं गंधं ततो नागदलानि च ।
गंधकं नररोमाणि तत्कार्पासं च पृष्ठतः ॥ ३,१५.४१ ॥
अनेन कारयेद्वर्तिं बहिः सूत्रेण वेष्टयेत् ।
करंजतैलमध्ये तु दशरात्रं तु धारयेत् ॥ ३,१५.४२ ॥
प्रज्वाल्य चोभयाग्रे तु द्रुतं तैलं समाहरेत् ।
भाण्डे सकांजिके चैव तस्मादुद्धृत्य रक्षयेत् ।
काचकूप्यां प्रयत्नेन गन्धनागद्रुतिस्त्वियम् ॥ ३,१५.४३ ॥
{mercury प्रेपरतिओन् for जारण}
शुद्धसूतं दृढं मर्द्यं रजनीचूर्णसंयुतम् ।
चूर्णं यावद् भवेत्कृष्णं क्षालयेदुष्णकांजिकैः ॥ ३,१५.४४ ॥
एवं त्रिसप्तधा कुर्यात्ततो जारणमारभेत् ।
{mercury गर्भद्रुति}
अम्लैर्मनःशिलां पिष्ट्वा तेन लेपं तु कारयेत् ॥ ३,१५.४५ ॥
गोस्तनाकारमूषायामस्यां पूर्वरसं क्षिपेत् ।
चतुःषष्ट्यंशतः पूर्वा देया गंधद्रुतिः क्रमात् ॥ ३,१५.४६ ॥
रुद्ध्वा मूषां विशोष्याथ गर्ते गोमयपूरिते ।
मूषार्धं विन्यसेत्तत्र करीषतुषवह्निना ॥ ३,१५.४७ ॥
कपोताख्यं पुटं देयं स्वांगशीतं समुद्धरेत् ।
दद्याद् अजीर्णशङ्कायां सिंहवल्लीरसस्य तु ॥ ३,१५.४८ ॥
चतुर्बिन्दुप्रमाणं तु तद्वद्गर्ते पुटे पचेत् ।
एवं पुनः पुनर्जार्यं गन्धनागद्रुतिः क्रमात् ॥ ३,१५.४९ ॥
त्रिगुणं जारितः सूतो भवेज्जांबूनदप्रभः ।
अस्य सूतस्य पादांशं पक्वबीजं सुचूर्णितम् ।
मर्दयेच्चणकाम्लेन यामाद् गर्भे द्रवत्यलम् ॥ ३,१५.५० ॥
{Gold:: द्रावण}
मूषायन्त्रगतं द्राव्यं पूर्ववत् स्वेदनेन वै ।
जीर्णे बीजं पुनर्दत्त्वा द्राव्यं गर्भेऽथ जारयेत् ॥ ३,१५.५१ ॥
एवं बीजं समं जार्यं पक्वं वा रञ्जने क्रमात् ।
गर्भं द्रावणबीजं वा यथेष्टैकं तु जारयेत् ॥ ३,१५.५२ ॥
ततस्तु त्रिगुणं रीतिस्तारं वाह्यं धमन् धमन् ।
तारारिष्टं भवेत्तत्तु कृत्वा पत्रं प्रलेपयेत् ॥ ३,१५.५३ ॥
सक्षौद्रं पूर्वसूतेन द्वात्रिंशांशेन तत्पुनः ।
वेष्ट्यमर्कदलैः पच्याद्दोलायंत्रे सकांजिकैः ॥ ३,१५.५४ ॥
दशाहान्ते समुद्धृत्य द्रावितं कांचनं भवेत् ॥ ३,१५.५५ ॥
{mercury जारण wइथ् अभ्रसत्त्व}
समुखे निर्मुखे वाथ रसराजे तु जारयेत् ।
पूर्ववद्व्योमचूर्णं तु चारितं जारयेत् क्रमात् ॥ ३,१५.५६ ॥
चतुःषष्टिगुणं यावत्ततः सार्यं च जारयेत् ।
चारयेज्जारयेत्तद्वत् यावत् षष्टिगुणं भवेत् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ ३,१५.५७ ॥
{mercury गर्भद्रुति}
महारसैश्चोपरसैर्यत्किंचित्सत्वमाहरेत् ।
तन्मध्यगं तु पादांशं सूते दत्त्वा विमर्दयेत् ॥ ३,१५.५८ ॥
तप्तखल्वे चतुर्यामं गर्भद्रावकसंयुतम् ।
तत्तत्सर्वं द्रवत्येव मूषायन्त्रेऽथ जारयेत् ॥ ३,१५.५९ ॥
इत्येवं सर्वसत्वानि द्रावयोगाच्च जारयेत् ।
{mercury गर्भद्रुति, जारण}
रञ्जितं पक्वबीजं च शुद्धं ताम्रं च हाटकम् ॥ ३,१५.६० ॥
गर्भद्रावणबीजं च मृततीक्ष्णं समं समम् ।
सर्वं च मर्दितं खोटं कृत्वा धाम्यं पुनः पुनः ॥ ३,१५.६१ ॥
क्षिपेन्माक्षिकचूर्णं च ताम्रे तीक्ष्णे क्षयं गते ।
समुद्धृत्य तु तद् बीजं पादांशं पूर्वपारदे ॥ ३,१५.६२ ॥
पूर्ववद् द्रावयेद् गर्भे मूषायन्त्रेऽथ जारयेत् ।
द्वात्रिंशद्गुणितं बीजं क्रमेणानेन जारयेत् ।
जीर्णे गर्भे द्रुतं सूतं रञ्जयेत्तन्निगद्यते ॥ ३,१५.६३ ॥
{mercury जारण}
गंधेन यन्मृतं नागं पक्वबीजस्य साधनम् ।
तन्नागं हेमसंतुल्यमंधमूषागतं धमेत् ॥ ३,१५.६४ ॥
तच्चूर्णमभिषिक्तं च पादांशं दापयेद्रसे ।
मर्दयेदम्लवर्गेण गर्भद्रावणकेन वा ॥ ३,१५.६५ ॥
तप्तखल्वे चतुर्यामं मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन जारयेत्तं कलागुणम् ॥ ३,१५.६६ ॥
{copper => Gold}
मृतं शुल्बं मृतं तीक्ष्णं स्वर्णे वाह्यं तु षड्गुणम् ।
एतद् बीजं ततो जार्यं क्रमाद् यावच्चतुर्गुणम् ॥ ३,१५.६७ ॥
पूर्ववद् द्रावितं खल्वे मूषायन्त्रे च पूर्ववत् ।
बद्धरागस्तदा सूतो जायते कुंकुमप्रभः ॥ ३,१५.६८ ॥
इत्येवं रञ्जनं सूते कृत्वा सार्यं त्रिधा क्रमात् ।
सारितं जारयेन्मूत्रे मूषायन्त्रे पुटन्पुटन् ॥ ३,१५.६९ ॥
जारितं सारयेत्पश्चात्सारितं चैव जारयेत् ।
अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥ ३,१५.७० ॥
ततस्तस्य मुखं बद्ध्वा पूर्ववद् बन्धयेच्च तम् ।
क्रामणेन समायुक्तं कोटिभागेन वेधयेत् ।
द्रुतं ताम्रं तु तद्दिव्यं भवेत्स्वर्णं न संशयः ॥ ३,१५.७१ ॥
{Silver => Gold}
हिंगुलोत्थितसूतं च भूनागैर्मर्दयेत् त्र्यहम् ।
तप्तखल्वे ततः पात्यम् ऊर्ध्वलग्नं समाहरेत् ॥ ३,१५.७२ ॥
पादांशं जारयेत्तस्य द्वंद्वितं व्योमसत्त्वकम् ।
ततो माक्षिकसत्वं च पादांशं तत्र जारयेत् ॥ ३,१५.७३ ॥
पूर्ववद् द्वंद्वयोगेन मात्रापाकं च पूर्ववत् ।
महारसैश्चोपरसैर्यत्सत्त्वं पातितं पुरा ॥ ३,१५.७४ ॥
तत्सत्त्वं च पृथक्पादं सूते दत्त्वा विमर्दयेत् ।
तप्तखल्वे दिनैकं तु गर्भद्रावणसंयुतम् ॥ ३,१५.७५ ॥
द्रवत्येव ततो जार्यं मूषायन्त्रं तु पूर्ववत् ।
जीर्णे जीर्णे पुनर्देयं प्रतिसत्त्वं क्रमेण वै ॥ ३,१५.७६ ॥
ततस्तथैव पादांशं गर्भद्रावणबीजकम् ।
पूर्ववद् द्रावितं जार्यं क्रमेणानेन षड्गुणम् ॥ ३,१५.७७ ॥
सारणादिक्रामणान्तं तारे वेधं प्रदापयेत् ।
सहस्रांशेन तत्स्वर्णं भवेज्जांबूनदप्रभम् ॥ ३,१५.७८ ॥
{mercury जारण of sulfur}
शाकवृक्षस्य पत्राणां कोमलानां द्रवं हरेत् ।
द्रवं च ब्रह्मपुष्पाणां विष्णुक्रान्ताद्रवं तथा ॥ ३,१५.७९ ॥
द्रवैरेभिः शुद्धगंधं भावयेद्दिनसप्तकम् ।
इष्टिकागर्भमध्ये तु सुशुद्धं पारदं क्षिपेत् ॥ ३,१५.८० ॥
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं पूर्वगंधं तु दत्त्वा श्रावेण रोधयेत् ॥ ३,१५.८१ ॥
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
तद्वज्जार्यं पुटेनैव पुनर्देयं च गंधकम् ॥ ३,१५.८२ ॥
एवं जार्यं समं गंधं ततो यंत्रात्समुद्धरेत् ।
अथवा गंधतुल्यं तु जार्यं तेन रसस्य तु ॥ ३,१५.८३ ॥
जारयेत्पूर्वयोगेन काचकूप्यन्तरेऽपि वा ॥ ३,१५.८४ ॥
{copper, Lead => Gold}
अस्यैव रसराजस्य समांशं व्योमसत्त्वकम् ।
द्वंद्वितं पूर्ववज्जार्यं मात्रायुक्तिश्च पूर्ववत् ॥ ३,१५.८५ ॥
ततो रसकसत्वं च जार्यम् अष्टगुणं रसे ।
तीक्ष्णशुल्बोरगं चैव क्रमाद् अष्टगुणं रसे ॥ ३,१५.८६ ॥
प्रत्येकं जारयेद्यत्नादभिषिक्तं तु पूर्ववत् ।
पक्वबीजं ततो जार्यं द्वात्रिंशद्गुणितं क्रमात् ॥ ३,१५.८७ ॥
अथास्य रसराजस्य गर्भद्रावणबीजकम् ।
तप्तखल्वे समं दत्त्वा गर्भद्रावकसंयुतम् ॥ ३,१५.८८ ॥
मर्दयेद्दिनमेकं तु गर्भे द्रवति तद् द्रुतम् ।
मूषायन्त्रे ततो जार्यं पूर्ववत्स्वेदनेन वै ॥ ३,१५.८९ ॥
तज्जीर्णे रंजकं बीजं तुल्यं दत्त्वाथ पूर्ववत् ।
द्रावयेत् द्रवगर्भे तु तद्वज्जार्यं क्रमेण वै ॥ ३,१५.९० ॥
यावच्चतुर्गुणं यत्नाद् द्रुतं गर्भेऽथ जारयेत् ।
अनेन क्रमयोगेन भवेल्लाक्षानिभो रसः ॥ ३,१५.९१ ॥
ततस्तं पक्वबीजेन सारितं जारयेत् क्रमात् ।
प्रतिसारणकं कुर्याज्जारयेच्चाथ सारयेत् ॥ ३,१५.९२ ॥
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं शुल्बे वेधं प्रदापयेत् ॥ ३,१५.९३ ॥
नागे वा कोटिभागेन दिव्यं भवति कांचनम् ॥ ३,१५.९४ ॥
{रसबीज}
तिन्तिणीब्रह्ममाण्डूकीद्रवैर्धान्याभ्रकं क्रमात् ।
मर्दयेत् त्रिदिनं चाथ भावयेत् तिंतिणीद्रवैः ॥ ३,१५.९५ ॥
घर्मे दिनत्रयं यावत् शोष्यं पेष्यं पुनः पुनः ।
मृत्खर्परे शुद्धसूतं क्षिप्त्वा सोष्णं तु कारयेत् ॥ ३,१५.९६ ॥
गंधकं त्रुटिमात्रं तु पूर्वाभ्रं त्रुटिमात्रकम् ।
दत्त्वा दत्त्वा च मृद्वग्नौ पचेत्स्यादभ्रपिष्टिका ॥ ३,१५.९७ ॥
एकवीरारसैर्भाव्यं गंधं घर्मे त्रिसप्तधा ।
तं गंधकं स्निग्धभाण्डे द्राव्य मृद्वग्निना क्षिपेत् ॥ ३,१५.९८ ॥
तन्मध्ये पूर्वपिष्टिं तु दोलायंत्रे विधौ पचेत् ।
षड्गुणं जारयेदेवं गंधकं मृदुवह्निना ॥ ३,१५.९९ ॥
तद्रसं भागमेकं तु पक्वबीजस्य षोडश ।
भागाः सुरञ्जितस्यैव चूर्णीकृत्वाथ द्वंद्वयेत् ॥ ३,१५.१०० ॥
पूर्ववद् द्वंद्वलिप्तायां मूषायां धमनेन च ।
रसबीजमिदं ख्यातं चूर्णितं चाभिषेचयेत् ॥ ३,१५.१०१ ॥
{mercury जारण:: wइथ् रसबीज}
अथातः शुद्धसूतस्य काचकूप्यां गतस्य च ।
पूर्ववद् भावितं गंधं जार्यं तस्यैव षड्गुणम् ॥ ३,१५.१०२ ॥
जारयेद्वा तुलायंत्रे गौरीयंत्रक्रमेण वै ।
तस्यैव रसराजस्य पादांशं रसबीजकम् ॥ ३,१५.१०३ ॥
पूर्ववद् द्रावयेद् गर्भे मूषायन्त्रेऽथ जारयेत् ।
अनेन क्रमयोगेन द्राव्यं जार्यं पुनः पुनः ।
द्विरष्टगुणितं यावद् रसबीजं रसस्य वै ॥ ३,१५.१०४ ॥
{Silver => Gold}
भागद्वयं शुद्धतारं भागैकं शुद्धहाटकम् ।
समावर्त्य तु तत्पत्रं कृत्वा पूर्वरसेन वै ॥ ३,१५.१०५ ॥
लेपयेन्मधुनाक्तेन सहस्रांशेन तत्पुनः ।
वेष्टयेदर्कजैः पत्रैर्दोलायंत्रे सकांजिके ॥ ३,१५.१०६ ॥
दशाहं पाचितं द्राव्यं दिव्यं भवति कांचनम् ॥ ३,१५.१०७ ॥
{mercury कोटिवेधिन्}
सुशुद्धं नागचूर्णं तु पूर्ववच्चाभिषेकितम् ।
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ॥ ३,१५.१०८ ॥
षट्त्रिंशगुणितं यावत्तावज्जार्यं क्रमेण वै ।
गर्भद्रावणबीजं च पूर्ववद् द्रावितं क्रमात् ॥ ३,१५.१०९ ॥
जारयेत्त्रिगुणं तस्य बीजं यद्रंजकं पुनः ।
समं जार्यं पुनः जार्यं पक्वबीजेन वै क्रमात् ॥ ३,१५.११० ॥
सप्तशृंखलिकायोगान्मुखं रुद्ध्वाथ बन्धयेत् ।
क्रामणेन समायुक्तं कोटिवेधी भवेद्रसः ॥ ३,१५.१११ ॥
{copper => Silver}
नागवज्जारयेद् बंगं षट्त्रिंशगुणितं क्रमात् ।
पूर्ववद्द्रावितं गर्भे तारबीजं तु जारयेत् ॥ ३,१५.११२ ॥
त्रिगुणं तु भवेद्यावत्ततस्तेनैव सारयेत् ।
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१५.११३ ॥
क्रामणेन समायुक्तं ताम्रे वेधं प्रदापयेत् ।
कोटिभागेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,१५.११४ ॥
{Silver, copper, Lead => Gold}
समुखे निर्मुखे वाथ सूतराजे तु जारयेत् ।
द्वंद्वितं व्योमसत्वं तु यावद् अष्टगुणं तथा ॥ ३,१५.११५ ॥
ततो रसकसत्वं च जार्यम् अष्टगुणं तथा ।
पक्वबीजं समांशं च जारयेदभ्रसत्ववत् ॥ ३,१५.११६ ॥
स्वर्णेन द्वंद्वितं वज्रं समांशेन तु जारयेत् ।
पूर्ववत्कच्छपे यन्त्रे बिडयोगेन वै तथा ॥ ३,१५.११७ ॥
गर्भद्रावणबीजं च पादांशं तप्तखल्वके ।
मर्दयेन्मातुलिंगाम्लैर्गर्भे द्रवति तत्क्षणात् ॥ ३,१५.११८ ॥
गर्भद्रावणयोगं वा दत्त्वा द्रवति मर्दनात् ।
मूषायन्त्रेण तत्सूतं पचेत्कारीषवह्निना ॥ ३,१५.११९ ॥
जीर्णे बीजं पुनर्द्राव्यं जारयेद् द्रावयेत्पुनः ।
एवं चतुर्गुणं जार्यं गर्भे द्रावणबीजकम् ॥ ३,१५.१२० ॥
ततस्तु रंजकं बीजं तद्वज्जार्यं समं क्रमात् ।
सारणादिक्रामणान्तं पूर्ववत्कारयेत् क्रमात् ॥ ३,१५.१२१ ॥
तारे ताम्रे भुजंगे वा कोटिभागेन योजयेत् ।
करोति कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,१५.१२२ ॥
{mercury धूमवेधिन्॑ copper => Gold}
समुखे सूतराजेन्द्रे जारयेदभ्रसत्ववत् ।
स्वर्णादिमुण्डपर्यन्तम् अष्टलोहं पृथक् क्रमात् ॥ ३,१५.१२३ ॥
प्रत्येकमष्टगुणितम् अभिषेकं च पूर्ववत् ।
अभ्रादिसत्वं यत्सर्वं प्रत्येकं त्रिगुणं क्रमात् ॥ ३,१५.१२४ ॥
पृथग्जार्यं कूर्मयन्त्रे बिडयोगेन पूर्ववत् ।
ततस्तु पादपादांशं गर्भद्रावणबीजकम् ॥ ३,१५.१२५ ॥
पूर्ववद्द्रावितं जार्यं त्रिगुणं तु यदा भवेत् ।
ततस्तु पक्वबीजेन सारयेज्जारयेत्त्रिधा ॥ ३,१५.१२६ ॥
इत्येवं सप्तधा कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।
धूमावलोकवेधी स्यात्ताम्रं भवति कांचनम् ॥ ३,१५.१२७ ॥
एवं चारणजारणं बहुविधं कृत्वा रसे संक्रमं गर्भे द्रावणबीजकं च विधिना गर्भद्रुतं कारयेत् ।
जीर्णे रंजनसारणामुखमथो बद्ध्वाथ बद्ध्वा रसं कुर्यात्कांचनमभ्रमेरुसदृशं दानाय भोगाय वै ॥ ३,१५.१२८ ॥


रसरत्नाकरः, ३, १६[सम्पाद्यताम्]

यासां छेदेन रक्तं प्रवहति सततं प्रायशो रक्तभूमौ ।
संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तेषु सत्त्वम् ।
तद्युक्त्या पारदेन्द्रे चरति यदि समं सारणाकर्मयोगैर्बद्धोऽयं कोटिवेधी समरविरजते योजयेद् भास्करे वा ॥ ३,१६.१ ॥
{भूनागसत्त्व (१)}
भूलता कांतपाषाणं चूर्णं कृत्वा समं समम् ।
तत्सत्वमभ्रवद् ग्राह्यं तत्रत्यैरौषधैः सह ॥ ३,१६.२ ॥
{भूनागसत्त्व (२)}
सौवीरं कांतपाषाणं तीक्ष्णं पाषाणचूर्णकम् ।
एतेषां तुल्यभूनागचूर्णमेकत्र कल्पयेत् ॥ ३,१६.३ ॥
अभ्रवद् ग्राहयेत्सत्वं तत्रत्यैरौषधैर्धमन् ॥ ३,१६.४ ॥
{भूनागसत्त्व (३)}
कांतपाषाणसौवीरचूर्णं स्याद्भूलतासमम् ।
अभ्रवद्ग्राहयेत्सत्वं रसराजस्य बन्धकम् ॥ ३,१६.५ ॥
{भूनागसत्त्व (४)}
सौवीरकांततीक्ष्णानां चूर्णं भूनागमृत्समम् ।
धार्यं भाण्डे क्षिपेत्तस्मिन् सजीवा भूलता पुनः ॥ ३,१६.६ ॥
उदकैः सेचयेन्नित्यं यावत्तद्भक्षयन्ति वै ।
तत्सत्त्वम् अभ्रवत्पिण्डं बद्ध्वा सत्वं समाहरेत् ॥ ३,१६.७ ॥
{भूनागसत्त्व (५)}
कांतपाषाणचूर्णं तु भूलताचूर्णसंयुतम् ।
अजामूत्रैस् त्रिसप्ताहं भावयेदातपे खरे ।
तत्पिण्डं धारयेत्कोष्ठ्यां सत्वं ग्राह्यं सुशोभनम् ॥ ३,१६.८ ॥
{भूनागसत्त्व (६)}
गोमूत्रं रजनी राजी लवणं कल्कयेत्समम् ।
तेन सिञ्च्यात्तु भूनागं खरे घर्मे द्रवत्यलम् ॥ ३,१६.९ ॥
कंकुष्ठं तद्द्रवं तुल्यं कृत्वा सत्वं समाहरेत् ।
व्योमवत्क्रमयोगेन रसबन्धकरं भवेत् ॥ ३,१६.१० ॥
{भूनागसत्त्व (७)}
गंधकं रसकं चूर्ण्य भूलताचूर्णतुल्यकम् ।
वज्रमूषान्धितं ध्मातं सत्वं भवति शोभनम् ॥ ३,१६.११ ॥
एतत्सत्वं विचूर्ण्याथ पूर्ववच्चाभिषेकितम् ॥ ३,१६.१२ ॥
{भूनागतैल}
दिनं भूनागसंतुल्यं मर्द्यं सौवीरमञ्जनम् ।
पञ्चमाहिषसंमिश्रं कृत्वाथ वटकीकृतम् ।
तस्मात्पातालयंत्रेण तैलं ग्राह्यं पुटेन वै ॥ ३,१६.१३ ॥
{भूनागतैल}
भूलतास्तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् ।
तैलं पातालयंत्रेण तत्तैलं जारणे हितम् ॥ ३,१६.१४ ॥
{गुह्यसूत}
तप्तखल्वे शुद्धसूतं जीवद्भूनागसंयुतम् ।
त्रिदिनं मर्दयेद् गाढं तत्समस्तं समुद्धृतम् ॥ ३,१६.१५ ॥
भूनागचूर्णयुक्तायां मूषायां संनिवेशयेत् ।
तदूर्ध्वं भूलताचूर्णं दत्त्वा रुद्ध्वाथ शोषयेत् ॥ ३,१६.१६ ॥
गर्तान्तर्गोमयं सार्धं क्षिप्त्वा मूषां निवेशयेत् ।
पादमात्रं तु तां गर्भे करीषं तुषवह्निना ॥ ३,१६.१७ ॥
पुटे पच्याद्दिनैकं तु समुद्धृत्याथ दापयेत् ।
ऊर्ध्वाधो भूलताचूर्णं दत्त्वा तद्वत्पुटे पचेत् ॥ ३,१६.१८ ॥
मासमात्रमिदं कुर्याद्भवेदग्निसहो रसः ।
जायते मूर्तिबद्धस्य राक्षसो वडवामुखम् ॥ ३,१६.१९ ॥
ग्रसते सर्वलोहानि सत्वानि विविधानि च ।
वज्रादिसर्वलोहानि दत्तानि च मृतानि च ।
गुह्यसूतमिदं ख्यातं वक्ष्यते चास्य जारणम् ॥ ३,१६.२० ॥
{चन्द्रार्क => Gold}
अस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् ।
तप्तखल्वे दिनं मर्द्यं ततः सिद्धविडान्वितम् ॥ ३,१६.२१ ॥
भूनागतैललिप्तायां मूषायां तन्निवेशयेत् ।
रुद्ध्वा स्वेद्यं करीषाग्नौ जीर्णसत्वं च पूर्ववत् ॥ ३,१६.२२ ॥
दत्त्वा मर्द्यं तप्तखल्वे विडं देयं दशांशतः ।
पूर्ववल्लिप्तमूषायां जारयेत्स्वेदनेन वै ॥ ३,१६.२३ ॥
एवं सत्वं समं जार्यं पूर्ववत्कच्छपेन वा ।
गर्भद्रावेण बीजं च पूर्ववत् षड्गुणं शनैः ॥ ३,१६.२४ ॥
जारयेद् द्रावितं गर्ते मूषायन्त्रे तु पूर्ववत् ।
ततस्तु रंजकं बीजं जार्यम् अस्यैव षड्गुणम् ॥ ३,१६.२५ ॥
ततस्तु पक्वबीजेन सप्तशृङ्खलिकाक्रमात् ।
सारणं जारणं कुर्यान्मुखं बद्ध्वा तु बन्धयेत् ॥ ३,१६.२६ ॥
अनेन कोटिभागेन चंद्रार्कं कांचनं भवेत् ॥ ३,१६.२७ ॥
{copper => Gold}
गुह्यसूतं सुवर्णं च तुल्यमम्लेन मर्दयेत् ।
यावद् गोलं तु तं कृत्वा सारणायां तु मध्यतः ॥ ३,१६.२८ ॥
द्वयोस्तुल्यं तु भूनागसत्वं मूषागतं द्रुतम् ।
तस्मिन् सत्वे तु तं ढाल्यं सर्वं खोटं भवेत्तु तत् ॥ ३,१६.२९ ॥
भूनागतैललिप्तायां मूषायां चान्धितं पुटेत् ।
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ॥ ३,१६.३० ॥
एवं पुनः पुनः कुर्यात् लिप्त्वा मूषागतं पुटम् ।
अथवा बिडलिप्तायां मूषायां चान्धितं पुटेत् ॥ ३,१६.३१ ॥
यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ।
गर्भद्रावणबीजं च समं तस्यैव सारयेत् ॥ ३,१६.३२ ॥
सारणायन्त्रमध्ये तु पूर्ववज्जारयेत्ततः ।
ततो व्योमादिसत्वानि तुल्यतुल्यानि तस्य वै ॥ ३,१६.३३ ॥
मारितानि पृथग्भूयो जारितानि च कारयेत् ।
ततस्तु रंजकं बीजं सारितं तस्य जारयेत् ॥ ३,१६.३४ ॥
चतुर्गुणं यथा पूर्वं लिप्तमूषागतं पुटेत् ।
तत्सार्यं पक्वबीजेन यथा पूर्वं क्रमेण वै ॥ ३,१६.३५ ॥
सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।
कोटिभागेन तेनैव ताम्रं भवति कांचनम् ॥ ३,१६.३६ ॥
{चन्द्रार्क => Gold}
भूनागसत्वसंतुल्यं गुह्यसूतं तु मर्दयेत् ।
दिव्यौषधीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥ ३,१६.३७ ॥
तत्सर्वं वज्रमूषायां रुद्ध्वा सन्धिं विशोषयेत् ।
कारीषाग्नौ दिवारात्रौ त्रिशतं वा तुषाग्निना ॥ ३,१६.३८ ॥
स्वेदयेन्मृदुपाकेन समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधीद्रवैरेव तप्तखल्वे दिनावधि ॥ ३,१६.३९ ॥
ततो रुद्ध्वा धमेद् गाढं खोटं भवति तद्रसः ।
गुह्यसूतं पुनस्तुल्यं दत्त्वा तस्मिन्दिनत्रयम् ॥ ३,१६.४० ॥
मर्दयेत्स्वेदयेत्तद्वत् कुर्याद् बन्धं च पूर्ववत् ।
तुल्येन कांजिकेनैव सारयेच्चाथ तेन वै ।
वेधयेच्छतभागेन चंद्रार्कं कांचनं भवेत् ॥ ३,१६.४१ ॥
{चन्द्रार्क, copper, Lead => Gold}
रक्तवर्णं तु वैक्रांतं सुशुद्धं पलमात्रकम् ।
व्याघ्रीकंदोदरे पच्याद् दोलायां हयमूत्रकैः ॥ ३,१६.४२ ॥
अर्धयामात्समुद्धृत्य व्याघ्रीकंदद्रवैः पुनः ।
भावयेत्सप्तधा घर्मे पश्चात्तत्समकांचने ॥ ३,१६.४३ ॥
शुद्धसूतं पलैकं तु त्रयमेकत्र मर्दयेत् ।
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्यामचतुष्टयम् ॥ ३,१६.४४ ॥
तद्गोलं हण्डिकायन्त्रे यामं लघ्वग्निना पचेत् ।
उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः समूत्रकैः ॥ ३,१६.४५ ॥
शतं पलं स्वर्णपत्रे अनेनैव तु लेपयेत् ।
रुद्ध्वा लघुपुटैः पच्याद्विंशद्वारं पुनः पुनः ॥ ३,१६.४६ ॥
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ।
एतत्स्वर्णं साभिषिक्तं सत्ववत्समुखे रसे ॥ ३,१६.४७ ॥
चारयेज्जारयेदेवं यावच्छतगुणं शनैः ।
तद्रसं चाश्वमूत्रेण व्याघ्रीकंदद्रवेण च ॥ ३,१६.४८ ॥
बीजैर्दिव्यौषधीनां च तप्तखल्वे विमर्दयेत् ।
त्रिदिनान्ते समुद्धृत्य वज्रमूषान्धितं पुटेत् ॥ ३,१६.४९ ॥
दिवारात्रौ करीषाग्नौ त्रिरात्रं च तुषाग्निना ।
एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥ ३,१६.५० ॥
सप्तधा तत्प्रयत्नेन तद्रसो म्रियते ध्रुवम् ।
अनेनैवायुतांशेन क्रामणान्तेन वेधयेत् ॥ ३,१६.५१ ॥
चंद्रार्कं वा द्रुतं ताम्रं नागं वा कांचनं भवेत् ।
चारितं पूर्वसूतं यन्मारणेन विना तु तत् ॥ ३,१६.५२ ॥
मारयेत् पक्वबीजानि त्रिधा तं जारयेत् क्रमात् ।
पूर्ववद्बंधनत्वं च कृत्वा तं क्रामणेन वै ॥ ३,१६.५३ ॥
योजयेल्लक्षभागेन चंद्रार्के द्राविते तु तम् ।
स्वर्णं भवति रूपाढ्यं शंभुना परिकीर्तितम् ॥ ३,१६.५४ ॥
{mercury कोटिवेधिन्}
पीतवर्णं तु वैक्रांतं शुद्धं भाव्यं दिनावधि ।
व्याघ्रीद्रवाश्वमूत्राभ्यां व्याघ्रीकंदगतं पचेत् ॥ ३,१६.५५ ॥
दोलायंत्रे दिवारात्रं समुद्धृत्याथ चूर्णयेत् ।
एतच्चूर्णं पलैकं तु सूते दशगुणे क्षिपेत् ॥ ३,१६.५६ ॥
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्मर्द्यं दिनावधि ।
अनेन लेपयेत्स्वर्णपत्रं शतपलं पुनः ॥ ३,१६.५७ ॥
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा दिवारात्रौ कारीषाग्नावथोद्धरेत् ॥ ३,१६.५८ ॥
व्याघ्रीकंदाश्वमूत्राभ्यां मर्द्यं तद्वत्पुटे पचेत् ।
एवं शतपुटैः पक्वम् अभिषिक्तं च कारयेत् ॥ ३,१६.५९ ॥
समुखे रसराजेन्द्रे चार्यमेतच्च जारयेत् ।
व्योमसत्वक्रमेणैव यावत् शतगुणं शनैः ॥ ३,१६.६० ॥
मूषायन्त्रेऽथवा जार्यं यथा पूर्वं क्रमेण वै ।
तत्रस्थस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ॥ ३,१६.६१ ॥
पूर्ववद् द्रावितं गर्ते क्रमाज्जार्यं चतुर्गुणम् ।
तत्रस्थं पक्वबीजेन जारयेत्सप्तशृङ्खलैः ॥ ३,१६.६२ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद् रसः ॥ ३,१६.६३ ॥
{copper => Silver}
कृष्णवर्णं तु वैक्रांतं व्याघ्रीकंदोदरे क्षिपेत् ।
अश्वमूत्रैर्दिनं स्वेद्यं तद्भागैकं विचूर्णयेत् ॥ ३,१६.६४ ॥
शुद्धसूतस्य भागैकं तप्तखल्वे दिनावधि ।
व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ॥ ३,१६.६५ ॥
तारं दत्त्वा षडंशेन पुनस्तद्वच्च मर्दयेत् ।
सर्वतुल्यं पुनः सूतं दत्त्वा तत्रैव मर्दयेत् ॥ ३,१६.६६ ॥
जातं गोलं समुद्धृत्य निगलेन तु लेपयेत् ।
वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ॥ ३,१६.६७ ॥
स्वेदयेद्वा दिवारात्रौ निर्वाते करिषाग्निना ।
उद्धृत्य मर्दयेच्चाथ बीजैर्दिव्यौषधीद्रवैः ॥ ३,१६.६८ ॥
त्रिदिनं तप्तखल्वे तु हयमूत्रेण संयुतम् ।
पूर्ववल्लेपितं रुद्ध्वा तद्वत्पाच्यं पुटेन वै ॥ ३,१६.६९ ॥
अनेन क्रमयोगेन सप्तधा पाचयेत्पुटैः ।
अनेन वेधयेत्ताम्रं द्रावितं शतमांशतः ।
पूर्ववत् क्रामणं दत्त्वा तारं भवति शोभनम् ॥ ३,१६.७० ॥
{copper => Silver}
श्वेतवर्णं तु वैक्रांतं सुशुद्धं पूर्ववत् क्रमात् ।
रक्तवैक्रांतयोगेन तारं तेनैव मारयेत् ॥ ३,१६.७१ ॥
तत्तारं जारयेत् सूते तद्वच्छतगुणैः शनैः ।
तद्वन्मार्यं पुटेनैव भवेदयुतवेधकः ॥ ३,१६.७२ ॥
तद्वत् वै तारबीजेन सारितं जारयेत् क्रमात् ।
मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥ ३,१६.७३ ॥
द्रुते ताम्रे प्रदातव्यं तत्तारं जायते शुभम् ॥ ३,१६.७४ ॥
{Silver => Gold}
ताम्रवर्णं तु वैक्रांतं शुद्धहिंगुलसंयुतम् ।
मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥ ३,१६.७५ ॥
अनेन स्वर्णपत्राणि प्रलिप्तानि पुटे पचेत् ।
समुद्धृत्य पुनर्मर्द्यमम्लवर्गेण संयुतम् ॥ ३,१६.७६ ॥
पचेत्सप्तपुटैरेवं तद्भस्म पलमात्रकम् ।
शुद्धसूतपलैकं तु दिव्यौषधीद्रवैस् त्र्यहम् ॥ ३,१६.७७ ॥
मर्दितं कारयेद् गोलं निर्मलेन च लेपयेत् ।
रुद्ध्वा दिनत्रयं स्वेद्यं करीषतुषवह्निना ॥ ३,१६.७८ ॥
ततो दिव्यौषधीद्रावैर्मर्दितं निगलेन च ।
रुद्ध्वा लिप्त्वा धमेद् गाढं बंधमायाति निश्चितम् ॥ ३,१६.७९ ॥
अनेन शतमांशेन तारं भवति कांचनम् ॥ ३,१६.८० ॥
{Silver => Gold}
रक्तवैक्रांतसत्वं तु सह हेम्ना तु चूर्णयेत् ।
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ॥ ३,१६.८१ ॥
तत्खोटं वाभिषिक्तं तु समुखे जारयेद्रसे ।
अभ्रसत्वप्रकारेण जारयेत्पारदं समम् ॥ ३,१६.८२ ॥
तद्रसं पक्वबीजेन सारयेत्पूर्ववत्त्रिधा ।
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१६.८३ ॥
सहस्रांशेन तेनैव तारं भवति कांचनम् ॥ ३,१६.८४ ॥
{Silver, copper, Lead => Gold}
रक्तवैक्रांतसत्वं च शुद्धसूतं समं समम् ।
मर्द्यं दिव्यौषधीद्रावैस्तप्तखल्वे दिनत्रयम् ॥ ३,१६.८५ ॥
ततो निगललिप्तायां मूषायां चान्धितं पुटेत् ।
करीषाग्नौ दिवारात्रौ त्रिदिनं च तुषाग्निना ॥ ३,१६.८६ ॥
समुद्धृत्य पुनर्लेप्यं तद्गोलं निगलेन च ।
मूषान्ते लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ॥ ३,१६.८७ ॥
पुनश्च लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ।
लेपयेत् शंखचूर्णेन तां मूषां सर्वतोऽङ्गुलम् ।
कोष्ठीयन्त्रे हठाद् धाम्यं बद्धो भवति तद्रसः ॥ ३,१६.८८ ॥
तारे ताम्रे भुजंगे वा सहस्रांशेन वेधयेत् ।
जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥ ३,१६.८९ ॥
{चपलाभेदाः}
रक्ता पीता सिता कृष्णा चपला तु चतुर्विधा ।
वैक्रांतस्य प्रकारेण शोध्याः स्यू रसबन्धकाः ॥ ३,१६.९० ॥
{चपला:: वेध wइथ् ँ}
लांगली करवीराग्निगिरिकर्णी च टंकणम् ।
सौवीराञ्जनतुल्यांशं नारीस्तन्येन पेषयेत् ॥ ३,१६.९१ ॥
वज्रमूषोदरं तेन लेपयेत्सर्वतोऽङ्गुलम् ।
चपला रक्तपीता वा भागमेकं विचूर्णयेत् ॥ ३,१६.९२ ॥
सुवर्णभागाश्चत्वारो द्विभागं शुद्धपारदम् ।
दिव्यौषधीद्रवैर्मर्द्यं सर्वमेतद्दिनत्रयम् ॥ ३,१६.९३ ॥
पूर्वमूषां निरुध्याथ छायाशुष्कं धमेद्धठात् ।
तत्सर्वं जायते खोटं शतांशेन तु तेन वै ॥ ३,१६.९४ ॥
सुशुद्धं वेधयेन्नागं भवेद् गुंजानिभं तु तत् ।
नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥ ३,१६.९५ ॥
अरुणाभं भवेच्छुल्बं तेन शुल्बेन वेधयेत् ।
शुद्धतारं शतांशेन तत्तारं कांचनं भवेत् ॥ ३,१६.९६ ॥
तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।
सहस्रांशेन तेनैव तारं भवति कांचनम् ॥ ३,१६.९७ ॥
सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं च तत् ।
नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥ ३,१६.९८ ॥
{Lead => copper => Silver => Gold}
षड्भागं चपलाचूर्णं तारं स्यात्सप्तभागकम् ।
भागाष्टकं सुवर्णं च नवभागं च पारदम् ॥ ३,१६.९९ ॥
सर्वं दिव्यौषधीद्रावैर्मर्दयेद्दिवसत्रयम् ।
तद्गोलं निगलेनैव सर्वतो लेपयेद् घनम् ॥ ३,१६.१०० ॥
लांगली करवीराग्निगृध्रविष्ठा समं समम् ।
पेषयेन्मातुलिंगाम्लैस्तेन मूषां प्रलेपयेत् ॥ ३,१६.१०१ ॥
तद्रुद्ध्वा पूर्ववद्गोलं धमेत्खोटं भवेत्तु तत् ।
तेनैव तु शतांशेन नागे वेधं प्रदापयेत् ॥ ३,१६.१०२ ॥
तेन नागेन शुल्बं च शतांशेनैव वेधयेत् ।
ताम्रेण वेधयेत्तारं पूर्ववत्कांचनं भवेत् ॥ ३,१६.१०३ ॥
{Silver => Gold}
पलैकं शुद्धसूतं च काचपात्रे विनिक्षिपेत् ।
पूर्ववज्जारितं गंधं क्षिपेत्तस्मिन्पलत्रयम् ॥ ३,१६.१०४ ॥
जंबीराणां द्रवं दत्त्वा गंधतुल्यं शनैः पचेत् ।
वालुकाभाण्डमध्ये तु यावज्जीर्यति गंधकम् ॥ ३,१६.१०५ ॥
पूर्वसंस्कृतधान्याभ्रं पलमेकं च तत्र वै ।
क्षिप्त्वा जंबीरनीरं च बिडं दत्त्वाथ पाचयेत् ॥ ३,१६.१०६ ॥
जीर्णे यावद् भवेत्तत्तु ह्यम्लं तावत्क्षिपन्पचेत् ।
तस्मिन्स्वर्णं पलैकं तु चूर्णितं चाभिषेकितम् ॥ ३,१६.१०७ ॥
क्षिपेत्तस्मिन्विडं चाथ देयं जंबीरसंयुतम् ।
पचेज्जीर्णं भवेद्यावत्तत्रैव मृदुवह्निना ॥ ३,१६.१०८ ॥
बिडमम्लं क्षिपन्नेव जीर्णे चोद्धृत्य मर्दयेत् ।
त्रिदिनं तप्तखल्वे तु दिव्यौषधीद्रवैर्युतम् ॥ ३,१६.१०९ ॥
मूलमीश्वरलिङ्ग्युत्थं शिग्रुमूलं च पेषयेत् ।
वज्रमूषामनेनैव लिप्त्वा पूर्वरसं क्षिपेत् ॥ ३,१६.११० ॥
रुद्ध्वा स्वेद्यं करीषाग्नावहोरात्रात् समुद्धरेत् ।
पूर्ववन्मर्दितं रुद्ध्वा धमेद् बद्धो भवेद्रसः ॥ ३,१६.१११ ॥
चतुःषष्टितमांशेन दत्ते तारमनेन वै ।
वेधयेज्जारयेद् दिव्यं कांचनं सिद्धसंमतम् ॥ ३,१६.११२ ॥
{Silver => Gold}
शतनिष्कं शुद्धसूतं दशनिष्कं तु गंधकम् ।
क्षणं कन्याद्रवैर् मर्द्यं पातनायंत्रगं पचेत् ॥ ३,१६.११३ ॥
ऊर्ध्वलग्नं समादाय गंधकं दशनिष्ककम् ।
दत्त्वा मर्द्यं पुनस्तद्वद्यंत्रे पच्यात् समुद्धरेत् ॥ ३,१६.११४ ॥
एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।
गौरीयन्त्रे तु तत्सूतं क्षिप्त्वा देयं तु गंधकम् ॥ ३,१६.११५ ॥
भावितं पूर्वयोगेन विंशत्यंशेन चूर्णितम् ।
रुद्ध्वा लघुपुटे पच्याज्जीर्णे गंधं प्रदापयेत् ॥ ३,१६.११६ ॥
एवं पुनः पुनर्जार्यं यथाशक्ति क्रमेण वै ।
जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ॥ ३,१६.११७ ॥
सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ।
लक्षजीर्णे लक्षवेधी कोटिवेधी भवेद्रसः ॥ ३,१६.११८ ॥
जीर्णे कोटिगुणे गन्धेऽप्येवं स्यादुत्तरोत्तरम् ।
सारयेत् पक्वबीजेन पूर्ववज्जारयेत् क्रमात् ॥ ३,१६.११९ ॥
मुखं बद्ध्वा रसं बद्ध्वा तारे वेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ ३,१६.१२० ॥
भूसत्त्वकैः परमगुह्यतमैः ससूतैर् वैक्रान्तकैः सचपलै रसगंधकैश्च ।
दृष्ट्वानुभूय सकलं सुखसाध्ययोगैः सम्यक् सुवर्णकरणं गदितं सुधीनाम् ॥ ३,१६.१२१ ॥


रसरत्नाकरः, ३, १७[सम्पाद्यताम्]

वज्राभ्रसत्ववरहाटकलोहजालं कुर्याद् द्रुतं द्रवभवं किल बंधयोग्यम् ।
नानाविधैः सुगमसंस्कृतयोगराजैस्तद्वक्ष्यते परमसिद्धिकरं नराणाम् ॥ ३,१७.१ ॥
{अभ्रकद्रुति (१)}
शुद्धकृष्णाभ्रपत्राणि पीलुतैलेन लेपयेत् ।
घर्मे शोष्याणि सप्ताहं लिप्त्वा लिप्त्वा पुनः पुनः ॥ ३,१७.२ ॥
त्रिदिनं चाम्लवर्गेण तद्वच्छोष्याणि चाथ वै ।
स्नुह्यर्कार्जुनवज्रीणां कटुतुंब्या समाहरेत् ॥ ३,१७.३ ॥
क्षारं क्षारत्रयं चैतदष्टकं चूर्णितं समम् ।
वज्रकंदं क्षीरकन्दं बृहती कण्टकारिका ॥ ३,१७.४ ॥
वनवृन्ताक एतेषां द्रवैर्भाव्यं दिनत्रयम् ।
अनेन क्षारकल्केन पूर्वपत्राणि लेपयेत् ॥ ३,१७.५ ॥
आतपे कांस्यपात्रे तु स्थाप्यं लेप्यं पुनः पुनः ।
एवं दिनत्रयं कुर्याद् द्रुतिर्भवति निर्मला ॥ ३,१७.६ ॥
{अभ्रकद्रुति (२)}
अम्लवर्गेण पत्राणि क्षिपेद् घर्मे दिनत्रयम् ।
तथान्यान्यभ्रपत्राणि क्षालयेत् क्षीरकंदकैः ॥ ३,१७.७ ॥
क्षारैर्यावद् भवेत्कल्कस्तत्कल्कैः पूर्वपत्रकम् ।
लिप्त्वा लिप्त्वा क्षिपेद् घर्मे कांस्यपात्रे विशोषयेत् ॥ ३,१७.८ ॥
सप्ताहान्नात्र संदेहो रसरूपा द्रुतिर्भवेत् ॥ ३,१७.९ ॥
{अभ्रकद्रुति (३)}
काकाण्डाफलचूर्णं तु मित्रपंचकसंयुतम् ।
एतत्तुल्यं च धान्याभ्रमम्लैर्मर्द्यं दिनावधि ।
अंधमूषागतं ध्मातं द्रुतिर्भवति निर्मला ॥ ३,१७.१० ॥
{अभ्रकद्रुति (४)}
धान्याभ्रकं सगोमांसम् अभ्रपादं च सैंधवम् ।
स्नुह्यर्कपयसा द्रावैर्मुनिभिर्मर्दयेत् त्र्यहम् ॥ ३,१७.११ ॥
तद्गोलं कदलीकंदे क्षिप्त्वा बाह्ये मृदा लिपेत् ।
करीषाग्नौ त्र्यहं पच्याद् द्रुतिर्भवति निर्मला ॥ ३,१७.१२ ॥
{अभ्रकद्रुति (५)}
अगस्त्यपत्रनिर्यासैर्मर्द्यं धान्याभ्रकं दिनम् ।
तद्गोलं निक्षिपेत् कंदे सूरणोत्थे निरुध्य च ॥ ३,१७.१३ ॥
तत्कंदं निखनेद् गोष्ठभूमौ मासात्समुद्धरेत् ।
कंदोदराद् द्रुतिर्ग्राह्या सूततुल्या तु निर्मला ॥ ३,१७.१४ ॥
{अभ्रकद्रुति (६)}
धान्याभ्रकं दिनं मर्द्यमजमार्या द्रवैर्दिनम् ।
स्थापयेन्मृण्मये पात्रे त्र्यहाद् घर्मे भवत्यलम् ॥ ३,१७.१५ ॥
{अभ्रकद्रुति (७)}
सप्ताहं मुनितोयेन धान्याभ्रं सैंधवं शिला ।
मर्दयेद्भावयेद् घर्मे ततो दार्वी सुवर्चलम् ॥ ३,१७.१६ ॥
मरिचम् अभ्रपादांशं मूर्वापत्ररसैर्दिनम् ।
मर्दयेद्वज्रवल्ल्युत्थैर्द्रवैर्भाव्यं दिनावधि ॥ ३,१७.१७ ॥
शरावसंपुटे तं तु रुद्ध्वा ध्माते द्रुतिर्भवेत् ॥ ३,१७.१८ ॥
{अभ्रकद्रुति (८)}
धान्याभ्रकं प्रयोक्तव्यं काकिनीबीजतुल्यकम् ।
स्नुहीक्षीरेण सप्ताहं घर्मे ताप्यं द्रुतिर्भवेत् ॥ ३,१७.१९ ॥
{अभ्रकद्रुति (९)}
वज्रवल्लीद्रवैर्मर्द्यं धान्याभ्रं ससुवर्चलम् ।
तुल्यं त्रिदिनपर्यन्तं ततस्तं शरावसंपुटे ॥ ३,१७.२० ॥
रुद्ध्वा ध्माते द्रवत्येव रसरूपं न संशयः ।
इत्येवं रसरूपं च जायते नैव संशयः ॥ ३,१७.२१ ॥
{अभ्रकद्रुति (१०)}
उदुंबरोद्भवैः क्षीरैरभ्रपत्राणि पाचयेत् ।
स्थाल्यां वा पाचयेदेतान् भवन्ति नवनीतवत् ॥ ३,१७.२२ ॥
ततस्तं वटकं कृत्वा छिद्रमूषां निरुध्य च ।
यामत्रयं धमेद् गाढम् अधोभाण्डे द्रुतिः पतेत् ॥ ३,१७.२३ ॥
{अभ्रकद्रुति (११)}
काकोदुंबरिजैः क्षीरैर्मर्द्यं धान्याभ्रकं दिनम् ।
वनमूषकबीजानि त्वग्वर्ज्यान्यभ्रकैः समम् ॥ ३,१७.२४ ॥
मर्दयित्वार्धयामं तं द्राव्यं पातालयंत्रकैः ।
अहोरात्रं पुटं देयं द्रुतिर्भवति निर्मला ॥ ३,१७.२५ ॥
{अभ्रकद्रुति (१२)}
कपितिंदुजातफलैः समं धान्याभ्रकं दृढम् ।
मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥ ३,१७.२६ ॥
नरकेशैर्मुखं रुद्ध्वा कूपिकां लेपयेन्मृदा ।
पुटेत्पातालयंत्रेण दिनान्ते द्रुतिमाप्नुयात् ॥ ३,१७.२७ ॥
{अभ्रकद्रुति (१३)}
धान्याभ्रकसमांशेन चूर्णं गुंजाफलस्य तु ।
स्नुहीक्षीरेण सप्ताहं भावितं धमनाद् भवेत् ॥ ३,१७.२८ ॥
{अभ्रकद्रुति (१४)}
रक्तोत्पलस्य नीलोत्थद्रवैर्मर्द्यं दिनत्रयम् ।
धान्याभ्रकं धमेद्रुद्ध्वा वज्रमूषागतं धमेत् ॥ ३,१७.२९ ॥
वेगीफलस्य चूर्णेन तुल्यं धान्याभ्रकं त्र्यहम् ।
भाव्यं घर्मे स्नुहीक्षीरैर्ध्मातं संपुटगं द्रवेत् ॥ ३,१७.३० ॥
{अभ्रकद्रुति (१५)}
अथवा छागमूत्रेण भावयेत् कपितिंदुजम् ।
फलचूर्णं तु तच्छुष्कं द्रुते सत्वे प्रवापयेत् ॥ ३,१७.३१ ॥
द्वित्रिवारप्रयोगेण द्रुतिर्भवति निर्मला ॥ ३,१७.३२ ॥
{अभ्रकसत्त्वद्रुति (२)}
नरकेशोद्भवैस्तैलैः सेचयेदभ्रसत्त्वकम् ।
तद्गोलं गोमयैर्लिप्त्वा वज्रमूषान्तरे क्षिपेत् ।
हठाद् ध्माते द्रवत्येव तिष्ठते रसराजवत् ॥ ३,१७.३३ ॥
{अभ्रकसत्त्वद्रुति (३)}
भावयेन्नरमूत्रेण क्षीरकंदस्य चूर्णकम् ।
दशवारं प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ॥ ३,१७.३४ ॥
तेनावापं द्रुते सत्वे दत्त्वा दत्त्वा च संधमेत् ।
यावत् तद् द्रवतां याति तावद्देयं पुनः पुनः ।
लोहं च द्रवते तेन हठाद् ध्माते न संशयः ॥ ३,१७.३५ ॥
{अभ्रकसत्त्वद्रुति (४)}
पंचांगं देवदाल्युत्थं चूर्णं भाव्यं च तद्द्रवैः ।
शोष्यं पेष्यं पुनर्भाव्यं शतवारं प्रयत्नतः ॥ ३,१७.३६ ॥
तच्चूर्णं दशमांशेन द्रुते सत्वे प्रतापयेत् ।
तत्पुनर्जायते बद्धो वापो देयः पुनः पुनः ॥ ३,१७.३७ ॥
{अभ्रकसत्त्वद्रुति (५)}
क्षीरकंदद्रवैर्भाव्यं शतधा क्षीरकंदकम् ।
तद्वापेन द्रवेत्सत्त्वं लोहानि सकलानि च ॥ ३,१७.३८ ॥
{अभ्रकसत्त्वद्रुति (६)}
सर्वं धान्याम्लसंधानैर् भाव्यमभ्रकसत्वकम् ।
निचुलक्षारसंयुक्तं ध्मातं तिष्ठति सूतवत् ॥ ३,१७.३९ ॥
{सुवर्णद्रुति (१)}
इंद्रगोपकचूर्णं तु देवदालीफलद्रवैः ।
भावितं चैकविंशाहाद् द्रुते हेम्नि प्रवापयेत् ॥ ३,१७.४० ॥
किंचित्किंचित्समं यावत् तावत्तिष्ठति सूतवत् ॥ ३,१७.४१ ॥
{सुवर्णरौप्यद्रुति (२)}
शतधा नरमूत्रेण भावयेद्देवदालिकाम् ।
तच्चूर्णं वापमात्रेण द्रुतिः स्यात् स्वर्णतारयोः ॥ ३,१७.४२ ॥
{तीक्ष्णलोहद्रुति (१)}
सुरदालीभवं भस्म नरमूत्रेण भावितम् ।
त्रिसप्तवारं तं क्षारं वापे तीक्ष्णद्रुतिर्भवेत् ॥ ३,१७.४३ ॥
{तीक्ष्णलोहद्रुति (२)}
मेषशृंगी सकूर्मास्थिशिलाजतुनि वापयेत् ।
सारं द्रुतिर्भवेत्सत्यम् आवर्त्यादौ प्रदापयेत् ॥ ३,१७.४४ ॥
{सर्वधातुद्रुति (१)}
गंधकं कांतपाषाणं चूर्णयित्वा समं समम् ।
द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥ ३,१७.४५ ॥
{सर्वधातुद्रुति (२)}
देवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् ।
तेन प्रवापमात्रेण लोहं तिष्ठति सूतवत् ॥ ३,१७.४६ ॥
{सुवर्णद्रुति (३)}
अतिस्थूलस्य भेकस्य निवार्यान्त्राणि निक्षिपेत् ।
उदरे टंकणं पूर्णं तद्रक्षेद्भांडमध्यगम् ॥ ३,१७.४७ ॥
अष्टाहाद् ग्राहयेत् तस्मात्तैलं पातालयंत्रके ।
तत्तैलं द्राविते स्वर्णे क्षिपेद् द्रुतिमवाप्नुयात् ॥ ३,१७.४८ ॥
{सुवर्णद्रुति (४)}
इंद्रगोपोऽश्वलाला च शशमण्डूकयोर्वसा ।
अस्थीनि च समं पिष्ट्वा द्रुते हेम्नि प्रवापयेत् ॥ ३,१७.४९ ॥
जायते रसरूपं तच्चिरकालं च तिष्ठति ॥ ३,१७.५० ॥
{सुवर्णद्रुति (५)}
इंद्रगोपं कुलीरास्थि देवदाल्याश्च बीजकम् ।
चूर्णितं भावयेद् द्रावैर्देवदाल्युद्भवैर्दिनम् ॥ ३,१७.५१ ॥
अनेन द्राविते हेम्नि वापो देयः पुनः पुनः ।
तिष्ठते रसरूपं तच्चिरकालं शिवोदितम् ॥ ३,१७.५२ ॥
{तीक्ष्णलोहद्रुति (३)}
तीक्ष्णचूर्णं च सप्ताहं पक्वधात्रीफलद्रवैः ।
लोलितं भावयेद् घर्मे क्षीरकन्दद्रवैः पुनः ॥ ३,१७.५३ ॥
सप्ताहं भावयेत्सम्यक् स्रावसंपुटके तथा ।
धामितं द्रवमायाति चिरं तिष्ठति सूतवत् ॥ ३,१७.५४ ॥
{कान्तलोहद्रुति}
शृगालमेषकूर्माहिशल्यानि च शिलाजतु ।
एतत्सर्वं चूर्णयित्वा सुतप्ते कांतचूर्णके ।
वापयेद् द्रवतां याति यथा सूतं सुनिश्चितम् ॥ ३,१७.५५ ॥
{सर्वलोहद्रुति (३)}
लोहचूर्णं यथेष्टैकं पनसस्य फलद्रवैः ।
सप्ताहं भावयेद् घर्मे ह्यम्लवर्गेण मर्दयेत् ।
द्रवते धमनेनैव लिपियोग्यं न संशयः ॥ ३,१७.५६ ॥
{सर्वलोहद्रुति (४)}
गंधकं रक्तलवणं तुल्यं देयं पुनः पुनः ।
द्रुतानां तप्तचूर्णानां सर्वेषां द्रावणं परम् ॥ ३,१७.५७ ॥
{सर्वलोहद्रुति (५)}
पीतमण्डूकगर्भे तु चूर्णितं टंकणं क्षिपेत् ।
रुद्ध्वा भांडे क्षिपेद् भूमौ त्रिसप्ताहात् समुद्धरेत् ॥ ३,१७.५८ ॥
तत्समस्तं विचूर्ण्याथ द्रुते लोहे प्रवापयेत् ।
तिष्ठन्ति रसरूपाणि सर्वलोहानि नान्यथा ॥ ३,१७.५९ ॥
{माक्षिकसत्त्वद्रुति (२)}
एरंडोत्थेन तैलेन गुंजाक्षौद्रं च टंकणम् ।
मर्दितं तस्य वापेन सत्वं माक्षिकजं द्रवेत् ॥ ३,१७.६० ॥
{सर्वरत्नानां सर्वलोहानां द्रुतिः}
क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ॥ ३,१७.६१ ॥
ज्वालामुखी चेक्षुरकं स्थलकुम्भीफलानि च ।
स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलकं क्षिपेत् ॥ ३,१७.६२ ॥
वज्रमुख्यानि रत्नानि वस्त्रे बद्ध्वा पचेद्धठात् ।
दोलायंत्रेण धान्याम्ले भवेद्यामाष्टकं द्रुतम् ॥ ३,१७.६३ ॥
वज्राभ्रकं नीलपुष्पं मुक्ताविद्रुममाक्षिकम् ।
पौण्ड्रं वैडूर्यमाणिक्यं राजावर्तेन्द्रनीलकम् ॥ ३,१७.६४ ॥
वैक्रांतं स्फाटिकं चैव द्रवन्ति रससन्निभाः ।
एतैरेवौषधैर् लोहजातं द्रवति वापनात् ॥ ३,१७.६५ ॥
{वज्रद्रुति (१)}
वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरुन्धितम् ।
जलभांडगतं स्वेद्यं सप्ताहाद् द्रवतां व्रजेत् ॥ ३,१७.६६ ॥
{वज्रद्रुति (२)}
सूक्ष्मचूर्णं तु सप्ताहं वेतसाम्ले विनिक्षिपेत् ।
सप्ताहाद् उद्धृतं तं वै पुटे रुद्ध्वा द्रुतिर्भवेत् ॥ ३,१७.६७ ॥
{वैक्रान्तद्रुति (१)}
श्वेतवर्णं तु वैक्रांतमम्लवेतसभावितम् ।
सप्ताहान्नात्र संदेहः खरे घर्मे द्रवत्यलम् ॥ ३,१७.६८ ॥
{वैक्रान्तद्रुति (२)}
केतकीस्वरसं ग्राह्यं सैंधवं स्वर्णपुष्पिका ।
इंद्रगोपकसंयुक्तं सर्वं भांडे विनिक्षिपेत् ॥ ३,१७.६९ ॥
सप्ताहं स्वेदयेत्तस्मिन्वैक्रांतं द्रवतां व्रजेत् ।
लोहाष्टकं च रत्नानि योगस्यास्य प्रभावतः ॥ ३,१७.७० ॥
कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥ ३,१७.७१ ॥
{सर्वद्रुतीनां स्थापनाधारः}
कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥ ३,१७.७२ ॥
इत्येवं द्रुतिसंचयं समुचितैः सारातिसारैर् मतैः कृत्वा वार्तिकपुंगवोऽत्र सततं श्रीपारदे मेलयेत् ।
तेनैवाद्भुतभक्षणं सुकनकं कृत्वाथ विद्वद्वरे देयं दीनजने च दुःखविमुखं कुर्यात्समस्तं जगत् ॥ ३,१७.७३ ॥


रसरत्नाकरः, ३, १८[सम्पाद्यताम्]

द्रुतिरिह परिपाच्या जारयेत् पारदेन्द्रे मुनिगणितम् अथासौ सारितः कोटिवेधी ।
अथ पविकृतबीजं रत्नगर्भं द्रुतं वा चरति यदि रसेन्द्रः स्यात्तदा शब्दवेधी ॥ ३,१८.१ ॥
{द्रुतीनां रसेन सह मेलापनम् (१)}
पाठा वंध्या तालमूली नीलीसिन्दूरचित्रका ।
पद्मकन्दं क्षीरकन्दं समं नागबला तथा ॥ ३,१८.२ ॥
एतेषां ग्राहयेत् स्वच्छं रसं वस्त्रेण गालितम् ।
द्रुतिं समुखसूतं च औषधीनां तथा द्रवम् ॥ ३,१८.३ ॥
सर्वं क्षिप्त्वा घोषपात्रे शोषयेदातपे खरे ।
द्रवः पुनः पुनर्देयो यावद्यामत्रयं भवेत् ॥ ३,१८.४ ॥
मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ॥ ३,१८.५ ॥
{सर्वद्रुतिमेलापन (२)}
वज्रकंदामृता गुंजा द्रवैर्मर्द्यं च पूर्ववत् ।
मिलन्ति द्रुतयः सर्वा रसराजे न संशयः ॥ ३,१८.६ ॥
{सर्वद्रुतिमेलापन (३)}
कृष्णागुरु सिता हिङ्गु कस्तूरीब्रह्मबीजकम् ।
तुल्यं चूर्णं दशांशेन सूते द्रुतियुते क्षिपेत् ॥ ३,१८.७ ॥
मिलन्ति द्रुतयः सर्वा अनेनैव न संशयः ॥ ३,१८.८ ॥
{सर्वद्रुतिमेलापन (४)}
कृष्णागुरु श्वेतहिंगु सिता लशुननाभयः ।
पूर्ववन्मर्दनेनैव मिलन्ति द्रुतयो रसे ॥ ३,१८.९ ॥
{सर्वद्रुतिमेलापन (५)}
अश्वलालार्द्रकं निम्बपत्राणि लशुनं समम् ।
टंकणेन समायुक्तं पूर्ववद् द्रुतिमेलकम् ॥ ३,१८.१० ॥
{सर्वद्रुतिमेलापन (६)}
माक्षिकं सविषं गुंजा टंकणं स्त्रीरजः समम् ।
स्त्रीस्तन्यं संयुतं पिष्ट्वा तेन मूषां प्रलेपयेत् ॥ ३,१८.११ ॥
द्रुतियुक्तं रसं तत्र क्षिप्त्वा रुद्ध्वा दिनावधि ।
स्वेदयेत् करीषाग्निस्थं त्रिदिनं वा तुषाग्निना ।
मिलन्ति द्रुतयः सर्वा मीलिता जारयेत्ततः ॥ ३,१८.१२ ॥
द्रुतयो मीलिता येन मूषां तेनैव लेपयेत् ।
तथा च जीवयोगेन ख्यातेऽयं लिप्तमूषिका ॥ ३,१८.५७ ॥
{copper => Gold}
हेमकांतद्रुतिं तुल्यां मेलयेत्समुखे रसे ।
षोडशांशं रसात्सर्वं लिप्तमूषान्धितं पुटेत् ॥ ३,१८.५८ ॥
सतुषेऽथ करीषाग्नौ यावत्सूतावशेषितम् ।
पुनश्च मेलयेत्तद्वत् सर्ववज्जारयेत्ततः ॥ ३,१८.५९ ॥
एवं समां द्रुतिं सूते जारयेत्क्रमयोगतः ।
ततस्तं पक्वबीजेन सारयेज्जारणात्रयम् ॥ ३,१८.६० ॥
मूषायन्त्रे तु तज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ।
तारारे ताम्रसंयुक्ते शतांशेन नियोजयेत् ॥ ३,१८.६१ ॥
क्रामणेन समायुक्तं दिव्यं भवति कांचनम् ॥ ३,१८.६२ ॥
{copper => Gold}
हेमाभ्रशुल्बद्रुतयो द्विगुणं जारयेद्रसे ।
पूर्ववत्क्रमयोगेन ततो रंजकबीजकम् ॥ ३,१८.६३ ॥
मूषायन्त्रे समं जार्यं सारयेत्सारणात्रयम् ।
मुखं बद्ध्वा रसं बद्ध्वा सहस्रांशेन वेधयेत् ।
तारारं ताम्रसंयुक्तं दिव्यं भवति कांचनम् ॥ ३,१८.६४ ॥
{=> Gold}
कांतशुल्बसुवर्णानां द्रुतयः समुखे रसे ।
जारयेत्पूर्वयोगेन प्रत्येकं द्विगुणं क्रमात् ॥ ३,१८.६५ ॥
ततो रंजकबीजानि द्विगुणं तस्य जारयेत् ।
अथ बीजैस्त्रिधा सार्यं जारयेत्सारयेत्पुनः ॥ ३,१८.६६ ॥
जारितोऽथ मुखं बद्ध्वा रसं बद्ध्वाथ वेधयेत् ।
अयुतांशेन तेनैव पूर्ववत्कांचनं भवेत् ॥ ३,१८.६७ ॥
{लक्षवेधी रसः (द्रुतिजारणेन)}
कांतहेमाभ्रद्रुतयो यावत्पञ्चगुणं क्रमात् ।
जारयेत्पूर्वयोगेन ततो रंजकबीजकम् ॥ ३,१८.६८ ॥
जार्यं पञ्चगुणं तस्मिन्मूषायन्त्रे प्रयत्नतः ।
सारयेत् पक्वबीजेन त्रिधा तं जारयेत्पुनः ॥ ३,१८.६९ ॥
पुनः सार्यं पुनर्जार्यम् एवं वारत्रये कृते ।
मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥ ३,१८.७० ॥
{दशलक्षवेधी रसः}
आ रत्नहेमद्रुतयः षड्गुणं जार्यते रसे ।
षड्गुणं रंजकं बीजं ततस्तस्यैव जारयेत् ॥ ३,१८.७१ ॥
त्रिधा सार्यं पुनर्जार्यम् एवं वारचतुष्टयम् ।
मुखं बद्ध्वा रसं बद्ध्वा नागतैलेन वेधयेत् ।
दशलक्षांशयोगेन दिव्यं भवति कांचनम् ॥ ३,१८.७२ ॥
{mercury वेधिन्:: १०० तो कोटि}
प्रत्येकं सूततुल्यांशमभ्रहेमद्रुतिद्वयम् ।
मेलितं पूर्वयोगेन जारयेत् तत् क्रमेण वै ॥ ३,१८.७३ ॥
शतवेधी भवेत्सूतो द्विधा सहस्रवेधकः ।
त्रिगुणेऽयुतवेधी स्याल्लक्षवेधी चतुर्गुणे ॥ ३,१८.७४ ॥
सम्यक् पञ्चगुणे जीर्णे दशलक्षाणि विध्यति ।
एवं रसगुणे जीर्णे कोटिवेधी भवेद्रसः ॥ ३,१८.७५ ॥
ततः सप्तगुणं तस्य जार्यं रंजकबीजकम् ।
त्रिधाथ पक्वबीजेन सारयेत् पूर्ववत् क्रमात् ॥ ३,१८.७६ ॥
जारणा सारणा कार्या पुनः सारणजारणे ।
अनेन क्रमयोगेन सप्तशृङ्खलिकाक्रमात् ॥ ३,१८.७७ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेत्तु सः ।
तारे च ताम्रसंयुक्ते क्रामणान्तं नियोजयेत् ॥ ३,१८.७८ ॥
{mercury बन्धन (?)}
श्वेताभ्रतारघोषारद्रुतयः समुखे रसे ।
जार्याः समा यथापूर्वं तारबीजेन सारयेत् ।
त्रिधा तं पूर्ववज्जार्यं मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१८.७९ ॥
{Tin => Silver}
कांततारारद्रुतयो द्विगुणाः समुखे रसे ।
जारयेत्त्रिगुणा यावत् पक्वबीजेन चाथवा ॥ ३,१८.८० ॥
सारितं जारितं कुर्यात्पूर्ववच्छृङ्खलात्रयम् ।
मुखं बद्ध्वा रसं बद्ध्वा अयुतांशेन वेधयेत् ॥ ३,१८.८१ ॥
द्रुते बंगे तु तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥ ३,१८.८२ ॥
{Tin:: स्तम्भन}
तारतीक्ष्णघोषजाता द्रुतयः समुखे रसे ।
कुर्यात् चतुर्गुणा यावत् तारबीजेन सारयेत् ॥ ३,१८.८३ ॥
चतस्रः शृङ्खला यावन्मुखं बद्ध्वाथ बन्धयेत् ।
अनेन लक्षभागेन बंगस्तम्भो भवेद् दृढः ॥ ३,१८.८४ ॥
{mercury कोटिवेधी}
तारा कांतद्रुतयो जार्या सप्तगुणा रसे ।
तत्सार्यं तारबीजेन सप्तशृंखलिका क्रमात् ॥ ३,१८.८५ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥ ३,१८.८६ ॥
{सप्तशृङ्खला}
समुखस्य रसेन्द्रस्य धान्याभ्रं पूर्वसंस्कृतम् ।
चारयेज्जारयेत्तद्वत् समांशं चाथ तस्य वै ॥ ३,१८.८७ ॥
षड्गुणं द्वंद्विते व्योम्नि सर्वं जार्यं च पूर्ववत् ।
ततो माक्षिकसत्वं च पादांशं तस्य गर्भतः ॥ ३,१८.८८ ॥
द्रावयेज्जारयेत्तद्वत्तावद्रसकसत्वकम् ।
पूर्ववद् द्रावितं जार्यं मूषायन्त्रे तु तत् क्रमात् ॥ ३,१८.८९ ॥
गर्भद्रावणकं बीजं द्रावितं जारयेत्पुनः ।
भवेच्चतुर्गुणं यावत्पश्चादभ्रसुवर्णयोः ॥ ३,१८.९० ॥
द्रुतिं समसमां सूते द्वंद्वयित्वाथ जारयेत् ।
पूर्ववत्क्रमयोगेन कांतहेम्नो द्रुतिः पुनः ॥ ३,१८.९१ ॥
प्रत्येकं जारयेत्तुल्यं स्वर्णतीक्ष्णद्रुतिस्तथा ।
द्वंद्वितां जारयेत्तुल्यां ततो रंजकबीजकम् ॥ ३,१८.९२ ॥
पूर्ववत्क्रमयोगेन जार्ये तस्मिन् चतुर्गुणम् ।
ततस्तं पक्वबीजेन सारयेत्सारणात्रयम् ॥ ३,१८.९३ ॥
तदेव जारितं कुर्यान्मूषायन्त्रे तु पूर्ववत् ।
इत्येवं सप्तवाराणि सारितं तत् त्रिधा त्रिधा ॥ ३,१८.९४ ॥
पूर्ववज्जारणा कार्या ख्यातेयं सप्तशृङ्खला ।
सारणा यत्र यत्रोक्ता विज्ञेया वार्तिकैः पुनः ॥ ३,१८.९५ ॥
मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ।
क्रामणेन समायुक्तं चंद्रार्कं कांचनं भवेत् ॥ ३,१८.९६ ॥
कर्माष्टादशकेनैव क्रमाद् वेधः प्रकाशितः ।
समुखं निर्मुखं बंधं रसबंधं तथेरितम् ॥ ३,१८.९७ ॥
गोपितं शंभुना सिद्धैः सूचितं न प्रकाशितम् ।
वार्तिकानां हितार्थाय मया तत्प्रकटीकृतम् ॥ ३,१८.९८ ॥
{वज्रबीज}
वज्रभस्म शुद्धहेम व्योमसत्वमयोरजः ।
चत्वारि समभागानि नागचूर्णं चतुःसमम् ॥ ३,१८.९९ ॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
एकीभूते समुद्धृत्य मूषायां प्रकटं धमेत् ॥ ३,१८.१०० ॥
माक्षिकाद्धौतसत्त्वं च स्तोकं स्तोकं विनिक्षिपेत् ।
हेमवज्रावशेषं तु यावत्स्यादुद्धरेत्ततः ॥ ३,१८.१०१ ॥
तस्मिन्नागं व्योमसत्त्वम् अयश्चूर्णं च पूर्ववत् ।
निक्षिपेद् द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥ ३,१८.१०२ ॥
मिश्रीभूतं समुद्धृत्य मूषायां प्रकटं धमेत् ।
स्वर्णवज्रावशेषं तद्यावज्जातं समुद्धरेत् ॥ ३,१८.१०३ ॥
एवं पुनः पुनर्जार्यं व्योमसत्वायसं फणी ।
पूर्ववत् क्रमयोगेन षड्गुणं जारयेत्पुनः ॥ ३,१८.१०४ ॥
माक्षिकाद्धौतसत्त्वकम् [... औ६ Zएइछेन्झ्] ।
क्षिपन् क्षिपन्धमेत्तं तु बाह्यमेवं तु षड्गुणम् ॥ ३,१८.१०५ ॥
वज्रबीजमिदं ख्यातं जारणे परमं हितम् ॥ ३,१८.१०६ ॥
{वज्रबीजजारणेन स्पर्शवेधी शब्दवेधी रसः}
वासनामुखिते सूते द्वंद्वितं व्योमसत्वकम् ।
पूर्ववत् क्रमयोगेन षड्गुणं जारयेत्पुनः ॥ ३,१८.१०७ ॥
तस्मिन् जार्यं वज्रबीजं व्योमसत्त्वक्रमेण वै ।
ग्रसते कच्छपे यंत्रे यथाजीर्णं तथा फलम् ॥ ३,१८.१०८ ॥
द्विगुणेऽयुतवेधी स्यात्त्रिगुणे लक्षवेधकः ।
यदा चतुर्गुणं जीर्णं दशलक्षाणि विध्यति ॥ ३,१८.१०९ ॥
कोटिवेधी पञ्चगुणे दशकोट्यस्तु षड्गुणे ।
अर्बुदांशात् सप्तगुणे शङ्खवेध्यष्टमे गुणे ॥ ३,१८.११० ॥
नवमे खर्ववेधी स्याद्दशमे पद्मवेधकः ।
त्रयोदशगुणे जीर्णे स्पर्शवेधी भवेद्रसः ॥ ३,१८.१११ ॥
चतुर्दशगुणे जीर्णे भवेत्पाषाणवेधकः ।
त्रिपञ्चगुणिते जीर्णे सशैलवनकाननाम् ॥ ३,१८.११२ ॥
वेधयेन्मेदिनीं सर्वां स भवेद् भूचरो रसः ।
एवं कलागुणे जीर्णे त्रैलोक्यव्यापको भवेत् ॥ ३,१८.११३ ॥
खेचरो रसराजेन्द्रो मुखस्थः खेगतिप्रदः ।
जायते च यथाशक्त्या ततः सार्यं क्रमेण वै ॥ ३,१८.११४ ॥
वज्रबीजेन तुल्येन प्रथमा सारणा भवेत् ।
पूर्ववज्जारणा कार्या द्विगुणेनानुसारयेत् ॥ ३,१८.११५ ॥
तथैव जारयेद् भूयः कर्तव्या प्रतिसारणा ।
त्रिगुणेन तु तेनैव मुखं बद्ध्वाथ बन्धयेत् ॥ ३,१८.११६ ॥
द्विसहस्रादिलक्षान्तं वेधकस्याप्ययं विधिः ।
इत्येवं च पुनः कुर्यात्सारणां कोटिवेधके ॥ ३,१८.११७ ॥
दशकोट्याद्यर्बुदान्ते च जारिते वेधके रसे ।
त्रिप्रकारा प्रकर्तव्या सारणा तु त्रिधा त्रिधा ॥ ३,१८.११८ ॥
चतुर्गुणा शङ्खवेधे तदूर्ध्वं पञ्चधा भवेत् ।
षड्गुणा पद्मवेधे तु मूलवेधे तु सप्तधा ॥ ३,१८.११९ ॥
अष्टधा स्पर्शवेधे तु दशधा शब्दवेधके ।
ततस्त्रयोदशगुणाः कलागुणे कलागुणाः ॥ ३,१८.१२० ॥
क्रमशः सारणा कार्या यथाशक्त्यानुसारतः ।
मुखं बद्ध्वा रसं बद्ध्वा पश्चाद्वेधं प्रकल्पयेत् ॥ ३,१८.१२१ ॥
चंद्रार्के वा भुजंगे वा क्रामणेन समायुतम् ।
इत्येवं पद्मपर्यन्तं संख्यावेधात्तु यो रसः ॥ ३,१८.१२२ ॥
तद्वेष्टितं मधूच्छिष्टैः कुंतवेधे तु योजयेत् ।
तत्सर्वं कनकं दिव्यं जायते शंभुभाषितम् ॥ ३,१८.१२३ ॥
{धूमवेधविधि}
धूमवेधे रसं पिष्ट्वा तेन वस्त्रं प्रलेपयेत् ।
ततो ज्योतिष्मतीतैले धृत्वा वर्तिं कल्पयेत् ॥ ३,१८.१२४ ॥
ज्वलितां तां ताम्रकूटे योजयेत्पत्त्रतां गते ।
तद्धूमगंधमात्रेण सर्वं भवति कांचनम् ॥ ३,१८.१२५ ॥
{स्पर्शवेधविधि}
स्पर्शवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।
द्रुतानामष्टलोहानां क्षिप्त्वा मध्ये समुद्धरेत् ।
तद् भवेत्कांचनं दिव्यमसंख्यं नात्र संशयः ॥ ३,१८.१२६ ॥
{शब्दवेधविधि}
शब्दवेधी रसो योऽसौ गुटिकां तेन कारयेत् ।
धारयेद् वक्त्रमध्ये तु ततो लोहानि वेधयेत् ।
तत्सर्वं जायते स्वर्णं श्रुते शब्दे न संशयः ॥ ३,१८.१२७ ॥
{पाषाणवेधविधि}
पाषाणवेधको योऽसौ पर्वतानि तु तेन वै ।
वेधयेदग्निना तप्तान् सर्वं भवति कांचनम् ॥ ३,१८.१२८ ॥
{मेदिनीवेधविधि}
मेदिनीवेधको योऽसौ राजिकार्धार्धमात्रकः ।
तेनैव वेधयेत्सर्वां सशैलवनकाननाम् ।
मेदिनी सा स्वर्णमयी भवेत्सत्यं शिवोदितम् ॥ ३,१८.१२९ ॥
{त्रैलोक्यव्यापकविधि}
त्रैलोक्यव्यापको योऽसौ तं करे धारयेत्तु यः ।
स भवेत्खेचरो दिव्यो महाकायो महाबलः ॥ ३,१८.१३० ॥
स्वेच्छाचारी महावीरः शिवतुल्यो भवेत्तु सः ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ॥ ३,१८.१३१ ॥
जायन्ते नात्र संदेहस्तत्स्वेदस्पर्शनादपि ।
रसकायो महासिद्धः सर्वलोकेषु पूज्यते ॥ ३,१८.१३२ ॥
अवध्यो देवदैत्यानां यावच्चन्द्रार्कमेदिनी ।
भुञ्जानो दिव्यभोगांश्च क्रीडते भैरवो यथा ॥ ३,१८.१३३ ॥
{रसबीजं शतवेधी}
भागत्रयं शुद्धसूतं भागैकं मृतवज्रकम् ।
काकिनीरजसा मर्द्यं तप्तखल्वे दिनावधि ॥ ३,१८.१३४ ॥
तेनैव पादभागेन हेमपत्राणि लेपयेत् ।
व्योमवल्लीरसैः पिष्टं कांतटंकणतालकम् ॥ ३,१८.१३५ ॥
अनेन चाष्टमांशेन पूर्वलिप्तानि लेपयेत् ।
रुद्ध्वा स्वेद्यं दिवारात्रौ करीषाग्नौ ततः पुनः ॥ ३,१८.१३६ ॥
कदलीकंदसौवीरटंकणं च समं समम् ।
कण्टकार्या द्रवैः पिष्ट्वा मूषा लेप्या त्वनेन वै ॥ ३,१८.१३७ ॥
तन्मध्ये पूर्वपक्वं यद्रुद्ध्वा धाम्यं दृढाग्निना ।
तत्सर्वं जायते खोटं सौवीरं काचटंकणम् ॥ ३,१८.१३८ ॥
दत्त्वा दत्त्वा धमेत्खोटं जायते भास्करोपमम् ।
रसबीजमिदं ख्यातं वेधके जारणे हितम् ।
चंद्रार्के शतवेधी स्यात्कांचनं कुरुते शुभम् ॥ ३,१८.१३९ ॥
{शब्दवेधी रसः}
अथ वक्ष्ये रसेन्द्रस्य समांशस्य च भक्षणम् ।
पूर्वोक्तं रसबीजं तु समुखे चारयेद्रसे ॥ ३,१८.१४० ॥
अभ्रसत्वप्रकारेण जारयेत्तत् क्रमेण वै ।
पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥ ३,१८.१४१ ॥
ततस्तेनैव बीजेन सारणाक्रामणात्रयम् ।
ततश्च जारितं कुर्यान्मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी भवेत्सो हि रसः शंकरभाषितम् ॥ ३,१८.१४२ ॥
{रसबीजं शतवेधि}
समुखस्य रसेन्द्रस्य पक्वबीजं समांशकम् ।
जारयेच्चाभिषिक्तं तदभ्रसत्त्वक्रमेण वै ॥ ३,१८.१४३ ॥
मृतवज्रं षोडशांशं तस्मिन्सूते विनिक्षिपेत् ।
तालकं टंकणं कांतं तृतीयं चाष्टमांशकम् ॥ ३,१८.१४४ ॥
दत्त्वा तस्मिंस्तदा खल्वे व्योमवल्लीद्रवैर्दिनम् ।
तत्सर्वं मर्दितं कृत्वा छायाशुष्कं प्रयत्नतः ॥ ३,१८.१४५ ॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
करीषाग्नौ दिवारात्रौ ध्माते खोटं भवेत्तु तत् ॥ ३,१८.१४६ ॥
काचटंकणसौवीरैः शोधयेत्तं धमन् धमन् ।
रसबीजमिदं ख्यातं पूर्ववत् शतवेधकम् ।
जायते रसराजोऽयं कुरुते कनकं शुभम् ॥ ३,१८.१४७ ॥
{mercury रञ्जन:: रेद्}
अथवा समुखे सूते पूर्ववज्जारयेद्दिनम् ।
पञ्चपञ्चांशगुणितं यदा ग्रसति पारदः ॥ ३,१८.१४८ ॥
रसबीजेन चान्येन त्रिधा सार्यं क्रमेण वै ।
सारिते जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी भवेत्साक्षात्ताम्रं स्वर्णं करोति वै ॥ ३,१८.१४९ ॥
{रसबीजम्}
पक्वबीजस्य चूर्णं तु पूर्ववच्चाभिषेकितम् ।
षोडशांशेन सूतस्य समुखस्य तु चारयेत् ॥ ३,१८.१५० ॥
द्व्यङ्गुल्यां मर्दनेनैव घर्मे चरति तत्क्षणात् ।
तद्बीजं जारयेत्तस्य स्वेदनैश्चाभ्रसत्ववत् ॥ ३,१८.१५१ ॥
अनेन क्रमयोगेन समं बीजं तु सारयेत् ।
तद्वद् द्वादशभागेन पक्वबीजं तु तस्य वै ॥ ३,१८.१५२ ॥
चारयेन्मर्दयन्नेव कच्छपाख्येऽथ जारयेत् ।
अभ्रसत्वप्रकारेण समं यावच्च जारयेत् ॥ ३,१८.१५३ ॥
ततस्तस्याष्टमांशेन पक्वबीजं तु दापयेत् ।
मर्दयेत्तप्तखल्वे तत् चरत्येव हि तत्क्षणात् ॥ ३,१८.१५४ ॥
तं सूतं सूरणे कंदे गर्भे क्षिप्त्वा निरुध्य च ।
लिप्त्वा कंदं पुटे पच्याद्यथा कंदो न दह्यते ॥ ३,१८.१५५ ॥
तत्रैव ग्रसते सूतो जीर्णे ग्रासं तु दापयेत् ।
अनेन क्रमयोगेन समबीजं समं पुनः ॥ ३,१८.१५६ ॥
पादांशं पक्वबीजं तु दत्त्वा चार्यं च मर्दयेत् ।
मूषायन्त्रे ततो जार्यं स्वेदनेन पुनः पुनः ॥ ३,१८.१५७ ॥
अनेन क्रमयोगेन समबीजं च जारयेत् ।
एवं चतुर्गुणे जीर्णे पक्वबीजे तु पारदे ।
जायते कुंकुमाभस्तु रसेन्द्रो बलवत्तरः ॥ ३,१८.१५८ ॥
{धूमवेधी शब्दवेधी पाषाणवेधी रसः}
अभ्रकं भ्रामकं ब्राह्मी मृतलोहाष्टकं तथा ।
महारसाश्चोपरसाः कटुतुम्ब्याश्च बीजकम् ॥ ३,१८.१५९ ॥
शङ्खनाभिर्मेषशृङ्गी वज्रकंदं समं समम् ।
मयूरस्य तु रक्तेन सर्वं पाच्यं दिनावधि ॥ ३,१८.१६० ॥
ततस्तं मर्दयेत्खोटं शिखिरक्ते दिनद्वयम् ।
अनेन मृतवज्रं तु लेपितं कारयेत्ततः ॥ ३,१८.१६१ ॥
मूषामाम्रफलाकारां द्विद्विलिप्तां तु कारयेत् ।
तन्मध्ये पूर्वसूतं तु पादांशं लिप्तवज्रकम् ॥ ३,१८.१६२ ॥
अथवा वज्रबीजं च पूर्वकल्केन लेपितम् ।
अथवा द्वंद्वितं वज्रं समं स्वर्णेन यत्कृतम् ॥ ३,१८.१६३ ॥
तल्लिप्तं पूर्वकल्केन पादांशं तत्र निक्षिपेत् ।
आच्छादितं धमेन्मन्दं मूषाधोमुखवायुना ॥ ३,१८.१६४ ॥
किंचित् किंचिद् बिडं दत्त्वा जीर्णे तस्मात्समुद्धरेत् ।
पुनस्तल्लिप्तमूषायां क्षिप्त्वा वज्रेण संयुतम् ।
पूर्ववत्क्रमयोगेन जीर्णे वज्रे समुद्धरेत् ।
अनेन क्रमयोगेन वज्रं वा वज्रबीजकम् ॥ ३,१८.१६५ ॥
स्वर्णद्वंद्वितवज्रं वा जारयेत्तत्पुनः पुनः ।
एकादशगुणं यावत्तावज्जार्यं रसेन्द्रके ॥ ३,१८.१६६ ॥
सुदग्धां शङ्खनाभिं तु मातुलिंगरसैर्दिनम् ।
मर्दयेल्लोलयेत्तेन मुक्ताचूर्णं सुशोभनम् ॥ ३,१८.१६७ ॥
द्रावितं मौक्तिकं वाथ पूर्ववज्जारयेद्धमन् ।
मूषायां बिडलिप्तायां पादं पादं शनैः शनैः ॥ ३,१८.१६८ ॥
एकादशगुणं यावत्तज्जार्यं कच्छपेन तत् ॥ ३,१८.१६९ ॥
नीलीनिर्याससंतुल्यं शिखिपित्तं विमर्दयेत् ।
इन्द्रनीलं च नीलं च तेन लिप्त्वाथ जारयेत् ॥ ३,१८.१७० ॥
पूर्ववत्क्रमयोगेन धमनात्स्वेदनेन वा ।
विडलेपितमूषायाम् एकादशगुणं क्रमात् ॥ ३,१८.१७१ ॥
द्रावितं चेन्द्रनीलं वा नीलं च द्रावितं क्रमात् ।
द्वंद्वितं रसराजस्य जार्यमभ्रद्रुतिर्यथा ।
इत्येवं जारयेन्नीलं द्रावितं कठिनं तु वा ॥ ३,१८.१७२ ॥
शिखिपित्तनृरक्ताभ्यां लेपितं पद्मरागकम् ।
जारयेद्रसराजस्य त्वेकादशगुणं क्रमात् ।
जार्यं वा द्रावितं तत्तु यथा चाभ्रद्रुतिः पुरा ॥ ३,१८.१७३ ॥
रजनी तुल्यकंकुष्ठं ब्रह्मपुष्पद्रवैर्दिनम् ।
भावितं तेन लिप्तं तु पुष्परागं तु जारयेत् ॥ ३,१८.१७४ ॥
कठिनं द्रावितं वाथ रुद्रसंख्याक्रमेण वै ।
एवं रत्नैर्भवेत्तृप्तो रसराजो महाबलः ॥ ३,१८.१७५ ॥
अनेनैव शतांशेन मधूच्छिष्टेन लेपयेत् ।
शुद्धहाटकपत्राणि रुद्ध्वा गजपुटे पचेत् ॥ ३,१८.१७६ ॥
इंद्रगोपसमाकारं तत्स्वर्णं जायते शुभम् ।
अनेनैव सुवर्णेन सारयेत्सारणात्रयम् ॥ ३,१८.१७७ ॥
रत्नतृप्तं सूतराजं मूषायन्त्रे विनिक्षिपेत् ।
शनैः शनैर्धमेत्तावद्यावत्सूतावशेषितम् ॥ ३,१८.१७८ ॥
मुखं बद्ध्वा रसं बद्ध्वा धूमवेधी भवेत्तु तत् ।
अनेन क्रमयोगेन पुनः सारणजारणा ॥ ३,१८.१७९ ॥
कर्तव्यास्त्रिप्रकारा वै मुखं बद्ध्वाथ बन्धयेत् ।
शब्दवेधी रसेन्द्रोऽयं जायते खेगतिप्रदः ॥ ३,१८.१८० ॥
पुनश्च त्रिविधा कार्या सारणाज्जारणा क्रमात् ।
तस्यैव तु रसेन्द्रस्य मुखबन्धं च कारयेत् ॥ ३,१८.१८१ ॥
तेनैव वेधयेत्सर्वं गिरिपाषाणभूतलम् ।
जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥ ३,१८.१८२ ॥
सिद्धैर्भूचरखेचरा शिवमुखात्प्राप्ता महाजारणा कृत्वा तां च रसे रसातलमिदं स्वर्णेन पूर्णं कृतम् ।
तेषां कर्म विचार्य सारमखिलं स्पष्टीकृतं तन्मया यः कश्चिद् गुरुतन्त्रमन्त्रनिरतस्तस्यैव सिद्धं भवेत् ॥ ३,१८.१८३ ॥


रसरत्नाकरः, ३, १९[सम्पाद्यताम्]

संसारे सारभूतं सकलसुखकरं सुप्रभूतं धनं वै तत्साध्यं साधकेन्द्रैर्गुरुमुखविधिना वक्ष्यते तस्य सिद्ध्यै ।
रत्नादीनां विशेषात् करणमिह शुभं गंधवादं समग्रं ज्ञात्वा तत्तत् सुसिद्धं ह्यनुभवपथगं पावनं पण्डितानाम् ॥ ३,१९.१ ॥
{पद्मरागकरणम्}
चतुर्गुणेन तोयेन लाक्षां पिष्ट्वा तु तद्द्रवैः ।
वस्त्रपूतं शतपलं गृह्य मृद्भाण्डगं पचेत् ॥ ३,१९.२ ॥
मृद्वग्निना पादशेषं जातं यावच्च तस्य वै ।
क्षिपेत्पलं पलं चूर्णं सर्जिटंकणलोध्रकम् ॥ ३,१९.३ ॥
किंचित्पच्यात्ततः शीतं काचकूप्यां सुरक्षयेत् ।
स्थूलमत्स्यत्वचं पच्याद्दिवारात्रं जलेन तत् ॥ ३,१९.४ ॥
घनीभूतं समुत्तार्य ख्यातोऽयं मत्स्यकज्जलम् ।
एतत्कर्षद्वयं तस्याः काचकूप्यां विनिक्षिपेत् ॥ ३,१९.५ ॥
वर्षोपलास्तु तेनैव लालयित्वा सुपाचिते ।
मधूकतैलमध्ये तु क्षणं पक्त्वा समुद्धरेत् ।
जायन्ते पद्मरागाणि दिव्यतेजोमयानि च ॥ ३,१९.६ ॥
{इन्द्रनीलकरणम्}
नीलीचूर्णं पलैकं तु पूर्वकूप्यां तु तद्द्रवम् ।
तद्द्रवं द्विपलं चूर्णे क्षिप्त्वा सर्वं विलोलयेत् ॥ ३,१९.७ ॥
क्षिप्त्वा वर्षोत्पलांस्तेन पूर्वतैलगतान्पचेत् ।
इन्द्रनीलानि तान्येव जायन्ते नात्र संशयः ॥ ३,१९.८ ॥
{मरकतमणिकरणम्}
मञ्जिष्ठां तालकं नीली समचूर्णं प्रकल्पयेत् ।
काचकूप्यां स्थितैर्द्रावैः सर्वमेतत् सुलोलयेत् ॥ ३,१९.९ ॥
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ।
सर्वे मरकतास्तेन समीचीना भवन्ति वै ॥ ३,१९.१० ॥
{गोमेदमणिकरणम्}
मञ्जिष्ठायाः कषायेण पेषयेन्मत्स्यकज्जलम् ।
वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ॥ ३,१९.११ ॥
गोमेदानि तु तान्येव प्रवर्तन्ते न संशयः ॥ ३,१९.१२ ॥
{पुष्परागकरणम्}
पिष्ट्वा तालकतुल्यं तु जलैके रसकुङ्कुमम् ।
तन्मध्ये चाष्टमांशं तु क्षिपेन्मत्स्योत्थकज्जलम् ॥ ३,१९.१३ ॥
तत्सर्वं पाचयेद्यामम् अवतार्य सुरक्षयेत् ।
वर्षोपलांस्तु तेनैव सिक्तान्पच्याच्च पूर्ववत् ।
भवन्ति पुष्परागास्ते यथा खन्युत्थितानि च ॥ ३,१९.१४ ॥
{नीलमाणिक्यकरणम्}
नीलीचूर्णस्य तुल्यांशं क्षिपेन्मत्स्योत्थकज्जलम् ।
बीजकाष्ठं च तुल्यांशं जले स्थाप्यं दिनावधि ॥ ३,१९.१५ ॥
तत्सर्वं पाचयेद्याममवतार्य सुरक्षयेत् ।
वर्षोपलांस्तु तेनैव सिक्ताः पच्याच्च पूर्ववत् ।
नीलमाणिक्यसदृशास्ते भवन्ति न संशयः ॥ ३,१९.१६ ॥
{मुक्ताकरणम् (१)}
प्रोक्तानि रङ्गद्रव्याणि काचकूप्यां पृथक् पृथक् ।
रक्षयित्वा प्रयत्नेन प्राप्ते कार्ये नियोजयेत् ॥ ३,१९.१७ ॥
सूर्यकांतस्य मध्ये तु बिलं कुर्यात् सुवर्तुलम् ।
तथान्यं सूर्यकान्तं च कुर्यादाच्छादने हितम् ॥ ३,१९.१८ ॥
सूक्ष्ममुक्ताफलान्यादौ द्रावयेत्पूर्वयोगतः ।
तद्द्रुतं सूर्यकांतस्य बिले पूर्यं प्रयत्नतः ॥ ३,१९.१९ ॥
सूर्यकान्तेनापरेण छादितं घर्मधारितम् ।
याममात्राद्भवेद्बद्धं मौक्तिकं चातिशोभनम् ॥ ३,१९.२० ॥
छिद्रं कृत्वा निबध्याथ सुशुभ्रे वस्त्रखण्डके ।
सुशुभ्रैस्तण्डुलैः सार्धं कण्डयेत् तदुलूखले ॥ ३,१९.२१ ॥
लघुहस्तेन यामैकं तत उद्धृत्य क्षालयेत् ।
त्वचारिष्टफलानां तु जलेन सह पेषयेत् ।
तेनैव क्षालिते मुक्ताफलं भवति शोभनम् ॥ ३,१९.२२ ॥
{मुक्ताकरणम् (२)}
मौक्तिकानि सुसूक्ष्माणि चूर्णितानि विनिक्षिपेत् ।
प्रसूताया इडायास्तु सद्यः क्षीरैः क्षणावधि ॥ ३,१९.२३ ॥
तेनैव वर्तुलाकारा गुटिकाः कारयेत्ततः ।
काचपात्रे स्थिताः शोष्याः छायायां दिनमात्रकम् ॥ ३,१९.२४ ॥
प्रोतयेद् अश्ववालेन मालां कृत्वाथ शोषयेत् ।
छायायां कठिना यावत्तावत्स्थाप्या विलम्बिताः ॥ ३,१९.२५ ॥
स्थूलस्य कृष्णमत्स्यस्य एककण्टस्य चोदरात् ।
निवार्यान्त्राणि तत्रैव पूर्वमालां निवेशयेत् ॥ ३,१९.२६ ॥
उदरं सीवयेत्सूत्रेणैव भाण्डे निरुध्य तत् ।
मासमात्रात्समुद्धृत्य छायायां शोषयेत्पुनः ॥ ३,१९.२७ ॥
कण्डनं क्षालनं चैव पूर्ववत्कारयेच्छनैः ।
भवन्ति तानि शुभ्राणि सम्यङ् मुक्ताफलानि वै ॥ ३,१९.२८ ॥
{मुक्ताकरणम् (३)}
मुक्ताशुक्तिं समादाय जलशुक्तिमथापि वा ।
घर्षयेत्पृष्ठभागं तु तस्य कार्ष्ण्यापनुत्तये ॥ ३,१९.२९ ॥
ताः शुभ्राश्चूर्णयेच्छ्लक्ष्णम् ईडाक्षीरादिपूर्ववत् ।
कारयेत्क्षालनान्तं च मौक्तिकानि भवन्ति वै ॥ ३,१९.३० ॥
{मुक्ताकरणम् (४)}
सद्य उद्धृत्य मत्स्यस्य स्थूलस्य चक्षुषी हरेत् ।
एकैकं बन्धयेद्वस्त्रे ईडाक्षीरैर्दिनं पचेत् ॥ ३,१९.३१ ॥
छायायां शोषयेत्पश्चात् कण्डनं क्षालनं ततः ।
कारयेत्पूर्ववत्तानि मौक्तिकानि भवन्ति वै ॥ ३,१९.३२ ॥
{प्रवालकरणम् (१)}
दग्धशंखं च दरदं समं चूर्णं प्रकल्पयेत् ।
प्रसूताया महिष्यास्तु पञ्चमे दिवसे हरेत् ॥ ३,१९.३३ ॥
क्षीरं तेनैव तन्मर्द्यं यामैकं पूर्वचूर्णकम् ।
वर्तुलां गुटिकां कृत्वा प्रोतयेत् ताम्रसूत्रके ॥ ३,१९.३४ ॥
रम्भागर्भदलेनैव मध्यमांगुष्ठतर्जनी ।
वेष्टयित्वा तु तैर्ग्राह्या गुलिकास्ताः पृथक् पृथक् ॥ ३,१९.३५ ॥
आवर्त्यावर्त्य संस्थाप्या रंभापत्रैः प्रयत्नतः ।
छायाशुष्काः शुभाः प्रोत्यास् ताम्रसूत्रेण वै पुनः ॥ ३,१९.३६ ॥
मधुकं तप्ततैलाक्तं धूमेन स्वेदयेच्छनैः ।
जायते पद्मरागाभं प्रवालं नात्र संशयः ॥ ३,१९.३७ ॥
{प्रवालकरणम् (२)}
दग्धः शंखः ससिन्दूरं समांशं चूर्णयेत्ततः ।
क्षीरैः सद्यःप्रसूताया एडाया मर्दयेद् दृढम् ॥ ३,१९.३८ ॥
पूरयेच्च तृणोत्थे वा नाले वंशादिसंभवे ।
सुपक्वे चान्नभाण्डे तु यवागूवर्जिते क्षिपेत् ॥ ३,१९.३९ ॥
आच्छाद्य पच्यान्मन्दाग्नौ घटिकान्ते समुद्धरेत् ।
प्रवाला नलिकागर्भे जायन्ते पद्मरागवत् ॥ ३,१९.४० ॥
{हिङ्गुलकरणम्}
अशुद्धं पारदं भागं चतुर्भागं च टंकणम् ।
उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ ३,१९.४१ ॥
तस्मिन्मनःशिलाचूर्णं पारदाद्दशमांशतः ।
क्षिप्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥ ३,१९.४२ ॥
कृत्वाथ खण्डशः क्षिप्त्वा काचकूप्यां निरुध्य च ।
वस्त्रमृत्तिकया सम्यक् काचकूपीं प्रलेपयेत् ॥ ३,१९.४३ ॥
सर्वतोऽङ्गुलमानेन छायाशुष्कं तु कारयेत् ।
वालुकायंत्रगर्भे तु द्विदिनं मृदुनाग्निना ॥ ३,१९.४४ ॥
क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् ।
सप्ताहात् तत् समुद्धृत्य हिंगुलं स्यान्मनोहरम् ॥ ३,१९.४५ ॥
{सिन्दूरकरणम् (१)}
चिंचात्वग्भस्मपादांशं द्रुते नागे विनिक्षिपेत् ।
पाचयेल्लोहजे पात्रे लोहदर्व्या निघर्षयेत् ।
चण्डाग्निना दिनैकं तु सिन्दूरं जायते शुभम् ॥ ३,१९.४६ ॥
{सिन्दूरकरणम् (२)}
रक्तशाखिन्यपामार्गकुटजस्य तु भस्मकम् ।
चतुर्थांशं द्रुते नागे दत्त्वा मर्द्यं दिनद्वयम् ॥ ३,१९.४७ ॥
पूर्ववल्लोहपात्रे तु सिन्दूरं जायते शुभम् ॥ ३,१९.४८ ॥
{सिन्दूरकरणम् (३)}
भस्मना पूर्ववन्नागं शाकस्य वारिजस्य वा ।
सिन्दूरं जायते दिव्यं यथेष्टं नात्र संशयः ॥ ३,१९.४९ ॥
{सिन्दूरकरणम् (४)}
पलानां द्विशतं नागं द्रावयेल्लोहभाजने ।
समूलवासकाभस्म पादांशं तत्र निक्षिपेत् ॥ ३,१९.५० ॥
पीतवर्णं भवेद्यावत्तावत् पच्यात् प्रचालयेत् ।
ततः सुशीतलं कृत्वा जलेन चालयेत्पुनः ॥ ३,१९.५१ ॥
पलमात्रा वटी कृत्वा वासाभस्मोपरि क्षिपेत् ।
छायाशुष्का समाहृत्य मृद्भाण्डे नूतने क्षिपेत् ॥ ३,१९.५२ ॥
क्षिप्त्वा रुद्ध्वा पचेच्चुल्ल्यां निर्वाते तीव्रवह्निना ।
छिद्रं कुर्याद् भाण्डवक्त्रे शलाकां लोहजां क्षिपेत् ॥ ३,१९.५३ ॥
रक्तवर्णा यदा स्यात्सा तावत्पच्यात्परीक्षयेत् ।
सिन्दूरं जायते दिव्यं सिद्धयोग उदाहृतः ॥ ३,१९.५४ ॥
{सैन्धवकरणम्}
नवभाण्डे पलशतं सामुद्रलवणं क्षिपेत् ।
निष्कं निष्कं सूतगंधौ क्षिप्त्वा चण्डाग्निना पचेत् ॥ ३,१९.५५ ॥
द्वियामान्ते क्षिपेत्तस्मिंल्लोहनाराचकं यदि ।
रक्तवर्णं भवेत्तद्वै तदा वह्निं निवारयेत् ॥ ३,१९.५६ ॥
स्वभावशीतलं ग्राह्यं सिन्धूत्थं लवणं भवेत् ॥ ३,१९.५७ ॥
{सुवर्चलकरणम्}
आरनालं पलैकं तु द्विनिष्कं च सुवर्चलम् ।
माषैकं गंधकं पिष्ट्वा सर्वं पात्रे तु धारयेत् ॥ ३,१९.५८ ॥
पलैकं सैंधवं तप्तं कृत्वा तत्र निषेचयेत् ।
पुनस्ताप्यं पुनः सेच्यं द्रवो यावद्विशुष्यति ।
सुवर्चलं भवेत्तावन् नात्र कार्या विचारणा ॥ ३,१९.५९ ॥
{हिङ्गुकरणम् (१)}
हिङ्गुनागरमेकैकं लशुनस्य पलद्वयम् ।
चतुष्पलं निम्बबीजं माषचूर्णं पलाष्टकम् ॥ ३,१९.६० ॥
सर्वतुल्यां बिल्वमज्जाम् अजाक्षीरेण पेषयेत् ।
तत्सर्वं बन्धयेद् गाढं सार्द्रगोचर्मगर्भतः ।
पक्षत्रयं धान्यराशौ क्षिपेद्धिंगु भवेत्ततः ॥ ३,१९.६१ ॥
{हिङ्गुकरणम् (२)}
बब्बूलवृक्षनिर्यासं सामुद्रलवणं तथा ।
त्वग्वर्ज्यं च कणा तुल्यं मेषीक्षीरेण पेषयेत् ॥ ३,१९.६२ ॥
अस्य पिण्डस्य पादांशं शुद्धहिंगु नियोजयेत् ।
तत्सर्वं पूर्ववद्बद्धं चर्मणा दिवसत्रयम् ॥ ३,१९.६३ ॥
निर्वाते लम्बितं रक्षेत् हिंगु स्याच्छुद्धहिंगुवत् ॥ ३,१९.६४ ॥
{हिङ्गुकरणम् (३)}
पलैकैकं गुडं शुण्ठी द्विकं टंकणगुग्गुलुम् ।
एरण्डबीजमज्जा च तुषवर्ज्यं पलद्वयम् ॥ ३,१९.६५ ॥
निस्त्वङ्माषा पलद्वंद्वम् एकीकृत्य प्रपेषयेत् ।
त्रिकर्षं हिङ्गु तन्मध्ये क्षिप्त्वा तोयेन लोलयेत् ॥ ३,१९.६६ ॥
तत्सर्वं पूर्ववद्बद्ध्वा सप्ताहाद्धिङ्गुतां व्रजेत् ॥ ३,१९.६७ ॥
{हिङ्गुकरणम् (४)}
द्विपले शुद्धहिंगु स्याद् एडाक्षीरं च विंशतिः ।
गोधूममाषयोश्चूर्णं प्रत्येकं तु चतुष्पलम् ॥ ३,१९.६८ ॥
अलाबुपात्रमध्यस्थं तत्सर्वं लोलितं क्षिपेत् ।
छायाशुष्कं भवेत्तावद्यावद्धिंगु शुभं भवेत् ॥ ३,१९.६९ ॥
{वङ्गकरणम् (१)}
धत्तूरबीजचूर्णं तु वज्रीक्षीरेण भावयेत् ।
शोष्यं पेष्यं पुनर्भाव्यम् एवं घर्मे त्रिसप्तधा ॥ ३,१९.७० ॥
तद्वाप्यं द्रुतनागस्य दशमांशेन दापयेत् ।
ढालयेत्स्नुक्पयोमध्ये तद्वङ्गं जायते शुभम् ।
भावयेद् रजनीमध्ये तद्बंगं जायते शुभम् ॥ ३,१९.७१ ॥
{वङ्गकरणम् (२)}
भावयेद्रजनीचूर्णं वज्रीदुग्धेन सप्तधा ।
तद्वापं दशमांशेन द्रुते नागे प्रदापयेत् ॥ ३,१९.७२ ॥
तद्वापं द्रुतनागस्य दशमांशेन दापयेत् ।
तत् ढाल्यं त्रिफलाक्वाथे पुनस्तद्वच्च वापयेत् ॥ ३,१९.७३ ॥
टंकणं नवसारं च दत्त्वा सेच्यं नृमूत्रके ।
द्रावितं च पुनर्ढाल्यं नृमूत्रे वङ्गतां व्रजेत् ॥ ३,१९.७४ ॥
{अम्लवेतसकरणम्}
त्वग्बीजरहितं चिंचाफलं कांजिकसंयुतम् ।
पक्त्वा कुर्याद्वस्त्रपूतं जम्बीराम्लं तु तत्समम् ॥ ३,१९.७५ ॥
चाङ्गेरीमातुलिंगाम्लैर् यथाप्राप्तं समाहरेत् ।
वस्त्रपूतं तु तत्सर्वं पचेत्पादावशेषितम् ॥ ३,१९.७६ ॥
सौराष्ट्री तुत्थकासीसं त्रिक्षारं पटुपञ्चकम् ।
मूलसारं च तुल्यांशं सर्वं चूर्णं विनिक्षिपेत् ॥ ३,१९.७७ ॥
पूर्वपक्वे तु पादांशं पुनर्मृद्वग्निना पचेत् ।
घनीभूतं भवेद् यावच्चट्टकेनैव चालयेत् ।
अम्लवेतसमित्येतज्जायते शोभनं परम् ॥ ३,१९.७८ ॥
{साहीकरणम्}
त्रिफला भृङ्गकोरण्टभल्लातकरवीरकम् ।
बीजाम्रसममेतेषां समांशं बोलकज्जले ॥ ३,१९.७९ ॥
क्षिप्त्वा मर्द्यं ताम्रपात्रे पञ्चाहाज्जायते मषी ।
तालपत्त्रेषु भूर्जेषु लिख्यते परमं दृढम् ॥ ३,१९.८० ॥
{घृतकरणम्}
नारिकेलात्फलरसं ग्राह्यं भागचतुष्टयम् ।
तन्मध्ये घृतमेकं तु क्षिप्त्वा भाण्डे विलोलयेत् ॥ ३,१९.८१ ॥
शतांशेन क्षिपेत्तस्मिन् रक्तशाकिनिमूलकम् ।
मृद्वग्निना पचेत्किंचित् तत्सर्वं जायते घृतम् ॥ ३,१९.८२ ॥
{घृतकरणम् (२)}
घृतं तोयं समं कृत्वा विंशत्यंशेन चुन्नकम् ।
क्षिप्त्वा सर्वं तु मृद्भांडे क्षणं हस्तेन मर्दयेत् ।
घृतं तज्जायते सर्वं न चाग्निं सहते क्वचित् ॥ ३,१९.८३ ॥
{घृतकरणम् (३)}
मेषीमेदः पञ्चपलं तिलतैलं च तत्समम् ।
पचेन्मृद्वग्निना तावद्यावत्फेनं निवर्तते ॥ ३,१९.८४ ॥
द्विनिष्कं कांजिकं तस्मिन् क्षिप्त्वा वस्त्रेण चालयेत् ।
पादांशं च घृतं तस्मिन् दद्यात्सर्वं घृतं भवेत् ॥ ३,१९.८५ ॥
{घृतकरणम् (४)}
तिलतैलं विपच्यादौ यावत्फेनं निवर्तते ।
गुग्गुलुं निक्षिपेत्तस्मिन् किंचिद्गंधनिवृत्तये ॥ ३,१९.८६ ॥
विंशत्यंशेन तोयस्य क्षिप्त्वा चुन्नं विलोलयेत् ।
जलतुल्यं पूर्वतैलं मिश्रयेत् तत्सुशीतलम् ॥ ३,१९.८७ ॥
मर्दयेन्मृण्मये पात्रे हस्तेन क्षणमात्रकम् ।
घनीभूते घृतं चार्धं क्षिप्त्वा सर्वं घृतं भवेत् ॥ ३,१९.८८ ॥
{चन्दनकरणम्}
संछेद्य निम्बवृक्षं तु हस्तैकं रक्षयेदधः ।
तस्य मूर्ध्नि बिलं कुर्यात्तत्रैव नवगुग्गुलुम् ॥ ३,१९.८९ ॥
पूरयेत्तेन काष्ठेन बिलं रुद्ध्वाथ लेपयेत् ।
संधिं मृल्लवणेनैव शुष्कं गजपुटे पचेत् ॥ ३,१९.९० ॥
स्वभावशीतलं ग्राह्यं तन्मूलं चन्दनं भवेत् ॥ ३,१९.९१ ॥
{कर्पूरकरणम्}
पलत्रयं पचेद् भक्तं सम्यग्राजान्नतण्डुलम् ।
तद् भक्तं शीतलं कृत्वा गवां क्षीरैः प्रयत्नतः ॥ ३,१९.९२ ॥
निष्कमात्रं च कर्पूरं क्षिप्त्वा तस्मिंश्च पेषयेत् ।
शुष्कस्य वंशनालस्य स्थूलस्य तेन चोदरम् ॥ ३,१९.९३ ॥
लेप्यमङ्गुलमानेन छायाशुष्कं च कारयेत् ।
छित्त्वाथ कदलीपुष्पं तन्निर्यासेन पूरयेत् ॥ ३,१९.९४ ॥
वंशनालं पुनर्वस्त्रखण्डे रुद्ध्वा च तन्मुखम् ।
आतपे त्रिदिनं शोष्यं भूगर्ते निखनेत्ततः ॥ ३,१९.९५ ॥
त्रिसप्ताहात् समुद्धृत्य शोषयित्वा समाहरेत् ।
कर्पूरं तस्य गर्भस्थं रक्षेत्कर्पूरभाजने ।
कर्पूरं जायते दिव्यं यथा बीजं न संशयः ॥ ३,१९.९६ ॥
{जवादीयाङ्कस्तूरीकरणम्}
पनसस्यार्धं पक्वस्य बीजान्येकस्य खण्डयेत् ।
नवभाण्डे विनिक्षिप्य निष्कं शुण्ठी पलं तथा ॥ ३,१९.९७ ॥
चूर्णयित्वा क्षिपेत्तस्मिन् तत्सर्वं द्रवतां व्रजेत् ।
तेन घृष्ट्वा क्षिपेत्तस्मिन् चतुर्निष्कं च चन्दनम् ॥ ३,१९.९८ ॥
मृद्वग्नौ पाचयेत्तावद्यावद् आरक्ततां गतम् ।
तच्छीतलं काचपात्रे क्षिप्त्वा तस्योपरि क्षिपेत् ॥ ३,१९.९९ ॥
चम्पकं केतकीमल्लीजातीपुष्पाणि तत्पुनः ।
दिनं शुभ्रपटे बद्ध्वा मुखं तस्यैव रक्षयेत् ॥ ३,१९.१०० ॥
ततः पुष्पाणि संत्यक्त्वा कस्तूरीं माषमात्रकाम् ।
माषैकं शुद्धकर्पूरे तस्मिन्नेव विनिक्षिपेत् ॥ ३,१९.१०१ ॥
निक्षिपेद्विंशदंशेन सम्यग्जावादिकामपि ।
तत्सर्वं मथितं पूर्वं सम्यग्जावादिभाजने ॥ ३,१९.१०२ ॥
वेष्टयेन्मल्लिकापुष्पैस्तद्भांडं दिवसत्रयम् ।
सम्यग्भवति जावादि वर्णैः परिमलैरपि ॥ ३,१९.१०३ ॥
{कस्तूरीकरणम्}
मधूकतैलं तैलं वा तिलोत्थं पलपञ्चकम् ।
मुण्डीद्रावं दशपलं सर्वमेकत्र योजयेत् ॥ ३,१९.१०४ ॥
मल्लिका मालती जाती केतकी शतपत्त्रिका ।
अन्यानि च सुगन्धीनि पुष्पाणि तत्र निक्षिपेत् ॥ ३,१९.१०५ ॥
दिनैकं मुद्रितं रक्षेत् पुष्पं निष्पीड्य संत्यजेत् ।
सिक्थकं विंशतिर्निष्कान् क्षिप्त्वा तस्मिन्पचेच्छनैः ॥ ३,१९.१०६ ॥
यावत्तैलावशेषं स्यात् कर्पूरं चार्धनिष्ककम् ।
निष्कं मार्जारजावादिं क्षिप्त्वा तदवतारयेत् ॥ ३,१९.१०७ ॥
अन्यपात्रे विनिक्षिप्य शीतलं तत्पुनः पचेत् ।
क्षणमात्रात्तदुत्तार्य क्षिपेज्जावादि भाजने ॥ ३,१९.१०८ ॥
सान्द्रं भवति तत्सर्वं यथा बीजं न संशयः ।
पुष्पाणि बकुलस्यैव रत्नमालां समं समम् ॥ ३,१९.१०९ ॥
तच्चूर्णमिक्षुदण्डस्य कृतनालस्य चोदरे ।
क्षिप्त्वा तस्य मुखं रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ॥ ३,१९.११० ॥
पुटेत् तृणाग्निना तावद्यावद्गंधो न दह्यते ।
द्रवन्ति तानि पुष्पाणि मुखं भित्त्वा द्रवं हरेत् ॥ ३,१९.१११ ॥
कस्तूरीचर्म निर्लोमं मुस्तातुल्यं विचूर्णयेत् ।
चूर्णस्य दशमांशेन सम्यक् कस्तूरिकां क्षिपेत् ॥ ३,१९.११२ ॥
पूर्वद्रावेण तत्सर्वं पेषितं गोलकीकृतम् ।
कस्तूरीमदनाकारा किंचित्कार्या प्रयत्नतः ॥ ३,१९.११३ ॥
तत्सर्वं छायया शोष्यं मदना रक्षयेत्पृथक् ।
गुटिकाः खण्डशः कृत्वा मदनैः सह मिश्रयेत् ।
कस्तूरीचर्मणा बद्ध्वा सम्यङ् मृगमदो भवेत् ॥ ३,१९.११४ ॥
{कुण्कुमकरणम् (१)}
नारिकेलकपालं वा घृष्टं वा निम्बकाष्ठकम् ।
यत्किंचिच्छुभ्रकाष्ठं वा तोयेन सह कारयेत् ॥ ३,१९.११५ ॥
तत्पादं रजनी चाथ तस्मिन्मध्ये विनिक्षिपेत् ।
गैरिकं वा रजन्यर्धं तत्सर्वं कुंकुमं भवेत् ॥ ३,१९.११६ ॥
{कुङ्कुमकरणम् (२)}
पालाशपुष्पजं क्वाथं घर्मे धार्यं तु खर्परे ।
विंशत्यंशं क्षिपेत्तस्मिन् पेषितं शुभ्रतण्डुलम् ॥ ३,१९.११७ ॥
तण्डुलार्धं तथा चुन्नं सर्वं काष्ठेन लोलयेत् ।
घनीभूतं भवेद्यावत्तावद् घर्मे प्रचालयेत् ।
ततस्तेनैव वटिकाः कृत्वा स्युः कुङ्कुमोपमाः ॥ ३,१९.११८ ॥
{कुङ्कुमकरणम् (३)}
पालाशपुष्पपादांशं सम्यक्शुभ्रं च तण्डुलम् ।
पिष्ट्वाथ वटिकाः कार्या शोष्याः स्युः कुंकुमोपमाः ॥ ३,१९.११९ ॥
{दिव्यधूप (१)}
क्रमात् तरगुणं कुर्यात्कस्तूरी शशिकुङ्कुमम् ।
नखमांसी सर्जरसमुस्ता कृष्णागुरुः सिता ॥ ३,१९.१२० ॥
चन्दनं च दशैतानि चूर्णितानि विमिश्रयेत् ।
चूर्णतुल्यैर्गुग्गुलुभिः सर्वमेकत्र कुट्टयेत् ॥ ३,१९.१२१ ॥
स्तोकं स्तोकं क्षिपेत्तैलं शिलायां लोहमुष्टिना ।
दिनमेकं प्रयत्नेन वर्तिकां तेन कारयेत् ॥ ३,१९.१२२ ॥
तदग्रज्वलितं कुर्याज्ज्वालां निवार्य तत्क्षणात् ।
देवानां दिव्यधूपोऽयं मन्त्राणां साधने हितः ॥ ३,१९.१२३ ॥
{दिव्यधूप (२)}
पाषाणभेदचूर्णं तु गुग्गुलुं च पलं पलम् ।
मांसी मुस्ता नखं बोलचन्दनागुरुवालकम् ॥ ३,१९.१२४ ॥
लाक्षागुडं सर्जरसं सिताकर्पूरसंयुतम् ।
प्रति निष्कद्वयं चूर्ण्य कस्तूरी कुंकुमं तथा ॥ ३,१९.१२५ ॥
माषैकैकं क्षिपेत्तस्मिन् सर्वं कुट्याद् उलूखले ।
तिलतैलं क्षिपेत् किंचिल् लोहदण्डेन तद् दृढम् ॥ ३,१९.१२६ ॥
यामैकं कुट्टयेत्सिद्धो दिव्यो धूपः शिवोदितः ।
देवादेवाकरो देयः पूर्ववद्वर्तकीकृतः ।
सर्वसौभाग्यजनकः सर्वमन्त्रोऽघनायकः ॥ ३,१९.१२७ ॥
{पुष्पद्रुति}
वज्रीक्षीरेण संयुक्तं शुद्धं वस्त्रं पुनः पुनः ।
आतपे शोषितं कुर्यादित्येवं दिनसप्तकम् ॥ ३,१९.१२८ ॥
जातीपुष्पपलैकं तु निष्कं चूर्णितटंकणम् ।
क्षौद्रं निष्कत्रयं योज्यं सर्वमेकत्र लोलयेत् ॥ ३,१९.१२९ ॥
मृत्पात्रे धारयेद् घर्मे रम्ये वा काचभाजने ।
आच्छादयेत्तु वस्त्रेण जलसिक्तेन तत्क्षणात् ॥ ३,१९.१३० ॥
द्रवन्ति तानि पुष्पाणि युञ्ज्याद्योगेषु तद्द्रवम् ।
अनेनैव प्रकारेण पुष्पाणां च पृथक् पृथक् ।
द्रुतिः कार्या सुगन्धानां गंधवादेषु योजयेत् ॥ ३,१९.१३१ ॥
{धान्यवृद्धिकरणम् (१)}
मन्दारमूलमार्द्रायां भरण्यां वा कुशोद्भवम् ।
ऊर्ध्वं संग्राह्य यत्नेन धवमाल्ये विनिक्षिपेत् ॥ ३,१९.१३२ ॥
प्रवातातिमुखं यत्तु तत्काष्ठं तु समाहरेत् ।
धान्यस्य राशिगं कुर्याद्धान्यवृद्धिकरं परम् ॥ ३,१९.१३३ ॥
{धान्यवृद्धिकरणम् (२)}
कृकलासस्य वामाक्षि हेम्नावेष्ट्याभिमन्त्रितम् ।
धान्यराशौ विनिक्षिप्य धान्यवृद्धिकरं परम् ॥ ३,१९.१३४ ॥
{धनधान्यवृद्धिकरणम् (३)}
तस्यैव दक्षिणं नेत्रं हेम्नावेष्ट्य ततः क्षिपेत् ।
यस्मिन्कस्मिन्भवे द्रव्ये धान्ये वा वृद्धिकारकम् ॥ ३,१९.१३५ ॥
{द्रव्यादिवृद्धिकरणम्}
कृष्णचित्रकमूलं तु क्षिप्तं यस्मिन् सुवस्तुनि ।
तत्सर्वं चाक्षयं नित्यं व्ययीकृत्य न क्षीयते ॥ ३,१९.१३६ ॥
धनं धान्यं घृतं तैलं सुवर्णं नवरत्नकम् ।
यत्किंचिद् द्रव्यजातं तदक्षय्यं तिष्ठति ध्रुवम् ॥ ३,१९.१३७ ॥
{धान्यवृद्धिकरणम् (४)}
मूलं सुश्वेतगुंजाया जलमध्ये विनिक्षिपेत् ।
तन्मूलं धान्यराशौ च क्षिप्त्वा मन्त्रविधानतः ॥ ३,१९.१३८ ॥
तद्धान्यं वर्धते नित्यं भक्ष्यमाणं सहस्रशः ।
मन्त्रखण्डे यथा प्रोक्तं गुञ्जामूलस्य साधनम् ।
तथैवात्र प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥ ३,१९.१३९ ॥
आदौ सर्वदिशान्तरेषु गमनं कृत्वा गुरोः संमुखात् प्राप्तं भक्तिबलेन युक्तिविधिना सारातिसारं महत् ।
तत्सर्वं धनवर्धनं निगदितं भूयिष्ठमध्वां क्वचिद् भूपानां विदुषां महामतिमतां विद्वान् भवेत् पालनैः ॥ ३,१९.१४० ॥


रसरत्नाकरः, ३, २०[सम्पाद्यताम्]

साङ्गोपाङ्गम् अनेकयोगनिचयं सारं वरं चोद्धृतं युक्तं पारदबन्धनं मृदुहठात् दृष्टं परं यन्मया ।
तत्सर्वं सुगमं प्रवच्मि सहसा सिद्धाननादागतं प्रत्यक्षानुभवेन वार्तिकगणैः साम्राज्यदं वीक्ष्यतात् ॥ ३,२०.१ ॥
{पारदबन्धन (१)}
शुद्धपारदभागैकं टङ्कणेन समं समम् ।
मर्दयेत्त्रिफलाक्वाथैर्नरमूत्रैर्युतैस्ततः ॥ ३,२०.२ ॥
कर्षांशा गुलिकाः कृत्वा माषचूर्णैर्जलान्वितैः ।
सूतादृष्टगुणैर्लिप्त्वा छायाशुष्कां धमेद् दृढम् ॥ ३,२०.३ ॥
कोष्ठीयन्त्रे वंकनाले किट्टं भित्त्वा समाहरेत् ।
रसोऽसौ वर्तुलाकारः षण्डबद्धो भवत्यलम् ॥ ३,२०.४ ॥
{पारदबन्धनम् (२)}
आरण्यमल्लिकाद्रावैर्मूषां कन्याद्रवैश्च वा ।
द्रवैर्हरिणखुर्या वा नरमूत्रयुतं रसम् ॥ ३,२०.५ ॥
त्रिदिनं मर्दयेत्खल्वे मूत्रं दत्त्वा पुनः पुनः ।
तद्वटीं माषपिष्टेन लिप्त्वा धाम्यं च पूर्ववत् ॥ ३,२०.६ ॥
तद्वत्सूतो भवेद्बद्धस्तच्छोध्यं काचटंकणैः ॥ ३,२०.७ ॥
{पारदबन्धनम् (३)}
मर्कटीमूलजद्रावैः पारदं मर्दयेद्दिनम् ।
मर्कटीमूलजे पिण्डे क्षिपेत्तन्मर्दितं रसम् ॥ ३,२०.८ ॥
तत्पिण्डे वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ।
जायते खोटबद्धोऽयं सर्वकार्यकरक्षमः ॥ ३,२०.९ ॥
{पारदबन्धनम् (४)}
अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां घनं क्षिपेत् ।
तन्मध्ये जारितं सूतं क्षिप्त्वा रुद्ध्वाथ रोधयेत् ॥ ३,२०.१० ॥
मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे ।
ततो गजपुटे पच्यात् पारदो बन्धमाप्नुयात् ॥ ३,२०.११ ॥
{पारदबन्धनम् (५)}
जलकुम्भ्या द्रवैः सूतं मर्दयेद्दिवसत्रयम् ।
जलकुम्भ्या दलैर्मूषां कृत्वा तत्र क्षिपेत्तु तत् ॥ ३,२०.१२ ॥
रुद्ध्वा तां वज्रमूषायां छायाशुष्कां पुटेल्लघु ।
उत्पलैकैकवृद्ध्या तु विंशद्वारं पुटैः पचेत् ॥ ३,२०.१३ ॥
ततो गजपुटं देयं सम्यग्बद्धो भवेद्रसः ॥ ३,२०.१४ ॥
{पारदबन्धनम् (६)}
एकवीराद्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।
एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् ।
तस्यां पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ ३,२०.१५ ॥
{पारदबन्धनम् (७)}
आरक्तक्षीरकंदोत्थद्रवैस्त्रीन् स्तन्यसंयुतैः ।
त्रिदिनं पारदं मर्द्यं वज्रकंदद्रवैस् त्र्यहम् ॥ ३,२०.१६ ॥
क्षीरकंदस्य कल्केन वज्रमूषां प्रलेपयेत् ।
तत्र पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥ ३,२०.१७ ॥
{पारदबन्धनम् (८)}
कृत्वा ताम्रमयं चक्रं विस्तीर्णं चतुरङ्गुलम् ।
उन्नतं चाङ्गुलीकं तु सुदृढं वर्तुलं समम् ॥ ३,२०.१८ ॥
गंधकं पारदं तुत्थं कुर्यात्खल्वेन कज्जलीम् ।
तत्कज्जलं ताम्रतुल्यं मूषामध्ये विनिक्षिपेत् ॥ ३,२०.१९ ॥
तं चक्रं मूषिकावक्त्रे दत्त्वा रुद्ध्वाथ शोषयेत् ।
तं पचेद्धण्डिकायंत्रे द्वियामं लघुवह्निना ॥ ३,२०.२० ॥
उद्धृत्य ग्राहयेच्चक्राद्रसराजं पुनः पुनः ।
तत्तुल्यं टंकणं काचमूर्ध्वाधस्तस्य दापयेत् ॥ ३,२०.२१ ॥
अंधमूषागतं धाम्यमेवं वारत्रये कृते ।
रसेन्द्रो जायते बद्धो ह्यक्षीणो नात्र संशयः ॥ ३,२०.२२ ॥
{पारदबन्धनम् (९)}
शुद्धसूतं समं गंधं द्वाभ्यां तुल्यं च तालकम् ।
मर्द्यमुन्मत्तकद्रावैः खल्वे यामचतुष्टयम् ॥ ३,२०.२३ ॥
पातयेत्पातनायंत्रे दिनैकं मन्दवह्निना ।
ऊर्ध्वलग्नमधःस्थं च तत्सर्वं तु समाहरेत् ॥ ३,२०.२४ ॥
मर्द्यम् उन्मत्तकद्रावैर् दृढं यामचतुष्टयम् ।
तद्गोलं पूर्ववत्पाच्यं पुनरादाय मर्दयेत् ॥ ३,२०.२५ ॥
पुनः पाच्यं पुनर्मर्द्यम् ऊर्ध्वाधःस्थं प्रयत्नतः ।
सर्वं यावदधो भाण्डे तिष्ठते तावतावधिः ॥ ३,२०.२६ ॥
तत्सर्वं पूर्ववन्मर्द्यं गोलं कृत्वाथ शोषयेत् ।
सम्यक् संपेषयेदम्लैर्नलिकं कुष्ठमेव च ॥ ३,२०.२७ ॥
पीताञ्जनं वा पेष्यं च तेन गोलं प्रलेपयेत् ।
वज्रमूषोदरे चाथ तेन कल्केन लेप्य वै ॥ ३,२०.२८ ॥
गोलकं तापयेत्तत्र वंकनालेन तं धमन् ।
खोटबद्धो भवेत्साक्षात् तीव्रधामानलेन तु ॥ ३,२०.२९ ॥
{पारदबन्धनम् (१०)}
पलं सूतं पलं नागं द्वाभ्यां तुल्या मनःशिला ।
पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ ३,२०.३० ॥
{पारदबन्धनम् (११)}
नागं तारं समं द्राव्यं तच्चूर्णं पलमात्रकम् ।
शुद्धसूतं पलैकं च सर्वतुल्या मनःशिला ।
पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥ ३,२०.३१ ॥
{mercury बन्धन}
पलं सूतं पलं तारं पिष्टमम्लेन केनचित् ।
द्वाभ्यां तुल्या शिला योज्या पूर्वयोगेन पाचयेत् ॥ ३,२०.३२ ॥
{mercury बन्धन}
तारवत् स्वर्णपिष्टीं च गंधकेन च पूर्ववत् ॥ ३,२०.३३ ॥
{mercury बन्धन}
कृष्णाभ्रकस्य सत्वं च तीक्ष्णं कांतं च हाटकम् ।
शुल्बं तारं च माक्षीकं समं सूक्ष्मं विचूर्णयेत् ।
वज्रमूषागतं रुद्ध्वा ध्माते खोटं भवेत्तु तत् ॥ ३,२०.३४ ॥
{mercury बन्धन}
श्वेताभ्रकस्य सत्वं च तारं तीक्ष्णं च माक्षिकम् ।
समं चूर्ण्य कृतं खोटं खोटांशं शुद्धसूतकम् ॥ ३,२०.३५ ॥
हरितालं द्वयोस्तुल्यं सूक्ष्मं मर्द्यं च पूर्ववत् ।
महदग्निगतं ध्मातं खोटं भवति तद्रसम् ॥ ३,२०.३६ ॥
{mercury बन्धन}
पारदं गंधकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् ।
तद्गोलं द्विगुणं गंधं दत्त्वा मूषाधरोत्तरम् ॥ ३,२०.३७ ॥
रुद्ध्वा संधिं विशोष्याथ कोष्ठीयन्त्रे दृढं धमन् ।
तत्सूतं जायते खोटं गन्धबद्धमिदं भवेत् ॥ ३,२०.३८ ॥
{mercury बन्धन}
पञ्चाङ्गं राजवृक्षस्य क्वाथमष्टावशेषितम् ।
तद्द्रवं तु रसे क्षिप्त्वा पाच्यं यामद्वयं शुभम् ॥ ३,२०.३९ ॥
चोवाबद्धो भवत्येष खोटो वै सर्वकार्यकृत् ॥ ३,२०.४० ॥
{mercury बन्धन}
चन्द्रवल्ल्या द्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।
टंकणेन तु संयोज्य वटिकां कारयेद् बुधः ।
कोष्ठयन्त्रगतं ध्मातं खोटबद्धो भवेद्रसः ॥ ३,२०.४१ ॥
{mercury बन्धन}
भल्लातकानां तैलान्तः पलमेकं क्षिपेद्रसम् ।
यावत्तैलं पचेत्तावद् रविक्षीरं क्षिपन् क्षिपन् ॥ ३,२०.४२ ॥
घट्टयेल्लोहदण्डेन खोटबद्धो भवेद्रसः ॥ ३,२०.४३ ॥
{... पारदबन्धनम् (२०)}
द्रवैः समूलकार्पास्यास्त्रिदिनं मर्दयेत्समम् ।
टंकणेन पादांशेन वटिकाः कारयेल्लघु ॥ ३,२०.४४ ॥
वल्मीकमृत्तिकामाषगोधूमानां च चूर्णकम् ।
समं मर्द्योदकेनैव मूषां तेनैव कारयेत् ॥ ३,२०.४५ ॥
तदन्तर्मर्दितं सूतं वटीं क्षिप्त्वा धमेद् दृढम् ।
खोटबद्धो भवेत्सोऽपि अंधमूषागतो रसः ॥ ३,२०.४६ ॥
{पारदबन्धनम् (२१)}
रसं पञ्चगुणं चैव द्विगुणं श्वेतटंकणम् ।
श्वेतवातारितैलानां मज्जामश्वस्य कोमला ॥ ३,२०.४७ ॥
त्रिदिनं मर्दयेत्खल्वे नरमूत्रेण साधकः ।
ततो गोधूमचूर्णं तु क्षिप्त्वा कुर्याद्वटीः शुभाः ॥ ३,२०.४८ ॥
विशोष्याथ धमेत्पश्चात् काचटंकणयोगतः ।
खोटबद्धो भवेत्सूतस्तेजस्वी सर्वकार्यकृत् ॥ ३,२०.४९ ॥
{पारदभस्म (१)}
कर्कोटी लाङ्गलीकंदद्रवैर्मर्द्यं दिनत्रयम् ।
वंध्याकर्कोटकीकंदे तं रसं तु निवेशयेत् ॥ ३,२०.५० ॥
कंदबाह्ये मृदा लेप्यं सर्वतोऽङ्गुलमात्रकम् ।
शुष्कं तुषपुटे पच्यात् त्रिदिनं परिवर्तयन् ॥ ३,२०.५१ ॥
समुद्धृत्य पुनर्मर्द्यं पूर्वकंदद्रवैस् त्र्यहम् ।
पूर्ववत्पुटपाकेन पारदो जायते मृतः ॥ ३,२०.५२ ॥
{पारदभस्म (२)}
हंसपाद्या द्रवैर्मर्द्यं सप्ताहं शुद्धपारदम् ।
क्षीरकंदोदरान्तर्वै क्षिप्त्वा कंदं मृदा लिपेत् ॥ ३,२०.५३ ॥
करीषाग्नौ दिनं पच्यात्पूर्ववन्मर्दयेत्पुनः ।
कंदे क्षिप्त्वा पचेत्तद्वत्ततो मर्द्यं च पूर्ववत् ॥ ३,२०.५४ ॥
क्षीरकंदोदरे रुद्ध्वा मृदा लिप्तं च शोषयेत् ।
सम्यग्गजपुटे पच्यात् मृतो भवति निश्चितम् ॥ ३,२०.५५ ॥
{पारदभस्म (३)}
हंसपादीक्षीरकंदद्रवैर्मर्द्यं दिनत्रयम् ।
रसं तत्क्रौञ्चपादान्तः क्षिप्त्वा पादं मृदा लिपेत् ॥ ३,२०.५६ ॥
करीषाग्नौ दिनं पच्यान्मर्द्यात् पूर्वद्रवैस् त्र्यहम् ।
दिनं तद्वत्पुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ।
जायते भस्मसूतोऽयं सर्वकार्यकरक्षमः ॥ ३,२०.५७ ॥
{मुखकरणम्॑ Silver, copper, Lead => Gold}
उक्तानां खोटबद्धानां मुखं कुर्यात्तदुच्यते ।
वचा चण्डालिनीकंदं ब्रह्मदण्डीयमूलकम् ॥ ३,२०.५८ ॥
गंधकं टंकणं तुल्यं भानुदुग्धेन पेषयेत् ।
चणमात्रां वटीं कृत्वा पूर्वसूते द्रुते क्षिपेत् ॥ ३,२०.५९ ॥
एकाम् एकां धमन्नेव वटिकासप्तकं क्रमात् ।
ग्रसते सर्वलोहानि यथेष्टानि न संशयः ॥ ३,२०.६० ॥
ग्रासो देयो यथाशक्त्या पूर्ववन्मारयेत्पुनः ।
मुखं बद्ध्वा नियुञ्जीत तारे ताम्रे भुजंगमे ॥ ३,२०.६१ ॥
तत्सर्वं जायते स्वर्णं वेधो दशगुणो मतः ।
सिद्धयोगः समाख्यातः सम्यग्दृष्ट्वा गुरोर्मुखात् ॥ ३,२०.६२ ॥
{copper => Gold}
सूताभ्रं गंधकं शुद्धं तृणज्योतोयमूलकम् ।
तत्सर्वं मातुलिंगाम्लैर् दिनम् एकं समं समम् ॥ ३,२०.६३ ॥
शुद्धानि ताम्रपत्राणि तेन कल्केन लेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्पुनरुत्थाप्य लेपयेत् ॥ ३,२०.६४ ॥
एवं पुटत्रये पक्वं तत्ताम्रं कांचनं भवेत् ॥ ३,२०.६५ ॥
{copper => Gold}
रक्तस्नुहीपयोभिश्च ताम्रपत्राणि लेपयेत् ।
कारयेदग्नितप्तानि तस्मिन् क्षीरे निषेचयेत् ॥ ३,२०.६६ ॥
इत्येवं सप्तधा कुर्याल्लेपतापनिषेचनम् ।
समावर्त्य तु तत्ताम्रं दिव्यं भवति कांचनम् ॥ ३,२०.६७ ॥
{copper, Lead, Silver => Gold}
रसकं दरदं गंधं गगनं कुनटी समम् ।
आरक्तस्नुक्पयोभिस्तन्मर्दयेद्दिवसत्रयम् ॥ ३,२०.६८ ॥
तेन वेध्यं द्रुतं ताम्रं नागं वा तारमेव वा ।
सहस्रांशेन तद्दिव्यं सुवर्णं जायते ध्रुवम् ॥ ३,२०.६९ ॥
{नागस्य स्वर्णम्}
रक्तस्नुहीभवैः क्षीरै रजनीं मर्दयेत् त्र्यहम् ।
तेन नागस्य पत्राणि प्रलिप्तानि पुटे पचेत् ।
पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ॥ ३,२०.७० ॥
{copper => Lead}
पद्मिनीपत्रपुष्पाभा विज्ञेया स्थलपद्मिनी ।
भङ्गे रक्तं स्रवेत्क्षीरं ज्ञात्वा तामुद्धरेत्ततः ॥ ३,२०.७१ ॥
पारदं गंधकं तालं माहिषी कुनटी समम् ।
पूर्वोक्तपद्मिनीयुक्तं मर्दयेद्दिनसप्तकम् ।
तेन शुल्बं भवेत्स्वर्णं सहस्रांशेन वेधितम् ॥ ३,२०.७२ ॥
{तारबीजकल्कः}
नागं बंगं तीक्ष्णसारं तारं च क्रमश उत्तरम् ।
पञ्चानां तु समं ताम्रं सर्वं मूषागतं धमेत् ॥ ३,२०.७३ ॥
प्रकटं वंकनालेन यावत्तारावशेषितम् ।
तत्तारं पद्मरागाभं जायते द्रावयेत्पुनः ॥ ३,२०.७४ ॥
वेध्यं रसकसत्वेन पञ्चमांशेन यत्नतः ।
तद् भवेत्कांचनं दिव्यं सिद्धयोग उदाहृतः ॥ ३,२०.७५ ॥
{Tin => Silver}
रक्तचित्रकपञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।
तद्वापं द्रुतबंगस्य रुद्ध्वा रुद्ध्वा त्रिवारकम् ॥ ३,२०.७६ ॥
देयं तज्जायते तारं शंखकुन्देन्दुसन्निभम् ॥ ३,२०.७७ ॥
{copper => Gold}
रक्तचित्रकमूलं तु कांजिकं शुद्धपारदम् ।
कङ्गुणीतैलसंयुक्तं सर्वं कल्कं प्रलेपयेत् ॥ ३,२०.७८ ॥
ताम्रपत्राणि तप्तानि तस्मिन् सिञ्चेत्त्रिसप्तधा ।
एतत्ताम्रं द्विषड्भागं तारं षोडशभागकम् ॥ ३,२०.७९ ॥
एकीकृत्य समावर्त्य तेन पत्राणि कारयेत् ।
रक्तचित्रकमूलानि भल्लाततैलपेषितम् ॥ ३,२०.८० ॥
अनेन पूर्वपत्राणि प्रलिप्तानि पुटे पचेत् ।
एवं त्रिसप्तधा कुर्याद् दिव्यं भवति काञ्चनम् ॥ ३,२०.८१ ॥
{copper => Gold}
नागिनीकन्दसूतेन्द्ररक्तचित्रकमूलकम् ।
पिष्ट्वा तेनैव पत्राणि पूर्वोक्तानि प्रलेपयेत् ।
तद्वत्पच्यात्पुटैरेवं दिव्यं भवति कांचनम् ॥ ३,२०.८२ ॥
{copper => Gold}
ज्योतिष्मतीभवैस्तैलैस्ताम्रकुम्भं प्रपूरयेत् ।
मुखं रुद्ध्वा क्षिपेद्भूमौ पृष्ठे तुषपुटं सदा ॥ ३,२०.८३ ॥
एवं षण्मासपर्यन्तं पुटयेदुद्धरेत् क्रमात् ।
बहिस्तुषपुटे पच्यात्त्रिदिनं तद्दिवनिशम् ॥ ३,२०.८४ ॥
तत्ताम्रं हाटकं तुल्यं समावर्तं तु कारयेत् ।
क्षिप्ते ज्योतिष्मतीतैले सर्वं भवति कांचनम् ॥ ३,२०.८५ ॥
{copper => Gold}
क्षीरकन्दभवे क्षीरे तप्तं ताम्रं निषेचयेत् ।
शतवारं प्रयत्नेन तत्ताम्रं कांचनं भवेत् ॥ ३,२०.८६ ॥
{Silver => Gold}
गंधकं रसकं ताप्यं पारदं रक्तचन्दनम् ।
मर्द्यं रुदन्तिकाद्रावैरविच्छिन्नं दिनत्रयम् ॥ ३,२०.८७ ॥
तेन तारस्य पत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ।
इत्येवं सप्तधा कुर्यात् दिव्यं भवति कांचनम् ॥ ३,२०.८८ ॥
{copper => Gold}
कृष्णाया वाथ पीताया देवदाल्या फलद्रवम् ।
विष्णुक्रान्ताद्रवं तुल्यं कृत्वा तेनैव मर्दयेत् ॥ ३,२०.८९ ॥
सप्ताहं पारदं शुद्धं ततस्ताम्रं प्रलेपयेत् ।
रुद्ध्वा गजपुटे पच्यात्ततस्तीव्राग्निना धमेत् ॥ ३,२०.९० ॥
दशांशं तद्रसं क्षिप्त्वा दिव्यं भवति कांचनम् ॥ ३,२०.९१ ॥
{softening of fissured minerals}
वसुभट्टरसेनाथ त्रिधा सिञ्चेत् सुतापितम् ।
लोणवत्स्फुटितो धातुर्मृदुः स्यात् सिक्थको यथा ॥ ३,२०.९२ ॥
{Tin => Silver}
देवदाल्या फलं मूलम् ईश्वरीफलजद्रवम् ।
पिष्ट्वा तत्कल्कवापेन द्रुतं बंगं दृढं भवेत् ॥ ३,२०.९३ ॥
भूयो भूयस् त्वयं वाप्यस्तारं भवति शोभनम् ॥ ३,२०.९४ ॥
{copper => Gold}
कृष्णपक्षे चतुर्दश्यामष्टम्यां ग्रहणेऽथवा ।
नृकपाले श्वेतगुंजां वापयेच्छुद्धभूमिषु ॥ ३,२०.९५ ॥
सेचयेत्सलिलं नित्यं यावत्फलवती भवेत् ।
मन्त्रपूजां ततः कृत्वा पुष्ये ग्राह्य फलानि वै ॥ ३,२०.९६ ॥
शुद्धताम्रपलं श्वेतं विंशत्युत्तरकं शतम् ।
एकैकं पूर्वबीजानां सम्यग्रुद्ध्वा धमेद् दृढम् ॥ ३,२०.९७ ॥
तत्ताम्रं जायते तारं शंखकुन्देन्दुसन्निभम् ।
तारं तज्जायते स्वर्णं सुशुद्धा बद्धरीतिका ॥ ३,२०.९८ ॥
{copper => Silver}
भूनागानां रसैर्मर्द्यं शुद्धं तालं दिनावधि ।
तत्पिण्डं हण्डिकामध्ये तालकांशं निरोधयेत् ॥ ३,२०.९९ ॥
ताम्रपत्राणि तत्पश्चात् ढङ्कणेन निरुध्य च ।
हंडिका भस्मना पूर्या रुद्ध्वा चण्डाग्निना पचेत् ॥ ३,२०.१०० ॥
पञ्चयामात्समुद्धृत्य निष्कटंकणसंयुतम् ।
मूकमूषागतं धाम्यं गुटिकां तां समुद्धरेत् ॥ ३,२०.१०१ ॥
स्वांगशीतं समाहृत्य मूषायां प्रकटं धमेत् ।
वारत्रयं क्षिपेत्तस्मिन् वटिकां वेधनान्मुखम् ॥ ३,२०.१०२ ॥
मुखं तस्य भवेत्तीव्रं शुद्धं बंगं द्रवत्यलम् ।
यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥ ३,२०.१०३ ॥
जीर्णे शतगुणे वङ्गे ततरताम्रस्य दापयेत् ।
द्रुतस्य शतभागेन तत्तारं जायते शुभम् ॥ ३,२०.१०४ ॥
{नागमुखकरणम्}
गंधकं धूमसारं च फट्करी टंकणं समम् ।
एरण्डबीजमज्जापि सर्वेषां द्विगुणा भवेत् ॥ ३,२०.१०५ ॥
भूनागाः सर्वतुल्याः स्युः सर्वमेकत्र मर्दयेत् ।
चणमात्रा वटीः कार्या ख्यातेयं वडवामुखा ॥ ३,२०.१०६ ॥
शुद्धनागं द्रुतं क्षेप्यं तैले एरण्डके पुनः ।
द्राव्यं द्राव्यं पुनः क्षेप्यं यावद्वारं शृतं भवेत् ॥ ३,२०.१०७ ॥
पुनस्तस्मिन्द्रुते देया वटिका वडवामुखा ।
द्वित्रिवारं प्रयत्नेन नागस्येत्थं मुखं भवेत् ॥ ३,२०.१०८ ॥
ग्रसते सर्वलोहानि सत्वानि विविधानि च ।
यदा न ग्रसते तस्माद् वटी देया पुनः पुनः ॥ ३,२०.१०९ ॥
{कठिनधातोर्मृदूकरणम्}
मधूकपुष्पी यष्टीकं रंभाकंदं घृतं गुडम् ।
तिलतैलम् अजाक्षीरं क्षौद्रं च तुल्यतुल्यकम् ॥ ३,२०.११० ॥
तन्मध्ये कठिनं धातु त्रिधा सिञ्च्यात् सुतापितम् ।
मृदुत्वं याति नो चित्रं सूत्रयोग्यं न संशयः ॥ ३,२०.१११ ॥
{कठिनधातोर् मृदूकरणम् (२)}
वसुभद्ररसेनाथ त्रिधा सिञ्च्य सुतापितम् ।
लोणवत्स्फुटितो धातुर्मृदुः स्यात् सिक्थकोपमः ॥ ३,२०.११२ ॥
{कठिनधातोर् मृदूकरणम् (३)}
अतिस्थूलस्य भेकस्य निवार्यान्त्राणि तत्र वै ।
चूर्णितं टंकणं क्षिप्त्वा तद्भाण्डस्थं खनेद्भुवि ॥ ३,२०.११३ ॥
त्रिसप्ताहं समुद्धृत्य तद्वापे मृदुतां व्रजेत् ।
स्वर्णं वा यदि वा रौप्यं मृदु स्यात्पत्रयोग्यकम् ॥ ३,२०.११४ ॥
{अभ्रग्रासी रसः}
तृणज्योतीयमूलेन मातुलिंगरसेन च ।
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ ३,२०.११५ ॥
{गुह्याख्यसूतेन नागवेधः}
भूनागसूक्ष्मचूर्णं तु टंकणेन समं भवेत् ।
तच्चूर्णं तु द्रुते नागे वाह्यं शतगुणं धमन् ॥ ३,२०.११६ ॥
गुह्याख्यं तद्भवेत्सिद्धं ग्रासं तस्यैव वक्ष्यते ।
शिलागंधकमाक्षीकैर् भूनागद्रवपेषितैः ॥ ३,२०.११७ ॥
मूषागर्भं लिपेत्तेन गुह्याख्यं तत्र निक्षिपेत् ।
भुक्तं तस्मिन्क्षिपेत्स्वर्णं स्तोकं स्तोकं धमन्धमन् ॥ ३,२०.११८ ॥
ग्रसते भारसंख्या तु मूषा लेप्या पुनः पुनः ।
मुञ्चत्यसौ द्रुते नागे गुह्याद्गुह्यं प्रकाशितम् ॥ ३,२०.११९ ॥
{गुह्याख्यसूतेन वङ्गवेधः}
भूनागं टंकणं तुल्यं सूक्ष्मचूर्णानि कारयेत् ।
तं वाहयेद् द्रुते बंगे यावच्छतगुणं धमन् ॥ ३,२०.१२० ॥
ततः शतगुणं बंगं तस्यैवोपरि वाहयेत् ।
स्तोकं स्तोकं धमन्नेव ग्रसते नात्र संशयः ॥ ३,२०.१२१ ॥
{गुह्यवङ्गकरणं तेन वेधः}
तालकं सैंधवं तुल्यं भूनागद्रवपेषितम् ।
मूषागर्भे लिपेत्तेन तद्बंगं तत्र निक्षिपेत् ॥ ३,२०.१२२ ॥
स्तोकं स्तोकं क्षिपेत्तस्मिन् बिडं दत्त्वा धमन्धमन् ।
भारसंख्या ग्रसत्येवं गुह्यवङ्गमिति स्मृतम् ॥ ३,२०.१२३ ॥
द्रुते बंगे विनिक्षिप्तं यावत्संख्या न संशयः ।
तावद् द्रुते न संदेहः सिद्धयोग उदाहृतः ॥ ३,२०.१२४ ॥
क्षिप्त्वाथ माहिषे शृङ्गे मर्दयन्नग्निना पचेत् ।
निष्कमेकं भवेद्यावत्तावन्मर्द्यं क्षिपन् क्षिपन् ॥ ३,२०.१२५ ॥
तद् भवेद्रसतुल्यं तु समादायाथ तत्समम् ॥ ३,२०.१२६ ॥
{गुह्ययोगः}
पारदं शुद्धहेमाथ सत्वं भूनागसंभवम् ।
चत्वारिंशन्नागभागा मर्द्यं जंबीरजद्रवैः ॥ ३,२०.१२७ ॥
तद्गोलकं विशोष्याथ कल्के भूनागसंभवे ।
मूषागर्भे विलेप्यादौ तस्यां गोलं निरोधयेत् ॥ ३,२०.१२८ ॥
धमेत्तीव्राग्निना तावद्यावन्नात्रावशेषितम् ।
सर्ववद्ग्रसते दत्ते गुह्याख्यं योगमुत्तमम् ॥ ३,२०.१२९ ॥
{कामधेनुः (१)}
अथातः सम्प्रवक्ष्यामि गुटिकाबंधमुत्तमम् ।
समजीर्णं कृतं व्योम समतो रसं जारयेत् ॥ ३,२०.१३० ॥
रविसंख्यांशकं शुल्बं दत्त्वा पिष्टिं च कारयेत् ।
धान्याभ्रकसमं गंधं शुल्बे क्षिप्त्वा विमर्दयेत् ॥ ३,२०.१३१ ॥
तयोर्मूषाकृतिं कृत्वा पिष्टीमध्ये विमोचयेत् ।
नरमांसेन संवेष्ट्य माषपिष्ट्या तथैव च ॥ ३,२०.१३२ ॥
पचेदतसीतैलेन मासमात्रं तु साधकः ।
अक्षया कामधेनुश्च वङ्गस्तम्भनकारिणी ॥ ३,२०.१३३ ॥
{कामधेनुः (२)}
पारदे जार्यं कृष्णाभ्रं रुक्मम् अष्टगुणं यदि ।
रञ्जितं गन्धरागेण नरमांसेन वेष्टितम् ॥ ३,२०.१३४ ॥
माषपिष्ट्या प्रलिप्याथातसीतैलेन पाचयेत् ।
कामधेनुरियं ख्याता नागस्तम्भनकारिणी ॥ ३,२०.१३५ ॥
{कामधेनुः (३)}
रसात्पादांशकं हेमपिष्टिं कुर्याच्च सुन्दराम् ।
विलिप्य कामधेनुं च नागद्रावे नियोजयेत् ॥ ३,२०.१३६ ॥
तं नागं कुरुते रुक्मं वाञ्छितार्थेषु सिद्धिदम् ।
गुटिकां कामधेनुं तां प्रत्यहं धारयेन्मुखे ।
शस्त्रास्त्रैर्न च भिद्येत दिव्यदेहमवाप्नुयात् ॥ ३,२०.१३७ ॥
{Silver => Gold}
शिलया मारितो नागः सूतराजसमन्वितः ।
रञ्जितो गन्धरागेण समहेम्ना च सारयेत् ।
तारवेधः प्रदातव्यो दिव्यं भवति कांचनम् ॥ ३,२०.१३८ ॥
{Lead => Gold}
शिलया रविदुग्धेन नागपत्राणि लेपयेत् ।
मारयेत्पुटयोगेन दिव्यं भवति कांचनम् ॥ ३,२०.१३९ ॥
{सितस्वर्ण => Gold}
मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ।
शतधा तत्प्रयोगेन शोष्यं पेष्यं खरातपे ॥ ३,२०.१४० ॥
सितस्वर्णस्य पत्राणि लिप्त्वा लिप्त्वा पुटे पचेत् ।
एवं त्रिसप्तधा कुर्याद् दिव्यं भवति कांचनम् ॥ ३,२०.१४१ ॥
{गगनग्रासः}
तृणजातीयमूलं तु मातुलिङ्गरसेन च ।
त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥ ३,२०.१४२ ॥
सिद्धैर्गणैः सुरवरै रससिद्धिकामैर् बद्धं हठात्परममन्त्रबलेन तैश्च ।
तस्माद् विशिष्टम् अनुजैः कृतमन्त्रजापैः कार्यं ततो रसवरे वरबन्धनं च ॥ ३,२०.१४३ ॥
"https://sa.wikisource.org/w/index.php?title=रसरत्नाकरः/खण्ड_३&oldid=162710" इत्यस्माद् पुनः प्राप्तिः