रसरत्नाकरः/खण्ड १

विकिस्रोतः तः

रसरत्नाकरः, १,१[सम्पाद्यताम्]

स्वर्गापवर्गविस्फारौ भुवनस्योदये यथा ।
भवरोगहरौ वन्दे चण्डिकाचन्द्रशेखरौ ॥ १,१.१ ॥
रसोपरसलोहानां तैलमूलफलैः सह ।
असाध्यं प्रत्ययोपेतं कथ्यते रससाधनम् ॥ १,१.२ ॥
वैद्यानां यशसेऽर्थाय व्याधितानां हिताय च ।
वादिनां कौतुकार्थाय वृद्धानां देहसिद्धये ॥ १,१.३ ॥
मन्त्रिणां मन्त्रसिद्ध्यर्थं विविधाश्चर्यकारणम् ।
पञ्चखण्डम् इदं शास्त्रं साधकानां हितप्रदम् ॥ १,१.४ ॥
रसखण्डे तु वैद्यानां व्याधितानां रसेन्द्रके ।
वादिनां वादखण्डे च वृद्धानां च रसायने ॥ १,१.५ ॥
मन्त्रिणां मन्त्रखण्डे च रससिद्धिः प्रजायते ।
सुतरां नास्ति संदेहः तत्तत्खण्डविलोकिनाम् ॥ १,१.६ ॥
हतो हन्ति जरामृत्युं मूर्छितो व्याधिघातकः ।
धत्ते च खेगतिं बद्धः कोऽन्यः सूतात्कृपाकरः ॥ १,१.७ ॥
जरामरणदारिद्र्यरोगनाशकरोमतः ।
मूर्छितो हरते व्याधीन् नसो देहे चरन्नपि ॥ १,१.८ ॥
मोहयेद्यः परान्बद्धो जीवयेच्च मृतः परान् ।
मूर्छितो बोधयेदन्यांस्तं सूतं को न सेवते ॥ १,१.९ ॥
आयुर्द्रविणमारोग्यं वह्निर् मेधा महद् बलम् ।
रूपयौवनलावण्यं रसोपासनया भवेत् ॥ १,१.१० ॥
मारयेज्जारितं सूतं गन्धकेनैव मूर्छयेत् ।
बद्धः स्याद् द्रुतिसत्वाभ्यां रसस्यैवं त्रिधा गतिः ॥ १,१.११ ॥
दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः ।
मारितो रुद्ररूपः स्याद्बद्धः साक्षान्महेश्वरः ॥ १,१.१२ ॥
वेधको देहलोहाभ्यां सूतो देवि सदाशिवः ।
दर्शनाद्रसराजस्य ब्रह्महत्यां व्यपोहति ॥ १,१.१३ ॥
स्पर्शनान्नाशयेद्देवि गोहत्यां नात्र संशयः ।
किं पुनर्भक्षणाद्देवि प्राप्यते परमं पदम् ॥ १,१.१४ ॥
अल्पमात्रोपयोगित्वाद् अरुचेर् अप्रप्सङ्गतः ।
क्षिप्रमारोग्यदायित्वाद्भेषजेभ्यो रसोऽधिकः ॥ १,१.१५ ॥
यदुक्तं शम्भुना पूर्वं रसखण्डे रसायने ।
रसस्य वन्दनार्थे च दीपिका रसमङ्गले ॥ १,१.१६ ॥
व्याधितानां हितार्थाय प्रोक्तं नागार्जुनेन यत् ।
उक्तं चर्पटिसिद्धेन स्वर्गवैद्यकपालिके ॥ १,१.१७ ॥
अनेकरसशास्त्रेषु संहितास्वागमेषु च ।
यदुक्तं वाग्भटे तन्त्रे सुश्रुते वैद्यसागरे ॥ १,१.१८ ॥
अन्यैश्च बहुभिः सिद्धैर् यद् उक्तं च विलोक्य तत् ।
तत्र यद्यदसाध्यं स्याद्यद्यद्दुर्लभमौषधम् ॥ १,१.१९ ॥
तत्तत्सर्वं परित्यज्य सारभूतं समुद्धृतम् ।
क्वचिच्छास्त्रे क्रिया नास्ति क्रमसंख्या न च क्वचित् ॥ १,१.२० ॥
मात्रा युक्तिः क्वचिन्नास्ति सम्प्रदायो न च क्वचित् ।
तेन सिद्धिर्न तत्रास्ति रसे वाथ रसायने ॥ १,१.२१ ॥
वैद्ये वादे प्रयोगे च यस्माद्यत्नो मया कृतः ।
यद्यद्गुरुमुखाज्ज्ञातं स्वानुभूतं च यन्मया ।
तत्तल्लोकहितार्थाय प्रकटीक्रियतेऽधुना ॥ १,१.२२ ॥
श्रीमान् सूतनृपो ददाति विलसंल्लक्ष्मीं वपुः शाश्वतंस्वानां प्रीतिकरीम् अचञ्चलमनो मातेव पुंसां यथा ।
अन्यो नास्ति शरीरनाशकगदप्रध्वंसकारी ततः कार्यं नित्यमहोत्सवैः प्रथमतः सूताद् वपुःसाधनम् ॥ १,१.२३ ॥
साक्षादक्षयदायको भुवि नृणां पञ्चत्वमुच्चैः कुतो मूर्च्छां मूर्छितविग्रहो गदभृतां हन्त्युञ्चकैः प्राणिनाम् ।
बद्धं प्राप्य सुरासुरेन्द्रचरितां तां तां गतिं प्रापयेत् ।
सोऽयं पातु परोपकारचतुरः श्रीसूतराजो जगत् ॥ १,१.२४ ॥
यदन्यत्र तदत्रास्ति यदत्रास्ति न तत्क्वचित् ।
रसरत्नाकरः सोऽयं नित्यनाथेन निर्मितः ।
ततः कुर्यात् प्रयत्नेन रससंस्कारम् उत्तमम् ॥ १,१.२५ ॥
अविज्ञात्या च शास्त्रार्थं प्रयोगकुशलो भिषक् ।
यम एव स विज्ञेयः मर्त्यानां मृत्युरूपधृक् ॥ १,१.२६ ॥
{रसस्य महादोषाः}
नागो वङ्गो मलो वह्निश्चांचल्यं च विषं गिरिः ।
असह्याग्निर्महादोषा निषिद्धाः पारदे स्थिताः ॥ १,१.२७ ॥
जायं गण्डस्तनौ नागात्कुष्ठं वङ्गाद्रुजा मलात् ।
वह्नेर् दाहो बीजनाशश्चाञ्चल्यान्मरणं विषात् ॥ १,१.२८ ॥
गिरेः स्फोटो ह्यसह्याग्नेर् दोषान्मोह उपजायते ।
{निर्दोषपारदस्य गुणाः}
दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥ १,१.२९ ॥
साक्षादमृतमप्येष दोषयुक्तो रसो विषम् ।
तस्माद्दोषविशुद्ध्यर्थं रसशुद्धिर्विधीयते ॥ १,१.३० ॥
रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ।
पञ्चाशतं पञ्चविंशद्वा द्वादशं चैकमेव वा ॥ १,१.३१ ॥
पलादूनं न कर्तव्यं रससंस्कारम् उत्तमम् ।
अघोरेण च मन्त्रेण रससंस्कारपूजनम् ॥ १,१.३२ ॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।
सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ १,१.३३ ॥


रसरत्नाकरः, १, २[सम्पाद्यताम्]

निःसारं वीक्ष्य विश्वं गदविकलवपुर् व्याप्तम् एवातितप्तम् ।
भूयः कारुण्यसिन्धोः सकलगुणनिधेः सूतराजस्य युक्तिम् ॥ १,२.१ ॥
दृष्ट्वा सूतस्य शास्त्राण्यवहितमनसा प्राणिनाम् इष्टसिद्ध्यै ।
शृण्वन्तूच्चैर् मयोक्तं सुविपुलमतयो भोगिकेन्द्राः सरेन्द्राः ।
यावत्सूतं न शुद्धं न च मृतमथ नो मूर्छितं गन्धबन्धं ।
नो वज्रं मारितं वा न च गगनवधो नापसूताश्च शुद्धाः ।
स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपातो न यावत् ।
तावद्वैद्यः क्व सिद्धो भवति वसुभुजां मण्डले श्लाघ्ययोग्यः ॥ १,२.२ ॥
{अष्टदोषनिवारण}
अथातः सम्प्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टकारजनीचूर्णैः षोडशांशैः रसस्य तु ॥ १,२.३ ॥
मर्दयेत्तप्तखल्वे तं जम्बीरोत्थद्रवैर्दिनम् ।
खल्वं लोहमयं वाथ पाषाणाश्ममथापि वा ॥ १,२.४ ॥
काञ्जिकैः क्षालयेत्सूतं नागदोषस्य शान्तये ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥ १,२.५ ॥
राजवृक्षो मलं हन्ति चित्रकं हन्ति वह्निजम् ।
चाञ्चल्यं कृष्णधत्तूरैस्त्रैफलैर्विषनाशनम् ॥ १,२.६ ॥
कटुत्रयं गिरिं हन्ति असह्याग्निं त्रिकण्टकः ।
{(२)}
प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥ १,२.७ ॥
सुवस्त्रगालितं सूतं खल्वे क्षिप्त्वा यथाक्रमम् ।
प्रत्येकं प्रत्यहं यत्नात्सप्तरात्रं विमर्दयेत् ॥ १,२.८ ॥
उद्धृत्योष्णारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ॥ १,२.९ ॥
जायते शुद्धः सूतोऽयं युज्यते वैद्यकर्मणि ।
{पारदशोधन}
अजाशकृत्तुषाग्निं च ज्वालयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितं खल्वं तत्रोक्तं मर्दयेद्रसम् ॥ १,२.१० ॥
श्रीखण्डं देवदारु च काकतुण्डीं जयाद्रवैः ।
कर्कोटीमूषलीकन्याद्रवे दत्त्वा विमर्दयेत् ।
दिनैकं पातनायन्त्रे शुद्धं च विनियोजयेत् ॥ १,२.११ ॥
कुमार्याश्च निशाचूर्णे दिनं सूतं विमर्दयेत् ।
पातयेत् पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः ॥ १,२.१२ ॥
{हिंगुलोत्थपारदशोधन}
पारिभद्ररसैः पेष्यं हिंगुलं याममात्रकम् ।
जम्बीराणां द्रवैर्वाथ पात्यं पातालयन्त्रके ॥ १,२.१३ ॥
तं सूतं योजयेद्योगे सप्तकञ्चुकवर्जितम् ।
इत्येवं शुद्धयः ख्याता यथेष्टैका प्रकारयेत् ॥ १,२.१४ ॥
{शुद्धसूतमारणौषधयः}
अथैतां मूलिकां वक्ष्ये शुद्धसूतस्य मारणे ।
ब्रह्मदण्डी मेघनादा चित्रकं तृणमुस्तिका ॥ १,२.१५ ॥
वज्रवल्ली बला शुण्ठी कटुतुम्ब्यर्धचन्द्रिका ।
विषमुष्ट्यर्कलाक्षाश्च गोक्षुरः काकतुण्डिका ॥ १,२.१६ ॥
कन्या चण्डालिनीकन्दं सर्पाक्षी सरपुङ्खिका ।
वस्ता रक्ताग्रनिर्गुण्डी लज्जाली देवदालिका ॥ १,२.१७ ॥
जाती जयन्ती वाराही भूकदम्बं कुरण्टकम् ।
कोषातकी नीरकणा लाङ्गली सहदेविकाः ॥ १,२.१८ ॥
चक्रमर्दोऽमृताकन्दं काकमाची रविप्रिया ।
विष्णुक्रान्ता हस्तिशुण्डी स्नुक्पयो भृङ्गराट् पटुः ॥ १,२.१९ ॥
इत्येताः मूलिका आख्याता योज्या पारदमारिकाः ।
एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ॥ १,२.२० ॥
{पारदभस्मनिर्माण}
अप्रसूतगवां मूत्रे पेषयेद् रक्तमूलिकाम् ।
तद्द्रवैः शोधितं सूतं तुल्यं गन्धकसंयुतम् ॥ १,२.२१ ॥
तप्तखल्वे चतुर्यामम् अविच्छिन्नं विमर्दयेत् ।
तत्पिण्डं पातयेद्यन्त्रे त्रिंशद्धट्टमहापुटे ॥ १,२.२२ ॥
एवं दशपुटैर् मार्यं मर्द्यं पात्यं पुनः पुनः ।
तदुद्धृत्य पुनर्मर्द्यं वज्रमूषान्तरे क्षिपेत् ॥ १,२.२३ ॥
भूधराख्ये पुटे पच्याद्दशधा भस्मतां व्रजेत् ।
द्रवैर्द्रवैः पुनर्मर्द्यं सिद्धोऽयं वज्रसूतकः ॥ १,२.२४ ॥
मूलिकामारितः सूतो जारणक्रमवर्जितः ।
न क्रमेद्देहलोहाभ्यां रोगहर्ता भवेद्ध्रुवम् ॥ १,२.२५ ॥
{पारदभस्मनिर्माण (२)}
रसं गन्धकतैलेन द्विगुणेन विमर्दयेत् ।
दिनैकं वाथ सर्पाक्षीविष्णुक्रान्ताह्वभृङ्गजैः ॥ १,२.२६ ॥
त्र्यहं विमर्दयेद् द्रावैस् त्रिंशद्धट्टमहापुटे ।
इत्येवमष्टधा पाच्यं रसो भस्मीभवेद् ध्रुवम् ॥ १,२.२७ ॥
{रसभस्मनिर्माण (३)}
श्वेताङ्कोटजटावारि सूतं मर्द्यं दिनत्रयम् ।
पुटयेद्भूधरे यन्त्रे मूषायां भस्मतां व्रजेत् ॥ १,२.२८ ॥
देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
सप्तधा सूतकं तेन कुर्याद्धमनम् उत्थितम् ॥ १,२.२९ ॥
तं सूतं खर्परे कुर्याद्दत्त्वा दत्त्वा चतुर्द्रवम् ।
चुल्ल्योपरि पचेद् वह्नौ भस्म स्यादरुणोपमम् ॥ १,२.३० ॥
{पारदमारण (४)}
काष्ठोदुम्बरजैः क्षीरैः सितां हिंगु विभावयेत् ।
सप्तवारं प्रयत्नेन शोध्यं पेष्यं पुनः पुनः ॥ १,२.३१ ॥
काष्ठोदुम्बरपञ्चाङ्गैः कषायं षोडशांशकम् ।
दत्त्वा तेन पुनर् मर्द्यं हिंगु वङ्गरसेश्वरम् ॥ १,२.३२ ॥
क्षिप्त्वा निरुध्य मूषायां भूधराख्ये पुटे पचेत् ।
अष्टधा म्रियते सूतो देयं हिंगु पुटे पुटे ॥ १,२.३३ ॥
{पारदमारण (५)}
अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायामेव रोधयेत् ॥ १,२.३४ ॥
रुद्ध्वा लघुपुटे पच्याच्चतुर्भिर्भस्मतां व्रजेत् ।
{पारदमारण (६)}
कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःसु वै ॥ १,२.३५ ॥
सप्तधा म्रियते सूतः स्वेदयेद् गोमयाग्निना ।
{पारदमारण (७)}
अङ्कोलस्य जटातोयैः पिष्ट्वा खल्वे विमर्दयेत् ॥ १,२.३६ ॥
सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।
पुटयेद्भूधरे यन्त्रे दिनान्ते तं समुद्धरेत् ॥ १,२.३७ ॥
{पारदमारण (८)}
धान्याभ्रं सूतकं तुल्यं मर्दयेन्मारकद्रवैः ।
दिनैकं तेन कल्केन वस्त्रे लिप्त्वा च वर्तिकाम् ॥ १,२.३८ ॥
विलिप्य तैलैर्वर्तिं ताम् एरण्डोत्थैः पुनः पुनः ।
प्रज्वाल्य तद्धृतं भाण्डे ग्राहयेत्पतितामधः ॥ १,२.३९ ॥
कृष्णभस्म भवेत्तच्च पुनर्मर्द्यं त्रियामकैः ।
दिनैकं तत्पचेद्यन्त्रे कच्छपाख्ये न संशयः ॥ १,२.४० ॥
मृतः सूतो भवेत्सद्यस्तत्तद्योगेषु योजयेत् ।
{पारदमारण (९)}
द्विपलं शुद्धसूतं तु सूतार्धशुद्धगन्धकम् ॥ १,२.४१ ॥
मर्दयेन्मारकद्रावैर् दिनमेकं निरन्तरम् ।
बद्ध्वा तु भूधरे यन्त्रे दिनैकं मारयेत् पुटात् ॥ १,२.४२ ॥
{वज्रमूषा}
तुषदग्धस्य भागौ द्वावेको वल्मीकमृत्तिका ।
लोहकिट्टस्य भागैकं श्वेतपाषाणभागकम् ॥ १,२.४३ ॥
नरकेशसमं किंचिच्छागीक्षीरेण पेषयेत् ।
यामद्वयं दृढं मर्द्यं तेन मूषान्धसंपुटाम् ॥ १,२.४४ ॥
शोषयित्वाथ संलिप्य तत्कल्कैः संनिरुध्य च ।
वज्रमूषा समाख्याता सम्यक् पारदमारिका ॥ १,२.४५ ॥
{भस्मसूतवर्णाः}
श्वेतं पीतं तथा रक्तं कृष्णं चेति चतुर्विधम् ।
लक्षणं भस्मसूतस्य श्रेष्ठं स्यादुत्तरोत्तरम् ॥ १,२.४६ ॥


रसरत्नाकरः, १, ३[सम्पाद्यताम्]

{जारणपूर्वं मारणम्}
अथातो जारणापूर्वं बीजं मारणमुच्यते ।
अजीर्णं चाप्यबीजं च सूतकं यस्तु मारयेत् ॥ १,३.१ ॥
ब्रह्महा स दुराचारो मम द्रोही महेश्वरि ।
तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ॥ १,३.२ ॥
{रसस्य समुखकरणम्}
संस्थाप्य गोमयं भूमौ पक्वमूषां ततः परम् ।
तन्मध्ये कटुतुम्ब्युत्थं तैलं दत्त्वा रसं क्षिपेत् ॥ १,३.३ ॥
काकमाचीरसं देयं तैलं तुल्यं ततः पुनः ।
गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत् ॥ १,३.४ ॥
तत्पृष्ठे पावको देयः पूर्णं वा वह्निखर्परम् ।
स्वाङ्गशीतलतां ज्ञात्वा जीर्णे तैले च गन्धकम् ॥ १,३.५ ॥
काकमाचीद्रवं चाग्नौ दत्त्वा दत्त्वा च जारयेत् ।
मूषाधो गोमयं चात्र दत्त्वा चोदधर्वं च पावकम् ॥ १,३.६ ॥
षड्गुणं गन्धकं जार्यं सूतस्यैवं मुखं भवेत् ।
{समुखपारदस्य जारणापूर्वको मारणविधिः}
तं सूतं मर्दयेन्नीरैर्जम्बीरोत्थैः पुनः पुनः ॥ १,३.७ ॥
चतुःषष्ट्यंशकैः पूर्वैर् द्वात्रिंशांशं ततः पुनः ।
षोडशांशं शुद्धहेमपत्रं सूतेषु निक्षिपेत् ॥ १,३.८ ॥
शिखिपित्तेन सम्पिष्टं तैलैश्च सर्षपोद्भवैः ।
लिप्त्वा हेमं क्षिपेत्सूतं यामं जम्बीरजैर्द्रवैः ॥ १,३.९ ॥
मर्द्यं तं पूर्ववत् पच्यान्मूषायां जम्बीरद्रवैः ।
पूरयेद् रोधयेच्चाग्निं दत्त्वा यत्नेन जारयेत् ॥ १,३.१० ॥
ग्रासे ग्रासे च तन्मर्द्यं जम्बीराणां द्रवैः दृढम् ।
मूलिका लवणं गन्धमभावे पित्ततैलयोः ॥ १,३.११ ॥
पिष्ट्वा जम्बीरनीरेण हेमपत्रं प्रलेपयेत् ।
इत्येवं जारणा कार्या ततः सूतं च मारयेत् ॥ १,३.१२ ॥
अथवा निर्मुखं सूतं विडयोगेन मारयेत् ।
{विडनिर्माणविधि}
विडमत्र प्रवक्ष्यामि साधयेद्भिषजां वरः ॥ १,३.१३ ॥
शंखचूर्णं रविक्षीरैश्चातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजैर्द्रावैर् दिनैकं धूमसारकम् ॥ १,३.१४ ॥
सुवर्चलमजामूत्रैः क्वाथ्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्यं दिनैकं नरमूत्रकैः ॥ १,३.१५ ॥
सज्जीक्षारं तिन्तिडीकं काशीशं च शिलाजतुम् ।
जम्बीरोत्थैर् द्रवैर् भाव्यं पृथग्यामं चतुष्टयम् ॥ १,३.१६ ॥
जयपालबीजं त्वग्घीनं मूलकानां द्रवैर् दिनम् ।
सैन्धवं टङ्कणं गुञ्जां शिग्रुमूलद्रवैर्दिनम् ॥ १,३.१७ ॥
एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः ।
तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वाडवानलः ।
अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके ॥ १,३.१८ ॥
{विडयोगेन पारदादिमारणप्रकारः}
स्वर्णाभ्रकसर्वलोहानि यथेष्टानि च जारयेत् ।
मारयेत् पूर्वयोगेन मारणं चात्र कथ्यते ॥ १,३.१९ ॥
{पारदमारण (१)}
कुम्भीं समूलाम् उद्धृत्य गोमूत्रेण सुपेषयेत् ।
तद्द्रवैर् मर्दयेत्सूतं दिनैकं कान्तसम्पुटे ॥ १,३.२० ॥
लिप्त्वा नियामका देया ऊर्ध्वश्चाधस् तदन्वयेत् ।
मृद्वग्निना दिनैकं तु पचेच्चुल्यां मृतो भवेत् ॥ १,३.२१ ॥
{पारदमारण (२)}
गोघृतं गन्धकं सूतं पिष्ट्वा पिण्डीं प्रकल्पयेत् ।
कुमारीदलमध्यस्थं कृत्वा सूत्रेण वेष्टयेत् ॥ १,३.२२ ॥
तं कान्तसम्पुटे रुद्ध्वा त्रिभिर् लघुपुटैः पचेत् ।
ततो ध्माते भवेद्भस्म चान्धमूषे क्षयं ध्रुवम् ॥ १,३.२३ ॥
{पारदमारण (३)}
शाकवृक्षस्य पक्वानि फलान्यादाय शोधयेत् ।
पेषयेद्रविदुग्धेन तेन मूषां प्रलेपयेत् ॥ १,३.२४ ॥
आदिप्रसूतगोर् जातजरायोश्चूर्णपूरितः ।
तन्मध्ये सूतकं रुद्ध्वा ध्मातो भस्मत्वमाप्नुयात् ॥ १,३.२५ ॥
{पारदमारण (४)}
कर्कोटकीं काकमाचीं च कञ्चुकीं कटुतुम्बिकाम् ।
काकजङ्घां काकतुण्डीं काकिनीं काकमञ्जरीः ॥ १,३.२६ ॥
पिष्ट्वैतान् वज्रमूषास्तैर्लेपं कृत्वा रसं क्षिपेत् ।
मर्दितं दिनमेकं तु तैरेवार्द्रोत्थितै रसैः ॥ १,३.२७ ॥
रुद्ध्वाथ भूधरे पच्याद् अष्टवारं पुनः पुनः ।
मर्दयेल्लिप्तमूषास्ता रुद्ध्वा ध्मातो मृतो भवेत् ॥ १,३.२८ ॥
{पारदमारण (५)}
रसैर्नियामकैर् मर्द्यो दृढं यामचतुष्टयम् ।
द्विगुणैर्गन्धतैलैश्च पचेन्मृद्वग्निना शनैः ॥ १,३.२९ ॥
यावत् खोटो भवेत्तत्तद्रोधयेल्लौहसम्पुटे ।
हरीतकीं जले पिष्ट्वा लौहकिट्टेन मूषिकाम् ॥ १,३.३० ॥
कृत्वा तन्मध्यतः क्षिप्त्वा सम्पुटं चान्धयेत्पुनः ।
तस्योर्ध्वं स्रावकाकारं हृत्वा नागद्रुतं क्षिपेत् ॥ १,३.३१ ॥
कठिनेन धमेत्तावद्यावन्नागो द्रुतो भवेत् ।
न धमेच्च पुनस्तावद्यावत् कठिनतां व्रजेत् ॥ १,३.३२ ॥
एवं पुनः पुनर्ध्मातस्त्रियामैर् म्रियते रसः ।
{नियामकौषध्यः}
नियामकास्ततो वक्ष्ये सूतस्य मारकर्मणि ॥ १,३.३३ ॥
सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शरपुङ्खिका ।
काकजङ्घा शिखिशिखा ब्रह्मदण्ड्य् आखुपर्णिका ॥ १,३.३४ ॥
वर्षाभूः कञ्चुकी मूर्वा पद्मकोत्पलचिञ्चिका ।
शतावरी वज्रलता वज्रकन्दा त्रिपर्णिका ॥ १,३.३५ ॥
मण्डूकपर्णी पाटली चित्रको ग्रीष्मसुन्दरः ।
काकमाची महाराष्ट्री हरिद्रा तिलकर्णिका ॥ १,३.३६ ॥
श्वेतार्कशिग्रुधत्तूरमृगदूर्वाहरीतकी ।
गुडूची मूषली पुङ्खा भृङ्गराड्रक्तचित्रकम् ॥ १,३.३७ ॥
तगरं शूरणं मुण्डी मयङ्का पोतकोकिलम् ।
सैन्धवं श्वेतवर्षाभूः साम्भरं हिंगु माक्षिकम् ॥ १,३.३८ ॥
विष्णुकान्ता सोमवल्ली व्रणघ्नी यक्षलोचनम् ।
व्याघ्रपादी हंसपदी वृश्चिकाली कुरण्टकम् ॥ १,३.३९ ॥
स्वयम्भूकुसुमं कुञ्ची हस्तिशुण्डीन्द्रवारुणी ।
बीजान्यहस्करस्यापि सर्वत्रैते नियामकाः ॥ १,३.४० ॥
एताः समस्ता व्यस्ता वा देया ह्यष्टादशाधिकाः ।
मारणे मूर्च्छने बन्धे रसस्यैतानि योजयेत् ॥ १,३.४१ ॥
{रसस्य जारणमारणविधिः}
अप्रसूतगवां मूत्रैः पिष्ट्वा पूर्वनियामिकाः ।
तद्द्रवैर्मर्दयेत् सूतं यथा पूर्वोदितं क्रमात् ॥ १,३.४२ ॥
इत्येवं जारणं प्रोक्तं मारणं परिकीर्तितम् ।
{रसभस्मपरीक्षा}
परीक्षा मारिते सूते कर्तव्या च यथोदिता ॥ १,३.४३ ॥
अधस्तुषाग्निना तप्तो ह्यक्षीणस्तिष्ठते यदा ।
तदा भस्म विजानीयाच्चुल्ल्यां यामं निरीक्षयेत् ॥ १,३.४४ ॥
मूलिकामारितं सूतं सर्वयोगेषु योजयेत् ।
जारितो याति सूतोऽसौ जरादारिद्र्यरोगनुत् ॥ १,३.४५ ॥
मूर्छितो व्याधिनाशाय बद्धः सर्वत्र योजयेत् ॥ १,३.४६ ॥


रसरत्नाकरः, १, ४[सम्पाद्यताम्]

{मूर्छन}
अथातः शुद्धसूतस्य मूर्च्छना विधिरुच्यते ।
मेघनादो वचा हिंगु शूरणैर्मर्दयेद्रसम् ॥ १,४.१ ॥
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद् बहिः ।
पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥ १,४.२ ॥
ऊर्ध्वलग्नं समारुह्य दृढं वस्त्रेण बन्धयेत् ।
ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ॥ १,४.३ ॥
जीर्णे गन्धे पुनर् देयं षड्भिर् वारैः समं समम् ।
षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ॥ १,४.४ ॥
{mercury मूर्छन}
गन्धकं मधुसारं च शुद्धसूतं समं समम् ।
यामैकं पाचयेत् खल्वे काचकुप्यां निवेशयेत् ॥ १,४.५ ॥
रुद्ध्वा द्वादशयामं तं वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वांगशीतं तं तदूर्ध्वं गन्धकं त्यजेत् ॥ १,४.६ ॥
अधःस्थं रसमादाय सर्वरोगेषु योजयेत् ।
{mercury formulation}
शुद्धं सूतं द्विधा गन्धं सूतार्द्धं सैन्धवं क्षिपेत् ॥ १,४.७ ॥
द्रवैः सितजयन्त्याश्च मर्दयेद्दिवसत्रयम् ।
कृत्वा गोलं च संशोष्य क्षिप्त्वा मूषां निरुन्धयेत् ॥ १,४.८ ॥
शोषयित्वा धमेत् किंचित् सुतप्तां तां जले क्षिपेत् ।
तस्माद्रसं समुद्धृत्य त्रिकण्टरसभावितम् ॥ १,४.९ ॥
योजयेत्सर्वरोगेषु धमेद्वा भूधरे पचेत् ।
{mercury formulation}
रसार्धं गन्धकं मर्द्यं घृतैर्युक्तं तु गोलकम् ॥ १,४.१० ॥
कृत्वा तं बन्धयेद्वस्त्रे दोलायन्त्रगतं पचेत् ।
गोमूत्रान्तः कृतं यामं नरमूत्रैर्दिनत्रयम् ॥ १,४.११ ॥
शोषयेच्च पुनर्वस्त्रे बद्ध्वावेष्ट्य सदा दृढम् ।
शुष्कं निरुध्य मूषायां ततस्तुषाग्निना पचेत् ॥ १,४.१२ ॥
ऊर्ध्वभागमधः कृत्वा अधोभागं च ऊर्ध्वगम् ।
इत्यादिपरिवर्तेन स्वेदयेद्दिवसत्रयम् ॥ १,४.१३ ॥
पश्चाद् उद्धृत्य तं सूतं योगवाहं रुजापहम् ॥ १,४.१४ ॥
{mercury formulation}
सद्योजातस्य बालस्य विष्ठां पालाशबीजकम् ।
चाण्डाली रुधिरं सूतं सूतपादं च टङ्कणम् ॥ १,४.१५ ॥
जयन्त्या मर्दयेद् द्रावैर् दिनैकं तत्तु गोलकम् ।
पेषयेत्सहदेव्याथ लेपयेत् ताम्रसंपुटम् ॥ १,४.१६ ॥
तन्मध्ये गोलकं क्षिप्त्वा द्वियामं स्वेदयेल्लघु ।
वालुकायन्त्रमध्ये तु समुद्धृत्य ततः पुनः ॥ १,४.१७ ॥
चित्रकैः सहदेव्या च गन्धकैर् लेपयेद् बहिः ।
सम्पुटं बन्धयेद्वस्त्रे मृदालेप्य च शोषयेत् ॥ १,४.१८ ॥
तं रुद्ध्वान्धमूषायां ध्माते सम्पुटमाहरेत् ।
सूक्ष्मचूर्णं हरेद्रोगान् योगवाहो महारसः ॥ १,४.१९ ॥
सम्पुटं सूततुल्यं स्याच्छास्त्रदृष्टेन कर्मणा ॥ १,४.२० ॥
{mercury formulation}
धत्तूरकद्रवैर् मर्द्यं दिनं गन्धं ससूतकम् ।
अन्धमूषे दिनं स्वेद्यं भूधरे मूर्छितो भवेत् ॥ १,४.२१ ॥
कृत्वा षडङ्गुलां मूषां सुपक्वां मृन्मयीं दृढाम् ।
मूषागर्भं विलेप्याथ मूलैर्बहुलपत्रकैः ॥ १,४.२२ ॥
तन्मध्ये सूतकं क्षिप्त्वा मूषां पूर्यात्तु तद्द्रवैः ।
रुद्ध्वा सलवणैर्यन्त्रैश्चुल्यां दीप्ताग्निना पचेत् ॥ १,४.२३ ॥
सप्ताहान्ते समुद्धृत्य यवमानं ज्वरापहम् ।
{mercury मूर्छन}
काशीशं सैन्धवं सूतं तुल्यं तुल्यं विमर्दयेत् ॥ १,४.२४ ॥
काशीशस्यास्य भागेन दातव्या फुल्लतूरिका ।
स्तोकस्तोकं क्षिपेत् खल्वे त्रियामं चैव मूर्छयेत् ॥ १,४.२५ ॥
प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं भवेत् ।
स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् ॥ १,४.२६ ॥
ऊर्ध्वलग्नं ततश्चुल्ल्यां मूर्छितं चाहरेत् सूतम् ।
{mercury मूर्छन}
कुरण्टकरसैर्भाव्यम् आतपे मर्दयेद्रसम् ॥ १,४.२७ ॥
लताकरञ्जपत्रैर्वाङ्गुष्ठाग्रेन विमर्दयेत् ।
दिनैकं मूर्छितं सम्यक् सर्वरोगेषु योजयेत् ॥ १,४.२८ ॥
{हैरण्यगर्भक}
अथ सूतस्य शुद्धस्य मूर्छितस्याप्ययं विधिः ।
सूततुल्यं घृतं जीर्णं द्वाभ्यां तुल्यं च गन्धकम् ॥ १,४.२९ ॥
रविक्षीरैर्दिनं मर्द्यम् अन्धयित्वा च भूधरे ।
पुटकेन भवेत्सिद्धो रसो हैरण्यगर्भकः ॥ १,४.३० ॥
{वैक्रान्तबद्धरस}
कटुतुम्ब्युद्भवे कन्दे वन्ध्यायाः क्षीरकन्दके ।
अपक्वैकं समादाय तद्गर्भे पिण्डिका ततः ॥ १,४.३१ ॥
दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।
स्तोकं स्तोकं क्षिपेद् गन्धं पाषाणे तं तु कुट्टयेत् ॥ १,४.३२ ॥
याममात्रे भवेत् पिण्डी रसं कन्दे विनिक्षिपेत् ।
अध ऊर्ध्वं भस्म वैक्रान्तं दत्त्वा निष्कार्द्धमात्रकम् ॥ १,४.३३ ॥
ततः कन्दस्य मज्जाभिर्मुखं बद्ध्वा मृदा दृढम् ।
लिप्तम् अङ्गुलमानेन सर्वतः शोष्य गोलकम् ॥ १,४.३४ ॥
पाचयेद् भूधरे यन्त्रे तत उद्धृत्य पुनः पचेत् ।
ऊर्ध्वभागमधः कुर्यादित्येवं परिवर्तयेत् ॥ १,४.३५ ॥
क्रमेण चालयेदूर्ध्वं बहिर्युग्मोपलैः पचेत् ।
ततो भिन्नस्तु संग्राह्यो बद्धः स्याद्दाडिमोपमम् ।
नाम्ना वैक्रान्तबद्धोऽयं सर्वरोगेषु योजयेत् ॥ १,४.३६ ॥
{गन्धबद्धपारद}
अथवा गन्धपीठीनां वस्त्रे बद्ध्वा तु गन्धकम् ।
तुल्यं दत्त्वा निरुन्ध्याथ सम्पुटे लोहजे दृढे ॥ १,४.३७ ॥
पुटयेद्भूधरे तावद्यावज्जीर्यति गन्धकम् ।
एवं पुनः पुनर्देयं यावद्गन्धस्तु षड्गुणम् ॥ १,४.३८ ॥
इत्येवं गन्धके बद्धः सूतः स्यात्सर्वरोगहृत् ।
{गन्धबद्धपारद (२)}
मूषा जम्बीरविस्तारा दैर्घ्येण षोडशाङ्गुला ।
अपक्वा सुदृढा कार्या सिकताभाण्डमध्यगा ॥ १,४.३९ ॥
त्रिभागं वालुका लग्ना पादांशेन बहिः स्थिताः ।
पलैकं चूर्णितं गन्धं मूषामध्ये विनिक्षिपेत् ॥ १,४.४० ॥
शुद्धसूतं समं पश्चात् क्षिपेद्गन्धपलं ततः ।
भाण्डम् आरोपयेच्चुल्ल्यां मूषामाच्छाद्य यत्नतः ॥ १,४.४१ ॥
मन्दाग्निना पचेत्तावद्यावन्निर्धूमतां व्रजेत् ।
गन्धधूमे गते पूर्या काकमाचीद्रवैस्तु सा ॥ १,४.४२ ॥
द्रवे जीर्णे पुनः पूर्या नागवल्लीदलद्रवैः ।
जीर्णे धुस्तूरकद्रावैः पूरयित्वा पुनः पचेत् ॥ १,४.४३ ॥
यावज्जीर्यति तद्गन्धं काकमाच्यादिभिः पुनः ।
दत्त्वा दत्त्वा पचेत्तद्वद् धुस्तुरादिक्रमाद् रसम् ॥ १,४.४४ ॥
भित्त्वा मूषां समादाय जराव्याधिहरो रसः ।
योजयेद् गन्धबद्धोऽयं योगवाहेषु सर्वतः ॥ १,४.४५ ॥
{mercury मूर्छन:: test}
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
मूर्छितः स तदा ज्ञेयो नानारसगतः क्वचित् ॥ १,४.४६ ॥
माधुर्यगौरवोपेतः तेजसा भास्करोपमः ।
वह्निमध्ये यदा तिष्ठेत्तदा वृक्षस्य लक्षणम् ॥ १,४.४७ ॥
स जयति रसराजो मृत्युशङ्कापहारी सकलगुणनिधानः कायकल्पाधिकारी ।
वलिपलितविनाशं सेवनाद्वीर्यवृद्धिं स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गे ॥ १,४.४८ ॥
इत्येता मारिताः सूता मूर्छिता बद्धम् आगताः ।
प्रत्येकं योगवाहः स्यात्तत्तद्योगेषु योजयेत् ॥ १,४.४९ ॥
मारितं देहसिद्ध्यर्थं मूर्छितं व्याधिनाशनम् ।
रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥ १,४.५० ॥
बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ।
{mercury स्तोरगे}
दन्ते शृङ्गेऽथवा वंशे रक्षयेत्साधितं रसम् ॥ १,४.५१ ॥
{mercury medic. properties}
पारदं क्रिमिकुष्ठघ्नं बल्यमायुष्यदृष्टिदम् ।
सेवनात्सर्वरोगघ्नं रुच्यं गुरुकषायकम् ॥ १,४.५२ ॥
सूते गुणानां शतकोटिर् वज्रे चाभ्रे सहस्रं कनके शतैकम् ।
तारे गुणाशीतिस् तदर्धं कान्ते तीक्ष्णे चतुःषष्टिः रवौ तदर्धम् ॥ १,४.५३ ॥
रसादिभिर्या क्रियते चिकित्सा दैवीति सद्भिः परिकीर्तिता सा ।
सा मानुषी मन्त्रकृता शिफाद्यैः सा राक्षसी शस्त्रकृतादिभिर्या ॥ १,४.५४ ॥


रसरत्नाकरः, १, ५[सम्पाद्यताम्]

{उपरसनामानि}
गन्धकं वज्रवैक्रान्तं वज्राभ्रं तालकं शिला ।
खर्परं शिखितुत्थं च विमलां हेममाक्षिकम् ॥ १,५.१ ॥
कासीसम् कान्तपाषाणं वराटीमथ हिंगुलम् ।
कङ्कुष्ठं शंखभूनागं टंकणश्च शिलाजतु ॥ १,५.२ ॥
एते उपरसाः शोध्याः मार्या द्राव्याः पुटे क्वचित् ॥ १,५.३ ॥
{गन्ध:: अशुद्ध:: medic. properties}
अपक्वगन्धं कुरुतेऽति कुष्ठं तापं भ्रमं पित्तरुजां करोति ।
रूपं सुखं वीर्यबलं च हन्ति तस्मात् संशुद्धं विधियोजनीयम् ॥ १,५.४ ॥
{गन्धकशोधन}
साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा स्रावेण रोधयेत् ॥ १,५.५ ॥
भाण्डं निक्षिप्य भूम्यन्ते ऊर्ध्वे देयं पुटं लघु ।
ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥ १,५.६ ॥
{गन्धकशोधन (२)}
अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं च सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं प्रलेपयेत् ॥ १,५.७ ॥
तद्वह्निज्वलिता देशे हृत्वा धार्या ह्यधोमुखा ।
तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥ १,५.८ ॥
{sulfur:: शुद्ध:: medic. properties}
शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युज्वरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ १,५.९ ॥
{वज्र:: शोधन}
व्याघ्रीकन्दयुतं वज्रं दोलायन्त्रेण पाचितम् ।
सप्ताहात् कौद्रवे क्वाथे कौलत्थे विमलं भवेत् ॥ १,५.१० ॥
{वज्र:: मारण}
त्रिसप्तकृत्वस्तत्तप्तं खरमूत्रेण सेचयेत् ।
षड्गुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ १,५.११ ॥
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वोदितक्रमैः ।
भस्मीभवति तद्वज्रं वज्रवत्कुरुते तनुम् ॥ १,५.१२ ॥
{वज्र:: मारण}
ऊर्णाशृङ्गं परिपिष्य पिण्डम् एतस्य मध्ये तु निधाय वज्रम् ।
पिण्डेऽथवाधाय च वज्रवल्ल्याः पुटत्रयं तस्य रसे विदध्यात् ॥ १,५.१३ ॥
मृत्युरेव भवेदस्य वज्राख्यस्य न संशयः ॥ १,५.१४ ॥
{वज्र:: अशुद्ध:: medic. properties}
अशुद्धवज्रम् आयुर्घ्नं पीडां कुष्ठं करोति च ।
पाण्डुतापगुरुत्वं च तस्माच्छुद्धं तु कारयेत् ॥ १,५.१५ ॥
{वज्र:: subtypes:: colour, caste}
श्वेतरक्तपीतकृष्णा द्विजाद्याः वज्रजातयः ।
रसायने भवेद् विप्रः श्वेतः सिद्धिप्रदायकः ॥ १,५.१६ ॥
क्षत्रियो मृत्युजिद् रक्तो वलीपलितरोगहा ।
द्रवकारी भवेद्वैश्यः पीतो देहस्य दार्ढ्यकृत् ॥ १,५.१७ ॥
कृष्णः शूद्रो रुजां हन्ति वयःस्थैर्यं करोति च ।
पुंस्त्रीनपुंसकाश्चैते लक्षणेन तु लक्षयेत् ॥ १,५.१८ ॥
{वज्र:: पुंवज्र:: परीक्षा}
वृत्ताः फलकसम्पूर्णास् तेजस्वन्तो बृहद्भवाः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ १,५.१९ ॥
{वज्र:: स्तीवज्र:: परीक्षा}
रेखाबिन्दुसमायुक्ताः षट्कोणास् ताः स्त्रियः स्मृताः ।
{वज्र:: नपुंसक:: परीक्षा}
त्रिकोणायत्ता दीर्घा विज्ञेयास्ता नपुंसकाः ॥ १,५.२० ॥
पूर्वपूर्वमिमे शस्ताः पुरुषाः बलवत्तराः ।
शरीरकान्तिजनका भोगदा वज्रयोषितः ॥ १,५.२१ ॥
नपुंसकास्त्वल्पवीर्याः कामुकाः सत्त्ववर्जिताः ।
स्त्री तु स्त्रीणां प्रदातव्या क्लीबं क्लीबे तथैव च ॥ १,५.२२ ॥
सर्वेषां सर्वदा योज्याः पुरुषाः बलवत्तराः ॥ १,५.२३ ॥
{वज्र:: शोधन}
गृहीत्वा तु शुभं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ।
महिषीविष्ठया लेप्यं करीषाग्नौ विपाचयेत् ॥ १,५.२४ ॥
निशायां तु चतुर्यामं निशान्ते वाश्वमूत्रके ।
सेचयेत्तानि प्रत्येकं सप्तरात्रेण शुध्यति ॥ १,५.२५ ॥
{वज्र:: शोधन}
मेघनादा शमी श्यामा शृङ्गी मदनकोद्भवम् ।
कुलत्थं वेतसं चाथ अगस्त्यं सिन्धुवारकाः ॥ १,५.२६ ॥
एतेषां सजलैः क्वाथैर् वज्रं जम्बीरमध्यगम् ।
दोलायन्त्रे त्र्यहं पाच्यमेवं वज्रं विशुद्धयेत् ॥ १,५.२७ ॥
{वज्र:: शोधन}
कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिम् ऋच्छति ॥ १,५.२८ ॥
{वज्र:: शोधन}
व्याघ्रीं कन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ॥ १,५.२९ ॥
वज्रीक्षीरेण वा सिञ्चेदेवं शुद्धं च मारयेत् ॥ १,५.३० ॥
{वज्र:: ब्राह्मण:: मारण}
विप्रजात्यादिवज्राणां मारणं कथ्यते पुनः ।
अश्वत्थबदरीझिण्टीमाक्षिकं कर्कटास्थि च ॥ १,५.३१ ॥
तुल्यं स्नुहीपयः पिष्ट्वा वज्रं तद्गोलके क्षिपेत् ।
रुद्ध्वा गजपुटे पच्याद्विप्रजातिर् मृतो भवेत् ॥ १,५.३२ ॥
{वज्र:: क्षत्रिय:: मारण}
करवीरं मेषशृङ्गं च बदरं च उदुम्बरम् ।
अर्कदुग्धसमं पिष्ट्वा विप्रवन्मारयेन्नृपम् ॥ १,५.३३ ॥
{वज्र:: वैश्य:: मारण}
बलां चातिबलां गन्धं पेषयेत्कच्छपास्थि च ।
एतैर् वा वारुणीदुग्धैः म्रियेद्वैश्योऽपि विप्रवत् ॥ १,५.३४ ॥
{वज्र:: शूद्र:: मारण}
सूरणं लसुनं शङ्खं समं पेष्यं मनःशिलाम् ।
वटक्षीरेण मूषान्तर्विप्रवच्छूद्रमारणम् ॥ १,५.३५ ॥
{वज्र:: स्त्री, नपुंसक:: मारण}
स्त्रियस्तेषां म्रियन्ते च तत्तदौषधयोगतः ।
नपुंसकमृतिस्तेषां चतुर्णाम् औषधैः समम् ॥ १,५.३६ ॥
{वज्र:: मारण}
द्विवर्षरूढकार्पासैर्मूलं कान्तमुखैः सह ।
नारीस्तन्येन सम्पिष्य पिष्ट्वा ध्मातं मृतं भवेत् ॥ १,५.३७ ॥
{वज्र:: मारण}
मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसैः ।
गजदन्तसमं पिष्ट्वा वज्रीदुग्धेन गोलकम् ॥ १,५.३८ ॥
कृत्वा तन्मध्यगं वज्रं म्रियते धमनेन तु ।
{वज्र:: मारण}
त्रिवर्षनागवन्ध्यास्तु कार्पासस्याथ मूलिका ।
पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ॥ १,५.३९ ॥
पचेद्गजपुटे तं च म्रियते सप्तधा पुटैः ॥ १,५.४० ॥
{वज्र:: मारण}
मत्कुणानां तु रक्तेन सप्तधातपशोषितम् ।
कुलिशं भावितं तदक्ध्रूर्णितापि मनःशिला ॥ १,५.४१ ॥
लिप्त्वा च बदरीपत्रैः वेष्टयित्वा पुरे पचेत् ।
पुनर्लेप्यं पुनः पाच्यं सप्तधा म्रियतेऽपि च ॥ १,५.४२ ॥
{वज्र:: मारण}
वज्रं महानदीशुक्तौ क्षिप्तं भाव्यं मुहुर्मुहुः ।
स्नुह्यर्कोन्मत्तकन्यानां द्वयेणैकेन चाह्निकम् ॥ १,५.४३ ॥
कृष्णकर्कटमांसेन पिष्टितं वेष्टयेद् बहिः ।
भूनागस्य मृदा सम्यग्ध्माते भस्मत्वमाप्नुयात् ॥ १,५.४४ ॥
{वज्र:: मारण}
रक्तोत्पलस्य मूलैश्च मेघनादस्य कुड्मलैः ।
पिण्डितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥ १,५.४५ ॥
{वज्र:: मृत:: medic. properties}
वज्रमायुर्बलं रूपं देहसौख्यं करोति च ।
सेवितो हन्ति रोगांश्च मृतो वज्रो न संशयः ।
{वैक्रान्त:: शोधन}
वैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं च वा ।
{वैक्रान्त:: मारण}
हयमूत्रे तत्सेच्यं तप्तं तप्तं त्रिसप्तधा ॥ १,५.४६ ॥
ततश्चोत्तरवारुण्याः पञ्चाङ्गे गोलके क्षिपेत् ।
रुद्ध्वा मूषापुटे पच्यादुद्धृत्य गोलके पुनः ॥ १,५.४७ ॥
क्षिप्त्वा रुद्ध्वा पचेदेवं सप्तधा भस्मतां व्रजेत् ।
{वैक्रान्त:: substitute for वज्र}
भस्मीभूतं च वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ १,५.४८ ॥


रसरत्नाकरः, १, ६[सम्पाद्यताम्]

{अभ्र:: अशुद्ध:: medic. properties}
अशुद्धाभ्रं निहन्त्यायुर् वर्धयेन्मारुतं कफम् ।
अहतं छेदयेद्देहं मन्दाग्निक्रिमिदायकम् ॥ १,६.१ ॥
{अभ्र:: subtypes}
कृष्णं पीतं सितं रक्तं योज्यं योगे रसायने ।
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ॥ १,६.२ ॥
पिनाकाद्यास्त्रयो वर्ज्या वज्रं यत्नात्समाहरेत् ।
{पिनाक:: परीक्षा}
मुञ्चत्यग्नौ विनिक्षिप्ते पिनाको दलसंचयम् ॥ १,६.३ ॥
अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् ।
{दर्दुर}
दर्दुरो निहितो ह्यग्नौ कुरुते दर्दुरध्वनिम् ॥ १,६.४ ॥
{नाग}
नागश्चाग्निगतः शब्दं फूत्कारं च विमुञ्चति ।
स च देहगतो नित्यं व्याधिं कुर्याद्भगन्दरम् ॥ १,६.५ ॥
{वज्राभ्र}
वज्राभ्रकं वह्निसंस्थं न किंचिद् विकृतिं व्रजेत् ।
तस्माद्वज्राभ्रकं योज्यं व्याधिवार्द्धक्यमृत्युजित् ॥ १,६.६ ॥
{धान्याभ्रक:: production}
धमेद्वज्राभ्रकं वह्नौ ततः क्षीरे निषेचयेत् ।
भिन्नपत्रं तु तं ज्ञात्वा मेघनादद्रवाम्लयोः ॥ १,६.७ ॥
भावयेदष्टयामं तद्धान्याभ्रं कारयेत्सुधीः ।
{धान्याभ्रक:: production}
अथवाभ्रस्य भागौ द्वौ टङ्कश्चैकं जलैः सह ॥ १,६.८ ॥
द्विदिनं स्थापयेत्पात्रे सूक्ष्मं कृत्वा प्रपेषयेत् ।
बद्ध्वा धान्ययुतं वस्त्रे मर्दयेत्काञ्जिकैः सह ॥ १,६.९ ॥
अधो यद्गालितं सूक्ष्मं शुद्धं धान्याभ्रकं भवेत् ॥ १,६.१० ॥
{अभ्र:: मारण:: निश्चन्द्र}
पुनर्नवामेघनादद्रवैर् धान्याभ्रकं दिनम् ।
मर्द्यं गजपुटे पच्यात्पुनश्चिञ्चाथ सूरणैः ॥ १,६.११ ॥
द्रवैर्मुस्तभवैर्मर्द्यं पृथग्देयं पुटत्रयम् ।
एवं मर्कदलैर् वेष्ट्यं देयं वा मोचसम्पुटे ॥ १,६.१२ ॥
निश्चन्द्रं जायते ह्यभ्रं यथा दोषेषु योजयेत् ।
{अभ्र:: मारण:: निश्चन्द्र}
गोघृतैस्त्रिफलां क्वाथैः पक्त्वा च पूर्ववत् पचेत् ॥ १,६.१३ ॥
पञ्चविंशत्पुटैरेव कासमर्द्याः द्रवैः पचेत् ।
देयं पुटत्रयं क्षीरैर् मर्दयेच्च पुटे पुटे ॥ १,६.१४ ॥
निश्चन्द्रं जायते ह्यभ्रं जरामृत्युरुजापहम् ।
{अभ्र:: मारण}
धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च ॥ १,६.१५ ॥
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ॥ १,६.१६ ॥
{धान्याभ्रक:: मारण}
धान्याभ्रकमम्लंपिष्टं पुटे तप्तेऽम्लसेचनम् ।
तत् पिष्ट्वा धारयेत् खल्वे भाव्यमम्लारनालकैः ॥ १,६.१७ ॥
तप्तं तप्तं चारनालैः पाच्यं शोध्यं पुनः पुनः ।
पुटे वा धमने पाच्यं विंशद्वारं पुनः पुनः ॥ १,६.१८ ॥
तप्तं तप्तं क्षिपेद्दुग्धे पिष्ट्वाथ शोषयेत्पुनः ।
दुग्धतप्तं पुटं पच्यात्तप्तं दुग्धेन सेचयेत् ॥ १,६.१९ ॥
एवं त्रिसप्तवाराणि शोष्यं पेष्यं पुटे पचेत् ।
पेषयित्वा पचेत्स्थाल्यां लौहदर्व्या विचालयेत् ॥ १,६.२० ॥
दुग्धस्थं च ततो दुग्धैः पुटे पच्यात्पुनः पुनः ।
एवं सप्तदिनं पच्याद्दिवा चैकं पुटे निशि ॥ १,६.२१ ॥
तण्डुली वज्रवल्ली च तालमूली पुनर्नवा ।
चाङ्गेरी मरिचं चैव बलायाः पयसा सह ॥ १,६.२२ ॥
एभिश्च पेषयेच्चाभ्रं प्रत्येकं तं त्र्यहं त्र्यहम् ।
स्थित्वा तप्ते पुटे पश्चात्प्रत्येकेन पुनः पुनः ॥ १,६.२३ ॥
पिष्ट्वा पुनः पुटे घृष्टं कज्जलाभं मृतं भवेत् ॥ १,६.२४ ॥
{अभ्र:: मारण:: निश्चन्द्र}
धान्याभ्रकस्य शुद्धस्य दशांशं मरिचं क्षिपेत् ।
पेषयेदम्लवर्गेण चाम्ले भाव्यं दिनत्रयम् ॥ १,६.२५ ॥
तं शुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर् दृढम् ।
ऊर्ध्वपात्रं निरूप्याथ सेचयेदम्लकेन तत् ॥ १,६.२६ ॥
अगस्त्यशिग्रुवर्षाभूमूलैस्तं पत्रजै रसैः ।
पिष्ट्वाभ्रं सेचयेत्तेन यद् वान्याम्लरसेन च ॥ १,६.२७ ॥
सितामध्वाज्यगोक्षीरैर् दध्नाम्लं पेष्यम् अभ्रकम् ।
मत्स्याक्ष्याः करवीरायाः द्रवैः पिष्ट्वा त्रिधा पचेत् ॥ १,६.२८ ॥
ततो गजपुरे पाच्यं निश्चन्द्रं जायतेऽभ्रकम् ।
{अभ्र:: मारण:: निश्चन्द्र}
धान्याभ्रकं द्रवैर्मर्द्यं मत्स्याक्षीतुलसीद्रवैः ॥ १,६.२९ ॥
मूलजैः कोकिलाक्षस्य कुमारीश्वेतदूर्वयोः ।
व्याघ्रीकन्दपुनर्नवया दिनम् एतैर् विमर्दयेत् ॥ १,६.३० ॥
कुञ्जराख्यैः पुटैः सप्त पिष्ट्वा पिष्ट्वा पचेत् पुनः ।
तद्वत्पञ्चामृतैः पाच्यं पिष्ट्वा पिष्ट्वा तु सप्तधा ॥ १,६.३१ ॥
एवं निश्चन्द्रतां याति सर्वरोगेषु योजयेत् ॥ १,६.३२ ॥
{अभ्र:: मारण:: निश्चन्द्र}
धान्याभ्रं टंकणं तुल्यं गोमूत्रैस्तुलसीदलैः ।
वाकुच्याः सूरणैर् अल्पैर् दिनं पिष्ट्वा पुटे पचेत् ॥ १,६.३३ ॥
जयन्त्याश्च द्रवैः पश्चान्मर्द्यं मर्द्य त्रिधा पुटेत् ।
चतुर्गजपुटेनैवं निश्चन्द्रं सर्वरोगजित् ॥ १,६.३४ ॥
{अभ्र:: मारण}
धान्याभ्रकं रविक्षीरैः रविमूलद्रवैश्च वा ।
मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् ॥ १,६.३५ ॥
{अभ्र:: मारण}
धान्याभ्रकं तुषाम्लाम्लैरातपे स्थापयेद्दिनम् ।
यामं मर्द्यं चतुर्गोलं रुद्ध्वा गजपुटे पचेत् ॥ १,६.३६ ॥
एवं गोक्षीरमध्यस्थं स्थाप्यं मर्द्य पुटे पचेत् ।
एवं कार्पासतोयेन स्थाप्यं पेष्यं पुटे पचेत् ॥ १,६.३७ ॥
ततोऽम्लैश्चैव कार्पासैर् गवां क्षीरैः पुनः पुनः ।
घर्मपाकं मर्दनं च पुटं चैवम् अनुक्रमात् ॥ १,६.३८ ॥
एवं विंशत्पुटे प्राप्ते मृतो भवति निश्चितम् ॥ १,६.३९ ॥
{अभ्र:: मृत:: अमृतीकरण}
सर्वेषां घातिताभ्राणाममृतीकरणं शृणु ।
त्रिफलोत्थकषायस्य पलान्यादाय षोडश ॥ १,६.४० ॥
गोमूत्रस्य पलान्यष्टौ मृताभ्रस्य पलान्दश ।
एकीकृत्य लौहपात्रे पाचयेन्मृदुवह्निना ॥ १,६.४१ ॥
द्रवे जीर्णे समादाय सर्वं रोगेषु योजयेत् ।
{अभ्र:: medic. properties}
अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम् ॥ १,६.४२ ॥
योजयेदनुपानैर्वा तत्तद्रोगहरं क्षणात् ।
मृतं चाभ्रं हरेद् रोगान् जरामृत्युमनेकधा ॥ १,६.४३ ॥
सेवितं देहदार्ढ्यं च रूपवीर्यं विवर्धयेत् ॥ १,६.४४ ॥


रसरत्नाकरः, १, ७[सम्पाद्यताम्]

{हरिताल:: अशुद्ध:: medic. properties}
अशुद्धतालमायुर्घ्नं ककमारुतमेहकृत् ।
तापशोफाङ्गसंकोचं कुरुते तेन शोधयेत् ॥ १,७.१ ॥
{हरिताल:: शोधन}
तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।
जम्बीराणां द्रवैः क्षाल्यं काञ्जिकैः क्षालयेत् पुनः ॥ १,७.२ ॥
वस्त्रैश्चतुर्गुणैर् बद्ध्वा दोलायन्त्रे दिनं पचेत् ।
संयुक्तं चारनालेन दिनं कुष्माण्डजैः रसैः ॥ १,७.३ ॥
तिलतैलैः पचेद्यामं यामं च त्रिफलाजलैः ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रैश्च काञ्जिकैः ॥ १,७.४ ॥
तत्फलैर् दशभिर् देयं रुद्ध्वा पुटं च पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ १,७.५ ॥
{हरिताल:: शोधन}
तालकं पोटलीबद्धं सप्ताहं काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कुष्माण्डजैः रसैः ॥ १,७.६ ॥
तिलतैले पचेद्यामं यामं च त्रिफलाजलैः ।
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकः ॥ १,७.७ ॥
{हरिताल:: शुद्ध:: medic. properties}
तालको हरते रोगान् कुष्ठमृत्युज्वरापहः ।
शोधितः शीतवीर्ये च कुरुते वायुवर्धनम् ॥ १,७.८ ॥
{मनःशिला:: अशुद्ध:: medic. properties}
अश्मरीं मूत्रहृद्रोगमशुद्धा कुरुते शिला ।
मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥ १,७.९ ॥
{मनःशिला:: शोधन}
अजामूत्रे त्र्यहं पाच्या दोलायन्त्रे मनःशिला ।
सप्तधा तैरजापित्तैर् घर्मे भाव्यं विशुद्धये ॥ १,७.१० ॥
{मनःशिला:: शोधन}
जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिला ।
दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके ॥ १,७.११ ॥
क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥ १,७.१२ ॥
{रसक:: शोधन}
नरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् ।
दोलायन्त्रेण सम्यक्तच्छुद्धं योगेषु योजयेत् ॥ १,७.१३ ॥
{तुत्थ:: शोधन}
विष्ठया मर्दयेत्खल्वे मार्जारकपोतयोः ।
दशांशं टङ्कणं दद्यात्पाच्यं मृद्वग्निना ततः ॥ १,७.१४ ॥
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ १,७.१५ ॥
{विमला:: शोधन}
विमला त्रिविधं पाच्या रम्भातोयेन संयुता ।
अम्लवेतसधान्याम्लमेषीमूत्रेण पेषयेत् ॥ १,७.१६ ॥
दोलायन्त्रे चतुर्यामं शुद्धिरेषा महोत्तमा ।
{विमल:: शोधन}
कर्कटीमेषशृङ्ग्युत्थद्रवैर् जम्बीरजैर् द्रवैः ॥ १,७.१७ ॥
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ १,७.१८ ॥
{माक्षिक:: अशुद्ध:: medic. properties}
मन्दाग्निं बलहानिं च व्रणविष्टम्भनेत्ररुक् ।
कुरुते माक्षिको मृत्युम् अशुद्धो नात्र संशयः ॥ १,७.१९ ॥
{माक्षिक:: शोधन}
माक्षिकं नरमूत्रेण क्वाथयेत् कोद्रवैर्द्रवैः ।
वेतसेनाम्लवर्गेण टंकणेन कटुत्रिकैः ॥ १,७.२० ॥
दोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् ।
दिनं रम्भाद्रवैः पच्यात्तद्धृत्वा पेषयेद्घृतैः ॥ १,७.२१ ॥
एरण्डतैलसंयुक्तं पुटे पच्याद्विशुद्धये ।
{माक्षिक:: शोधन}
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ॥ १,७.२२ ॥
मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।
लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥ १,७.२३ ॥
ताम्रवर्णमयो याति तावच्छुध्यति माक्षिकम् ।
{माक्षिक:: शोधन}
अगस्त्यपुष्पनिर्यासैः शिग्रुमूलं विघर्षयेत् ॥ १,७.२४ ॥
द्रवैः पाषाणभेद्याश्च पच्यादेभिश्च माक्षिकम् ।
तद्वटीं चान्धमूषायां विंशद्भिर् उपलैः पचेत् ॥ १,७.२५ ॥
पुनः पिष्ट्वाथ रुन्ध्याच्च पुटैःषड्भिर् विशुध्यति ॥ १,७.२६ ॥
{माक्षिक:: शोधन}
मेघनादपाषाणभेदी पिष्ट्वा तत्पिण्डमध्ये माक्षिकं कणशः कृत्वा निक्षिपेत् ।
तद्गोलकं वस्त्रे बद्ध्वा दोलायन्त्रे कुलत्थक्वाथे दिनमेकं पचेत् ।
एतच्छुद्धलोहानां युक्तस्थाने मारणे योज्यम् ॥ १,७.२७ ॥
{माक्षिक:: परीक्षा:: गोओद् ॠउअलित्य्}
भङ्गे सुवर्णसंकाशोऽन्तः कृष्णो बहिश्छविः ।
बृहद्वर्णं इति ख्यातो माक्षिकः श्रेष्ठ उच्यते ॥ १,७.२८ ॥
व्यापयत्यङ्गम् अङ्गानि तैलबिन्दुरिवाम्भसि ।
न विना शोधनं सर्वे धातवः प्रबलादयः ॥ १,७.२९ ॥
रोगोपशमकर्तारः शोधनं तेन वक्ष्यते ॥ १,७.३० ॥
{चोरल्:: मारण}
प्रवालानां स्त्रीदुग्धेन भावना पश्चाद्धण्डिकामध्ये स्थापयित्वा निरुध्योपरि शरावकं दत्त्वा लेपयेत् ।
वह्निसंदीपनं कृत्वा प्रहरद्वयेन विद्रुमं म्रियते ॥ १,७.३१ ॥
{उपरस (?):: मारण}
कुलत्थस्य पचेद्द्रोणे वारिद्रोणेन बुद्धिमान् ।
तेन पादावशेषेण क्वाथेऽष्टौ मणयः शिला ॥ १,७.३२ ॥
आतपे त्रिदिनं शुष्कं क्वाथसिक्तं पुनः पुनः ।
मुक्ताचूर्णं समादाय करकाम्बुविभावितम् ॥ १,७.३३ ॥
आतपे त्रिदिनं भाव्यं चूर्णितं मृत्युम् आप्नुयात् ॥ १,७.३४ ॥
{शिलाजतु:: शोधन}
शङ्खं नीलाञ्जनं चैव पूर्ववच्छोधयेद्दिनम् ।
गोमूत्रैस्त्रिफलाक्वाथैर् भृङ्गराजद्रवैर् जतुम् ॥ १,७.३५ ॥
मर्दयेदायसे पात्रे दिनाच्छुद्धिः शिलाजतोः ।
{दरद:: शोधन}
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ॥ १,७.३६ ॥
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ।
{उपरस:: शोधन}
सूर्यावर्तं वज्रकन्दं कदली देवदालिका ॥ १,७.३७ ॥
शिग्रु कोशातकी वन्ध्या काकमाची च वायसी ।
आसामेकरसेनैव त्रिक्षारैर्लवणैर् युतम् ॥ १,७.३८ ॥
भावयेदम्लवर्गेण दिनमेकं प्रयत्नतः ।
सौवीरं कान्तपाषाणं शुद्धभूनागमृत्तिका ॥ १,७.३९ ॥
शङ्खं नीलाञ्जनं चैव सर्वोपरसाश्च ये ।
पृथग्भाव्यं विधानेन शुद्धिं यान्ति दिने दिने ॥ १,७.४० ॥
ततः पश्चात्तु तद्द्रावैर्दोलायन्त्रे दिनं सुधीः ।
शुध्यन्ते नात्र सन्देहः सर्वेषु परमा अमी ॥ १,७.४१ ॥
मुञ्चन्ति द्रुतसत्त्वांश्च मतं साधारणं स्मृतम् ॥ १,७.४२ ॥
{?:: सत्त्वपातन}
गुग्गुलुं टङ्कणं लाक्षा मज्जा सर्जरसं पुनः ।
ऊर्णा गुञ्जा क्षेत्रमीनम् अस्थीनि शशकस्य च ॥ १,७.४३ ॥
गुडमध्वाज्यपिण्याकं तुत्थं पेष्यमजाजलैः ।
सर्वं तुल्यं च धान्याभ्रं भूनागं मृत्तिकापि च ॥ १,७.४४ ॥
कान्तपाषाणतुल्यं च कठिन्युपरसाश्च ये ।
मेलयेन्माहिषैः पच्याद्दध्यादिगोमयान्तिकैः ॥ १,७.४५ ॥
दृढं मर्द्यं वटीं कुर्यात्कर्षमात्रं तु शोषयेत् ।
कोष्ठीयन्त्रे धमेद्गाढम् अङ्गारैश्च चिरोद्भवैः ॥ १,७.४६ ॥
त्रिवारं धमनाद् एव सत्त्वं पतति निर्मलम् ।
असाध्यान् मोचयेत् सत्त्वान् मृत्तिकादेश्च का कथा ॥ १,७.४७ ॥
{हरिताल:: सत्त्वपातन}
लाक्षा आज्यं तिलाः शिग्रुः टंकणं लवणं गुडम् ।
तालकार्धेन संयोज्य छिद्रमूषां निरोधयेत् ॥ १,७.४८ ॥
पुटे पातालयन्त्रेण सत्वं पतति निश्चितम् ।
{??}
चाङ्गेरी चणकाम्लं च मातुलुङ्गाम्लवेतसम् ।
चिञ्चा नारङ्गं जम्बीरनम्ण वर्ग इति स्मृतम् ।
{हरिताल:: सत्त्वपातन}
तालकं चूर्णयित्वा तु छागीक्षीरेण भावयेत् ॥ १,७.४९ ॥
वारत्रयं ततो विद्धिमूलं पिष्ट्वा तु मिश्रितम् ।
कृत्वा च गुडकं शुष्कं सत्वं ग्राह्यं च पूर्ववत् ॥ १,७.५० ॥
{हरिताल:: सत्त्वपातन}
तालकं मर्दयेद्दुग्धैः सर्पाक्षीं वाथ मूलकैः ।
पूर्ववद्ग्राहयेत् सत्त्वं छिद्रमूषां निरुध्य च ॥ १,७.५१ ॥
{मनःशिला:: सत्त्वपातन}
तालवच्च शिलासत्वं ग्राह्यं तैरेव चौषधैः ।
तुल्येन टंकणेनैव ध्मातं सत्त्वं चतुर्थकम् ॥ १,७.५२ ॥
{माक्षिक:: सत्त्वपातन}
गोक्षीरैश्च तुत्थक्षीरैर्भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥ १,७.५३ ॥
अभ्रवद्धमने सत्वं सम्यगस्याप्ययं विधिः ।
{माक्षिक (?):: सत्त्वपातन}
जयन्ती त्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ॥ १,७.५४ ॥
पादांशं टङ्कणस्येदं पिष्ट्वा मूषां विलेपयेत् ।
नालिकां सम्पुटे बद्ध्वा शोषयेदातपे खरे ॥ १,७.५५ ॥
ग्राह्यं पातालयन्त्रे च सत्वं ध्मातं पुटेन च ॥ १,७.५६ ॥


रसरत्नाकरः, १, ८[सम्पाद्यताम्]

{metals}
स्वर्णं तारं ताम्रं नागं वङ्गं कान्तं च तीक्ष्णकम् ।
मुण्डान्तमष्टधा लोहं कांस्यारं घोषकं त्रिधा ॥ १,८.१ ॥
{उपलोहाः}
उपलौहाः समाख्याता मण्डूरोलौहकिट्टकम् ।
एते द्वादशधा शोध्या मार्या द्राव्याः पुटादिषु ॥ १,८.२ ॥
{Metals शोधन}
तैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थके ।
क्रमात्प्राप्तं तथा तप्तं द्रावे द्रावे तु सप्तधा ॥ १,८.३ ॥
स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रकीर्तिता ।
{Metals मारण}
हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥ १,८.४ ॥
पत्रे लिप्त्वा पुटे पच्यादष्टाभिर्म्रियते ध्रुवम् ।
शुद्धानां सर्वलौहानां मारणे रीतिरीदृशी ॥ १,८.५ ॥
{Gold:: अशुद्ध:: medic. properties}
सौख्यं वीर्यं बलं हन्ति नानारोगं करोति च ।
अशुद्धं स्वर्णं सूतं च तस्माच्छुद्धं तु मारयेत् ॥ १,८.६ ॥
{पञ्चमृत्तिकाः}
वल्मीकमृत्तिकाधूमगैरिकं चेष्टिकापुटे ।
{Gold:: शोधन}
इत्याद्याः मृत्तिकाः पञ्च जम्बीरैर् आरनालकैः ॥ १,८.७ ॥
पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति ।
{Gold:: शोधन}
भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिका ॥ १,८.८ ॥
सैन्धवं भूमिभस्मापि स्वर्णं शुध्यति पूर्ववत् ॥ १,८.९ ॥
{substances for मारण of metals}
नागैः सुवर्णं रजतं च ताप्यैर्गन्धेन ताम्रं शिलया च नागम् ।
तालेन वङ्गं त्रिविधं च लौहं नारीपयो हन्ति च हिंगुलेन ॥ १,८.१० ॥
{Gold:: मारण}
माक्षिकं नागचूर्णं च पिष्टमर्करसेन तु ।
हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः ॥ १,८.११ ॥
{Gold:: मारण}
स्वर्णार्धं पारदं दत्त्वा कुर्याद्यत्नेन पिष्टिकाम् ।
दत्त्वोर्ध्वाधो नागचूर्णं पुटनान्म्रियते ध्रुवम् ॥ १,८.१२ ॥
{Gold:: मारण}
नागचूर्णं शिलां वज्रीक्षीरेण परियसितम् ।
तेनालिप्य सुवर्णस्य कल्कश्च म्रियते पुटात् ॥ १,८.१३ ॥
{Gold:: मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा लेप्यं सुवर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥ १,८.१४ ॥
आदाय पेषयेदम्लैर् मृन्नागं चाष्टमांशकम् ।
बद्ध्वा गजपुटे पच्यात् पूर्वनागयुतं युतम् ॥ १,८.१५ ॥
एवं पुनः पुनः पच्यादष्टधा म्रियते ध्रुवम् ।
{Gold:: मारण:: निरुत्थ}
शुद्धसूतसमं गन्धं माक्षिकं च महाम्लकैः ॥ १,८.१६ ॥
अष्टाभिश्च पुटैर्हेम्नो म्रियते पूर्ववत्क्रियाम् ।
शुद्धसूतं समं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥ १,८.१७ ॥
अधो वै गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च ।
त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश ॥ १,८.१८ ॥
निरुत्थं जायते भस्म गन्धं देयं पुटे पुटे ।
{Gold:: मारण:: निरुत्थ}
स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ॥ १,८.१९ ॥
अधः ऊर्ध्वं माक्षिकं पिष्ट्वा मूषायां स्वर्णतुल्यकम् ।
तत्पृष्ठे मर्दितं हेम तत्पृष्ठे हेममाक्षिकम् ॥ १,८.२० ॥
देयं स्वर्णं समं तच्च पृष्ठे गन्धं च तत्समम् ।
षड्वारं चूर्णितं दत्त्वा रुद्ध्वा मूषां धमेद्दृढम् ॥ १,८.२१ ॥
स्वभावशीतलं ग्राह्यं तद्भस्म भागपञ्चकम् ।
टंकणं श्वेतकाचं च भागैकं च प्रयोजयेत् ॥ १,८.२२ ॥
त्रितयं मधुनाज्येन मिलितं गोलकीकृतम् ।
धान्याभ्रकस्य भागैकम् अधश्चोर्ध्वं च दापयेत् ॥ १,८.२३ ॥
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ।
निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ॥ १,८.२४ ॥
{Gold:: मारण:: निरुत्थ}
शुद्धमाक्षिकं भागैकं भागं चावोटमाक्षिकम् ।
त्रिभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥ १,८.२५ ॥
तद्गोलं पातालयन्त्रे तदा यामत्रयं पचेत् ।
इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ॥ १,८.२६ ॥
{Gold:: मारण}
तथैव च राजवृक्षभल्लातैष्टंकणेन च ।
लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ॥ १,८.२७ ॥
तैः द्रवैश्च पुनः पिष्ट्वा म्रियते सप्तधा पुटे ।
हेममारभ्य तोलैकं माषैकं शुद्धनागकम् ॥ १,८.२८ ॥
लिप्त्वा देयं तु तं चूर्णं तच्छुद्धैर्गन्धमाक्षिकैः ।
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥ १,८.२९ ॥
गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।
{Gold:: मृत:: medic. properties}
सुवर्णं च भवेच्छीतं तिक्तं स्निग्धं हिमं गुरु ॥ १,८.३० ॥
बुद्धिविद्यास्मृतिकरं विषहारि रसायनम् ॥ १,८.३१ ॥
{Silver:: अशुद्ध:: medic. properties}
आयुः शुक्रं बलं हन्ति रोगवेगं करोति च ।
अशुद्धममृतं तारं शुद्धं मार्यमतो बुधैः ॥ १,८.३२ ॥
{Silver:: शोधन}
नागेन टङ्कणेनैव द्रावितं शुद्धिम् ऋच्छति ।
{Silver:: मारण}
माक्षिकं गन्धकं चैवमर्कक्षीरेण मर्दयेत् ॥ १,८.३३ ॥
तेन लिप्तं रूप्यपत्रं पुटेन म्रियते ध्रुवम् ।
{Silver:: मारण}
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मती भवेत् ॥ १,८.३४ ॥
स्नुक्क्षीरैः पेषयेत्ताम्रं तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यात् पूर्वोक्तैः पेषयेत्पुनः ॥ १,८.३५ ॥
भूधात्री माक्षिकं तुल्यं पिप्पली सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटे पचेत् ॥ १,८.३६ ॥
द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।
{Silver:: मारण:: निरुत्थ}
तारपत्रैस्त्रिभिर् भागैर् भागैकं शुद्धमाक्षिकम् ॥ १,८.३७ ॥
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत् तं च त्रिंशद्वन्योपलैः पचेत् ॥ १,८.३८ ॥
चतुर्दशपुटेनैवं निरुत्थं म्रियते ध्रुवम् ।
{Silver:: मारण}
रूप्यपत्रं चतुर्भागाद्भागैकं मृतवङ्गकम् ॥ १,८.३९ ॥
अथवा गन्धतालेन लेप्यं जम्बीरपेषितम् ।
रुद्ध्वा त्रिःपुटैः पच्यात् पञ्चविंशद्वनोपलैः ॥ १,८.४० ॥
म्रियते नात्र संदेहो गन्धो देयः पुटे पुटे ।
{Silver:: मारण}
रसगन्धौ समौ कृत्वा काकतुण्डस्य मूलकम् ॥ १,८.४१ ॥
मर्दयेन्महिषीक्षीरैः पिष्ट्वा तं क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके ॥ १,८.४२ ॥
क्षिप्त्वा दिनैकविंशं तं तद्गोलमुद्धरेत् पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यान्यम्लेन केनचित् ॥ १,८.४३ ॥
पुटैर् विंशतिभिर्भस्म जायते नात्र संशयः ।
भस्मना चाम्लपिष्टेन मेलयेत्तालकं पुटैः ॥ १,८.४४ ॥
जायते तद्विधानेन सर्वरोगापहारकम् ॥ १,८.४५ ॥
{copper:: अशुद्ध:: medic. properties}
अपक्वताम्रम् आयुर्घ्नं कान्तिघ्नं सर्वधातुहा ।
भ्रान्तिमूर्च्छाभ्रमोत्केशं नानारुक्कुष्ठशूलकृत् ॥ १,८.४६ ॥
{copper:: शोधन}
स्नुह्यर्कक्षीरलवणकाञ्जिकैस् ताम्रपत्रकम् लिप्त्वा ।
प्रताप्यं निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः ॥ १,८.४७ ॥
वारद्वादशदाहत्वं लेपनात्ताम्रसिञ्चनात् ।
खटिका लवणं तक्रैर् आरनालैश्च पेषयेत् ॥ १,८.४८ ॥
तेन लिप्त्वा ताम्रपत्रं तप्तं तप्तं निषेचयेत् ।
षड्वारम् अम्लपिष्टेन निर्गुण्ड्यास्तु विशुद्धये ॥ १,८.४९ ॥
{copper:: शोधन}
गोमूत्रेण पचेत्ताम्रपत्रं यामं दृढाग्निना ।
शुध्यते नात्र सन्देहो मारणं कथ्यतेऽधुना ॥ १,८.५० ॥
{copper:: मारण}
गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ।
कण्टकवेधीकृतं पत्रं सिद्धयित्वा पुटे पचेत् ॥ १,८.५१ ॥
उद्धृत्य चूर्णयेत् तस्मिन् पादांशं गन्धकं क्षिपेत् ।
जम्बीरैरारनालैर्वा मृगदूर्वाद्रवैस्तथा ॥ १,८.५२ ॥
पिष्ट्वा पिष्ट्वा पचेत्तद्वत् सगन्धं च चतुष्पुटे ।
मातुलङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् ॥ १,८.५३ ॥
अनेनैव विधानेन ताम्रभस्म भवेद्ध्रुवम् ।
{copper:: मारण}
ताम्रस्य द्विगुणं सूतं जम्बीराम्लेन मर्दयेत् ॥ १,८.५४ ॥
सितशर्करयाप्येवं पुटत्रये मृतं भवेत् ।
{copper:: मारण}
पाषाणभेदीमत्स्याक्षीद्रवैर्द्विगुणगन्धकैः ॥ १,८.५५ ॥
ताम्रस्य लेपयेत्पत्रं रुद्ध्वा गजपुटे पचेत् ।
सप्तांशेन पुनर्दग्धं दत्त्वा द्रावैश्च पेषयेत् ॥ १,८.५६ ॥
एवं सप्तपुटे पक्वं ताम्रभस्म भवेद्ध्रुवम् ।
{copper:: मारण}
ताम्रस्य हिङ्गुलं सूतं जम्बीराम्लेन पेषयेत् ॥ १,८.५७ ॥
आदौ मूषान्तरे क्षिप्त्वा धत्तूरस्य तु पत्रकम् ।
तत्पृष्ठे ताम्रतुल्यं तु गन्धकं चूर्णितं क्षिपेत् ॥ १,८.५८ ॥
तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं तु गन्धकम् ।
आच्छाद्य धुस्तूरपत्रे रुद्ध्वा गजपुटे पचेत् ॥ १,८.५९ ॥
स्वांगशीतं तु तच्चूर्णं भस्मीभवति निश्चितम् ।
{copper:: मारण}
किंचिद्गन्धेन चाम्लेन क्षालयेत्ताम्रपत्रकम् ॥ १,८.६० ॥
तेन गन्धेन सूतेन ताम्रपत्रं प्रलेपयेत् ।
गन्धेन पुटितं पश्चान्म्रियते नात्र संशयः ॥ १,८.६१ ॥
{copper:: मारण}
ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः ।
क्षिप्त्वा ह्यधोऽर्धभागेन देया पिष्टाम्लकैर्बुधः ॥ १,८.६२ ॥
तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्यां विपाचयेत् ।
यामैकं तीव्रपाकेन भस्मीभवति निश्चितम् ॥ १,८.६३ ॥
{copper:: मारण}
सूतमेकं द्विधा गन्धं यामं कृत्वा विमर्दितम् ।
द्वयोस्तुल्यं ताम्रपत्रं स्थाल्यां गर्भे निधापयेत् ॥ १,८.६४ ॥
सम्यग्लवणयन्त्रस्थं पार्श्वे भस्म निधापयेत् ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम् ॥ १,८.६५ ॥
जलं पुनः पुनर्देयं स्वाङ्गशैत्यं विचूर्णयेत् ।
म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥ १,८.६६ ॥
{copper:: मारण (शोधन?)}
नानाविधं मतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ।
भागैकं श्वेतकाचं च भागपञ्चैकटंकणम् ॥ १,८.६७ ॥
मूषायां मिलितं कृत्वा भागैकं ताम्रपत्रकम् ।
ऊर्ध्वे दत्त्वा निरुद्ध्याय ध्मातैर्ग्राह्यं सुशीतलम् ॥ १,८.६८ ॥
निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ।
{copper:: मृत:: medic. अप्प्लिचतिओन्}
अथवा मारितं ताम्रमम्लेनैकेन मर्दयेत् ॥ १,८.६९ ॥
तद्गोलं सूरणस्यान्तर् उर्ध्वारुद्ध्वा तु लेपयेत् ।
शुष्कं गजपुटे पच्यात् सर्वदोषहरो भवेत् ॥ १,८.७० ॥
वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ।
{copper:: मृत:: medic. properties}
ताम्रं तीक्ष्णोष्णमधुरं कषायं शीतलं सरम् ॥ १,८.७१ ॥
कफपित्तक्षयं पाण्डुकुष्ठघ्नं च रसायनम् ।
परिणामशूलम् अर्शांसि मन्दाग्निं च विनाशयेत् ॥ १,८.७२ ॥
{Tin, Lead:: अमृत:: medic. properties}
पाकहीनौ नागवंगौ कुष्ठगुल्मरुजाकरौ ।
मेहपाण्डूदरवातकफमृत्युकरौ किल ॥ १,८.७३ ॥
{Lead:: शोधन}
निर्गुण्डीमूलचूर्णेन मार्कदुग्धेन लेपयेत् ।
नागपत्रं तु तं शुष्कं द्रावयित्वा निषेचयेत् ॥ १,८.७४ ॥
निर्गुण्डीद्रवमध्ये तु ततः पत्रं तु कारयेत् ।
लिप्त्वा भाव्यं पुनः सेच्यं सप्तवारं विशुद्धये ॥ १,८.७५ ॥
{Lead:: शोधन}
निशा तुम्बरुबीजानि कोकिलाक्षं कुठारिकाम् ।
गौरीफलाम्लिका चण्डी क्षुद्रा ब्राह्मी सजीरकम् ॥ १,८.७६ ॥
यथालाभेन भस्मैकं वज्रीक्षीरेण भावयेत् ।
तन्मध्ये भावितं नागं शुद्धं सेकं तु सप्तधा ॥ १,८.७७ ॥
{Lead:: मारण:: निरुत्थ}
अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ।
क्षिप्त्वा चुल्ल्यां पचेत्पात्रे चालयेल्लोहचट्टके ॥ १,८.७८ ॥
यावद्भस्म भवेद् एतच्च भस्म तुल्यं मनःशिलाम् ।
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥ १,८.७९ ॥
स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशैः शिलाम्लकैः ।
एवं षड्भिः पुटे पाको नागस्यापि निरुत्थितः ॥ १,८.८० ॥
{Lead:: मारण}
अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ।
अत्यग्नौ पाचयेद्यामं तद्भस्म चित्रकद्रवैः ॥ १,८.८१ ॥
भर्जयेल्लौहजे पात्रे चाल्यमर्जुनदण्डकैः ।
यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः ॥ १,८.८२ ॥
दण्डेन मर्दयेत्क्वाथ्यम् उद्धृत्य चित्रकद्रवैः ।
गोलयित्वा निरुध्याथ षट्पुटे मारयेल्लघु ॥ १,८.८३ ॥
{Lead:: मारण}
चिञ्चाक्षमिक्षुभल्लातबलावज्रलताभवैः ।
अपामार्गार्जुनाश्वत्थभस्मभिर् भर्जयेद् दृढम् ॥ १,८.८४ ॥
लोहपात्रं तु सप्ताहं तुल्यं भस्मानि चाशु च ।
दण्डपलाशकेनैव म्रियते नात्र संशयः ॥ १,८.८५ ॥
{Lead:: मारण}
पिष्ट्वागस्तिं च भूनागं लिप्त्वा पात्रं विशोषयेत् ।
तद्भाण्डे द्रावयेद्यामं दृढे भाण्डे विनिक्षिपेत् ॥ १,८.८६ ॥
वासाचिर्चिटयोः क्षारे वासादले विघट्टयेत् ।
यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् ॥ १,८.८७ ॥
तच्चूर्णं तु शिलाताप्यैर्वासकक्षारसंयुतैः ।
तत्तुल्यं पूर्वनागं विंशदेकपुटे पचेत् ॥ १,८.८८ ॥
द्विपुटं चिर्चिटाक्षारैः देयं वासारसैः सह ।
नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् ॥ १,८.८९ ॥
{Lead:: मारण}
कुनटी माक्षिकं चैव समभागं तु कारयेत् ।
अर्कपर्णेन तत्पिष्ट्वा सीसपत्राणि मारयेत् ॥ १,८.९० ॥
{Lead:: मृत:: medic. properties}
सतिक्तमधुरो नागो मृतो भवति भस्मसात् ।
आयुष्कीर्तिं वीर्यवृद्धिं करोति सेवनात्सदा ॥ १,८.९१ ॥
{Tin:: मारण}
माक्षिकं हरितालं च पलाशस्वरसेन च ।
कृतकल्केन संलिप्य वंगपत्राणि मारयेत् ॥ १,८.९२ ॥
नागवच्छोधयेद् वङ्गं तद्वदश्वत्थचिंचयोः ।
तद्भस्म हरितालं च तुल्यमम्लेन केनचित् ॥ १,८.९३ ॥
पलाशोत्थद्रवैर्वाथ गोलयित्वान्धयेत्पुटे ।
उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ॥ १,८.९४ ॥
पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ।
एवं विंशत्पुटे पक्त्वा मृतं भवति भस्मसात् ॥ १,८.९५ ॥
{Tin:: मारण}
वङ्गपादेन सूतेन वङ्गपत्राणि लेपयेत् ।
चिञ्चावृक्षस्य संगृह्य चान्तश्छन्नं च तण्डुलैः ॥ १,८.९६ ॥
पिष्ट्वा तत्पिण्डमध्ये तु वङ्गपत्राणि लेपयेत् ।
शिरीषरजनीचूर्णैः कुमार्याः शुभगोलकम् ॥ १,८.९७ ॥
सूतलिप्तं वङ्गपत्रं गोलके समलेपितम् ।
रुद्ध्वा गजपुटे पक्वं पूर्वसंख्या मृतो भवेत् ॥ १,८.९८ ॥
{Tin:: मारण}
अक्षभल्लातकं तोयैः पिष्ट्वा तानि विलेपयेत् ।
ततस्तिलखली मध्ये क्षिप्त्वा रुद्ध्वा पुटे पचेत् ॥ १,८.९९ ॥
गजाख्ये जायते भस्म चत्वारिंशतिवङ्गकम् ।
{Tin:: मृत:: medic. properties}
सतिक्तलवणं वङ्गं पाण्डुघ्नं क्रिमिमेहजित् ॥ १,८.१०० ॥
लेखिनं पित्तलं किंचित् सर्वदेहामयापहम् ॥ १,८.१०१ ॥


रसरत्नाकरः, १, ९[सम्पाद्यताम्]

{Iron:: अशुद्ध:: medic. properties}
अशुद्धममृतं लौहम् आयुर्हानिरुजाकरम् ।
हृत्पीडां च तृषां जाड्यं तस्माच्छुद्धं च मारयेत् ॥ १,९.१ ॥
{कान्तलोह:: परीक्षा}
पात्रे यस्मिन्प्रसरति न चेत्तैलबिन्दुर्विसृष्टः ।
हिङ्गुर् गन्धं प्रसरति निजं तिक्ततां निम्बुकश्च ।
पाके दग्धं भवति शिखराकारता नैव भूमौ ।
कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ १,९.२ ॥
कान्तं मृदुतरं तारं रुक्माभं तिमिरं करम् ।
स्वादुर्यतो भवेन्निम्बकल्को रात्रिनिवेशितः ॥ १,९.३ ॥
कान्तं तदुत्तमं यच्च रूप्येनावर्तितं मिलेत् ।
सर्वरोगहरम् एतत् सर्वकुष्ठहरं परम् ॥ १,९.४ ॥
{Iron:: subtypes:: शोधन}
शशछागरक्तसंलिप्तं त्रिवारं चाग्नितापितम् ।
कान्तादिमुण्डपर्यन्तं सर्वरोगहरं परम् ॥ १,९.५ ॥
{Iron:: शोधन:: अद्रि}
त्रिफलाष्टगुणैस् तोयैस्त्रिफलाषोडशं पलम् ।
तत्क्वाथे पादशेषे तु लौहस्य पत्रपञ्चकम् ॥ १,९.६ ॥
कृत्वा पत्राणि तप्तानि सप्तवाराणि सेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लौहसम्भवः ॥ १,९.७ ॥
{Iron:: शोधन}
त्रिविधं लौहचूर्णं वा गोमूत्रैः षड्गुणैः पचेत् ।
प्रक्षालयेदारनाले शोष्यं शुद्धिम् अवाप्नुयात् ॥ १,९.८ ॥
{Iron:: subtypes:: शोधन}
रक्तमाला हंसपादो गोजिह्वा त्रिफलामृता ।
गोपाली तुम्बुरुर्दन्ती तुल्यगोमूत्रपेषितम् ॥ १,९.९ ॥
अस्मिन्मध्ये लौहपत्त्रं तप्तं तप्तं द्विसप्तधा ।
सेचयेत्कान्तमुण्डान्तं सर्वदोषापनुत्तये ॥ १,९.१० ॥
सर्वेष्वौषधकल्पेषु लौहकल्पं प्रशस्यते ।
तस्मात् सर्वं प्रयत्नेन लौहमादौ विमारयेत् ॥ १,९.११ ॥
अयः पञ्चपलाद् ऊर्ध्वं यावत् पलत्रयोदशात् ।
आदौ मन्त्रस्ततः कर्म यथाकर्तव्यम् उच्यते ॥ १,९.१२ ॥
{Iron:: मारण}
हिङ्गुलस्य पलान् पञ्च नारीस्तन्येन पेषयेत् ।
तेन लौहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥ १,९.१३ ॥
रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ।
जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥ १,९.१४ ॥
पिष्ट्वा रुद्ध्वा पुटेल्लोहं तथैवं पाचयेत्पुनः ।
चत्वारिंशत्पुटैर् एवं कान्तं तीक्ष्णं च मुण्डकम् ॥ १,९.१५ ॥
हो म्रियते त्रालसन्दे दत्त्वा दत्त्वा च हिङ्गुलम् ।
{Iron:: मारण}
अर्जुनस्य त्वचा पेष्या काञ्जिकेनातिलोहिता ॥ १,९.१६ ॥
तन्मध्ये लोहचूर्णं च कांस्यपात्रे विनिक्षिपेत् ।
दिनैकं भावयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ॥ १,९.१७ ॥
अर्जुनैः सारनालैर् वा त्रिविधं मारयेदयः ।
{Iron:: मारण}
दन्तीपत्रं द्रवं यच्च लौहचूर्णं विलोडयेत् ॥ १,९.१८ ॥
दिनैकं भावयेद् घर्मे द्रवं देयं पुनः पुनः ।
रुद्ध्वा रात्रौ पुटैः पच्याद् एभिर्द्रावैश्च भावयेत् ॥ १,९.१९ ॥
एवमष्टदिनं कुर्यात् त्रिविधं म्रियते ह्ययः ।
{Iron:: मारण}
चिञ्चापत्रनिभां कुर्यात्त्रिविधं लोहपत्रकम् ॥ १,९.२० ॥
मृत्पात्रस्थं क्षिपेद् घर्मे दन्त्या द्रावैः प्रपूरयेत् ।
पत्रं पुनः पुनस्तावद्यावज्ज्वरति वै त्वयः ॥ १,९.२१ ॥
म्रियते तीव्रघर्मेण चूर्णीकृत्य नियोजयेत् ।
{Iron:: मारण}
कान्तं तीक्ष्णं तथा मुण्डचूर्णं मत्स्याक्षजैर् द्रवैः ॥ १,९.२२ ॥
आतपे त्रिदिनं भाव्यं द्विदिनं चित्रकद्रवैः ।
त्रिकण्टकद्रवैस्त्र्यहं सहदेव्या द्रवैस्त्र्यहम् ॥ १,९.२३ ॥
गोमूत्रैस्त्रिफलाक्वाथे भावयेच्च त्र्यहं त्र्यहम् ।
धातक्याश्च ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ॥ १,९.२४ ॥
रुद्ध्वा गजपुटेनैवं मृतं योगेषु योजयेत् ।
{Iron:: मारण}
द्रवैः कुरण्टपत्रोत्थैः लौहचूर्णं विमर्दयेत् ॥ १,९.२५ ॥
दिनैकमातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टकैः ।
वन्ध्याभृङ्गीपुनर्नवयोर् गोमूत्रैश्च दिनं पुनः ॥ १,९.२६ ॥
गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् ।
त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत् ततः ॥ १,९.२७ ॥
रुद्ध्वा गजपुटे पञ्चादिं क्वाथेन मर्दयेत् ।
दिवा मर्द्यं पुटं रात्रावेकविंशतिदिनानि वै ॥ १,९.२८ ॥
एकविंशद्दिनेनैव म्रियते त्रिविधं ह्ययः ।
{Iron:: मारण}
माक्षिकं च शिला ह्यम्लैर् हरिद्रा मरिचानि च ॥ १,९.२९ ॥
पिष्ट्वा मर्द्यं लोहपत्रं तप्तं तप्तं निषेचयेत् ।
सप्तधा त्रिफलाक्वाथे जलेन क्षालयेत्पुनः ॥ १,९.३० ॥
कुट्टयेल्लोहदण्डेन पेषयेत्त्रिफलाजलैः ।
षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ॥ १,९.३१ ॥
अम्लेन लोडितं रुद्ध्वा गजान्धकपुटे पचेत् ।
निरुत्थं जायते भस्म कान्तं तीक्ष्णादिमुण्डकम् ॥ १,९.३२ ॥
{Iron:: मारण}
तिन्दूफलस्य मज्जाभिर्लिप्त्वा स्थाप्यातपे खरे ।
धारयेत् कांस्यपात्रस्थं दिनैकेन पुटत्यलम् ॥ १,९.३३ ॥
लेप्यं पुनः पुनः कुर्यात् दिनान्तान्तं प्रलेपयेत् ।
त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतं भवेत् ॥ १,९.३४ ॥
{Iron:: मारण}
स्थाल्यां वा लोहपात्रे वा लौहदर्व्या विलोडयेत् ।
पाचयेत्त्रिफलाक्वाथे दिनैकं लोहचूर्णकम् ॥ १,९.३५ ॥
तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् ।
षोडशांशेन मूषायां निर्वातेऽहर्निशं पचेत् ॥ १,९.३६ ॥
एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तरम् ।
भृङ्ग्या द्रावं तालमूली हस्तिकर्णस्य मूलकम् ॥ १,९.३७ ॥
शतावरी विदार्याश्च मूलक्वाथे च त्रैफले ।
पिष्ट्वा तत्पूर्ववत् स्थाल्यां पाच्यं पेष्यं पुटे त्रिधा ॥ १,९.३८ ॥
ततः पुनर्नवातोयैर् दशमूलकषायकैः ।
बृहत्याश्च कषायैर्वा बीजपूरस्य तोयतः ॥ १,९.३९ ॥
ब्रह्मबीजस् तथाशिग्रुक्वाथे गोपयसापि वा ।
प्रत्येकेन प्रपेष्यादौ पूर्वगर्भपुटे पचेत् ॥ १,९.४० ॥
भावयेत्तु द्रवेनैव पुटान्ते याममात्रकम् ।
प्रत्येकेन क्रमादेवं पिष्ट्वा पुटैश्च भावयेत् ॥ १,९.४१ ॥
म्रियते नात्र संदेहः कान्तं तीक्ष्णं च मुण्डकम् ।
सर्वम् एतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत् ॥ १,९.४२ ॥
{Iron:: मारण}
मध्वाज्यं मृतं लौहं च सरूप्यं संपुटे क्षिपेत् ।
रुद्ध्वा दभायं तु संग्राह्यं रूप्यं च पूर्वमानकम् ॥ १,९.४३ ॥
तदा लौहं मृतं विद्यादमृतं मारयेत् पुनः ॥ १,९.४४ ॥
{Iron:: मारण:: निरुत्थ}
गन्धकं तु मृतं लौहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ १,९.४५ ॥
इत्येवं सर्वलोहानां कर्तव्योऽयं निरुत्थितः ॥ १,९.४६ ॥
{Iron:: मारण:: वारितर}
शुद्धसूतं द्विधा गन्धं कृत्वा खल्वे तु कज्जलीम् ।
द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ १,९.४७ ॥
यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ।
आच्छाद्यैरण्डपत्रैश्च यामार्द्धेणोष्णतां व्रजेत् ॥ १,९.४८ ॥
धान्यराशौ न्यसेत् पश्चात् त्रिदिनान्ते समुद्धरेत् ।
सम्पिष्य गालयेद् वस्त्रे सद्यो वारितरं भवेत् ॥ १,९.४९ ॥
कान्तं तीक्ष्णं तथा मुण्डं निरुत्थं जायते मृतम् ।
स्वर्णादीन् मारयेदेवं चूर्णीकृत्य तु लोहवत् ॥ १,९.५० ॥
सिद्धयोगमिदं ख्यातं सिद्धानां सम्मुखागतम् ।
{Iron:: मृत:: medic. use}
अन्नभूतम् आयसाद्यं सर्वरोगज्वरापहम् ॥ १,९.५१ ॥
त्रिफलारससंयुक्तं सर्वरोगेषु योजयेत् ॥ १,९.५२ ॥
मृतानि लौहानि वशीभवन्ति ।
निघ्नन्ति युक्त्या ह्यखिलामयानि ।
अभ्यासयोगाद् दृढयोगसिद्धम् ।
कुर्वन्ति रुङ्मृत्युजराविनाशम् ॥ १,९.५३ ॥
{Iron:: मृत:: अमृतीकरण}
तोयाष्टभागशेषेन त्रिफलापलपञ्चकम् ।
घृतं क्वाथस्य तुल्यं स्याच्चूर्णं तुल्यं मृतायसम् ॥ १,९.५४ ॥
पाचयेत् ताम्रपात्रे च लौहदर्व्या विचालयेत् ।
मृद्वग्निना पचेत्तावद् यावज्जीर्यति गन्धकम् ॥ १,९.५५ ॥
लौहतुल्या शिवा योज्या सुपक्वेनैवावतारयेत् ।
योगवाहमिदं ख्यातं मृतं लोहं महामृतम् ॥ १,९.५६ ॥
एवं कान्तस्य तीक्ष्णस्य मुण्डस्यापि विधिः स्मृतः ।
{Iron:: मृत:: अमृतीकरण}
गुडस्य कुडवे पक्वं लौहभस्म पलान्वितम् ॥ १,९.५७ ॥
कोलप्रमाणं रोगेषु तच्च योगेन योजयेत् ।
घृतं तुल्यं मृतं लोहं लोहपात्रगतं पचेत् ॥ १,९.५८ ॥
जीर्णे घृतं समादाय योगवाहेषु योजयेत् ॥ १,९.५९ ॥
ओं अमृतेन भक्ष्याय नमः अनेन मनुना लौहं भक्षयेत् ।
{Iron:: मृत:: medic. properties}
आयुर्वीर्यं बलं दत्ते पाण्डुमेहादिकुष्ठनुत् ।
आमवातहरं लौहं वलीपलितनाशनम् ॥ १,९.६० ॥
{उपलोह:: शोधन}
त्रिक्षारं पञ्चलवणं सप्तधाम्लेन मर्दयेत् ।
कांस्यारघोषपत्राणि तिलकल्केन लेपयेत् ॥ १,९.६१ ॥
रुद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा ।
{उपलोह:: मारण}
ताम्रवन्मारयेत् तेषां कृत्वा सर्वत्र योजयेत् ॥ १,९.६२ ॥
{ब्रोन्शे:: medic. properties}
कांस्यं कषायमुष्णं च लघु रूक्षं च तिक्तकम् ।
कफपित्तरुजं हन्ति हृद्देहायुष्यवर्धनम् ॥ १,९.६३ ॥
{ब्रस्स्:: medic. properties}
रीतिका च गलं रूक्षम् अतिक्तलवणं सरम् ।
शोधनं सर्वरोगघ्नं बलवीर्यायुष्यवर्द्धनम् ॥ १,९.६४ ॥
{मण्डूर:: production}
अल्पाङ्गारे धमेत् किट्टं लौहजं च गवां जलैः ।
सेचयेदक्षपत्रैश्च सप्तवारं पुनः पुनः ॥ १,९.६५ ॥
मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् ।
किट्टाच्छतगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ॥ १,९.६६ ॥
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ।
तस्मात् कान्तं सदा सेव्यं जरामृत्युहरं परम् ॥ १,९.६७ ॥


रसरत्नाकरः, १, १०[सम्पाद्यताम्]

तैलानां पातनं वक्ष्ये सूर्यपाकेऽथवानले ।
यन्त्रयोगेन यत्तैलं ग्राह्यं योगेषु योजयेत् ॥ १,१०.१ ॥
{धत्तूर:: oil}
धत्तूरबीजचूर्णानि वस्त्रपूतानि कारयेत् ।
आलिप्य कांस्यपात्रं तु धारयेदातपे खरे ॥ १,१०.२ ॥
सुतप्तं वस्त्रपूतं च पातयेत् तैलमाहरेत् ।
{शिग्रु:: oil}
शिग्रुपुष्करबीजानां बीजस्य मार्कवस्य च ॥ १,१०.३ ॥
ग्राह्यं धत्तूरवत् तैलमेकैकस्य पृथक् पृथक् ।
यथा धत्तूरजं तैलं क्वाथाद् घर्मे समुद्धृतम् ॥ १,१०.४ ॥
तथा सर्वत्र तैलानि संग्राह्यान्यौषधान्तरैः ।
{अङ्कोट:: oil}
अङ्कोटस्यापि तैलं स्यात्काकतुण्डया समूलया ॥ १,१०.५ ॥
वाकुचीदेवदाल्याश्च कर्कोटीमूलतः भवेत् ।
अपामार्गकषायेण तैलं स्याद्विषतुण्डजम् ॥ १,१०.६ ॥
मूलक्वाथैः कुमार्यास्तु तैलं जैपालजं भवेत् ।
क्वाथेन रक्तमार्गस्य वाकुचीतैलमाहरेत् ॥ १,१०.७ ॥
क्वाथेन चेन्द्रवारुण्यास्तैलमारग्वधं भवेत् ।
काकतुण्ड्यपामार्गोत्थक्वाथात् तैलं समाहरेत् ॥ १,१०.८ ॥
{कटुतुम्बी:: oil}
बीजानि कटुतुम्ब्याश्च गोमयेन विलोडयेत् ।
शुष्कं धान्यतुषैः सार्द्धं कुट्टयेच्च उलूखले ॥ १,१०.९ ॥
निस्तुषं तं विचूर्ण्याथ भृङ्गराजरसैः सह ।
मर्दयित्वातपे तैलं गृह्णीयात्पीडने सति ॥ १,१०.१० ॥
{oil from कृष्णा and काकतुण्डी}
कृष्णायाः काकतुण्ड्याश्च बीजं चूर्णानि कारयेत् ।
कान्तपाषाणचूर्णं चैकीकृत्य निरोधयेत् ॥ १,१०.११ ॥
धान्यराशिगतं पक्त्वा उद्धृते तैलमाहरेत् ।
धात्रीफलरसैर् भाव्यं चूर्णं पाषाणबीजकम् ॥ १,१०.१२ ॥
दिनैकं च ततो यन्त्रे तैलं ग्राह्यं च तैलके ।
{oil:: from गुञ्जा and करञ्ज}
गुञ्जाकरञ्जफलं च नरमूत्रेण भावयेत् ॥ १,१०.१३ ॥
सप्तवारं ततो घर्मे लेपयेत्कांस्यभाजनम् ।
उद्धृत्य धारयेद् घर्मे तैलं पतति पीडनात् ॥ १,१०.१४ ॥
{oil:: ज्योतिष्मती}
वर्धमानारनालेन पिष्ट्वा चूर्णं विभावयेत् ।
ज्योतिष्मत्युत्थबीजानाम् आतपे तैलमाहरेत् ॥ १,१०.१५ ॥
{oil:: पुत्रजीव}
पुत्रजीवस्य बीजानां चूर्णम् अगस्त्यबीजजम् ।
आम्रातवत्प्रकर्तव्यं ततस्तैलं पृथक् पृथक् ॥ १,१०.१६ ॥
{oil:: बिल्व}
नारिकेलाम्बुना भाव्यं बिल्वबीजस्य चूर्णकम् ।
दिनैकं तैलयन्त्रेण तैलमाकृष्य योजयेत् ॥ १,१०.१७ ॥
{oil:: अङ्कोल}
निस्तुषाङ्कोलबीजानां सुखं किंचिद् विघर्षयेत् ।
प्रलेपयेत्कांस्यपात्रे पिष्ट्वा चणकलेपने ॥ १,१०.१८ ॥
तन्मुखे टंकणं चूर्णं किंचित् किंचित् प्रलेपयेत् ।
धारयेदातपे तीव्रे मुखात् तैलं समाहरेत् ॥ १,१०.१९ ॥
{केशतैल}
शमीचूर्णसमं पिष्ट्वा छिद्रमाण्डे निवेशयेत् ।
छिद्राधः स्थापयेद् भाण्डं छिद्रे केशं च दापयेत् ॥ १,१०.२० ॥
जलेन सेचयेद्द्रव्यं छिद्राधो ग्राहयेच्च तम् ।
तन्मध्ये धृतकेशस्य क्षिपेदूर्ध्वं पुटं शनैः ॥ १,१०.२१ ॥
तत्क्षणाच्छ्रवरूपं च केशतैलमिदं भवेत् ।
{oil:: extraction (gen.)}
अपक्वभानुपत्राणां रसमादाय भावयेत् ॥ १,१०.२२ ॥
समस्तं बीजचूर्णं चोक्तानुक्तं पृथक् पृथक् ।
आतपे मुच्यते तैलं साध्यासाध्यं न संशयः ॥ १,१०.२३ ॥
{oil}
तथैवोत्तरवारुण्याः कषायेण समाहरेत् ।
तैलं समस्तबीजानां ग्राहयेदातपे खरे ॥ १,१०.२४ ॥
{oil}
सर्वबीजास्थिमांसानां शुष्कं पिष्ट्वा ह्यनेकधा ।
सर्वबीजेषु वा तैलं ग्राह्यं पातालयन्त्रके ॥ १,१०.२५ ॥
{oil}
वंशादिसर्वकाष्ठानां नारिकेलकपालकम् ।
तुषधान्यादिबीजानां गर्भयन्त्रेण तैलकम् ॥ १,१०.२६ ॥
ग्राहयेत्सर्वबीजानां तं च योगेषु योजयेत् ॥ १,१०.२७ ॥
{वत्सनाभ}
वत्सनाभं विषं स्वादु दीपनं कफवातजित् ।
त्रिदोषशमनं योगयुक्तं सुधामयं भवेत् ॥ १,१०.२८ ॥
बृंहणं बलवीर्यस्य वाडबाग्निशतोपमम् ।
सन्निपाते प्रतीकारे प्रभवः प्रभवोऽस्य हि ॥ १,१०.२९ ॥
उद्धृतं फलपाकान्ते नवं स्निग्धं घनं गुरु ।
अव्यापकं विषहरं वातातपविशोषितम् ॥ १,१०.३० ॥
रक्तसर्षपतैलेन लिप्तं वाससि धारयेत् ।
अथवापि यथा प्राप्तं विषं गोमूत्रसंयुतम् ॥ १,१०.३१ ॥
आतपे त्रिदिनं शुष्कं निहितं वीर्यधृक् भवेत् ।
मृतं सूताभ्रकं लौहं विषं च तुल्यवीर्यकम् ॥ १,१०.३२ ॥
तस्माद्विषं योगवाहे योज्यं योगे रसायने ।
तानि चैव तु मानानि अष्टौ षड्वा चतुर्थकम् ॥ १,१०.३३ ॥
मात्रात्रयं समाख्यातमुत्तमाधममध्यम् ।
दातव्यं सर्वरोगेषु घृताशिने हिताशिने ॥ १,१०.३४ ॥
क्षीराशिने प्रदातव्यं रसायनवते नरे ।
न क्रोधिने न पित्ताढ्ये न क्लीबे राजयक्ष्मणि ॥ १,१०.३५ ॥
क्षुत्तृष्णाश्रमकर्माध्वशोषिणे क्षयरोगिणे ।
गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥ १,१०.३६ ॥
न दातव्यं न भोक्तव्यं विसंवादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥ १,१०.३७ ॥
अनेन मन्त्रेण मर्दयेद्भूमौ न स्थापयेत् ।
अमृतमिति वदेदिति क्रमोऽयम् ।
ओं सिद्धगुरुभ्यो नमः ।
परमगुरुभ्यो नमः ।
परात्परगुरुभ्यो नमः ।
परमेष्ठिगुरुभ्यो नमः ।
{वेगेतब्ले पोइसोन्स्}
सक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् ।
वत्सनाभं च कूर्मश्च श्वेतशृङ्गी तथाष्टमम् ॥ १,१०.३८ ॥
इत्यष्टौ योजयेद्योगे कालकूटादि वर्जयेत् ।
{पोइसोन्स्}
कालकूटं मेषशृङ्गी हालाहलं च दर्दुरम् ॥ १,१०.३९ ॥
कर्कटं मर्कटं ग्रन्थि हारिद्रं रक्तशृङ्गकम् ।
केशवं दशमं चेति वर्जनीयं भिषग्वरैः ॥ १,१०.४० ॥
सक्तुकाद्यान् प्रयुञ्जीत सर्वरोगे रसायने ।
एतद्विषं जातिचतुष्टयं च विचार्य योज्यं भिषगुत्तमेन ॥ १,१०.४१ ॥
विप्रो रक्षति यौवनं नरपतिस्तद्भूतले पालतां वैश्यः कुष्ठविनाशने च कुशलः शूद्रो हरेज्जीवनम् ।
तस्माच्चापि भिषग्वरेण निपुणैस्तद्वेदिना भावयेत् कुर्यादेव ततो विषं नृपवरो मृत्युंजयाय क्षितौ ॥ १,१०.४२ ॥
श्वेता वा यदि वा पिङ्गा मधुरा ऊषरापि वा ।
लोमशा ब्रह्मजातिः स्यात्क्षत्रजातिस्तु लोहिता ॥ १,१०.४३ ॥
पीता वा मधुरा किंचिद् वैश्यजातिस्तु धूसरा ।
कृष्णा शूद्रस्य दृश्येत एतेषां च भिषग्वरैः ॥ १,१०.४४ ॥
क्षीरं सम्पूर्णभाण्डेऽपि विषं दत्त्वा विचिन्तयेत् ।
जायतेऽपि यदा वर्णं तदा जातिं विनिर्दिशेत् ॥ १,१०.४५ ॥
शुक्लं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् ।
ब्रह्मक्षत्रविट्शूद्राणां ज्ञातव्यो जातिनिर्णयः ॥ १,१०.४६ ॥
क्षिप्तं दुग्धे विषं वैद्यो जानीयात् क्रमशो यदि ।
श्वेतं रक्तं तथा पीतं कृष्णं चोष्णलमेव च ॥ १,१०.४७ ॥
तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् ।
विषेषु जङ्गमाख्येषु विषं नागभवं हितम् ॥ १,१०.४८ ॥
इदमेव महाश्रेष्ठं त्रिदोषक्षपणं क्षणात् ।
दीपनं कुरुते सद्यो वडवाग्निशतोपमम् ॥ १,१०.४९ ॥
संनिपातप्रतिकारे प्रभावः प्रभवो हि सः ॥ १,१०.५० ॥
नागोद्भवं यथाप्राप्तं विषं गोमूत्रसंयुतम् ।
आतपे त्रिदिनं शुष्कं निहितं वीर्यधृग् भवेत् ॥ १,१०.५१ ॥
अतिमात्रं यदा भुङ्क्ते तदार्ज्य टङ्कणं पिबेत् ।
रजनी मेघनादा वा सर्पाक्षी वा घृतान्विता ॥ १,१०.५२ ॥
लिहेद्वा मधुसर्पिर्भ्यां चूर्णिताम् अर्जुनत्वचम् ।
पुत्रजीवकमज्जां वा पिबेद्वा निम्बकद्वयम् ॥ १,१०.५३ ॥
एवं विषविधिः ख्यातः प्रयोगं च वदाम्यहम् ।
विषं त्रिकटुकं मुस्तं हरिद्रानिम्बपत्रकम् ॥ १,१०.५४ ॥
विडङ्गम् अष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी ख्याता स्याज्जया योगवाहिका ॥ १,१०.५५ ॥
विषं पाठाश्वगन्धाश्च बला तालीसपत्त्रकम् ।
मरिचं पिप्पली निम्बमजामूत्रेण तुल्यकम् ॥ १,१०.५६ ॥
वटिका पूर्ववत्कार्या वटिका योगवाहिका ।
निद्रां तन्द्रां क्लमं दाहं सफेनं लोमहर्षणम् ॥ १,१०.५७ ॥
शोषं चैवातिसारं च कुरुते जङ्गमं विषम् ।
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ॥ १,१०.५८ ॥
फेनछर्द्यरुचिश्वासं मूर्च्छां च कुरुते विषम् ।
न जानाति यदा मन्त्री विषं भक्षेच्चिकित्सितम् ॥ १,१०.५९ ॥
विषमेव तदादाय मज्जत्यम्बुनिधाविव ।
तस्माद्यत्नेन संरक्षेद्राजा विषचिकित्सकात् ॥ १,१०.६० ॥
प्रथमं वह्निखर्परिकायां मनाग्भृष्ट्वा वक्ष्यमाणमन्त्रेण निर्विषं विधाय गृह्णीयादिति ।
निम्बुद्रवे पित्तं वारत्रयं विभाव्य प्रक्षाल्य संशोष्य गृह्णीयादिति ।
{शिलाजतु:: ओरिगिन्}
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु ॥ १,१०.६१ ॥
{शिलाजतु:: medic. properties}
अनघं चाल्पकषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥ १,१०.६२ ॥
{शिलाजतु:: from Gold:: medic. properties}
हेम्नोऽथ रजतात्ताम्राद्वरं कालायसाद् अपि ।
मधुरं च सतिक्तं च जपापुष्पनिभं च यत् ॥ १,१०.६३ ॥
विपाके कटु शीतं च तत्सुवर्णस्य निसृतम् ।
{शिलाजतु:: from Silver:: medic. properties}
राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते ॥ १,१०.६४ ॥
{शिलाजतु:: from copper:: medic. properties}
ताम्राद् बर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु ।
{शिलाजतु:: from Iron:: medic. properties}
यच्च गुग्गुलुसंकाशं सतिक्तं लवणान्वितम् ॥ १,१०.६५ ॥
विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ।
गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकाः ॥ १,१०.६६ ॥
रसायनप्रयोगेषु पश्चिमं तु विशिष्यते ।
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ॥ १,१०.६७ ॥
विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ।
{शिलाजतु:: फ्य्स्. properties}
लौहः किट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ॥ १,१०.६८ ॥
तृणाद्यग्रे कृतं श्रेष्ठम् अधो गलति तन्तुवत् ।
दंशदंष्ट्रौषधादिदोषहरणार्थं मेषशृङ्गं भूर्जपत्रेण धूपयेत् ।
क्वाथ्यद्रव्यं शिलाजतुसमं चतुर्गुणेन जलं दत्त्वा चतुर्भागावशेषेण भावयेद् इत्येकः पक्षः ।
वाग्भट्टस्तु अष्टगुणजलदानेनाष्टावशेषे पूर्ववदुभयथैव व्यवहारः ।
भद्रशिलाजतु त्रिफलादशमूलोष्णक्वाथे निक्षिप्य ।
केवलोष्णोदके वा स्थिते ऊर्ध्वं वीभूते पद्धपत्रवत् सर्वं ग्राह्यम् ।
ततः शिवागुडिकोक्तक्रमेण भावनां दत्त्वा विशोध्य सालसारादिना भावयेद्यथा ।
सालयुग्मौ करञ्जौ द्वौ खदिरं चन्दनद्वयम् ।
गर्दभाण्डोऽर्जुनश्चेह लोध्रयुग्मधवासनाः ॥ १,१०.६९ ॥
शिरीषागुरुकालीयपूगपूतिककर्कटाः ।
सालसारादिरप्येष गणः श्लेष्मगदापहः ॥ १,१०.७० ॥
मेहगुल्मार्शःकुष्ठारिमेदःपाण्डुरुजापहः ।
एभिर्दिवातपे शोष्यं रात्रौ रात्रौ च भावयेत् ॥ १,१०.७१ ॥
द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् ।
भवेत् प्रमाणं निर्दिष्टं भिषग्भिर् भावनाविधौ ॥ १,१०.७२ ॥
भवेद्द्रव्यं समं क्वाथ्यं क्वाथं चाष्टावशेषितम् ।
तेनार्द्रसमं द्रव्यं शोषयेत्प्रबलातपे ॥ १,१०.७३ ॥
दग्धहीरकं योज्यं निक्षिप्याग्नौ ध्मापयित्वा निर्गुण्डीरसेन सप्तवारान् निर्वाप्य प्रक्षाल्य च गृह्णीयात् ॥ १,१०.७४ ॥
जायन्ते वामरुक्वाथे जनपदे ग्रीष्मेऽर्कतापार्दिताः ।
शीतोषणे शिशिरे च गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा ॥ १,१०.७५ ॥
हेमाभं महिषाक्षतुल्यमपरं तत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिं च विधिना ग्राह्या परीक्ष्या ततः ॥ १,१०.७६ ॥
वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसा समानाः ॥ १,१०.७७ ॥
ग्राह्याः शुभाः परिहरेच्चिरकालजातान् अङ्गात्स्फुटं खर्परगन्धिकतुल्यवर्णान् ॥ १,१०.७८ ॥
{गुग्गुलु:: medic. properties}
स्वादे स्वादुः कषायतिक्तकटुको वीर्ये विपाके कटुः ।
वृष्यो मार्गविशोधनेऽतिविशदस्तीक्ष्णो विकाशी सरः ॥ १,१०.७९ ॥
सायुष्यः स्वरदस्त्रिदोषशमनो मेधास्मृतिश्रीकरः ।
धन्यः पापनिसूदनोऽग्निजननो हृत्कण्ठशोधीपुनः ॥ १,१०.८० ॥
{गुग्गुलु:: शोधन}
दशमूलक्वाथे उष्णे पूते गुग्गुलुं परिक्षिप्यालोड्य च वस्त्रपूतं विधाय चण्डातपे विशोष्य घृतं दत्त्वा पिण्डितव्यम् ॥ १,१०.८१ ॥
{conch:: शोधन}
शंखनाभिं तथाम्लेन सप्तवारं हि भावयेत् ।
रौद्रे मलादिकं त्यक्त्वा प्रक्षाल्य ग्राहयेदिति ॥ १,१०.८२ ॥
{money cowrie :: शोधन}
वराटीं तक्रचाङ्गेरीजम्बीराणां रसे शुभे ।
प्रक्षिप्य भावयेत्तावद्यावच्छुक्ला न पश्यति ॥ १,१०.८३ ॥
पश्चादुद्धृत्य गृह्णीयाद् वराटीं शुद्धिमागताम् ॥ १,१०.८४ ॥
{pearl :: शोधन}
भौमिकं जलम् आदाय मुक्तां च व्युषितामपि ।
त्यक्त्वा मलादिकां तां च प्रक्षाल्य ग्राहयेदिति ॥ १,१०.८५ ॥
"https://sa.wikisource.org/w/index.php?title=रसरत्नाकरः/खण्ड_१&oldid=162708" इत्यस्माद् प्रतिप्राप्तम्