सामग्री पर जाएँ

रसरत्नाकरः/खण्ड २

विकिस्रोतः तः

रसरत्नाकरः, २, १

[सम्पाद्यताम्]
जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी ।
वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरम् अपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ २,१.१ ॥
अथातः सम्प्रवक्ष्यामि देहसिद्धिं सुशोभनाम् ।
यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २,१.२ ॥
न देहेन विना किंचिद् इष्टम् अस्ति जगत्त्रये ।
तस्मात् सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ २,१.३ ॥
शुभनक्षत्रदिवसे वमने रेचने कृते ।
ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ २,१.४ ॥
त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् ।
विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ २,१.५ ॥
क्वथितं त्रिदिनं पीतम् अम्लदोषहरं परम् ।
श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ २,१.६ ॥
सैन्धवं देवदारुश् च मुस्ता चैतत् समं समम् ।
घृतैर् लेह्यं तु कर्षैकं सप्ताहात् सर्वदोषजित् ॥ २,१.७ ॥
एवं विशुद्धदेहस् तु पूजयेद् देवतां गुरुम् ।
कुमारीं योगिनीचक्रं ततः कुर्याद् रसायनम् ॥ २,१.८ ॥
{रसायन}
निर्वाते भूगृहे वाथ बाह्यचिन्ताविवर्जितः ।
जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नभुग् भवेत् ॥ २,१.९ ॥
षष्ट्योदनं यवान्नं च गोधूमं मुद्गयूषकम् ।
जाङ्गलं भक्षयेन् मांसं केवलं क्षीरम् एव वा ॥ २,१.१० ॥
बलान्नं वाथ भुञ्जीत शाकलोणविवर्जितम् ।
अभ्यङ्गं मस्तुना कुर्यात् स्नानं चैव सुखाम्बुना ॥ २,१.११ ॥
काकिनीं स्त्रीं भजेन् नित्यं स्वानुकूलां सुयौवनाम् ।
रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ २,१.१२ ॥
मैथुनेन विना तस्य ह्य् अजीर्णो जायते रसः ।
अजीर्णे कम्पदाहार्ती हिक्का मूर्छा ज्वरोऽरतिः ॥ २,१.१३ ॥
कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि ।
सेवेत सुभगां तस्माद् दुर्भगां परिवर्जयेत् ॥ २,१.१४ ॥
अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि ।
कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ २,१.१५ ॥
बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् ।
मूलकं लशुनं तीक्ष्णं शीतम् उष्णं च वर्जयेत् ॥ २,१.१६ ॥
रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् ।
कलहोद्वेगचिन्ताश् च शोकं चैव विवर्जयेत् ॥ २,१.१७ ॥
आवर्जनाद् भवेच् छूलं निद्रालस्यं ज्वरोऽरतिः ।
त्र्यहं पिबेत् तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ २,१.१८ ॥
शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर् लिहेत् ।
सौवर्चलं गवां मूत्रैः पिबेद् वा तत्प्रशान्तये ॥ २,१.१९ ॥
वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः ।
क्वाथयेद् अष्टगुणितैस् तदष्टांशं ससैन्धवम् ॥ २,१.२० ॥
पिबेत् सर्वविकारघ्नं त्रिदिनं शिवभाषितम् ।
मूलं वा कारवल्ल्युत्थं सैन्धवं वा गवां जलैः ॥ २,१.२१ ॥
त्रिदिनं कर्षमात्रं तु पिबेत् सर्वविकारजित् ।
अपथ्यशीलिनाम् एतत् कथितं रससेविनाम् ॥ २,१.२२ ॥
अमुम् एव विधिं कुर्याद् रसायनविधौ किल ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद् विषम् ॥ २,१.२३ ॥
चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् ।
खादेत् ताम्बूलसंयुक्तं रससङ्क्रामणे हितम् ॥ २,१.२४ ॥
अथात्र वक्ष्यते सम्यग् आदौ पारदमारणम् ।
समुखस्य रसेन्द्रस्य वासनामुखितस्य वा ॥ २,१.२५ ॥
क्रमेण जारयेत् स्वर्णं समांशं पूर्ववत् ततः ।
तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः ॥ २,१.२६ ॥
मर्दयेत् त्रिदिनं खल्वे मूषायां चान्धितं ततः ।
करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥ २,१.२७ ॥
स्वेदितं मर्दयेद् भूयो बीजैर् दिव्यौषधोद्भवैः ।
तुल्यं खल्वे चतुर्यामं वज्रमूषान्धितं धमेत् ॥ २,१.२८ ॥
भस्मसूतं भवेत् तद्वै योज्यं सर्वरसायने ।
शुद्धसूतं समं स्वर्णं यामम् अम्लैर् विमर्दयेत् ॥ २,१.२९ ॥
प्रक्षाल्य ग्राहयेत् पिष्टीं पिष्ट्यर्धं शुद्धगन्धकम् ।
गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ २,१.३० ॥
स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् ।
दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥ २,१.३१ ॥
दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् ।
चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥ २,१.३२ ॥
तुषाग्निना लघुत्वेन जायते भस्मसूतकः ।
शुद्धसूतस् त्रिभागः स्याद् भागैकं ताम्रचूर्णकम् ॥ २,१.३३ ॥
दिनैकं मर्दयेद् अम्लैः क्षालितं पिष्टिम् आहरेत् ।
माक्षिकाद् धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ २,१.३४ ॥
तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः ।
तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥ २,१.३५ ॥
करीषाग्नौ दिवारात्रं पचेद् वा भस्मतां व्रजेत् ।
शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ २,१.३६ ॥
सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर् दिनम् ।
बीजैर् दिव्यौषधीनां च तुल्यैर् मर्द्यं दिनद्वयम् ॥ २,१.३७ ॥
गर्भयन्त्रगतं पच्यान् म्रियते पूर्ववत् पुटे ।
चतुरङ्गुलदीर्घं स्याद् विस्तारे चाङ्गुलत्रयम् ॥ २,१.३८ ॥
मृन्मयं सम्पुटं कृत्वा छायाशुष्कं च कारयेत् ।
लवणं विंशभागं स्याद् भागम् एकं तु गुग्गुलुम् ॥ २,१.३९ ॥
सर्वं तोयैः प्रपिष्याथ तेनैव सम्पुटोदरम् ।
लिप्त्वा तत्र रसं रुन्ध्याद् गर्भयन्त्रम् इदं भवेत् ॥ २,१.४० ॥
विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः ।
मर्दयेत् त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥ २,१.४१ ॥
काचकूप्या ह्य् अभावे तु निरुन्ध्याच्छरावसम्पुटे ।
पाचयेद् वालुकायन्त्रे चतुर्यामान् मृतो भवेत् ॥ २,१.४२ ॥
माक्षिकाद् धौतसत्त्वं तु तत्समं शुद्धगन्धकम् ।
द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥ २,१.४३ ॥
तत् सर्वं मर्दितं गोलं वज्रमूषान्धितं पचेत् ।
दिनैकं वालुकायन्त्रे मृतं स्याद् रक्तवर्णकम् ॥ २,१.४४ ॥
ऊर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे ।
उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥ २,१.४५ ॥
द्वाभ्यां चतुर्गुणं दत्त्वा ताम् आच्छाद्य पचेच् छनैः ।
क्रमाग्नौ वालुकायन्त्रे चतुर्यामान् मृतो भवेत् ॥ २,१.४६ ॥
स्नुह्या वा हेमवल्ल्या वा क्षीरैः शुद्धरसं दिनम् ।
मर्दयेद् गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥ २,१.४७ ॥
पूर्ववत् क्रमयोगेन मृतं योगेषु योजयेत् ।
शुद्धसूतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ २,१.४८ ॥
तत् सर्वं भृङ्गजैर् द्रावैर् दिनम् एकं विमर्दयेत् ।
वज्रमूषान्धितं ध्मातं म्रियते शशिसन्निभम् ॥ २,१.४९ ॥
द्रवैस् तु कीटमारिण्या ह्य् अजमोदाद्रवैश् च वा ।
अहिमार्या द्रवैर् वाथ किंवा श्वेताङ्कुलद्रवैः ॥ २,१.५० ॥
मर्दयेत् पारदं शुद्धं समगन्धं दिनत्रयम् ।
सम्पुटे मृन्मये रुद्ध्वा करीषाग्नौ दिवानिशि ॥ २,१.५१ ॥
पचेत् तुषाग्निना वाथ त्रिदिनान् म्रियते ध्रुवम् ।
शुद्धसूतं मृतं वज्रं समांशं तप्तखल्वके ॥ २,१.५२ ॥
हंसपाद्या द्रवैर् मर्द्यं त्रिदिनान्ते समुद्धरेत् ।
बीजैर् दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ २,१.५३ ॥
तत्र पूर्वरसं रुद्ध्वा त्रिदिनं तुषवह्निना ।
पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ २,१.५४ ॥
एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर् दृढम् ।
तद्गोलं पूर्ववत् पच्यान् मृतं भवति शोभनम् ॥ २,१.५५ ॥
वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् ।
मारणं वादिखण्डे वा तथा ज्ञेयं रसायने ॥ २,१.५६ ॥
एवं मृतो रसवरः परमामूतः स्यात् तत्सेवकाः सततम् अस्य दृढं तु तेषाम् ।
देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरम् एव नित्यम् ॥ २,१.५७ ॥


रसरत्नाकरः, २, २

[सम्पाद्यताम्]
धर्मज्ञैः शिववत्सलैर् निर्जरैर् भूपैर् महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि ।
रक्ष्यं गात्रम् अनन्तपुण्यनिचये मुक्तिश् च यस्माद् भवेत् तद् वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम् ॥ २,२.१ ॥
अभ्रकं भक्षयेद् आदौ मारितं चामृतीकृतम् ।
मासैकं निष्कनिष्कं वै क्षेत्रीकरणहेतवे ॥ २,२.२ ॥
यस्माद् अभ्रं रसक्षेत्रं ततः कुर्याद् रसायनम् ।
अक्षेत्रीकरणे सूतो ह्य् अमृतो विषतां व्रजेत् ॥ २,२.३ ॥
फलसिद्धिः कुतस् तस्य सुबीजस्योषरे यथा ।
वज्रपारदयोर् भस्म समभागं प्रकल्पयेत् ॥ २,२.४ ॥
सूतपादं मृतं स्वर्णं सर्वं मर्द्यं दिनावधि ।
हंसपाद्या द्रवैर् एव तद्गोलं चान्धितं पुटेत् ॥ २,२.५ ॥
अर्कक्षीरैः पुनर् मर्द्यं तद्वद् गजपुटे पचेत् ।
भक्षयेत् सर्षपवृद्धं यावन् माषं विवर्धयेत् ॥ २,२.६ ॥
शरण्यः साधकानां तु रसोऽयं वज्रपञ्जरः ।
चित्रकार्द्रकसिन्धूत्थमृततीक्ष्णसुवर्चलम् ॥ २,२.७ ॥
समं सर्वं सदा चानु भक्ष्यं स्यात् क्रामणे हितम् ।
मासषट्कप्रयोगेण जीवेद् आचन्द्रतारकम् ॥ २,२.८ ॥
वलीपलितनिर्मुक्तो दिव्यकायो महाबलः ।
मृतसूताद् द्वादशांशं मृतं वज्रं प्रकल्पयेत् ॥ २,२.९ ॥
द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ।
तत् सर्वं भृङ्गजैर् द्रावैर् मर्दितं भावयेत् त्र्यहम् ॥ २,२.१० ॥
त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर् माषं ततो लिहेत् ।
रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ २,२.११ ॥
चतुर्मासैर् जरां हन्ति जीवेद् ब्रह्मदिनं किल ।
भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत् त्रिफलासमम् ॥ २,२.१२ ॥
पलैकं मधुना लेह्यं क्रामकं परमं रसे ।
वज्रसूताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ २,२.१३ ॥
तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर् दृढम् ।
रुद्ध्वा तं त्रिदिनं पच्याद् वालुकायन्त्रगं पुनः ॥ २,२.१४ ॥
उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर् द्रवैः ।
माषैकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ २,२.१५ ॥
मासषट्कप्रयोगेण रुद्रतुल्यो भवेन् नरः ।
वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ २,२.१६ ॥
पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः ।
सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत् पलम् ॥ २,२.१७ ॥
सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् ।
शतावर्याः शिफाद्रावैर् भावयेद् दिवसत्रयम् ॥ २,२.१८ ॥
त्रिदिनं त्रिफलाक्वाथैर् भृङ्गद्रावैर् दिनत्रयम् ।
भावितं मधुसर्पिर्भ्यां भक्षयेद् भैरवं रसम् ॥ २,२.१९ ॥
माषैकैकं वर्षमात्रं जीवेच् चन्द्रार्कतारकम् ।
मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २,२.२० ॥
पलैकैकं पिबेच् चानु क्रामकं परमं हितम् ।
रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २,२.२१ ॥
यामैकं मर्दयेत् सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २,२.२२ ॥
जराकालं निहन्त्य् आशु जीवेद् वर्षशतत्रयम् ।
पलार्धं मुसलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २,२.२३ ॥
धात्रीफलरसैर् वाथ क्रामकं ह्य् अनुपानकम् ।
मेघनादद्रवैर् मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २,२.२४ ॥
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २,२.२५ ॥
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयत् पचेत् ॥ २,२.२६ ॥
तत्पिण्डं कर्षम् एकैकं भक्षयेद् अमृतार्णवः ।
वर्षमात्राञ् जरां हन्ति जीवेद् वर्षशतत्रयम् ॥ २,२.२७ ॥
वाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।
पारदाद् द्विगुणं गन्धं शुद्धं सर्वं विमर्दयेत् ॥ २,२.२८ ॥
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।
एतत् तुल्यं शुद्धताम्रं सम्पुटे तन् निरोधयेत् ॥ २,२.२९ ॥
वेष्टयेद् वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।
लिप्त्वा विशोषयेत् तं वै सम्यग् गजपुटे पचेत् ॥ २,२.३० ॥
उद्धृत्य सम्पुटं चूर्ण्यं देवदाल्या द्रवैस् त्र्यहम् ।
भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ २,२.३१ ॥
तत्तुल्यं नागराच् चूर्णं क्षिप्त्वा मध्वाज्यसंयुतम् ।
लिहेन् माषद्वयं नित्यं यावत् संवत्सरावधि ॥ २,२.३२ ॥
रसोऽयम् उदयादित्यो जरामृत्युहरः परः ।
पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ २,२.३३ ॥
मध्वाज्याभ्यां लिहेत् कर्षम् अनु स्यात् क्रामणं परम् ।
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ २,२.३४ ॥
भृङ्गधात्रीफलद्रावैश् छायायां भावयेत् त्र्यहम् ।
सितामध्वाज्यकैस् तुल्यं सर्वं भाण्डे निरोधयेत् ॥ २,२.३५ ॥
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।
भक्षयेच् च पिबेत् क्षीरं कर्षैकं त्रिफलाम् अनु ॥ २,२.३६ ॥
रात्रौ शुण्ठीं कणां खादेद् वर्षैकाद् अमरो भवेत् ।
जीवेद् ब्रह्मदिनं वीरः स्याद् रसो गगनेश्वरः ॥ २,२.३७ ॥
वटक्षीरैस् त्र्यहं मर्द्यं गन्धं शुद्धरसं समम् ।
वटकाष्ठाग्निना पच्यान् मृत्पात्रे यामपञ्चकम् ॥ २,२.३८ ॥
क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् ।
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ २,२.३९ ॥
उष्णकाले तु गुञ्जैकं ताम्बूलपत्रसंयुतम् ।
चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ २,२.४० ॥
चूर्णम् उत्तरवारुण्या वाकुच्या देवदालिजम् ।
मध्वाज्याभ्यां लिहेत् कर्षं क्रामकं ह्य् अनुपानकम् ॥ २,२.४१ ॥
वर्षमात्राज् जरां हन्ति जीवेद् वर्षशतत्रयम् ।
रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ २,२.४२ ॥
मृतं सूतं शुद्धगन्धं त्रिफलां गुग्गुलुं समम् ।
सर्वं वातारितैलेन मिश्रं कर्षं लिहेत् सदा ॥ २,२.४३ ॥
षण्मासेन जरां हन्ति जीवेद् ब्रह्मदिनत्रयम् ।
तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥ २,२.४४ ॥
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि ।
सितायुक्तं पिबेच् चानु रसोऽयम् अचलेश्वरः ॥ २,२.४५ ॥
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर् द्रवैः ॥ २,२.४६ ॥
सप्ताहं मर्दयेत् खल्वे तद्गोलं चान्धितं पुटेत् ।
भूधरे दिनम् एकं तु ख्यातः सिद्धरसः परः ॥ २,२.४७ ॥
माषैकं मधुना लेह्यं वर्षान् मृत्युजरापहम् ।
दिव्यकायो नरः सिद्धो भवेद् विष्णुपराक्रमः ॥ २,२.४८ ॥
श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिबेत् ।
भक्षयेद् वा सिता सार्धं क्रामकं परमे रसे ॥ २,२.४९ ॥
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।
दिनैकं कन्यकाद्रावैर् मर्दयित्वा निरोधयेत् ॥ २,२.५० ॥
दिनैकं मधुना पच्यान् निष्कैकं मधुना लिहेत् ।
गन्धामृतो रसो नाम वत्सरान् मृत्युजिद् भवेत् ॥ २,२.५१ ॥
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ २,२.५२ ॥
एकीकृत्य पलैकैकं भक्षयेद् अनुपानकम् ।
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ २,२.५३ ॥
तत् सर्वं भृङ्गजैर् द्रावैर् मर्दयेद् दिनसप्तकम् ।
षड्वारं चाङ्कुलीतैलैर् भावयित्वाथ भक्षयेत् ॥ २,२.५४ ॥
माषमात्रं तु वर्षैकं रसोऽयं कालकण्टकः ।
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेद् अनु ॥ २,२.५५ ॥
जरामृत्युविनिर्मुक्तो जीवेद् ब्रह्मदिनं नरः ।
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ २,२.५६ ॥
तुल्यांशं मधुसर्पिर्भ्यां लिहेद् गुञ्जात्रयं सदा ।
षण्मासेन जरां हन्ति जीवेद् ब्रह्मदिनं नरः ॥ २,२.५७ ॥
अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् ।
भागाष्टकं गुडं तस्मिन् क्षिपेद् भागं च पिप्पलीम् ॥ २,२.५८ ॥
मृद्वग्निना च तत् सर्वं पिण्डितं भक्षयेत् पलम् ।
क्रामकं ह्य् अमृतेशस्य रसराजस्य सिद्धये ॥ २,२.५९ ॥
त्रिगुणं शुद्धसूतस्य योजयेच् छुद्धगन्धकम् ।
लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ २,२.६० ॥
स्नुह्यर्कपयसा मर्द्यं तत् सर्वं दिवसत्रयम् ।
तच् छुष्कं चान्धितं पच्यात् करीषाग्नौ दिवानिशम् ॥ २,२.६१ ॥
ततश् च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेद् दृढम् ।
गुञ्जैकं मधुना खादेद् रसवीरो महारसः ॥ २,२.६२ ॥
अब्दैकेन जरां हन्ति जीवेद् आचन्द्रतारकम् ।
मुसलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ २,२.६३ ॥
छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् ।
मृतसूतसमं गन्धं काकमाच्या द्रवैर् दिनम् ॥ २,२.६४ ॥
मर्दितं चान्धितं पच्यात् करीषाग्नौ दिवानिशम् ।
दिव्यौषधदलद्रावैर् दिनं मर्द्यं तम् अन्धयेत् ॥ २,२.६५ ॥
ध्मातं तस्मात् समुद्धृत्य तत्तुल्यं हाटकं मृतम् ।
एकीकृत्य घृतैर् लेह्यं माषैकं वत्सरावधि ॥ २,२.६६ ॥
जरां मृत्युं निहन्त्य् आशु सत्यं काञ्चायनो रसः ।
काकमाचीद्रवैर् भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ २,२.६७ ॥
मधुना भक्षयेत् कर्षम् अनु स्यात् क्रामकं परम् ।
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ २,२.६८ ॥
शिग्रुमूलद्रवैर् मर्द्यं तद्गोलं भाण्डमध्यगम् ।
रुद्ध्वा पच्याल् लघुत्वेन शाककाष्ठैर् दिनावधि ॥ २,२.६९ ॥
परानन्दो रसो नाम घृतैर् निष्कं सदा लिहेत् ।
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग् विपाचयेत् ॥ २,२.७० ॥
तच् छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेद् अनु ।
संवत्सरप्रयोगेण जीवेद् आचन्द्रतारकम् ॥ २,२.७१ ॥
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।
लोहांशं शोधितं गन्धं भावयेद् दिनसप्तकम् ॥ २,२.७२ ॥
तत् सर्वं त्रिफलाक्वाथैर् भृङ्गशिग्रुकचित्रकैः ।
द्रवैः पृथक् पृथग् भाव्यं सप्तधा सप्तधा क्रमात् ॥ २,२.७३ ॥
सप्तधा कटुकीक्वाथैर् भावितं चूर्णयेत् पुनः ।
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ २,२.७४ ॥
सर्वमेकीकृतं खादेन् निष्कैकं वत्सरावधि ।
महाकालो रसो नाम जराकालभयंकरः ॥ २,२.७५ ॥
तिलकोरण्टपत्त्राणि गुडेन भक्षयेदनु ।
मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ २,२.७६ ॥
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ २,२.७७ ॥
तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ २,२.७८ ॥
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।
जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ २,२.७९ ॥
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ २,२.८० ॥
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ २,२.८१ ॥
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं सूतान्मृतं वज्रं पादांशं तत्र योजयेत् ॥ २,२.८२ ॥
सर्वं जम्बीरजैर्द्रावैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पावयेद् दिनम् ॥ २,२.८३ ॥
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद् द्रुतम् ।
तच्चूर्णं मधुनाज्येन माषमात्रं लिहेत्सदा ॥ २,२.८४ ॥
रसः श्रीकण्ठनामायं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेन जीवेत्कल्पान्तमेव च ॥ २,२.८५ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ २,२.८६ ॥
शुद्धताम्रस्य भागैकं द्विषट् शुद्धरसस्य च ।
त्रयं भूनागसत्त्वस्य भागमेकत्र वारयेत् ॥ २,२.८७ ॥
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ २,२.८८ ॥
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।
यावज् जीर्णं पुटे पच्याद् एवं षड्गुणगन्धकम् ॥ २,२.८९ ॥
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
यामं जम्बीरजैर्द्रावैस्ततो निश्चन्द्रमभ्रकम् ॥ २,२.९० ॥
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ २,२.९१ ॥
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधि ।
तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ २,२.९२ ॥
दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् ।
उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ २,२.९३ ॥
अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् ।
एव पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ २,२.९४ ॥
शिखिपित्तप्रलिप्तानि स्वर्णपत्त्राणि तस्य वै ।
चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ २,२.९५ ॥
स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् ।
इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ २,२.९६ ॥
ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् ।
तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ २,२.९७ ॥
ततो दिव्यौषधद्रावैस्तं सूतं मर्दयेत् त्र्यहम् ।
वज्रमूषान्धितं धाम्यं बद्धं स्याच् चूर्णयेत्पुनः ॥ २,२.९८ ॥
मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् ।
रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ २,२.९९ ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
सप्ताहं भृङ्गजैर्द्रावैर् नीलमुण्डीफलत्रयम् ॥ २,२.१०० ॥
भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु ।
शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कञ्जलम् ॥ २,२.१०१ ॥
तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा ।
सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ २,२.१०२ ॥
दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् ।
आच्छाद्यैरण्डपत्त्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ २,२.१०३ ॥
धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डीचित्रकम् ॥ २,२.१०४ ॥
कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः ।
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ २,२.१०५ ॥
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।
कषायैर्भावितं चूर्ण्यं जातीफललवंगकम् ॥ २,२.१०६ ॥
त्रिकटु त्रिफला चैला चूर्णयेन् नवकं समम् ।
तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ २,२.१०७ ॥
वर्षैकं लेहयेन् नित्यं जराकालप्रशान्तये ।
स्वयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ २,२.१०८ ॥
तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् ।
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥ २,२.१०९ ॥
शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया ।
पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ २,२.११० ॥
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् ।
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ २,२.१११ ॥
वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ।
तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ २,२.११२ ॥
पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।
रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ २,२.११३ ॥
जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।
वर्षैकेन न संदेहो रसकायो भवेन् नरः ॥ २,२.११४ ॥
भल्लातबीजचूर्णं च हयगन्धामृताघृतैः ।
पलैकं भक्षयेच् चानु क्रामकं परमं हितम् ॥ २,२.११५ ॥
मृतसूताभ्रकं वज्रं कान्ततारार्कहाटकम् ।
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥ २,२.११६ ॥
सर्वं पालाशतैलेन मर्दयेद् दिनसप्तकम् ।
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ २,२.११७ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
वत्सरात् सप्तकल्पानि जीवत्येव न संशयः ॥ २,२.११८ ॥
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ २,२.११९ ॥
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।
क्रामकं ह्य् अनुपानं स्यात् सम्यक्छक्त्या प्रकाशितम् ॥ २,२.१२० ॥
लोहितं वाथ वा कृष्णं वैक्रान्तं मारितं पलम् ।
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ २,२.१२१ ॥
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद् दिनम् ।
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ २,२.१२२ ॥
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद् दिनत्रयम् ॥ २,२.१२३ ॥
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।
सप्तधा भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्पुनः ॥ २,२.१२४ ॥
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्णं विमिश्रयेत् ।
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ २,२.१२५ ॥
सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् ।
दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ २,२.१२६ ॥
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।
पिबेन् निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ २,२.१२७ ॥
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।
अम्लवेतससम्पिष्टं तेनैव द्रुतिमाप्नुयात् ॥ २,२.१२८ ॥
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।
मर्दितं लेहयेन्माषं मासाद्बालो भवेन् नरः ॥ २,२.१२९ ॥
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।
वाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ २,२.१३० ॥
चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ २,२.१३१ ॥
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।
शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद् दिनम् ॥ २,२.१३२ ॥
माषमात्रां वटीं खादेद्वत्सरान् मृत्युजिद्भवेत् ।
जीवेद्ब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ २,२.१३३ ॥
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।
शाल्मलीत्वग्दलद्रावैर् भावयेद् दिवसत्रयम् ॥ २,२.१३४ ॥
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।
पुरातनगुडैस्तुल्यं कर्षैकमनु भक्षयेत् ॥ २,२.१३५ ॥
रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् ।
छेदे निर्याति रक्तं चेत् तान् स्वीकुर्यात् प्रयत्नतः ॥ २,२.१३६ ॥
कृष्णवर्णागवाज्येन समेन सह तान् पचेत् ।
लोहजे चालयन् पात्रे यावत् सिन्दूरवर्णकम् ॥ २,२.१३७ ॥
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।
मधुनालोडितं सर्वं गुञ्जार्धार्धं विवर्धयन् ॥ २,२.१३८ ॥
पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।
शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।
आयुर् ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु ॥ २,२.१३९ ॥
एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनबलाद् येषां तु दृष्टं मया ।
तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ २,२.१४० ॥


रसरत्नाकरः, २, ३

[सम्पाद्यताम्]
दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति ।
शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थम् अनुपानमत्र वै ॥ २,३.१ ॥
काकतुम्बी काकमाची निर्गुण्डी च कुमारिका ।
गोजिह्वा सैन्धवं गुञ्जा ह्य् आर्द्रकं च समं समम् ॥ २,३.२ ॥
पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाङ्गुलावधि ।
पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ २,३.३ ॥
ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् ।
दिनं जम्बीरजैर्द्रावैस्तन्मूषायां विनिक्षिपेत् ॥ २,३.४ ॥
आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् ।
करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ २,३.५ ॥
पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत् ततः ।
इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥ २,३.६ ॥
जायते गुटिका दिव्या मृतसंजीवनी परा ।
वक्त्रे शिरसि कण्ठे वा कर्णे वा धारिता करे ॥ २,३.७ ॥
हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा ।
वलीपलितकालाग्निमृत्युशङ्काविनाशनी ॥ २,३.८ ॥
वर्षमात्रान् न संदेहो जीवेद् वर्षशतत्रयम् ।
शुद्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥ २,३.९ ॥
अनेन त्व् अनुपानेन देहे संक्रमते रसः ।
समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ २,३.१० ॥
तत्त्वं मृतं वज्रं सर्वं जम्बीरजैर् द्रवैः ।
सप्ताहं मर्दयेत् तुल्यं कृत्वा गोलं समुद्धरेत् ॥ २,३.११ ॥
निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका ।
पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥ २,३.१२ ॥
तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे ।
लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ २,३.१३ ॥
यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः ।
सुपिष्टैर् लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ २,३.१४ ॥
टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च ।
खदिराङ्गारयोगेन धमेद् यावद् द्रुतं भवेत् ॥ २,३.१५ ॥
ततस्तं विडलिप्तायां मूषायां च निवेशयेत् ।
तत्तुल्यं दापयेत्स्वर्णं जयेत्तं धमन् धमन् ॥ २,३.१६ ॥
जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् ।
त्र्यहं दिव्यौषधिद्रावैर् वज्रमूषान्धितं धमेत् ॥ २,३.१७ ॥
जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा ।
वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ २,३.१८ ॥
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर् यच्छति ध्रुवम् ।
कृष्णाष्टम्यां समादाय सहदेवीं सु चूर्णयेत् ॥ २,३.१९ ॥
कर्षैकां भक्षयेद् आज्यैरनु स्यात् क्रामेण हितम् ।
आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २,३.२० ॥
स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् ।
भगैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ २,३.२१ ॥
क्षिप्त्वा तस्यां निरुध्याथ याममात्रं दृढं धमेत् ।
उद्धृत्य निक्षिपेत्खल्वे शुद्धसूतं च तत्समम् ॥ २,३.२२ ॥
मर्दयेच् चार्द्रकद्रावैर् यावद्भवति गोलकः ।
चण्डालीकन्दमादाय स्त्रीस्तन्येन सु पेषयेत् ॥ २,३.२३ ॥
अनेन गोलकं लिप्त्वा वज्रमूषायां निरोधयेत् ।
पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ २,३.२४ ॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिबेत् ॥ २,३.२५ ॥
क्रामणं ह्य् अनुपानं स्यात् साधकस्यातिसिद्धिदम् ।
तदुद्भवमलैर् लिप्तं ताम्रं तु धमनेन हि ॥ २,३.२६ ॥
जायते कनकं दिव्यं सत्यं शंकरभाषितम् ।
समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २,३.२७ ॥
जारयेद् विडयोगेन ततो मर्द्यं दिनत्रयम् ।
दिव्यौषधैः सगोमूत्रैर् वज्रमूषान्धितं धमेत् ॥ २,३.२८ ॥
उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी ।
पलार्धं गन्धकं चाज्यैर् द्विगुणैर् लेहयेदनु ॥ २,३.२९ ॥
वर्षैकेन जरां हन्ति जीवेद् आचन्द्रतारकम् ।
शुद्धसूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ २,३.३० ॥
अम्लवर्गे समं सर्वं मर्दयेद् दिवसत्रयम् ।
तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ २,३.३१ ॥
ब्रह्मकार्पासबीजानि राजिका यवचिञ्चिका ।
वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ २,३.३२ ॥
रुद्ध्वा गजपुटे पच्यात् समुद्धृत्याथ लेपयेत् ।
रुद्ध्वा मूषायां धमेद्गाढं गुटिका वज्रखेचरी ॥ २,३.३३ ॥
जायते धारिता वक्त्रे वत्सरान् मृत्युनाशिनी ।
भूतारवटचूर्णं तु पलैकं सितया युतम् ॥ २,३.३४ ॥
भक्षयेत् क्रामणार्थं तु ब्रह्मायुर्जायते नरः ।
कार्पास्याः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ २,३.३५ ॥
शुद्धसूतं दिनं मर्द्यं क्षाल्यम् अम्लैः समुद्धरेत् ।
तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ २,३.३६ ॥
पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् ।
हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ २,३.३७ ॥
दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् ।
त्रिदिनं दोलकायन्त्रे पाचयेत् सारनालके ॥ २,३.३८ ॥
उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी ।
वर्षमात्राज् जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ २,३.३९ ॥
चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके ।
आलोड्य भक्षयेत् कर्षमनु स्यात्क्रामणे हितम् ॥ २,३.४० ॥
निष्कमेकं स्वर्णपत्त्रं त्रिनिष्कं शुद्धपारदम् ।
जम्बीरशरपुङ्खोत्थद्रवैर् मर्द्यं दिनावधि ॥ २,३.४१ ॥
तद्गोलं बन्धयेद्वस्त्रे पचेद् गोक्षीरपूरिते ।
दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ २,३.४२ ॥
जायते धारिता वक्त्रे जरामृत्युविनाशिनी ।
वर्षमात्रान् न संदेहो जीवेद्वर्षायुतं नरः ॥ २,३.४३ ॥
दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः ।
भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ २,३.४४ ॥
रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् ।
चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्यं दिनावधि ॥ २,३.४५ ॥
तद्गोलं बन्धयेद् वस्रैस् तक्रचिञ्चाम्लपूरिते ।
दोलायन्त्रे दिनं पच्याद्गुटिकार्कप्रभावती ॥ २,३.४६ ॥
वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन् नरः ।
पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ २,३.४७ ॥
क्रामकं ह्य् अनुपानं स्याज् जरामृत्युहरं परम् ।
स्वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम् ॥ २,३.४८ ॥
त्रिभागं व्योमसत्त्वं स्यात् षड्भागं शुल्बचूर्णकम् ।
सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ २,३.४९ ॥
मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके ।
तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ २,३.५० ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥ २,३.५१ ॥
स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् ।
एतत्सर्वं समं चूर्णं चूर्णांशं मृतवज्रकम् ॥ २,३.५२ ॥
सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः ।
मर्दयेद् दिनमेकं तु वज्रमूषान्धितं धमेत् ॥ २,३.५३ ॥
गुटिका वज्रतुण्डेयं जायते धारिता मुखे ।
जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ २,३.५४ ॥
वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् ।
कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ २,३.५५ ॥
पलैकं क्रामकं लेह्यमनुपानं सदैव हि ।
स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ २,३.५६ ॥
पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः ।
द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ॥ २,३.५७ ॥
मर्दयेत् कान्तचूर्णं च वज्रतुल्यं क्षिपेच् च वै ।
वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ २,३.५८ ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ २,३.५९ ॥
मिश्रितं पाययेच् चानु लक्षायुर्जायते नरः ।
लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ २,३.६० ॥
किंचिच् चाल्यं तु काष्ठेन मुहूर्ताद् अवतारयेत् ।
शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ २,३.६१ ॥
पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका ।
एतासां वस्त्रपूतैश्च द्रवैर्मर्द्यं दिनत्रयम् ॥ २,३.६२ ॥
तस्मिन् पात्रे लोहमुष्ट्या छायाशुष्कं वटीकृतम् ।
लोहसम्पुटगं रुद्ध्वा संधिं मृल्लवणैर् दृढम् ॥ २,३.६३ ॥
तं धमेत् खदिराङ्गारे यावदारक्तमुद्धरेत् ।
उत्खन्योत्खन्य तन्मध्याद् उद्धरेत् तद्रसं पुनः ॥ २,३.६४ ॥
काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् ।
गान्धारीगुटिका सिद्धा वर्षं वक्त्रे स्थिता सदा ॥ २,३.६५ ॥
काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् ।
क्रामकं ह्य् अनुपानं स्याज् जीवेद्वर्षसहस्रकम् ॥ २,३.६६ ॥
शुद्धसूतसमं गन्धं मर्दनात् कज्जलीकृतम् ।
तत् ताम्रसम्पुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ २,३.६७ ॥
शुष्कं दीपाग्निना पच्याद् यामैकं भस्मयन्त्रके ॥ २,३.६८ ॥
सम्पुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् ।
तुल्यपारदसंयुक्तं पूर्ववत्सम्पुटे पचेत् ॥ २,३.६९ ॥
उद्धृत्य तुल्यसूतेन संयुक्तं मर्दितं पचेत् ।
इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ २,३.७० ॥
तुल्यं तुल्यं क्षिपेत् तस्मिन् दिनं सर्वं विमर्दयेत् ।
वज्रमूषागतं रुद्ध्वा ध्माते खोटो भवेद्रसः ॥ २,३.७१ ॥
मार्तण्डी गुटिका ह्य् एषा वर्षैकं यस्य वक्त्रगा ।
वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ २,३.७२ ॥
पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् ।
क्रामणं प्रपिबेन् नित्यं तत्क्षणान् मूर्छितो भवेत् ॥ २,३.७३ ॥
तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् ।
प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ २,३.७४ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
वायुवेगो महासिद्धश् छिद्रां पश्यति मेदिनीम् ॥ २,३.७५ ॥
काकमाच्यमृताद्रावैः पारदं तालकं समम् ।
मर्दयेद् दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ २,३.७६ ॥
निक्षिपेद् वज्रमूषायामाच्छाद्य लोहपर्पटैः ।
रुद्ध्वा संधिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ २,३.७७ ॥
लोहपर्पटकं दत्त्वा तद्वद् धाम्यं त्रिधा पुनः ।
वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ २,३.७८ ॥
वाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु ।
व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥ २,३.७९ ॥
तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् ।
सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥ २,३.८० ॥
त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् ।
विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ २,३.८१ ॥
यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते ।
कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥ २,३.८२ ॥
वाक्पतिर्जायते धीरो जीवेच् चन्द्रार्कतारकम् ।
कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ २,३.८३ ॥
स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् ।
स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥ २,३.८४ ॥
तन्मध्ये द्रुतसूतं तु वज्रभस्म समं समम् ।
क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ २,३.८५ ॥
ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्धठात् ।
एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥ २,३.८६ ॥
ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् ।
एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ २,३.८७ ॥
तेजःपुञ्जो रसेन्द्रोऽसौ भवेन् मार्तण्डसंनिभः ।
गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥ २,३.८८ ॥
वर्षमात्रान् न संदेहो रुद्रतुल्यो भवेन् नरः ।
तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ २,३.८९ ॥
पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा ।
टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥ २,३.९० ॥
महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् ।
पिष्ट्वा तल्लिप्तमूषायाम् अभ्रसत्त्वं क्षिपेद्धमेत् ॥ २,३.९१ ॥
सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद् द्रुतपारदम् ।
द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥ २,३.९२ ॥
मिलितो जायते बद्धः पूर्ववत् काचटङ्कणैः ।
ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥ २,३.९३ ॥
वर्षैकं धारयेद्वक्त्रे शिवतुल्यो भवेन् नरः ।
अजरामरकारीयं गुटिका गगनेश्वरी ॥ २,३.९४ ॥
बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु ।
उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥ २,३.९५ ॥
साक्षाज् जातिस्मरत्वं च कवित्वं श्रुतधारणम् ।
खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥ २,३.९६ ॥
अग्निमन्थो वज्रवल्ली सूरणं वनशूरणम् ।
चित्रकश्च द्रवैरेषां शुद्धसूतं दिनावधि ॥ २,३.९७ ॥
मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् ।
पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥ २,३.९८ ॥
मर्दयेद् दिनमेकं तु कृत्वा तं गोलकं पुनः ।
चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥ २,३.९९ ॥
चतुःपले शुद्धताम्रसम्पुटे तां निरोधयेत् ।
मृण्मूषायां तु तां रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥ २,३.१०० ॥
शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् ।
सर्वं दिव्यौषधद्रावैर् मर्दयेद् दिवसत्रयम् ॥ २,३.१०१ ॥
चतुर्निष्कमिता कार्या वटिका शोषयेत्ततः ।
एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ २,३.१०२ ॥
आनन्दगुटिका ह्य् एषा वक्त्रस्था मृत्युनाशिनी ।
वत्सरान् नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥ २,३.१०३ ॥
तैलं वातारिबीजोत्थं गोक्षीरैर् निष्कमात्रकम् ।
क्रामणार्थं पिबेन् नित्यं शीघ्रसिद्धिकरं परम् ॥ २,३.१०४ ॥
वज्रभस्मसमं सूतं हंसपाद्या द्रवैस्त्र्यहम् ।
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं पुटेत् ॥ २,३.१०५ ॥
भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै ।
पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैस्त्र्यहम् ॥ २,३.१०६ ॥
मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥ २,३.१०७ ॥
नक्षत्राभं भवेद् यावत्तावद्धाम्यं पुनः पुनः ।
तद्रसं व्योमसत्त्वं च काञ्चनं च समं समम् ॥ २,३.१०८ ॥
समावर्त्य ततः कार्या गुटिका वक्त्रमध्यगा ।
वज्रखेचरिका नाम वत्सरान् मृत्युनाशिनी ॥ २,३.१०९ ॥
वलीपलितनिर्मुक्तो दिव्यकायो भवेन् नरः ।
निर्गुण्डीमुनिचूर्णं तु कर्षमाज्यैः पिबेदनु ॥ २,३.११० ॥
कान्तं शुल्बं समं चूर्णं वज्रमूषान्धितं धमेत् ।
तत्खोटसिद्धचूर्णं तु गन्धकाम्लेन मर्दयेत् ॥ २,३.१११ ॥
रुद्ध्वा सम्यक्पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।
पूर्ववत्क्रमयोगेन पुटेद् वारांश्चतुर्दश ॥ २,३.११२ ॥
वज्रेण द्वंद्वितं स्वर्णमनेनैव तु रञ्जयेत् ।
मूषामध्ये धमन्न् एवं सप्तवारं समं क्षिपेत् ॥ २,३.११३ ॥
तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि ।
तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत् ॥ २,३.११४ ॥
वेष्टयेद् भूर्जपत्त्रेण वस्त्रे बद्ध्वा पचेत् त्र्यहम् ।
दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥ २,३.११५ ॥
गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी ।
एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥ २,३.११६ ॥
अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥ २,३.११७ ॥
गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा ।
वक्त्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन् नरः ॥ २,३.११८ ॥
जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः ।
वर्षद्वादशपर्यन्तं यस्य वक्त्रे स्थिता तु सा ॥ २,३.११९ ॥
तस्य प्रस्वेदसम्पर्कादष्टलोहानि काञ्चनम् ।
जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥ २,३.१२० ॥
पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु ।
स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥ २,३.१२१ ॥
समांशं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥ २,३.१२२ ॥
माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् ।
समस्तं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥ २,३.१२३ ॥
तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।
त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥ २,३.१२४ ॥
रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ।
द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटेत्तथा ॥ २,३.१२५ ॥
इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् ।
दत्त्वा मर्द्यं पुटे पच्याज् जायते भस्मसूतकः ॥ २,३.१२६ ॥
भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद् दृढम् ।
जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥ २,३.१२७ ॥
वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ २,३.१२८ ॥
जायते कनकं दिव्यं समावर्ते न संशयः ।
पलद्वयं भृङ्गराजद्रव्यं चानु पिबेत्सदा ॥ २,३.१२९ ॥
पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् ।
वर्षैकं मधुनाज्येन लक्षायुर्जायते नरः ॥ २,३.१३० ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
स्वर्णं वैक्रान्तसत्त्वं च द्वंद्वितं जारयेद्रसे ॥ २,३.१३१ ॥
समांशं तु भवेद् यावत्ततस्तेनैव सारयेत् ।
समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ २,३.१३२ ॥
संवत्सरप्रयोगेण जराकालापमृत्युजित् ।
कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ २,३.१३३ ॥
स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् ।
वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ २,३.१३४ ॥
दिनं दिव्यौषधद्रावैस् तद्गोलं निगडेन वै ।
लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ २,३.१३५ ॥
छायायां शोषयेत्संधिं त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ २,३.१३६ ॥
तद्गोलं निगडेनैव लिप्त्वा तद्वन् निरुध्य च ।
छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥ २,३.१३७ ॥
वर्षैकं धारयेद्वक्त्रे जीवेद् ब्रह्मदिनत्रयम् ।
वैक्रान्तगुटिका ह्य् एषा सर्वकामफलप्रदा ॥ २,३.१३८ ॥
कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु ।
हेम्ना यद्द्वंद्वितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ २,३.१३९ ॥
एतद्देयं गुह्यसूते मूषायामधरोत्तरम् ।
पादमात्रं प्रयत्नेन रुद्ध्वा संधिं विशोषयेत् ॥ २,३.१४० ॥
भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ।
दिव्यौषधफलद्रावैस् तप्तखल्वे दिनावधि ॥ २,३.१४१ ॥
रुद्ध्वाथ भूधरे पच्याद् दिनं लघुपुटैः पुटेत् ।
समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ २,३.१४२ ॥
तुषाग्निना शनैः स्वेद्यम् ऊर्ध्वाधः परिवर्तयन् ।
जायते भस्मसूतोऽयं सर्वयोगेषु योजयेत् ॥ २,३.१४३ ॥
द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् ।
शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ २,३.१४४ ॥
अन्धमूषागतं धाम्यं खोटो भवति तद्रसः ।
धमेत्प्रकटमूषायां यावन् नागक्षयो भवेत् ॥ २,३.१४५ ॥
द्रुतसूतप्रकारेण द्रावयित्वा त्व् इमं रसम् ।
निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ २,३.१४६ ॥
स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् ।
प्रत्येकं षड्गुणं पश्चाद् वज्रद्वंद्वं च जारयेत् ॥ २,३.१४७ ॥
त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् ।
जारयेद् द्रावितान्य् एव प्रत्येकं त्रिगुणं शनैः ॥ २,३.१४८ ॥
ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ।
मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ २,३.१४९ ॥
पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ।
यस्य वक्त्रे स्थिता ह्य् एषा स भवेद्भैरवोपमः ॥ २,३.१५० ॥
दिव्यतेजा महाकायः खेचरत्वेन गच्छति ।
यत्रेच्छा तत्र तत्रैव क्रीडते ह्य् अङ्गनादिभिः ॥ २,३.१५१ ॥
महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ २,३.१५२ ॥
पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः ।
सर्वं पलत्रयं खादेन् नित्यं स्यात् क्रामणे हितम् ॥ २,३.१५३ ॥
चूर्णम् अश्वखुरस्यैव गुह्यसूते समं क्षिपेत् ।
त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद् दृढम् ॥ २,३.१५४ ॥
सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाथ मर्दयेत् ।
तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत् ॥ २,३.१५५ ॥
दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् ।
क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गद्रवैर्दिनम् ॥ २,३.१५६ ॥
रुद्ध्वाथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः ।
मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच् च सप्तधा ॥ २,३.१५७ ॥
रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः ।
योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥ २,३.१५८ ॥
भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः ।
द्रुतसूतस्य भागैकं खोटं कुर्याच् च पूर्ववत् ॥ २,३.१५९ ॥
तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः ।
पूर्ववल् लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥ २,३.१६० ॥
प्रचण्डखेचरीनाम्नी गुटिका खे गतिप्रदा ।
पूर्ववल् लभते वीरः फलमत्यन्तदुर्लभम् ॥ २,३.१६१ ॥
निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु ।
शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥ २,३.१६२ ॥
तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् ।
मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥ २,३.१६३ ॥
पक्वबीजस्य पत्त्राणि तानि भानुदलैः पुनः ।
वेष्टितानि निरुध्याथ निखनेच् चुल्लिगर्भतः ॥ २,३.१६४ ॥
आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् ।
उद्धृत्य द्वंद्वलिप्तायां मूषायां तं निरोधयेत् ॥ २,३.१६५ ॥
करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् ।
वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥ २,३.१६६ ॥
अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् ।
क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥ २,३.१६७ ॥
दोलायन्त्रे सारनाले जायते गुटिका शुभा ।
कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥ २,३.१६८ ॥
वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् ।
गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥ २,३.१६९ ॥
कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् ।
तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेद् दृढम् ॥ २,३.१७० ॥
तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् ।
सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ २,३.१७१ ॥
दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् ।
अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥ २,३.१७२ ॥
दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वं दिनावधि ।
पूर्ववद्भूधरे पच्याद् द्रुतसूतं पुनः समम् ॥ २,३.१७३ ॥
दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् ।
एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेद् दृढम् ॥ २,३.१७४ ॥
जायते गुटिका दिव्या कालविध्वंसिका परा ।
यस्य वक्त्रे स्थिता ह्य् एषा तस्य कालः करोति किम् ॥ २,३.१७५ ॥
वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् ।
तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥ २,३.१७६ ॥
जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् ।
स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ २,३.१७७ ॥
द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ २,३.१७८ ॥
समुखे जारयेत्सूते यावत्पञ्चगुणं क्रमात् ।
दिव्यौषधद्रवैस्तं वै मर्दयेद् दिवसत्रयम् ॥ २,३.१७९ ॥
अन्धमूषागतं ध्मातं जायते गुटिका शुभा ।
नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ २,३.१८० ॥
वलीपलितनिर्मुक्तो जीवेच् चन्द्रार्कतारकम् ।
हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ २,३.१८१ ॥
स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् ।
त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ २,३.१८२ ॥
ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् ।
अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा ॥ २,३.१८३ ॥
जारितैर् बन्धितैस् तैस् तै रसराजैः पृथक्पृथक् ।
कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ २,३.१८४ ॥
सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा ।
गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ २,३.१८५ ॥
सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका ।
लक्षवेधकरी या तु सा दत्ते विष्णुवद्बलम् ॥ २,३.१८६ ॥
वेधिका दशलक्षे या सा रुद्रपददायिनी ।
कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ २,३.१८७ ॥
वेधिका दशकोटीनां सा सदाख्यपदप्रदा ।
गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ २,३.१८८ ॥
सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका ।
धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ २,३.१८९ ॥
पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या ।
शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥ २,३.१९० ॥
वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् ।
स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ २,३.१९१ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
जायन्ते स्वेदसम्पर्काद् गात्रसंस्पर्शनादपि ॥ २,३.१९२ ॥
सर्वेषाम् उक्तयोगानाम् अनु स्याच्छुद्धगन्धकम् ।
पलार्धं भक्षयेन् नित्यं रससंक्रामणे हितम् ॥ २,३.१९३ ॥
कालि कालि महाकालि मांसशोणितभोजिनि ।
रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥ २,३.१९४ ॥
स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् ।
कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम् ॥ २,३.१९५ ॥
ततो रसायनं दिव्यं सेवयेत् सिद्धिमाप्नुयात् ।
गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥ २,३.१९६ ॥
रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् ।
कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ २,३.१९७ ॥
तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् ।
काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥ २,३.१९८ ॥
तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः ।
काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते ॥ २,३.१९९ ॥
तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् ।
काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ २,३.२०० ॥
रससेवकदेहोत्थवीर्यं जीवस्तु कथ्यते ।
तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥ २,३.२०१ ॥
कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् ।
उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ २,३.२०२ ॥
कुर्यात्ताम्रकटाहं तु स्थूलं यावत् षडङ्गुलम् ।
चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥ २,३.२०३ ॥
गोघृतं नरतैलं च समभागेन मेलयेत् ।
तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥ २,३.२०४ ॥
कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् ।
तर्पयेद् बलिमांसेन क्षेत्रपालं च पूजयेत् ॥ २,३.२०५ ॥
धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ।
चतुर्भिर् वङ्कनालैश्च खदिराङ्गारयोगतः ॥ २,३.२०६ ॥
सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् ।
चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥ २,३.२०७ ॥
नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् ।
सुद्रुतं तं विजानीयान् निक्षिपेत्पार्थिवं रसम् ॥ २,३.२०८ ॥
धमन्न् अत्रैव यत्नेन यावत् तत् कल्कतां व्रजेत् ।
अप्तत्त्वाख्यं रसं तस्मिन् क्षिपेद् रक्तं भवेत् तु तत् ॥ २,३.२०९ ॥
वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्णं प्रजायते ।
तेजोयुक्तं रसं क्षिप्याद् घनीभूतं भवेत्तु तत् ॥ २,३.२१० ॥
तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् ।
आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत् ॥ २,३.२११ ॥
जीवयुक्तं रसं दिव्यं ततो हुंकारमुच्चरेत् ।
कृत्वा तत्र महारावं हुंकारत्रयसंयुतम् ॥ २,३.२१२ ॥
ततश् चोत्तिष्ठते सिद्धः पूर्वाह्णे भास्करो यथा ।
दिव्यतेजा महाकायो महाबलपराक्रमः ॥ २,३.२१३ ॥
नवनागसहस्राणां बलं तस्याधिकं भवेत् ।
जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥ २,३.२१४ ॥
जराजर्जरिताङ्गानाम् अन्धानां पङ्गुकुष्ठिनाम् ।
नष्टवाग्जडषण्डानां कुब्जानां कुष्ठदेहिनाम् ॥ २,३.२१५ ॥
अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् ।
किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ २,३.२१६ ॥
वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् ।
तस्माद्वीरतरो योऽत्र भैरवोऽसौ न संशयः ॥ २,३.२१७ ॥
वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् ।
अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥ २,३.२१८ ॥
आयाति नात्र संदेहस्तस्य सिद्धस्य सम्मुखम् ।
तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ २,३.२१९ ॥
क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति ।
भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् ।
इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत् ॥ २,३.२२० ॥
दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् ।
देहस्य दार्ढ्यकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिद्ध्यै ॥ २,३.२२१ ॥


रसरत्नाकरः, २, ४

[सम्पाद्यताम्]
सूतगन्धगगनायसशुल्बं मारितं च परमामृतीकृतम् ।
इष्टमेकमपि मूलिकागणं देहसिद्धिकरमाशु सेवितम् ॥ २,४.१ ॥
मृतकान्ताभ्रकं सूतं गन्धं भृङ्गविडङ्गकम् ।
त्वग्वर्जं बिल्वबीजं च प्रत्येकं पलषोडश ॥ २,४.२ ॥
त्रिंशत्पलं त्र्यूषणं च त्रिंशत्त्रिंशद्घृतं मधु ।
चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥ २,४.३ ॥
पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् ।
क्वाथ्यम् अष्टगुणैस् तोयैर् ग्राह्यमष्टावशेषितम् ॥ २,४.४ ॥
कषायं भावयेत्तेन मासैकं पूर्वलोडितम् ।
लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥ २,४.५ ॥
क्षीरैः शयनकाले तु वर्षान् मृत्युजरापहम् ।
बालो निबिडसंधिश् च जीवेच् चन्द्रार्कतारकम् ॥ २,४.६ ॥
महारसायनं दिव्यं कामिनीशततोषकम् ।
अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥ २,४.७ ॥
भिन्नपत्त्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् ।
त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ २,४.८ ॥
चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् ।
तत्सर्वं पेषयेच् छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥ २,४.९ ॥
जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् ।
शुष्के तोये पुनस्तोयं दद्याद् यावज् जले गतम् ॥ २,४.१० ॥
तदभ्रकं ततो वस्त्रं संत्यजेद् रक्षयेज् जलम् ।
त्रिंशद्भागं ततः कुर्यात् तज् जलं साभ्रकं सुधीः ॥ २,४.११ ॥
तद्भागैकेन संलोड्य पलैकं श्वेततण्डुलात् ।
त्रिंशत्पले गवां क्षीरे तत् पचेच् चाथ शीतलम् ॥ २,४.१२ ॥
मध्वाज्यैर्द्विपलैर्युक्तं निष्कैकैश् च मरीचकैः ।
साधको भक्षयेन् नित्यं मासान् मृत्युजरापहम् ॥ २,४.१३ ॥
केशा दन्ता नखास्तस्य पतन्ति ह्य् उद्भवन्ति च ।
वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ २,४.१४ ॥
अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा ।
मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥ २,४.१५ ॥
कर्षैकं भक्षयेन् नित्यं वर्षान् मृत्युजरापहम् ।
कोरण्टकस्य पत्त्राणि मृताभ्रं गन्धकं समम् ॥ २,४.१६ ॥
तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे ।
तत्कर्षैकं पिबेत् क्षीरैरब्दान् मृत्युजरापहम् ॥ २,४.१७ ॥
मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा ।
समूलपत्त्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥ २,४.१८ ॥
एकीकृत्य पिबेत्सर्वं वर्षैकेन जरां जयेत् ।
वज्रकायः खेचरश्च जीवेद् ब्रह्मदिनत्रयम् ॥ २,४.१९ ॥
मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् ।
पञ्चाङ्गं बदरीचूर्णमभ्रतुल्यं नियोजयेत् ॥ २,४.२० ॥
सितामध्वाज्यसंयुक्तं पलार्धं भक्षयेत्सदा ।
हन्ति वर्षाज् जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥ २,४.२१ ॥
अमृतक्रीडे विष्णुसंवरणि स्वाहा ।
अनेन मन्त्रेण सर्वे अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः ।
मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् ।
काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥ २,४.२२ ॥
शाल्मलीमल्लिपत्त्राणां द्रवैर् भाव्यं दिनत्रयम् ।
त्रिदिनं भृङ्गजैर्द्रावैर् भावितं शोषयेत्पुनः ॥ २,४.२३ ॥
तस्मिन् तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः ।
रुदन्त्य् उत्थद्रवैः क्षीरैर् मध्वाज्याभ्यां पिबेत् सदा ॥ २,४.२४ ॥
वर्षैकेन जरां मृत्युं हन्ति सत्यं न संशयः ।
मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥ २,४.२५ ॥
शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके ।
स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥ २,४.२६ ॥
वत्सरैकाज् जरां हन्ति जीवेद् ब्रह्मदिनत्रयम् ।
कान्तभस्म कणाचूर्णं निम्बनिर्यासमेव च ॥ २,४.२७ ॥
त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् ।
लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ २,४.२८ ॥
कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे ।
शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥ २,४.२९ ॥
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान् मृत्युजरापहम् ।
कोरण्टपत्त्रचूर्णं तु कान्तभस्म तिला गुडम् ॥ २,४.३० ॥
तुल्यं भक्ष्यं पलार्धं तद् वर्षान् मृत्युजरापहम् ।
कान्तभस्म समं गन्धं तैलैर् ज्योतिष्मतीभवैः ॥ २,४.३१ ॥
लिहेन् नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः ।
बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ २,४.३२ ॥
मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् ।
घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥ २,४.३३ ॥
गोक्षीरैस् तत् पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् ।
वर्षमात्रान् न संदेहो दिव्यतेजा महाबलः ॥ २,४.३४ ॥
मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् ।
निष्कं निष्कं तु वर्षैकं जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.३५ ॥
त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा ।
पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥ २,४.३६ ॥
वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् ।
सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ २,४.३७ ॥
रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् ।
वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ २,४.३८ ॥
लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु ।
दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.३९ ॥
ओं हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतम् आज्ञापितंकुरु कुरुस्वाहा हे हे हं हः गं इति गन्धकलोहयोर्भक्षणमन्त्रः ।
सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् ।
आस्वादयेत् स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ २,४.४० ॥
मूलानि भक्षयेत् तासाम् आस्यवैरस्यशान्तये ।
बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिबेत्सदा ॥ २,४.४१ ॥
स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् ।
ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ २,४.४२ ॥
सम्यग्जीर्णे तु दीप्ताग्नौ पिबेत्पश्चाद्बुभुक्षितः ।
शृतं क्षीरं ततोऽन्नं च सेव्यं लौहरसायने ॥ २,४.४३ ॥
ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ २,४.४४ ॥
जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः ।
ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ २,४.४५ ॥
त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् ।
एकीकृत्य क्षिपेद्भाण्डे तं रुद्ध्वा धान्यराशिगम् ॥ २,४.४६ ॥
कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश ।
भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ २,४.४७ ॥
एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ २,४.४८ ॥
ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह ।
पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ २,४.४९ ॥
पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.५० ॥
ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् ।
तुल्यैः पिबेद्भवेन्मूर्छा सिञ्चेत्तस्य मुखे पयः ॥ २,४.५१ ॥
बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः ।
द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ २,४.५२ ॥
दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् ।
मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ २,४.५३ ॥
महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् ।
ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ २,४.५४ ॥
अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् ।
पक्वधात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ २,४.५५ ॥
कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्गोमयैः पुनः ।
आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्गोमयैस्ततः ॥ २,४.५६ ॥
शुष्के गजपुटं देयं परितोऽरण्यकोत्पलैः ।
स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ २,४.५७ ॥
क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् ।
यथेष्टं भूगृहान्तस्थः क्षीराहारी जरां जयेत् ॥ २,४.५८ ॥
मासद्वयेन वसुधां छिद्रां पश्यति निश्चितम् ।
जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ २,४.५९ ॥
श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह ।
कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ २,४.६० ॥
ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः ।
अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ २,४.६१ ॥
शरीरं भस्मना मर्द्यं मासान्मृत्युजरां जयेत् ।
जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ २,४.६२ ॥
अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः ।
तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ २,४.६३ ॥
अमृतं कुरु कुरु अमृतमालिन्यै नमः ।
अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः ।
शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा ।
रेवत्यां वाथ सम्पूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ २,४.६४ ॥
छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह ।
वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.६५ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् ।
तच्चूर्णं तु घृतैर्लेह्यं तद्वत्स्याद्बलमद्भुतम् ॥ २,४.६६ ॥
ओं नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां सः ।
इति औषधभक्षणमन्त्रः ।
छायाशुष्कं देवदालीपञ्चाङ्गं चूर्णयेत्ततः ।
मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरां जयेत् ॥ २,४.६७ ॥
जीवेत्कल्पसहस्रं तु रुद्रतुल्यो भवेन्नरः ।
तच्चूर्णं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ॥ २,४.६८ ॥
पूर्ववज्जायते सिद्धिर्वत्सरान्नात्र संशयः ।
तच्चूर्णं वाकुचीवह्निसर्पाक्षीभृङ्गराट्समम् ॥ २,४.६९ ॥
चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना ।
वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥ २,४.७० ॥
पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः ।
देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥ २,४.७१ ॥
पिबेत् स्यात् पूर्ववत् सिद्धिर्वत्सरान्नात्र संशयः ।
देवदालीं च निर्गुण्डीं पिबेत्कर्षं शिवाम्बुना ।
वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ २,४.७२ ॥
ओं अमृतगण रुद्रगणाम्भः स्वाहा ।
अयं च ग्रहणमन्त्रः ।
नमो भगवते रुद्राय हुं फट् स्वाहा ।
अयं साधकस्य शिखाबन्धनमन्त्रः ।
ओं चर र र ।
अयं भक्षणमन्त्रः ॥ २,४.७३ ॥
पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् ।
चूर्णकर्षं गवां क्षीरैः पलद्वंद्वैर्युतं पिबेत् ॥ २,४.७४ ॥
मासषट्काज् जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
द्रवं श्वेतार्कपत्त्राणां भृङ्गराजद्रवैः समम् ॥ २,४.७५ ॥
एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः ।
मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् ।
तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥ २,४.७६ ॥
ओं आं हं वासरमालिने स्वाहा ।
अयं भक्षणमन्त्रः ।
ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्त्रकम् ।
छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥ २,४.७७ ॥
वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ।
हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥ २,४.७८ ॥
कर्षमात्रं पिबेन्नित्यं मासैकमुदकैः सह ।
आरनालैस् ततस् तक्रैर् दधिक्षीराज्यक्षौद्रकैः ॥ २,४.७९ ॥
प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् ।
जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ २,४.८० ॥
ओं गरविषं दृष्टौ गृह्णामि स्वाहा ।
हस्तिकर्णग्रहणमन्त्रः ।
ओं अमृतकुटीजातानाम् अमृतं कुरु कुरु स्वाहा ।
अनेन पूजयेत् ।
ओं अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः ।
भक्षणमन्त्रः ॥ २,४.८१ ॥
रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।
तदर्धं मुसलीचूर्णं मुसल्यर्धं फलत्रयम् ॥ २,४.८२ ॥
मूलानां कतकोत्थानां तैलं पातालयन्त्रके ।
ग्राहयेद्गर्भयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ २,४.८३ ॥
नालिकेरजलैर्वाथ क्षाल्यं पञ्चांशवारकम् ।
एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥ २,४.८४ ॥
कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् ।
एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ २,४.८५ ॥
सिद्धयोगो ह्य् अयं ख्यातो वज्रकायकरो नृणाम् ।
पुष्यार्के ग्राहयेत् प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ २,४.८६ ॥
छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिबेत्सदा ।
अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ २,४.८७ ॥
वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः ।
तच्चूर्णं क्षीरमध्वाज्यैर् लोडितं स्निग्धभाण्डके ॥ २,४.८८ ॥
रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् ।
द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ २,४.८९ ॥
तच्चूर्णार्धपलं चाज्यैर् लिहेत्स्यात्पूर्ववत्फलम् ।
तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ २,४.९० ॥
वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.९१ ॥
निर्गुण्डीपत्त्रजं द्रावं भाण्डे मृद्वग्निना पचेत् ।
गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ २,४.९२ ॥
निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः ।
राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् ।
मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २,४.९३ ॥
ओं नमो माय गणपतये भूपतये कुबेराय स्वाहा इति भक्षणमन्त्रः ।
भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा ।
लाङ्गली निम्बपत्त्राणि सहदेवी समं समम् ॥ २,४.९४ ॥
एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः ।
तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ २,४.९५ ॥
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ।
तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ २,४.९६ ॥
कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् ।
यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ २,४.९७ ॥
पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् ।
ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ २,४.९८ ॥
नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् ।
निष्कार्धनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ २,४.९९ ॥
काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् ।
वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ २,४.१०० ॥
गुडूची मुसली मुण्डी निर्गुण्डी च शतावरी ।
विजया च समं चूर्णं सितामध्वाज्यसंयुतम् ॥ २,४.१०१ ॥
खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् ।
उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.१०२ ॥
कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शुनकशाल्मलेः ।
आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥ २,४.१०३ ॥
दत्त्वाघोरं जपेत्तत्र यावदष्टसहस्रकम् ।
तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ २,४.१०४ ॥
मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि ।
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥ २,४.१०५ ॥
तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् ।
पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥ २,४.१०६ ॥
फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् ।
फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ २,४.१०७ ॥
चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः ।
जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥ २,४.१०८ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥ २,४.१०९ ॥
समूला देवदाली च निम्बवाकुचीबीजकम् ।
फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ २,४.११० ॥
नीलकोरण्टपत्त्राणि त्रिफला च समं समम् ।
चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ २,४.१११ ॥
छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुतम् ।
भक्षेत् कर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् ।
जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ २,४.११२ ॥
ओं ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसंजीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा इति भक्षणमन्त्रः ।
त्रिफला वाकुचीबीजं पिप्पली चाश्वगन्धिका ।
सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् ।
वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ २,४.११३ ॥
ओं ह्रां ह्रीं ह्रूं सः स्वाहा अनेन मन्त्रेण भक्षयेत् ।
मूलिकाकल्पयोगेषु गुञ्जैकं मृतपारदम् ।
प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् ।
रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ २,४.११४ ॥
अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः ।
जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ २,४.११५ ॥
तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् ।
अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ २,४.११६ ॥
ओं ह्रीं महाभयेरुम् ।
प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानैर् ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्त्रं रसं वा ।
सर्वाङ्गं वाथ सिद्ध्यै सकलमभिनवं सेवयेद् ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद् विवर्ज्यम् ॥ २,४.११७ ॥


रसरत्नाकरः, २, ५

[सम्पाद्यताम्]
उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च ।
वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ २,५.१ ॥
पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् ।
विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥ २,५.२ ॥
आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् ।
यवचूर्णं तिलाश्चैव प्रत्येकं रसतुल्यकम् ॥ २,५.३ ॥
क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् ।
अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥ २,५.४ ॥
वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् ।
वज्रकापालिनीमूलं पारदं च समं समम् ॥ २,५.५ ॥
शिवाम्बुना त्र्यहं मर्द्यमुद्वर्तात्पूर्ववत्फलम् ।
उत्पलानि समूलानि पारदं च समं समम् ॥ २,५.६ ॥
सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना ।
तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥ २,५.७ ॥
पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् ।
क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥ २,५.८ ॥
अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् ।
गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥ २,५.९ ॥
तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् ।
जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥ २,५.१० ॥
कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः ।
वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ २,५.११ ॥
कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् ।
काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ २,५.१२ ॥
भाण्डे रुद्ध्वा क्षिपेन्मासं धान्यराशाव् अथोद्धरेत् ।
अनेन लेपयेच्छीर्षं नस्यं कुर्यादनेन वै ॥ २,५.१३ ॥
त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर् वत्सरार्धकम् ।
नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ २,५.१४ ॥
पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि ।
अम्लदध्ना युतं यत्नात्स्नात्वादौ शिरसि क्षिपेत् ॥ २,५.१५ ॥
मर्दयेद्घटिकार्धं तु वेष्ट्यम् एरण्डपत्त्रकैः ।
शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ २,५.१६ ॥
इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् ।
पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ २,५.१७ ॥
तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण मर्दयेत् ।
दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ २,५.१८ ॥
गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् ।
तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥ २,५.१९ ॥
सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना ।
तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥ २,५.२० ॥
हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् ।
अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥ २,५.२१ ॥
त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् ।
इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥ २,५.२२ ॥
तल्लेपाद् रञ्जयेत् केशान् स्याद् यावन्मासपञ्चकम् ।
लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥ २,५.२३ ॥
त्रिदिनं लेपितास्तेन कचाः स्युर् भ्रमरोपमाः ।
भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥ २,५.२४ ॥
तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् ।
तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥ २,५.२५ ॥
सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् ।
तज्जले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥ २,५.२६ ॥
शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् ।
दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥ २,५.२७ ॥
तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् ।
चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥ २,५.२८ ॥
नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् ।
नीलीपत्त्राणि कासीसं भृङ्गराजरसं दधि ॥ २,५.२९ ॥
लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् ।
चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥ २,५.३० ॥
लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः ।
दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ २,५.३१ ॥
कुरण्टकस्य पत्त्राणि नागमुष्ट्या विमर्दयेत् ।
तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥ २,५.३२ ॥
आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् ।
निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥ २,५.३३ ॥
समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् ।
मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ २,५.३४ ॥
काकमाचीयबीजानि समाः कृष्णतिलास्तथा ।
तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥ २,५.३५ ॥
गोघृतं भृङ्गजं द्रावं मयूरशिखया सह ।
मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥ २,५.३६ ॥
जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् ।
सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ २,५.३७ ॥
त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् ।
तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ २,५.३८ ॥
पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् ।
मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥ २,५.३९ ॥
कारवल्ल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् ।
निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥ २,५.४० ॥
नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् ।
कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥ २,५.४१ ॥
बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् ।
तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डीजैर्द्रवैः ॥ २,५.४२ ॥
जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके ।
तैलं प्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥ २,५.४३ ॥
वेष्ट्यमेरण्डपत्त्रैश्च निर्वाते क्षीरभोजनम् ।
कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥ २,५.४४ ॥
यावज्जीवं न संदेहः केशाः स्युर् भ्रमरोपमाः ।
भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् ॥ २,५.४५ ॥
संपिष्ट्यापूपिकां कृत्वा तैलमध्ये विपाचयेत् ।
पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥ २,५.४६ ॥
पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् ।
अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥ २,५.४७ ॥
भृङ्गराजद्रवैः सार्धं प्रातः केशान् प्रलेपयेत् ।
एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥ २,५.४८ ॥
प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् ।
गृहाग्रे कर्दमे क्षिप्त्वा षण्मासात्तत्समुद्धरेत् ॥ २,५.४९ ॥
तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् ।
वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ २,५.५० ॥
भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः ।
नीलीपत्त्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ २,५.५१ ॥
मदनस्य च बीजानि पुष्पं कोरण्टकस्य च ।
अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥ २,५.५२ ॥
सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् ।
पक्षमेकं क्षिपेद्भूमौ भाण्डात्कल्कं समुद्धरेत् ॥ २,५.५३ ॥
कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् ।
भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ २,५.५४ ॥
परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् ।
कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ २,५.५५ ॥
मासैकं धारयेत्तस्मिंस्ततः केशान्विलेपयेत् ।
तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥ २,५.५६ ॥
वासापलाशचिञ्चोत्थैर् दण्डैर् वाश्वत्थजैर् दृढम् ।
नागं पात्रगतं चाल्यं यावद्भवति मूर्छितम् ॥ २,५.५७ ॥
पलैकं तत्समादाय लोहचूर्णं पलद्वयम् ।
त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥ २,५.५८ ॥
शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् ।
भाण्डे सर्वं पचेत्किंचित्तं क्षिपेल्लोहभाजने ॥ २,५.५९ ॥
भृङ्गराजकुरण्टोत्थद्रवं दत्त्वातपे क्षिपेत् ।
त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥ २,५.६० ॥
ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् ।
उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्त्रकैः ॥ २,५.६१ ॥
शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते ।
वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् ।
तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥ २,५.६२ ॥
केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै ।
सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ २,५.६३ ॥
तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै ।
गौर्यामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥ २,५.६४ ॥
भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः ।
सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ २,५.६५ ॥
तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि ।
मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥ २,५.६६ ॥
नराश्वगजवाजिनां शुक्लीकरणमुत्तमम् ।
इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ २,५.६७ ॥
मनःशिला च तुल्यांशं चूर्णं स्नुक्पयसा त्र्यहम् ।
भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥ २,५.६८ ॥
ततः कुष्माण्डजैर्द्रावैर्भावयेद्दिनसप्तकम् ।
कूष्माण्डस्य ततो गर्भे क्षिप्त्वा मासात्समुद्धरेत् ॥ २,५.६९ ॥
तैलेन सर्वरोमाणि केशान् संलेपयेत्त्र्यहम् ।
वेष्टयेदर्कजैः पत्त्रैः शुक्लवर्णा भवन्ति च ॥ २,५.७० ॥
स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्ट्यम् ।
दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥ २,५.७१ ॥


रसरत्नाकरः, २, ६

[सम्पाद्यताम्]
येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च ।
तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥ २,६.१ ॥
वज्रहेमार्कसूताभ्रलोहभस्म क्रमोत्तरम् ।
सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥ २,६.२ ॥
तद्रुद्ध्वा काचकूप्यन्तर्वालुकायां त्र्यहं पचेत् ।
तत्कल्कं मुसलीक्वाथैर् वज्रार्कक्षीरसंयुतैः ॥ २,६.३ ॥
दिनैकं मर्दयेत्खल्वे रुद्ध्वान्तर्भूधरे पुटेत् ।
यामादुद्धृत्य संचूर्ण्यं सिताकृष्णात्रिजातकैः ॥ २,६.४ ॥
समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा ।
मागधी मुसली यष्टी वानरीबीजकं समम् ॥ २,६.५ ॥
चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु ।
कामिनीनां सहस्रैकं रममाणो न मुह्यति ।
सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥ २,६.६ ॥
शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः ।
यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥ २,६.७ ॥
पूर्वद्रावैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः ।
दत्त्वा तद्वद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥ २,६.८ ॥
दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् ।
भूकुष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥ २,६.९ ॥
छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा ।
शणमूलं सबीजं च मुसली शर्करा समम् ॥ २,६.१० ॥
गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् ।
अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥ २,६.११ ॥
शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः ।
मर्द्यं चाङ्कोल्लजैर्द्रावैस्तप्तखल्वे दिनत्रयम् ॥ २,६.१२ ॥
सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् ।
तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ २,६.१३ ॥
यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् ।
त्रिदिनं मुसलीक्वाथैर्भावितं सितया युतम् ॥ २,६.१४ ॥
निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः ।
विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥ २,६.१५ ॥
रमयेत्स्त्रीशतं नित्यं तत्त्यागादन्धतां व्रजेत् ।
मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥ २,६.१६ ॥
मुसलीत्रिफलाक्वाथैर् वाजिगन्धाकषायकैः ।
कदलीकन्दजैर्द्रावैस्तद्गोलं चान्धितं पुटेत् ॥ २,६.१७ ॥
भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् ।
दिनैकं पूर्वजैर् द्रावैस्तद्वद्रुद्ध्वा पुटे पचेत् ॥ २,६.१८ ॥
पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् ।
शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥ २,६.१९ ॥
खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् ।
गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥ २,६.२० ॥
सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः ।
रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥ २,६.२१ ॥
मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् ।
कदलीकन्दजैर्द्रावैः शाल्मलीजद्रवैर्दिनम् ॥ २,६.२२ ॥
गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः ।
तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥ २,६.२३ ॥
गोक्षीरं मुसलीं माषान् कोकिलाक्षस्य बीजकम् ।
सूताच्चतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥ २,६.२४ ॥
तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् ।
निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ २,६.२५ ॥
मैथुने दृढलिङ्गः स्याद्द्रावयेद्वनिताकुलम् ।
प्रारम्भरजसा स्त्रीणां मर्दयेद् भस्मसूतकम् ॥ २,६.२६ ॥
मृतं ताम्रं च तारं च गन्धकं च समं दिनम् ।
सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २,६.२७ ॥
रतिकामरसो नाम कामिनीरमणे हितः ।
वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥ २,६.२८ ॥
माषाश्चेक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः ।
तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥ २,६.२९ ॥
अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् ।
शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥ २,६.३० ॥
मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके ।
रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ २,६.३१ ॥
निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः ।
अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥ २,६.३२ ॥
यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।
पलद्वयं द्वयं शुद्धं पारदं गन्धकं शुभम् ॥ २,६.३३ ॥
कर्षैकं मारितं स्वर्णं पलैकं मृतताम्रकम् ।
रौप्यभस्म चतुर्निष्कं सर्वं पञ्चामृतैर्दिनम् ॥ २,६.३४ ॥
मर्द्यं रुद्ध्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।
पिष्ट्वा पञ्चामृतैः खादेद्वटिकां बदराकृतिम् ॥ २,६.३५ ॥
अनङ्गसुन्दरी ख्याता रामाणां रमते शतम् ।
शाल्मलीमूलचूर्णं तु मधुशर्करयान्वितम् ॥ २,६.३६ ॥
पलैकं भक्षयेच्चानु सिताक्षीरं तु पाययेत् ।
शाल्मल्युत्थैर्द्रवैर्मर्द्यः पक्षैकं शुद्धपारदः ॥ २,६.३७ ॥
शुद्धगन्धं त्रिसप्ताहं तद्द्रवैर्मर्दयेत्पृथक् ।
समाव् एतौ पुनर्मर्द्यौ घृतैर्यामचतुष्टयम् ॥ २,६.३८ ॥
तद्गोलं बन्धयेद्वस्त्रे घृतैर्यामद्वयं पचेत् ।
ततस्तं शाल्मलीद्रावैर्मर्दयेद्दिवसत्रयम् ॥ २,६.३९ ॥
निक्षिपेत्काचकूप्यन्तर्वालुकायन्त्रगं पचेत् ।
क्षिपेच्छाल्मलिजं द्रावं कूप्या गर्भे दिनावधि ॥ २,६.४० ॥
सार्द्रमेव समुद्धृत्य मिश्र्यं तत्सितया समम् ।
निष्कमात्रं सदा खादेद्रसोऽयं कामनायकः ॥ २,६.४१ ॥
मुसलीं ससितां क्षीरैः पलैकां पाययेदनु ।
कामिनीनां सहस्रं तु क्षोभयेन्निमिषान्तरे ॥ २,६.४२ ॥
शुद्धसूतत्रयो भागा भागैकं ताम्रचूर्णकम् ।
कृत्वा पिष्टीं निरुध्याथ रम्भाकन्दोदरे पुनः ॥ २,६.४३ ॥
मृल्लिप्तं शोषितं पच्याद्दिनैकं करीषाग्निना ।
एवं सप्तदिनं पच्यात्कन्दे कन्दे दिनं दिनम् ॥ २,६.४४ ॥
उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे ।
क्षुद्रशम्बूकमांसाक्तछागीरक्तगतं पचेत् ॥ २,६.४५ ॥
दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः ।
गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ २,६.४६ ॥
गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः ।
पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ २,६.४७ ॥
ततः क्षीरे सितायुक्ते तद्वत्पच्याद्दिनावधि ।
उद्धृत्य मुसलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ २,६.४८ ॥
रसः पूर्णेन्दुनामायं खादेन्मांसं सितायुतम् ।
गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ २,६.४९ ॥
कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा ।
शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ २,६.५० ॥
सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् ।
पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ २,६.५१ ॥
कामिनीनां सहस्रैकं रमते कामदेववत् ।
पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ २,६.५२ ॥
मुसली भृङ्गराट् द्राक्षा पक्वं श्लेष्मातकं फलम् ।
विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥ २,६.५३ ॥
कोकिलाक्षस्य बीजानि भूकुष्माण्डी शतावरी ।
शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ २,६.५४ ॥
एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् ।
पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ २,६.५५ ॥
पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् ।
चातुर्जातकमेकैकं कर्पूराद्द्विगुणं भवेत् ॥ २,६.५६ ॥
सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् ।
तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ २,६.५७ ॥
दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् ।
मर्दितं सितया तुल्यं माषैकं भक्षयेत्सदा ॥ २,६.५८ ॥
रसो मदनकामोऽयं बलवीर्यविवर्धनः ।
दिव्यरूपा भजेद्रामाः कामाकुलकलान्विताः ॥ २,६.५९ ॥
भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् ।
कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ २,६.६० ॥
प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः ।
तत्सर्वं चालयन् पच्याद् यावत्पिण्डत्वमागतम् ॥ २,६.६१ ॥
प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् ।
अस्य चूर्णस्य कर्पूरं चतुःषष्ट्यंशकं क्षिपेत् ॥ २,६.६२ ॥
चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः ।
सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ २,६.६३ ॥
कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् ।
निषेकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ २,६.६४ ॥
शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् ।
पलैकं सितया चानु सेवेत कामिनीशतम् ॥ २,६.६५ ॥
वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः ।
वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ २,६.६६ ॥
चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा ।
एतत्कर्षं गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ २,६.६७ ॥
तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् ।
भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ २,६.६८ ॥
अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च ।
मूलं मुसलीजं कन्दं कोकिलाक्षस्य बीजकम् ॥ २,६.६९ ॥
विदारीपद्मिनीकन्दं वानरीबीजकं समम् ।
एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ २,६.७० ॥
पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् ।
क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ २,६.७१ ॥
धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः ।
एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ २,६.७२ ॥
तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् ।
पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ २,६.७३ ॥
धात्रीलोहप्रभावेन रमयेत् कामिनीशतम् ।
पुनर्नवा नागबला वाजिगन्धा शतावरी ॥ २,६.७४ ॥
गोक्षुरं मुसलीकन्दं मृतं सूतं समं समम् ।
चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २,६.७५ ॥
तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् ।
आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥ २,६.७६ ॥
तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् ।
वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ २,६.७७ ॥
नालिकेरोदकैर् भाव्यं यामान्ते पेषयेत्ततः ।
विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ २,६.७८ ॥
घृतैस्तद्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् ।
क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ २,६.७९ ॥
वालुकासम्भवं मत्स्यं सुपक्वं भक्षयेद्घृतैः ।
षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ २,६.८० ॥
ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् ।
मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥ २,६.८१ ॥
स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा ।
घृताक्ता दलिता माषाः क्षीरेण सह पाचिताः ॥ २,६.८२ ॥
सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा ह्य् अलम् ।
क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ २,६.८३ ॥
सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुसलीगोकण्टकेक्षुरकाम् ।
रम्भाकन्दशतावरी ह्य् अजमोदा माषास्तिला धान्यकं यष्टी नागबला कचोरमदनं जातीफलं सैन्धवम् ॥ २,६.८४ ॥
भार्गीकर्कटशुङ्गिभृङ्गत्रिकटु द्वौ जीरकौ चित्रकं चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः ।
शाल्मल्यङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णयेच् चूर्णांशा विजयासिताद्विगुणिता मध्वाज्यमिश्रंतु तत् ॥ २,६.८५ ॥
कर्षार्धां गुलिकां विलेह्यमथवा कृत्वा सदा सेवयेत् पेया क्षीरसितानु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् ।
श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ २,६.८६ ॥
कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो ह्य् अर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् ।
नित्यानन्दकवेर् विशेषकवितावाचाविलासोद्भवं दत्ते सर्वं महास्थिरदशां ध्यानावसाने भृशम् ॥ २,६.८७ ॥
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे सिद्धोऽयं धनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम् ॥ २,६.८८ ॥
इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् ।
भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥ २,६.८९ ॥


रसरत्नाकरः, २, ७

[सम्पाद्यताम्]
वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।
तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥ २,७.१ ॥
नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥ २,७.२ ॥
तत्क्षिपेद् विषकन्दस्य गर्भे निष्कचतुष्टयम् ।
विषेण तन्मुखं रुद्ध्वा स्थूलवाराहमांसके ॥ २,७.३ ॥
पिण्डं गर्भे निरुध्याथ मुखं सूत्रेण सीवयेत् ।
संध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥ २,७.४ ॥
ततश् चुल्ल्यां लोहपात्रे तैले धत्तूरसम्भवे ।
तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥ २,७.५ ॥
संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा ।
हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥ २,७.६ ॥
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ।
तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥ २,७.७ ॥
दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ ।
क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ २,७.८ ॥
मुखाद्धस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् ।
ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥ २,७.९ ॥
दग्धमङ्कोल्लमूलं तु कर्पूरं कुङ्कुमं तथा ।
रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥ २,७.१० ॥
विषमुष्टिकतैलेन लिप्तलिङ्गो ह्य् अनेन वै ।
नरो नारीसहस्रैकं गच्छन्वीर्यं न मुञ्चति ॥ २,७.११ ॥
श्वेतार्कतूलजां वर्तिं कृत्वा सूकरमेदसा ।
यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥ २,७.१२ ॥
इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् ।
त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ २,७.१३ ॥
छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् ।
वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥ २,७.१४ ॥
रक्तापामार्गामूलं तु सोमवारेऽभिमन्त्रयेत् ।
भौमे प्राप्तः समुद्धृत्य बन्धेत् कट्यां च वीर्यधृक् ॥ २,७.१५ ॥
चटकानङ्कुलीतैलैः पादाधः संप्रलेपयेत् ।
न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥ २,७.१६ ॥
डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् ।
तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥ २,७.१७ ॥
तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः ।
सहदेवीयमूलं तु तत्समं पद्मकेसरम् ॥ २,७.१८ ॥
पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् ।
श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ २,७.१९ ॥
पिष्टं तण्डुलसम्भूतं बदरीणां फलं समम् ।
जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ २,७.२० ॥
नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् ।
तन्नाभौ वीर्यधृक् पुंसां मूलं वा तुलसीभवम् ॥ २,७.२१ ॥
मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् ।
दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥ २,७.२२ ॥
बीजमीश्वरलिङ्ग्यास् तु सूतं वृश्चिककण्टकम् ।
सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ २,७.२३ ॥
जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति ।
श्लेष्मातस्य कुरण्टस्य बीजं फञ्ज्याः समाहरेत् ॥ २,७.२४ ॥
अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् ।
सूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ २,७.२५ ॥
न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् ।
नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ २,७.२६ ॥
श्वेतापराजितामूलं नीलीमूलं श्मशानजम् ।
सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥ २,७.२७ ॥
भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः ।
पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥ २,७.२८ ॥
नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् ।
इन्द्रवारुणीमूलं उन्मत्ताजस्य मूत्रतः ॥ २,७.२९ ॥
भावयेत्तेन लेपेन नरो वीर्यं न मुञ्चति ।
दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥ २,७.३० ॥
पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् ।
कर्पूरं टङ्कणं सूतं मुनिपुष्परसं मधु ॥ २,७.३१ ॥
मर्दयित्वा लिम्पेत्तेन लिङ्गं यावत्समन्ततः ।
जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥ २,७.३२ ॥
वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः ।
कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ॥ २,७.३३ ॥
त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् ।
स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥ २,७.३४ ॥
बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् ।
सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥ २,७.३५ ॥
तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् ।
कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥ २,७.३६ ॥
ऊर्णनाभस्य जालेन वेष्टयित्वाथ धारयेत् ।
वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥ २,७.३७ ॥
स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् ।
उल्लिप्तं रक्षयेत्किंचिद्वक्त्रे धार्यश्च वीर्यधृक् ॥ २,७.३८ ॥
पश्चिमसमुद्रस्य तटे अमरचण्डेश्वरो नाम देवतायतनं तस्याग्रे वालुकामध्ये स्थलमीनास्तिष्ठन्ति ते च वालुकामीनाः कथ्यन्ते ।
शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा ।
अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥ २,७.३९ ॥
शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् ।
श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥ २,७.४० ॥
तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् ।
जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥ २,७.४१ ॥
कपिकच्छुकरोमाणि वाकुचीतैलकं पटु ।
मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ २,७.४२ ॥
क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् ।
सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥ २,७.४३ ॥
मददर्पहरा तासां मदविह्वलकारका ।
बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥ २,७.४४ ॥
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका ।
यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥ २,७.४५ ॥
पारदादष्टमांशेन सुवर्णं नागमेव वा ।
योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्निजद्रवैः ॥ २,७.४६ ॥
मुनिपत्त्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् ।
श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥ २,७.४७ ॥
मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् ।
जलौका जायते यावत्ततस्तस्मात्समुद्धरेत् ॥ २,७.४८ ॥
त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् ।
मर्दयेच्च फलं तद्वज्जायते नात्र संशयः ॥ २,७.४९ ॥
रसादष्टमभागं तु सुवर्णं नागमेव वा ।
योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो घृतम् ॥ २,७.५० ॥
क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि ।
मर्दयेत्तदवच्छिन्नं जलौका यावता भवेत् ॥ २,७.५१ ॥
कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् ।
पूर्ववज्जायते सिद्धिस्तद्वद्योगे न संशयः ॥ २,७.५२ ॥
त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् ।
त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥ २,७.५३ ॥
पयश्चैव महाशृङ्ग्या दातव्यं मर्दनक्षमम् ।
जलौका मर्दनाख्येयं जायते सुखदा नृणाम् ॥ २,७.५४ ॥
रामाणां मदमत्तानां द्राविकाग्नौ घृतं यथा ।
पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥ २,७.५५ ॥
पारदं मरिचं कुष्ठं तगरं कण्टकारिका ।
अश्वगन्धातिलक्षौद्रसैन्धवश्वेतसर्षपाः ॥ २,७.५६ ॥
अपामार्गो यवा माषाः पिप्पली च समं जलैः ।
पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥ २,७.५७ ॥
वर्धते हस्तमात्रं तत्स्थौल्येन मुसलोपमम् ।
वराहवसया क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥ २,७.५८ ॥
अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः ।
अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥ २,७.५९ ॥
पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् ।
लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥ २,७.६० ॥
जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् ।
मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ २,७.६१ ॥
मिश्रितं मुसलीचूर्णं माहिषैर्नवनीतकैः ।
तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥ २,७.६२ ॥
तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः ।
पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥ २,७.६३ ॥
मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा ।
माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥ २,७.६४ ॥
अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः ।
अश्वगन्धापमार्गौ च सारिवाक्षफलं तिलाः ॥ २,७.६५ ॥
सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् ।
तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥ २,७.६६ ॥
मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् ।
तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ २,७.६७ ॥
रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् ।
अनेन लेपयेल्लिङ्गं स्यान्मासान्मुसलोपमम् ।
निशा सिताश्वगन्धा च पारदं मर्दयेत्समम् ।
अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा ।
वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥ २,७.६८ ॥
ओं नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु ठ ठः ।
अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा भवन्ति ।
जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् ।
मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥ २,७.६९ ॥
ओं नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल निकल निकालय निकालय स्वाहा ठः ठः ॥ २,७.७० ॥
गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् ।
पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥ २,७.७१ ॥
तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु ।
लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः ।
ओं नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि स्वाहा ठः ठः ।
अतितरसुखसाध्यैर् योगराजैः प्रसिद्धैः सततसुरतयोग्यं स्तम्भनं वर्धनं च ।
निपुणरसिकरामारञ्जकं मोहकं स्याद् गदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ २,७.७२ ॥


रसरत्नाकरः, २, ८

[सम्पाद्यताम्]
श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयैस् तच्छास्त्रं शम्भुनोक्तं प्रगहनम् अखिलं वीक्षितं यत्तु सारम् ।
व्याहृत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्यत्तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥ २,८.१ ॥
{Fएल्स् मित् गुग्गुलु बेइ ंल्लिकार्जुन}
मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा ।
शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥ २,८.२ ॥
पालाशचाटुना ग्राह्यं क्षिपेदलाबुपात्रके ।
तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥ २,८.३ ॥
मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् ।
तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥ २,८.४ ॥
तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् ।
{ङ्लोच्के बेइ ङ्हण्टासिद्धेश्वर}
वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥ २,८.५ ॥
तद्द्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते ।
रात्रौ कृष्णचतुर्दश्यां सोपवासैस् त्रिभिर्जनैः ॥ २,८.६ ॥
कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः ।
एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥ २,८.७ ॥
एकस्तु वादयेद्घण्टामविच्छिन्नं निशावधि ।
ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥ २,८.८ ॥
घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके ।
निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥ २,८.९ ॥
सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् ।
{चन्द्रोदक इम् ॡ वोन् ंल्लिनाथ}
चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥ २,८.१० ॥
स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् ।
साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥ २,८.११ ॥
रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके ।
स्प्रष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥ २,८.१२ ॥
कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् ।
वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥ २,८.१३ ॥
{टमरिन्देन्बौम् इम् Oस्तेन् वोन् श्रीशैल}
श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः ।
देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥ २,८.१४ ॥
विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् ।
तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥ २,८.१५ ॥
दृश्यते तप्तकुण्डं तु नीलवर्णजलान्वितम् ।
चिञ्चावृक्षस्य पत्त्राणि सम्यग्वस्त्रेण बन्धयेत् ॥ २,८.१६ ॥
तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै ।
संगृह्य तस्य काष्ठेन पचेत्तेषां विवर्जयेत् ॥ २,८.१७ ॥
कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः ।
क्षणं मूर्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ २,८.१८ ॥
छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः ।
त्रिपुरान्तकदेवस्य पश्चिमे गव्यूतिद्वये ॥ २,८.१९ ॥
मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः ।
तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २,८.२० ॥
पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् ।
दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥ २,८.२१ ॥
आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् ।
रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २,८.२२ ॥
तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् ।
सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥ २,८.२३ ॥
त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् ।
विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥ २,८.२४ ॥
साधकः प्रविशेत्तत्र दशधन्वन्तरावधि ।
पाषाणाः कोकिलाकारास्तिष्ठन्ति तांस् तु चाहरेत् ॥ २,८.२५ ॥
तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् ।
इत्येवं प्रत्ययं दृष्ट्वा तांश् च घृष्ट्वा परस्परम् ॥ २,८.२६ ॥
क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते ।
आकण्ठान्तं पिबेत्तत्तु दिव्यकाव्यो भवेन्नरः ॥ २,८.२७ ॥
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ।
छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २,८.२८ ॥
त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे ।
देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २,८.२९ ॥
देवाग्रे भूमिकां जानुमात्रां तत्र फला इव ।
निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥ २,८.३० ॥
त्रिपुरान्तकदेवस्य पश्चिमे योजनार्धके ।
विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ २,८.३१ ॥
गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः ।
तत्फलानां रसं पीत्वा मूर्छा संजायते क्षणम् ॥ २,८.३२ ॥
ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् ।
श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ २,८.३३ ॥
देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् ।
पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥ २,८.३४ ॥
देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ ।
रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ २,८.३५ ॥
ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति ।
आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ २,८.३६ ॥
विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः ।
आदाय तान् धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥ २,८.३७ ॥
तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः ।
तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥ २,८.३८ ॥
पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः ।
पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ २,८.३९ ॥
गुञ्जा च रिठ्ठकश् चैव द्वौ वृक्षौ तत्र तिष्ठतः ।
तयोः पत्त्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ २,८.४० ॥
तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् ।
हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥ २,८.४१ ॥
शिला तत्र समाख्याता स्पर्शग्राह्या प्रयत्नतः ।
नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥ २,८.४२ ॥
तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति ।
छायाछत्त्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ २,८.४३ ॥
शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् ।
योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥ २,८.४४ ॥
रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये ।
अथवा साधयेद्दूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ २,८.४५ ॥
कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् ।
तद्गोलं वेष्टयेल् लोहैस् त्रिभिर् यत्नात्क्रमेण वै ॥ २,८.४६ ॥
वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् ।
मन्त्रयेत्कालीमन्त्रेण छायाछत्त्रे निवेशयेत् ॥ २,८.४७ ॥
तद्वंशाग्रं क्षणैकेन जायते गुटिका तु ताम् ।
साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ २,८.४८ ॥
तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् ।
ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूगतम् ॥ २,८.४९ ॥
वंशे बद्ध्वा क्षिपेत्खड्गं पूर्वमन्त्रेण मन्त्रितम् ।
तत्खड्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ २,८.५० ॥
वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् ।
तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ २,८.५१ ॥
स्रोतोञ्जनं कज्जलं च क्षिप्त्वा तत्रैव पूर्ववत् ।
तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ २,८.५२ ॥
पादुकां तेन योगेन क्षिप्त्वा पद्भ्यां तु धारयेत् ।
यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ २,८.५३ ॥
तद्वद्रक्तपटं तत्र क्षिप्त्वा संवेष्ट्य साधकः ।
अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ २,८.५४ ॥
कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् ।
वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ २,८.५५ ॥
श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः ।
तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ २,८.५६ ॥
नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् ।
देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ २,८.५७ ॥
ब्रह्मेश्वरस्य नैरृत्ये संस्थितं तिन्तिणीवनम् ।
तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥ २,८.५८ ॥
एकपादेन चिञ्चाधस् तद्वृक्षात् पत्त्रमाहरेत् ।
बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ २,८.५९ ॥
स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते ।
तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥ २,८.६० ॥
भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् ।
तृतीयं साधको भुक्त्वा क्षणं भवति मूर्छितः ॥ २,८.६१ ॥
तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् ।
अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ २,८.६२ ॥
अलम्पुरोत्तरे भागे ग्रामः स्याद्भीमपादुकः ।
तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्भुवम् ॥ २,८.६३ ॥
पाषाणाः सर्पवद्वक्रा ग्राह्याः स्पर्शा भवन्ति ते ।
योगेश्वरीति विख्याता देवता या त्व् अलम्पुरे ॥ २,८.६४ ॥
देव्या ह्य् अग्रे गुहा रम्या तन्मध्ये निखनेद्भुवम् ।
पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ २,८.६५ ॥
मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् ।
मध्वाज्यसहितान् भक्षेत्पाषाणांस्तान्विचक्षणः ॥ २,८.६६ ॥
श्रीशैलस्योत्तरद्वारे महेशो नाम देवता ।
भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ २,८.६७ ॥
स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः ।
इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ २,८.६८ ॥
फलानि पाचयेत्क्षीरैः पिबेत्क्षीरं यथेष्टकम् ।
किंचिन्मूर्छा भवेत्तेन ततो बोधे पिबेत्पुनः ॥ २,८.६९ ॥
एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ २,८.७० ॥
सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः ।
तेनैवाम्रफलैकेन वर्जितभ्रमरेण च ।
सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥ २,८.७१ ॥
क्षेपात्तारमवाप्नोति सत्यमीश्वरभाषितम् ।
तत्फलं छिद्रितं कृत्वा उत्पात्य भ्रमरं ततः ॥ २,८.७२ ॥
शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् ।
क्षिप्त्वा तस्मिन्मुखं रुद्ध्वा लिम्पेन्मृद्गोमयेन च ॥ २,८.७३ ॥
छायाशुष्कं तदाम्रोत्थैः क्वाथैर्यामं विपाचयेत् ।
स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥ २,८.७४ ॥
मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला ।
क्वाथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥ २,८.७५ ॥
तारं ताम्रं भुजंगं वा कोटिभागेन वेधयेत् ।
कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ २,८.७६ ॥
लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् ।
स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ २,८.७७ ॥
गुञ्जामात्रं सदा खादेन्मासाद्बालो भवेन्नरः ।
जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥ २,८.७८ ॥
विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः ।
ओं हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥ २,८.७९ ॥
वीक्ष्य पश्चिमदिग्भागे ह्य् अन्तरिक्षे च तत्क्षणात् ।
पश्येद्दिव्यविमानानि जायते प्रत्ययो महान् ॥ २,८.८० ॥
ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः ।
गह्वरं दृश्यते तत्र प्रविशेत्पश्चिममुखम् ॥ २,८.८१ ॥
योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः ।
पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ २,८.८२ ॥
तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् ।
सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ २,८.८३ ॥
तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् ।
ओं ह्रीं विद्यावागीश्वराधिपतये ह्रीं ओं स्वाहा ।
स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ।
यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ २,८.८४ ॥
ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः ।
चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ २,८.८५ ॥
स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः ।
वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ २,८.८६ ॥
शतमायतनं तत्र कूपानां च शतं नव ।
तावत्संख्यास्तथारामा नन्दनाख्यवनानि च ॥ २,८.८७ ॥
तथा नवशतं वाप्यो विद्यन्ते कदलीवने ।
बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ २,८.८८ ॥
तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता ।
सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ २,८.८९ ॥
ततस्तस्य प्रवक्तव्यं दास्यामि परमेश्वरि ।
क्षीरान्नं वा फलाहारं तदग्रे दापयेत् सुधीः ॥ २,८.९० ॥
सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धारय ।
यदा न मुञ्चसे भूमौ तदा सिद्ध्यष्टकं तव ॥ २,८.९१ ॥
दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः ।
त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥ २,८.९२ ॥
इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् ।
गच्छेदुत्तरदिग्भागे तत्सरो योजनार्धकम् ॥ २,८.९३ ॥
तत्रास्ति पुष्पसम्पूर्णं दिव्याख्यं नन्दनं वनम् ।
पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ २,८.९४ ॥
अथवा भक्षयेत्तस्मात्फलमेकं यथाचितम् ।
तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥ २,८.९५ ॥
सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् ।
तत्र दाडिमसम्पूर्णं दृश्यते नन्दनं वनम् ॥ २,८.९६ ॥
तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् ।
तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ २,८.९७ ॥
तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् ।
फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ २,८.९८ ॥
तत्सरःपश्चिमभागे गच्छेद्योजनमात्रकम् ।
तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥ २,८.९९ ॥
तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् ।
तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥ २,८.१०० ॥
प्रविशेदुत्तरद्वारे तत्र नागो महाबलः ।
उग्रः सप्तफणाकारो दृश्यतेऽतिभयंकरः ॥ २,८.१०१ ॥
तस्य कुर्यान्नमस्कारं ह्रुं ह्रुं कुर्यात्समुद्धरेत् ।
तदासौ वदते वाणीमदृश्यत्वं ददामि ते ॥ २,८.१०२ ॥
गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका ।
गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥ २,८.१०३ ॥
हारं दास्यति सा तुष्टा न प्रवेशं प्रयच्छति ।
तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥ २,८.१०४ ॥
ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयंकरम् ।
मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥ २,८.१०५ ॥
नीलवर्णं क्षेत्रपालं दृष्ट्वा मन्त्रं समुच्चरेत् ।
ह हा हे हे हं ह्रुंकारं फट् हुं स्वाहान्तमेव च ॥ २,८.१०६ ॥
अनेन मन्त्रपाठेन क्षेत्रपालः प्रसीदति ।
ददाति खेचरीं सिद्धिं न प्रवेशं कदाचन ॥ २,८.१०७ ॥
ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः ।
दृश्यते पूजयेत्तं वै साधकः प्रविशेत्ततः ॥ २,८.१०८ ॥
दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् ।
पूजयेच्छिवमन्त्रेण रकारेणैव नान्यथा ॥ २,८.१०९ ॥
ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः ।
प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥ २,८.११० ॥
इत्येवमादयः सन्ति सिद्धयः कदलीवने ।
अक्षरैर्लिखितं द्वारे तत्र पद्मावतीबिलम् ॥ २,८.१११ ॥
सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति ।
वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥ २,८.११२ ॥
धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गम् ।
दृष्ट्वा तं वादयेद्वीरः सम्यक्पद्मावती ततः ॥ २,८.११३ ॥
आगत्य चामृतं दत्ते यत्पानादमरो भवेत् ।
ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥ २,८.११४ ॥
दिव्यं कन्यापञ्चशतं परिवारेण स्वीकुरु ।
अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥ २,८.११५ ॥
तदन्ते परमं स्थानं गच्छामो नात्र संशयः ।
कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥ २,८.११६ ॥
तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः ।
तस्य पत्त्राणि संगृह्य कटुतैलेन लेपयेत् ॥ २,८.११७ ॥
तद्वृक्षबीजतैलैर्वा तत्काष्ठैः पाचयेत् सुधीः ।
मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥ २,८.११८ ॥
कण्ठपुच्छशिरोवर्जं मध्वाज्याभ्यां तु भक्षयेत् ।
तत्क्षणाज्जायते सिद्धो रुद्रतुल्यो महाबलः ॥ २,८.११९ ॥
नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे ।
पूर्ववत्क्रमयोगेन सिद्धिः स्यान्नात्र संशयः ॥ २,८.१२० ॥
कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः ।
तस्य कुर्यात् प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥ २,८.१२१ ॥
ततः शिरः समारुह्य खेचरत्वं लभेन्नरः ।
तत्पूर्वोत्तरदिग्भागे छेलिकाद्वारस्थितम् ॥ २,८.१२२ ॥
उत्तराभिमुखं तत्र प्रविशेद्धनुषां त्रयम् ।
मूषिकाकारपाषाणास्तिष्ठन्ति तान् समाहरेत् ॥ २,८.१२३ ॥
तक्रैः पिष्ट्वा तदेकं तु पिबेन्मूर्छामवाप्नुयात् ।
क्षणादुत्तिष्ठते सिद्धो जीवेद्ब्रह्मदिनत्रयम् ॥ २,८.१२४ ॥
स एव सर्वलोहानां स्पर्शवेधकरो भवेत् ।
अहोरात्रोषितो भूत्वा देवाग्रे सिद्धिमाप्नुयात् ॥ २,८.१२५ ॥
कपोतेश्वरदेवस्य दक्षिणे देवताद्वयम् ।
तन्मध्ये कटिमात्रं तु खनेद्गोरोचनोपमाः ॥ २,८.१२६ ॥
पाषाणास्तान् समादाय मध्वाज्याभ्यां प्रपेषयेत् ।
तत्पानाज्जायते मर्त्यः कल्पायुर् नात्र संशयः ॥ २,८.१२७ ॥
कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् ।
खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥ २,८.१२८ ॥
तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते ।
मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥ २,८.१२९ ॥
विद्यते तत्समीपस्थं कुण्डं तस्मान्मृदाहरेत् ।
पञ्चगव्येन सम्मिश्रां खदिराङ्गारकैर्धमेत् ॥ २,८.१३० ॥
नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् ।
मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः ॥ २,८.१३१ ॥
तद्गोलं धारयेद्वक्त्रे विष्णुतुल्यो भवेन्नरः ।
भृगुपातात् पूर्वभागे क्रोशोदधिकपाटके ॥ २,८.१३२ ॥
तस्याग्रे अच्छतैलाख्यः पर्वतो नाम विश्रुतः ।
तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥ २,८.१३३ ॥
गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः ।
अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः ॥ २,८.१३४ ॥
{स्पर्शवेध:: रोच्क् नेअर् अ तेम्पुल्}
मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः ।
प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥ २,८.१३५ ॥
तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला ।
मुद्गवर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥ २,८.१३६ ॥
गजस्तत्रैव विख्यातस्तमारुह्य समाहितः ।
तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥ २,८.१३७ ॥
गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्भुवम् ।
जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः ॥ २,८.१३८ ॥
गजस्याधः खनेद्वाथ जानुमात्रं लभेत्ततः ।
त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥ २,८.१३९ ॥
श्रीशैलस्य तु वायव्ये तीर्थं देवह्रदः स्थितम् ।
तत्र कुण्डे मुद्गवर्णाः पाषाणाः स्पर्शवेधकाः ॥ २,८.१४० ॥
तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् ।
कृत्तिकायां सुपूर्णायां कृत्वा पूजां समाहरेत् ॥ २,८.१४१ ॥
गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् ।
तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥ २,८.१४२ ॥
अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः ।
सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥ २,८.१४३ ॥
श्रीशैलस्य तु नैरृत्ये नाम्ना गुण्डिप्रभा स्थिता ।
तस्याग्राद्गर्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥ २,८.१४४ ॥
तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः ।
तत्रैव भ्रमराः स्युश्च पूर्ववत्फलदायकाः ॥ २,८.१४५ ॥
तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् ।
सदाफलं तु विख्यातं पूर्ववत्साधयेत् सुधीः ॥ २,८.१४६ ॥
महानन्देश्वरं नाम श्रीशैलस्य तु नैरृते ।
तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ २,८.१४७ ॥
कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् ।
इन्द्रगोपकसंकाशस् तन्मध्ये विद्यते रसः ॥ २,८.१४८ ॥
तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् ।
श्रीशैलस्य तु ईशाने देवः स्यात्तुरलेश्वरः ॥ २,८.१४९ ॥
तस्योत्तरे सुविख्यात उमापर्वत उत्तमः ।
तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥ २,८.१५० ॥
तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् ।
तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥ २,८.१५१ ॥
अतिथेश्च तथाग्नेश्च भागं भागं प्रकल्पयेत् ।
भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥ २,८.१५२ ॥
तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः ।
तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ २,८.१५३ ॥
अचलेशश्च तत्रैव स्पर्शवेधकरः परः ।
दक्षिणे लेशस्य योजनैकेन विद्यते ॥ २,८.१५४ ॥
अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा ।
तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥ २,८.१५५ ॥
प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा ।
दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ २,८.१५६ ॥
तच्छिलालोडितं कुर्याद्रक्षेदलाबुपात्रके ।
तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ २,८.१५७ ॥
श्रीशैले तत्र तत्रैव पाषाणाः पिण्डभूस्थिताः ।
तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥ २,८.१५८ ॥
मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् ।
नैरृत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ २,८.१५९ ॥
तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके ।
द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥ २,८.१६० ॥
श्रावसम्पुटसंकाशान् पाषाणांस्त्रिंशदाहरेत् ।
कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥ २,८.१६१ ॥
तन्मध्यान्नवनीतं तु गृह्णीयाद् देवाय भागकम् ।
अतिथेर्भागैकं तु भागैकं भक्षयेद्बुधः ॥ २,८.१६२ ॥
मूर्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः ।
जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥ २,८.१६३ ॥
तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् ।
तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥ २,८.१६४ ॥
सर्वस्पर्शा न संदेह एकमेव समाहरेत् ।
तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥ २,८.१६५ ॥
तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधाः ।
उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ २,८.१६६ ॥
तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी ।
नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥ २,८.१६७ ॥
तत्र शैलोदकैः कुण्डं पूर्णं स्यात्क्षणवेधकम् ।
महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥ २,८.१६८ ॥
पिण्डादेवीति विख्याता तस्या वायव्यकोणतः ।
कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्गवर्णकाः ॥ २,८.१६९ ॥
तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः ।
स्पर्शनादत्र सर्वेषां वेधयुक्तिर् विधीयते ॥ २,८.१७० ॥
स्थूलश्चेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् ।
अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥ २,८.१७१ ॥
तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् ।
सूक्ष्मश्चेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥ २,८.१७२ ॥
तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् ।
मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥ २,८.१७३ ॥
तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने ।
गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥ २,८.१७४ ॥
धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् ।
यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥ २,८.१७५ ॥
वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् ।
तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥ २,८.१७६ ॥
तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः ।
गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥ २,८.१७७ ॥
गृहीत्वालाबुपात्रे तु कोटिवेधी भवेद्रसः ।
तस्मिन् वने मयूरः स्यान्नीलवर्णशिलामयः ॥ २,८.१७८ ॥
मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् ।
तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात् ॥ २,८.१७९ ॥
दिने पत्त्रं फलं पुष्पं जायते तस्य नान्यथा ।
तत्र पारदप्रस्थैकं क्षिप्त्वा तावज्जलं हरेत् ॥ २,८.१८० ॥
क्षौद्रतुल्यं पिबेत्तं वै तत्क्षणान्मूर्छितो भवेत् ।
मुहूर्ताल्लब्धराज्यःस्याज्जीवेद्युगसहस्रकम् ॥ २,८.१८१ ॥
शैलस्याग्नेयभागे तु गुटिकासिद्धकेश्वरः ।
विद्यते तस्य पुरतः पञ्चहस्तां खनेद्भुवम् ॥ २,८.१८२ ॥
पाषाणा बदराकाराः सन्ति खेगतिदायकाः ।
एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥ २,८.१८३ ॥
श्रीशैले सर्वयोगानाम् उक्तानां विधिरुच्यते ।
मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥ २,८.१८४ ॥
अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ।
क्षेत्रदेवतामावाहयेत् ।
तत्र स्वप्ने देवता प्रत्यक्षीभूय वरं ददाति ।
एवं मन्त्रपरैः सुनिश्चलतरैर् भक्तैश्च तत्साधकैः शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः ।
कार्यं श्रीगिरिसाधनं जपपरैर् आम्नायपारंगतैर् नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥ २,८.१८५ ॥
"https://sa.wikisource.org/w/index.php?title=रसरत्नाकरः/खण्ड_२&oldid=162709" इत्यस्माद् प्रतिप्राप्तम्